शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः ०५

विकिस्रोतः तः

सूत उवाच
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ॥ ७.१,५.१
प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ ७.१,५.१
नैमिषीया ऊचुः
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ॥ ७.१,५.२
कथं च शिवभावस्ते ब्रह्मणो ऽव्यक्तजन्मनः ॥ ७.१,५.२
वायुरुवाच
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ॥ ७.१,५.३
तस्मिन्कल्पे चतुर्वक्त्रस्स्रष्टुकामो ऽतपत्तपः ॥ ७.१,५.३
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ॥ ७.१,५.४
दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ७.१,५.४
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ॥ ७.१,५.५
दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ७.१,५.५
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणो ऽधिपतिं पतिम् ॥ ७.१,५.६
प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ७.१,५.६
ततस्स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ॥ ७.१,५.७
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७.१,५.७
यतश्श्रुत्वामृतं लब्धं ब्रह्मणा परमेश्वरात् ॥ ७.१,५.८
ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ७.१,५.८
मुनय ऊचुः
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यंतरं शुभम् ॥ ७.१,५.९
यत्र कृत्वा परां निष्ठां पुरुषस्सुखमृच्छति ॥ ७.१,५.९
वायुरुवाच
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ॥ ७.१,५.१०
तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ ७.१,५.१०
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्तते ॥ ७.१,५.११
ज्ञानं वस्तुपरिच्छेदो वस्तु च द्विविधं स्मृतम् ॥ ७.१,५.११
अजडं च जडं चैव नियंतृ च तयोरपि ॥ ७.१,५.१२
पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ ७.१,५.१२
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ॥ ७.१,५.१३
तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ ७.१,५.१३
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ॥ ७.१,५.१४
क्षराक्षरपरं यत्तत्पतिरित्यभिधीयते ॥ ७.१,५.१४
मुनय ऊचुः
किं तदक्षरमित्युक्तं किं च क्षरमुदाहृतम् ॥ ७.१,५.१५
तयोश्च परमं किं वा तदेतद्ब्रूहि मारुत ॥ ७.१,५.१५
वायुरुवाच
प्रकृतिः क्षरमित्युक्तं पुरुषो ऽक्षर उच्यते ॥ ७.१,५.१६
ताविमौ प्रेरयत्यन्यस्स परा परमेश्वरः ॥ ७.१,५.१६
मुनय ऊचुः
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ॥ ७.१,५.१७
अनयोः केन सम्बन्धः कोयं प्रेरक ईश्वरः ॥ ७.१,५.१७
वायुरुवाच
माया प्रकृतिरुद्दिष्टा पुरुषो मायया वृतः ॥ ७.१,५.१८
संबन्धो मूलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ ७.१,५.१८
मुनय ऊचुः
केयं माया समा ख्याता किंरूपो मायया वृतः ॥ ७.१,५.१९
मूलं कीदृक्कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ ७.१,५.१९
