सामग्री पर जाएँ

श्रीवैष्णववन्दना

विकिस्रोतः तः
श्रीवैष्णववन्दना
विष्णुस्तोत्राणि
[[लेखकः :|]]

सनातनसमो यस्य ज्यायान्श्रीमान्सनातनः ।
श्रीवल्लभोऽनुजल्ह्सोऽसौ श्रीरूपो जीवसद्गतिः ॥१॥

सर्वावतारतद्भक्तैर्भगवान्श्रीशचीसुतः ।
अवतीर्णः कलौ कृष्णस्तत्तद्भावपरः प्रभुः ॥२॥

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् ।
यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधसः ॥३॥

एको देवो कृष्णचन्द्रो महीयान्
देवो नित्यानन्द एष स्वरूपो
गङ्गारीव द्विधात्मानं क्रियान्नः ॥४॥

अद्वैतादिप्रियात्मा वै द्वितीयः ।
श्रीमद्रूपाद्यनेकमुख्यशक्तिः ।
छायां दद्यात्ताप तप्तेष्वधीशः ॥५॥

तद्वन्दनं तत्स्मरणं सर्वसिद्धिविधायकम् ।
जीवेन केन क्रियते पौर्वापर्यमजानता ॥६॥

अपराधान्क्षमध्वं मे महान्तः कृष्णचेतसः ।
ये यथा हि भवन्तोऽत्र युष्मान्जानन्ति तत्त्वतः ।
भगवान्तथा वाचयतु तदादेशप्रवर्तितम् ॥८॥

वन्दे शचीजगन्नाथौ यशोदानन्दरूपिणौ ।
ययोर्विश्वरूपविश्वम्भरदेवौ सुतावुभौ ॥९॥

अथ वन्दे विश्वरूपं संन्यासिगणभूपतिम् ।
शङ्करारण्यसंज्ञं तं चैतन्याग्रमद्भुतम् ॥१०॥

वन्दे श्रीगौरचन्द्रं रसमयवपुषं धामकारुण्यराशेर्
भावं गृह्णन्रसयितुमिह श्रीहरिं राधिकायाः ।
उद्धर्तुं जीवसङ्घान्कलिमलमलिनान्सर्वभावेन हीनान्
जातो यो वै सुखापः परिजननिकरैः श्रीनवद्वीपमध्ये ॥११॥

देवं गदाधरं यो हि द्वितीयः काय ईशितुः ॥१२॥

स च विद्यानिधेः शिष्यः प्रभुभक्तिरसाकरः ।
सोऽसौ गदाधरो धीरः सर्वभक्तजनप्रियः ॥१३॥

वन्दे पद्मावतीं तस्याः पतिं हड्डिपपण्डितम् ।
वन्दे नित्यानन्ददेवं बलभद्रं स्वयं प्रभुम् ।
आनन्दकन्दमभयं लोकनिस्तारकं गुरुम् ॥१५॥

पुरुषः प्रकृतिः सोऽसौ बाह्याभ्यन्तरभेदतः ।
शरीरभेदैः कुरुते श्रीकृष्णस्य निषेवनम् ॥१६॥

वन्दे श्रीवसुधादेवीं नित्यानन्दप्रभुप्रियाम् ।
श्रीसूर्यदासतनयामीशशक्त्या प्रबोधिताम् ॥१७॥

वन्दे श्रीजाह्नवीदेवीं श्रीपुरीश्वरशिष्यकाम् ।
अनङ्गमञ्जरीं नाम यां वदन्ति रहोविदः ॥१८॥

तस्याज्ञया तं स्वरूपं संन्यस्य गच्छतः प्रभोः ।
सेवते परमप्रेम्णा नित्यानन्दं दृढव्रता ॥१९॥

विरहाकर्षिता नित्यं वृन्दारण्यगतेश्वरी ।
गोपीनाथं द्रष्टुमनास्तन्नीवीं विचकर्ष सः ॥२०॥

