सम्भाषणम्:मत्स्यपुराणम्/अध्यायः ८२

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिस्रोतः तः

"ॐ या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता। धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु॥ ॐ देवस्था या च रुद्राणी शङ्करस्य या प्रिया। धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु॥ ॐ विष्णोर्वक्षसि या लक्ष्मीर्या लक्ष्मीर्धनदस्य च। या लक्ष्मीः सर्वभूतानां सा धेनुर्वरदास्तु मे॥ ॐ चतुर्मुखस्य या लक्ष्मीः स्वाहा चैव विभावसोः। चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये॥ ॐ स्वधा त्वं पितृसंघानां स्वाहा यज्ञभूजां यतः।