सामग्री पर जाएँ

संस्कृतसंवादसङ्ग्रहः

विकिस्रोतः तः

नारायणः। सुरेश नमस्ते प्रसादं स्वीकुरु।

सुरेशः। प्रसादः कुत आनीतः।

नारायणः। मथुरात आनीतो मया।

सुरेशः। मथुरा कुत्र अस्ति।

नारायणः। मथुरा उत्तरप्रदेशे अस्ति।

सुरेशः। किमर्थं भवान् मथुरां गतवान्।

नारायणः। भगवतः श्रीकृष्णस्य जन्मस्थानं खलु मथुरा। तस्य दर्शनार्थं गतवान्।

सुरेशः। तत्र किं दृष्टवान्।

नारायणः। तत्र कृष्णमन्दिरं वृन्दावनं च दृष्टवान्।

सुरेशः। भवान् कति दिनानि तत्र वासं कृतवान्।

नारायणः। अहं तत्र त्रीणि दिनानि पर्यन्तं वासं कृतवान्।

सुरेशः। तर्हि ततः कदा प्रत्यागतवान्।

नारायणः। अहम् अद्यैव प्रातःकाले आगतवान्।

सुरेशः। श्रीकृष्णजन्मभूमेः दर्शनं कथम् आसीत्।

नारायणः। अविस्मरणीयम् आसीत् भोः वयं पुनः सर्वे एकवारं निश्चयेन गमिष्यामः।

प्रदीपः

संवादसङ्ग्रहः

☘☘☘☘☘☘☘

संस्कृतेन वृत्तिलाभः।( Sanskrit for Employment )

मार्गे गमनसमये देवेशः अनिलेन सह मिलति तयोः वार्तालापः।

देवेशः। भोः अनिल भवान् कुत्र वेगेन गच्छन् अस्ति।

अनिलः। नमो नमः मित्र। किं वदामि बहु समस्याग्रस्तः अस्मि। मम PHD अभवत् परञ्च कुत्रापि उद्द्योगः न दृश्यते।

देवेशः। अरे भवान् कस्मिन् विषये PHD कृतवान्।

अनिलः। संस्कृतविषये।

देवेशः। अहमपि संस्कृतेन आचार्यपदवीम् अधिगतवान् अस्मि। परञ्च अहम् उद्द्योगविषये कदापि न चिन्तयामि।

अनिलः। अरे तर्हि भवतः जीवनं कथं चलति।

देवेशः। पश्य अहम् अस्मि ब्राह्मणः। कर्मकांडम् अस्माकं कार्यम् तेन सम्यक् चलति मम जीवनम्। अहं तु वदामि भवान् अपि आगच्छ मया सह। पौरोहित्यं करिष्यावः।

अनिलः। अरे भवान् तु ब्राह्मणः अस्ति। भवान् तत् कर्तुं शक्नोति। अहं कथं करिष्यामि।

देवेशः। तर्हि भवतः कृते केवलं शिक्षकस्य उद्द्योगः लप्स्यते। तदपि रामभरोसे रामाश्रये अस्ति।

( एतद्वार्तालापं कश्चन युवकः शृण्वन् आसीत्। सः आगत्य वदति)

युवकः। अरे कः वदति संस्कृतेन केवलं शिक्षकस्य उद्योगः एव प्राप्यते।

देवेशः। अहं वदामि। भवान् किं मत्तः अधिकं जानाति।

युवकः। भोः श्रीमन् कूपमण्डूकः मा भव।

पश्य। संस्कृतमाध्यमेन वयं शिक्षकःविश्वविद्यालये अधिवक्ता समाचारप्रवाचकः(news-reader) भारतीयदूतावासे अनुवादकः (translator) पुस्तकप्रकाशकः (publisher) लेखकः(writer) पुस्तकसमीक्षकः (critic) अपि भवितुं शक्नुमः।

अनिलः। अहं तु बाल्यकालात् एव प्रशासनिकक्षेत्रे (administrative field) गन्तुमिच्छामि।

युवकः। भवान् संस्कृतं पठित्वा केवलं NDA विहाय इतरासु सर्वासु प्रशासनिकसेवासु गन्तुम् अर्हति।

देवेशः। अहं तु श्रुतवान् वित्तकोषे कार्यलाभार्थम गणितम् अधिकं पठनीयं भवति।

युवकः। पश्य मित्र कापि भाषा उद्योगं न ददाति। अपितु उद्योगस्य कृते प्रतियोगिपरीक्षायाः सिद्धता करणीया भवति।

देवेशः। अहं तु कर्मकाण्डकार्यार्थं बहुवारं विदेशमपि गच्छामि भोः मम कृते तु एतदेव सम्यक्।

युवकः। पश्य मित्र पौरोहित्यकर्म आभूषणम् अस्ति संस्कृतस्य परञ्च संस्कृतेन केवलं कर्मकांडं पूजनार्चने भवति एवं सर्वत्र प्रचारः न करणीयः।

अनिलः। किं संस्कृतं पठित्वा विदेशेषु उद्द्योगः लभते।

युवकः। भवान् गूगलद्वारा यदा अन्वेषणं करिष्यति तदा पश्येत् यत् विदेशेषु अधुना संस्कृतज्ज्ञानां महती आवश्यकता वर्तते।

देवेशः। विदेशेषु अन्यत् किं कार्यम् अस्ति संस्कृतस्य।

युवकः। विदेशेषु ये भारतीयाः निवसन्ति ते अपि संस्कतं ज्ञातुम् इच्छन्ति। अधुना भारतेपि IIT कानपुर IIT मुम्बई IIM अहमदाबाद मध्ये अपि अभियन्तारः संस्कृतं पठन्ति शोधकार्यं कुर्वन्ति।

अनिलः। एतावान् अवसरः अस्ति संस्कृते। अहं तु न जानामि स्म।

देवेशः। अरे महोदय भवान् एतद् सर्वं कथं जानाति।

युवकः। अहं संस्कृते आज्ञावलिसञ्चस्य (software) निर्माणं करोमि भोः

उभौ। ओहो आश्चर्मेतत्।संस्कृते एतस्यापि निर्माणं कर्तुं शक्यते किम्।

युवकः। अथ किम्। बहुवर्षेभ्यः पूर्वम् एकः नासाशास्त्रज्ञः उक्तवान् आसीत् यत् संस्कृतं सङ्गणकस्य कृते उपयुक्ततमा भाषा। वयं भारतीयाः तदा प्रारभ्य अद्य यावत् संस्कृतं सङ्गणकस्य कृते अत्त्युतमा इत्येव जपन्तः स्मः। संस्कृतं सङ्गणकक्षेत्रे उपयोक्तुं न केनापि प्रयत्नः कृतः। अतः यः मादृशः जनः सङ्गणकज्ञः तथा च संस्कृतमपि जानाति तस्य एतत् प्राप्तकार्यमेव यत् सः अनया दिशया प्रयत्नं कृत्वा सत्यमेव सङ्गणके संस्कृतं योजयेत्।

उभौ। तथापि संस्कृतं सङ्गणकभाषा भवेत् एतत् शक्यम् अस्ति किम्।

युवकः। किमर्थं न शक्यम् भवेत्। यदि चीनजपानदेशीयाः तेषां मातृभाषां सङ्गणके योजयन्ति तर्हि वयं किमर्थं न शक्ताः भवामः।

उभौ। एवं।

युवकः। किं तर्हि। अतः संस्कृतं पठत आधुनिकाः भवत।

संवादसङ्ग्रहः

ओ३म्

जया। नमस्ते भ्रातः।

जयः। नमस्ते भगिनि।

जया। अद्य स्वाधीनतादिनम् अस्ति।

जयः। आं प्रशासनिकदृष्ट्या अस्माकं देशस्य स्वाधीनतादिनम् अस्ति। सांस्कृतिकदृष्ट्या न।

जया। किमर्थम् एवं वदसि।

जयः। भगिनि अधुना आङ्ग्लजनानां शासनं न अपितु अस्मदीयानां जनानां शासनम् अस्ति। तथापि वयम् अस्माकं संस्कृतिं न जानीमः भाषां न जानीमः कलां न जानीमः।

जया। भविष्यति भ्रातः शनैः शनैः सर्वं भविष्यति। अस्माकं शासनम् आगतं तर्हि सर्वं भविष्यति।

जयः। भगिनि तदेव अस्माभिः करणीयम् अस्ति। अद्य स्वाधीनतादिवसे वयं संकल्पं कुर्मः यत् वयं भारतीयपरम्परायाः अनुसरणं करिष्यामः।

जया। आम् तर्हि त्रिरङ्गध्वजस्य आरोहणं कृत्वा वयं सर्वे अस्माकं संस्कृत्याः प्रसाराय संकल्पं कुर्मः।

जयः। वयं वेदानाम् अध्ययनं करिष्यामः।

  वयं भारतीयं परिधानं धारयिष्यामः।

  वयं गुरुकुलीयशिक्षापद्धत्याः पुनःस्थापनां करिष्यामः।

जया। वयम् अस्माकं महिलाः पाठयिष्यामः।

  वयं गोरक्षां करिष्यामः।

  वयं पर्यावरणस्य रक्षां करिष्यामः।

जयः। बहु शोभनं भगिनि

जया। भ्रातः अद्य आरभ्य आवयोः संवादः प्रतिदिनं भविष्यति।

जयः। आं भगिनि अवश्यम्।

  भवत्या सह संवादं कृत्वा आनन्दः जातः।

जया। अस्तु भ्रातः पुनः मिलामः।

जयः। पुनः मिलामः।

जयतु भारतम्। जयतु संस्कृतम्।

संवादसङ्ग्रहः

ओ३म्

जया। नमो नमः भ्रातः।

जयः। नमो नमः भगिनि।

जयः। भगिनि अद्य अहं बहु दूरपर्यन्तं धावनं कृतवान्।

जया। बहु उत्तमं भ्रातः।

जयः। अतएव अहं बहु बुभुक्षितः अस्मि।

जया। तर्हि माता फलानि आनीतवती तानि खाद।

जयः। नैव भगिनि मम तु किमपि तैलीयं खादितुं मनः भवति।

जया। नैव भ्रातः अम्बा वदति प्रातःकाले तैलीयं न खादनीयम्।

जयः। भगिनि मम कृते कानिचन पक्ववाटानि पच।

जया। पक्ववाटानि प्रातःकाले न खादनीयानि।

जयः। भवती अपि मातुः सदृशमेव व्यवहारं करोति।

जया। भ्रातः सर्वदा निरामयः एव भवितुम् इच्छसि चेत् फलानि खाद। फलस्य रसम् अपि पिब।

जयः। अस्तु भगिनि मह्यं फलानि देहि।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

जयः। भगिनि आः उदरे पीडा भवति।

जया। किमर्थं भोः। भवान् तु फलानि एव खादितवान् तर्हि किमर्थं पीडा भवति।

जयः। भगिनि न जानामि किमर्थं पीडा भवति। अहं सोढुं न शक्नोमि।

जया। अन्यद् किमपि खादितवान् खलु।

जयः। आम् अहं पक्ववाटं खादितवान्।

जया। कुत्र। कदा।

जयः। मह्यं पक्ववाटं रोचते। भवती ह्यः निषेधितवती अतः अहम् आपणे खादितवान्।

जया। अहं तु पूर्वमेव उक्तवती भवान् फलानि एव खाद अन्यद् किमपि मास्तु।

जयः। ह्यः बहु बुभुक्षा आसीत्।

जया। अधुना विश्रामं कुरु। अहम् औषधम् आनयामि।

जयः। नैव कृपया मां चिकित्सालयं नय।

जया। आयुर्वैदिकम् औषधं स्वीकुरु। तेन बहु लाभः भविष्यति।

जया। अजमोदं श्यामलवणम् आनयामि।

जयः। आं माता अपि तदेव ददाति। देहि।

जया। स्वीकुरु। कृपया बहिः किमपि मा खाद। माता गृहे एव सुमधुराणि व्यंजनानि पचति एव।

जयः। सत्यं भगिनि अहं कदापि बहिः न खादिष्यामि।

जया। बहु समीचीनं भ्रातः।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

जयः। भगिनि अहं शाकापणं गच्छामि। किं किम् आनयानि।

जया। अल्लूकम् आर्द्रकं भिण्डीकं च आनय।

जयः। मेथिकां न आनयानि किम्।

जया। मा आनय।

जयः। किं वा धान्यकम्।

जया। न धान्यकम् अपि न।

जयः। अलाबुम् आनयानि किम्।

जया। भ्रातः भवान् न जानाति। माता गृहे एव सर्वं वपति।

जयः। एवं किम्। अलाबुम् अपि अवपत्।

जया। आं माता तु गृहाङ्गणे बहुविधानि शाकानि अवपत्।

जयः। अहं तु पठने एव व्यस्तो भवामि अतः किमपि न जानामि।

जया। भवान् तु चलभाषे अपि बहु व्यस्तः भवति।

जयः। पालकी अपि गृहाङ्गणे जायते।

जया। आं पालकी अपि। ह्यः भवान् पालकीपनीरं खादितवान्। शाके या पालकी आसीत् तद् अस्माकं गृहे एव जाता।

जयः। बहु उत्तमम्। अधुना अस्माकं गृहम् आत्मनिर्भरं गृहम् अभवत्।

जया। वयं तु गृहात् एव शुद्धं शाकं प्राप्नुमः।

जयः। अतएव मह्यम् अलाबोः शाकम् अरोचत।

जया। आं गृहे अलाबोः लता अस्ति। कारवेल्लस्य अपि लता अस्ति।

जयः। अस्तु भगिनि तर्हि केवलम् अल्लूकम् आर्द्रकं च आनेष्यामि।

जया। सुष्ठुः।

जयतु संस्कृतम्। जयतु भारतम् ॥

संवादसङ्ग्रहः

जयः। जये भगिनि कुत्र असि।

जया। अत्र गोशालायाम् अस्मि।

जयः। तत्र किं करोषि।

जया। अत्र आगत्य पश्य।

जयः। आगच्छामि।

जयः गोशालां गच्छति।

जयः। भवत्याः हस्ते तु सम्मार्जनी अस्ति।

जया। तर्हि किमर्थं बिभेषि। अहम् एतया अत्र स्वच्छतां करोमि।

जयः। किं स्वच्छताम् अद्य। भवती तु रविवासरे एव स्वच्छतां करोति खलु।

जया। आम् अहं रविवासरे अपि करिष्यामि।

  अद्य संस्कृतसप्ताहस्य प्रथमं दिनम् अस्ति। अतः वयं सर्वे संस्कृतकार्यकर्तारः स्वच्छतां करिष्यामः।

जयः। अहं कुत्र करवाणि स्वच्छताम्।

जया। कर्तुम् इच्छसि चेत् चल मया सह। शाकापणे बहु मलिनता वर्तते। तत्र आवां चलावः।

जयः। आं सत्यं शाकापणे बहुमलिनता अस्ति। तत्र चलावः।

जया। तर्हि गाय मया सह।

  स्वच्छं मम भारतम्

  शुद्धं मम भारतम्

  पवित्रं मम भारतम्

  निर्मलं मम भारतम्

जयः। बहु उत्तमं गीतं गीतवती।

  अहं तु गीतं गीत्वा स्वच्छतां करिष्यामि।

जया। चल तर्हि स्वच्छतां कुर्वः।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

ओ३म्

जया। एकः नृपः आसीत्। सः बहुः दयालुः आसीत्। प्रतिदिनं प्रातःकाले सः नगरस्य निरीक्षणं करोति स्म।

जयः। भगिनि कं श्रावयसि कथाम्।

जया। ओ भ्रातः अद्य कथाकथनस्य दिनम् अस्ति।

जयः। तर्हि कथाकथने किं करणीयम्।

जया। संस्कृतभाषायाम् अनेकाः कथाः सन्ति। ताः कथाः वयं सर्वे बालकान् श्रावयामः चेत् संस्कृतकथानां प्रसारः भविष्यति।

जयः। तदर्थं किं करणीयम्।

जया। भवान् पञ्चतन्त्रं जानाति किम्।

जयः। आं जानामि।

जया। पञ्चतन्त्रं कदापि पठितवान् किम्।

जयः। न अहं तु न पठितवान्।

जया। भवान् हितोपदेशं जानाति किम्।

जयः। आं पुस्तकस्य नाम श्रुतवान् अस्मि। तद् पुस्तकम् अपि न पठितवान् अहम्।

जया। अतएव संस्कृतसप्ताहे संस्कृतकथादिवसस्य वयम् आयोजनं कुर्मः।

जयः। एवं खलु।

जया। अनेके जनाः न जानन्ति संस्कृतबालकथाः।

जयः। तर्हि भवती कं श्रावयति स्म।

जया। अहं तु संस्कृतकथायाः ध्वन्याङ्कनं करोमि स्म।

जयः। ध्वन्याङ्कनं कृत्वा किं करिष्यसि।

जया। कथायाः ध्वन्याङ्कनम् अहं मम सखीभ्यः दास्यामि प्रेषयिष्यामि च।

जयः। उत्तमा पद्धतिः। तर्हि मह्यमपि प्रेषय। अहमपि श्रोष्यामि।

जया। सुष्ठुः। अहं भवते अपि प्रेषयिष्यामि।

जयः। अहं तु संस्कृतबालकथां श्रोष्यामि। भवन्तः अपि श्रृण्वन्तु श्रावयन्तु च।

जयतु संस्कृतम्। जयतु भारतम्।

संवादसङ्ग्रहः

जयः। भगिनि गीतपुस्तकं कुत्र अस्ति।

जया। भवतः स्यूते एव।

जयः। नास्ति मम स्यूते।

जया। आः क्षम्यतां कारणम्। गीतपुस्तकं मम स्यूते अस्ति भ्रातः।

जयः। चिन्ता मास्तु। आगच्छ आवां द्वौ संस्कृतगीतानि गायावः।

जया। अद्य संस्कृतसप्ताहस्य तृतीयं दिनम् अस्ति। अद्य तु गीतसुभाषितदिनम्।

जयः। आम् अहम् एकं सुभाषितं वदामि।

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यम् अप्रियम्।

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥

जयः। उत्तमं भवती अनेकानि सुभाषितानि जानाति। अहं तु पुस्तकं दृष्टवा एव गास्यामि।

जया। दृष्ट्वा एव गाय भ्रातः।

जयः। भवती अपि मया सह गायतु।

अवनितलं पुनरवतीर्णा स्यात्‌ 

अवनितलं पुनरवतीर्णा स्यात्‌

संस्कृतगङ्‌गाधारा

धीरभगीरथवंशोऽस्माकं

वयं तु कृतनिर्धाराः ॥ 

  निपततु पण्डितवरशिरसि

  प्रवहतु नित्यमिदं वचसि

  प्रविशतु वैयाकरणमुखं

  पुनरपि वहतात्‌ जनमनसि

  पुत्रसहस्रं समुद्धृतं स्यात्‌

  यान्तु च जन्मविकाराः ॥धीरभगीरथ।

ग्रामं ग्रामं गच्छाम

संस्कृतशिक्षां यच्छाम

सर्वेषामपि तृप्तिहितार्थं

स्वक्लेशं न हि गणयेम

कृते प्रयत्ने किं न लभेत

एवं सन्ति विचाराः

      ॥धीरभगीरथ॥

  या माता संस्कृतिमूला

  यस्या व्याप्तिः सुविशाला

  वाङ्‌मयरूपा सा भवतु

  लसतु चिरं सा वाङ्‌माला

  सुरवाणीं जनवाणीं कर्तुं

  यतामहे कृतिशूराः

            ॥धीरभगीरथ॥

जया। बहु मधुरं गीतम् अस्ति। मह्यं बहु रोचते।

जयः। आं सत्यम्।

जया। पश्य बालकाः अपि आगच्छन्ति। अधुना ते अपि सुभाषितानि गास्यन्ति।

जयः। आं गीतानि अपि गास्यन्ति।

जया। आगच्छन्तु बालकाः स्वागतम्। अधुना वयं सर्वे मिलित्वा संस्कृतगीतानि सुभाषितानि च गास्यामः।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