आकृष्टनीविका देवी तमुवाच रसोदयम् ।
आगमिष्यामि शीघ्रं ते पदयोरन्तिकं पदम् ॥२१॥

वीरचन्द्रं प्रभुं वन्दे श्रीचैतन्यप्रभुं हरिम् ।
कृतद्वितीयावतारं तं भुवनत्रयतारकम् ॥२२॥

वेदधर्मरतं तत्र विरतं निरहङ्कृतम् ।
निर्दम्भं दम्भसंयुक्तं जाह्नवीसेवकं त्विह ॥२३॥

नित्यानन्दप्रभुसुतां राधाकृष्णद्रवात्मिकाम् ।
माधवाचार्यवनितां सच्चिदानन्दरूपिणीम् ॥२४॥

श्रीप्रेममञ्जरीमुख्यां जगतां मातरं वराम् ।
वन्दे गङ्गां प्रेमदात्रीं भुवनत्रयपावनीम् ॥२५॥

सा गङ्गा जाह्नवीशिष्या सहेशैरपि पावनैः ।
विरिञ्चापहृताहान्तः पुनाति भुवनत्रयम् ॥२६॥

द्विजकुलतिलकं कृतावतारं गङ्गां गृहीतुकामावतीर्णाम् ।
माधवं माधवरूपं रसमयतनुं प्रेमाख्यम् ॥२७॥

ईश्वरपुरीशिष्यश्च सर्वदर्शनपावकः ।
विष्णुभक्तप्रधानश्च सद्गुणावलीभूषितः ॥२८॥

विचार्य तेषु मतिमान्कर्मज्ञानपराक्षिपन।
कृष्णप्रेमतत्त्वं निर्णिनाय दयानिधिः ॥२९॥

यतिकुलतिलकं पुराणं मुनीन्द्रमादिगुर्वीशभक्तं च ।
वन्दे माधवेन्द्रं व्यक्तां चकार हरिभक्तिं यः ॥३०॥

वन्देऽद्वैतं कृपालुं परमकरुणकं शाम्भवं धाम साक्षात्
येनानीतस्तपोभिः परिकरसहितः श्रीशचीनन्दनोऽत्र ।
कैलास्यादिशक्तिं त्रिभुवनजननीं तत्प्रियां नाम सीतां
यस्यास्तुष्टः प्रसादं त्रिजगति च ददौ श्रीजगन्नाथ आस ॥३१॥

तं वन्दे परमानन्दं कृष्णचैतन्यवल्लभम् ।
योऽसौ श्रीकृष्णचैतन्यतत्त्वज्ञोऽच्युतसंज्ञकः
ते दैवेन हता परे च बहवस्तान्नाद्रियन्ते स्म हि ।
ते त्वमिच्छयाच्युत मृते त्याज्यामयोपेक्षिताः ॥३३॥

श्रीवासं नारदं वन्दे मालिनीं प्रति मातरम् ।
ततो नारायणीदेवीमधरामृतसेवनीम् ॥३४॥

श्रीनित्यानन्दचैतन्यगुणवर्णनकारिणम् ॥३५॥

हरिदासं ब्रह्मधाम हरिनामप्रकाशकम् ।
वन्दे वाणीमूर्तिभेदं जगदानन्दपण्डितम् ॥३६॥

गोपीनाथं ततो वन्दे चैतन्यस्तुतिकारकम् ।
श्रीचन्द्रशेखरं वन्दे चन्द्रवत्शीतलं सदा ।
आचार्यरत्नं गोविन्दगरुडं गौरमानसम् ॥३८॥

श्रीकृष्णनिर्मलगुणगानोन्मत्तं महाशयम् ।
वन्दे मुकुन्ददत्तं च किन्नरैः स्तूयमानकम् ॥३९॥

वन्दे वासुदेवदत्तं महत्त्वैः परिपूरितम् ।
यस्याङ्गवायुस्पर्शेन सद्यःप्रेमयुगे भवेत॥४०॥

दामोदरपीताम्बरौ जगन्नाथशङ्करनारायणांश्च ।
पञ्च निर्वासनान्वन्दे साधून्महाशयांस्तान॥४१॥

