शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः १ (सृष्टिखण्डः)/विषयानुक्रमणिका

विकिस्रोतः तः

अथ द्वितीयाया रुद्रसंहितायाः प्रथमः सृष्टिखण्डः ।। १ ।।

१ निर्गुणशिवस्य शक्तिसंबंधेन प्रपंचनिर्माणादिलाभविषयकामेक प्रश्नकर्तृ शौनकादृषीन्प्रति सूतस्यानंदपूर्वकं ब्रह्मनारदसंवादमुखेन कथने प्रतिज्ञा ।

२ तपोऽर्थं हिमादिगतनारदतपोनाशार्थेन्द्रप्रेषितस्मरस्य शिवप्रभात्पराभवः, तदज्ञान्यहं काम- जयाति । सगर्वनारदः शिवेन बोधितोपि तम- नादृत्य ब्रह्मणोऽन्तिकं गतस्तेनापि शिवमहि- मेत्युक्तौ वैकुण्ठे विष्णुनापि तथायिते विहस्य किं प्रभावः स्मर इत्युक्त्वा यदृच्छयान्यत्र गतः ।

३ नारदे गते विष्णुः किं कृतवान् नारदश्च कुत्रा- गत इति ऋषीणां प्रश्नः । नारदस्य मार्गमध्ये विष्णोर्मायिकनगररचना, तस्मिन्नारदस्य स्वयं वरोत्सवलाभः, अत्रत्या श्रीमती कन्या काम- जित्पतिमिच्छतीति ज्ञात्वा कामविवशस्य मुनेर्विष्णुलोक गमनं तत्स्वरूपयाचनच्च. नार दस्य हरि- ( वानर) रूपेण स्वयंवरे गमनं तत्र तस्य पराभवः, विष्णोश्रीमतीप्राप्तिश्च, शिवगणयोरुपहासात्क्रुद्धस्य च मुनेः शापः । ।

४ ततो नारदस्य वैकुण्ठगमनं त्वं मनुष्यो भूत्वा विरहिदुःखं वानरैः सहानुभव इति विष्णवे शापदानं, विष्णुना शापं गृहीत्वा शिवेवच्छेयुक्त्वा सांत्वितस्य मुनेमोहापसरणम् पश्चात्तापयुक्तं मुनिं सर्वमिदं शिवकृतमित्युपदिश्य हरेरंतर्धानम् । ५ शिवक्षेत्रदर्शनाय नारदे भूमिं पर्यटति पूर्वं सदाशिवगणयोः समागमः, तयोः स्वशापमुक्तौ प्रार्थना, तावाश्वास्य नारदस्य काशीक्षेत्रगमनम्,काशीपुरीं दृष्ट्वा विश्वेश्वरं नत्वा नारदस्य ब्रह्मलोकगमनम्, विधिं प्रति नारदकृतानेकप्रश्नोक्तिः ।

६ नारदस्य लोकोपकारकानेकप्रश्नश्रवणोत्तरं महाप्रलयस्वरूपवर्णनम् शिवनिर्गुणलक्षणवर्णनम्, ईशेच्छारूपशक्तेरुत्पत्तिस्वरूपकथनञ्च । तयोः सगुणमूर्त्युत्पत्तिनिरुक्तिः, शिवलोकस्य काशीक्षेत्रस्य च सहैव निर्माणकथनम् तत्र क्रीडासक्तयोः शिवशक्त्योरिच्छयैव विष्णोरुत्पत्तिविष्णोर्नामकर्मप्राप्तौ प्रार्थनाकथनम्, शिवाज्ञया तप:करणाज्जातश्रमस्य विष्णोरंगेभ्यो निःसृतजलैर्निरुक्त्या नारायणनामप्राप्तेश्च निरूपणम्. एतस्मिन् काले जडप्रकृति पंचविंशति तत्त्वोत्पत्तिः तत्त्वैः सह हरेस्तत्र शयनोक्तिः

