सामग्री पर जाएँ

सदस्यः:Jaydhar Majhi

विकिस्रोतः तः
अधिगमः Learning

अधिगमप्रक्रिया जन्मतः मृत्युपर्यन्तं प्रचलति । बालः प्रप्रथमं दीपस्य रश्मिं पश्यति । औत्सुक्येन सः रश्मिं प्रति स्वहस्तं प्रसारयति । रस्मेः पार्श्वे हस्ते प्राप्ते सति तेजसः अनुभवो भवति । परिणामस्वरूपं सः रश्मिपार्श्वतः स्वहस्तं वारयति । ततः भविष्ये कदापि सः दीपस्य रश्मिं दृष्टे सति तस्य पार्श्वे शरीरस्य किमपि अंग न नयति । रश्मिं दृष्ट्वौत्सुक्यस्य उद्भवनम् औत्सुक्येनैव दीपस्य रश्मिं ग्रहणस्य प्रयासश्च स्वाभाविकनुक्रिया अस्ति । अनया स्वाभाविकानुक्रियायैव बालस्य अनुभवप्राप्ति भवति, अनेनैवानुभवेन सः ज्ञायते यत रश्मिग्रहणेन हस्तो दहति । भविष्ये दीपक दृष्टे तस्यानुक्रिया पूर्ववत् न भवति । अतः इदानीं स रश्मिपार्श्वे हस्तं न नयति । व्यवहारे परिवर्तनमिदम् अनुभवमाध्यमेनैव आगतमस्ति । वयमिदमपि कथयितुं शक्नुम यत् बालः इदं शिक्ष्यते यत् रश्मिग्रहणे हस्तज्वलनं भवति । अत एव अधिगमस्यार्थः अनुभवेन व्यवहार परिवर्तनमस्ति ।

अधिगमस्य परिभाषाः (Definition of Learning)

1. जी.डी बोज महोदयानुसारम्-“ अधिगमः सा प्रक्रिया अस्ति यया व्यक्तिः विभिन्नाभ्यसनानां, ज्ञानस्य, अभिवृत्तीना अर्जनं करोति, याः जीवनस्यावस्यकतानां पूर्त्तये सामान्यरूपेणावश्यकमं भवति ।”

2. एलेक्जेन्डर महोदयानुसारम्-“ प्राणिना मनोविज्ञानिककार्येषु लक्षणेषु च सतत प्रयतनस्य सा प्रक्रिया भवति, या आन्तरिकै बेहयाई करणयन प्रर्वभयते अनुकूलयते च सहैव समायोजनम् समायोजनस्य अनुरक्षण प्रति निर्देशिता भवति ।”

3. बर्नार्ड महोदयानुसारम्- “क्रिययानुभवेन च व्यवहारे तादृशं परिवर्तनं यत् समयोजनानरीतिम् उन्नतिशिला करोति अधिगमो भवति ।”

4. क्रो-क्रो महोदयानुसारम्- “ज्ञानभि वृत्योरर्जनम् अधिगमो भवति ।”

5. गुलफर्ड महोदयानुसारम्- “व्यवहारेण व्यवहारे कस्याचिदपि प्रकारस्य परिवर्तन मेवाधिगमो अस्ति ।”

6. चार्ल्स ई. स्किनर महोदयानुसारम्- “प्रगतिशीलव्यवहारव्यवस्तापनस्य प्रक्रिया अधिगमो भवति ।”

7. गेट्स अन्ये च- “अनुभवप्रशिक्षणयोः माध्यमेन व्यवहारपरिवर्तनमेव अधिगम अस्ति ।

अधिगमप्रक्रिया (Learning Process) ●अभिप्रेरणयुक्तजन ।

●उद्देस्यपूर्तिमार्गे अवरोधः ।

●उद्देष्यप्राप्तरथं विभिन्नानुक्रियाः ।

●उद्देशयप्राप्तर्थम् अवरोध पारगमनार्थमुपयुक्तानुक्रिया ।

● उद्देश्यप्राप्ति ।

अधिगमस्य सोपनानि (Steps Of Learning)


1. अभिप्रेरणम् (Motivation)- मनुष्यस्य नैका आवश्यकताः भवन्ति । एतासु काश्चन तस्य जीवनमरणयोः सुरक्षायाः आत्मसम्मानस्य वा प्रश्नो भवति । ततः सः अतिक्रियाशीलो भवति ।


2. उद्देश्यम् (Goal)-मानवः व्यवहारं निष्क्रियोजनेन न करोति, अपि तु स आवश्यकतावशेनैव व्यवहारं करोति । अतः एवोक्तमपि- “उद्देश्यमनतिक्रम्य मन्द अपि न प्रवर्तते” इति ।


3. अवरोधः (Obstacle)-उद्देश्यपुर्तौ अवरोधस्य आगमनमधिगमप्रक्रियायाः मुख्यसोपनत्वं भजते । यदि अवरोधस्योपरिस्थितिर्न स्यात् मनवेन स्वपूर्वव्यवहारेण कार्यं कर्तुं शक्यते । पूर्वव्यवहारेण कस्यचित् कार्यसम्पादने का अपि नुतनो अनुभवो न प्राप्यते ।


4. विविधासम्भावितानुक्रिया (Various Exploratary Responses)- बाधां पारंकृत्वा उद्देश्यम यावत गमनार्थं मानवः नैकाः सम्भाविताः अनुक्रियाः करोति । इदमेव सोपानं प्रयत्नत्रुटयोः तर्कस्य वा भवति ।


5. सबलिकरणम् (Reinforcement)-नैकासु संभावितक्रियासु ययोप युक्तया क्रियोद्येश्यपूर्तिर्भवति, या वा अनुक्रिया सन्तोषजनिका सुखप्रदा च भवति सा सबलीकृता भवति । अन्याः सर्वाः असफलाः अनुक्रियाः मानवः विस्मरति,सफलां च क्रियां तया परिस्थित्या सह युद्धाय चिनोति ।

"https://sa.wikisource.org/w/index.php?title=सदस्यः:Jaydhar_Majhi&oldid=337424" इत्यस्माद् प्रतिप्राप्तम्