प्रभुमातामहख्यातिं नीलाम्बरचक्रवर्तिनं वन्दे ।
यो लिखितवान्कोष्ठिं भविष्यद्वर्णनसंयुक्ताम् ॥४२॥

श्रीरामपण्डितं वन्दे सर्वभूतहिते रतम् ।
गुणैकधाम श्रीगुप्तनारायणमहाशयम् ॥४३॥

नवद्वीपकृतावासं गङ्गादासं गुरुं परम् ।
वन्दे श्रीविष्णुदासं च श्रीसुदर्शनसंज्ञकम् ॥४४॥

वन्दे सदाशिवं विद्यानिधिं श्रीगर्भमेव च ।
श्रीनिधिं बुद्धिमन्तं च श्रीलशुक्लाम्बरं परम् ॥४५॥

ब्रह्मचारिण एतान्वै प्रेमिणो यान्महाशयान।
श्रीरामदासं च कविचन्द्रं चैव कृपानिधिम् ॥४६॥

श्रीधरमुदारं ख्यातं तनयसहितवनमालिनं च ॥४७॥

हलायुधवासुदेवौ श्रीचैतन्यमानसाउ विमलौ ।
वन्दे ईशानदास;ं शचीदेवीप्रीतिभाजनं च ॥४८॥

श्रीमान्सञ्जयौ वन्दे विनयेन कृपामयौ ।
परमानन्दलक्ष्मणौ तौ चैतन्यार्प्तिअमानसौ ॥४९॥

गरुडकाशीश्वरं जगदीशगङ्गादासावुभौ ।
कृष्णानन्दं मधुरं वन्दे रायमुकुन्दं परमम् ॥५०॥

वन्दे वल्लभमाचार्यं लक्ष्मीकन्यामनोरमाम् ।
यो दत्तवान्शचीजाय वराय गुणराशिभिः ॥५१॥

अथो सनातनं वन्दे पण्डितं गुणशालिनम् ।
विष्णुप्रिया सुता येन शचीजाय समर्पिता ॥५२॥

काशीनाथं द्विजं वन्दे आचार्यं वनमालिनम् ।
लक्ष्मीदेवीविवाहार्थं घटनां योऽन्वचिन्तयत॥५३॥

श्रीकेशवभारतीं वन्दे यं कृत्वा गुरुमीश्वरः ।
आत्मानं मानयामास धन्यं चैतन्यसंज्ञकः ॥५४॥

श्रीकेशवभारतीं वै सन्न्यासिगणपूजिताम् ।
वन्दे ययाकृतः न्यासी न्यस्तधर्मा महाप्रभुः ॥५५॥

सदा प्रभुवशां वन्दे रामचन्द्रपुरीं ततः ।
श्रीपुरीपरमानन्दं मुग्धव्याख्यं हरिप्रियम् ॥५६॥

सत्यभामासमां वन्दे दामोदरपुरीं ततः ।
वन्दे नरसिंहतीर्थं सुखानन्दपुरीं ततः ॥५७॥

गोविन्दानन्दनामानं ब्रह्मानन्दपुरीं ततः ।
नृसिंहानन्दनामानं सत्यानन्दं च भारतीम् ॥५८॥

वन्दे गरुडावधौतं ह्यद्भुतप्रेमशालिनम् ।
ततो विष्णुपुरीं वन्दे भक्तिरत्नावलीकृतिम् ॥५९॥

ब्रह्मानन्दस्वरूपं च कृष्णानन्दपुरीं ततः ।
श्रीराघवपुरीं वन्दे भक्त्या परमया मुदा ॥६०॥

वन्दे विश्वेश्वरानन्दं श्रीकेशवपुरीं ततः ।
वन्देऽथानु भवानन्दं चिदानन्दं सुचित्तकम् ॥६१॥

वन्दे तौ परमानन्दौ प्रभू रूपसनातनौ ।
विरक्तौ च कृपालू च वृन्दावननिवासिनौ ॥६२॥

यत्पादावुपरि मलगन्धलेशविभावितः ।
जीवनामा निषेवेय ताविहैव भवे भवे ॥६३॥

श्रीरूपः सर्वशास्त्राणि विचार्य प्रभुशक्तिमान।
कृष्णप्रेमपरं तत्त्वं निर्णिनाय कृपानिधिः ॥६४॥