जया। भ्रातरद्य रक्षाबन्धनपर्व अस्ति।

जयः। आमत एवाहं शीघ्रमेव सिद्धोऽभवम्।

जया। पूर्वं तु यज्ञोपवीतं परिवर्तय।

जयः। आमहमधुनैव परिवर्तयामि।

जया। उत्तमम्। अधुनाऽऽवां यज्ञं कुर्वः।

जयः। आमद्य तु श्रावणीपूर्णिमा अस्ति। अत एव यज्ञकार्यं बहु आवश्यकं वर्तते।

जया। यज्ञं कृत्वैव रक्षासूत्रं भन्त्स्यामि।

जयः। अद्य तु विश्वसंस्कृतदिनमप्यस्ति।

जया। अद्य न केवलं भ्रातृभगिन्योः पर्वास्त्यपितु संस्कृतै रक्षायाः संकल्पदिनमप्यस्ति।

जयः। सत्यम्। संस्कृतभाषाया रक्षणेनास्माकं संस्कृतेरपि रक्षा भवति।

जया। आगच्छ भवतो हस्ते रक्षासूत्रं बध्नामि।

जयः। मम श्रेष्ठा भगिनी मम हस्ते रक्षासूत्रं बध्नाति।

जया। भवानपि मम श्रेष्ठो भ्राताऽस्ति।

जयः। यस्य भगिनी सुशिक्षिता सुसंस्कारिणी सुशीला सा श्रेष्ठा भगिनी एव।

जया। यस्या भ्राता निर्व्यसनी सदाचारी कर्मठो भवति स श्रेष्ठो भ्राता।

जयः। भगिनि भवत्याः कृतेऽहमेकं पुस्तकमनीतवानस्मि।

जया। बहूत्तमम्। अहं तदेवेच्छामि स्म।

जयः। भ्राताभगिन्योः स्नेहोऽक्षुण्ण एव भवेत्तदेव श्रेष्ठं पारितोषिकम्।

जया। आं भ्रातः सर्वेभ्यो भ्रातृभ्यो रक्षाबन्धनपर्वणो मङ्गलकामनाः।

जयः। सर्वेभ्यो भगिनिभ्यो रक्षाबन्धनपर्वणो मङ्गलकामनाः।

संस्कृतदिनस्यापि शुभकामनाः।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

जयः। भगिनि कति मोदकानि आनीतवती।

जया। अहं गणनां न कृतवती।

जयः। अहं गणयामि।

जया। आं गणय।

जयः। वन टू थ्री फोर।

जया। न न भ्रातः संस्कृतभाषायां गणय।

जयः। तर्हि भवती एव गणयतु।

जया। भवान् न जानाति किम्।

जयः। जानामि मध्ये मध्ये विस्मरामि।

जया। तर्हि वद मया सह।

  एकं द्वे त्रीणि चत्वारि पञ्च षड् सप्त अष्ट नव दश।

जयः। बहु सरला अस्ति संस्कृतसंख्या।

जया। आं तर्हि भवान् एकशतं पर्यन्तं कण्ठस्थं करोतु।

जयः। आम् अवश्यम्। अहं कण्ठस्थं करिष्यामि वदिष्यामि अपि।

जया। बहु शोभनं भ्रातः।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

जया। भ्रातः अहम् आपणं गच्छामि।

जयः। किमर्थं गच्छसि।

जया। गृहे घृतं नास्ति।

जयः। मध्याह्ने आनय।

जया। नैव अधुना यज्ञार्थं घृतम् अर्हति।

जयः। अस्तु तर्हि गच्छ। कथं गच्छसि।

जया। यानेन।

जयः। केन यानेन।

जया। भवतः कारयानेन।

जयः। केवलं घृतमेव आनेतव्यम् अस्ति। तदर्थं कारयानेन किमर्थम्।

जया। शीघ्रमेव आगत्य यज्ञं कर्तुम् इच्छामि।

जयः। भगिनि कृपया द्विचक्रिकया गच्छ। अधुना ईन्धनस्य मूल्यं बह्वधिकम् अस्ति।

जया। मां गच्छ नाम। (मुझे जाने दीजिये)

जयः। अस्तु शीघ्रमेव आगच्छ।

  कारयानं ध्यानपूर्वकं चालय।

जया। आं भ्रातः अहं ध्यानपूर्वकमेव चालयिष्यामि। शीघ्रमेव आगमिष्यामि।

जयः। अस्तु भगिनि तावद् अहं यज्ञस्य व्यवस्थां करोमि।

जयतु संस्कृतम्। जयतु भारतम्॥

संवादसङ्ग्रहः

केचन बालकाः काश्चन बालिकाश्च स्वतन्त्रतादिवसस्य ध्वजारोहणसमारोहे सोत्साहं गच्छन्तः परस्परं संलपन्ति।

देवेशः। अद्य स्वतन्त्रतादिवसः। अस्माकं विद्यालयस्य प्राचार्यः ध्वजारोहणं करिष्यति। छात्राश्च सांस्कृतिककार्यक्रमान् प्रस्तोष्यन्ति। अन्ते च मोदकानि मिलिष्यन्ति।

मुकुन्दः। शुचे जानासि त्वम्। अस्माकं ध्वजः कीदृशः।

शुचिः। अस्माकं देशस्य ध्वजः त्रिवर्णः इति।

कौशलः। रुचे अयं त्रिवर्णः कथम्।

रुचिः। अस्मिन् ध्वजे त्रयः वर्णाः सन्ति अतः त्रिवर्णः। किं त्वम् एतेषां वर्णानां नामानि जानासि।

कौशलः। अरे केशरवर्णः श्वेतः हरितः च एते त्रयः वर्णाः।

देवेशः। अस्माकं ध्वजे एते त्रयः वर्णाः किं सूचयन्ति।

कौशलः। शृणु केशरवर्णः शौर्यस्य श्वेतः सत्यस्य हरितश्च समृद्धेः सूचकाः सन्ति।

शुचिः। किम् एतेषां वर्णानाम् अन्यदपि महत्त्वम्।

मुकुन्दः। आं कथं न। ध्वजस्य उपरि स्थितः केशरवर्णः त्यागस्य उत्साहस्य च सूचकः। मध्ये स्थितः श्वेतवर्णः सात्त्विकतायाः शुचितायाः च द्योतकः। अधः स्थितः हरितवर्णः वसुन्धरायाः सुषमायाः उर्वरतायाश्च द्योतकः।

तेजिन्दरः। शुचे ध्वजस्य मध्ये एकं नीलवर्णं चक्रं वर्तते।

शुचिः। आम् आम्। इदम् अशोकचक्रं कथ्यते। एतत् प्रगतेः न्यायस्य च प्रवर्तकम्। सारनाथे अशोकस्तम्भः अस्ति। तस्मात् एव एतत् गृहीतम्।

प्रणवः। अस्मिन् चक्रे चतुर्विंशतिः अराः सन्ति।

प्रभा। भारतस्य संविधानसभायां 22 जुलै इतिदिनाङ्के 1947 तमे वर्षे समग्रतया अस्य ध्वजस्य स्वीकरणं जातम्।

तेजिन्दरः। अस्माकं त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः। अत एव स्वतन्त्रतादिवसे गणतन्त्रदिवसे च अस्य ध्वजस्य उत्तोलनं समारोहपूर्वकं भवति।

जयतु त्रिवर्णः ध्वजः जयतु भारतम्।

संवादसङ्ग्रहः

हुमा। यूयं कुत्र गच्छथ।

इन्दरः। वयं विद्यालयं गच्छामः।

फेकनः। तत्र क्रीडास्पर्धाः सन्ति। वयं खेलिष्यामः।

रामचरणः। किं स्पर्धाः केवलं बालकेभ्यः एव सन्ति।

प्रसन्ना। नहि बालिकाः अपि खेलिष्यन्ति।

रामचरणः। किं यूयं सर्वे एकस्मिन् दले स्थ। अथवा पृथक्पृथक् दले।

प्रसन्ना। तत्र बालिकाः बालकाः च मिलित्वा खेलिष्यन्ति।

फेकनः। आं बैडमिंटनक्रीडायां मम सहभागिनी जूली अस्ति।

प्रसन्ना। एतद् अतिरिक्तं कबड्डी नियुद्धं क्रिकेटं पादकन्दुकं हस्तकन्दुकं चतुरङ्गः चेत्यादयः स्पर्धाः भविष्यन्ति।

इन्दरः। हुमे किं त्वं न क्रीडसि। तव भगिनी तु मम पक्षे क्रीडति।

हुमा। नहि मह्यं चलचित्रं रोचते। परम् अत्र अहं दर्शकरूपेण स्थास्यामि।

फेकनः। अहो पूरनः कुत्र अस्ति। किं सः कस्यामपि स्पर्धायां प्रतिभागी नास्ति।

रामचरणः। सः द्रष्टुं न शक्नोति। तस्मै अस्माकं विद्यालये पठनाय तु विशेषव्यवस्था वर्तते। परं क्रीडायै प्रबन्धः नास्ति।

हुमा। अयं कथमपि न न्यायसङ्गतः। पूरनः सक्षमः परं प्रबन्धस्य अभावात् क्रीडितुं न शक्नोति।

इन्दरः। अस्माकं तादृशानि अनेकानि मित्राणि सन्ति। वस्तुतः तानि अन्यथासमर्थानि।

फेकनः। अतः वयं सर्वे प्राचार्यं मिलामः। तं कथयामः। शीघ्रमेव तेषां कृते व्यवस्था भविष्यति।

संवादसङ्ग्रहः

मालिनी। प्रतिवेशिनीं प्रति गिरिजे मम पुत्रः मातुलगृहं प्रति प्रस्थितः काचिद् अन्यां कामपि महिला कार्यार्थं जानासि तर्हि प्रेषय।

गिरिजा। आं सखि अद्य प्रातः एव मम सहायिका स्वसुतायाः कृते कर्मार्थं पृच्छति स्म। श्वः प्रातः एव तया सह वार्तां करिष्यामि।

अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि सूचयति मालिनी द्वारमुद्घाटयति पश्यति च यद् गिरिजायाः सेविकया दर्शनया सह एका अष्टवर्षदेशीय बालिका तिष्ठति।

दर्शना। महोदये भवती कार्यार्थं गिरिजामहोदयां पृच्छति स्म कृपया मम सुतायै अवसरं प्रदाय अनुगृह्णातु भवती।

मालिनी। परमेषा तु अल्पवयस्का प्रतीयते। किं कार्यं करिष्यत्येषा। अयं तु अस्याः अध्ययनस्य क्रीडनस्य च कालः।

दर्शना। एषा एकस्य गृहस्य संपूर्णं कार्यं करोति स्म। सः परिवारः अधुना विदेशं प्रति प्रस्थितः। कार्याभावे अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्यं प्रचलेत् अस्मत्सदृशानां गृहसञ्चालनाय च धनस्य व्यवस्था भवेत्।

मालिनी। परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालकानां सर्वासां बालिकानां च मौलिकः अधिकारः।

दर्शना। महोदये अस्मत्सदृशानां तु मौलिकाः अधिकाराः केवलं स्वोदरपूर्त्तिरेवास्ति। एतस्य व्यवस्थायै एव अहं सर्वस्मिन् दिने पञ्चषड्गृहाणां कार्यं करोमि। मम रुग्णः पतिः तु किञ्चिदपि कार्यं न करोति। अतः अहं मम पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुर्वः। अस्मिन् महार्घताकाले मूलभूतावश्यकतानां कृते एव धनं पर्याप्त न भवति तर्हि कथं विद्यालयशुल्कं गणवेषं पुस्तकान्यादीनि क्रेतुं धनमानेष्यामि।

मालिनी। अहो अज्ञानं भवत्याः। किं न जानासि यत् नवोत्तरद्विसहस्रतमे 2009 वर्षे सर्वकारेण सर्वेषां बालकानां सर्वासां बालानां कृते शिक्षायाः मौलिकाधिकारस्य घोषणा कृता। यदनुसारं षड्वर्षेभ्यः आरभ्य चतुदर्शवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीयं विद्यालयं प्राप्य न केवलं निःशुल्कं शिक्षामेव प्राप्स्यन्ति अपितु निःशुल्कं गणवेषं पुस्तकानि पुस्तकस्यूतं पादत्राणं माध्याह्नभोजनं छात्रवृत्तिं चेत्यादिकं सर्वमेव प्राप्स्यन्ति।

दर्शना। अप्येवम् आश्चर्येण मालिनी पश्यति।

मालिनी। आम्। वस्तुतः एवमेव।

दर्शना। कृतार्थतां प्रकटयन्ती। अनुगृहीताऽस्मि महोदये एतद् बोधनाय। अहम् अद्यैवास्याः प्रवेशं समीपस्थे विद्यालये कारयिष्यामि।

दर्शनायाः पुत्री उल्लासेन सह। अहं विद्यालयं गमिष्यामि अहमपि पठिष्यामि।

इत्युक्त्वा करतलवादनसहितं नृत्यति मालिनीं प्रति च कृतज्ञतां ज्ञापयति।

संवादसङ्ग्रहः

अध्यापिका। सुप्रभातम्।

छात्राः। सुप्रभातम्। सुप्रभातम्।

अध्यापिका। भवतु। अद्य किं पठनीयम्।

छात्राः। वयं सर्वे स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः।

अध्यापिका। शोभनम्। वदत। अस्माकं देशे कति राज्यानि सन्ति।

सुनयना। चतुर्विंशतिः महोदये।

सीमा। न हि न हि महाभागे पञ्चविंशतिः राज्यानि सन्ति।

अध्यापिका। अन्यः कोऽपि।

स्वरा। मध्ये एव महोदये मे भगिनी कथयति यदस्माकं देशे नवविंशतिः राज्यानि सन्ति। एतदतिरिच्य सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।

अध्यापिका। सम्यग्जानाति ते भगिनी। भवतु अपि जानीथ यूयं यदेतेषु राज्येषु सप्तराज्यानाम् एकः समवायोऽस्ति यः सप्तभगिन्यः इति नाम्ना प्रथितोऽस्ति।

सर्वे। साश्चर्यम् परस्परं पश्यन्तः सप्तभगिन्यः। सप्तभगिन्यः।

निकेतनः। इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते।

अध्यापिका। प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिकसांस्कृतिक परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। समीक्षा कौतूहलं मे न खलु शान्तिं गच्छति श्रावयतु तावद् यत् कानि तानि राज्यानि।

अध्यापिका। शृणुत।

अद्वयं मत्रयं चैव नत्रियुक्तं तथा द्वयम्।

सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्॥

इत्थं भगिनीसप्तके इमानि राज्यानि सन्ति। अरुणाचलप्रदेशः असमः मणिपुरम् मिजोरमः मेघालयः नगालैण्डः त्रिपुरा चेति। यद्यपि क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते तथापि गुणगौरवदृष्ट्या बृहत्तराणि प्रतीयन्ते।

सर्वे। कथम्। कथम्।

अध्यापिका। इमाः सप्तभगिन्यः स्वीये प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः। न केनापि शासकेन इमाः स्वायत्तीकृताः। अनेकसंस्कृतिविशिष्टायां भारतभूमौ एतासां भगिनीनां संस्कृतिः महत्त्वाधायिनी इति।

तन्वी। अयं शब्दः सर्वप्रथमं कदा प्रयुक्तः।

अध्यापिका। श्रुतमधुरशब्दोऽयं सर्वप्रथमं विगतशताब्दस्य द्विसप्ततितमे वर्षे त्रिपुराराज्यस्योद्घाटनक्रमे केनापि प्रवर्तितः। अस्मिन्नेव काले एतेषां राज्यानां पुनः सङ्घटनं विहितम्।

स्वरा। अन्यत् किमपि वैशिष्ट्यमस्ति एतेषाम्।

अध्यापिका। नूनम् अस्ति एव। पर्वतवृक्षपुष्पप्रभृतिभिः प्राकृतिकसम्पद्भिः सुसमृद्धानि सन्ति इमानि राज्यानि। भारतवृक्षे च पुष्प स्तबकसदृशानि विराजन्ते एतानि।

राजीवः। भवति गृहे यथा सर्वाधिका रम्या मनोरमा च भगिनी भवति तथैव भारतगृहेऽपि सर्वाधिकाः रम्याः इमाः सप्तभगिन्यः सन्ति।

अध्यापिका। मनस्यागता ते इयं भावना परमकल्याणमयी परं सर्वे न तथा अवगच्छन्ति। अस्तु अस्ति तावदेतेषां विषये किञ्चिद् वैशिष्ट्यमपि कथनीयम्। सावहितमनसा शृणुत जनजातिबहुलप्रदेशोऽयम्। गारोखासीनगामिजोप्रभृतयः बहवः जनजातीयाः अत्र निवसन्ति। शरीरेण ऊर्जस्विनः एतत्प्रादेशिकाः बहुभाषाभिः समन्विताः पर्वपरम्पराभिः परिपूरिताः स्वलीलाकलाभिश्च निष्णाताः सन्ति।

मालती। महोदये तत्र तु वंशवृक्षा अपि प्राप्यन्ते।

अध्यापिका। आम्। प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते। आवस्त्राभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः वंशवृक्षनिर्मितानां वस्तूनाम् उपयोगः क्रियते। यतो हि अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। साम्प्रतं वंशोद्योगोऽयम् अन्ताराष्ट्रियख्यातिम् अवाप्तोऽस्ति।

अभिनवः। भगिनीप्रदेशोऽयं बह्वाकर्षकः इति प्रतीयते।

सञ्जयः। किं भ्रमणाय भगिनीप्रदेशोऽयं समीचीनः।

सर्वे छात्राः। उच्चैः महोदये आगामिनि अवकाशे वयं तत्रैव गन्तुमिच्छामः।

स्वरा। भवत्यपि अस्माभिः सार्धं चलतु।

अध्यापिका। रोचते मेऽयं विचारः। एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि इति।

