शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ५ (युद्धखण्डः)
अध्यायः २९
वेदव्यासः
अध्यायः ३० →

सनत्कुमार उवाच ।।
स्वगेहमागते तस्मिञ्शंखचूडे विवाहिते।।
तपः कृत्वा वरं प्राप्य मुमुदुर्दानवादयः ।। १ ।।
स्वलोकादाशु निर्गत्य गुरुणा स्वेन संयुताः ।।
सर्वे सुरास्संमिलितास्समाजग्मुस्तदंतिकम्।।२।।
प्रणम्य तं सविनयं संस्तुत्य विविधादरात् ।।
स्थितास्तत्रैव सुप्रीत्या मत्वा तेजस्विनं विभुम्।।३।।
सोपि दम्भात्मजो दृष्ट्वा गतं कुल गुरुं च तम् ।।
प्रणनाम महाभक्त्या साष्टांगं परमादरात् ।। ४ ।।
अथ शुक्रः कुलाचार्यो दृष्ट्वाशिषमनुत्तमम् ।।
वृत्तांतं कथयामास देवदानवयोस्तदा ।। ५ ।।
स्वाभाविकं च तद्वैरमसुराणां पराभवम् ।।
विजयं निर्जराणां च जीवसाहाय्यमेव च ।।६।।
ततस्स सम्मतं कृत्वा सुरैस्सर्वैस्समुत्सवम् ।।
दानवाद्यसुराणां तमधिपं विदधे गुरुः ।।७।।
तदा समुत्सवो जातोऽसुराणां मुदितात्मनाम् ।।
उपायनानि सुप्रीत्या ददुस्तस्मै च तेऽखिलाः ।। ६ ।।
अथ दम्भात्मजो वीरश्शंखचूडः प्रतापवान्।।
राज्याभिषेकमासाद्य स रेजे सुरराट् तदा ।। ९ ।।
स सेनां महतीं कर्षन्दैत्यदानवरक्षसाम् ।।
रथमास्थाय तरसा जेतुं शक्रपुरीं ययौ ।।2.5.29.१०।।
गच्छन्स दानवेन्द्रस्तु तेषां सेवनकुर्वताम् ।।
विरेजे शशिवद्भानां ग्रहाणां ग्रहराडिव ।। ११ ।।
आगच्छंतं शङ्खचूडमाकर्ण्याखण्डलस्स्वराट् ।।
निखिलैरमरैस्सार्द्धं तेन योद्धुं समुद्यतः ।। १२ ।।
तदाऽसुरैस्सुराणां च संग्रामस्तुमुलो ह्यभूत् ।।
वीराऽऽनन्दकरः क्लीबभयदो रोमहर्षणः ।। १३ ।।
महान्कोलाहलो जातो वीराणां गर्जतां रणे ।।
वाद्यध्वनिस्तथा चाऽऽसीत्तत्र वीरत्ववर्द्धिनी ।। १४ ।।
देवाः प्रकुप्य युयुधुरसुरैर्बलवत्तराः ।।
पराजयं च संप्रापुरसुरा दुद्रुवुर्भयात् ।। १५।।
पलायमानास्तान्दृष्ट्वा शंखचूडस्स्वयं प्रभुः ।।
युयुधे निर्जरैस्साकं सिंहनादं प्रगर्ज्य च ।। १६ ।।
तरसा सहसा चक्रे कदनं त्रिदिवौकसाम् ।।
प्रदुद्रुवुस्सुरास्सर्वे तत्सुतेजो न सेहिरे ।। १७ ।।
यत्र तत्र स्थिता दीना गिरीणां कंदरासु च ।।
तदधीना न स्वतंत्रा निष्प्रभाः सागरा यथा ।। १८।।
सोपि दंभात्मजश्शूरो दानवेन्द्रः प्रतापवान् ।।
सुराधिकारान्संजह्रे सर्वाँल्लोकान्विजित्य च ।।१९।।
त्रैलोक्यं स्ववशंचक्रे यज्ञभागांश्च कृत्स्नशः ।।
