श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search
← श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः १ श्रीमद्भागवतपुराणम्/स्कन्धः १२/अध्यायः २
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कन्धः १२/अध्यायः ३ →



श्रीशुक उवाच –
(अनुष्टुप्)
ततश्चानुदिनं धर्मः सत्यं शौचं क्षमा दया ।
 कालेन बलिना राजन् नङ्‌क्ष्यत्यायुर्बलं स्मृतिः ॥ १ ॥
 वित्तमेव कलौ नॄणां जन्माचारगुणोदयः ।
 धर्मन्याय व्यवस्थायां कारणं बलमेव हि ॥ २ ॥
 दाम्पत्येऽभिरुचिर्हेतुः मायैव व्यावहारिके ।
 स्त्रीत्वे पुंस्त्वे च हि रतिः विप्रत्वे सूत्रमेव हि ॥ ३ ॥
 लिङ्‌गं एवाश्रमख्यातौ अन्योन्यापत्ति कारणम् ।
 अवृत्त्या न्यायदौर्बल्यं पाण्डित्ये चापलं वचः ॥ ४ ॥
 अनाढ्यतैव असाधुत्वे साधुत्वे दंभ एव तु ।
 स्वीकार एव चोद्वाहे स्नानमेव प्रसाधनम् ॥ ५ ॥
 दूरे वार्ययनं तीर्थं लावण्यं केशधारणम् ।
 उदरंभरता स्वार्थः सत्यत्वे धार्ष्ट्यमेव हि ॥ ६ ॥
 दाक्ष्यं कुटुंबभरणं यशोऽर्थे धर्मसेवनम् ।
 एवं प्रजाभिर्दुष्टाभिः आकीर्णे क्षितिमण्डले ॥ ७ ॥
 ब्रह्मविट्क्षत्रशूद्राणां यो बली भविता नृपः ।
 प्रजा हि लुब्धै राजन्यैः निर्घृणैः दस्युधर्मभिः ॥ ८ ॥
 आच्छिन्नदारद्रविणा यास्यन्ति गिरिकाननम् ।
 शाकमूलामिषक्षौद्र फलपुष्पाष्टिभोजनाः ॥ ९ ॥
 अनावृष्ट्या विनङ्‌क्ष्यन्ति दुर्भिक्षकरपीडिताः
 शीतवातातपप्रावृड् हिमैरन्योन्यतः प्रजाः ॥ १० ॥
 क्षुत्तृड्भ्यां व्याधिभिश्चैव संतप्स्यन्ते च चिन्तया ।
 त्रिंशद्विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ ११ ॥
 क्षीयमाणेषु देहेषु देहिनां कलिदोषतः ।
 वर्णाश्रमवतां धर्मे नष्टे वेदपथे नृणाम् ॥ १२ ॥
 पाषण्डप्रचुरे धर्मे दस्युप्रायेषु राजसु ।
 चौर्यानृतवृथाहिंसा नानावृत्तिषु वै नृषु ॥ १३ ॥
 शूद्रप्रायेषु वर्णेषु च्छागप्रायासु धेनुषु ।
 गृहप्रायेष्वाश्रमेषु यौनप्रायेषु बन्धुषु ॥ १४ ॥
 अणुप्रायास्वोषधीषु शमीप्रायेषु स्थास्नुषु ।
 विद्युत्प्रायेषु मेघेषु शून्यप्रायेषु सद्मसु ॥ १५ ॥
 इत्थं कलौ गतप्राये जनेतु खरधर्मिणि ।
 धर्मत्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ १६ ॥
 चराचर गुरोर्विष्णोः ईश्वरस्याखिलात्मनः ।
 धर्मत्राणाय साधूनां जन्म कर्मापनुत्तये ॥ १७ ॥
 संभलग्राम मुख्यस्य ब्राह्मणस्य महात्मनः ।
 भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ १८ ॥
 अश्वं आशुगमारुह्य देवदत्तं जगत्पतिः ।
 असिनासाधुदमनं अष्टैश्वर्य गुणान्वितः ॥ १९ ॥
 विचरन् आशुना क्षौण्यां हयेनाप्रतिमद्युतिः ।
 नृपलिङ्‌गच्छदो दस्यून् कोटिशो निहनिष्यति ॥ २० ॥
 अथ तेषां भविष्यन्ति मनांसि विशदानि वै ।
 वासुदेवाङ्‌गरागाति पुण्यगंधानिलस्पृशाम् ।
 पौरजानपदानां वै हतेष्वखिलदस्युषु ॥ २१ ॥
 तेषां प्रजाविसर्गश्च स्थविष्ठः संभविष्यति ।
 वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते ॥ २२ ॥
 यदावतीर्णो भगवान् कल्किर्धर्मपतिर्हरिः ।
 कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी ॥ २३ ॥
 यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती ।
 एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ २४ ॥
 येऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः ।
 ते ते उद्देशतः प्रोक्ता वंशीयाः सोमसूर्ययोः ॥ २५ ॥
 आरभ्य भवतो जन्म यावत् नन्दाभिषेचनम् ।
 एतद् वर्षसहस्रं तु शतं पञ्चदशोत्तरम् ॥ २६ ॥
 सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि ।
 तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ २७ ॥
 तेनैव ऋषयो युक्ताः तिष्ठन्त्यब्दशतं नृणाम् ।
 ते त्वदीये द्विजाः काले अधुना चाश्रिता मघाः ॥ २८ ॥
 विष्णोर्भगवतो भानुः कृष्णाख्योऽसौ दिवं गतः ।
 तदाविशत् कलिर्लोकं पापे यद् रमते जनः ॥ २९ ॥
 यावत् स पादपद्माभ्यां स्पृशनास्ते रमापतिः ।
 तावत् कलिर्वै पृथिवीं पराक्रान्तुं न चाशकत् ॥ ३० ॥
 यदा देवर्षयः सप्त मघासु विचरन्ति हि ।
 तदा प्रवृत्तस्तु कलिः द्वादशाब्द शतात्मकः ॥ ३१ ॥
 यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षयः ।
 तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥
 यस्मिन् कृष्णो दिवं यातः तस्मिन् एव तदाहनि ।
 प्रतिपन्नं कलियुगं इति प्राहुः पुराविदः ॥ ३३ ॥
 दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् ।
 भविष्यति तदा नॄणां मन आत्मप्रकाशकम् ॥ ३४ ॥
 इत्येष मानवो वंशो यथा सङ्‌ख्यायते भुवि ।
 तथा विट्शूद्रविप्राणां तास्ता ज्ञेया युगे युगे ॥ ३५ ॥
 एतेषां नामलिङ्‌गानां पुरुषाणां महात्मनाम् ।
 कथामात्रावशिष्टानां कीर्तिरेव स्थिता भुवि ॥ ३६ ॥
 देवापिः शान्तनोर्भ्राता मरुश्चेक्ष्वाकुवंशजः ।
 कलापग्राम आसाते महायोगबलान्वितौ ॥ ३७ ॥
 ताविहैत्य कलेरन्ते वासुदेवानुशिक्षितौ ।
 वर्णाश्रमयुतं धर्मं पूर्ववत् प्रथयिष्यतः ॥ ३८ ॥
 कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
 अनेन क्रमयोगेन भुवि प्राणिषु वर्तते ॥ ३९ ॥
 राजन् एते मया प्रोक्ता नरदेवास्तथापरे ।
 भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ ४० ॥
 कृमिविड् भस्मसंज्ञान्ते राजनाम्नोऽपि यस्य च ।
 भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ ४१ ॥
 कथं सेयमखण्डा भूः पूर्वैर्मे पुरुषैर्धृता ।
 मत्पुत्रस्य च पौत्रस्य मत्पूर्वा वंशजस्य वा ॥ ४२ ॥
 तेजोऽबन्नमयं कायं गृहीत्वाऽऽत्मतयाबुधाः ।
 महीं ममतया चोभौ हित्वान्तेऽदर्शनं गताः ॥ ४३ ॥
 ये ये भूपतयो राजन् भुंजते भुवमोजसा ।
 कालेन ते कृताः सर्वे कथामात्राः कथासु च ॥ ४४ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां द्वादशस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