संवादसङ्ग्रहः

ततः प्रविशति तपस्यारतः तपोदत्तः

तपोदत्तः। अहमस्मि तपोदत्तः। बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि। तस्मात् सर्वैः कुटुम्बिभिः मित्रैः ज्ञातिजनैश्च गर्हितोऽभवम्।

ऊर्ध्वं निःश्वस्य।

हा विधे किम् इदं मया कृतम्। कीदृशी दुर्बुद्धिः आसीत् तदा। एतदपि न चिन्तितं यत्।

परिधानैरलङ्कारैर्भूषितोऽपि न शोभते।

नरो निर्मणिभोगीव सभायां यदि वा गृहे॥१॥

किञ्चिद् विमृश्य।

भवतु किम् एतेन। दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्। नाऽसौ भ्रान्तो मन्यते। अतोऽहम् इदानीं तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्मि।

जलोच्छलनध्वनिः श्रूयते

अये कुतोऽयं कल्लोलोच्छलनध्वनिः। महामत्स्यो मकरो वा भवेत्। पश्यामि तावत्।

पुरुषमेकं सिकताभिः सेतुनिर्माणप्रयासं कुर्वाणं दृष्ट्वा सहासम्

हन्त नास्त्यभावो जगति मूर्खाणां तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते

साट्टहासं पार्श्वमुपेत्य।

भो महाशय किमिदं विधीयते अलमलं तव श्रमेण। पश्य।

रामो बबन्ध यं सेतुं शिलाभिर्मकरालये।

विदधद् बालुकाभिस्तं यासि त्वमतिरामताम्॥२॥

चिन्तय तावत्। सिकताभिः क्वचित्सेतुः कर्तुं युज्यते।

पुरुषः। भोस्तपस्विन् कथं माम् अवरोधं करोषि। प्रयत्नेन किं न सिद्धं भवति। कावश्यकता शिलानाम्। सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया।

तपोदत्तः। आश्चर्यम् किम् सिकताभिरेव सेतुं करिष्यसि। सिकता जलप्रवाहे स्थास्यन्ति किम्। भवता चिन्तितं न वा।

पुरुषः। सोत्प्रासम् चिन्तितं चिन्तितम्। सम्यक् चिन्तितम्। नाहं सोपानसहायतया अधिरोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि।

तपोदत्तः सव्यङ्ग्यम्। साधु साधु आञ्जनेयमप्यतिक्रामसि

पुरुषः सविमर्शम्। कोऽत्र सन्देहः। किञ्च।

विना लिप्यक्षरज्ञानं तपोभिरेव केवलम्।

यदि विद्या वशे स्युस्ते सेतुरेष तथा मम॥३॥

तपोदत्तः। सवैलक्ष्यम् आत्मगतम्

अये मामेवोद्दिश्य भद्रपुरुषोऽयम् अधिक्षिपति नूनं सत्यमत्र पश्यामि। अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषामि तदियं भगवत्याः शारदाया अवमानना। गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः। पुरुषार्थैरेव लक्ष्यं प्राप्यते।

प्रकाशम्।

भो नरोत्तम नाऽहं जाने यत् कोऽस्ति भवान्। परन्तु भवद्भिः उन्मीलितं मे नयनयुगलम्। तपोमात्रेण विद्यामवाप्तुं प्रयतमानः अहमपि सिकताभिरेव सेतुनिर्माणप्रयासं करोमि। तदिदानीं विद्याध्ययनाय गुरुकुलमेव गच्छामि।

सप्रणामं गच्छति।

संवादसङ्ग्रहः

प्रथमं दृश्यम्

मल्लिका मोदकानि रचयन्ती मन्दस्वरेण शिवस्तुतिं करोति। ततः प्रविशति मोदकगन्धम् अनुभवन् प्रसन्नमना चन्दनः।

चन्दनः। अहा सुगन्धस्तु मनोहरः विलोक्य अये मोदकानि रच्यन्ते। प्रसन्नः भूत्वा आस्वादयामि तावत्। मोदकं गृहीतुमिच्छति

मल्लिका। सक्रोधम् विरम। विरम। मा स्पृश एतानि मोदकानि।

चन्दनः। किमर्थं क्रुध्यसि तव हस्तनिर्मितानि मोदकानि दृष्ट्वा अहं जिह्वालोलुपतां नियन्त्रयितुम् अक्षमः अस्मि किं न जानासि त्वमिदम्।

मल्लिका। सम्यग् जानामि नाथ परम् एतानि मोदकानि पूजानिमित्तानि सन्ति।

चन्दनः। तर्हि शीघ्रमेव पूजनं सम्पादय। प्रसादं च देहि।

मल्लिका। भोः अत्र पूजनं न भविष्यति। अहं स्वसखिभिः सह श्वः प्रातः काशीविश्वनाथमन्दिरं प्रति गमिष्यामि तत्र गङ्गास्नानं धर्मयात्राञ्च वयं करिष्यामः।

चन्दनः। सखिभिः सह न मया सह विषादं नाटयति

मल्लिका। आम्। चम्पा गौरी माया मोहिनी कपिलाद्याः सर्वाः गच्छन्ति। अतः मया सह तवागमनस्य औचित्यं नास्ति। वयं सप्ताहान्ते प्रत्यागमिष्यामः। तावत् गृह व्यवस्थां धेनोः दुग्धदोहनव्यवस्थाञ्च परिपालय।

द्वितीयं दृश्यम्

चन्दनः। अस्तु। गच्छ। सखिभिः सह धर्मयात्रया आनन्दिता च भव। अहं सर्वमपि परिपालयिष्यामि। शिवास्ते सन्तु पन्थानः।

चन्दनः। मल्लिका तु धर्मयात्रायै गता। अस्तु। दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्धं करिष्यामि। स्त्रीवेषं धृत्वा दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति।

उमा। मातुलानि मातुलानि।

चन्दनः। उमे अहं तु मातुलः। तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति। कथय किं ते प्रियं करवाणि।

उमा। मातुल पितामहः कथयति मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति। तत्र त्रिशतसेटकमितं दुग्धम् अपेक्षते। एषा व्यवस्था भवद्भिः करणीया।

चन्दनः। प्रसन्नमनसा त्रिशतसेटककपरिमितं दुग्धम् शोभनम्। दुग्धव्यवस्था भविष्यति एव इति पितामहं प्रति त्वया वक्तव्यम्।

उमा। धन्यवादः मातुल याम्यधुना।

सा निर्गता

संवादसङ्ग्रहः

तृतीयं दृश्यम्

चन्दनः। प्रसन्नो भूत्वा अङ्गुलिषु गणयन् अहो सेटकत्रिशतकानि पयांसि अनेन तु बहुधनं लप्स्ये। नन्दिनीं दृष्ट्वा भो नन्दिनि तव कृपया तु अहं धनिकः भविष्यामि। प्रसन्नः सः धेनोः बहुसेवां करोति

चन्दनः। चिन्तयति मासान्ते एव दुग्धस्य आवश्यकता भवति। यदि प्रतिदिनं दोहनं करोमि तर्हि दुग्धं सुरक्षितं न तिष्ठति। इदानीं किं करवाणि। भवतु नाम मासान्ते एव सम्पूर्णतया दुग्धदोहनं करोमि।

एवं क्रमेण सप्तदिनानि व्यतीतानि। सप्ताहान्ते मल्लिका प्रत्यागच्छति

मल्लिका। प्रविश्य स्वामिन् प्रत्यागता अहम्। आस्वादय प्रसादम्।

चन्दनः मोदकानि खादति वदति च

चन्दनः। मल्लिके तव यात्रा तु सम्यक् सफला जाता। काशीविश्वनाथस्य कृपया प्रियं निवेदयामि।

मल्लिका। साश्चर्यम् एवम्। धर्मयात्रातिरिक्तं प्रियतरं किम्।

चन्दनः। ग्रामप्रमुखस्य गृहे महोत्सवः मासान्ते भविष्यति। तत्र त्रिशतसेटकमितं दुग्धम् अस्माभिः दातव्यम् अस्ति।

मल्लिका। किन्तु एतावन्मात्रं दुग्धं कुतः प्राप्स्यामः।

चन्दनः। विचारय मल्लिके प्रतिदिनं दोहनं कृत्वा दुग्धं स्थापयामः चेत् तत् सुरक्षितं न तिष्ठति। अत एव दुग्धदोहनं न क्रियते। उत्सवदिने एव समग्रं दुग्धं धोक्ष्यावः।

मल्लिका। स्वामिन् त्वं तु चतुरतमः। अत्युत्तमः विचारः। अधुना दुग्धदोहनं विहाय केवलं नन्दिन्याः सेवाम् एव करिष्यावः। अनेन अधिकाधिकं दुग्धं मासान्ते प्राप्स्यावः।

द्वावेव धेनोः सेवायां निरतौ भवतः।

अस्मिन् क्रमे घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः रात्रौ नीराजनेनापि तोषयतः

चन्दनः। मल्लिके आगच्छ। कुम्भकारं प्रति चलावः। दुग्धार्थं पात्रप्रबन्धोऽपि करणीयः। द्वावेव निर्गतौ

चतुर्थं दृश्यम्

कुम्भकारः। घटरचनायां लीनः गायति

ज्ञात्वाऽपि जीविकाहेतोः रचयामि घटानहम्।

जीवनं भङ्गुरं सर्वं यथैष मृत्तिकाघटः॥

चन्दनः। नमस्करोमि तात पञ्चदश घटान् इच्छामि। किं दास्यसि।

देवेश। कथं न। विक्रयणाय एव एते। गृहाण घटान्। पञ्चशतोत्तररूप्यकाणि च देहि।

चन्दनः। साधु। परं मूल्यं तु दुग्धं विक्रीय एव दातुं शक्यते।

देवेशः। क्षम्यतां पुत्र मूल्यं विना तु एकमपि घटं न दास्यामि।

मल्लिका। स्वाभूषणं दातुमिच्छति तात यदि अधुनैव मूल्यम् आवश्यकं तर्हि गृहाण एतत् आभूषणम्।

देवेशः। पुत्रिके नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषणविहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यम् ददातु।

उभौ। धन्योऽसि तात धन्योऽसि।

संवादसङ्ग्रहः

पञ्चमं दृश्यम्

मासानन्तरं सन्ध्याकालः। एकत्र रिक्ताः नूतनघटाः सन्ति। दुग्धक्रेतारः अन्ये च ग्रामवासिनः अपरत्र आसीनाः।

चन्दनः। धेनुं प्रणम्य मङ्गलाचरणं विधाय मल्लिकाम् आह्वयति मल्लिके सत्वरम् आगच्छ।

मल्लिका। आयामि नाथ दोहनम् आरभस्व तावत्।

चन्दनः। यदा धेनोः समीपं गत्वा दोग्धुम् इच्छति तदा धेनुः पृष्ठपादेन प्रहरति।

चन्दनश्च पात्रेण सह पतति नन्दिनि दुग्धं देहि। किं जातं ते। पुनः प्रयासं करोति नन्दिनी च पुनः पुनः पादप्रहारेण ताडयित्वा चन्दनं रक्तरञि्तं करोति हा हतोऽस्मि। चीत्कारं कुर्वन् पतति सर्वे आश्चर्येण चन्दनम् अन्योन्यं च पश्यन्ति

मल्लिका। चीत्कारं श्रुत्वा झटिति प्रविश्य नाथ किं जातम्। कथं त्वं

रक्तरञ्जितः।

चन्दनः। धेनुः दोग्धुम् अनुमतिम् एव न ददाति। दोहनप्रक्रियाम् आरभमाणम् एव ताडयति माम्।

मल्लिका धेनुं स्नेहेन वात्सल्येन च आकार्य दोग्धुं प्रयतते। किन्तु धेनुः दुग्धहीना एव इति अवगच्छति।

मल्लिका। चन्दनं प्रति नाथ अत्यनुचितं कृतम् आवाभ्याम् यत् मासपर्यन्तं धेनोः दोहनं कृतम्। सा पीडम् अनुभवति। अत एव ताडयति।

चन्दनः। देवि मयापि ज्ञातं यत् अस्माभिः सर्वथा अनुचितमेव कृतं यत् पूर्णमासपर्यन्तं दोहनं न कृतम्। अत एव दुग्धं शुष्कं जातम्। सत्यमेव उक्तम्।

कार्यमद्यतनीयं यत् तदद्यैव विधीयताम्।

विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्॥

मल्लिका। आम् भर्तः सत्यमेव। मयापि पठितं यत्।

सुविचार्य विधातव्यं कार्यं कल्याणकाङ्क्षिणा।

यः करोत्यविचार्यैतत् स विषीदति मानवः॥

किन्तु प्रत्यक्षतया अद्य एव अनुभूतम् एतत्।

सर्वे। दिनस्य कार्यं तस्मिन्नेव दिने कर्तव्यम्। यः एवं न करोति सः कष्टं लभते ध्रुवम्।

जवनिका पतनम्

सर्वे मिलित्वा गायन्ति।

आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः।

क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम्॥

संवादसङ्ग्रहः

श्वेतकेतुः। भगवन् श्वेतकेतुरहं वन्दे।

आरुणिः। वत्स चिरञ्जीव।

श्वेतकेतुः। भगवन् किञ्चित्प्रष्टुमिच्छामि।

आरुणिः। वत्स किमद्य त्वया प्रष्टव्यमस्ति।

श्वेतकेतुः। भगवन् ज्ञातुम् इच्छामि यत् किमिदं मनः।

आरुणिः। वत्स अशितस्यान्नस्य योऽणिष्ठः तन्मनः।

श्वेतकेतुः। कश्च प्राणः।

आरुणिः। पीतानाम् अपां योऽणिष्ठः स प्राणः।

श्वेतकेतुः। भगवन् का इयं वाक्।

आरुणिः। वत्स अशितस्य तेजसा योऽणिष्ठः सा वाक्। सौम्य मनः अन्नमयं प्राणः आपोमयः वाक् च तेजोमयी भवति इत्यप्यवधार्यम्।

श्वेतकेतुः। भगवन् भूय एव मां विज्ञापयतु।

आरुणिः। सौम्य सावधानं शृणु। मथ्यमानस्य दध्नः योऽणिमा स ऊर्ध्वः समुदीषति तत्सर्पिः भवति।

श्वेतकेतुः। भगवन् भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्। भूयोऽपि श्रोतुमिच्छामि।

आरुणिः। एवमेव सौम्य अश्यमानस्य अन्नस्य योऽणिमा स ऊर्ध्वः समुदीषति। तन्मनो भवति। अवगतं न वा।

श्वेतकेतुः। सम्यगवगतं भगवन्

आरुणिः। वत्स पीयमानानाम् अपां योऽणिमा स ऊर्ध्वः समुदीषति स एव प्राणो भवति।

श्वेतकेतुः। भगवान् वाचमपि विज्ञापयतु।

आरुणिः। सौम्य अश्यमानस्य तेजसो योेऽणिमा स ऊर्ध्वः समुदीषति। सा खलु वाग्भवति। वत्स उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति। किञ्च यादृशमन्नादिकं गृह्णाति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति मदुपदेशसारः। वत्स एतत्सर्वं हृदयेन अवधारय।

श्वेतकेतुः। यदाज्ञापयति भगवन्। एष प्रणमामि।

आरुणिः। वत्स चिरञ्जीव। तेजस्वि नौ अधीतम् अस्तु।

आवयोः अधीतम् तेजस्वि अस्तु इत्यर्थः।

छान्दोग्योपनिषदः षष्ठाध्यायस्य पञ्चमखण्डात्

संवादसङ्ग्रहः

भटः। जयतु महाराजः।

राजा। अपूर्व इव ते हर्षो ब्रूहि केनासि विस्मितः।

भटः। अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः॥

राजा। कथमिदानीं गृहीतः।

भटः। रथमासाद्य निश्शङ्ंक बाहुभ्यामवतारितः।

राजा। केन।

भटः। यः किल एष नरेन्द्रेण विनियुक्तो महानसे। अभिमन्युमुद्दिश्य इत इतः कुमारः।

अभिमन्युः। भोः को नु खल्वेषः। येन भुजैकनियन्त्रितो बलाधिकेनापि न पीडितः अस्मि।

बृहन्नला। इत इतः कुमारः।

अभिमन्युः। अये अयमपरः कः विभात्युमावेषमिवाश्रितो हरः।

बृहन्नला। आर्य अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः।

वल्लभः। अपवार्य बाढम् प्रकाशम् अभिमन्यो।

अभिमन्युः। अभिमन्युर्नाम।

वल्लभः। रुष्यत्येष मया त्वमेवैनमभिभाषय।

बृहन्नला। अभिमन्यो।

अभिमन्युः। कथं कथम्। अभिमन्युर्नामाहम्। भोः किमत्र विराटनगरे क्षत्रियवंशोद्भूताः नीचैः अपि नामभिः अभिभाष्यन्ते अथवा अहं शत्रुवशं गतः। अतएव तिरस्क्रियते।

बृहन्नला। अभिमन्यो सुखमास्ते ते जननी।

अभिमन्युः। कथं कथम्। जननी नाम। किं भवान् मे पिता अथवा पितृव्यः। कथं मां पितृवदाक्रम्य स्त्रीगतां कथां पृच्छति।

बृहन्नला। अभिमन्यो अपि कुशली देवकीपुत्रः केशवः।

अभिमन्युः। कथं कथम्। तत्रभवन्तमपि नाम्ना। अथ किम् अथ किम्।

बृहन्नलावल्लभौ परस्परमवलोकयतः।

अभिमन्युः। कथमिदानीं सावज्ञमिव मां हस्यते।

बृहन्नला। न खलु किञ्चित्।

पार्थंपितरमुद्दिश्य मातुलं च जनार्दनम्।

तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः॥

अभिमन्युः। अलं स्वच्छन्दप्रलापेन अस्माकं कुले आत्मस्तवं कर्तुमनुचितम्। रणभूमौ हतेषु शरान् पश्य मदृते अन्यत् नाम न भविष्यति।

बृहन्नला। एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः।

अभिमन्युः। अशस्त्रं मामभिगतः। पितरम् अर्जुनं स्मरन् अहं कथं हन्याम्। अशस्त्रेषु मादृशाः न प्रहरन्ति। अतः अशस्त्रोऽयं मां वञ्चयित्वा गृहीतवान्।

संवादसङ्ग्रहः

राजा। त्वर्यतां त्वर्यतामभिमन्युः।

बृहन्नला। इत इतः कुमारः। एष महाराजः। उपसर्पतु कुमारः।

अभिमन्युः। आः। कस्य महाराजः।

राजा। एह्येहि पुत्र कथं न मामभिवादयसि। आत्मगतम् अहो उत्सिक्तः खल्वयं क्षत्रियकुमारः। अहमस्य दर्पप्रशमनं करोमि। प्रकाशम् अथ केनायं गृहीतः।