वायुरुवाच
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ॥ ७.१,५.२०
मलश्चिच्छादको नैजो विशुद्धिश्शिवता स्वतः ॥ ७.१,५.२०
मुनय ऊचुः
आवृणोति कथं माया व्यापिनं केन हेतुना ॥ ७.१,५.२१
किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ ७.१,५.२१
वायुरुवाच
आवृतिर्व्यपिनो ऽपि स्याद्व्यापि यस्मात्कलाद्यपि ॥ ७.१,५.२२
हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ ७.१,५.२२
मुनय ऊचुः
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ॥ ७.१,५.२३
तत्किमादि किमन्तं वा किं फलं वा किमाश्रयम् ॥ ७.१,५.२३
कस्य भोगेन किं भोग्यं किं वा तद्भोगसाधनम् ॥ ७.१,५.२४
मलक्षयस्य को हेतुः कीदृक्क्षीणमलः पुमान् ॥ ७.१,५.२४
वायुरुवाच
कला विद्या च रागश्च कालो नियतिरेव च ॥ ७.१,५.२५
कलादयस्समाख्याता यो भोक्ता पुरुषो भवेत् ॥ ७.१,५.२५
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ॥ ७.१,५.२६
अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ ७.१,५.२६
भोगः कर्मविनाशाय भोगमव्यक्तमुच्यते ॥ ७.१,५.२७
बाह्यांतःकरणद्वारं शरीरं भोगसाधनम् ॥ ७.१,५.२७
भावातिशयलब्धेन प्रसादेन मलक्षयः ॥ ७.१,५.२८
क्षीणे चात्ममले तस्मिन् पुमाञ्च्छिवसमो भवेत् ॥ ७.१,५.२८
मुनय ऊचुः
कलादिपञ्चतत्त्वानां किं कर्म पृथगुच्यते ॥ ७.१,५.२९
भोक्तेति पुरुषश्चेति येनात्मा व्यपदिश्यते ॥ ७.१,५.२९
किमात्मकं तदव्यक्तं केनाकारेण भुज्यते ॥ ७.१,५.३०
किं तस्य शरणं भुक्तौ शरीरं च किमुच्यते ॥ ७.१,५.३०
वायुरुवाच
दिक्क्रियाव्यंजका विद्या कालो रागः प्रवर्तकः ॥ ७.१,५.३१
कालो ऽवच्छेदकस्तत्र नियतिस्तु नियामिका ॥ ७.१,५.३१
अव्यक्तं कारणं यत्तत्त्रिगुणं प्रभवाप्ययम् ॥ ७.१,५.३२
प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिंतकाः ॥ ७.१,५.३२
कलातस्तदभिव्यक्तमनभिव्यक्तलक्षणम् ॥ ७.१,५.३३
सुखदुःखविमोहात्मा भुज्यते गुणवांस्त्रिधा ॥ ७.१,५.३३
सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ ७.१,५.३४
प्रकृतौ सूक्ष्मरूपेण तिले तैलमिव स्थिताः ॥ ७.१,५.३४
सुखं च सुखहेतुश्च समासात्सात्त्विकं स्मृतम् ॥ ७.१,५.३५
राजसं तद्विपर्यासात्स्तंभमोहौ तु तामसौ ॥ ७.१,५.३५
सात्त्विक्यूर्ध्वगतिः प्रोक्ता तामसी स्यादधोगतिः ॥ ७.१,५.३६
मध्यमा तु गतिर्या सा राजसी परिपठ्यते ॥ ७.१,५.३६
तन्मात्रापञ्चकं चैव भूतपञ्चकमेव च ॥ ७.१,५.३७
ज्ञानेंद्रियाणि पञ्चैक्यं पञ्च कर्मेन्द्रियाणि च ॥ ७.१,५.३७
प्रधानबुद्ध्यहंकारमनांसि च चतुष्टयम् ॥ ७.१,५.३८
समासादेवमव्यक्तं सविकारमुदाहृतम् ॥ ७.१,५.३८
तत्कारणदशापन्नमव्यक्तमिति कथ्यते ॥ ७.१,५.३९
व्यक्तं कार्यदशापन्नं शरीरादिघटादिवत् ॥ ७.१,५.३९
यथा घटादिकं कार्यं मृदादेर्नातिभिद्यते ॥ ७.१,५.४०
शरीरादि तथा व्यक्तमव्यक्तान्नातिभिद्यते ॥ ७.१,५.४०
तस्मादव्यक्तमेवैक्यकारणं करणानि च ॥ ७.१,५.४१
शरीरं च तदाधारं तद्भोग्यं चापि नेतरत् ॥ ७.१,५.४१
मुनय ऊचुः