सनातनो भक्तकृत्यं गोपालभट्टनामतः ।
हरिभक्तिविलासादि कृतवान्निरपेक्षकः ॥६५॥

स [गोपालभट्तः] सनातननिकटवर्ती हरिगुणरतः ।
दिवसरजनीं सुखेन यापयामास मतिमानिह ॥६६॥

तदुदितं प्रभुरूपगुणं निशम्य गोपालभट्टः सततं हि ।
आत्मानं धन्यं खलु मानयामास परितो हि यः ॥६७॥

वन्दे रघुनाथदासं राधाकुण्डनिवासिनम् ।
चैतन्यसर्वतत्त्वज्ञं त्यक्तान्यभावमुत्तमम् ॥६८॥

गोस्वामिनं राघवाख्यं गोवर्धनविलासिनम् ।
वन्दे भावविशेषेण विचरन्तं महाशयम् ॥६९॥

वन्दे रघुनाथभट्टं श्रीभागवताध्यापकं विनयेन ।
लोकनाथगोस्वामिनं भूगर्भठक्कुरं विमलम् ॥७०॥

प्रबोधानन्दसरस्वतीं वन्दे विमलां यया मुदा ।
चन्द्रामृतं रचितं यच्छिष्यो गोपालभट्टकः ॥७१॥

ततः काशीश्वरं वन्दे ततः शुद्धसरस्वतीम् ।
ततश्च राघवानन्दं नित्यानन्दानुभाविनम् ॥७२॥

श्रीमान्पद्मावतीसूनुर्यद्वेश्मनि कुतूहली ।
दाडिम्बवृक्षे नीपस्य पुष्पं वै समयोजयत॥७३॥

वन्दे पुरन्दरं साक्षदङ्गदेन समं त्विह ।
यल्लाङ्गुलं सन्ददर्श गृहे कश्चिद्द्विजोत्तमः ॥७४॥

वन्दे काशीमिश्रवरमुत्कलस्थं सुनिर्मलम् ।
यस्याश्रमे गौरहरिरासीत्तद्भक्तिपूजितः ॥७५॥

वाणीनाथं ततो वन्दे श्रीजगन्नाथजीवनम् ।
रामानन्दं ततो वन्दे भक्तिलक्षणसङ्कुलम् ॥७६॥

यस्याननादम्बुदाद्धि चैतन्येन कृपालुना ।
स्वभक्तिसिद्धान्तचयममृतं वर्षितं भुवि ॥७७॥

ततो वक्रेश्वरं वन्दे प्रभुचित्तं सुदुर्लभम् ।
यस्मिन्प्रेमानन्दतया कीर्तनं कृतवान्प्रभुः ॥७८॥

वन्दे सुग्रीवमिश्रं तं गोविन्दं द्विजमुत्तमम् ।
यद्भक्तियोगमहिमा सुप्रसिद्धो महीतले ॥७९॥

प्रभोर्वै गमनार्थं हि श्रीनवद्वीपभूमितः ।
आगौडभूमि येनैव बद्धः सेतुर्मनोमयः ॥८०॥

वन्दे गदाधरं दासं वृषभानुसुतामिह ।
श्रीकृष्णेनाभिन्नदेहां महाभावस्वरूपिकाम् ॥८१॥

वन्दे सदाशिवं वैद्यं यस्य स्पर्शने वै दृषत।
सद्यो हि द्रवतां याति किमुतान्ये सचेतनाः ॥८२॥

वन्दे शिवानन्दसेनं निष्ठाशान्तिपरायणम् ।
योऽसौ प्रभुपदादन्यन्नहि जानाति किञ्चन ॥८३॥

