शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/उत्तर भागः/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

कृष्ण उवाच
भगवन्परमेशस्य शर्वस्यामिततेजसः ॥
मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ १
अथैतज्ज्ञातुमिच्छामि याथात्म्यं पमेशयोः ॥
स्त्रीपुंभावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ २
उपमन्युरुवाच
श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ॥
वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ३
शक्तिः साक्षान्महादेवी महादेवश्च शक्तिमान् ॥
तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ४
वस्तु किंचिदचिद्रूपं किंचिद्वस्तु चिदात्मकम् ॥
द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ५
यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ॥
तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ६
अपरं च परं चैव द्वयं चिदचिदात्मकम् ॥
शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७
शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ॥
ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ८
यथा शिवस्तथा देवी यथा देवी तथा शिवः ॥
नानयोरंतरं विद्याच्चंद्रचन्द्रिकयोरिव ॥ ९
चंद्रो न खलु भात्येष यथा चंद्रिकया विना ॥
न भाति विद्यमानो ऽपि तथा शक्त्या विना शिवः ॥ १०
प्रभया हि विनायद्वद्भानुरेष न विद्यते ॥
प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ११
एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ॥
न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ १२
शक्तौयया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ॥
आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ १३
यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ॥
समानधर्मिणीमेव शिवस्य परमात्मनः ॥ १४
सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ॥
विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ १५
सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ॥
शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ १६
एकधा च द्विधा चैव तथा शतसहस्रधा ॥
शक्तयः खलु भिद्यंते बहुधा व्यवहारतः ॥ १७
शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ॥
ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ १८
ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ॥
तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ १९
नादाद्विनिःसृतो बिंदुर्बिंदोदेवस्सदाशिवः ॥
तस्मान्महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ २०
सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ॥
या सा वर्णस्वरूपेण मातृकेपि विजृम्भते ॥ २१
अथानंतसमावेशान्माया कालमवासृजत् ॥
नियतिञ्च कलां विद्यां कलातोरागपूरुषौ ॥ २२
मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ॥
त्रिगुणाच्च ततो व्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ २३
सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ॥
गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ २४
अभवन्महदादीनि तत्त्वानि च यथाक्रमम् ॥
तेभ्यस्स्युरण्डपिण्डानि त्वसंख्यानि शिवाज्ञया ॥
अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ २५
शरीरांतरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ॥
नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ २६
रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ॥
ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैंद्रीति कथ्यते ॥ २७
किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ॥
शक्यात्मनैव तद्व्याप्तं यथा देहे ऽंतरात्मना ॥ २८
तस्माच्छक्तिमयं सर्वं जगत्स्थावरजंगमम् ॥
कला या परमा शक्तिः कथिता परमात्मनः ॥ २९
एवमेषा परा शक्तिरीश्वरेच्छानुयायिनी ॥
स्थिरं चरं च यद्विश्वं सृजतीति विनिश्चयः ॥ ३०
ज्ञानक्रिया चिकीर्षाभिस्तिसृभिस्स्वात्मशक्तिभिः ॥
शक्तिमानीश्वरः शश्वद्विश्वं व्याप्याधितिष्ठति ॥ ३१
इदमित्थमिदं नेत्थं भवेदित्येवमात्मिका ॥
इच्छाशक्तिर्महेशस्य नित्या कार्यनियामिका ॥ ३२
ज्ञानशक्तिस्तु तत्कार्यं करणं कारणं तथा ॥
प्रयोजनं च तत्त्वेन बुद्धिरूपाध्यवस्यति ॥ ३३
यथेप्सितं क्रियाशक्तिर्यथाध्यवसितं जगत् ॥
कल्पयत्यखिलं कार्यं क्षणात्संकल्परूपिणी ॥ ३४
यथा शक्तित्रयोत्थानं शक्तिप्रसवधर्मिणी ॥
शक्त्या परमया नुन्ना प्रसूते सकलं जगत् ॥ ३५
एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः ॥
शक्तिशक्तिमदुत्थं तु शाक्तं शैवमिदं जगत् ॥ ३६
यथा न जायते पुत्रः पितरं मातरं विना ॥
तथा भवं भवानीं च विना नैतच्चराचरम् ॥
स्त्रीपुंसप्रभवं विश्वं स्त्रीपुंसात्मकमेव च ॥ ३७
स्त्रीपुंसयोर्विभूतिश्च स्त्रीपुंसाभ्यामधिष्ठितम् ॥
परमात्मा शिवः प्रोक्तश्शिवा सा च प्रकीर्तिता ॥ ३८
शिवस्सदाशिवः प्रोक्तः शिवा सा च मनोन्मनी ॥
शिवो महेश्वरो ज्ञेयः शिवा मायेति कथ्यते ॥ ३९
पुरुषः परमेशानः प्रकृतिः परमेश्वरी ॥
रुद्रो महेश्वरस्साक्षाद्रुद्राणी रुद्रवल्लभा ॥ ४०
विष्णुर्विश्वेश्वरो देवो लक्ष्मीर्विश्वेश्वरप्रिया ॥
ब्रह्मा शिवो यदा स्रष्टा ब्रह्माणी ब्रह्मणः प्रिया ॥ ४१
भास्करो भगवाञ्छंभुः प्रभा भगवती शिवा ॥
महेंद्रो मन्मथारातिः शची शैलेन्द्रकन्यका ॥ ४२
जातवेदा महादेवः स्वाहा शर्वार्धदेहिनी ॥
यमस्त्रियंबको देवस्तत्प्रिया गिरिकन्यका ॥ ४३
निरृतिर्भगवानीशो नैरृती नगनंदनी ॥
वरुणो भगवान्रुद्रो वारुणी भूधरात्मजा ॥ ४४
बालेंदुशेखरो वायुः शिवा शिवमनोहरा ॥
यक्षो यज्ञशिरोहर्ता ऋद्धिर्हिमगिरीन्द्रजा ॥ ४५
चंद्रार्धशेखरश्चंद्रो रोहिणी रुद्रवल्लभा ॥
ईशानः परमेशानस्तदार्या परमेश्वरी ॥ ४६
अनंतवलयो ऽनंतो ह्यनंतानंतवल्लभा ॥
कालाग्निरुद्रः कालारिः काली कालांतकप्रिया ॥ ४७
पुरुषाख्यो मनुश्शंभुः शतरूपा शिवप्रिया ॥
दक्षस्साक्षान्महादेवः प्रसूतिः परमेश्वरी ॥ ४८
रुचिर्भवो भवानी च बुधैराकूतिरुच्यते ॥
भृगुर्भगाक्षिहा देवः ख्यातिस्त्रिनयनप्रिया ॥ ४९
मरीचिभगवान्रुद्रः संभूतिश्शर्ववल्लभा ॥
गंगाधरो ऽंगिरा ज्ञेयः स्मृतिः साक्षादुमा स्मृता ॥ ५०
पुलस्त्यः शशभृन्मौलिः प्रीतिः कांता पिनाकिनः ॥
पुलहस्त्रिपुरध्वंसी तत्प्रिया तु शिवप्रिया ॥ ५१
क्रतुध्वंसी क्रतुः प्रोक्तः संनतिर्दयिता विभोः ॥
त्रिनेत्रो ऽत्रिरुमा साक्षादनसूया स्मृता बुधैः ॥ ५२
कश्यपः कालहा देवो देवमाता महेश्वरी ॥
वसिष्ठो मन्मथारातिर्देवी साक्षादरुंधती ॥ ५३
शंकरः पुरुषास्सर्वे स्त्रियस्सर्वा महेश्वरी ॥
सर्वे स्त्रीपुरुषास्तस्मात्तयोरेव विभूतयः ॥ ५४
विषयी भगवानीशो विषयः परमेश्वरी ॥
श्राव्यं सर्वमुमारूपं श्रोता शूलवरायुधः ॥ ५५
प्रष्टव्यं वस्तुजातं तु धत्ते शंकरवल्लभा ॥
प्रष्टा स एव विश्वात्मा बालचन्द्रावतंसकः ॥ ५६
द्रष्टव्यं वस्तुरूपं तु बिभर्ति वक्तवल्लभा ॥
द्रष्टा विश्वेश्वरो देवः शशिखंडशिखामणिः ॥ ५७
