शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण ३

विकिस्रोतः तः
Jump to navigation Jump to search
← ब्राह्मण २ शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण ३
[[लेखकः :|]]
ब्राह्मण ४ →

१०.१.३

प्रजापतिः प्रजा असृजत स ऊर्ध्वेभ्य एव प्राणेभ्यो देवानसृजत येऽवाञ्चः प्राणास्तेभ्यो मर्त्याः प्रजा अथोर्ध्वमेव मृत्युं प्रजाभ्योऽत्तारमसृजत - १०.१.३.[१]

तस्य ह प्रजापतेः अर्धमेव मर्त्यमासीदर्धममृतं तद्यदस्य मर्त्यमासीत्तेन मृत्योरबिभेत्स बिभ्यादिमां प्राविशद्द्वयं भूत्वा मृच्चापश्च - १०.१.३.[२]

स मृत्युर्देवानब्रवीत् क्व नु सोऽभूद्यो नोऽसृष्टेति त्वद्बिभ्यदिमां प्राविक्षदिति सोऽब्रवीत्तं वा अन्विच्छाम तं सम्भराम न वा अहं तं हिंसिष्यामीति तं देवा अस्या
अधि समभरन्यदस्याप्स्वासीत्ता अपः समभरन्नथ यदस्यां तां मृदं तदुभयं सम्भृत्य मृदं चापश्चेष्टकामकुर्वंस्तस्मादेतदुभयमिष्टका भवति मृच्चापश्च - १०.१.३.[३]

तदेता वा अस्य ताः पञ्च मर्त्यास्तन्व आसँल्लोम त्वङ्मांसमस्थि मज्जाऽथैता अमृता मनो वाक्प्राणश्चक्षुः श्रोत्रम् - १०.१.३.[४]

अग्निचयनम्


स यः स प्रजापतिः अयमेव स योऽयमग्निश्चीयतेऽथ या अस्य ताः पञ्च मर्त्यास्तन्व आसन्नेतास्ताः पुरीषचितयोऽथ या अमृता एतास्ता इष्टकाचितयः - १०.१.३.[५]

ते देवा अब्रुवन् अमृतमिमं करवामेति तस्यैताभ्याममृताभ्यां तनूभ्यामेताम्मर्त्यां तनूं परिगृह्यामृतामकुर्वन्निष्टकाचितिभ्यां पुरीषचितिं तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम् - १०.१.३.[६]

अथ पञ्चमीं चितिमुपधाय पुरीषं निवपति तत्र विकर्णीं च स्वयमातृणां चोपदधाति हिरण्यशकलैः प्रोक्षत्यग्निमभ्यादधाति सा सप्तमी चितिस्तदमृतमेवमस्यैताभ्याममृताभ्यां तनूभ्यामेतां मर्त्यां तनूम्परिगृह्यामृतामकुर्वन्निष्टकाचितिभ्यां पुरीषचितिं ततो वै प्रजापतिरमृतोऽभवत्तथैवैतद्यजमान एतममृतमात्मानं कृत्वा सोऽमृतो भवति - १०.१.३.[७]

ते वै देवास्तं नाविदुः यद्येनं सर्वं वाऽकुर्वन्न वा सर्वं यद्यति वाऽरेचयन्नवाभ्यापयंस्त एतामृचमपश्यन्धामच्छदग्निरिन्द्रो ब्रह्मा देवो बृहस्पतिः सचेतसो विश्वे देवा यज्ञं प्रावन्तु नः शुभे इति - १०.१.३.[८]

तस्या अस्त्येवाग्नेयम् अस्त्यैन्द्रमस्ति वैश्वदेवं तद्यदस्या आग्नेयं यदेवैतस्याग्नेराग्नेयं तदस्य तेन समस्कुर्वन्यदैन्द्रं तदैन्द्रेण यद्वैश्वदेवं तद्वैश्वदेवेन तमत्रैव सर्वं कृत्स्नं समस्कुर्वन् - १०.१.३.[९]

तद्यदेतयोपतिष्ठते यदेवास्यात्र विद्वान्वाऽविद्वान्वाऽति वा रेचयति न वाऽभ्यापयति तदेवास्यैतया सर्वमाप्नोति यदस्य किं चानाप्तमनुष्टुब्धामच्छद्भवति वाग्वा अनुष्टुब्वाग्धामच्छद्वाचैवास्य तदाप्नोति यदस्य किं चानाप्तं पुरीषवतीं चितिं कृत्वोपतिष्ठेतेत्यु हैक आहुस्तत्र हि सा सर्वा कृत्स्ना भवतीति - १०.१.३.[१०]

तदु वा आहुः यविष्ठवत्यैवोपतिष्ठेतैतद्धास्य प्रियं धाम यद्यविष्ठ इति तद्यदस्य प्रियं धाम तेनास्य तदाप्नोति यदस्य किं चानाप्तमाग्नेय्याग्निकर्म हि गायत्र्या गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्य तदाप्नोति यदस्य किं चानाप्तमनिरुक्तया सर्वं वा अनिरुक्तं सर्वेणैवास्य तदाप्नोति यदस्य किंचानाप्तं त्वं यविष्ठ दाशुष इति तस्योक्तो बन्धुः पुरीषवतीं चितिं कृत्वोपतिष्ठेत तत्र हि सा सर्वा कृत्स्ना भवति - १०.१.३.[११]