शिबिकावक्रवंशलक्षणम्

विकिस्रोतः तः
शिबिकावक्रवंशलक्षणम्

०१कख - अभिवाद्य गणाधीशम् , आभीष्टफलदायिनम्

०१गघ - शिबिकावक्रवंशस्य , प्रमाणम् किञ्चिद् उच्यते


०२कख - वेणोः शुभाङ्कुरं दृष्ट्वा , यत्नेन परिपालयेत्

०२गघ - वराहशललीकीट,भृङ्गदंशाद्युपद्रवात्


०३कख - दृढया परिवृत्त्या च , वचाचूर्णादिभिः पुनः

०३गघ - हस्तोन्नतात् पूर्वम् अस्य , सुमुहूर्ते विनायकम्


०४कख - सम्पूज्य जलगन्धाद्यैः , सूपलाज्<आ>दिभिस् तथा

०४गघ - वंशस्य पार्श्वयोः खात्वा , यन्त्रस्तम्भौ विनिक्षिपेत्


०५कख - यत्र रन्ध्रपथा गत्वा , वक्रवेणुर् भविष्यति

०५गघ - यन्त्रमानम् इति प्रोक्तं , दशहस्तसमायतम्


०६कख - मुनिसङ्ख्याङ्गुलं वीथ्या , तदर्धं घनम् एव च

०६गघ - एवं स्तम्भद्वये सूत्रं , सिद्धे पञ्चदशं तु वा


०७कख - त्रयोदशं वा ह्[र्]अस्वाख्य,पट्टिकास्तम्भवीथिवत्

०७गघ - एकाङ्गुलं द्व्यङ्गुलं वा , घनं तासाम् उद्<ई>रितम्  %\var{dvyaṅgulaṃ] \emV (vipulā); dvayāṅgulaṃ \ed \hypermetrical typo?}


