सदस्यः:Shriramjha
सम्प्रेषणं विना शिक्षायाः शिक्षणस्य च कल्पना कर्तुन्न शक्यते | ` सम्प्रेषणम् ' इति पदम् आङ्ग्लभाषायाः ` COMMUNICATION ' इत्यस्य पदस्य पर्यायपदम् अस्ति | लैटिन् भाषायाः ` COMMUNISE ' इति पदात् निष्पन्नोऽयं ` COMMUNICATION ' इति शब्दः (COMMON) सामान्यं इति COMMUNISE इति पदस्यार्थः | अतः उच्यते- सम्प्रेषणम् एका तादृशी प्रक्रिया, यत्र व्यक्तिः परस्परं सामान्यावबोधमाध्यमेन आदानप्रदानार्थं प्रयतते | "सम्प्रेषणमित्यस्यार्थः परस्परसूचनानां विचाराणां आदानप्रदानम्" ऐण्डरसन् महाभागानुसारम्- "सम्प्रेषणं काचित गतिशीलप्रक्रिया, यत्र व्यक्तिः चेतनाचेतनावस्थयोः वा अन्येषां विचारान् साङ्केतिकरूपेण उपकरणैः प्रभावयति" इति |
शैक्षिकोद्देश्यानां प्राप्तये सम्प्रेषणमत्यन्तं सहायकं भवति | अत्र शिक्षकः सन्देशदाता, छात्रः सन्देशग्रहीता च भवति, सन्देशो नाम अत्र पाठ्यक्रमः पाठ्यसहगामिनी क्रिया वा भवति | शिक्षकः छात्रेषु विषयवस्तुं स्पष्टयितुं शैक्षिकसम्प्रेशणे शाब्दिकाशाब्दिकयोः द्वयोरपि सम्प्रेषणयोः प्रयोगं कृत्वा छात्रान् विषयवस्तुम् अवगम्य साफल्यप्राप्तये प्रयतते | अनेन तस्य शिक्षकस्य शिक्षणं सफलं प्रभावी च जायते | प्रभावीशिक्षणार्थं प्रभावीशैक्षिकसम्प्रेषणम् अनिवार्यं भवति | डाॅ. गुप्तामहोदयानुसारम् - "शैक्षिकसम्प्रेशणे छात्रेभ्यः विभिन्नशैक्षिकनियमानां, सिद्धान्तानां, नीतीनां, शिक्षणविधीनां, प्रविधीनां निर्देशनपरामर्शादिविषये शिक्षणं प्रदियते | एतदर्थं शिक्षकः पाठ्यवस्तुविश्लेषणं, सम्प्रेषणप्रक्रियाप्रयोगं च कुरुते | सम्प्रेषकसङ्ग्राहकयोर्मध्ये सम्प्रेषणप्रक्रियायाः कारणात् एते निम्नाङ्कितसम्बन्धाः भवन्ति | यथा - १. उन्मुखीकरणम् | २. तदनुभूतेर्विकासः | ३. प्रतिपुष्टिः | ४. भौतिकनैर्भर्यम् | ५. विश्वसनीयता | ६. अन्तःक्रिया |
संस्कृतशिक्षणाधिगमप्रक्रियायां छात्रशिक्षकयोः उभयोः क्रियमाणकार्यक्षेत्रे सम्प्रेषणम् प्रमुखसाधनत्वेन कार्यं निर्वहति | सम्प्रेषणमेव छात्रं शिक्षकञ्च एकत्र बद्ध्वा स्थापयितुं तौ प्रभावयितुं चात्यन्तं प्रमुखस्थानं भजते | शिक्षकः सैद्धान्तिक- रूपेण शिक्षणनिमित्तं स्वपाठयोजनां निर्माति | शिक्षणविधीनां, नीतीनां, प्रविधीनाञ्च प्रयोगार्थं विचारयति स्वविचारानुसारं योजनानुगुणञ्च शिक्षणार्थं एतान् कार्यान्वितान् कर्तुं सम्प्रेषणानां प्रयोगं कृत्वा छात्रान् विषयवस्तुम् अवगम्य साफल्यप्राप्तये प्रयतते | एतदर्थं शिक्षकः सम्प्रेषणकलायां निपुणः भवेत् | यावत् पर्यन्तं शिक्षकः सम्प्रेषणकलायां निपुणः न भवति, तावत् पर्यन्तं सः स्वीयशिक्षणं सक्रियं प्रभावयुक्तञ्च कर्तुन्न शक्नोति | शैक्षिकसम्प्रेशणे अधिकतया द्विपाक्षिकसम्प्रेषणस्य प्रयोगः क्रीयते | एतादृशसम्प्रेषणं छात्रान् शिक्षणाधिगमप्रक्रियायाम् अधिकक्रियाशीलान् सम्पादयति | छात्राः शिक्षकस्य पुरतः स्वसन्देहान् प्रस्तूय तत्समाधानं प्राप्नुवन्ति, कठिनाम् अनवगम्यविषयाणां स्पष्टतां प्राप्तुं छात्राः समर्थाः भवन्ति | शिक्षकोऽपि सम्प्रेषणमाध्यमेन स्वशिक्षणस्य प्रतिपुष्टिं प्राप्नोति, अनेन सः स्वशिक्षणं प्रभावी कर्तुं शक्नोति | यः शिक्षकः सम्प्रेषणकलायां यावान् कुशलः निपुणश्च तस्य शिक्षणं तावत् सोद्देश्यपूर्णं तथा प्रभावयुक्तञ्च भवति | अतः अत्र कोऽपि शंका न विद्यते यतेतत् समप्रेषणं शिक्षणस्य कृते महत्वपूर्णं तथा अनिवार्यं वर्तते |