रसजातं महादेवी देवो रसयिता शिवः ॥
प्रेयजातं च गिरिजा प्रेयांश्चैव गराशनः ॥ ५८
मंतव्यवस्तुतां धत्ते सदा देवी महेश्वरी ॥
मंता स एव विश्वात्मा महादेवो महेश्वरः ॥ ५९
बोद्धव्यवस्तुरूपं तु बिभर्ति भववल्लभा ॥
देवस्स एव भगवान्बोद्धा मुग्धेन्दुशेखरः ॥ ६०
प्राणः पिनाकी सर्वेषां प्राणिनां भगवान्प्रभुः ॥
प्राणस्थितिस्तु सर्वेषामंबिका चांबुरूपिणी ॥ ६१
बिभर्ति क्षेत्रतां देवी त्रिपुरांतकवल्लभा ॥
क्षेत्रज्ञत्वं तदा धत्ते भगवानंतकांतकः ॥ ६२
अहः शूलायुधो देवः शूलपाणिप्रिया निशा ॥
आकाशः शंकरो देवः पृथिवी शंकरप्रिया ॥ ६३
समुद्रो भगवानीशो वेला शैलेन्द्रकन्यका ॥
वृक्षो वृषध्वजो देवो लता विश्वेश्वरप्रिया ॥ ६४
पुंल्लिंगमखिलं धत्ते भगवान्पुरशासनः ॥
स्त्रिलिंगं चाखिलं धत्ते देवी देवमनोरमा ॥ ६५
शब्दजालमशेषं तु धत्ते सर्वस्य वल्लभा ॥
अर्थस्वरूपमखिलं धत्ते मुग्धेन्दुशेखरः ॥ ६६
यस्य यस्य पदार्थस्य या या शक्तिरुदाहृता ॥
सा सा विश्वेश्वरी देवी स स सर्वो महेश्वरः ॥ ६७
यत्परं यत्पवित्रं च यत्पुण्यं यच्च मंगलम् ॥
तत्तदाह महाभागास्तयोस्तेजोविजृंभितम् ॥ ६८
यथा दीपस्य दीप्तस्य शिखा दीपयते गृहम् ॥
तथा तेजस्तयोरेतद्व्याप्य दीपयते जगत् ॥ ६९
तृणादिशिवमूर्त्यंतं विश्वख्यातिशयक्रमः ॥
सन्निकर्षक्रमवशात्तयोरिति परा श्रुतिः ॥ ७०
सर्वाकारात्मकावेतौ सर्वश्रेयोविधायिनौ ॥
पूजनीयौ नमस्कार्यौ चिंतनीयौ च सर्वदा ॥ ७१
यथाप्रज्ञमिदं कृष्ण याथात्म्यं परमेशयोः ॥
कथितं हि मया ते ऽद्य न तु तावदियत्तया ॥ ७२
तत्कथं शक्यते वक्तुं याथात्म्यं परमेशयोः ॥
महतामपि सर्वेषां मनसो ऽपि बहिर्गतम् ॥ ७३
अंतर्गतमनन्यानामीश्वरार्पितचेतसाम् ॥
अन्येषां बुद्ध्यनारूढमारूढं च यथैव तत् ॥ ७४
येयमुक्ता विभूतिर्वै प्राकृती सा परा मता ॥
अप्राकृतां परामन्यां गुह्यां गुह्यविदो विदुः ॥ ७५
यतो वाचो निवर्तंते मनसा चेन्द्रियैस्सह ॥
अप्राकृती परा चैषा विभूतिः पारमेश्वरी ॥ ७६
सैवेह परमं धाम सैवेह परमा गतिः ॥
सैवेह परमा काष्ठा विभूतिः परमेष्ठिनः ॥ ७७
तां प्राप्तुं प्रयतंते ऽत्र जितश्वासा जितेंद्रियाः ॥
गर्भकारा गृहद्वारं निश्छिद्रं घटितुं यथा ॥ ७८
संसाराशीविषालीढमृतसंजीवनौषधम् ॥
विभूतिं शिवयोर्विद्वान्न बिभेति कुतश्चन ॥ ७९
यः परामपरां चैव विभूतिं वेत्ति तत्त्वतः ॥
सो ऽपरो भूतिमुल्लंघ्य परां भूतिं समश्नुते ॥ ८०
एतत्ते कथितं कृष्ण याथात्म्यं परमात्मनोः ॥
रहस्यमपि योग्यो ऽसि भर्गभक्तो भवानिति ॥ ८१
नाशिष्येभ्यो ऽप्यशैवेभ्यो नाभक्तेभ्यः कदाचन ॥
व्याहरेदीशयोर्भूतिमिति वेदानुशासनम् ॥ ८२
तस्मात्त्वमतिकल्याणपरेभ्यः कथयेन्न हि ॥
त्वादृशेभ्यो ऽनुरूपेभ्यः कथयैतन्न चान्यथा ॥ ८३
विभूतिमेतां शिवयोर्योग्येभ्यो यः प्रदापयेत् ॥
संसारसागरान्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ८४
कीर्तनादस्य नश्यंति महान्त्यः पापकोटयः ॥
त्रिश्चतुर्धासमभ्यस्तैर्विनश्यंति ततो ऽधिकाः ॥ ८५
नश्यंत्यनिष्टरिपवो वर्धन्ते सुहृदस्तथा ॥
विद्या च वर्धते शैवी मतिस्सत्ये प्रवर्तते ॥ ८६
भक्तिः पराः शिवे साम्बे सानुगे सपरिच्छिदे ॥
यद्यदिष्टतमं चान्यत्तत्तदाप्नोत्यसंशयम् ॥ ८७
अन्तःशुचिः शिवे भक्तो विस्रब्धः कीर्तयेद्यदि ॥
प्रबलैः कर्मभिः पूर्वैः फलं चेत्प्रतिबध्यते ॥
पुनः पुनः समभ्यस्येत्तस्य नास्तीह दुर्ल्लभम् ॥ ८८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायामुत्तरखण्डे गौरीशंकरविभूतियोगो नाम चतुर्थो ऽध्यायः