भीमसेनः। महाराज मया।

अभिमन्युः। अशस्त्रेणेत्यभिधीयताम्।

भीमसेनः। शान्तं पापम्। धनुस्तु दुर्बलैः एव गृह्यते। मम तु भुजौ एव प्रहरणम्।

अभिमन्युः। मा तावद् भोः किं भवान् मध्यमः तातः यः तस्य सदृशं वचः वदति।

भगवान्। पुत्र कोऽयं मध्यमो नाम।

अभिमन्युः।

योक्त्रयित्वा जरासन्धं कण्ठश्लिष्टेन बाहुना।

असह्यं कर्म तत् कृत्वा नीतः कृष्णोऽतदर्हताम्॥

राजा।

न ते क्षेपेण रुष्यामि रुष्यता भवता रमे।

किमुक्त्वा नापराद्धोऽहं कथं तिष्ठति यात्विति॥

अभिमन्युः। यद्यहमनुग्राह्यः।

पादयोः समुदाचारः क्रियतां निग्रहोचितः।

बाहुभ्यामाहृतं भीमः बाहुभ्यामेव नेष्यति॥

ततः प्रविशत्युत्तरः।

उत्तरः। तात अभिवादये।

राजा। आयुष्मान् भव पुत्र। पूजिताः कृतकर्माणो योधपुरुषाः।

उत्तरः। पूज्यतमस्य क्रियतां पूजा।

राजा। पुत्र कस्मै।

उत्तरः। इहात्रभवते धनञ्जयाय।

राजा। कथं धनञ्जयायेति।

उत्तरः। अथ किम्।

श्मशानाद्धनुरादाय तूणीराक्षयसायके।

नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः॥

राजा। एवमेतत्।

उत्तरः। व्यपनयतु भवाञ्छङ्काम्। अयमेव अस्ति धनुर्धरः धनञ्जयः।

बृहन्नला। यद्यहम् अर्जुनः तर्हि अयं भीमसेनः अयं च राजा युधिष्ठिरः।

अभिमन्युः। इहात्रभवन्तो मे पितरः। तेन खलु।

न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम्।

दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दर्शिताः॥

इति क्रमेण सर्वान् प्रणमति सर्वे च तम् आलिङ्गन्ति।नारायणः। सुरेश नमस्ते प्रसादं स्वीकुरु।

संवादसङ्ग्रहः

वञ्चकप्रवञ्चना

सनातनदाशः

प्रथमं दृश्यम्

नेपथ्ये

पश्य पश्य बृहद्गर्तं दृष्ट्वा यानमग्रे नेतुमसमर्थौ द्वौ मूर्ख। पश्य पश्यकिं तावत्तौ कुरुतः।

यानस्थौ द्वौ प्रविशतः

शकुनः। भो गरुड यानमग्रे न गमिष्यति पुरस्ताद् महान् गर्तः वर्तते। किं करवाणि।

गरुडः। रे शकुन सिटिकां देहि सिटिकाध्वनिं श्रुत्वा स झटित्येव गमिष्यति।

शकुनः। अस्तु तावदहं वारं वारं सिटिकां ददामि। अतीत्य कञ्चित् समयम् अहो दुर्दैवम् तैलमपि अस्मिन्क्षणे समाप्तम्। कथमिदानीं यानमग्रे गमिष्यति।

गरुडः। सक्रोधम् वारं वारं सिटिकां दत्त्वा तैलं समापितं त्वया। तस्मात् यानमग्रे न गमिष्यति पश्चात्तु गमिष्यत्येव।

शकुनः। रे धूर्त तैलं नास्ति तस्मात् यानं न केवलमग्रे पश्चादपि न गमिष्यति।

गरुडः। एवं किं तर्हि बहिरागच्छ। तैलमावश्यकम्। आपणमन्विषावः।

यानाद् बहिरागत्य गच्छतः। पुस्तकापणं गच्छतः कस्यचिद् जनस्य प्रवेशः

जनः। मम समयः नास्ति। शीघ्रं पुस्तकमुपक्रीय गृहं गन्तव्यम्। अत्रैनमापणमेव गच्छामि। निष्क्रान्तः

नेपथ्ये

आपणिकः welcome welcome वद कानि कानि पुस्तकानि आवश्यकानि।

सम्भाषणं श्रुत्वा

गरुडः। स्वागतम् oil come नाम तैलमागच्छति। तर्हि अत्र कालक्षेपणेनालम्। शीघ्रमेव गन्तव्यम्। प्रकाश्ये रे शकुन शीघ्र चल।

शकुनः। किं भो कुत्र गन्तुमिच्छसि।

गरुडः। अरे तैलमागच्छति। शीघ्रं न गम्यते चेत् किं बिन्दुमात्रमपि तैलं प्राप्स्यावः।

कश्चन भिक्षुकः प्रविशति। तौ द्वौ दृष्ट्वा अन्धाभिनयं करिष्यति

अन्धः। लोचनेनैकेन दृष्ट्वा। स्वगतम् मन्ये द्वौ इतः एव आगच्छतः। इदानीं ताभ्यामपि भिक्षां प्रार्थये। प्रकाश्य भोः पथिक कृपया भिक्षां देहि। अन्धोऽस्म्यहं जन्मान्धः।

संवादसङ्ग्रहः

गरुडः। किमेष वस्तुतः अन्धः।

शकुनः। वस्तुतः नैषः अन्धः। केवलमन्धस्याभिनयं कृत्वा पथिकान् वञ्चयति। अहमेतं जानामि।

अन्धः। इषद्दृष्ट्वा। स्वगतम् अहो ममान्धत्वविषये एतयोः संशयो विद्यते। भवतु एवं वोधयामि। प्रकाश्ये स्वामिन् जन्मना अन्धोऽस्मि। को नाम संशयः। अथवा संशयश्चेत्तं परिहरामि।

गरुडः। परिहर परिहर।

अन्धः। हस्तेन दुरस्थं गृहं प्रदर्शयन पश्य तावत्। दूरे एकमुन्नतं भवनं दृश्यते खलु।

द्वौ। दृष्टं दृष्टम्। श्वेतवर्णम्। तदेव किम्।

अन्धः। तयोः मुखं दृष्ट्वा नैव नैव। तस्याग्रिमं पीतवर्णं भवनं तत्।

द्वौदृष्टमिदानीमावाभ्याम्।

अन्धः। भवयां दृश्यते। परन्तु मया न दृश्यते। पुनः तत्र पश्य आगच्छन्तं कञ्चित् बालकं प्रद_ नीलवस्त्रधारिणमागच्छन् बालकः दृश्यते किम्।

द्वौ। निश्चयेन दृश्यते।

अन्धः। परन्तु मया नैव दृश्यते। अतः विचार्यतामहं जन्मान्धो न वेति। विचार्यतां मह्यं भिक्षा दातव्या न किम्।

गरुडः। रहसि शकुनमाहुय कुतश्चित् प्राप्तमेकं संख्यारहितं धनपत्रमस्ति। तत् दास्यामि। प्रकाश्य सत्यमेव भवान् जन्मान्धः। स्वीकुरु भिक्षाम्।

अन्धः। सपदि लोचनेनैकेन दृष्ट्वा किमिदं भो। संख्यारहितं धनपत्रं प्रदत्तम्।

शकुनः। क्षम्यतामहं वधिरोऽस्मि। यथा भवता किमपि न दृश्यते तथैव मया किमपि न श्रूयते।

अन्धः। उच्चैः भोः प्रवञ्चक असमीचीनं धनपत्रं दत्त्वा जन्मान्धं मां कथं वञ्चयति।

गरुडः। नीचैः वद नीचैः वद। आवाभ्यां जन्मवधिराभ्यां किमपि न श्रूयते। आगच्छ शकुननिष्क्रान्तः

शकुनः। अन्धः स मूर्खः। निष्क्रान्तः

अन्धः। वञ्चक धूर्त एतयोः कदापि मङ्गलं न भविष्यति। भवन्तः कदापि एतयोः विश्वासं न कुर्युः। अहमिदानीं गच्छामि न पुनरहमागच्छामि। प्रत्यागत्य प्रतिशोधं नयामि।

निष्क्रान्तः।

संवादसङ्ग्रहः

द्वितीयं दृश्यम्।

उपविष्टः शिलापट्टे गरुडः शकुनश्च

गरुडः। अः अः अतीव उष्णमनुभवामि। देहात् स्वेदबिन्दुः पतति। तस्योपरि तैलस्य समस्या न परिहृता। गण्डस्योपरि पिण्डकः संवृतः।

नेपथ्ये। व्यजनमावश्यकम् व्यजनम्द्विः विशेषहस्तव्यजनम्। एकवारं क्रीणाति चेत् कदापि भग्नं न भविष्यति। विशेषहस्तव्याजनम्।

शकुनः। आकण्य रे गरुड व्यजनमावश्यकं किम्।

गरुडः। अवश्यमेवावश्यकम् मे। शीघ्रं तावदानय। अथवा समाप्ते किं त्वया गम्यते।

शकुनः। अशुभं मा शोचस्त्वम्। कुतश्चिदपि संगृह्योपस्थापयेयं ते पुरतः। साधयामि तावत्। निष्क्रान्तः

किञ्चिदनन्तरं सस्यूतव्याजनविक्रेतुः शकुनस्य च प्रवेशः।

गरुडः। व्यजनं कुत्र। व्यजनं विहाय विना व्यजनं वा कस्तावत्त्वयानीतः।

शकुनः। नैतद् व्यजनम् नैतद् व्यजनम्। एष खलु व्याजनविक्रेता।

गरुडः। एवं किम्। कुतस्ते व्यजनं भो शीघ्रं मे प्रदीयताम्।

विक्रेता। महाशय विशेषहस्तव्यजनमेतत्। एकवारं क्रीणाति चेत् कदापि भग्नं न भविष्यति। मुल्यं स्वल्पमेव। शतरुप्यकाणि केवलम्।

गरुडः। उपहासेन सत्यं भणितं। बहु स्वल्पमेव। रहसि एषोऽपि वस्तुतः चौरः। प्रकाश्य प्रयच्छ शीघ्रम्। धनं प्रदाय मन्ये उष्णतेदानीमपगता।

व्यजनं प्रदाय विक्रेतुः प्रस्थानम्। कालमात्र व्यवहारेण व्यजनं भग्नमभवत्

गरुडः। सखेदम् शतरुप्यकाणि भग्नमभवत्। परन्तु तेनोक्तं कदापि भग्नं न भविष्यतीति। तर्हि किमर्थम्। पश्य शकुन पश्य।

शकुनः। तिष्ठ तिष्ठ। आनयाम्यहमिदानीमेव तम्। पार्श्वे एव कुत्रापि भवेत्।

निष्क्रान्तः।

संवादसङ्ग्रहः

विक्रेत्रा सह शकुनस्य प्रवेशः

विक्रेता। सविस्मयम् किमभवत्। मम व्यजनं भग्नं जातमिति श्रुतम्। कदापि न कदापि न।

गरुडः।सक्रोधमुच्चैश्च रे दुष्ट व्यजनं कदापि भग्नं न भविष्यतीति असत्यं निगद्य मां वञ्चयसि किम्। पश्य भग्नं किम् न वेति।

शकुनः। पश्य भग्नं किम् न वेति। दुष्टः धूर्तः वराहनन्दनस्त्वमनृतभाषी।

विक्रेता। नैव नैव। अहं कदापि असत्यं न वदामि। मन्ये भवता अस्य प्रयोगः सम्यग न कृतः। भवतेदं कथं व्यवहृयते। कृपया प्रदर्शय मे।

गरुडः। समीपमपुसृत्यमाम शिक्षयसि त्वम्। पश्यत पश्यत। मूर्खः मां बोधयसि कथं व्याजनस्य उपयोगो भवतीति। तर्हि शृणु अभिनयेन मया एवमस्योपयोगः कृतः।

विक्रेता। हम्। मया ज्ञातम्। भवता दोषः कृतः। एतस्य प्रयोगः तथा न करणीयः यथा भवता कृतः।

शकुनः। तर्हि कथमस्योपयोगः भवति। अङ्गविकृत्य त्वयैव मुर्खेणोपस्थातव्यम्।

गरुडः। अवश्यमेव। शीघ्रं मे प्रदर्शय महाविक्रेतः

विक्रेता। प्रदर्शयामि। पश्य साभिनयम् प्रथमं तावत् व्यजनं मस्तकस्य पुरतः स्थापनीयम्। अनन्तरं मस्तकमेव सञ्चालनीयं न तु व्याजनम्। एवं क्रियते चेत् व्यजनं कदापि भग्नं न भविष्यति।

शकुनः। अहो अतीव चतुरोऽसि त्वम्। हा।

गरुडः। सत्यम्। संशयेन। अन्धमुद्दिश्य मन्ये त्वमसि पूर्वदृष्टः निशाचरः अन्धः।

शकुनः। सत्यं किल। अहो वञ्चक आवां वञ्चयसीदानीम्। कारागारे निक्षेपणीयस्त्वम्।

विक्रेता। अनुबोधितोऽस्मि। अहमेव पूर्वदृष्टः कपटान्धः।

शीघ्र निष्क्रान्तः

गरुडः। भो शकुन मस्तके कराघातः वञ्चितेनानेन पुनरपि प्रवञ्चितावावाम्। अपगता चेदानीं तैलान्वेषणे ममेच्छा। गन्तुमसमर्थोऽहम्। माम् नय उपविशति।

शकुनः। गरुड यथा यानस्य तथैव तवापि तैलं समाप्तम्। वस्तुतः एषा वञ्चकप्रवञ्चना।

निष्क्रान्तौ।

संवादसङ्ग्रहः

आपणिकः। आगच्छ किम् आवश्यकम्।

दुकानदार। आओ क्या आवश्यक है।

महिला। एतस्य कूष्माण्डस्य एककिलो परिमितस्य कतिरूप्यकाणि।

महिला। यह कूष्माण्ड एक किलो कितने रुपये का है।

आपणिकः। एतस्य किलोपरिमितस्य अष्टारुप्यकाणि।

दुकानदार। यह एक किलो आठ रुपये का है।

आपणिकः। कूष्माण्डः मास्तु किम्।

दुकानदार। कुम्हाड़ा महीं चाहिये।

महिला। किलोद्वयमितं कूष्माण्डं एककिलोपरिमितं गृंजनकम् अर्धकिलो महामरीचिकां च देहि। वृत्ताकम् अपि एककिलोपरिमितम्। विण्डीनकानि नष्टानि खलु। उत्तमानि न आनीतवान् किम्।

महिला। दो किलो कूष्माण्ड एक किलो गाजर आधा किलो मिर्चा दे दो। बैगन भी एक किलो। भिण्डिया नष्ट हो गईं। अच्छी नहीं आईं क्या।

आपणिकः। उत्तमानि विण्डीकानि स्यूते एव सन्ति। आवश्यकम् किम्।

दुकानदार। उत्तम भिण्डी झोले में ही है। आवश्यक है क्या।

महिला। किलो मात्रपरिमितं देहि। आहत्य कतिरूप्यकाणि इति वद। शीघ्रं गन्तत्यम्।

महिला। किलो मात्र दे दो। जोड़कर कितने रूपये हुये बताओ। मुझे जल्दी जाना है।

आपणिकः। आहत्य पञ्चसप्ततिरुप्यकाणि कारवेल्लं मास्तु किम्।

दुकानदार। जोड़कर पचहत्तर रूपये हुये। करेला नहीं चाहिये।

महिला। कटु इत्यतः कारवेल्लं मम गृहे न खादन्ति। पर्याप्तम्। अस्मिन् स्यूते सर्वाणि वस्तूनि स्थापय। धनं स्वीकुरु।

महिला। कड़वा होता है अतः मेरे घर में करेला नहीं खाते हैं। पूरा हुआ। इस झोले में सभी वस्तुएँ दो। पैसे लो।

आपणिकः। परिवर्तः नास्ति किम्। अस्तु स्वीकुरु।

दुकानदार। अच्छा बदलना तो नहीं है। अच्छा स्वीकार करो।

संवादसङ्ग्रहः

आचार्यः। एषः कः।

आचार्य। यह कौन है।

शिष्य। एषः कुम्भकारः।

शिष्य। यह कुम्भकार है।

आचार्यः। एषः किं करोति।

आचार्य। यह क्या करता है।

शिष्यः। सः घटं करोति।

शिष्य। वह घट बनाता है।

आचार्यः। सः कीदृशं घटं करोति।

आचार्य। वह किस प्रकार घट बनाता है।

शिष्यः। सः स्थूलं घटं करोति।

शिष्य। वह मोटा घट बनाता है।

आचार्यः। सः कया घटं करोति।

आचार्य। वह किससे घट बनाता है।

शिष्यः। सः मृतिकया घटं करोति।

शिष्य। वह मिट्टी से घट बनाता है।

आचार्यः। एतौ कौ।

आचार्य। ये कौन।

शिष्यः। एतौ तन्तुवाहौ।

शिष्यः। ये दोनों जुलाहा हैं।

आचार्यः। एतौ किं कुरूतः।

आचार्य। ये दोनों क्या करते हैं।

शिष्यः। एतौ वस्त्राणि वयतः।

शिष्यः। ये दोनों वस्त्र बनाते हैं।

आचार्यः। तौ कीदृशानि वस्त्राणि वयतः।

आचार्य। ये दोनों किस प्रकार वस्त्र बनाते हैं।

शिष्यः। तौ अमूल्यानि वस्त्राणि वयतः।

शिष्य। ये अमूल्य वस्त्र बनाते हैं।

आचार्यः। तुभ्यं कानि वस्त्राणि प्रियाणि।

आचार्य। तुम्हे कौन से वस्त्र प्रिय हैं।

संवादसङ्ग्रहः

शिष्यः। कर्पासीयानि वस्त्राणि मम प्रियाणि। मम मित्रस्य और्ण वस्त्रं प्रियम्।

शिष्य। सूती कपड़े मुझे प्रिय है। मेरे मित्र को ऊनी वस्त्र प्रिय है।

आचार्यः। एते के।

आचार्य। ये कौन हैं।

शिष्यः। एते चित्रकाराः।

शिष्य। ये चित्रकार है।

आचार्यः। एते किं कुर्वन्ति।

आचार्य। ये क्या करते हैं।

शिष्यः। एते सुन्दराणि चित्राणि लिखन्ति।

शिष्य। ये सुन्दर चित्र लिखते हैं।

आचार्यः। ते के।

आचार्य। वे कौन हैं।

शिष्यः। ते हरिणाः।

शिष्य। वे हिरण हैं।

आचार्यः। ते किं कुर्वन्ति।

आचार्य। वे क्या करते हैं।

शिष्यः। ते हरितानि तृणानि खादन्ति।

शिष्य। वे हरी घास खाते हैं।

आचार्यः। त्वं कि करोषि।

आचार्य। तुम क्या करते हो।

शिष्यः। अहं साहित्यं पठामि।

शिष्य। मैं साहित्य पढ़ता हूँ।

आचार्यः। युवां किं कुरूथ।

आचार्य। तुम दोनों क्या करते हो।

शिष्यः। आवां गीतं गायावः।

शिष्य। हम दोनों गीत गा रहे हैं।

आचार्यः। यूयम् अद्य पठितान् शब्दान् स्मरत।

आचार्य। तुम सब आज पढ़े हुये शब्द का स्मरण करो।

शिष्यः। तथैव श्रीमन्।

शिष्य। जैसा आप कहें।

संवादसङ्ग्रहः

मालती। शारदे किं करोति भवती।

मालती। शारदा आप क्या कर रहे हो।

शारदा। अहो मालति आगच्छतु उपविशतु। कुशलिनी किम्।

शारदा। अरे मालती आओ बैठो। आप कुशल है।

मालती। आम सर्वं कुशलम्। भवती स्वकार्यं करोतु। अहं तत्रैव आगच्छामि।

मालती। हां सब ठीक है। आप अपना कार्य करो। मैं वहाँ आ रही हूँ।

शारदा। मम पाकः न समाप्तः। अद्य भोजनार्थं बान्धवाः आगच्छन्ति। अतः अद्य विशेषपाकः।

शारदा। मेरा भोजन पकाना समाप्त नहीं हुआ है। आज भोजन के लिए बन्धुजन आ रहे हैं। आज विशेष पाक है।

