श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →




त्रिशंकुकथा हरिश्चंद्रचरितं च -

श्रीशुक उवाच ।
 मान्धातुः पुत्रप्रवरो योऽम्बरीषः प्रकीर्तितः ।
 पितामहेन प्रवृतो यौवनाश्वश्च तत्सुतः ।
 हारीतस्तस्य पुत्रोऽभूत् मान्धातृप्रवरा इमे ॥ १ ॥
 नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः ।
 तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ २ ॥
 गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् ।
 नागाल्लब्धवरः सर्पात् अभयं स्मरतामिदम् ॥ ३ ॥
 त्रसद्दस्युः पौरुकुत्सो योऽनरण्यस्य देहकृत् ।
 हर्यश्वः तत्सुतः तस्मात् अरुणोऽथ त्रिबन्धनः ॥ ४ ॥
 तस्य सत्यव्रतः पुत्रः त्रिशङ्‌कुरिति विश्रुतः ।
 प्राप्तश्चाण्डालतां शापाग् गुरोः कौशिकतेजसा ॥ ५ ॥
 सशरीरो गतः स्वर्गं अद्यापि दिवि दृश्यते ।
 पातितोऽवाक्‌शिरा देवैः तेनैव स्तम्भितो बलात् ॥ ६ ॥
 त्रैशङ्‌कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः ।
 यन्निमित्तमभूद् युद्धं पक्षिणोर्बहुवार्षिकम् ॥ ७ ॥
 सोऽनपत्यो विषण्णात्मा नारदस्योपदेशतः ।
 वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ ८ ॥
 यदि वीरो महाराज तेनैव त्वां यजे इति ।
 तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ ९ ॥
 जातः सुतो ह्यनेनाङ्‌ग मां यजस्वेति सोऽब्रवीत् ।
 यदा पशुर्निर्दशः स्याद् अथ मेध्यो भवेदिति ॥ १० ॥
 निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत् ।
 दन्ताः पशोर्यत् जायेरन् अथ मेध्यो भवेदिति ॥ ११ ॥
 दन्ता जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
 यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ १२ ॥
 पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत् ।
 यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः ॥ १३ ॥
 पुनर्जाता यजस्वेति स प्रत्याहाथ सोऽब्रवीत् ।
 सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः ॥ १४ ॥
 इति पुत्रानुरागेण स्नेहयन् त्रितचेतसा ।
 कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ १५ ॥
 रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् ।
 प्राणप्रेप्सुर्धनुष्पाणिः अरण्यं प्रत्यपद्यत ॥ १६ ॥
 पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् ।
 रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ १७ ॥
 भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः ।
 रोहितायादिशच्छक्रः सोऽप्यरण्येऽवसत् समाम् ॥ १८ ॥
 एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा ।
 अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाऽऽह वृत्रहा ॥ १९ ॥
 षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् ।
 उपव्रजन् अजीगर्ताद् अक्रीणान् मध्यमं सुतम् ॥ २० ॥
 शुनःशेपं पशुं पित्रे प्रदाय समवन्दत ।
 ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ २१ ॥
 मुक्तोदरोऽयजद् देवान् वरुणादीन् महत्कथः ।
 विश्वामित्रोऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥ २२ ॥
 जमदग्निरभूद् ब्रह्मा वसिष्ठोऽयास्यः सामगः ।
 तस्मै तुष्टो ददौ इन्द्रः शातकौम्भमयं रथम् ॥ २३ ॥
 शुनःशेपस्य माहात्म्यं उपरिष्टात् प्रचक्ष्यते ।
 सत्यंसारां धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ २४ ॥
 विश्वामित्रो भृशं प्रीतो ददौ अविहतां गतिम् ।
 मनः पृथिव्यां तामद्‌भिः तेजसापोऽनिलेन तत् ॥ २५ ॥
 खे वायुं धारयन् तच्च भूतादौ तं महात्मनि ।
 तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ २६ ॥
 हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा ।
 अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ २७ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे सप्तमोऽध्यायः ॥ ७ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