०८कख - सार्धैकहस्तं वा दीर्घं , सपादं वात्र कल्पयेत्

०८गघ - स्तम्भयोर् मूलतस् त्यक्त्वा , विंशत्यङ्गुलमात्रकम्


०९कख - एकैकहस्तम् आयातां , चतुरः पट्टिकां क्रियात्

०९गघ - पदाधिकद्विहस्तेन , तस्मात् तु कुटिलायतम्


१०कख - कुटिले पट्टिकाः सप्त , पञ्चकम् वा समांशके

१०गघ - स्तम्भयोः कल्पयेद् अस्मान् , मूलवच् चतुरो ऽग्रके


११कख - तदधिरोहिणीवेदं , यन्त्रमन्त्रौ भविष्यति

११गघ - मूलाग्रपट्टिकाष्टानां , रन्ध्राणां विधिम् उच्यते


१२कख - स्तम्भयोः पट्टिकायोगात् , प्रथमे त्र्यङ्गुलं त्यजेत्

१२गघ - द्वितीये च तृतीये च , द्व्यङ्गुलं तु चतुर्थके


१३कख - त्र्यङ्गुलं कुटिलाग्रात् तु , चतुर्थं पूर्ववत् तथा

१३गघ - त्यक्ताङ्गुलान्तरे रेखां , कारयेद् अतिसूक्ष्मतह्


१४कख - रेखाम् आश्रित्य पृष्ठे तु , रन्ध्रान् वंशगतोपमान्

१४गघ - त्रियवाधिकमानेन , सुवृत्तान् वक्रगम्यकैः


१५कख - कुटिलान्तह्स्थिते खर्व,पट्टिकासप्तके क्रमात्

१५गघ - घने द्व्यङ्गुलमाने च , रन्ध्रान् कर्तुम् इहोच्यते


१६कख - अशाङ्कात् पट्टिकानां च , कुर्यात् पूर्वापरं घनं

१६गघ - तासाम् अधश् चोपरि च , वक्रगम्यायतं द्विधा


१७कख - ऊनाधिकत्रिपादार्ध्<ऐर्?> , अङ्गुलैः कुटिलक्रमम्

१७गघ - सपादनवकं चैव , पादाधिकदिवाकरः


१८कख - अर्धोनषोडशम् चैव , षोडशं च ततः परम्

१८गघ - अष्टादशत्रिपादोन,सार्धषोडशषोडशौ


१९कख - अर्धाधिकमनुस् तेन , सपादं तु त्रयोदश

१९गघ - सपादनिधिशैलौ च , सत्रिपादार्णवानलौ


२०कख - पक्षान्तरम् इहैवोक्तं , चतुर्थशरयोः क्रमात्

२०गघ - कला पञ्चदशा सार्धा , तत्सम्पादत्रयोदशम्


२१कख - सपादमिहिरेणापि , कुर्यान् मानं द्वयोर् इति

२१गघ - पट्टिकापञ्चके पक्षे , रुद्रादित्यौ तु षोडशौ


२२कख - तथैव च पुनः कुर्यात् , तत्त्रयोदशभास्करौ

२२गघ - रसबाणौ तृतीयात् तु , पक्षान्तरम् अथोच्यते


२३कख - मनुत्रयोदशौ सूर्य,दिशौ रसशराव् इति

२३गघ - विना पक्षान्तरेणैकं , वक्रक्रमम् अथोच्यते


२४कख - दशार्कशोडशाः सप्त,दशं चाष्टादशद्वयम्

२४गघ - अर्धोनाष्टदशं चैव , षोडशं च तिथिर् मनुः


२५कख - एकादशं दशम् सप्त , रसम् एतैश् च सप्तके

२५गघ - पूर्वक्रमेण तद्वक्रं , नॄणां नेत्रप्रियावहम्


२६कख - उक्तसङ्ख्याङ्गुलैर् एवं , कृत्वा रेखां ततः परम्

२६गघ - वक्रगम्यैः सुरन्ध्राणि , वेणोः पुष्ट्यैव पूर्ववत्


२७कख - रन्ध्रैश् च वंशयात्य् एवं , वक्रक्षेमकराय च

२७गघ - नित्यं वंशादिकं दृष्ट्वा , रज्जुकीलादिभिः सुधीः


२८कख - कुर्यात् तत्रोचितं कर्म , तथाप्य् अधिकसूक्ष्मतः

२८गघ - पिपीलिकादंशकीट,भृङ्गेभ्यः परिपालयेत्


२९कख - सार्धे मास्यनलाङ्खोर्ध्वान् , कण्टकान् दिनपण्चकैः

२९गघ - शराङ्गुलोर्ध्वम् एकैकं , सबहिश्चर्मकं त्यजेत्


३०कख - त्रि<मासेन व>चाचूर्ण,तैलं मासेन लेपयेत् %MS seems to read trimāsānidva?

३०गघ - अब्दान्ते लूनयेद् अग्रं , रुद्रहस्तात् परं ततः


३१कख - दिनवत्सरमासानां , चतुर्थं वा तृतीयकम्

३१गघ - नीत्वाथ सुमुहूर्ते तु , दीपविघ्नेश्वरादिभिः


३२कख - वेणोश् च लूनयेन् मूलं , ततो तिथिदिनात् परम्

३२गघ - यन्त्रं चोत्पाद्य तेनैव , सह भूमौ विनिक्षिपेत्


३३कख - पट्टिकाभ्यस्ततः स्तम्भौ , विमुच्यास्य तु कण्टकान्

३३गघ - आमूलम् एव विच्छिद्य , वंशान् मुच्येत पट्टिकाः


३४कख - परितः कण्टकस्थानं , सुशिल्पम् कारयेन् मृदु

३४गघ - किञ्चित् तु तिलजं लिप्त्वा , ततःसप्तदिनात् परम्


३५कख - सत्रिपादद्विहस्तं वा , सपादं मूलम् अप्य् अतः

३५गघ - सवितस्त्यायनेनैव , मूलाग्रे कारयेत् ततः


३६कख - अयुगाङ्गुलयुक्तैर् वा , हीनैर् अष्टायतं द्वयोः

३६गघ - स्वर्णेन रजतेनापि , सूकरस्य गजस्य च


३७कख - शीर्षमूलाग्रयोह् कृत्वा , हेमरूप्यारकूटकैः

३७गघ - बद्ध्वा त्रिबाणमुनिभिर् , अङ्गुलैर् आयतैः द्वयोः


३८कख - कल्पयेच् छिबिकायोग्य,वक्रवेणुं महामतिः

३८गघ - उक्तं वक्रोन्नतं त्व् अस्य , शुभं पञ्चदशाङ्गुलैः


३९कख - वक्रस्यान्तःस्थितानां तु , पट्टिकानां तृतीयकात्

३९गघ - पट्टिकापञ्चके पक्षे , द्वितीयाद् एव च क्रमात्


४०कख - त्रयोदशं च रुद्रश् च , निधिश् च शुभदोन्नतम्

४०गघ - आभ्यां तु कुटिलोर्ध्वाभ्यां , निपुणैर् दृष्टलक्षणैः


४१कख - केचिद् वक्रोच्चम् इत्य् आहुस् , तथा वंशश् च दृश्यते

४१गघ - स्तम्भयोर् अन्तरे द्वे वा , त्रयं वाङ्कुरम् अति चेत्


४२कख - पूर्वरन्ध्रापरान् नेत्रा,ङ्गुलं वार्धोनम् एव वा

४२गघ - त्यक्त्वातो वंशपुष्ट्यात्र , कुर्याद् रन्ध्राणि पूर्ववत्


४३कख - पुनर् अप्य् एवम् एकैकां , सुषिरालिं च कल्पयेत्

४३गघ - तयैव गत्वा स्वाविद्धा , सम्भविष्यन्ति वेणवः


४४कख - वक्राश् चायतमूलाग्रै,क्याङ्गुलैष्टाभिर् हृताः

४४गघ - ध्वजाद्ययुगयोन्याद्यां , द्विजादिक्रमतः शुभाः


॥वंशवक्रप्रकरणम्॥

स्रोतः[सम्पाद्यताम्]