सदस्यः:राजेशमेहेर
दिखावट
शिक्षा
शिक्षा- विद्योत्पादने इत्यस्माद भौवादिक धातो: "गुरोश्च हलः" इति पाणिनीय सुत्रेण अ-प्रत्यये सति "अजाद्यतष्टाप " इति टापि शिक्षा इति शव्दः निष्पद्यते। शिक्षा शव्देन प्रमुखतया विद्याग्रहणं एव ध्वन्यते। अपि च "शक्लृ शक्तौ " इत्यस्माद सौवादिक धातो: सनि प्रत्यये सति स्त्रियां पूर्ववदेव अ-प्रत्यये टापि च शिक्षा शब्दो निष्पद्यते । परमनेन शब्देन अर्थ द्वयं निस्सरति I "शिक्षेजिज्ञासायां " इति वार्तिक प्रमाणेन यदा अयं जिज्ञासावाची भर्वति, तदा विद्यासु शिक्षते इतिवत् शद्वोsयं जिज्ञासार्थक भवति । यदा " शक्नुमिच्छति " इत्यर्थे शिक्षाशद्ब: तदा अयं ग्रहीतुः सामर्थ्यप्रदायिवस्तु भवति । प्रकारान्तरेव्य त्रिष्वव्यर्थेषु विद्योपादाने जिज्ञासायां सामथ्यलाभे चायं शिक्षाशब्द: महान्तमर्थं प्रकटयति । यतो हि विद्याग्रहणे जिज्ञासैव प्रवर्त्तयति विद्यार्थिनाम् । ततः जिज्ञाशासायाः विद्याया : ग्रहणे सति ग्रहणं कर्तुं सामथ्य वर्धनं भवत्यैव ।
आङ्ग्लभाषायां शिक्षा इति शब्द: Education नाम्नाभिधीयते। Education इति शब्दः लेटिन् भाषाया: Educatum , Educare तथा Educere इति पदत्रयस्याधारेण उत्पन्नः इति शिक्षाशास्त्रिणामभिमतम् । शिक्षापदस्य निर्देश: (Instruction), शिक्षणम् (Teaching), प्रशिक्षणम् (Training), अनुशासनम् (Discipline), पालन-पोषणम् (Breeding), संस्कृति: (culture) च इत्यद्यार्था: प्रतीयन्ते । तथा च Education इत्यस्य अक्षरशः अवलोकनेन निम्नार्थः प्रतिभाति । तद्यथा -
E - Effective - प्रभावोत्पादक: ।
D - Discipline / Duty - अनुशासनं / कार्यदक्षता ।
U - Utilization - उपयोगः ।
C - Character / Culture - चरित्रम् / संस्कृति ।
A - Active - क्रियाशील: ।
T - Trained - प्रशिक्षितः ।
O - Outlook - दूरदर्शी / दूरद्रष्टा ।
N - Narrowless - संकुचितचिन्तनरहितः ।
- शिक्षायाः व्यापकार्थः (Wider Meaning of Education)
शिक्षायाः व्यपकार्थः "शिक्षा नाम आजीवनं प्राचल्यमान काचित् गतिशिल प्रक्रिया " इति स्विकर्तव्यम । अस्मिन् अवसरे टी. रेमाण्ड (T.Raymont) महोदयानामाशयः - "शिक्षा विकाशस्य तादुश: क्रमः , येन व्यक्ति: क्रमशः भिन्नभिन्नप्रकारेण भौतिक - सामाजिक-आध्यात्मिक वातावरणानुकूला भवितुम् आत्मानं नियोजयति । व्यापकार्थे शिक्षायाः कार्यं जीवनपर्यन्तं प्रचलत् भवति । व्यक्ति: जन्मनः आरभ्य मृत्युपर्यन्तं किमपि किर्मापि शिक्षते । व्यक्तिः परिवारे समाजे बन्धुवर्गे क्रीडोद्याने आपणे यात्रायाम् उद्यानादिषु च क्रमशः शिक्षते । एवं रूपेण शिक्षायाः क्षेत्रमतीव विस्तृतरूपं भवति ।
- शिक्षायाः संकुचितार्थः (Narrower Meaning of Education)
शिक्षायाः संकुचितार्थ: ' विद्यालये प्रदीयमाना शिक्षा ' इति अवधेयम् । अस्यायमभिप्राय: यत् बालकः निश्चित योजनानुसारं निश्चितसमयानुगुणं, निश्चित पाठ्यक्रमानुसारं निश्चितविधितमाश्रित्य, निश्चितोद्देश्यमाधारीकृत्य च शिक्षां प्राप्नोति । अत्र सर्वमपि पूर्वयोजनानुगुणं भवति । अत्र शिक्षा कस्मिन्नपि निर्धारितविषये सिमिता भवति, न तु व्यापिका । अत्र च बालकस्य उत्तरदायित्वं शिक्षके भवति ।
- शिक्षायाः विश्लेषणार्थः (Analytical Meaning of Education)
'शिक्षायाः अर्थः विद्यालये प्रदीयमानज्ञाने सीमितो न भवेत्' अर्थात् 'विद्यालयपर्यन्तमेव शिक्षा सीमिता नास्ति ।' उक्तञ्च "Meaning of Education is not limited to knowledge Imparted in school" इति । परं जन्मकालादारभ्य मृत्युपर्यन्तं प्राचल्यमाना क्रिया भवति ।
- शिक्षायाः वास्तविकार्थः (True Meaning of Education)
शिक्षाया: अर्थं स्पष्टीकर्तुमुपरि चतुर्धा प्रयासः कृतः । यद्यपि सर्वेषामपि अर्थानाम् ऐकमत्यं कुत्रचित् भजते अथापि छात्राणां बुद्धि विकाशार्थमेवं विभाग: कृतोस्ति । एवञ्च पूर्वोक्तार्थं ज्ञात्वा कदाचित् अधिगन्ता पुच्छेत् यत् शिक्षायाः वास्तविकार्थ: कः ? इति । अस्य उत्तरं एवं वक्तुं शक्यते यत् शिक्षायाः वास्तविकार्थः - " सर्वाङ्गीणविकासः " इति । अर्थात् शिक्षा तादृशी एका प्रक्रिया भवति, यया मनुष्यस्य जन्मजातशक्तीनां स्वाभाविक: सामञ्जस्य पूर्णविकासश्च प्रस्फुटितः भवति । अपि च तस्य वैयक्तिकतायाः पूर्ण विकासः भवति ।