मुकुन्ददासं तं वन्दे यत्सुतो रघुनन्दनः ।
कामो रतिपतिर्लड्डुं यो गोपालमभोजयत॥८४॥

श्रीमुकुन्ददासभक्तिरद्यापि गीयते जनैः ।
दृष्ट्वा मयूरपुच्छं यः कृष्णप्रेमविकर्षितः ॥८५॥

सद्यो विह्वलतां प्राप्तः परमानन्दनिर्वृतः ।
बाह्यवृत्तीरजानंश्च पपाताधो महापदात॥८६॥

वन्दे भक्त्या नरहरिदासं चैतन्यार्पितभावविलासम् ।
मधुमत्याख्यं पुण्यं धन्यं यो न पश्यति कृष्णादन्यम् ॥८७॥

स च रघुनन्दन एष वरेण्यो नरहरिशिष्यः सुकृतिमान्यः ।
बाल्यावधितः साधुचरित्रो भक्तिविशोधितचित्तपवित्रः ॥८८॥

वन्देऽथ दासं रघुनाथसंज्ञं
पुरन्दराचार्यमुदारचेष्टम् ।
श्रीकृष्णदासं हरिपादजाशं
शान्तं कृपालुं भगवज्जनप्रियम् ॥८९॥

वन्दे प्रभुसतीर्थं वै परमानन्दपण्डितम् ।
देवानन्दपण्डितं च श्रीभागवतपाठकम् ॥९०।
वन्दे आचार्यरत्नं च विदितप्रेममर्मकम् ।
गोविन्दमाधवानन्दवासुघोषान्गुणाकरान॥९१॥

पुरुषोत्तमाख्यं दासं वै वन्दे ऐश्वर्यशालिनम् ।
कणयोकरवीपुष्पं पद्मगन्धं चकार यः ॥९२॥

वन्देऽभिरामं दासं वै यास्श्रीदामा स्वयं भुवि ।
वन्दे श्रीसुन्दरानन्दं सुदामगोपालरूपिणम् ।
यच्छिष्यो द्विपिवर्गेभ्यो हरिनाम ददाविह ॥९४॥

वन्दे श्रीगौरीदासं च गोपालं सुबलाख्यकम् ।
यन्नीतं परमानन्दं मुत्फलेऽद्वैतठक्कुरः ॥९५॥

यन्मूर्तिदर्शनात्सद्यः कर्मबन्धक्षयो भवेत॥९६॥

परमेश्वरं ततो वन्दे ठक्कुरं स्वप्रकाशकम् ।
यो नृत्यन्श्रावयामास हरिनाम शृगालकान॥९७॥

पिप्पिलायिं ततो वन्दे बाल्यभावेन विह्वलम् ।
वन्दे सङ्कीर्तनानन्दं कमलाकरदासकम् ॥९८॥

पुरुषोत्तमाख्यं तीर्थं वन्दे रसिकशेखरम् ।
कालियाकृष्णदासमथो वन्दे प्रेम्नैवविह्वलम् ॥९९॥

शारङ्गठक्कुरं वन्दे स्वप्रकाशितवैभवम् ।
येन दत्तानि सर्पेभ्यः स्थानानि निजवासानि ॥१००॥

मकरध्वजं ततो वन्दे गुणैकधामसुन्दरम् ।
यः करोति सदा कृष्णकीर्तनं प्रभुसन्निधौ ॥१०१॥

ततो भागवताचार्यं श्रीकविराजमिश्रकम् ।
अनन्तमाचार्यमथो नवद्वीपनिवासिनम् ॥१०२॥

मध्वाख्यं पण्डितं वन्दे गोविन्दाचार्यनामकम् ।
राधाकृष्णरहस्यं यो वर्णयामास ततः परम् ॥१०३॥

ततो वन्दे सार्वभौमभट्टाचार्यं बृहस्पतिम् ।
ततः प्रतापरुद्रं च यं दृष्टाः प्रभुषड्भुजाः ॥१०४॥

वन्दे रघुनाथविप्रं वैद्यं श्रीविष्णुदासकम् ।
परस्य भ्रातरं वन्दे दासं तु वनमालिनम् ॥१०५॥

