सदस्यः:Vedp99706
क्रियानुसन्धानम्
सम्प्रति शिक्षा प्राचीनदृष्टिकोणं विहाय नवीनदृष्टिकोणं धारयन्ती दरीदृश्यते।एतेन नवीनशैक्षिकसिध्दान्तानाम्, आधुनिकविधीनां, नवीनपरीक्षणानां च , प्रतिपादनं जायमानं वर्तते। एतेषां सर्वेषाम् एकमेवकारणम् - निरन्तरम् अनुसन्धानम् इति। एतादृशमौलिकानुसन्धानानां कारणत: अद्य शिक्षाया: सैध्दान्तिकपक्ष: अत्यन्तं शक्तिशाली सुदृढश्च जायमानो विद्यते। परन्तु अद्य सैध्दान्तिकपक्षस्य दृढताकारणत: शिक्षासम्बध्दसमस्यानां समाधानं पूर्णतया तु भवितुं नार्हति। यदि वस्तुत: शिक्षा प्रभावशालिनीं सर्वतोन्मुखिनीं कर्तुम् इच्छाम: , तर्हि तत्र क्रियात्मकस्य व्यावहारिकस्य च पक्षस्य यथोचितं महत्त्वं कल्पनीयम्।इदानीं शिक्षाया: सैध्दान्तिकपक्ष: एव केवलं प्रभावशाली भवेदिति नास्ति, अपि तु विद्यालयीयकार्यप्रणालीनां कथं संशोधनं परिवर्तनं च सम्पादनीयं , कथं सा कार्यप्रणाली सामर्थ्ययुक्ता महत्तवपूर्णा च भवेत् , तस्या: विविधपक्षा: कथं छात्रानुकूला: विधेया: ,सङ्घटने कथं सौष्ठवं सम्पादनीयं , नित्यव्यावहारिकसमस्यानां समाधानार्थं कथं सा समर्था स्यात् इत्यादीनां पूर्वोक्तानाम् उद्देशानां पाप्तये एकमेव साधनं शिक्षाक्षेत्रे दृश्यते- क्रियानुसन्धानम् इति । अनेकशिक्षणसम्यानां समाधानार्थं क्रियानुसन्धानस्य शिक्षाप्रक्रियायां महत्तवपूर्णयोगदानं विद्यते। शिक्षणे आगम्यमानानां समस्यानां वैज्ञानिकपध्दत्या अत्र गभीराध्ययनं विधाय तत्समाधानं परिवर्तनोपाया: च सूच्यन्ते ।
*क्रियानुसन्धानस्य अर्थ:*
विद्यालयीयकार्यप्रणाल्या: परिष्कारार्थं परिवर्तनार्थं च एष: कश्चन महत्त्वपूर्ण: विधि:। एतस्य अनुसारं शिक्षक: स्वशिक्षणसमस्या: समाधातुम् अस्य प्रयोगं कुरूते। प्रधानाचार्य: विद्यालयीयसमस्यां समाधातुं वैज्ञानिकाध्ययनेन तत्र परिवर्तनं सम्पादयति। इयञ्च क्रियानुसन्धानप्रक्रिया, समस्या केन्र्दिता भवति। शोधकार्यप्रणाल्यां विद्यमानसमस्या: समाधाय, तत्र परिवर्तनस्य आनयनम् एतस्या: केवलम् उद्देश्यं न, अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षाया: तादृशदैनिकसमस्यानां समाधानम् अध्यापक: स्वसहयोगिनां साहाय्येन प्रभाविरूपेण प्रस्तौति। एतेन शिक्षाम् अधिकोपयोगिनीं विधाय शैक्षिकसमस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरुपेण प्रामाणिकरूपेण च प्रस्तूयते।
*क्रियानुसन्धानस्य परिभाषा:*
विद्यालयीयजनै: स्वस्य विद्यालयस्य च समस्यानां वैज्ञानिकाध्ययनं कृत्वा, स्वक्रियाया: विद्यालयस्य च कार्यप्रणाल्या: परिष्कार: एव क्रियानुसन्धानस्य सामान्यार्थ: । क्रियानुसन्धानस्य अर्थम् इत:अपि स्पष्टयितुम् अत्र केषाञ्चन शिक्षाविदां विचारा: परिभाषारूपेण प्रस्तूयन्ते। तद्यथा-
*1. कोरे* महाशयानुसारं स्वकार्याणां परिष्कारार्थं कार्यकर्तृभि: शिक्षायां कृतानुसन्धानमेव क्रियानुसन्धानम् इत्युच्यते। *2. शिक्षानुसन्धानम्* इत्यनुसारं - क्रियानुसन्धानं तादृशं किञ्चन अनुसन्धानं यत्र , कश्चित् व्यक्तिविशेष: अधिकप्रभावशालिरूपेण स्वीयान् उद्देशान् प्राप्तुं शक्नोति इति।