सदस्यः:KKP708
।।वास्तु प्रकरणम्।।
अथ गृहनिर्माण प्रयोजनं भविष्यपुराणे
श्लोक- गृहस्थस्य क्रियास्सर्वा न सिद्धयन्ति गृहं विना।
सु० - गृहस्थस्येति । यतो यस्मात्कारणात् गृहस्थस्य गृहिणाः सर्वाः सकलाः, क्रियाः कार्याणि, गृहं विना भवनमन्तरा, न सिद्धयन्ति न सफलीभवन्ति इति गृहं आवश्यकम् अस्ति।
अथ मुहूर्त चिन्तामणौ
श्लोक - यदुभं द्वयङ्कसुतेशदिङ् मितमसौ ग्रामः शुभो नामभात् । - एतेन नामभात् नामराशेः व्यावहारिकनामराशेरित्यर्थः, सकाशात् द्वितीय पञ्चमनवमदशमैकादशमितं यद्ग्रामभं स प्रायः शुभः तदतिरिक्तराशिरशुभकर इति ।
अथ कि नाम कुत्र ग्राह्यमित्यत आह??
काकिण्यां वर्गशुद्धौ च द्यूते वादे गृहे तथा । मन्त्रे पुनर्भूवरणे नामराशेः प्रधानता ||
सु० - काकिण्यामिति । काकियां काकिणीविचारे, वर्गशुद्धी वर्गशुद्धि विचारे, द्यूते द्यूतक्रीडायां वादे द्वयोः परस्परविवादे, गृहे गृहारम्भप्रवेशादिविषये, मन्त्रे मन्त्रग्रहणे, पुनर्भूवरणे दिधिषूवरणे ( पुनर्भूदिधिषू रूढेत्यमरः ), नाम राशेः व्यावहारिकनामराशेः, प्रधानता प्रधानत्वं भवतीति शेषः।
श्रथ गृहदशाज्ञानप्रकारः -
गज ८ शर ५ र्तु ६ युगा ४ अश्व ७ मही १ गुणा ३ द्वि २ सहिता मघवादिदिशः क्रमात् । गृहपतेरभिधा पुरदिङ्मिता वसुहृता भवनस्य दशा भवेत् ॥
रविनिशा करमङ्गल चन्द्रजाः शनिबृहस्पतिराहु कविग्रहाः ।
सु० – गजेति । गजशरर्तुयुगाश्वमहीगुणा द्विसहितास्ते मघवादिदिशः क्रमात् पूर्वादिदिशः क्रमात् अवर्गादेव स्वराङ्काः सन्ति । गृहपतेः गृहस्वामिनः, अभिधा पुरदिङ्मिता नामग्रामदिकस्वराङ्कयोगाः, वसुहृताः अष्टभाजिताः, शेषनिभवनस्य दशा भवेयुः । तासां क्रमेण रविनिशाकरमङ्गलचन्द्रजाः शनिबृहस्पतिराहुकविग्रहाः पतयो भवन्ति ।
उदाहरणम् - यथा “कीर्त्यानन्दः” “जरिसो" संज्ञकग्रामे उत्तरदिशि वसितुमिच्छति । तदाऽत्र "कीर्त्यानन्द" स्य कवर्गस्वराङ्कः पञ्चमितः, “जरिसो” ग्रामस्य चवर्गस्वराङ्कः षट्परिमितः उत्तरदिशः स्वराङ्कः त्रिमितः, त्रयाणां स्वरा झान योगश्चतुर्दशसमो जातः स चाष्टभक्तः शेषं = ६, अतोऽत्र क्रमगणनया उत्तरदिशि "कौर्त्यानन्दस्य गुरोर्दशा आयाताऽतस्तस्योत्तरदिशि वासोऽतीव शोभन: गुरोः शुभग्रहत्वात् ।
अथ लाभालाभ विचारः
स्ववर्गं द्विगुणं कृत्वा परवर्गेण योजयेत् ।
अष्टभिस्तु हरेद् भागं योऽधिकः स ऋणी भवेत् ॥
व्याख्या - वर्गास्तु - "-क-च-ट-त-प-य-श।" इत्यष्टौ, तत्र अ वर्गादिगणनया वास्तु कर्तुर्नरस्य यत्संख्यको वर्गः, तां संख्यां द्विगुणी कृत्य परस्य (ग्रामादेः) वर्गसंख्यायुतां कृत्वा अष्टभिः शेषितमवशिष्टं नरस्य काकिण्यो ज्ञेयाः । एवं ग्रामादेरपि वर्गसंख्यां द्विगुणीकृत्य वास्तुकर्तुर्नरस्य वर्गसंख्यया युतां विधायाऽष्टभिस्तष्टितां कृत्वाऽव शिष्टमिता ग्रामादेः काकिण्यो भवन्ति । एवं द्वयोः (नरस्य, ग्रामस्य च) काकिणीविवरात् यस्याधिका अवशिष्यन्ते सोऽर्थदो भवति ।
उदाहरणम् – यथा- "नन्दलालः" काश्यां वस्तुमिच्छति चेत् तदा अवर्गादिगणनया नन्दलालस्य वर्गसंख्या ५, द्विगुणिता १०, पुनः ग्रामस्य वर्गसंख्या २, अनया युता १२, अष्टभिर्भक्तावशेष ४ मिता नन्दलालस्य काकिण्यः । एवं ग्रामस्य ( काश्याः) वर्गसंख्या २, द्विगुणिता ४, नन्दलालस्य वर्गसंख्या ५, अनया युता ९ , अष्ट भक्तावशेष १ मिता ग्रामस्य काकिणी । अत्र ग्रामस्य काकिणीतो नन्दलालस्य काकिणी संख्याऽधिकास्ति, अतोऽत्र नन्दलालोऽत्रार्थदो जातस्तेन काश्यां वा सेन नन्दलालस्य द्रव्यहानिःभवति इति।।