विप्रदासमुत्कलस्थं हरिदासं द्विजं ततः ।
याभ्यां प्रेम्नावशं नीतः श्रीशचीनन्दनो हरिः ॥१०६॥

कानाईखूट्टियां वन्दे कृष्णप्रेमरसाकरम् ।
यस्य पुत्रौ जगन्नाथबलरामावुभौ शुभौ ॥१०७॥

वन्दे हि जगन्नाथं यद्गानात्तरवो रुदन्विवशा इह ।
गोविन्दानन्दनामानं ठक्कुरं भक्तियोगतः ।
वन्दे प्रभोर्निमित्तं यद्बद्धः सेतुश्च मानसः ॥१०९॥

ततः काशीश्वरं वन्दे श्रीसिंहेश्वरसंज्ञकम् ।
वन्दे परमभावेन माधवं पट्टनायकम् ॥११०॥

हरिभट्टं ततो वन्दे महातिं बलदेवकम् ।
सुबुद्धिमिश्रं च ततः श्रीनाथं मिश्रमुत्तमम् ॥१११॥

वन्दे श्रीतुलसीमिश्रं काशीनाथं महातिकम् ।
वसुवंश्याग्रगण्यं रामानन्दं सगोष्ठिकम् ॥११२॥

पुरुषोत्तमब्रह्मचारिमध्वाख्यपण्डितावुभौ ।
श्रीचैतन्यप्रभोर्भृत्यौ दयालू च महाशयौ ॥११३॥

महाकारुणिका एते सर्वत्र निरपेक्षकाः ।
वन्दे द्विजरामचन्द्रं श्रीधरपण्डितं दत्तवित्तम् ॥११४॥

प्रसिद्धं यस्य वैराग्यं सर्वस्वं प्रभवेऽर्पितम् ।
गृहीते भाण्डकौपीने पण्डितेन महात्मना ॥११५॥

पण्डितं श्रीजगन्नाथमाचार्यं लक्षणं ततः ।
कृष्णदासं ततो वन्दे सूर्यदासं च पण्डितम् ॥११६॥

ततो वन्दे कृष्णवंशीं वंशीवदनठक्कुरम् ।
मुरारिचैतन्यदासं यमाजगरखेलकम् ॥११७॥

वन्दे जगन्नाथसेनं परमानन्दगुप्तकम् ।
बालकं रामदासाख्यं कविचन्द्रं ततः परम् ॥११८॥

वन्दे श्रीवल्लभाचार्यं ततः कंसारिसेनकम् ।
भास्करं च ततो वन्दे विश्वकर्मस्वरूपकम् ॥११९॥

वन्दे बलरामदासं गीताचार्यलक्षणम् ।
सेवते परमानन्दं नित्याचार्यप्रभं हि यः ॥१२०॥

महेशपण्डितं वन्दे कृष्णोन्मादसमाकुलम् ।
नर्तकं पण्डितं वन्दे जगदीशाख्यपण्डितम् ॥१२१॥

ठक्कुरं कृष्णदासं च नित्यानन्दपरायणम् ।
योऽरक्षत्स्वगृहे नित्यानन्ददेवं हि भक्तितः ॥१२२॥

गौरीदासप्रेयसो हि महिमा केन वर्ण्यते ।
यो नित्यानन्दविरहात्सप्तमासांश्च वातुलः ॥१२३॥

पुनः सन्दर्शनं दत्त्वा तेनैव सुस्थिरीकृतः ।
वन्देऽथावधौतवरं परमानन्दसंज्ञकम् ॥१२४॥

अनादिगङ्गादासं च पण्डितं हि विलासिनम् ।
दासं श्रीयदुनाथाख्यं वन्दे मधुरचित्तकम् ॥१२५॥

वन्दे श्रीपुरुषोत्तमतीर्थं जगन्नाथं रामसंज्ञं च ।
वन्दे वासुदेवं तीर्थं श्रीलानन्तपुरीं ततः ॥१२६॥

मुकुन्दकविराजं च ततो राजीवपण्डितम् ।
श्रीजीवपण्डितं वन्दे सर्वसद्गुणशालिनम् ॥१२७॥