स्वयमिन्द्रो बभूवापि शासितं निखिलं जगत् ।।2.5.29.२०।।
कौबेरमैन्दवं सौर्यमाग्नेयं याम्यमेव च ।।
कारयामास वायव्यमधिकारं स्वशक्तितः ।।२१।।
देवानामसुराणां च दानवानां च रक्षसाम् ।।
गंधर्वाणां च नागानां किन्नराणां रसौकसाम् ।। २२ ।।
त्रिलोकस्य परेषां च सकलानामधीश्वरः ।।
स बभूव महावीरश्शंखचूडो महाबली ।। २३ ।।
एवं स बुभुजे राज्यं राजराजेश्वरो महान् ।।
सर्वेषां भुवनानां च शंखचूडश्चिरं समाः ।। २४ ।।
तस्य राज्ये न दुर्भिक्षं न मारी नाऽशुभग्रहाः ।।
आधयो व्याधयो नैव सुखिन्यश्च प्रजाः सदा ।।२५।।
अकृष्टपच्या पृथिवी ददौ सस्यान्यनेकशः ।।
ओषध्यो विविधाश्चासन्सफलास्सरसाः सदा ।।२६।।
मण्याकराश्च नितरां रत्नखन्यश्च सागराः।।
सदा पुष्पफला वृक्षा नद्यस्तु सलिलावहाः ।। २७ ।।
देवान् विनाखिला जीवास्सुखिनो निर्विकारकाः ।।
स्वस्वधर्मा स्थितास्सर्वे चतुर्वर्णाश्रमाः परे ।।२८।।
तस्मिच्छासति त्रैलोक्ये न कश्चिद् दुःखितोऽभवत् ।।
भ्रातृवैरत्वमाश्रित्य केवलं दुःखिनोऽमराः।।२९।।
स शंखचूडः प्रबलः कृष्णस्य परमस्सखा ।।
कृष्णभक्तिरतस्साधुस्सदा गोलोकवासिनः ।। 2.5.29.३० ।।
पूर्वशापप्रभावेण दानवीं योनिमाश्रितः ।।
न दानवमतिस्सोभूद्दानवत्वेऽपि वै मुने ।। ३१ ।।
ततस्सुरगणास्सर्वे हृतराज्या पराजिताः ।।
संमंत्र्य सर्षयस्तात प्रययुर्ब्रह्मणस्सभाम् ।। ३२ ।।
तत्र दृष्ट्वा विधातारं नत्वा स्तुत्वा विशेषतः ।।
ब्रह्मणे कथयामासुस्सर्वं वृत्तांतमाकुलाः ।। ३३ ।।
ब्रह्मा तदा समाश्वास्य सुरान् सर्वान्मुनीनपि ।।
तैश्च सार्द्धं ययौ लोके वैकुण्ठं सुखदं सताम् ।। ३४ ।।
ददर्श तत्र लक्ष्मीशं ब्रह्मा देवगणैस्सह ।।
किरीटिनं कुंडलिनं वनमालाविभूषितम् ।। ३५ ।।
शंखचक्रगदापद्मधरं देवं चतुर्भुजम् ।।
सनंदनाद्यैः सिद्धैश्च सेवितं पीतवाससम् ।। ३६ ।।
दृष्ट्वा विष्णुं सुरास्सर्वे ब्रह्माद्यास्समुनीश्वराः ।।
प्रणम्य तुष्टुवुर्भक्त्या बद्धाञ्जलिकरा विभुम् ।।३७।।
देवा ऊचु ।।
देवदेव जगन्नाथ वैकुंठाधिपते प्रभो ।।
रक्षास्माञ्शरणापन्नाञ्छ्रीहरे त्रिजगद्गुरो ।। ३८ ।।
त्वमेव जगतां पाता त्रिलोकेशाच्युत प्रभो ।।
लक्ष्मीनिवास गोविन्द भक्तप्राण नमोऽस्तु ते ।। ३९ ।।
इति स्तुत्वा सुरास्सर्वे रुरुदुः पुरतो हरेः ।।
तच्छ्रुत्वा भगवान्विष्णुर्ब्रह्माणमिदमब्रवीत् ।। 2.5.29.४० ।।
