सदस्यः:Manisha kevat
संस्कृतस्य भाषावैज्ञानिकं स्वरुपम्
वर्णनात्मक - ऐतिहासिक - तुलनात्मकाध्ययनानां माध्यमेन भाषायाः प्रकृतेः विकासस्य उत्पत्तेः संरचनायाः च अध्ययनपूर्वम् एतेषां सर्वेषां विषयाणां सैद्धांतिकः निर्धारणमेव भाषा विज्ञानम् अर्थात् भाषा विज्ञाने भाषायाः उत्पत्तेः तस्याः संरचनायाः विकासस्य तस्याः ह्रासस्य च अध्ययनं क्रियते। मानव केन प्रकारेण वदति? तस्य उपभाषासु च केन केन हेतुना कदा कदा च परिवर्तनं भवति । एतेषां सर्वेषां विषयाणां विधिवत् अध्ययनं क्रियते।अनेन प्रकारेण भाषा विज्ञानस्य माध्यमेन कस्याश्चन भाषायाः वैज्ञानिकाध्ययनं क्रियते।
संस्कृतवैदिकवांग्मये बहूनि रूपाणि प्राप्यन्ते ,येषां प्रयोगः लौकिक संस्कृतेः भाषायाः वा नैव दृश्यते। एतस्यावस्थायां लौकिकः अलौकिकयोः अध्ययने करोति।भाषाविज्ञानम् भाषा वैज्ञानिकानां प्रयोगेण एव सुनिश्चितं जातं यत् संस्कृत-पाली-प्राकृतानां भाषाणां मूलम् एकमेव अस्ति।
संस्कृतसाहित्यस्य वैज्ञानिकमध्ययनं करोति।भाषाविज्ञानम् इत्थं भाषाविज्ञाने ध्वनेः उच्चारणोपयोगितानां उच्चारणोपयोगिनां स्वरः यत्र मुखजिह्वादि अङ्गानां संज्ञा-सर्वनाम-क्रिया-विशेषणादिनां नामाख्यात्।उपसर्गः निपातानां पदपदार्थः विषयकानां विकारादिनां अन्येषां विविध -विषयाणाञ्च अध्ययनं करोति।
पाणिनीय शिक्षायां वर्णानां विभागः कृतं स्यात् यथा स्वरतः कालतः स्थानात् आभ्यान्तर प्रयत्नात् बाह्यप्रयत्नात् संस्कृतभाषा विषयकः वर्णोत्पत्ति सिद्धान्तस्य अतीव वैज्ञानिकनिरुपणं कृतम्। भाषा विज्ञानस्य पञ्च अङ्गानि सन्ति यथा- ध्वनिविज्ञानम् ,पदविज्ञानम् ,वाक्यविज्ञानम् ,अर्थविज्ञानम् , प्रोक्तिविज्ञानम् च ।