श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम्

विकिस्रोतः तः
(श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

<poem>

.. श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम् .. विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः . स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः .. १.. अग्निगर्वच्छिद इन्द्रश्रीप्रदः . वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः .. २.. सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः . शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः .. ३.. द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः . एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः .. ४.. लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः . कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः .. ५.. पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः . अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः .. ६.. बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः . द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् .. ७.. श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः . कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः .. ८.. चन्द्रचूडामणिः कान्तः पापहारी समाहितः . अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः .. ९.. शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः . ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ..१०.. प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः . रामार्चितोविधिर्नागराजयज्ञोपवीतकः ..११.. स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः . स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः .. १२.. दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् . शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः .. १३.. स्वलावण्यसुधासारो जितमन्मथविग्रहः . समस्तजगदाधारो मायी मूषकवाहनः ..१४.. हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः . अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं .. १५.. तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः . यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ..१६.. दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः . सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ..

<poem>