सामग्री पर जाएँ

शारीरकमीमांसासूत्रभाष्यम्/द्वितीयोऽध्यायः

विकिस्रोतः तः
← प्रथमोऽध्यायः शारीरकमीमांसासूत्रभाष्यम्
द्वितीयोऽध्यायः
[[लेखकः :|]]
तृतीयोऽध्यायः →

प्रथमः पादः

[सम्पाद्यताम्]


स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ।। 2.1.1 ।।

स्मृत्यधिकरणम्।। 2.1.1।।

यदुक्तं ब्राहृैव सर्वज्ञं जगतः कारणम् इति, तदयुक्तम्; कुतः? स्मृत्यनवकाशदोषप्रसङ्गात् -- स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसारिण्यः स्मृतयः, ता एवं सत्यनवकाशाः प्रसज्येरन्। तासु ह्रचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते। मन्वादिस्मृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यः सावकाशा भवन्ति -- अस्य वर्णस्यास्मिन्कालेऽनेन विधानेनोपनयनम्, ईदृशश्चाचारः, इत्थं वेदाध्ययनम्, इत्थं समावर्तनम्, इत्थं सहधर्मचारिणीसंयोग इति; तथा पुरुषार्थांश्चतुर्वर्णाश्रमधर्मान्नानाविधान्विदधति। नैवं कापिलादिस्मृतीनामनुष्ठेये विषये अवकाशोऽस्ति। मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः। यदि तत्राप्यनवकाशाः स्युः, आनर्थक्यमेवासां प्रसज्येत। तरमात्तदविरोधेन वेदान्ता व्याख्यातव्याः। कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्राहृैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते? भवेदयमनाक्षेपः स्वतन्त्रप्रज्ञानाम्; परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन्; तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन्; अस्मत्कृते च व्याख्याने न विश्वस्युः, बहुमानात्स्मृतीनां प्रणेतृषु; कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते; श्रुतिश्च भवति 'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ' इति; तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम्; तर्कावष्टम्भेन च तेऽर्थं प्रतिष्ठापयन्ति; तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः।।

तस्य समाधिः -- 'नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ' इति। यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन्; ता उदाहरिष्यामः -- 'यत्तत्सूक्ष्ममविज्ञेयम् ' इति परं ब्राहृ प्रकृत्य, 'स ह्रन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ' इति चोक्त्वा, 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ' इत्याह; तथान्यत्रापि 'अव्यक्तं पुरुषे ब्राहृन्निर्गुणे संप्रलीयते ' इत्याह; 'अतश्च संक्षेपमिमं श्रृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः ' इति पुराणे; भगवद्गीतासु च -- 'अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ' इति; परमात्मानमेव च प्रकृत्यापस्तम्बः पठति -- 'तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः ' इति। एवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते। स्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं प्रवक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासः। दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्; विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्; अनपेक्ष्या इतराः; तदुक्तं प्रमाणलक्षणे -- 'विरोधे त्वनपेक्षं स्यादसति ह्रनुमानम् ' इति। न चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुम्, निमित्ताभावात्; शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत्, न; सिद्धेरपि सापेक्षत्वात्; धर्मानुष्ठानापेक्षा हि सिद्धिः, स च धर्मश्चोदनालक्षणः; ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते; सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति; परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्; तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया। या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम्, कपिलमिति श्रुतिसामान्यमात्रत्वात्, अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात्, अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात्। भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः -- 'यद्वै किंच मनुरवदत्तद्भेषजम् ' इति; मनुना च 'सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि। संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ' इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते; कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात्। महाभारतेऽपि च -- 'बहवः पुरुषा ब्राहृन्नुताहो एक एव तु ' इति विचार्य, 'बहवः पुरुषा राजन्सांख्ययोगविचारिणाम् ' इति परपक्षमुपन्यस्य तद्व्युदासेन -- 'बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ' इत्युपक्रम्य 'ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः। सर्वेषां साक्षिभूतोऽसौ न ग्राह्रः केनचित्क्वचित्।। विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकः। एकश्चरति भूतेषु स्वैरचारी यथासुखम् ' -- इति सर्वात्मतैव निर्धारिता। श्रुतिश्च सर्वात्मतायां भवति -- 'यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः। तत्र को मोहः कः शोक एकत्वमनुपश्यतः ' इत्येवंविधा। अतश्च सिद्धमात्मभेदकल्पनयापि कापिलस्य तन्त्रस्य वेदविरुद्धत्वं वेदानुसारिमनुवचनविरुद्धत्वं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति। वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम्, रवेरिव रूपविषये; पुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षः। तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशदोषप्रसङ्गो न दोषः।।

