सदस्यसम्भाषणम्:संजय विद्यालंकार
विषयः योज्यताम्शिक्षाऽऽयोग:(कोठारी आयोग: 1964-66)
1964 ख्रिष्टाब्दे जुलाईमासे चतुर्दशनदनाङ्के विश्वविद्यालयानुदानायोगस्य प्रधानाचार्यस्य प्रो.डी कोठारीमहाभागस्य अध्यक्षतायां शिक्षाऽऽयोगस्य नियुक्ति:अभवत्। अयमेव आयोग: कोठारी आयोग: इति कथ्यते।
अयम् आयोग: स्वप्रतिवेदने निम्नप्राथमिकस्तरे मातृभाषा- क्षेत्रीयभाषा- प्रादेशिकभाषासु एकस्या एव स्थानं भवेत् इति परामृष्ठवान्। उच्चप्राथमिकस्तरे मातृभाषाप्रादेशिकभाषयोरेका, हिन्दी आङ्गलभाषयोरेका च , इत्थं द्वे भाषे एवं निर्धारिते । माध्यमिकस्यरे मातृभाषा/प्रादेशिकभाषा ,आङ्गलभाषा हिन्दीभाषाचेति तिस्र: भाषा: निर्धारिता: । उच्चस्तरे आङ्गलभाषाया: विशिष्टमहत्वेन सह शिक्षाया: माध्यमोऽपि आङ्गलभाषा स्यात् इति प्रस्तावितम्।
आयोग: शास्त्रीयभाषाणम् अध्ययनस्य महत्वं स्वीकृत्य राष्ट्रियशिक्षाप्रणाल्यां संस्कृतं विशिष्टं स्थानं धारयति इत्युक्तवान्। परन्तु त्रिभाषासूत्रे संस्कृताय पृथक् स्थानं नैव दत्तवान् ,अपितु मातृभाषाया: संस्कृतस्य च एक: संयुक्तपाठ्यक्रम: स्यात् इति स्वीचकार:। विद्यालयेषु विश्वविद्यालयेषु च संस्कृतं केवलं वैकल्पिकविषयत्वेन पाठनीयम् इति प्रत्यपादयत्।।
Start a discussion with संजय विद्यालंकार
Talk pages are where people discuss how to make content on विकिस्रोतः the best that it can be. Start a new discussion to connect and collaborate with संजय विद्यालंकार. What you say here will be public for others to see.