सदस्यः:Dipakpandey108
विद्या धनं सर्वधनं प्रधानम् इति सर्वैः स्वीक्रियते, यतोहि विद्यया एव सर्वे जनाः सर्वाणि कार्याणि साधयितुं समर्थाः भवन्ति। विद्यां प्राप्य उन्नतिं, कीर्तिं, सुखसमृद्धिं च लभन्ते विद्वांसः। यदुक्तं केनचित् - मातेव रक्षति पितेव हिते नियुक्ते कान्तेव चाभिरमयत्यपनीयखेदम्। लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या।। विद्याधनं व्ये कृते वर्धते, संचायत् च क्षयम् आप्नोति, एतस्माद् इदं अपूर्वम् एव धनं। अत एवोक्तम् - अपूर्वः कोअपि कोषो Sयं विद्यते तव भारति। व्यतो वृद्धिमायाति क्षयमायाति संचयात्।। नृपाः, राष्ट्र-पतयः, मुख्यमंत्रिणः, प्रधानमंत्रिणो अपि विविधविषयविशेषज्ञानां, कवीनां, वैज्ञानिकानां मतिमतां विदुषां समादरं कुर्वाणाः तेषां उत्साहवर्धनं कुवन्ति पुरस्कारैः। अत अस्माभिरपि विद्या पूर्णमनोयोगेन पठनीया, ग्रहणीया विद्याविहीना पशु इति निर्विवादेन सिध्यति। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम् विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥ विद्या अधुना युगे अत्यावश्यकं अस्ति। विद्याविहीन: पशुभि: समान:। विद्यया एव मनुष्या: संसारस्य सर्वश्रेष्ठा: प्राणिन: भवन्ति। विद्या अध्ययनेन मनुष्यस्य बुद्धि: तीव्रा भवति। विद्या विनयं ददाति। विद्या परं दैवतं,परं मित्रं च अस्ति। विदेशेषु अपि विद्या एव बन्धु: अस्ति। विद्यया पात्रतां याति। विद्यया मनुष्य: धनं आप्नोति। धनात् सर्वाणि सुखानि लभते।