शिवपुराणम्/कोटिरुद्रसंहिता/अध्यायाः २०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


।। सूत उवाच ।।
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ।।
यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ।। १ ।।
कामरूपाभिधे देशे शंकरो लोककाम्यया ।।
अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम् ।। २ ।।
यदर्थमवतीर्णोसौ शंकरो लोकशंकरः।।
शृणुतादरतस्तच्च कथयामि मुनीश्वराः।।३।।
भीमोनाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः।।
दुःखदस्सर्वभूतानां धर्मध्वंसकरस्सदा।।४।।
कुंभकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः।।
सह्ये च पर्वते सोऽपि मात्रा वासं चकार ह।।५।।
कुंभकर्णे च रामेण हते लोकभयंकरे।।
राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा।।६।।
स बाल एकदा भीमः कर्कटीं मातरं द्विजाः।।
पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः।।७।।
भीम उवाच।।
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता।।
ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना ।। ८ ।।
सूत उवाच ।।
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा।।
उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम् ।। ९ ।।
कर्कट्युवाच ।।
पिता ते कुम्भकर्णश्च रावणानुज एव च ।।
रामेण मारितस्सोयं भ्रात्रा सह महाबलः ।। 4.20.१० ।।
अत्रागतः कदाचिद्वै कुम्भकर्णस्य राक्षसः ।।
मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा ।।११।।
लंकां स गतवान्मां च त्यक्त्वात्रैव महाबलः ।।
मया न दृष्ट्वा सा लंका ह्यत्रैव निवसाम्यहम् ।। १२ ।।
पिता मे कर्कटो नाम माता मे पुष्कसी मता ।।
भर्ता मम विराधो हि रामेण निहतः पुरा ।। १३ ।।
पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ।।
पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ ।। १४ ।।
भक्षणार्थं गतौ तत्र कुद्धेन सुमहात्मना।।
सुतीक्ष्णेन सुतपसाऽगस्त्यशिष्येण वै तदा।।१५।।
साऽहमेकाकिनी जाता दुःखिता पर्वते पुरा।।
निवसामि स्म दुःखार्ता निरालंबा निराश्रया।।१६।।
एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः।।
आगत्य कृतवान्संगं मां विहाय गतो हि सः।।१७।।
ततस्त्वं च समुत्पन्नो महाबलपराक्रमः।।
अवलंब्य पुनस्त्वां च कालक्षेपं करोम्यहम्।।१७।।
सूत उवाच।।
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः।।
कुद्धश्च चिंतयामास किं करोमि हरिं प्रति।।१९।।
पितानेन हतो मे हि तथा मातामहो ह्यपि।।
विराधश्च हतोऽनेन दुःखं बहुतरं कृतम्।।4.20.२० ।।
तत्पुत्रोहं भवेयं चेद्धरिं तं पीडयाम्यहम्।।
इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ।।२१।।
ब्रह्माणां च समुद्दिश्य वर्षाणां च सहस्रकम् ।।
मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा।।२२।।
ऊर्ध्वबाहुश्चैकपादस्सूर्य्ये दृष्टिं दधत्पुरा।।
संस्थितस्स बभूवाथ भीमो राक्षसपुत्रकः ।।२३।।
शिरसस्तस्य संजातं तेजः परमदारुणम् ।।
तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः ।। २४ ।।
प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ।।
दुःखं निवेदयांचकुर्ब्रह्मणे ते सवासवाः ।। २५ ।।
देवा ऊचुः ।।
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ।।
यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे ।।२६।।
नोचेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ।।
यास्यामस्संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम् ।। २७ ।।
सूत उवाच ।।
इति तेषां वचश्श्रुत्वा ब्रह्मा लोकपितामहः ।।
जगाम च वरं दातुं वचनं चेदमब्रवीत् ।। २८ ।।
ब्रह्मोवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ।।
इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ।। २९ ।।
भीम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वर स्त्वया ।।
अतुलं च बलं मेऽद्य देहि त्वं कमलासन ।। 4.20.३० ।।
सूत उवाच ।।
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ।।
ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ।।३१।।
राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ।।
मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान्।।३२।।
भीम उवाच ।।
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ।।
देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः ।। ३३ ।।
।। सूत उवाच ।।
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ।।