मालती। तर्हि किं किं करोति।

मालती। तो क्याक्या करती हैं।

शारदा। अलुकेन क्वथितं करोमि। कूष्माण्डेन तेमनं करोमि।

शारदा। आलू से रस वाली सब्जी बनेगी। कुम्भडे से कढ़ी बनेगी।

मालती। बहुमरीचिका सन्ति खलु। मरीचिकया किं करोति।

मालती। मिर्चियां है क्या। मिर्चियों से क्या करोगी।

शारदा। लघु मरीचिका कटुः महामरीचिकमा भर्जं करोमि।

शारदा। मिर्ची तीखी है। मिर्चे बड़ी मिर्च से छोंक लगा रही हूँ।

मालती। कैः व्यंजनं करोति।

मालती। किसकी सब्जी बना रही हो।

शारदा। विण्डीनकैः व्यंजनं करोमि। उर्वारूकेण किं करोमि। इति चिन्तयामि।

शारदा। भिण्डी की सब्जी बनाऊँगी ककड़ी का क्या करूँ ऐसा सोच रही हूँ।

मालती। उर्वारूकं गृंजनकं च योजयित्वा कोषम्भरीं करोतु भोः। बहु स्वादिष्टं भवति।

मालती। अरे ककड़ी गाजर को मिलाकर सलाद बना लो। बहुत स्वादिष्ट होता है।

शारदा। तथैव करोमि। पायसमपि करोमि। पर्पटान् अपि भर्जयामि मम पतिः बहु इच्छति।

शारदा। वैसा ही करूँगी। खीर भी बनाऊँगी। पापड़ भी तलूंगी मेरे पति बहुत पंसद करते हैं।

मालती। अहमपि किंचित् साहा ‌यं करोमि।

मालती। मैं भी कोई सहायता करती हूँ।

शारदा। मास्तु भो। भवती उपविशतु मया सह सम्भाषणं करोतु। अहं सर्वं करोमि।

शारदा। रहने दो आप बैठो मेरे साथ बात करो मैं सबकुछ करती हूँ।

मालती। तर्हि अहं सर्वेषां रुचिं पश्यामि। सर्वं भवती करोतु।

मालती। तो मैं सभी की पसन्द देखती हूँ। आप सबकुछ करो।

संवादसङ्ग्रहः

शीला। हरिः ओम्। गीता अस्ति किं गृहे।

शीला। हरि ओम। गीता है क्या घर में।

गीता। अहो शीले। किं भोः दर्शनमेव दुर्लभम्। कुत्र गतवती आसीत्।

गीता। अरे शीला। अरे तुम्हारा तो दर्शन ही दुर्लभ हो गया कहां गयी थीं।

शीला। कुत्रापि न गता अहम्। गृहे एव आसम्। पंचदशदिनेभ्यः बहूनि कार्याणि। भवती अपि न आगतवती खलु।

शीला। कहीं नहीं गयी थी मैं। घर में ही थी। पन्द्रह दिन से बहुत कार्य थे। आप भी तो नहीं आयी।

गीता। अहं मम भगिनी परिवारः मम पुत्री च तिरुपतिं गतवन्तः आस्म। तत्र अस्माकं गृहस्य पूजा आसीत्। तत्र तु जनानां सम्मर्दः एवं आसीत्। तत्सर्वं समाप्य ह्यः एव आगताः।

गीता। मैं मेरी बहन का परिवार और मेरी पुत्री तिरुपति गये थे।

शीला। मम गृहे पुरातनानि कानिचित् भग्नानि नष्टानि च वस्तूनि आसन्। तानि विक्रीय अन्यानि नूतनानि वस्तूनि आनीतवन्तः स्मः।

शीला। मेरे घर में पुराने कुछ टूटेफूटे सामान थे उन्हें बेच कर अन्य नए सामान ले आये।

गीता। तद्दिने आपणगमनसमये मार्गे भवत्याः पुत्रः मिलितवान् आसीत्। सः उक्तवान् माम् मम गृहे बहूनि कार्याणि इति।

गीता। कुछ दिन पहले दुकान जाते समय रास्ते में आपका पुत्र मिला था। वह बोला कि मेरे घर में बहुत कार्य हैं।

शीला। स्वीकरोतु प्रसादम्। सुशीला अपि नास्ति नगरे इति मन्ये।

शीला। प्रसाद स्वीकार करे ं मुझे लगता है। सुशीला भी नगर में नहीं है।

गीता। सा तु नगरे एव अस्ति। सा मम गृहम् आगता आसीत्।

गीता। वह नगर में ही है। कल ही मेरे घर आई थी।

गीता। एवम्। आगच्छतु सा सम्यक् तर्जयिष्यामि ताम्।

गीता। अच्छा। आने दो अच्छे से उसे डाटूंगी उसको।

गीता। अहम् आगच्छामि। अद्य मम गृहं प्रति माता आगच्छति। सा षड्दिनानि तत्रैव वासं करिष्यति। अतः सप्ताहं यावत् नागच्छामि।

गीता। मैं आती हूँ आज मेरे घर में माँ आ रही है। वह छह दिन तक यहीं रहेगीं। इसी लिए एक सप्ताह मैं नहीं आऊँगी।

शीला। तिष्ठतु भोः। सर्वदा भवत्याः त्वरा। किंचित् तिष्ठतु।

शीला। रूको हमेशा तुम्हे जल्दी रहती है थोड़ा रूको।

गीता। नैव भवती अन्यथा मा चिन्तयतु। आगच्छामि पुनः।

गीता। नहीं आप अन्यथा चिन्ता मत करो मैं फिर आती हूँ।

शीला। अस्तु तर्हि पुनर्मिलावः।

शीला। ठीक है। फिर मिलेगें।

संवादसङ्ग्रहः

माता। गोविन्द किं करोषि त्वम्।

माता। गोविन्द तुम क्या कर रहे हो।

गोविन्दः। पाठं पठामि अम्ब।

गोविन्द। पाठ पठ रहा हूँ माँ।

माता। वत्स आपणं गत्वा प्रत्यागमिष्यसि किम्।

माता। पुत्र दुकान जाकर आओगे क्या।

गोविन्दः। अम्ब शीघ्रं लिखित्वा गच्छामि।।

गोविन्द। माँ शीघ्र लिख कर जाता हूँ। वहाँ से क्या लाना है।

माता। वत्स आपणं गत्वा लवणं शर्करां शालिं गुडं दालं च आनय।

माता। पुत्र दुकान जाकर नमक शक्कर चावल गुड़ और दाल ले आओ।

गोविन्दः। भगिनीं वद अम्ब। सा किं करोति।

गोविन्द। बहन को बोल दो माँ। वह क्या कर रही है।

माता। सा अवकरं क्षिप्त्वा पात्रं प्रक्षालयति। द्रोण्यां जलं पूरयति। भूमिं वस्त्रेण भार्जयति। पुष्पाणि आनीय मालां करोति एवं तस्याः बहूनि कार्याणि सन्ति भोः।

माता। वह कचड़े को फेंक कर बर्तन धो रही है। बाल्टी में जल भर रही है। जमीन फर्श में पोंछा लगायेगी पुष्प लाकर माला बनायेगी उसे बहुत कार्य करना है।

गोविन्दः। ममापि पठनं बहु अस्ति।

गोविन्द। मुझे भी बहुत पढ़ना है।

माता। दशनिमेषानन्तरे आपणं गत्वा आगच्छ। अनन्तरं पाठान् पठ।

माता। दश मिनट के अन्दर दुकान जाकर आओ। उसके बाद पाठ पढ़ो।

गोविन्दः। तर्हि शीघ्रं धनं स्यूतं च देहि अम्ब।

गोविन्द। जल्दी से पैसा और झोला दे दो माँ।

माता। आगमनसमये कूर्चौ अग्निपेटिके सम्मार्जन्यौ च आनय।

माता। आते समय दो ब्रश माचिस और झाडू ले आना।

गोविन्दः। द्वौ स्यूतौ देहि धनं च अधिकं देहि चाकलेहान् अपि आनयामि।

गोविन्द। दो झोला दे दो पैसा अधिक दे दो मैं चाकलेट भी ले आऊँगा।

माता। अतः एव त्वं शीघ्रं गन्तुम् उद्युतः। स्वीकुरु।

माता। इसलिए तुम जाने के लिए तैयार है। इसे स्वीकार करो।

संवादसङ्ग्रहः

पुत्री। अम्ब मम मित्राणि आगतानि सन्ति परिचयं कारयानि आगच्छ।

पुत्री। माँ मेरे मित्र आए हैं परिचय कराता हूँ आओ।

माता। सर्वेभ्यः नमस्कारः।

माता। सभी को नमस्कार।

पुत्री। एषः रमेशः। एतस्य पिता वित्तकोशे कर्म करोति।

पुत्री। यह रमेश है इसके पिता बैंक में काम करते हैं।

माता। अत्र स्नेहा का।

माता। यहा स्नेहा कौन।

पुत्री। सा नागतवती। तस्याः अम्बायाः अस्वास्थ्यम् अस्ति एषा दिव्या अस्माकं गृहस्य समीपे एक वसति।

पुत्री। वह नहीं आई। उसकी माँ अस्वस्थ है। यह हमारे घर के पास रहती है।

माता। एतस्या अम्बाम् अहं जानामि। सा प्रतिदिनं राघवेन्द्रमन्दिरम् आगच्छति।

माता। इसकी माँ को मैं जानती हूँ। वह प्रतिदिन राघवेन्द्र मन्दिर आती है।

पुत्री। एषः आनन्दः। सर्वदा सदा आनन्दयति। कक्ष्यायाम् अपि सर्वत्र प्रथमं स्थानं प्राप्नोति।

पुत्री। यह आनन्द है। हमेशा खुश रहता है। कक्षा में भी हमेशा प्रथम स्थान प्राप्त करता है।

माता। तं किरणं जानामि। किरण कथं मौनेन स्थितवान् भवान्।

माता। किरण को जानती हूँ किरण क्यों आप चुप बैठे हो।

किरणः। मम किंचित् शिरोवेदना।

किरण। मेरे सिर में थोड़ा दर्द है।

पुत्री। एषा मंगला एषा राधा एषा रोहिणी एषा कविता सा ज्योतिः।

पुत्री। यह मंगला है यह राधा है यह रोहिणी है यह कविता है वह ज्योति है।

माता। सः कः भोः। अन्ते उपविष्टवान्।

माता। वह कौन है अन्त में बैठा है।

पुत्री। तस्य परिचयं वदामि कुतः त्वरा। सः एव अस्माकं मुख्यशिक्षकस्य पुत्रः गोपालः अस्माकं गणप्रमुखः। तस्य गुणकीर्तनं कर्तुम् एकं दिनं न पर्याप्तम्।

पुत्री। उसका परिचय बताती हूँ जल्दी क्या है। वह हमारे मुख्य शिक्षक का पुत्र गोपाल है। हमारा गणप्रमुख कैप्टन है उसकी बड़ाई करने के लिए एक दिन पर्याप्त नहीं है।

माता। अलम् अतिविस्तरेण।

माता। बस ठीक है।

पुत्री। अम्ब भवती केवलं वचनेन एव मम मित्राणि प्रेषयिष्यति उत किमपि खादितुं दास्यति।

पुत्री। माँ आप केवल बोल कर ही मेरे मित्रों के भेज दोगी या कुछ खाने के लिए भी दोगी।

माता। अस्तु भवती अस्माकं गृहं दर्शयतु तावत् अहं खाद्यं सज्जीकरिष्यामि।

माता। ठीक है आप हमारा घर दिखाओ तब तक मैं नाश्ता तैयार करती हूँ।

पुत्री। मित्राणि एषा मम माता अन्नपूर्णा। साक्षात् अन्न पूर्णेश्वरी। आगच्छतं गृहं सर्वं दर्शयामि। एषः मम अध्ययनप्रकोष्ठः एषा पाकशाला दूरतः एव पश्यत यतः अन्तः प्रवेशः अनुमतिं विना नास्ति। एतत् प्रार्थनामन्दिरम्। वयं सर्वे प्रातः सायं च मिलित्वां प्रार्थनां कुर्मः। एषः विशालः सभामण्डपः। अत्रैव विशेषदिनेषु कार्यक्रमः भवति। एवम् अस्माकं लघु गृहं सुव्यवस्थितगृहम्। आगच्छत उपाहारं स्वीकुर्मः।

पुत्री। मित्रों यह मेरी माता साक्षात् अन्नपूर्णा है। हाँ अन्नपूर्णेश्वरी। आओ पूरा घर दिखाती हूँ यह मेरा पढ़ाई का कमरा है। यह रसोई है दूर से ही देखो क्योंकि अन्दर बिना अनुमति के प्रवेश नहीं है। यह पूजन कक्ष है। हम सब मिलकर सुबह शाम प्रार्थना करते है यह विशाल सभामण्डप है। यहाँ विशेष दिनों में कार्यक्रम होता है इस प्रकार यह हमारा छोटा सा व्यवस्थित घर है आओ स्वल्पाहार ग्रहण करते है।

संवादसङ्ग्रहः

प्रमोदः। नमस्ते श्रीकान्त। आगच्छ उपविश।

प्रमोद। श्रीकान्त नमस्कार। आओ बैठो।

श्रीकान्तः। संस्कृतपाठः प्रचलति किम्। एताः किं कुर्वन्ति।

श्रीकान्त। संस्कृत पाठ चल रहा है क्या। ये क्या कर रही हैं।

प्रमोदः। एताः चित्रं दृष्टवा प्रश्नान् लिखन्ति। ते अर्धकथां पूर्णां कुर्वन्ति।

प्रमोदः। ये चित्र देखकर प्रश्न लिख रही है वे आधी कथा को पूरा कर रही है।

श्रीकान्तः। एतौ कौ।

श्रीकान्त। ये दोनों कौन हैं।

प्रमोदः। एतौ मम साहय्यं कुरुतः। एते बालिके सुन्दरतया लिखतः।

प्रमोद। ये दोनों मेरी सहायता कर रही हैं ये दोनों अच्छा लिखती है।

श्रीकान्तः। भो बालकाः सुन्दरं लिखन्तु। त्वरा मास्तु।

श्रीकान्त। बच्चों अच्छा लिखो जल्दी नहीं है।

प्रमोदः। ते चित्रं दृष्टवा सम्भाषणं लिखतः। तौ एकां कथां लिखतः। ताः बालिकाः पदबन्धान् रचयन्ति। एते बालकाः प्रश्नानाम् उत्तराणि लिखन्ति।

प्रमोद। वे दोनों चित्र को देखकर सम्भाषण लिख रही है। वे दोनों एक कहानी लिख रहे हैं वे बालिकाएँ निबन्ध लिख रही है ये बालक प्रश्नों के उत्तर लिख रहे हैं।

श्रीकान्तः। अन्ते उपविष्टवन्तौ तौ किं कुरुतः। युवां कि कुरुथः।

श्रीकान्त। अन्तिम में बैठे हुए वे दोनों क्या कर रहे हैं तुम दोनों क्या कर रहे हो।

छात्रौ। आवां चित्रे वर्णं योजयावः।

छात्र। हम दोनों चित्रों में रंग भर रहे हैं।

प्रमोद। भोः छायाः। यूयं शीघ्रं समापयथ। इदानीं क्रीडा अस्ति।

प्रमोद। बच्चों तुम जल्दी कार्य समाप्त करो। इस समय खेल होने वाला है।

छात्राः। वयं शीघ्रं शीघ्रं लिखामः आचार्य।

छात्रगण। आचार्यजी हम शीघ्र लिख रहे हैं।

संवादसङ्ग्रहः

वार्षिकोत्सवः

पुत्री। अम्ब महती बुभुक्षा अस्ति।

माता। सुधे किमर्थं त्वरा।

पुत्री। मम विद्यालये वार्षिकोत्सवः अस्ति। तत्र नाटकं गीतं नृत्यं भाषणम् इत्यादि कार्यक्रमाः सन्ति।

माता। त्वं वार्षिकोत्सवे किं करोषि।

पुत्री। वृन्दगाने अहम् अस्मि। मम सखी नृत्ये अस्ति। बालकाः केवलं नाटके सन्ति। वयं बालिकाः पुनः रज्जुक्रीडायाम् अपि स्मः। द्वौ बालकौ विनोदनाटके स्तः।

माता। निपुणा खलु मम पुत्री।

सखी। सुधे कुत्र असि।

पुत्री। अत्र अस्मि। वद।

सखी। त्वम् अद्य कदा विद्यालयं गमिष्यसि।

पुत्री। किमर्थम्। त्वम् अपि आगमिष्यसि किम्।

माता। युवां युगपत् कस्मिन्नपि कार्यक्रमे न स्थः किम्।

पुत्री। आवां द्वे अपि वृन्दगाने रज्जुक्रीडायां च स्वः।

पिता। पुत्रि किं करोषि युगपत्।

माता। अद्य पुत्र्याः विद्यालये वार्षिकोत्सवः अस्ति। वयं शीघ्रं गत्वा पुरतः उपविशामः।