७ नारायणनाभेः कमलोत्पत्तिः, शिवदक्षिणांगाद्ब्रह्मोत्पतिप्रकार:, पुनर्लीलया तस्य कमलात् मम कुतो जन्मेति तस्य भ्रमः, पुनर्मोहात्पितृगवेषणाय विधेर्नालदंडाधःप्रवेशः तदाधाराज्ञानात्पुनरुपर्यागमः, एवं ब्रह्मणो बहुतकालभ्रमणवर्णनम्, तपसा ब्रह्मणो विष्णु दर्शनकथनम्, ब्रह्मविष्ण्वोः स्वस्वश्रेष्ठत्व विवादवर्णनम्, तयोर्मध्ये लिंगाविर्भावः, तदवलोकनेन ब्रह्मविष्ण्वो: स्वस्वजयाय वाराहहंसरूपे धृत्वा लिंगोर्ध्वाधोभागगमनम्, लिंगांतानधिगमाल्लिंगनिकटागमनवर्णनम् ।

८ शिवदर्शनार्थं स्थितयोर्ब्रह्मविष्ण्वोरोंकारनादश्रवणम् । ओोंकारगतवर्णानां लिंगे स्थितिप्रकारः ओंकारादेव ब्रह्मांडोत्पत्तिः, हरिब्रह्मणोर्ज्ञानप्राप्त्युक्तिश्च । एतस्मादेव पंचवक्त्रशिव सगुणमूर्तिप्रादुर्भाव इति तयोर्ज्ञानाधिगमः, ततः शब्दब्रह्मस्वरूपवर्णनम् । शब्दब्रह्मज्ञानेन विष्णुविधिगर्वपरिहारस्य वर्णनम्।

९ पंचवक्त्रशिवाद्विधिविष्ण्वोर्वेदाधिगम:, लिंगपूजैवशिवतुष्टौ परं कारणमिति ब्रह्मविष्णोरुपदेश: सृष्टि कर्मणि सहाये याचिते शिवे सृष्टिकर्ताहमेव रुद्ररूपेण कनपालने सहकारी त्रिगुणया शक्त्या भवामिति तयोर्वरप्रदानेन कलहनिवारणोक्तिः ।

१० विधिसृष्टप्रजादुःखमोचनेऽनेकरूपधारणे विष्णोराज्ञाकरणम्, रुद्ररूपेणाहमपि स्वदशक्यंकाय करिष्यामीति रुद्रोक्तौ हरिहररूपभेदवतां निरयगामित्वोक्तिविष्णोरधिकारप्रदानं च, ब्रह्मविष्णुरूद्राणामायुष्यबलप्रमाणवर्णनम्, विष्णुप्रार्थनया निर्गुणताप्रदानोत्तरं लिंगस्वरूपकथनम् ।

११ सपरिकरं संक्षिप्य शिवार्चनविधिनिरूपणं तत्फलकथनञ्च ।

१२ लिंगार्चनज्ञानेच्छया देवैः सह ब्रह्मणः क्षीरनिधितीरगमनम्, लिंगार्चनमेव सर्वेषां सर्वार्थदमित्येवंरूपां विष्णूक्तिं श्रुत्वा सर्वेषां यथाधिकारं लिंगानि देयानीति ब्रह्मोक्तिं श्रुत्वा विश्वकर्माणं प्रति सर्वेषां लिंगप्रदाने विष्णोराज्ञादानम्, तत्सकाशाद्देवानां लिंगप्राप्तिः, , लिंगार्चनादेव सर्वेषां सर्वार्थलाभकथनम्, कर्मयज्ञादीनां स्वरूपवर्णनम्, बाह्यांतरभेदेन लिंगस्य द्वैविध्योक्तिः, भक्तिज्ञानस्वरूपकथनं तद्द्वारा च द्विविधलिंगपूजाविकारवर्णनम् ।