विष्णुरुवाच ।।
किमर्थमागतोसि त्वं वैकुंठं योगिदुर्लभम् ।।
किं कष्टं ते समुद्भूतं तत्त्वं वद ममाग्रतः ।। ४१ ।।
सनत्कुमार उवाच ।।
इति श्रुत्वा हरेर्वाक्यं प्रणम्य च मुहुर्मुहुः ।।
बद्धाञ्जलिपुटो भूत्वा विन यानतकन्धरः ।। ४२ ।।
वृत्तांतं कथयामास शंखचूडकृतं तदा ।।
देवकष्टसमाख्यानं पुरो विष्णोः परात्मनः ।। ४३ ।।
हरिस्तद्वचनं श्रुत्वा सर्वतसर्वभाववित् ।।
प्रहस्योवाच भगवांस्तद्रहस्यं विधिं प्रति ।।४४ ।।
श्रीभगवानुवाच ।।
शंखचूडस्य वृत्तांतं सर्वं जानामि पद्मज ।।
मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ।।४५।।।
शृणुतस्सर्ववृत्तान्तमितिहासं पुरातनम् ।।
संदेहो नैव कर्तव्यश्शं करिष्यति शङ्करः ।।४६।।
सर्वोपरि च यस्यास्ति शिवलोकः परात्परः ।।
यत्र संराजते शंभुः परब्रह्म परमेश्वरः ।।४७।।
प्रकृतेः पुरुषस्यापि योधिष्ठाता त्रिशक्तिधृक् ।।
निर्गुणस्सगुणस्सोपि परं ज्योतिः स्वरूपवान् ।।४८।।
यस्यांगजास्तु वै ब्रह्मंस्त्रयस्सृष्ट्यादिकारकाः ।।
सत्त्वादिगुणसंपन्ना विष्णुब्रह्महराभिधाः ।।४९।।
स एव परमात्मा हि विहरत्युमया सह ।।
यत्र मायाविनिर्मुक्तो नित्यानित्य प्रकल्पकः ।।2.5.29.५०।।
तत्समीपे च गोलोको गोशाला शंकरस्य वै ।।
तस्येच्छया च मद्रूपः कृष्णो वसति तत्र ह ।। ५१ ।।
तद्गवां रक्षणार्थाय तेनाज्ञप्तस्सदा सुखी।।
तत्संप्राप्तसुखस्सोपि संक्रीडति विहारवित्।।५२।।
तस्य नारी समाख्याता राधेति जगदम्बिका।।
प्रकृतेः परमा मूर्तिः पंचमी सुविहारिणी ।।५३।।
बहुगोपाश्च गोप्यश्च तत्र संति तदंगजाः ।।
सुविहारपरा नित्यं राधाकृष्णानुवर्तिनः ।।५४।।
स एव लीलया शंभोरिदानीं मोहितोऽनया ।।
संप्राप्तो दानवीं योनिं मुधा शापात्स्वदुःखदाम् ।। ५५ ।।
रुद्रशूलेन तन्मृत्यु कृष्णेन विहितः पुरा।।
ततस्स्वदेहमुत्सृज्य पार्षदस्स भविष्यति ।।५६।।
इति विज्ञाय देवेश न भयं कर्तुमर्हसि।।
शंकर शरणं यावस्स सद्यश्शंविधास्यति ।। ५७ ।।
अहं त्वं चामरास्सर्वे तिष्ठंतीह विसाध्वसाः ।।५८ ।।
सनत्कुमार उवाच ।।
इत्युक्त्वा सविधिर्विष्णुः शिवलोकं जगाम ह ।।
संस्मरन्मनसा शंभुं सर्वेशं भक्तवत्सलम् ।। ५९ ।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडवधोपाख्याने शंखचूडराज्यकरणवर्णनपूर्वक तत्पूर्वभववृत्तचरित्रवर्णनं नामैकोनत्रिंशोऽध्यायः ।। २९ ।।