श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २१ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २३ →


मैत्रेय उवाच -
(अनुष्टुप्)
जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।
 तत्रोपजग्मुर्मुनयः चत्वारः सूर्यवर्चसः ॥ १ ॥
 तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।
 लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान् ॥ २ ॥
 तद्दर्शनोद्‍गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः ।
 ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥
 गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः ।
 विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ ४ ॥
 तत्पादशौचसलिलैः आर्जितालकबन्धनः ।
 तत्र शीलवतां वृत्तं आचरन् मानयन्निव ॥ ५ ॥
 हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।
 श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ ॥ ६ ॥
 पृथुरुवाच -
अहो आचरितं किं मे मङ्‌गलं मङ्‌गलायनाः ।
 यस्य वो दर्शनं ह्यासीद् दुर्दर्शानां च योगिभिः ॥ ७ ॥
 किं तस्य दुर्लभतरं इह लोके परत्र च ।
 यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः ॥ ८ ॥
 नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।
 यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः ॥ ९ ॥
 अधना अपि ते धन्याः साधवो गृहमेधिनः ।
 यद्‍गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः ॥ १० ॥
 व्यालालयद्रुमा वै तेऽपि अरिक्ताखिलसम्पदः ।
 यद्‍गृहास्तीर्थपादीय पादतीर्थविवर्जिताः ॥ ११ ॥
 स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः ।
 चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२ ॥
 कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।
 व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ १३ ॥
 भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।
 कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ १४ ॥
 तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् ।
 सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ १५ ॥
 व्यक्तमात्मवतामात्मा भगवान् आत्मभावनः ।
 स्वानां अनुग्रहायेमां सिद्धरूपी चरत्यजः ॥ १ ॥ ६ ॥
 मैत्रेय उवाच -
पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।
 स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ १७ ॥
 सनत्कुमार उवाच -
साधु पृष्टं महाराज सर्वभूतहितात्मना ।
 भवता विदुषा चापि साधूनां मतिरीदृशी ॥ १८ ॥
 सङ्‌गमः खलु साधूनां उभयेषां च सम्मतः ।
 यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ १९ ॥
 अस्त्येव राजन् भवतो मधुद्विषः
     पादारविन्दस्य गुणानुवादने ।
 रतिर्दुरापा विधुनोति नैष्ठिकी
     कामं कषायं मलमन्तरात्मनः ॥ २० ॥
 शास्त्रेष्वियानेव सुनिश्चितो नृणां
     क्षेमस्य सध्र्यग्विमृशेषु हेतुः ।
 असङ्‌ग आत्मव्यतिरिक्त आत्मनि
     दृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥
 सा श्रद्धया भगवद्धर्मचर्यया
     जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।
 योगेश्वरोपासनया च नित्यं
     पुण्यश्रवःकथया पुण्यया च ॥ २२ ॥
 अर्थेन्द्रियारामसगोष्ठ्यतृष्णया
     तत्सम्मतानामपरिग्रहेण च ।
 विविक्तरुच्या परितोष आत्मन्
     विना हरेर्गुणपीयूषपानात् ॥ २३ ॥
 अहिंसया पारमहंस्यचर्यया
     स्मृत्या मुकुन्दाचरिताग्र्यसीधुना ।
 यमैरकामैर्नियमैश्चाप्यनिन्दया
     निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥
 हरेर्मुहुस्तत्परकर्णपूर
     गुणाभिधानेन विजृम्भमाणया ।
 भक्त्या ह्यसङ्‌गः सदसत्यनात्मनि
     स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ २५ ॥
 यदा रतिर्ब्रह्मणि नैष्ठिकी पुमान्
     आचार्यवान् ज्ञानविरागरंहसा ।
 दहत्यवीर्यं हृदयं जीवकोशं
     पञ्चात्मकं योनिमिवोत्थितोऽग्निः ॥ २६ ॥
 दग्धाशयो मुक्तसमस्ततद्‍गुणो
     नैवात्मनो बहिरन्तर्विचष्टे ।
 परात्मनोर्यद् व्यवधानं पुरस्तात्
     स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७ ॥
(अनुष्टुप्)
आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।
 सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥
 निमित्ते सति सर्वत्र जलादौ अपि पूरुषः ।
 आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥
 इन्द्रियैर्विषयाकृष्टैः आक्षिप्तं ध्यायतां मनः ।
 चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात् ॥ ३० ॥
 भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।
 तद्रोधं कवयः प्राहुः आत्मापह्नवमात्मनः ॥ ३१ ॥
 नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।
 यदध्यन्यस्य प्रेयस्त्वं आत्मनः स्वव्यतिक्रमात् ॥ ३२ ॥
 अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
 भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥ ३३ ॥
 न कुर्यात्कर्हिचित्सङ्‌गं तमस्तीव्रं तितीरिषुः ।
 धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥
 तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
 त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ ३५ ॥
 परेऽवरे च ये भावा गुणव्यतिकरादनु ।
 न तेषां विद्यते क्षेमं ईशविध्वंसिताशिषाम् ॥ ३ ॥ ६ ॥
 तत्त्वं नरेन्द्र जगतामथ तस्थूषां च
     देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।
 यः क्षेत्रवित्तपतया हृदि विश्वगाविः
     प्रत्यक् चकास्ति भगवान् तमवेहि सोऽस्मि ॥ ३७ ॥
 यस्मिन्निदं सदसदात्मतया विभाति
     माया विवेकविधुति स्रजि वाहिबुद्धिः ।
 तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं
     प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८ ॥
 यत्पादपङ्‌कजपलाशविलासभक्त्या
     कर्माशयं ग्रथितमुद्‍ग्रथयन्ति सन्तः ।
 तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध
     स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९ ॥
 कृच्छ्रो महानिह भवार्णवमप्लवेशां
     षड्वर्गनक्रमसुखेन तितीर्षन्ति ।
 तत्त्वं हरेर्भगवतो भजनीयमङ्‌घ्रिं
     कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४० ॥
 मैत्रेय उवाच -
(अनुष्ट्प्)
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।
 दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ ४१ ॥
 राजोवाच -
कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना ।
 तमापादयितुं ब्रह्मन् भगवन् यूयमागताः ॥ ४२ ॥
 निष्पादितश्च कार्त्स्न्येन भगवद्‌भिः घृणालुभिः ।
 साधूच्छिष्टं हि मे सर्वं आत्मना सह किं ददे ॥ ४३ ॥
 प्राणा दाराः सुता ब्रह्मन् गुहाश्च सपरिच्छदाः ।
 राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४ ॥
 सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।
 सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥
 स्वमेव ब्राह्मणो भुङ्‌क्ते स्वं वस्ते स्वं ददाति च ।
 तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ ४६ ॥
 यैरीदृशी भगवतो गतिरात्मवादे
     एकान्ततो निगमिभिः प्रतिपादिता नः ।
 तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं
     को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
ते आत्मयोगपतय आदिराजेन पूजिताः ।
 शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम् ॥ ४८ ॥
 वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।
 आप्तकामं इवात्मानं मेन आत्मन्यवस्थितः ॥ ४९ ॥
 कर्माणि च यथाकालं यथादेशं यथाबलम् ।
 यथोचितं यथावित्तं अकरोद्‍ब्रह्मसात्कृतम् ॥ ५० ॥
 फलं ब्रह्मणि विन्यस्य निर्विषङ्‌गः समाहितः ।
 कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ ५१ ॥
 गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः ।
 नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५२ ॥
 एवं अध्यात्मयोगेन कर्माणि अनुसमाचरन् ।
 पुत्रान् उत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५३ ॥
 विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् ।
 सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान् ॥ ५४ ॥
 गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः ।
 मनोवाग् वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः ॥ ५५ ॥
 राजेत्यधान् नामधेयं सोमराज इवापरः ।
 सूर्यवद्विसृजन्गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६ ॥
 दुर्धर्षस्तेजसेवाग्निः महेन्द्र इव दुर्जयः ।
 तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७ ॥
 वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् ।
 समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव ॥ ५८ ॥
 धर्मराडिव शिक्षायां आश्चर्ये हिमवानिव ।
 कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९ ॥
 मातरिश्वेव सर्वात्मा बलेन महसौजसा ।
 अविषह्यतया देवो भगवान् भूतराडिव । ॥ ६० ॥
 कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।
 वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः । ॥ ६१ ॥
 बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः ।
 भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । ॥ ६२ ॥
 ह्रिया प्रश्रयशीलाभ्यां आत्मतुल्यः परोद्यमे । ॥ ६२ ॥
 कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह ।
 प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव । ॥ ६३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः ॥ २२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