शैक्षिकप्रविधि उद्देश्यानि

विकिस्रोतः तः

शैक्षिकप्रविधेः उद्देश्यानि

(Objectives of Educational Technology)

प्रविधिशास्त्रेण एवं शिक्षणक्रियायाः यान्त्रिकीकरण समारब्धम् अस्ति। यदा आरभ्य अस्मिन् वैज्ञानिकयुगे यन्त्राणाम् आविष्कारः सञ्जातः, ततः एव यन्त्राणां प्रयोगः शिक्षाक्षेत्रे अपि अवलोक्यते । शिक्षाक्षेत्रे यन्त्राणाम् उपयोगेन मुख्यतः ईदशोहेशपूर्तिः भवितुमर्हति । तद्यथा

(i) ज्ञानस्य सञ्चयः । (Preservation of knowledge) (11) ज्ञानस्य प्रसार 1 (Transformation of knowledge)

(ii) ज्ञानस्य विकासः । (Development of knowledge) उपर्युक्तानाम् उद्देशानां पूर्तिः प्रविधिना शिक्षायाम् अवश्यं भवितुमर्हति । तेषां त्रयाणां विश्लेषणम् अत्र क्रमशः क्रियते

(i) ज्ञानस्य सञ्चयः (Preservation of knowledge) प्राचीनकाले मुद्रणयन्त्राणाम् अभावात् प्रत्येकं विषयः कण्ठस्थीकृत्य सुरक्ष्यते स्म । ताडपत्रादिषु लिखित्वा अत्यन्तं कट्टेन विद्या संस्थाप्यते स्म । किन्तु वैज्ञानिके युगेऽस्मिन् मुद्रणयन्त्राणाम् आविष्कारेण, तेषां यन्त्राणां प्रयोगेण च ज्ञानं पुस्तकरूपेण ग्रन्थालयादिषु सुरक्षितं संस्थाप्यते । ध्वनिमुद्रणयन्त्रं, ध्वनिचित्रमुद्रणयन्त्रं, चलच्चित्रं, सान्द्रमुद्रिका (CD) इत्यादिभिः उपकरणैः शिक्षकस्य भाषा, शैली, विषयवस्तु पूर्णाभिनयसहितम् अध्यापनम् इत्यादीनि सञ्चित्य आवश्यकतानुसारं तस्य उपयोगः कर्तुं शक्यते ।

(ii) ज्ञानस्य प्रसारः (Transformation of knowledge) आकाशवाणी, दूरदर्शनम्, अन्तर्जाल (Internet), पत्राचारपाठ्यक्रमः इत्यादिशिक्षणयन्त्राणां माध्यमेन अद्य मुक्तविद्यालयः, मुक्तविश्वविद्यालयः इत्यादीनां सहयोगेन प्रतिजनं सुदूरग्रामाञ्चलपर्यन्तम् अपि शिक्षायाः प्रसारः कर्तुं शक्यते । शैक्षिकप्रविधिना भाषाप्रयोगशाला, सङ्गणकाधारितानुदेशनम्, शिक्षणयन्त्राणि इत्यादीनां प्रयोगेण सर्वेभ्यः छात्रेभ्यः स्वेच्छया अधिगन्तुम् अवसरः प्रदत्तः ।

(iii) ज्ञानस्य विकासः (Development of knowledge) अस्मिन् आधुनिके युगे वैज्ञानिकशोधकार्येषु अधिकं महत्त्वं प्रदीयते । शोधकार्येषु