सदस्यः:Manoranjan chhura
शिक्षया व्यक्तित्वविकासः
शिक्षा काचित् गतिशीलाप्रक्रिया भवति । एषा गतिशीला प्रक्रिया मानवानां अन्तर्निहितशक्तीनां बहिरानयनं करोति । समाजे शिक्षायाः प्राधान्यं अत्यधिकमस्ति । किमर्थमित्युक्ते शिक्षया व्यक्तित्वविकासः जायते इत्यतः यत् वस्तु अभिव्यक्तं सत् दृष्टिगोचरं भवति तत् व्यक्तिपदेन कथयति । व्यक्तिपदेन पृथक् स्थितः मानवः अभिप्रेयते।तस्य यः भावः असाधारणः वर्तते सः एव व्यक्तित्वपदेन उच्यते । समूहात् एकैकं पृथक् सूचयितुं यः धर्मः वर्तते सः धर्मः एव व्यक्तित्वम् । व्यक्तौ मानवे स्थिताः ये साधारणाः असाधारणाः च गुणाः ते तम् अन्येभ्यो मानवेभ्यो पृथक् कृत्वा प्रदर्शयन्ति।तेषां धर्माणां समुदाय एव मानवगतव्यक्तित्वेन अवगम्यते । वस्तुतः मानवगतव्यक्तित्वः शिक्षया एव जायते । यथा - स्थिरचित्तो स्थिरचित्तत्वम् , उत्साहः मृदुस्वभावः, कारुण्यम् , उत्तरदायित्वम् , साहसम् , अतिमात्रभाववंशगतत्वं , मैत्री , धैर्यं , दास्यबुद्धिः , अधिकारप्रियत्वं , विषादशीलत्वं , किन्नराश्चैव , पृथक्वर्तित्वम् , कल्पनालोकसञ्चारित्वम् , संशयशीलत्वम् इत्येते मानवप्रकृतिविशेषेषु अन्तर्भवन्ति ।शिक्षया मानवाः समूहे जीवितुम् एवं स्वीय विकारान् प्रकटयितुं च शक्यते ।शिक्षया व्यक्तित्वविकासः जायते परन्तु मानवाः परिश्रमः अपि न कुर्वन्ति चेत् व्यक्तित्वविकासः सम्यक् न जायते तत् सुभाषितरूपेण उक्तं वर्तते –
“ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।” इति ।मानवाः शिक्षायाः द्वारा परिश्रमः अपि कुर्वन्ति चेत् सुष्टुप्रकारेण व्यक्तित्वविकास: जायते । मानवेषु परस्परविरुद्धाः गुणाः सन्ति । व्यक्तित्वं समीचीनं सुष्टु सङ्कलितं च भवति इत्यतः अस्यैवापरं नाम सङ्कलितव्यक्तित्वम् इति । छात्रेषु सङ्कलितव्यक्तित्वाभिवर्धनम् अध्यापकानां समाजस्य च उद्देश्यम् , मातापित्रोः प्रीतिः गुरूणां वात्सल्यं ,परेषां मैत्री , स्वातन्त्र्यम् इत्येते अपि अंशाः बलैः न लभ्यते चेत् तर्हि तेषां मनसि किमपि कष्टं जायते । ततश्च असमीचीनं व्यक्तित्वं भवेत् । यस्यबालकस्य बुद्धिशक्तिः संवेगः दक्षता च समावस्थां प्राप्य शोभनं साध्यं च लक्ष्यमुद्दिश्य प्रवर्तते तस्य व्यक्तित्वं समीचीनं स्यात् । उपदेशः , सान्त्वनं सन्मार्गप्रदर्शनम् ईश्वरविश्वासः भाविनि शुभप्रत्याशा च बालमनसि व्यक्तित्वं सम्यक् उद्भावयेत् । पाठशालायां पाठ्येतरकार्याणि बालानां व्यक्तित्ववर्धने उपकुर्युः । वंशधर्मः परिवेशश्च व्यक्तित्ववर्धने मुख्ये कारणे भवतः । जगति यावन्तः मानवाः सन्ति तावन्तः व्यक्तिप्रभेदाः वर्तन्ते । भगवान् गीतायां सत्वरजस्तमोरूपगुणभेदेन मानवान् व्यस्तं चकार ।
“ रजस्तमश्चाभिभूय सत्वं भवति भारत । रजः सत्त्वं मनश्चैव तमः सत्वं रजस्तथा ।। ”