स्थानान्निस्सारयामास स्वात्स्वात्तान्भीमविक्रमः ।। ३४ ।।
ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ।।
ततो जेतुं रसां दैत्यः प्रारंभं कृतवान्मुदा ।। ३५ ।।
पुरा सुदक्षिणां तत्र कामरूपेश्वरं प्रभुम् ।।
जेतुं गतस्ततस्तेन युद्धमासीद्भयंकरम् ।। ३६ ।।
भीमोऽथ तं महाराजं प्रभावाद्ब्रह्मणोऽसुरः ।।
जिग्ये वरप्रभावेण महावीरं शिवाश्रयम्।।३७।।
स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ।।
बबंध ताडयामास भीमो भीमपराक्रमः ।। ३८ ।।
गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ।।
तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ।। ३९ ।।
राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ।।
गृहीतो निगडैस्तेन ह्येकांते स्थापितश्च सः ।। 4.20.४० ।।
तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ।।
भजनं च शिवस्यैव प्रारब्धी प्रियकाम्यया ।। ४१ ।।
गंगायास्तवनं तेन बहुधा च तदा कृतम् ।।
मानसं स्नानकर्मादि कृत्वा शंकरपूजनम् ।। ४२ ।।
पार्थिवेन विधानेन चकार नृपसत्तमः ।।
तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम् ।। ४३ ।।
प्रणिपातैस्तथा स्तोत्रैर्मुद्रासन पुरस्सरम् ।।
कृत्वा हि सकलं तच्च स भेजे शंकरं मुदा ।। ४४ ।।
पंचाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ।।
नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा ।। ४५ ।।
तत्पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ।।
निधानं पार्थिवं प्रीत्या चकार नृपवल्लभा ।। ४६ ।।
दंपती त्वेकभावेन शंकरं भक्तशंकरम् ।।
भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ ।। ४७ ।।
राक्षसो यज्ञकर्मादि वरदर्प विमोहितः ।।
लोपयामास तत्सर्वं मह्यं वै दीयतामिति ।।४८।।
बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम ।।
चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः ।। ४९ ।।
वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ।।
लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः ।। 4.20.५० ।।
देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ।।
अत्यन्तं दुःखमापन्ना लोकान्निस्सारिता द्विजाः ।। ५१ ।।
ते ततो विकलास्सर्वे सवासवसुरर्षयः ।।
ब्रह्मविष्णू पुरोधाय शंकरं शरणं ययुः ।। ५२ ।।
स्तुत्वा स्तोत्रैरनेकैश्च शंकरं लोक शंकरम् ।।
प्रसन्नं कृतवंतस्ते महाकोश्यास्तटे शुभे ।। ५३ ।।
कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ।।
तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात् ।। ५४ ।।
एवं स्तुतस्तदा शंभुर्देवानां स्तवनादिभिः ।।
सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत् ।। ५५ ।।
शिव उवाच ।।
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ।।
प्रसन्नोस्मि वरं ब्रूत किं कार्यं करवाणि वः ।। ५६ ।।
सूत उवाच ।।
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ।।
सुप्रणम्य करौ बद्ध्वा देवः ऊचुश्शिवं तदा ।। ५७ ।।
देवा ऊचुः ।।
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ।।
अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव ।। ५८ ।।
तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ।।
त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय ।। ५९ ।।
राक्षसः कर्कटीपुत्रः कुंभकर्णोद्भवो बली ।।
पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः ।। 4.20.६० ।।
तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ।।
कृपां कुरु महेशान विलंबं न कुरु प्रभो ।। ६१ ।।
सूत उवाच ।।
इत्युक्तस्तु सुरैस्सर्वैश्शंभुवें भक्तवत्सलः ।।
वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत् ।। ६२ ।।
शंभुरुवाच ।।
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ।।
तस्मै ब्रूतेति वै देवाः कार्य्यं शीघ्रं भविष्यति ।। ६३ ।।
सुदक्षिण महाराज काम रूपेश्वर प्रभो ।।
मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः ।। ६४ ।।
दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ।।
हनिष्यामि न संदेहस्त्वत्तिरस्कारकारिणम् ।। ६५ ।।
।। सूत उवाच ।।
अथ ते निर्जरास्सर्वे तत्र गत्वा मुदान्विताः ।।
तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत् ।। ६६ ।।
तमित्युक्त्वा च वै देवा आनंदं परमं गताः ।।
महर्षयश्च ते सर्वे ययुश्शीप्रं निजाश्रमान् ।। ६७ ।।

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ।। २० ।।