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेकस्य कस्यचित् ॥ ७.१,५.४२
आत्मशब्दाभिधेयस्य वस्तुतो ऽपि कुतः स्थितिः ॥ ७.१,५.४२
वायुरुवाच
बुद्धीन्द्रियशरीरेभ्यो व्यतिरेको विभोर्ध्रुवम् ॥ ७.१,५.४३
अस्त्येव कश्चिदात्मेति हेतुस्तत्र सुदुर्गमः ॥ ७.१,५.४३
बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते ॥ ७.१,५.४४
स्मृतेरनियतज्ञानादयावद्देहवेदनात् ॥ ७.१,५.४४
अतः स्मर्तानुभूतानामशेषज्ञेयगोचरः ॥ ७.१,५.४५
अन्तर्यामीति वेदेषु वेदांतेषु च गीयते ॥ ७.१,५.४५
सर्वं तत्र स सर्वत्र व्याप्य तिष्ठति शाश्वतः ॥ ७.१,५.४६
तथापि क्वापि केनापि व्यक्तमेष न दृश्यते ॥ ७.१,५.४६
नैवायं चक्षुषा ग्राह्यो नापरैरिन्द्रियैरपि ॥ ७.१,५.४७
मनसैव प्रदीप्तेन महानात्मावसीयते १ ॥ ७.१,५.४७
न च स्त्री न पुमानेष नैव चापि नपुंसकः ॥ ७.१,५.४८
नैवोर्ध्वं नापि तिर्यक्नाधस्तान्न कुतश्चन ॥ ७.१,५.४८
अशरीरं शरीरेषु चलेषु स्थाणुमव्ययम् ॥ ७.१,५.४९
सदा पश्यति तं धीरो नरः प्रत्यवमर्शनात् ॥ ७.१,५.४९
किमत्र बहुनोक्तेन पुरुषो देहतः पृथक् ॥ ७.१,५.५०
अपृथग्ये तु पश्यंति ह्यसम्यक्तेषु दर्शनम् ॥ ७.१,५.५०
यच्छरीरमिदं प्रोक्तं पुरुषस्य ततः परम् ॥ ७.१,५.५१
अशुद्धमवशं दुःखमध्रुवं न च विद्यते ॥ ७.१,५.५१
विपदां वीजभूतेन पुरुषस्तेन संयुतः ॥ ७.१,५.५२
सुखी दुःखी च मूढश्च भवति स्वेन कर्मणा ॥ ७.१,५.५२
अद्भिराप्लवितं क्षेत्रं जनयत्यंकुरं यथा ॥ ७.१,५.५३
आज्ञानात्प्लावितं कर्म देहं जनयते तथा ॥ ७.१,५.५३
अत्यंतमसुखावासास्स्मृताश्चैकांतमृत्यवः ॥ ७.१,५.५४
अनागता अतीताश्च तनवो ऽस्य सहस्रशः ॥ ७.१,५.५४
आगत्यागत्य शीर्णेषु शरीरेषु शरीरिणः ॥ ७.१,५.५५
अत्यंतवसतिः क्वापि न केनापि च लभ्यते ॥ ७.१,५.५५
छादितश्च वियुक्तश्च शरीरैरेषु लक्ष्यते ॥ ७.१,५.५६
चंद्रबिंबवदाकाशे तरलैरभ्रसंचयैः ॥ ७.१,५.५६
अनेकदेहभेदेन भिन्ना वृत्तिरिहात्मनः ॥ ७.१,५.५७
अष्टापदपरिक्षेपे ह्यक्षमुद्रेव लक्ष्यते ॥ ७.१,५.५७
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् ॥ ७.१,५.५८
पथि संगम एवायं दारैः पुत्रैश्च बंधुभिः ॥ ७.१,५.५८
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ ७.१,५.५९
समेत्य च व्यपेयातां तद्वद्भूतसमागमः ॥ ७.१,५.५९
स पश्यति शरीरं तच्छरीरं तन्न पश्यति ॥ ७.१,५.६०
तौ पश्यति परः कश्चित्तावुभौ तं न पश्यतः ॥ ७.१,५.६०
ब्रह्माद्याः स्थावरांतश्च पशवः परिकीर्तिताः ॥ ७.१,५.६१
पशूनामेव सर्वेषां प्रोक्तमेतन्निदर्शनम् ॥ ७.१,५.६१
स एष बध्यते पाशैः सुखदुःखाशनः पशुः ॥ ७.१,५.६२
लीलासाधनभूतो य ईश्वरस्येति सूरयः ॥ ७.१,५.६२
अज्ञो जंतुरनीशो ऽयमात्मनस्सुखदुःखयोः ॥ ७.१,५.६३
ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥ ७.१,५.६३
सूत उवाच
इत्याकर्ण्यानिलवचो मुनयः प्रीतमानसाः ॥ ७.१,५.६४
प्रोचुः प्रणम्य तं वायुं शैवागमविचक्षणम् ॥ ७.१,५.६४


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं नाम पञ्चमो ऽध्यायः