शुकसप्ततौ तृतीया कथा
सुदर्शनधीः -मूलग्रन्थः- शुकसप्ततिः(तृतीया कथा) अस्ति चन्द्रपुरं नाम नगरम्। तत्र वाणिज्यार्थं सारिकाप्रेषिते मदनविनोदनाम्नि वणिजि तत्पत्नी प्रभावती सम्प्राप्तमधुकाले अनलबाणाहता सती स्वैरिणीभिः सखीभिः प्रतिबोधिता यदा पुरुषान्तराभिलाषिणी सञ्जाता तदा तत्क्षिक्षमयिषुः तत्पातिव्रत्यरिरक्षिषुश्च शुकः प्राह- गच्छ देवि किमाश्चर्यं यत्र ते रमते मनः। नृपवद्यदि जानासि परित्राणं त्वमात्मनः।। प्रभावती पृच्छति- कथमेतत्? शुकः कथयति- अस्ति विशाला नगरी। तत्र सुदर्शनो राजा। तत्र च विमलो नाम वणिक्। तस्य च पत्नीद्वयं सुभगं रूपसम्पन्नं दृष्ट्वा कुटिलनामा धूर्तस्तद्भार्याद्वयग्रहणेच्छया अम्बिकां देवीमादाय विमलरूपं ययाचे। लब्ध्वा च तत्प्रकृतिं विमले बहिर्गते तद्गृहं गत्वा प्रभुत्वं चकार। प्रसाधनदानैर्वशीकृतोऽखिलोऽपि परिजनवर्गः। तद्भार्याद्वयं बहुमानदानादिना सन्तोष्य स्वेच्छया भुङ्क्ते। विमलोऽयं धनाद्यनित्यतां श्रुत्वा दाता बभूवेति परिजनोऽनवरतं चिन्तयति। अथ सत्यविमलोऽपि द्वारमागतः कुटिलाज्ञया द्वारपालेन निषिद्धः। ततो बहिस्स्थः फूत्करोति “वञ्चितोऽहं धूर्तराजेन”। तस्य चैवं क्रन्दतो गोत्रजा जनाः कौतुकाच्च मिलिताः। तत्क्षणात् हट्टानि मुक्त्वा वणिक्सार्थो मिलित्वा आरक्षकमन्त्रिमुख्यानां पुरतः फूच्चक्रे। “राजन् वञ्चितोऽस्मि धूर्तराजेन”। ततो राजा तदवलोकनाय प्रहिताः पुरुषाः। तेनापि ते द्रव्यादिदानेन सानुकूलाः कृताः। तं धनमायकं गृहे दृष्ट्वा जनो वदति- “स्वामिन् विमलो गृहे विद्यते। अयञ्च धूर्तराट् द्वारस्थः”। ततो नृपेण द्वावप्येकत्र कृतौ। ततो द्वयोर्मध्यान्न कोऽपि धूर्तेतरयोर्व्यक्तिं जानाति। जातः कोलाहलोऽखिललोकव्यवहार-नाशकरो राज्ञश्चापवादः। यतो राज्ञां दुष्टनिग्रहः शिष्टपालनञ्च स्वर्गाय। उक्तञ्च-प्रजापीडनसन्तापात्समुद्भूतो हुताशनः। राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्त्तते।। इति। ततो राजा एकान्ते तयोर्निर्णयमचिन्तयत्। तत्कथय कथं निश्चयः स्यादिति प्रश्नः। शुकः- स राजा लब्धोपायस्तद्विमलभार्याद्वयं पृथक्पृथक्संस्थाप्य पृष्टवान्- किं युवयोः पाणिग्रहणे भर्त्रा विभूषणं प्रदत्तं धनञ्च। पश्चात्किं जल्पितं प्रथमसङ्गे च का वार्त्ता भर्त्रा सहाभूत्। का माता कश्च पिता। किं कुलम्, का जातिः ? इत्येवं पृष्टाभ्यां यथालब्धं यथावृत्तं यथाप्रोक्तं यथासुप्तं सर्वं ताभ्यां कथितम्। पश्चात्तु तौ पुरुषौ पृष्टौ परस्परं विसंवदन्तौ। ततो भार्याद्वयस्य रुक्मिणीसुन्दरीनामधेयस्य यः संवादं वदति स सत्यः। इतरस्तु धूर्तो राज्ञा निर्वासितः। सत्यस्तु राज्ञा सभार्यः संस्कृतः स्वगृहं गतः। इति महाराजबुद्धिः।।