संवादसङ्ग्रहः

माता। राधे पुनीत शीघ्रम् उत्तिष्ठताम्।

माता। राधा पुनीत जल्दी उठो।

राधा। अम्ब किमर्थं शीघ्रम्। अद्य रविवासरः खलु।

राधा। माँ जल्दी क्या है। आज तो रविवार है।

माता। शीघ्रं दन्तधावनं कुरुताम्। स्नानमपि समापयताम्। अद्य जनकस्य जन्मदिनम्।

माता। जल्दी मंजन करो स्नान भी करो आज पिता का जन्मदिन है।

पुनीतः। अम्ब कः उपाहारः।

पुनीत। माँ क्या नाश्ता है।

माता। अद्य उपाहारः अनन्तरम् प्रथमं सर्वे देवालयं गच्छामः।

माता। स्वल्पाहार बाद में पहले सभी हम मन्दिर जाएंगे।

पुनीतः। अम्ब उष्णं जलं सज्जीकुरु। अहं स्नानं करिष्ये।

पुनीत। माँ गरम पानी तैयार करो मैं नहाती हूँ।

पिता। नलिनि क्षीरार्क्षं पात्रम् आनय। शीघ्रं काफीं कुरु।

पिता। नलिनी दूध के लिए बर्तन ले आओ जल्दी काफी बनाओ।

माता। भो वार्तापत्रिकाम् अनन्तरं पठ। शीघ्रं सिद्धः भव।

माता। अरे समाचार पेपर बाद में पढ़ना जल्दी तैयार हो।

राधा। अम्ब महती बुभुक्षा। क्षीरं देहि।

राधा। माँ बहुत भूख लगी है दूध दो।

माता। वत्से क्षीरं स्वीकुरु। तदनन्तरं नूतनवस्त्रं धारय।

माता। बेटी दूध लो बाद में नए कपड़े पहनो।

पुनीतः। अम्ब ममापि नूतनवस्त्रं देहि।

पुनीत। माँ मेरे भी नए कपड़े दो।

पिता। नालिनि पूजार्थं सर्वं स्वीकुरु। गच्छामः किमु।

पिता। नलिनी पूजा के लिए तैयारी करो हम चलते हैं।

माता। पुनीत राधे द्वौ अपि देवं नमस्कुरुताम्। भोः आगच्छ आवां तत्र गच्छाव।

माता। पुनीत राधा दोनों भी देवता को प्रणाम करो। आओ हम दोनों वहाँ चले।

राधा। तात घण्टा उपरि अस्ति। अहं कथं वादयामि।

राधा। पिताजी घण्टा ऊपर है मैं कैसे बजाऊँ।

पुनीतः। किंचित् कूर्दनं कुरु।

पुनीत। थोड़ा कूदो।

माता। पुनीत त्वं चेष्टां मा कुरु। सा रोदिति।

माता। पुनीतः तुम चेष्टा मत करो।

पिता। भोः अर्चक एकाम् अर्चनां कुरु।

पिता। पुजारी जी पूजा कीजिए।

माता। भवान् एव प्रसादं स्वीकरोतु।

माता। आप ही प्रसाद स्वीकार करें।

पिता। पूजा समाप्ता। आगच्छत गच्छामः।

पिता। पूजा समाप्त हो गई आओ जाते हैं।

संवादसङ्ग्रहः

गिरीशः। हरिः ओम्।

गिरीश। हरि ओम् हैलो।

अनन्तः। हरि ओम्। कः वदति।

अनन्त। हरि ओम्। कौन बोल रहा है।

गिरीशः। अहं गिरीशः वदामि। मित्र गृहे कोऽपि नास्ति किम्।

गिरीश। मैं गिरीश बोल रहा हूँ मित्र घर में कोई नहीं है क्या।

अनन्तः। सर्वे सन्ति। पिता जपति। अम्बा पूजयति। अनुजः खादति। अग्रजा मालां करोति। पितामहः दूरदर्शनं पश्यति। पितामही स्नानं करोति।

अनन्त। सभी है पिता जप कर रहे है माँ पूजा कर रही है छोटा भाई खा रहा है बड़ी बहन माला बना रही है पितामह दादाजी टी.वी. देख रहे हैं दादी स्नान कर रही हैं।

गिरीशः। त्वं किं करोषि। क्रीडसि किम्।

गिरीश। तुम क्या कर रहे हो। खेल रहे हो क्या।

अनन्तः। अहं पठामि। उत्तरं लिखामि। तव अनुजौ किं कुरुतः।

अनन्त। मैं पढ़ रहा हूँ उत्तर लिख रहा हूँ तुम्हारे दोनों भाई क्या कर रहे हैं।

गिरीशः। मम अनुजौ शालां गच्छतः। अहं च पिता च विद्यालयं गच्छावः।

गिरीश। मेरे दोनों भाई स्कूल जा रहे है। मैं और पिताजी विद्यालय जा रहे हैं।

अनन्तः। अद्य त्वमपि विद्यालयं न गच्छ अहमपि न गच्छामि। वयं सर्वे अद्य मैसूरुनगरं गच्छामः। मम बान्धवाः अपि आगच्छन्ति।

अनन्त। आज तुम भी विद्यालय न जाओ मैं भी नहीं जा रहा हूँ हम सब आज मैसूर जा रहे है। मेरे परिवार के लोग भी आ रहे हैं।

गिरीशः। अपि भवतः पिता कार्यालयं न गच्छति।

गिरीश। आपके पिता कार्यालय नहीं जाते क्या।

अनन्तः। अद्य मम पिता विरामं स्वीकरोति।

अनन्त। आज मेरे पिता अवकाश ले लिया है।

गिरीशः। अनन्त नहि भोः अहम् आगन्तुं न शक्नोमि। भवान् गच्छतु।

गिरीश। अनन्त मैं नहीं आ सकता आप जाओ।

अनन्तः। पुनः मिलामः धन्यवादः।

अनन्त। फिर मिलते है धन्यवाद।

संवादसङ्ग्रहः

अधिकारी। सुधाकर शीघ्रं लिपिकारम् आह्वय।

अधिकारी। सुधाकर शीर्घ लिपिक को बुलाओ।

सुधाकरः। अद्य लिपिकारः नागतवान्। सः हरिद्वारं गतवान् इति।

सुधाकर। आज लिपिक नहीं आया। वह हरिद्वार गया है।

अधिकारी। ह्यः वित्तकोषतः धनम् आनीतवान् किम्।

अधिकारी। कल बैंक से पैसा लाया क्या।

सुधाकरः। आम्। ह्यः अहं रमेशः च चित्तकोषं गतवन्तौ। धनम् आनीतावन्तौ अपि च।

सुधाकर। हां कल मैं और रमेश बैंक गये थे। धन ले आये।

अधिकारी। ह्यः सर्वे किं किं कार्यं कृतवन्तः।

अधिकारी। कल सभी ने क्याक्या काम किया।

सुधाकरः। ह्यः रामगोपालः गणनां समापितवान् गीता पत्राणि लिखितवती गौरीशः कार्याणि परिशीलितवान्। ह्यः प्रीतिः नागतवती। मुकुन्दः स्वच्छीकृतवान्।

सुधाकर। कल रामगोपाल अकाउंट पूरा किया। गीता ने पत्र लिखा। गौरीश काम को देखा। कल प्रीति नहीं आई। मुकुन्द ने सफाई की।

अधिकारी। प्रीतिः कुत्र गतवती इति किं कोऽपि जानाति।

अधिकारी। प्रीति कहां गई कोई जानता है।

सुधाकरः। प्रीतिः तीव्रम् अस्वस्था इति शृणुमः।

सुधाकर। प्रीति अस्वस्थ है ऐसा सुना है।

अधिकारी। सा औषधं स्वीकृतवती स्यात्।

अधिकारी। उसने दवाई ली।

सुधाकरः। वैद्यः सूच्यौषधं दत्तवान् इति श्रुतम्। ह्यः निवेदिताविद्यालयस्य शिक्षिकाः आगतवत्यः। भवान् न आसीत्। अतः एकं पत्रं दत्तवत्यः।

सुधाकर। वैद्य ने इजेक्शन और दवाई दी है ऐसा सुना है। कल निवेदिताविद्यालय की शिक्षिकाएँ आई थीं। आप नहीं थे इसलिए उन लोगों ने एक पत्र दिया।

अधिकारी। प्राचार्यः मुख्याध्यापिका च किम् आगतवत्यौ।

अधिकारी। क्या प्राचार्य और मुख्याध्यापिका आए थे।

सुधाकरः। नैव केवलं प्राचार्यः आगतवान्। भवान् दूरवाणीं करोतु इति उक्तवती।

सुधाकर। नहीं केवल प्राचार्य आए थे। आप दूरवाणी करेेंगे ऐसा कहे थे।

अधिकारी। भवतु भवान् गच्छतु।

अधिकारी। अच्छा ठीक है आप जाओ।

संवादसङ्ग्रहः

पिता। आगच्छ। यात्रा कथम् आसीत्।

पिता। आओ। यात्रा कैसी थी।

शिवरामः। सम्यक् आसीत् तात।

शिवराम। ठीक थी पिताजी।

पिता। त्वं कदा मुम्बय्यीं प्राप्तवान्।

पिता। तुम कब मुम्बई पहुँचे।

शिवरामः। अहं सोमवासरे प्रातः ७ वादने एव प्राप्तवान्

शिवराम। मैं सोमवार सुबह ७ बजे ही पहुँचा।

पिता। अनन्तरं त्वं किं किं कृतवान्।

पिता। फिर तुमने क्याक्या किया।

शिवरामः। ततः मित्रस्य गृहं गतवान्। तत्रैव स्नानमपि कृतवान्। उपाहारं खादितवान्। ततः मुम्बादेवीमन्दिरं गतवान्।

शिवराम। वहाँ से मित्र के घर गया। वहीं स्नान किया। स्वल्पाहार किया। फिर मुम्बादेवी के मन्दिर गया।

पिता। किं त्वम् एकाकी एव गतवान्।

पिता। क्या तुम अकेले ही गये।

शिवरामः। नैव मम मित्रम् अहं च गतवन्तौ। कार्यक्रमः न आरब्धः आसीत्। समये आवां प्राप्तवन्तौ।

शिवराम। नहीं मेरा मित्र और मैं दोनों गये। कार्यक्रम शुरू नहीं हुआ था। सही समय में हम दोनों पहुँचे।

पिता। तदनन्तरम्।

पिता। फिर।

शिवरामः। कार्यक्रमः दशवादने आरब्धः। श्यामला प्रार्थनां गीतवती। स्वागतान्तरं मम भाषणम् आसीत्। अहं भाषणं कृतवान्। अध्यक्षः मां श्लाघितवान्। जनाः उच्चैः हर्षोद्गारं कृतवन्तः। करताडनमपि कृतवन्तः। अधिकारी आगामिवर्ष अपि सम्मेलनं प्रति आगमनाय प्रार्थितवान्। ११.३० वादने कार्यक्रमः समाप्तः। अन्ते महिलाः वन्दे मातरं गीतवत्यः।

शिवराम। कार्यक्रम १० बजे से शुरू हुआ। श्यामला प्रार्थना की। स्वागत के बाद मेरा भाषण हुआ। मैंने भाषण दिया। अध्यक्ष ने मेरी प्रशंसा की। लोगों ने जोर से हर्ष व्यक्त किया। तालियाँ बजी। अधिकारी ने आगामी वर्ष के सम्मेलन में १२५आगमन के लिए प्रार्थना की। ११.३० बजे कार्यक्रम समाप्त हुआ। अन्त में महिलाओं ने वन्दे मातरम् गीत प्रस्तुत किया।

पिता। पुनः मित्रस्य गृहं किं न त्वं गतवान्।

पिता। पुनः मित्र के घर नहीं गये।

शिवरामः। मुम्बादेवीमन्दिरतः तस्य गृहं बहु दूरे अस्ति। अतः अहं साक्षात् याननिस्थानकं गतवान्। तत्र मम वयस्यौ मिलितवन्तौ। बहुकालं वयं सम्भाषणं कृतवन्तः ततः मध्यावने ३ वादने अहं प्रस्थितवान्।

शिवराम। मुम्बा देवी के मन्दिर से उसका घर दूर है। इसलिए मैं सीधे बसस्टेंड चला गया। वहाँ मेरे दो मित्र मिले। बहुत देर तक हम सब बात करते रहे। फिर दोपहर तीन बजे मैं निकल गया।

पिता। अस्तु स्नानं करु भोजनं कुरु कंचित्कालं विश्रामं स्वीकुरु।

पिता। अच्छा अब स्नान करो। भोजन करो और थोड़ी देर विश्राम करो।

शिवरामः। अस्तु तात।

शिवराम। ठीक है पिताजी।

संवादसङ्ग्रहः

प्रदीपः। अरुण भवतः गणितपुस्तकं दास्यसि किम्।

प्रदीप। अरुण तुम्हारी गणित की पुस्तक मिलेगी क्या।

अरुणः। भवान् किमर्थं विद्यालयं नागतवान्।

अरुण। आप विद्यालय क्यों नहीं आये।

प्रदीपः। मम अतीव शिरोवदेना आसीत्। अतः शयनं कृतवान्।

प्रदीप। मेरे सिर में दर्द था। इसलिए सोता रहा।

अरुणः। इतिहासपुस्तकं भवान् इतोऽपि न दत्तवान्। इदानीं गणितपुस्तकमपि नयसि। कदा प्रतिदास्यसि।

अरुण। इतिहास की पुस्तक आपने अभी तक नहीं दी। इस समय आप गणित की पुस्तक भी ले जा रहे हो।

प्रदीपः। श्वः सायंकाले भवते पुस्तकं दास्यामि।

प्रदीप। कल शाम को आपकी पुस्तक दूंगा।

ज्योतिः। प्रदीप भवान् असत्यं वदति किम्। श्वः भवान् बन्धुगृहं गमिष्यति। परश्वः आगमिष्यसि। कदा गणितपुस्तकं दास्यसि।

ज्योति। आप असत्य बोल रहे हैं क्या। कल आप भाई के यहाँ जाएंगे परसों आएंगे तो कब गणित की पुस्तक देंगे।

प्रदीपः। अहं विस्मृतवान्। परश्वः निश्चयेन पुस्तकं दास्यामि।

प्रदीप। मैं भूल गया। परसो निश्चित पुस्तक दे दूंगा।

कृष्ण। ज्योतिः अद्य मम गृहम् आगच्छ। सम्यक् पठिष्यावः।

कृष्ण। ज्योति मेरे घर आओ। अच्छे से पढ़ेंगे।

अरुणः। भवान् पठिष्यति लेखिष्यति इति वदति केवलम्।

अरुण। आप पढ़ेंगे लिखेंगे केवल इतना बोलते हैं।

कृष्णा। मालाशिक्षिका श्वः संस्कृतपाठं लेखिष्यति। द्वितीयपाठस्य प्रश्नान् प्रक्ष्यति। रिक्तस्थानानि पूरणार्थं दास्यति। अतः बहु पठिष्यामि।

कृष्णा। मालाशिक्षिका कल संस्कृत का पाठ लिखाएंगी। द्वितीय पाठ का प्रश्न पूछेंगी। खाली स्थान पूरा करो ऐसा प्रश्न देगीं। इसलिए बहुत पढ़ूंगी।

अरुणः। भवन्तः मम गृहम् आगच्छन्तु। सर्वे मिलित्वा पठिष्यामः।

अरुण। आप सभी मेरे घर आओ। हम मिलकर पढ़ेंगे।

ज्योतिः। भवन्तौ द्वौ अपि मिलतां चेत् न पठिष्यतः युद्धमेव करिष्यतः अतः स्वगृहे एव पठताम्।

ज्योति। आप दोनों मिल गये तो नहीं पढ़ोगे लड़ोगे। इसीलिए अपने घर में ही पढ़ो।

संवादसङ्ग्रहः

शिशिरः। अखिल कोऽपि नास्ति किं गृहे।

शिशिर। अखिल घर में कोई नहीं है क्या।

अखिलः। अहम् एकः एव अस्मि। पिता अम्बया सह संगीतकार्यक्रमं गतवान्। अग्रजा अरुणया सह चित्रमन्दिरं गतवती। अनुजः बालैः सह क्रीडति।

अखिल। मैं अकेला ही हूँ। पिता जी माँ के साथ संगीत कार्यक्रम में गए हैं। बड़ी बहन अरुणा के साथ टॉकीज गई है। छोटा भाई बच्चों के साथ खेल रहा है।

शिशिरः। भवन्तं विना सर्वेऽपि गतवन्तः भवान् मया सह आगच्छतु। मम माता आपणं गत्वा पुष्पाणि आनयतु इति उक्तवती। अहं स्यूतेन विना एव आगतवान्।

शिशिर। तुम्हारे बिना सभी गए है आप मेरे साथ आओ। मेरी माता बोली है कि बाजार जाकर पुष्प ले आओ। मैं झोले बिना ही आ गया हूँ।

अखिलः। चिन्ता मास्तु। अहं स्यूतं ददामि। धनेन विना आगतं किम् इति पश्य।

अखिल। चिन्ता की बात नहीं है। मैं झोला देता हूँ। पैसे के बिना तो नहीं आए। देखो।

शिशिरः। तिष्ठ। प्रथमं धनमस्ति किम् इति पश्यामि। किंचित् जलं ददातु भोः।

शिशिर। ठहरो पहले पैसा है कि नहीं देखता हूँ थोड़ा पानी दो मित्र।

अखिलः। स्वीकुरु तिष्ठ काफीं करोमि। भवान् शर्करया विना काफीं पिबति उत शर्करया सह।

अखिल। ये लो पानी। रूको कॉफी बनाता हूँ। आप शक्कर के बिना कॉफी पीते हो या शक्कर के साथ।

शिशिरः। अहं शर्करया सह एव पिबामि। किन्तु मास्तु इदानीं भवतः किमर्थं क्लेशः।

शिशिर। मैं शक्कर के साथ ही पीता हूँ। कोई बात नहीं इस समय आपको परेशानी होगी।

अखिलः। क्लेशो नास्ति। ममापि काफीसमयः एषः। तिष्ठ मया सह काफीं पिब।

अखिल। परेशानी नहीं होगी मेरा भी यह कॉफी का समय है रूको मेरे साथ कॉफी पियो।

संवादसङ्ग्रहः

अम्बा। कः तत्र।

बालकः। अहम् अस्मि।

अम्बा। किं करोषि।

बालकः। अम्ब मार्ज्मि।

अम्बा। किं मार्ष्टि।

बालकः। छदौ पत्राणि पतितानि। अतः स्थलं मार्ज्मि।

अम्बा। अस्तु। ततः शुष्कवस्त्राणि आनय।

बालकः। अहो तत्र नास्मि अधुना प्राङ्गणे अस्मि।

अम्बा। किं तत्र।

बालकः। जलं सिञ्चामि।

अम्बा। तर्हि पूजायै कुसुमानि अवचिनोतु।

बालकः। अहो इदानीमिदानीं जलसेचनं समाप्तम्। अधुना पूजागृहे अस्मि।

अम्बा। तर्हि दीपं प्रज्वालय।

बालकः। पूजा अपि समाप्ता।

(माता शयनप्रकोष्ठं गच्छति। पश्यति शयानं बालकम्।)