१३ विस्तृतालिंगपूजाविधिवर्णनप्रसंगेन स्नानासनादिविधिकथनम्, मृन्मयादिलिंगप्रतिष्ठाभूतशुद्धिपाद्यार्घ्याद्युपचारार्पणविधिनिरूपणम्, पूजांते जपस्तोत्र पठनपूर्वकलिंगविसर्जनप्रकारकथनम्।

१४ पुष्पविशेषैर्लिग पूजने फलविशेषवर्णनम्, लक्षद्विलक्षपुष्पपूजनेपि फलविशेषकथनम् तथा कामनाभेदेन पुष्पविशेषार्लिंगपूजने विचित्र फलप्राप्तिवर्णनम्, चंपककेतके हित्वा सर्वपत्रपुष्पविहितत्वोक्ति धान्यलक्षपूजायां मानालक्षणफलादिकथनं जलादिधारापूजनफलादि वर्णनञ्च ।

१५ सृष्टिरक्षणाय हरिविधिभ्यां वराहहंसरूपधारणे कारणोक्तिः, भुवनात्मकांडनिर्माणप्रकारः, तस्मिन्विराट्प्रवेशः, कैलासवैकुंठयोरुत्पत्तिः, नवधा ब्रह्मसृष्टिवर्णनम्, ततो रुद्रादिरुद्रगण शिवसृष्टिब्रह्मसृष्टिवर्णनम् ।

१६ सूक्ष्मभूतेभ्यः स्थूलाकाशदिपंचभूतसृष्टिवर्णनं, पर्वतसमुद्रोत्पत्तिवर्णनं च, ब्रह्मण: स्वांगेभ्यो मरीच्यादीनामुद्भवकथनम्, मानवरूपेण ब्रह्मणा सुरासुरनिर्माणप्रकारस्स्तेषां तत्तच्छरीरदानं च । मैथुनप्रजानिर्माणप्रकारः । प्रियव्रतोत्तानपादोत्पत्तिस्तथा मनुकन्यात्रयप्रसवैः सर्वजगत्युत्पत्तिवर्णनम्, दक्षकन्यावंशवर्णनम्, सतीनामकशिवशक्तेर्दक्षाक्षात्प्रादुर्भावस्तस्या स्त्रिगुणात्वप्रकारकथनं, शिवसतीविवाहवर्णनञ्च । दक्षयज्ञे स्वतनुत्यागेन विपुलकीर्त्यानेकनामलाभवर्णनं शिवशक्तिरुद्रस्वरूपवर्णनञ्च ।

१७ शिवस्य कैलासगमनकुबेरमित्रताकथनप्रसंगेन गुणनिधिचरित्रवर्णनम् ।

१८ तद्दुराचारेण तन्नयनार्थं समागतैर्यमदूतै: सह शिवगणानां संवादः, शिवगणैः साकं गुणनिधेः कैलासगमनवर्णनम्, पुनर्भूमौ राजपुत्री भूतस्य शिवोपांस्त्यैव तस्यालकापुरप्राप्त्युक्तिद्वारा शिवस्याल्पतोपित्ववर्णनम् ।

१९ पाद्मकल्पे पौलस्त्यो वैश्रवणोऽलकापतिः, पश्चान्मेघवाहनकल्पे याज्ञदत्तेस्तस्याधिपत्य प्राप्ति, तत्रापि तस्य शिवभक्त्युद्रेकाच्छिवसख्यसंपादने भवानीवचनानेकैनाक्षत्वप्राप्तिपूर्वक यक्षपतित्वाद्यैश्वर्यप्राप्तिवर्णनम्।

२० कुबेरतपोबलातढक्कावादनेनाह्वानसूचनाद्देवादीनामागमः, तत्रैव, कुबेरशिवसख्यवर्णनं च । इति-द्वितीयाया रुद्रसंहितायाः प्रथमः सृष्टिखण्ड: ।। १ ।।