शिवसूत्र
- शिवसूत्र
शाम्भवोपाय
[सम्पाद्यताम्]चैतन्यमात्मा । १-१।
ज्ञानं बन्धः । १-२।
योनिवर्गः कलाशरीरम् । १-३।
ज्ञानाधिष्ठानं मातृका । १-४।
उद्यमो भैरवः । १-५।
शक्तिचक्रसन्धाने विश्वसंहारः । १-६।
जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । १-७।
ज्ञानं जाग्रत् । १-८।
स्वप्नो विकल्पाः । १-९।
अविवेको मायासौषुप्तम् । १-१०।
त्रितयभोक्ता वीरेशः । १-११।
विस्मयो योगभूमिकाः । १-१२।
इच्छा शक्तिरुमा कुमारी । १-१३।
दृश्यं शरीरम् । १-१४।
हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् । १-१५।
शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः । १-१६।
वितर्क आत्मज्ञानम् । १-१७।
लोकानन्दः समाधिसुखम् । १-१८।
शक्तिसन्धाने शरीरोत्पत्तिः । १-१९।
भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः । १-२०।
शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः । १-२१।
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः । १-२२।
शाक्तोपाय
[सम्पाद्यताम्]चित्तं मन्त्रः । २-१।
प्रयत्नः साधकः । २-२।
विद्याशरीरसत्ता मन्त्ररहस्यम् । २-३।
गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः । २-४।
विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था । २-५।
गुरुरुपायः । २-६।
मातृकाचक्रसम्बोधः । २-७।
शरीरं हविः । २-८।
ज्ञानं अन्नम् । २-९।
विद्यासंहारे तदुत्थ स्वप्न दर्शनम् । २-१०।
आणवोपाय
[सम्पाद्यताम्]आत्मा चित्तम् । ३-१।
ज्ञानं बन्धः । ३-२।
कलादीनां तत्त्वानां अविवेको माया । ३-३।
शरीरे संहारः कलानाम् । ३-४।
नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि । ३-५।
मोहावरणात् सिद्धिः । ३-६।
मोहजयाद् अनन्ताभोगात् सहजविद्याजयः । ३-७।
जाग्रद् द्वितीयकरः । ३-८।
नर्तक आत्मा । ३-९।
रङ्गोऽन्तरात्मा । ३-१०।
प्रेक्षकाणीन्द्रियाणि । ३-११।
धीवशात् सत्त्वसिद्धिः । ३-१२।
सिद्धः स्वतन्त्रभावः । ३-१३।
यथा तत्र तथान्यत्र । ३-१४।
विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः । ३-१५।
बीजावधानम् । ३-१६।
आसनस्थः सुखं ह्रदे निमज्जति । ३-१७।
स्वमात्रा निर्माणं आपादयति । ३-१८।
विद्या अविनाशे जन्म विनाशः । ३-१९।
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः । ३-२०।
त्रिषु चतुर्थं तैलवदासेच्यम् । ३-२१।
मग्नः स्वचित्तेन प्रविशेत् । ३-२२।
प्राण समाचारे समदर्शनम् । ३-२३।
मध्येऽवर प्रसवः । ३-२४।
मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् । ३-२५।
शिवतुल्यो जायते । ३-२६।
शरीरवृत्तिर्व्रतम् । ३-२७।
कथा जपः । ३-२८।
दानं आत्मज्ञानम् । ३-२९।
योऽविपस्थो ज्ञाहेतुश्च । ३-३०।
स्वशक्ति प्रचयोऽस्य विश्वम् । ३-३१।
स्तिथिलयौ । ३-३२।
तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् । ३-३३।
सुख दुःखयोर्बहिर्मननम् । ३-३४।
तद्विमुक्तस्तु केवली । ३-३५।
मोहप्रतिसंहतस्तु कर्मात्मा । ३-३६।
भेद तिरस्कारे सर्गान्तर कर्मत्वम् । ३-३७।
करणशक्तिः स्वतोऽनुभवात् । ३-३८।
त्रिपदाद्यनुप्राणनम् । ३-३९।
चित्तस्थितिवत् शरीर करण बाह्येषु । ३-४०।
अभिलाषाद्बहिर्गतिः संवाह्यस्य । ३-४१।
तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः । ३-४२।
भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः । ३-४३।
नैसर्गिकः प्राणसंबन्धः । ३-४४।
नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु । ३-४५।
भूयः स्यात् प्रतिमीलनम् । ३-४६।
ॐ तत् सत्