शिक्षणाधिगमयोः प्रबन्धनम्

विकिस्रोतः तः

एकस्मिन् सङ्गठने विभिन्नस्तरेषु , कार्येषु च संयुक्तानां जनानां मध्ये समन्वयस्थापनाय प्रबन्धनम् महत्वपूर्णं वर्तते । प्रबन्धनं नाम समुपपलब्धानां विविधसंसाधनानां यथोचितरीत्या उपयोगः,येन लक्ष्यप्राप्तिः अपेक्षितानुगुणं स्यात्। अधूना एतस्य प्रयोगः सर्वेषु क्षेत्रेषु दृश्यते । अतः शिक्षणाधिगमप्रक्रियायां बहूनि संसाधनानि प्रयुज्यन्ते। यथा- शिक्षकः,छात्रः,भवनम्,समयः,कर्मचारिणः इत्यादयः । "डेविसमहोदयः" प्रबन्धनं चतुर्षु भागेषु विभजति ।

1 - नियोजनम् 2 - सङ्घटनम् 3- नेतृत्वम्

4 - नियन्त्रणम्

1- नियोजनम् :- नियोजनमित्यस्य ‌तात्पर्यं कार्ययोजनायाः निर्माणम् । शिक्षकः , माध्यमः,विषयः,विधिः,छात्रः इत्येतेषां सोद्देश्यनिर्धारणमस्मिन् समाचर्यते । अनुदेशनात्मकानामुद्देश्यानां निर्धारणं क्रमबद्धरीत्या करणीयम् । निर्धारितानामुद्देश्यानां प्राप्त्यर्थं समुचितकार्ययोजनानिर्माणम् । उद्देश्यानां प्राप्तौ सहायकानां कल्पनं,बाधकतत्वानां कल्पनं,तयोः निविरणोपायाश्च ।


2 - सङ्घटनम् :- "सङ्घटनम्" अर्थात् योजनायाः क्रियान्वयनम् । निर्धारितानां संसाधनानां तत्कार्ये घटनम् (कार्याचरणम्) शिक्षकः आत्मविश्वासेन विषयवस्तुनः प्रस्तुतीकरणं कुर्यात्,अत्र प्रक्रियायाः पूर्त्यर्थं छात्राणां सहयोगस्वीकरणमप्यपेक्षितमस्ति । शिक्षणव्यूहस्य विविधशिक्षणयुक्तीनां प्रयोगं कृत्वा प्रभावात्मकता सम्पादनीया । आवश्यकतायां सत्यां प्रशासनिकाधिकारिभिः सहयोगप्राप्तिः तथा च अभिभावकेभ्य,समाजिकसंरक्षकेभ्यः च सहयोगः करणीयः ।

3 - नेतृत्त्वम् :- अध्यापकस्य भूमिका छात्रान् अधिगमं प्रति प्रेरयति ।‌ नवीना शैक्षिकसङ्कल्पनापि यत् छात्राः स्वयमेव शिक्षयेयुः,अध्यापकः केवलं मार्गानुदेशनं कुर्यात् । अतः नेतृत्त्वकुशलता अध्यापकेषु भवितव्या यया सःअधिगमार्थं छात्रान् प्रेरयेत्,प्रोत्साहयेत्, मार्गदर्शनञ्च कुर्यात् । सहाध्यायीवत् सहयोगः तथा च मूल्याङ्कनमपि अध्यापकस्य दायित्वं वर्तते ।

4 - नियन्त्रणम् :- कस्यापि प्रबन्धनस्य महत्वपूर्णमङ्गमस्ति नियन्त्रणम् । सम्पूर्णायाः प्रक्रियायाः सञ्चालनं तथा भवेत् कुत्रचिदपि न्यूनताः,दोषाः वा न स्युः । सर्वाणि संसाधनानि स्वस्वकार्येषु यथोचितरीत्या सम्बन्धानि सन्ति वा इत्यवेक्षणं नियन्त्रणे आगच्छति ।