श्रीवेङ्कटेशसुप्रभातम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
      ll श्रीवेङ्कटेशसुप्रभातम् ll 

॥ श्रीः ॥

  ॥ अथ श्रीवेङ्कटेशसुप्रभातम्॥

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १ ॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २ ॥

मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजन-प्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३ ॥

तव सुप्रभातमरविन्दलोचने भवतु प्रसन्न-मुखचन्द्र-मण्डले । विधिशङ्करेन्द्र-वनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ ४ ॥

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्या- -माकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५ ॥

   पञ्चाननाब्जभव-षण्मुखवासवाद्याः
   त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।
   भाषापतिः पठति वासरशुद्धिमारात्
   शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६ ॥
   	
   ईषत्प्रफुल्ल-सरसीरुह-नारिकेल-
   -पूगद्रुमादि-सुमनोहर-पालिकानाम् ।
   आवाति मन्दमनिलः सह दिव्यगन्धैः
   शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७ ॥
   	
उन्मील्य नेत्रयुगमुत्तम-पञ्जरस्थाः
पात्रावशिष्ट-कदलीफल-पायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८ ॥
   	
   तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
   गायत्यनन्तचरितं तव नारदोऽपि ।
   भाषासमग्रमसकृत्करचारुरम्यं
   शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९ ॥
   	

भृङ्गावली च मकरन्द-रसानुविद्ध- -झङ्कारगीत-निनदैः सह सेवनाय । निर्यात्युपान्त-सरसी-कमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १० ॥


  योषागणेन वरदध्निविमथ्यमाने
  घोषालयेषु दधिमन्थनतीव्रघोषाः । 
  रोषात्कलिं विदधते ककुभश्च कुम्भाः
  शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११ ॥
   पद्मेशमित्रशतपत्र-गतालिवर्गाः
   हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।
   भेरीनिनादमिव बिभ्रति तीव्रनादं
   शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२ ॥
   	

श्रीमन्नभीष्ट-वरदाखिललोक-बन्धो श्रीश्रीनिवास-जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तर-दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३ ॥

   श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः
   श्रेयोऽर्थिनो हर-विरिञ्चि-सनन्दनाद्याः ।
   द्वारे वसन्ति वरवेत्र-हतोत्तमाङ्गाः
   श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४ ॥
   	
श्रीशेषशैल-गरुडाचल-वेङ्कटाद्रि-
-नारायणाद्रि-वृषभाद्रि-वृषाद्रि-मुख्याम् ।
आख्यां त्वदीय वसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५ ॥
   सेवापराः शिवसुरेश-कृशानुधर्म-
   -रक्षोम्बुनाथ-पवमान-धनादिनाथाः ।
   बद्धाञ्जलि-प्रविलसन्निज-शीर्षदेशाः
   श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६ ॥
   	
   धाटीषु ते विहगराज-मृगाधिराज-
   -नागाधिराज-गजराज-हयाधिराजाः।
   स्वस्वाधिकार-महिमाधिकमर्थयन्ते
   श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७ ॥
   	

सूर्येन्दुभौम-बुधवाक्पति-काव्यसौरि- -स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः । त्वद्दासदासचरमावधि-दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८ ॥

   त्वत्पाद-धूलिभरित-स्फुरितोत्तमाङ्गाः
   स्वर्गापवर्ग-निरपेक्ष-निजान्तरङ्गाः ।
   कल्पागमाकलनयाकुलतां लभन्ते
   श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९ ॥
   	

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २० ॥


श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्त गरुडादिभिरर्चिताण्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१ ॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिन्ह शरणागतपारिजात श्रीवेण्कटाचलपते तव सुप्रभातम् ॥ २२ ॥

कन्दर्पदर्प हरसुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुट्मल लोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेण्कटाचलपते तव सुप्रभातम् ॥ २३ ॥

मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेण्कटाचलपते तव सुप्रभातम् ॥ २४ ॥

एला लवण्ग घनसार सुगन्धि तीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽऽद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेण्कटपते तव सुप्रभातम् ॥ २५ ॥

भास्वानुदेति विकचानि सरोरुहाणि संपूरयन्ति निनदैः ककुभो विहण्गाः । श्रीवैष्णवास्सततमर्थित मण्गलास्ते धामाऽऽश्रयन्ति तव वेण्कट सुप्रभातम् ॥ २६ ॥

ब्रह्मादयः सुरवरास्समहर्षयस्ते सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः । धामान्तिके तव हि मण्गलवस्तु हस्ताः श्रीवेण्कटाचलपते तव सुप्रभातम् ॥ २७ ॥

लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसार सागर समुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८ ॥

इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९ ॥

॥ इति श्रीवेङ्कटेश-सुप्रभातम् ॥

</poem>


सम्बद्धानुबन्धाः[सम्पाद्यताम्]

  1. श्रीवेङ्कटेशस्तोत्रम्
  2. श्रीवेङ्कटेशप्रपत्तिः
  3. श्रीवेङ्कटेशमङ्गलाशासनम्
  4. श्रीकामाक्षीसुप्रभातम्
  5. श्रीकाशीविश्वनाथसुप्रभातम्
  6. श्रीविष्णुसहस्रनामस्तोत्रम्‌