सामग्री पर जाएँ

सदस्यः:सरोजिनी माझी

विकिस्रोतः तः

उपनिषदः-

       उपनिषदः परा विद्या इति शब्देन व्यपदिश्यन्ते अध्यात्मविद्यारहस्य प्रतिपादकाः वेद्भागाः उपनिषदः कथ्यन्ते। तासु महर्षयः आध्यात्मिकया विद्यया कथ्यमानानां  रहस्यानां विचाराः प्राप्यन्ते। भारतीयविचार शास्त्रस्य श्रेष्ठोपजीव्यग्रन्थत्वात्  उपनिषदः प्रस्थानत्रयाणां प्रथंप्रस्थान्त्वेन गृह्यन्ते। उपनिषच्छब्दर्थास्य विवृण्यन्ती  श्रीमद्भगवतगीता द्वितीयप्रस्थान् मिति उच्यते। बादरायण व्यासप्रणीतं ब्रह्मसूत्रम् त्रितीयोरस्थानम् अस्ति। उपनिषदां अध्ययनेन वितृष्णा मुमुक्षूणां संसारस्य बीजभूता विद्या नश्यति। ब्रह्मणस्वरूपस्य तदूपायस्य जगतः किं चत्मादिविषयाणां विस्तृतवर्णनम् उपनिषत्सु दृश्यते। मुण्डकोनिषद्युपनिषदां संख्या निम्नरूपेण  वर्णिता अस्ति। यथा- ईश-केन कठ-प्रश्न-मुण्डमाण्डुक्य-तैत्तिरीय-ऐतरेय छान्दोग्य-वृहदारण्याकमिति दश । कतिचन उपनिषदः गद्यात्मिकाः कतिचन पद्यात्मिकाः कतिचन च गद्यपद्योभयात्मिकाः । उपनिषदः भारतीयाध्यात्म्यविद्यायाः ज्वलन्ति रत्नानि भवन्ति। महर्षयः यानि 
आध्यात्मिकतत्त्वानि ज्ञानदृष्ट्या अनुभूतानि सर्वाणि तत्त्वानि अत्र वर्णितानि। उपनिषदां प्रधान्त्वेन प्रतिपद्यविषयो आत्मांहितातः आरण्यकम् यावत्। ब्राह्मः आत्मनः भिन्नम् इत्यनेन रूपेणात्र प्रतिपादितम् अस्ति। सृष्टिवर्णनम् अपि उपनिषत्सु  कृतमस्ति। उपनिस्त्सु कर्मगतिः अपि वर्णिताः सन्ति । तत्र देवयानपितृयानयोः निरूपणं दृश्यते। पुण्यकर्मेभ्यः पुरुषः सुयोनिमध्ये पापेभ्यश्च कर्मेभ्यः कुष्चितयोनिमध्ये जननं भवति।
"https://sa.wikisource.org/w/index.php?title=सदस्यः:सरोजिनी_माझी&oldid=337403" इत्यस्माद् प्रतिप्राप्तम्