अम्बा। अधुना कुत्र असि।

बालकः। शौचालये।

अम्बा। अलमलम्। उत्तिष्ठ अधुना।

स शौचलये आसीत् तस्मात् अम्बा अलं मलम् इति वदितुम् अर्हति।

संवादसङ्ग्रहः

लघुनाटिका

संस्कृतभाषा ज्ञानभाषा।

नाटककारः। मंगेशः मुळी अम्बाजोगायी।

सर्वे छात्राः। आचार्य नमो नमः।

आचार्यः। नमो नमः। उपविशत।

सर्वे छात्राः। धन्यवादः।

छात्र १। हे आचार्य। अहं आगच्छानि।

आचार्यः।आगच्छ।

छात्रः १। आचार्य नमो नमः।

आचार्यः। नमो नमः। विलम्बः किमर्थम्।

छात्रः १। मम द्विचक्रिकायाः चक्रात् अकस्मात् वायुः निर्गतः अतः विलम्बः अभवत्।

आचार्यः। अस्तु। उपविश।

आचार्यः। हे छात्राः किं जानीथ अद्य कः दिनविशेषः अस्ति।

छात्रः २। आचार्य अद्य तु रक्षाबन्धनम् अस्ति।

आचार्यः। शोभनं शोभनम्। अपरः।

छात्रः ३। नारिकेलपौर्णिमा अपि अस्ति।

आचार्यः। शोभनं तथा च अद्य संस्कृतदिनम् अपि अस्ति।

छात्रः ४। आचार्य हैप्पी संस्कृतदिनम्।

आचार्यः। धन्यवादः। किन्तु आंग्लभाषायां न संस्कृतभाषायां एव शुभाशयाः अपेक्षितम्। यथा सर्वेभ्यः संस्कृतदिनस्य शुभाशयाः।

सर्वे छात्राः। संस्कृतदिनस्य शुभाशयाः

आचार्यः। हे छात्राः संस्कृतदिनस्य केवलं शुभेच्छा न अपेक्षिता किन्तु संस्कृतभाषायाः संरक्षणंप्रसारम् अपि अपेक्षितम्। संस्कृतभाषा विषये यूयं किं किं जानीथ।

छात्रः ५। संस्कृतभाषा चिरपुरातनी भाषा। सा सर्वासां भाषाणां जननी।

आचार्यः। शोभनम्।

छात्रः ६। संस्कृतभाषा ज्ञानभाषा। संस्कृतभाषा संगणकयोग्या भाषा।

छात्रः ७। अस्माकं प्राचीनाः ग्रन्थाःसंस्कृतभाषायां एव सन्ति।

आचार्यः। बहु सम्यक्। परह्यः इस्रोसंस्थायाः अध्यक्षः एस. सोमनाथन् उक्तवान् यत् पाश्चात्यैः ये संशोधनं कृतम् तत् सर्वं ज्ञानम् अस्माकं वेदेभ्यः एव वर्तते किन्तु अस्माभिः दुर्लक्षितम्।

सर्वे छात्राः। आम् आचार्य।

आचार्यः। यूयं के के ग्रन्थाः जानीथ।

छात्रः ८।चत्वारः वेदाश्च योगशास्त्रम्।

छात्रः ९। आयुर्वेदः सुश्रुतसंहिता च।

छात्रः १०। कणादमहर्षेः वैशेषिकसुत्राणि

आचार्यः। शोभनं शोभनम्। अतः संस्कृतभाषा केवलं भाषा न संस्कृतभाषा ज्ञानभाषा।

जयतु संस्कृतम्। जयतु संस्कृतम्।

सर्वे छात्राः। जयतु संस्कृतम्। जयतु संस्कृतम्।

संवादसङ्ग्रहः

तमालपत्रम्

तमालचूर्णं रचयतो नस्यं जिघतः तथा वस्त्रशंसां कुर्वतो ग्राम्यवेषधारिणः पुरुषस्य प्रवेशः।

प्रथमः। अहो कीदृशं पवित्रं यस्तु इदं तमालपत्रं वर्तते वेदे शास्त्रे सर्वत्र अस्य महिमा वर्णितः अस्ति यथा त्रिपथगा गङ्गा सा

जगत् पवित्रं करोति तथैव तमालपत्रम् अपि सर्वं जगत् पवित्रं करोति।

क्वचित् हुक्का ववचित् थुक्का क्वचिन्नासाग्रवर्तिनी।

इयं त्रिपथगा गंगा पुनाति भुवनत्रयम्॥

द्वितीयः। अरे मूर्ख कथं वृथा अनर्गलं प्रलापं करोषि। ईदृशम् अपवित्रम् अनर्थंकरं च वस्तु सभायां निर्भयो भूत्वा एवं प्रशंससि।

प्रथमः। अरे किं तमालपत्रम् अपवित्रं वस्तु वर्तते शास्त्रेऽपि तमालपत्रस्य पवित्रताया वर्णनं वर्तते श्रूयताम् मम श्वसुरः महान् पण्डितः आसीत् स एकं श्लोकं कथयति स्म

विडोजाः पुरा पृष्टवान् पद्मयोनिं धरित्रीतले सारभूतं किमस्ति।

चतुर्भिर्मुखेरुत्तरं तेन दत्तम् तमालं तमालं तमालं तमालम्

॥ १॥

द्वितीयः। श्रुतं प्रमाणम् तर्हि कथ्यताम् कस्मिन् ग्रन्ये अयं श्लोकः अस्ति।

प्रथमः। अहं ग्रन्थस्य नाम न जानामि मम श्वसुरो महान् पण्डित आसीत् स एव इमं श्लोकं कथयति स्म।

द्वितीयः। आः तर्हि महत् अकाट्यं प्रमाणं वर्तते तव श्वसुरस्य वाक्यं वेदवाक्यम् अस्ति।

प्रथमः। अरे दुष्ट कथं मम श्वसुरस्य उपहासं करोषि यदि तमालपत्रं शास्त्रविरुद्धं तथा अपवित्रं वर्तते तर्हि कथं सर्वे पण्डिताः तमालपत्रं भक्षयन्ति।

द्वितीयः। कि पण्डिता अपि तमालपत्रं भक्षयन्ति।

प्रथमः। आं पण्डिता अपि भक्षयन्ति वैदिका ज्योतिर्विदः पौराणिका वैद्या व्याकरणाचार्याः साहित्याचार्याः वेदान्ताचार्याः किम्। धिक् धर्मशास्त्राचार्या अपि तमालपत्रं भक्षयन्ति न च केवलं गृहे प्रत्युत यज्ञे मन्दिरे विद्यालये पूजायां पाठे सभायां तीर्थे आश्रमे सर्वत्र निस्सङ्कोचं भक्षयन्ति।

द्वितीयः। यद्येवं तर्हि एष महान् अनर्थविषयः तथापि पण्डितानां भक्षणेन तमालपत्रस्य प्रामाणिकता न सिद्धयति। न खलु अस्माकं पण्डिताः प्रमाणं प्रत्युत शास्त्रं प्रमाणं बुद्धिश्च प्रमाणं वर्तते। साधारणबुद्धयाऽपि विचार्यमाणे तमालपत्रस्य उत्तमता न सिद्ध्यति अत एव लिखितं वर्तते।

न स्वादु नौषधमिदं न च वा सुगन्धि

नाऽक्षिप्रियं किमपि शुष्कतमा कुचूर्णम्।

किं चाक्षिरोगजनकं च तदस्य भोगे

बीजं नृणां नहि नहि व्यसनं विनाऽन्यत् ॥१॥

प्रथमः। अस्तु मन्ये अहं ते वचनं यत् पण्डिता अनुचितं कुर्वन्ति परन्तु अनेके अंग्रेज्यध्यापका यत् बीडीसिगरेटादिकं पिबन्ति एकम् एकं च बण्डलाख्यम् एकैकस्मिन् दिने समाप्तं कुर्वन्ति तत् किं तेऽपि अनुचितं कुर्वन्ति ते तु सभ्यमानवाः सन्ति।

द्वितीयः हसित्वा। अरे अंग्रेज्यध्यापकानां किमपि पुच्छं वर्तते यत् ते अनुचितं न कुर्वन्ति। शृणु तावत् तमालपत्रं धूमपानं वा इदं सर्वमपि स्वास्थ्यस्य कृते महत् हानिकरं वर्तते द्रव्यस्यापि अपव्ययो भवति समाजे निन्दापि जायते अतः कदापि तमालभक्षणं धूमपानं वा न कर्तव्यं दूरे निक्षिप निजं सर्वं तमालपत्रम्।

प्रथमः। गच्छ गच्छ यावत् सर्वं पण्डिताः मास्टराश्च परित्यागं न करिष्यन्ति तावत् अहमपि परित्यागं न करिष्यामि। निर्गच्छति।

द्वितीयः। मा परित्यागं कुरु कः त्वया सह शिरःस्फोटं कुर्यात् सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्। निष्क्रान्तः।

संवादसङ्ग्रहः

शिशुः। पितः फलम् इच्छामि।

पिता। अस्तु स्वीकुरु।

शिशुः। त्वचम् अपाकुरु।

पिता। अस्तु करोमि। नय।

शिशुः। खण्डानि कुरु।

पिता। अस्तु अधुना खाद।

शिशुः। न इच्छामि। पुनः योजय।

पिता। अस्तु अन्यत् ददामि।

शिशुः। अन्यत् न इच्छामि। एतदेव योजयित्वा देहि।

पिता निःसहायः।

संवादसङ्ग्रहः

मेहमान। नमस्ते रमेश।

अभ्यागतः। नमस्ते रमेश।

रमेश। नमस्ते सुरेश कैसे हो।बैठो तो।तुम थके अवश्य होगे।

रमेशः। नमस्ते सुरेश भवान् कथम्। कृपया उपास्यताम्। मया प्रतीयते यत् भवान् अवश्यं श्रान्तः स्यात्।

सुरेश। ओह मैं थकावट से चूरचूर हो गया हूं।

सुरेशः। आः आम् इदानीम् अति श्रान्तोऽभुवम्।

रमेश। हमलोग युगों के बाद मिल रहे हैं।तुम तो ईद के चांद हो गये हो।

रमेशः। इदानीम् आवां बहुवर्षानन्तरं परस्परं मिलावः।भवतः दर्शनं तु पूर्णतया दुर्लभमभवत्।

रमेश। क्या आपके लिए चाय बनवाऊं। क्या पीने के लिए पानी भी गर्म करवाऊं।

रमेशः। अपि भवतः कृते चायं पाचयानि। पातुं जलमपि उष्णं कारयानि किम्।

रमेश। मेरे घर का चाय आपको कैसा लग रहा है।

रमेशः। मम गृहे पचितं चायं भवते कथं रोचते।

सुरेश। बहुत अच्छा।

सुरेशः। अत्युत्तमम्।

~उमेशगुप्तः संवादसङ्ग्रहः

रमेश। राधा मेहमान के लिए स्वादिष्ट पकौड़ी बनाए।

रमेशः। राधा अतिथये रस्यां पक्ववटिकां पचतु।

रमेश। पकौड़ी चखकर बताइएगा कि इसका स्वाद कैसा है।

रमेशः।पक्वटिकां निस्स्वाद्य अस्य रसः कथम्।

सुरेश। बहुत स्वादिष्ट।

सुरेशः। सुस्वाद्यम्।

रमेश। थोड़ा और लीजिए। रस्म अदाई न कीजिए।

रमेशः। किञ्चदधिकम् आदत्स्व मा शिष्टाचारं कुरु

रमेश। क्या और लीजिएगा।

सुरेश।जी नहींधन्यवाद।

रमेशः। इतोऽपि ग्रहिष्यति भवान् किम्।

सुरेशः। नैव महाशय धन्यवाद।

रमेश।यह तुम्हारा अपना घर है। कृपया कोई औपचारिकता नहीं निभाइए।

रमेशः।एतत् भवतः एव निजसदनम्। कृपया अलं शिष्टाचारेण।

सुरेश। इस प्यार के लिए बहुत बहुत धन्यवाद।अच्छामैं चलता हूं।

सुरेशः। अस्य आतिथ्यसत्कारस्य कृते भवतः अतिशयेन धन्यवादाः। कृपया मां गन्तुम् अनुजानीहि।

रमेश। ठीक है। फिर आइएगा।

रमेशः। अस्तु। पुनः आगच्छतु भवान् अत्र।

~उमेशगुप्तः संवादसङ्ग्रहः

जितेन्द्र। क्या आप एक्शन कम्पनी का कपड़े का जूते बेचते हैं।

→ अपि भवान् एक्षन्नाम पटोपानहं विक्रीणाति।

दुकानदार। हाँ महाशय।आपको किस नाप के चाहिए।और आपको कौनसा रंग पसंद है।

आपणिकः। आम्। महाशय भवते किं मानम् आवश्यकम्।तथा भवते किं वर्णं रोचते।

जितेन्द्र। मुझे छह नम्बर के चाहिए।और जहां तक रंग की बात है मुझे काला रंग पसंद है।

→ मह्यं षट्संख्यकम् आवश्यकम्।यतो रङ्गस्य प्रश्नस्य प्रश्नोऽस्ति मह्यं कृष्णवर्णं इष्टम्।

दुकानदार। यह रही आपकी पसंद।

→ तवेष्टा अत्रास्ति

जितेन्द्र।आहयह जूता जरा टाइट हो रहा है।

→ अहएतद् उपानद्द्वयं तु किञ्चित् निबिडयति

दुकानदार। ठीक है। और दूसरा जोड़ा देखिए।

→ अस्तु।इतोऽपि अन्यद् उपानद्द्वयं परीक्ष्य अवलोकयतु।

जितेन्द्र। बहुत अच्छा।यह जूता तो मेरे पैर में अच्छी तरह से फिट बैठ रहा है।इस जोड़े की कीमत क्या है।

→ शोभनम्। एतद् उपानद्द्वयं तु मम पादाभ्यां पूर्णतया उपयुक्तम्।एतस्य उपानद्द्वयस्य मूल्यं किम्।

दुकानदार। बस पांच सौ साठ रुपए।

→ केवलानि षष्ट्यधिकं पञ्चशतं रूप्यकाणि।

जितेन्द्र। ठीक है।इसे पैक कर दीजिए।

→ अस्तु। एनं पोट्टलीकुरु

संवादसङ्ग्रहः

रेलवे इनक्वाइरी से बातचीत

रेखा। आठ बजकर अंठावन मिनट को आने वाली Intercity Express ट्रेन की रिपोर्ट। द्विकलान्यूननववादने आगमनस्य Intercity Express नाम्नः रेलयानस्य सूचना।

टिकट काउंटर। ओह आप गलत जगह आ गई है। कृपया कर आप वहां जाकर पूछताछ काउंटर से पूछिए।

चिटिकापटलम्। ओः भवती असम्यक् स्थानम् आगतवती। कृपया तत्र गत्वा परिपृच्छपटलं पृच्छ।

रेखा। क्या यह गाड़ी समय पर चल रही है।

किं रेलयानमिदं निर्दिष्टे समये चलति।

पूछताछ काउंटर। नहीं।यह गाड़ी समय पर नहीं चल रही है।यह एक घण्टा देर है।सभी गाड़ियां देर से चल रही है।

परिपृच्छपटलम्। नैव रेलयानमिदं निर्दिष्टे समये न चलति।

अयं होरात्मकः विलम्बेन चलति। इदानीं सर्वाणि रेलयानानि विलम्बेन चलन्ति।

रेखा। क्या यह रामपुर के लिए सीधी गाड़ी है।

एतद् रेलयानं रामपुरस्थानकं प्रति साक्षात् गच्छति किम्।

पूछताछ काउंटर। नहीं।आपको गाड़ी बदलनी होगी। लेकिन Bandra Express सीधे रामपुर जाती है।

परिपृच्छपटलम्। नैव। भवत्या रेलयानं परिवृत्येत। परन्तु Bandra Express इति रेलयानं साक्षात् रामपुरस्थानकं गच्छति।

रेखा। क्या रामपुर के लिए सीधा टिकट मिल सकता है।

साक्षात् रामपुरस्थानकं गमनाय मया चिटिका प्राप्स्यते किम्।

पूछताछ काउंटर। हां मिल सकता है।

परिपृच्छपटलम्। आम्।

रेखा। मालभाड़ा किस प्रकार लिया जाता है।

वस्तूनां भाटकं कथं स्वीक्रियते।

~उमेशगुप्तः संवादसङ्ग्रहः

माधवोऽयं वृक्षच्छायोपासीनां राधिकां वदति। कथम् असि राधिके। किं करोषि।

राधिका वदति। चिन्तनम्।

माधवः। अहो कस्योपरि।

राधिका। संसारस्य।

माधवः। संसारस्तु असारः।

राधिका। पिता वदति स्म यौवने प्राप्ते मम विवाहं कारयिष्यति।

माधवः। तदा तु बहुः कालः शेषः। अधुना त्वं कन्याऽसि।

राधिका। किमर्थं माम् अन्यस्मै कस्मैचिद् दास्यति। किम् अहं दानकरणार्थं जनिता मम पितृभ्याम्। किम् अहं भारोऽस्मि। मम भ्रात्रे कदाऽपि न त्यागस्य भयम्।

माधवः। कथम् एवं कुचिन्तनं मनसि उद्भूतं ते।

राधिका। निर्गच्छ त्वम् अपि पूरुषः। त्वं कन्यादुःखं कथं जानीयाः।

माधवः। प्राप्तवयाः कन्या सत्पुरुषाय ददाति पिता। सा तत्र गत्वा सम्पूर्णस्य गृहस्य स्वामिनी भूत्वा राजते। सा गृहं स्वानुकूलं पत्यनुकूलं च करोति यत्र प्रीतिः प्रफुल्लति। तौ दम्पती परस्परं मिलित्वा धर्मार्थकाममोक्षान् साध्नुतः। नापतिः सुखमेधेत इति सीतावचनम्।

अयं पितृमोहो न शोभते ते। या स्त्री प्राप्तवया अपि न विवाहिता तां दौर्भाग्यशालिनीं मन्यते लोकः तथा न कोऽपि शुभकार्येषु आमन्त्रणं ददाति तस्यै। सा आजीवनं बान्ध्या तिष्ठति। नरैश्च कुदृष्ट्या विलोक्यते सा।

राधिका। न एतादृशं चिन्तनं मया लक्षितम्। तत्र तु बहुक्लेशो भाति भोः।

माधवः। अत्र न संशयः। या स्त्री परवश्यताभयाद् विवाहो न करोति तस्य जीवनं रुक्षं भवति। दम्पत्योर्जीवनम् अतिप्रीतिकरो भवति। न केवलः सखाभावो विद्यते तत्र अपि तु पतिः परमेश्वररूपेण सेव्यते सन्नार्या। पुनश्च सैव देवीरूपेण पूज्यते सकुटुम्बेन पतिना। सम्मानश्च प्रेम च अपि अगाधौ भवतः। या स्त्री धनलोभाय श्रेष्ठत्वप्रदर्शनाय वा विवाहाद् भीता सा धनं मानं च प्राप्य अपि असन्तोषम् एव लभते न सुखम्॥

वृक्षच्छायोपासीनां। seated under tree shade। पेड़ की छाया में बैठी

जनिता। born (by)। जनी गई।

रुक्षं। rough। स्नेहरहित

परवश्यताभयाद्। From the fear of subjugation। पराधीनता के भय से

सकुटुम्बेन। With family। परिवार सहित

अगाधौ। Deep (respect and love)। गहरा (सम्मान और प्रेम)