श्रीचैतन्यचन्द्रपदे भक्तिर्यस्य सुनिर्मलः ।
वन्दे सुखमयं पुण्यं पवित्रं यत्कलेवरम् ॥१२८॥

वन्दे उद्धारणं दत्तं यो नित्यानन्दसङ्गतः ।
बभ्राम सर्वतीर्थानि पवित्रात्मानपेक्षकः ॥१२९॥

वन्दे श्रीमाधवाचार्यं कृष्णमङ्गलकारकम् ।
नृसिंहचैतन्यदासं कृष्णदासं ततः परम् ॥१३०॥

वन्दे श्रीशङ्ककरं घोषमकिञ्चनवरं शुभम् ।
डम्भवाद्येन यो देवः शचीसुतमतोषयत॥१३१॥

पुनः पुनरहं वन्दे वैष्णवं च तत्पदान।
चक्रवर्तिशिवानन्दं श्रीनारायणसंज्ञकम् ॥१३२॥

प्रत्येकं वन्दनं चैषां तन्नामोच्चारणं तथा ।
विशेषगुणदीप्तानामलम्भगुणशालिनाम् ॥१३३॥

मयाविदिततत्त्वानां वैष्णवानां महात्मनाम् ।
तीर्थपादानामतुल्यं नैर्मल्ये कारणं परम् ॥१३४॥

माधवेन्द्रपुरीसंज्ञ आदिर्भक्तो गुरुस्तथा ।
तद्गुणाः कृष्णचैतन्यसेवका भक्तिदावकाः ॥१३५॥

अद्वैतद्वारतः केचित्सीताद्वारा च केचन ।
पद्मावतीसुतद्वारा जाह्नवीद्वारतस्तथा ॥१३६॥

केचित्गदाधरद्वारात्श्रीरूपद्वारतस्तथा ।
केचित्सनातनद्वारा हरिदासेन केचन ॥१३७॥

रघुनाथदासतः केचित्केचित्वक्रेश्वरेण च ।
काशीश्वरेण केचिच्च तथा नरहरेरपि ॥१३८॥

रघुनन्देन कोऽपीह सार्वभौमेन केचन ।
एवमन्ये च वै भक्ता अन्यैस्तत्सेवका इह ॥१३९॥

अतः श्रीकृष्णचैतन्यं सर्वाराध्यं जगद्गुरुम् ।
तत्तद्रूपमयं साक्षात्तमेव शरणं गतः ॥१४०॥

येऽत्रावतारिता भक्ताः कृष्णेन नित्यसङ्गिनः ।
प्रयोजनविशेषैश्च वन्दिता ये च कीर्तिताः ॥१४१॥

दासाश्चशक्तयश्चापि तथांशोश्च स्वरूपकाः ।
एषां विशेषो विज्ञेयः श्रीलभागवतामृतात॥१४२॥

प्रेम्णो वितरणं दृष्ट्वा लुब्धा येऽत्र समाययुः ।
तेऽपि वन्द्याः परेशस्य भक्तिस्पर्शविशेषिताः ॥१४३॥

एतद्वैष्णववन्दनं सुखकरं सर्वार्थसिद्धिसिद्धिप्रदं
श्रीमन्माध्विकसम्प्रदायगणनं श्रीकृष्णभक्तिप्रदम् ।
श्रीचैतन्यमहाप्रभोर्गुणमयं तद्भक्तवर्गाननु
जीवेनैव मया अमापितामिदं कृत्वा तु पादार्पितम् ॥१४३॥

इति श्रीजीवगोस्वामिविरचिता माध्वसम्प्रदायानुसारिणी
श्रीचैतन्यभक्तवैष्णववन्दना समाप्ता ।
श्रीनित्यानन्दचन्द्राय नमः ।
श्रीअद्वैतचन्द्राय नमः ।

"https://sa.wikisource.org/w/index.php?title=श्रीवैष्णववन्दना&oldid=32745" इत्यस्माद् प्रतिप्राप्तम्