शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search

ब्रह्मविष्णू ऊचतुः
सर्गादिपंचकृत्यस्य लक्षणं ब्रूहि नौ प्रभो
शिव उवाच
मत्कृत्यबोधनं गुह्यं कृपया प्रब्रवीमि वाम् १
सृष्टिः स्थितिश्च संहारस्तिरोभावोऽप्यनुग्रहः
पंचैव मे जगत्कृत्यं नित्यसिद्धमजाच्युतौ २
सर्गः संसारसंरंभस्तत्प्रतिष्ठा स्थितिर्मता
संहारो मर्दनं तस्य तिरोभावस्तदुत्क्रमः ३
तन्मोक्षोऽनुग्रहस्तन्मे कृत्यमेवं हि पंचकम्
कृत्यमेतद्वहत्यन्यस्तूष्णीं गोपुरबिंबवत् ४
सर्गादि यच्चतुष्कृत्यं संसारपरिजृंभणम्

पंचमं मुक्तिहेतुर्वै नित्यं मयि च सुस्थिरम् ५
महाभूत mahabhuta

तदिदं पंचभूतेषु दृश्यते मामकैर्जनैः
सृष्टिर्भूमौ स्थितिस्तोये संहारः पावके तथा ६
तिरोभावोऽनिले तद्वदनुग्रह इहाम्बरे
सृज्यते धरया सर्वमद्भिः सर्वं प्रवर्द्धते ७
अर्द्यते तेजसा सर्वं वायुना चापनीयते
व्योम्नानुगृह्यते सर्वं ज्ञेयमेवं हि सूरिभिः ८
पंचकृत्यमिदं वोढुं ममास्ति मुखपंचकम्
चतुर्दिक्षु चतुर्वक्त्रं तन्मध्ये पंचमं मुखम् ९
युवाभ्यां तपसा लब्धमेतत्कृत्यद्वयं सुतौ
सृष्टिस्थित्यभिधं भाग्यं मत्तः प्रीतादतिप्रियम् 1.10.१०
तथा रुद्र महेशाभ्यामन्यत्कृत्यद्वयं परम्
अनुग्रहाख्यं केनापि लब्धुं नैव हि शक्यते ११
तत्सर्वं पौर्विकं कर्म युवाभ्यां कालविस्मृतम्
न तद्रुद्र महेशाभ्यां विस्मृतं कर्म तादृशम् १२
रूपे वेशे च कृत्ये च वाहने चासने तथा
आयुधादौ च मत्साम्यमस्माभिस्तत्कृते कृतम् १३
मद्ध्यानविरहाद्वत्सौ मौढ्यं वामेवमागतम्
मज्ज्ञाने सति नैवं स्यान्मानं रूपे महेशवत् १४
तस्मान्मज्ज्ञानसिद्ध्यर्थं मंत्रमॐकारनामकम्
इतः परं प्रजपतं मामकं मानभंजनम् १५
उपादिशं निजं मंत्रमॐकारमुरुमंगलम्
ॐकारो मन्मुखाज्जज्ञे प्रथमं मत्प्रबोधकः १६
वाचकोऽयमहं वाच्यो मंत्रोऽयं हि मदात्मकः
तदनुस्मरणं नित्यं ममानुस्मरणं भवेत् १७
अकार उत्तरात्पूर्वमुकारः पश्चिमाननात्
मकारो दक्षिणमुखाद्बिंदुः प्राण्मुखतस्तथा १८
नादो मध्यमुखादेवं पंचधाऽसौ विजृंभितः
एकीभूतः पुनस्तद्वदोमित्येकाक्षरो भवेत् १९
नामरूपात्मकं सर्वं वेदभूतकुलद्वयम्
व्याप्तमेतेन मंत्रेण शिवशक्त्योश्च बोधकः 1.10.२०
अस्मात्पंचाक्षरं जज्ञे बोधकं सकलस्यतत्
आकारादिक्रमेणैव नकारादियथाक्रमम् २१
अस्मात्पंचाक्षराज्जाता मातृकाः पंचभेदतः
तस्माच्छिरश्चतुर्वक्त्रात्त्रिपाद्गाय त्रिरेव हि २२
वेदः सर्वस्ततो जज्ञे ततो वै मंत्रकोटयः
तत्तन्मंत्रेण तत्सिद्धिः सर्वसिद्धिरितो भवेत् २३
अनेन मंत्रकंदेन भोगो मोक्षश्च सिद्ध्यति
सकला मंत्रराजानः साक्षाद्भोगप्रदाः शुभाः २४
नंदिकेश्वर उवाच
पुनस्तयोस्तत्र तिरः पटं गुरुः प्रकल्प्य मंत्रं च समादिशत्परम्
निधाय तच्छीर्ष्णि करांबुजं शनैरुदण्मुखं संस्थितयोः सहांबिकः २५
त्रिरुच्चार्याग्रहीन्मंत्रं यंत्रतंत्रोक्तिपूर्वकम्
शिष्यौ च तौ दक्षिणायामात्मानं च समर्पयत् २६
प्रबद्धहस्तौ किल तौ तदंतिके तमेव देवं जगतुर्जगद्गुरुम् २७
ब्रह्माच्युतावूचतुः
नमो निष्कलरूपाय नमो निष्कलतेजसे
नमः सकलनाथाय नमस्ते सकलात्मने २८
नमः प्रणववाच्याय नमः प्रणवलिंगिने
नमः सृष्ट्यादिकर्त्रे च नमः पंचमुखायते २९
पंचब्रह्मस्वरूपाय पंच कृत्यायते नमः
आत्मने ब्रह्मणे तुभ्यमनंतगुणशक्तये 1.10.३०
सकलाकलरूपाय शंभवे गुरवे नमः
इति स्तुत्वा गुरुं पद्यैर्ब्रह्मा विष्णुश्च नेमतुः ३१
ईश्वर उवाच
वत्सकौ सर्वतत्त्वं च कथितं दर्शितं च वाम्
जपतं प्रणवं मंत्रं देवीदिष्टं मदात्मकम् ३२
ज्ञानं च सुस्थिरं भाग्यं सर्वं भवति शाश्वतम्
आद्रा र्यां! च चतुर्दश्यां तज्जाप्यं त्वक्षयं भवेत् ३३
सूर्यगत्या महाद्रा र्या!मेकं कोटिगुणं भवेत्
मृगशीर्षांतिमो भागः पुनर्वस्वादिमस्तथा ३४
आद्रा र्स!मः सदा ज्ञेयः पूजाहोमादितर्पणे
दर्शनं तु प्रभाते च प्रातःसंगवकालयोः ३५
चतुर्दशी तथा ग्राह्या निशीथव्यापिनी भवेत्
प्रदोषव्यापिनी चैव परयुक्ता प्रशस्यते ३६
लिंगं बेरं च मेतुल्यं यजतां लिंगमुत्तमम्
तस्माल्लिंगं परं पूज्यं बेरादपि मुमुक्षुभिः ३७
लिंगमॐकारमंत्रेण बेरं पंचाक्षरेण तु
स्वयमेव हि सद्द्रव्यैः प्रतिष्ठाप्यं परैरपि ३८
पूजयेदुपचारैश्च मत्पदं सुलभं भवेत्
इति शास्य तथा शिष्यौ तत्रैवांऽतर्हितः शिवः ३९
इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां दशमोऽध्यायः १०