प्राप्तवया। Of attained age। आयु प्राप्त

बान्ध्या। Childless। संतानहीन

@samvadah संवादसङ्ग्रहः

येन केन प्रकारेण युद्धं विजित्य म्लेच्छदेशात् समागत्य यवनाधिपो भारतस्य राजसिंहासने विरराज। तेन सह मेलितुं ब्राह्मणानां प्रमुखाः तेषां नेत्रा वैदेहीप्रियेण सह समागताः।

सभामध्ये ब्राह्मणप्रमुखाः तदग्रे यवनाधिपस्य अभिमुखं च वैदेहीप्रियः स्थितः। आदौ स यवनाधिपम् अभ्यवादयत्। सशङ्कः स तत् स्वीकृत्य पप्रच्छ।

यवनाधिपः। कोऽसि त्वम्। किमर्थं चात्र समागताः स्थ।

वैदेहीप्रियः। यान् पराजित्य अत्र विराजसे तेषां गुरवो वयम्। प्रजायाश्च सततं ज्ञानमार्गस्य प्रदातारो वयं ब्राह्मणाः। अत्र वक्ता अयं श्रीरामकृपापात्रो वैदेहीप्रियः।

ब्राह्मणाः। साधो३ साधो३।

सभा गुञ्ज्यते।

यवनाधिपः सोपहासम्। कियज्ज्ञानवान् असि।

वैदेहीप्रियः। एतावद् यद् वक्तुं शक्ये युद्धे अश्वपतनकारणेन तव दक्षिणपादः पीडयति। तस्य औषधिरपि ज्ञायते तद् मान्यवरः कौशिकशर्मा तुभ्यं दास्यति।

कौशिकशर्मा। यथा आज्ञापयति आर्यः।

यवनाधिपः। कथम् एतत् ज्ञातं त्वया।

वैदेहीप्रियः। उपवेशनरीत्या ते।

यवनाधिपः। न एतत् मम वैद्यैरपि निराकृतम्। तव औषधिः अनुपयोगिनी चेद् तव शिरच्छेदनं निश्चितम्।

वैदेहीप्रियः। स्वहस्तेन छित्वा दास्ये तुभ्यम्।

यवनाधिपः स्ववैद्यान् कोपेन अपश्यत्। ते सर्वे नतमुखाः सन्ति। पुनरवदत् वैदेहीप्रियम्। अत्र किमर्थम् आगमनम्।

वैदेहीप्रियः। युद्धविजयाद् अत्र राज्यं ते अधिकारः। अत्र शास्त्रवचनैः शासनं भवति तत्पालनं वो राजधर्मः। तत् सर्वान् नियमान् विलिख्य भवन्तम् अर्पयितुम् अस्माकम् आगमनम्।

यवनाधिपः। किङ्किङ्किम्। त्वं चिन्तयसि यद् तव नियमैर्मम शासनं प्रचलिष्यति। श्रूयताम्।

सभासद उच्चैर्हसन्ति। यवनाधिपो मन्दं हसति।

वैदेहीप्रियः। विना शास्त्रवचनं नात्र शासनं ते सम्भवेत्। जनविद्रोहः अवश्यंभावी।

यवनाधिपः। आदौ त्वां तदनु च एकैकं हनिष्यामि।

ब्राह्मणा उच्चैः। अनार्यमिदम् अनार्यमिदम्।

ततः शान्तिः।

पुनः वैदेहीप्रियः। प्रजाः हत्वा शासनं केषु करिष्यसि। पूर्ववत् अतिदरिद्रयवनानाम् उपरि। न करम् अपि दास्यन्ति ते तुभ्यम्।

यवनाधिपः क्रुद्धः सन् उत्थाय वैदेहीप्रियस्य अतिनिकटं गच्छति। तं दृष्ट्वा सर्वे सभासदः अपि स्वस्वासनेभ्यः उत्तिष्ठन्ति।

यवनाधिपः। किं त्वं चिन्तयसि धनलोभेन अहं तव नियमान् स्वीकरिष्ये।

वैदेहीप्रियोऽपि निकटं गत्वा। किं भवान् चिन्तयति यद् मृत्युभयेन वयं शास्त्राणि त्यक्ष्यामः।

सर्वे सभासदः स्वखड्गान् स्वस्वपाणौ आकर्षयन्ति।

ब्राह्मणा उच्चैः। धर्मो विजयताम्। शास्त्राणि अभिवर्ध्यन्ताम्।

यवनाधिपः हस्तम् उत्थापयति। सभासदः शान्ता भवन्ति। तथैव वैदेहीप्रियोऽपि ब्राह्मणाश्च मौनाः।

दूत आयाति।

दूतः। जयतु राजा। राजन् जनानां सहस्राणि दण्डपाणयः राजभवनं परितः तिष्ठन्ति।

वैदेहीप्रियः। भवतो वचनं प्रतीक्षन्ते।

यवनाधिपः‌। किं त्वं चिन्तयसि एते दण्डैर्मां जेष्यन्ति।

वैदेहीप्रियः। पराङ्मुखं भूत्वा न मरिष्यन्ति ते इति मम वचनं भवते।

यवनाधिपः वृद्धमन्त्रिणं पश्यति।

वृद्धः। किमर्थं भवान् कुप्यति। यथा वदसि तथैव भविता। अस्माकं ग्रन्थेषु निर्देशो विद्यते यद् यः अस्माकं मतं न स्वीकर्तुं शक्नुवन्ति ते अतिरिक्तं करं दत्त्वा जीवितुं शक्नुवन्ति।

वैदेहीप्रियः। किं राजाऽपि तन्मतावलम्बी।

वृद्धः। अवश्यम् अवश्यम्। किन्नु राजन्।

यवनाधिपः। भवतु। भवतो वचनं सत्यं करिष्ये।

वृद्धः। अधुना प्रसीदत।

वैदेहीयप्रियः। साधो३ साधो३।

ब्राह्मणाः। साधो३ साधो३।

इति शम्॥

आदौ। In the beginning। प्रारंभ में

यवनाधिपः। Muslim ruler। मुस्लिम शासक

श्रीरामकृपापात्रः। Recipient of Shri Ram's grace। श्रीराम की कृपा का पात्र

विरराज। Presided। विराजमान हुआ

अश्वपतनकारणेन। Due to the falling from the horse। घोड़े से गिरने के कारण

उपवेशनरीत्या। By the method of sitting। बैठने की विधि से

शिरच्छेदनं। Beheading। सिर काटना

नतमुखाः। With Bowed heads। झुके हुए सिर वालें

सभासदः। Assembly members। सभा के सदस्य

अनार्यम्। Uncivilized। असभ्य

आकर्षयन्ति। (They) draw। (वे तलवार) निकालते हैं।

दण्डपाणयः। With staff in hand। हाथ में दंड लिए हुए

अतिरिक्तं। Extra। अतिरिक्त

तन्मतावलम्बी। Adherent of that opinion। उस मत का अनुयायी

प्रसीदत। (You all) Be pleased। (आप सब) प्रसन्न हो

@samvadah संवादसङ्ग्रहः

प्रथमाभ्यासः।

गीता। सुदिनम् आर्य।

शिक्षकः। सुदिनं गीते। अपि सर्वं कुशलम्।

गीता। आम् आर्य सर्वं कुशलम्। एषा मम सखी संस्कृतेन भाषणं कर्तुम् इच्छति।

शिक्षकः। एवम्।

गीता। आम् आर्य।

शिक्षकः। उत्तमः कल्पः। अस्याः नाम किम्।

गीता सखीं प्रति। कथय स्वनाम कथय।

माधुरी। मम नाम माधुरी।

शिक्षकः। मधुरं नाम सुन्दरं नाम। अस्याः पितुः नाम सरोजः मन्ये।

गीता। आम् आर्य भवान् कथम् अज्ञासीत्।

शिक्षकः। मुखसादृश्यात्। सः मम सहपाठी आसीत्।

माधुरीं प्रति। तव निवासः कुत्र।

माधुरी। निकटे अर्धक्रोशकदूरे।

शिक्षकः। माधुरि त्वं तु संस्कृतं वदसि।

गीता। आर्य एषा विद्यालये वर्षद्वयं पठितवती। किन्तु अस्याः भयम् अस्ति।

शिक्षकः। भयम् अस्ति। कस्मात्।

माधुरी। न हि। व्याकरणात्। अहं रटितुं न शक्नोमि।

शिक्षकः। रटनं न आवश्यकम्।

गीता। आर्य तदेव अहम् अचकथम्। एषा विश्वासं न करोति।

शिक्षकः। माधुरि त्वम् अस्माकं पद्धतिं पश्य। यदि न रोचते न आगच्छ।

गीता। आर्य एषा कदा आगच्छेत्।

शिक्षकः। श्वः आगन्तुं शक्नोति।

गीता। श्वः कदा।

शिक्षकः माधुरीं प्रति। प्रभाते सप्तवादने आगन्तुं शक्नोषि।

माधुरी। आम् आर्य आगमिष्यामि।

शिक्षकः। साधु। भयं मा कुरु। अहं न ताडयिष्यामि।

माधुरी। अनुगृहीतास्मि। नमोऽस्तु आर्य।

शिक्षकः। नमस्ते। पुनर्दर्शनाय।

संवादसङ्ग्रहः

षष्ठाभ्यासः

शिक्षिका। भरतस्य सञ्चिका कुत्र।

भरतः। आर्ये एषः ददामि। किञ्चित् अवशिष्टम् अस्ति।

शिक्षिका। शीघ्रं देहि। अत्र श्रद्धायाः सञ्चिकाऽपि नास्ति।

श्रद्धा। आर्ये मम सञ्चिका लुप्ता।

शिक्षिका। तव सञ्चिका लुप्ता। कथं लुप्ता।

श्रद्धा। न जानामि।

शिक्षिका। कुतः नूतनसञ्चिकां न क्रीणासि।

श्रद्धा। अद्य क्रेष्यामि आर्ये क्षम्यतां तत्।

शिक्षिका। शान्त्याः सञ्चिकां न पश्यामि। केतक्याः सञ्चिकापि नास्ति।

शान्तिः। आर्ये मम सञ्चिका अधुनैव समाप्ता। मया अर्धं लिखितम्।

केतकी। ममापि समाप्ता। पश्य आर्ये।

दर्शयति।

शिक्षिका। अद्यैव नूतनसञ्चिकां क्रीणीहि।

शान्तिं प्रति। त्वम् अपि।

उभे। आम् आर्ये।

शिक्षिका। अभिजितः हस्तलेखं पश्यत। कोऽपि अस्य हस्तलेखं पठितुं शक्नोति।

अभिजित्। आर्ये मम हस्तलेखः इत्थम् एव। किं कुर्याम्।

शिक्षिका। प्रतिदिनं न्यूनतः पृष्ठमेकम् अनुलिख।

अभिजित्। लेखिष्यामि आर्ये।

शिक्षिका। अद्यैव आरम्भं कुरु।

अभिजित्। करिष्यामि।

शिक्षिका। अत्र रवेः मुखं न पश्यामि। सप्ताहात् रघोः दर्शनं नास्ति। किं जातं तयोः।

छात्राः। वयं न जानीमः।

शिक्षिका। कोऽपि तयोः गृहं जानाति।

विकासः। अहं जानामि आर्ये।

शिक्षिका। तयोः पितरं सूचय। तौ मां पश्येताम्।

विकासः। सूचयिष्यामि।

शिक्षिका। साधु।

संवादसङ्ग्रहः

पुरुषः। महात्मन् अहं पापिषु निकृष्टतमोऽस्मि।👺

महात्मा। किं कस्यचिद् हिंसा विहिता त्वया।

पुरुषः। किमन्येषां कथा अहं लघुकन्याम् 👧🏻 अपि अहनम्।🔪

महात्मा। किं बाल्यकाले सुसंस्कारो न प्राप्तः।

पुरुषः। मम पिता श्मशाने शवान् ⚰ दहति। बाल्ये तस्य धनं 💰 मातुराभूषणानि 💍 च चोरयित्वाऽहं गृहान्निर्गतः।🏃🏾‍♂🏠

महात्मा। किं तव विवाहो जातः।

पुरुषः। मम पत्नी सुन्दरी आसीत्। 👩🏻 कुरूपिणम् अपि माम् अवृणोत्। भोजने मांसम् 🍗अपचन्त्याः 🚫👩🏻‍🍳 तस्याः सुन्दरं मुखं दग्धकाष्ठेन 🔥🪵 प्राहरम्।

महात्मा। अधुना किम् इच्छसि।

पुरुषः। मां क्षमस्व क्षमस्व माम्।🙇🏻‍♂ भवतः क्षमां प्राप्य मम सर्वपापानां नाशो भवेद् इति मम दृढविश्वासः।😖 भवत उपदेशं विश्रुत्य👂 अत्र भवन्तम् एकाकिनं च प्राप्य समागतोऽस्मि। मम सन्तापं हरस्व। अहम् अपराधी अस्मि। 😢

महात्मा। अहं ते सर्वान् पापान् क्षंस्ये।

पुरुषः। ननु सत्यं ब्रवीषि।

महात्मा। केवलम् एकं वचनं प्रतिजानीहि।

पुरुषः। किं भगवन्।

महात्मा। कर्मणा वाचा मनसाऽपि च कृष्णं भज भज कृष्णम्।

पुरुषः। किं मम महापातकानि एतानि भजनमात्रेण संशोत्स्यन्ते।

महात्मा। अवश्यम् एतत्। भक्तेः स्वरूपं माहात्म्यं च जानीहि। भक्तिः अग्निरिव भवति। यथा अग्निः तीव्रतापेन अन्नं संशुध्य भोज्यत्वं ददाति तथा भक्तिर्दृढविश्वासेन जीवं संशुध्य ब्रह्मत्वं ददाति। भगवतैवोक्तं च।

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः।

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥

पुरुषः। महात्मन् अहं वचनं ददामि सर्वान् पापकर्मान् त्यक्त्वा ईश्वरभजन एव दृढमनसा उपक्रमं करिष्ये।

महात्मा। साधु निश्चितं त्वया। स्वस्तिर्भवतु ते सदा।

संवादसङ्ग्रहः

आसीत् कश्चन भिक्षुर्यः प्रातः पुण्यसलिलाया नद्यास्तटे स्नानार्थमागच्छतो जनानभिक्षत।एकदा तु सेवकगणपरिवृतो मणिभूषणविभूषितः कश्चिद्राजकुमारो वेगवन्तमश्वमारुह्य तत्र स्नातुमुपाजगाम।

स भिक्षुकः सर्वान् याचते स्म किन्तु धनवैभवशालिनं तं राजपुत्रमपश्यन्निव गच्छति स्म। स्वस्यावज्ञया किञ्चित्कुपितो राजकुमारस्तं भिक्षुकमाजुहाव।

राजकुमारः। भो भो भिक्षुक इत इतः। किं मां सर्वसम्पन्नं महादातारमपि न पश्यसि यन्मां विहाय त्वमन्येभ्यो याचसे।

भिक्षुकः। भोः कुमार कस्ते अभिप्रायः मां प्रति।

राजकुमारः। किं न मां याचसे। कथं मामुपेक्षितुं प्रधृष्णोषि।

भिक्षुकः। भवान् किमिव दद्यान्मे।

राजकुमारः। अये दुष्ट किं मां कृपणं मन्यसे। मत्सन्निधौ कृतकृत्यो भविष्यसि। अहं राजपुत्रोऽस्मि। पश्येदं ममैकमेव महारत्नखचितं काञ्चनमयमुपाहितमङ्गुलीयकम्। यद्येतत्तुभ्यं दद्यां तर्हि तव सकलवर्षस्य भोजनचिन्ता दूरीभवेत्।

भिक्षुकः। अनेन भवदीयेनाङ्गुलीयकेन मम किं प्रयोजनम्।

राजकुमारः। किं मां केवलं वाचालं कल्पयसि। गृहाण तर्हीदम्। अधुनाप्रभृत्येषा मुद्रिका तवैव।

भिक्षुकः। किं सत्यम् अस्याः स्वामित्वं मह्यं प्रयच्छसि।

राजकुमारः। बाढम् इयं तवैव। यथेच्छं भुङ्क्ष्व।

इत्युक्ते सति भिक्षुकस्तां मुद्रिकां गृहीत्वैव तत्क्षणं पार्श्वस्थे सरसि अतिवेगेन निचिक्षेप। तद्विलोक्य राजकुमारो भृशं चुक्रोध।

राजकुमारः। हा हा मूढमते किं सर्वां बुद्धिं विक्रीय भिक्षणम् आचरसि। किमर्थं मम अङ्गुलीयकं तत्र अक्षैप्सीः। शीघ्रं ब्रूहि किमर्थमेवं कृतवानसि। नोचेत्त्वामप्यत्रैव जले निमज्ज्य मारयिष्यामि।

भिक्षुकः। किं तद् भवतः अङ्गुलीयकम्। मया चिन्तितं यत्तस्य स्वामित्वं मह्यं ददासि। तथापि मा विषीद। यन्मया क्षिप्तं तल्लोष्टमात्रमासीत्। इदं भवदीयमङ्गुलीयकं ममान्यस्मिन् पाणौ सुरक्षितमस्ति। गृहाण स्वकम्। अहम् अन्यत्र गत्वा भिक्षे।

इत्युक्त्वा स भिक्षुको राजकुमारस्य हस्ते तत् प्रतिदाय गन्तुमैच्छत्। तदा राजकुमारो दत्त्वापि वस्तुनि स्वकीयं ममत्वं विज्ञाय नितरां लज्जितोऽभवत्।

राजकुमारः। भो भो भिक्षुक तिष्ठ। मम अपराधः क्षम्यताम्। मयाद्य ज्ञातं यद् दानस्य सारो न वस्तुनि किन्तु त्यागे वर्तते। दत्त्वापि यन्ममत्वं नापयाति तद्दानं निष्फलमेव। भवान् न साधारणो भिक्षुः अपितु कश्चित् प्राज्ञ एव। कृपया मामज्ञं शिष्यं मत्वा ज्ञानोपदेशेन मामनुगृह्यताम्। इदं च स्वाङ्गुलीयकं गुरुदक्षिणारूपेण स्वीक्रियताम्।

ततः स प्रबुद्धो भिक्षुस्तं राजकुमारं शिष्यत्वेन स्वीकृत्य ज्ञानोपदेशेन तस्य चित्तमलं न्यवारयत्॥

संवादसङ्ग्रहः

Explore a rich collection of Sanskrit conversations (samvadas) curated from the Telegram channel t.me/s/samvadah up until August 20, 2025. This compilation features diverse authors and includes original dialogues by संस्कृत संवादः, designed to educate anyone with a basic knowledge of Sanskrit. The conversations are a mix of formal and casual discussions, providing insights into the beauty and depth of the Sanskrit language. For more information about Samvadah, visit linktr.ee/samvadah and join us in celebrating the art of dialogue and the timeless relevance of Sanskrit.