कुतश्च स्मृत्यनवकाशदोषप्रसङ्गो न दोषः? --


इतरेषां चानुपलब्धेः।। 2.1.2।।

।। 2.1.2।।

प्रधानादितराणि यानि प्रधानपरिणामत्वेन स्मृतौ कल्पितानि महदादीनि, न तानि वेदे लोके चोपलभ्यन्ते। भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम्। अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते। यदपि क्वचित्तत्परमिव श्रवणमवभासते, तदप्यतत्परं व्याख्यातम् -- 'आनुमानिकमप्येकेषाम् ' इत्यत्र। कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः। तस्मादपि न स्मृत्यनवकाशदोषप्रसङ्गो दोषः। तर्कावष्टम्भं तु 'न विलक्षणत्वात् ' इत्यारभ्योन्मथिष्यति।।


एतेन योगः प्रत्युक्तः।। 2.1.3।।

योगप्रत्युक्त्यधिकरणम्।। 2.1.3।।

एतेन सांख्यस्मृतिप्रत्याख्यानेन, योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति। तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणम्, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते। नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतम्; किमर्थं पुनरतिदिश्यते? अस्ति ह्रत्राभ्यधिकाशङ्का -- -सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः -- 'श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' इति; 'त्रिरुन्नतं स्थाप्य समं शरीरम् ' इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते; लिङ्गानि च वैदिकानि योगविषयाणि सहरुाश उपलभ्यन्ते -- 'तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ' इति, 'विद्यामेतां योगविधिं च कृत्स्नम् ' इति चैवमादीनि; योगशास्त्रेऽपि -- 'अथ तद्दर्शनाभ्युपायो योगः ' इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोऽङ्गीक्रियते; अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति -- इयमप्यधिका शङ्कातिदेशेन निवत्र्यते, अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात्। सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः; सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन च श्रौतेनोपबृंहितौ -- 'तत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैः ' इति; निराकरणं तु -- न सांख्यस्मृतिज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति; श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति -- 'तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' इति; द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः। यत्तु दर्शनमुक्तम् 'तत्कारणं सांख्ययोगाभिपन्नम् ' इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्येते प्रत्यासत्तेरित्यवगन्तव्यम्। येन त्वंशेन न विरुध्येते, तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम्; तद्यथा -- 'असङ्गो ह्रयं पुरुषः ' इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते; तथा च यौगैरपि 'अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः ' इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते। एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि; तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेत्, उपकुर्वन्तु नाम; तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति -- 'नावेदविन्मनुते तं बृहन्तम् ' 'तं त्वौपनिषदं पुरुषं पृच्छामि ' इत्येवमादिश्रुतिभ्यः।।


न विलक्षणत्वादस्य तथात्वं च शब्दात्।। 2.1.4।।

नविलक्षणत्वाधिकरणम्।। 2.1.4।।

ब्राहृास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिह्मतः; तर्कनिमित्त इदानीमाक्षेपः परिह्यियते। कुतः पुनरस्मिन्नवधारिते आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः? ननु धर्म इव ब्राहृण्यप्यनपेक्ष आगमो भवितुमर्हति; -- भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्र आगममात्रप्रमेयोऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः; परिनिष्पन्नरूपं तु ब्राहृावगम्यते; परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु; यथा च श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधेऽपि तद्वशेनैव श्रुतिर्नीयेत; दृष्टसाधम्र्येण चादृष्टमर्थं समर्पयन्ती युक्तिरनुभवस्य संनिकृष्यते, विप्रकृष्यते तु श्रुतिः, ऐतिह्रमात्रेण स्वार्थाभिधानात्; अनुभवावसानं च ब्राहृविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते; श्रुतिरपि -- 'श्रोतव्यो मन्तव्यः ' इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति; अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते 'न विलक्षणत्वादस्य ' इति।।

यदुक्तम् चेतनं ब्राहृ जगतः कारणं प्रकृतिः इति, तन्नोपपद्यते; कस्मात्? विलक्षणत्वादस्य विकारस्य प्रकृत्याः -- इदं हि ब्राहृकार्यत्वेनाभिप्रेयमाणं जगद्ब्राहृविलक्षणमचेतनमशुद्धं च दृश्यते; ब्राहृ च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते; न च विलक्षणत्वे प्रकृतिविकारभावो दृष्टः; न हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाः; मृदैव तु मृदन्विता विकाराः प्रक्रियन्ते, सुवर्णेन च सुवर्णान्विताः; तथेदमपि जगदचेतनं सुखदुखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति, न विलक्षणस्य ब्राहृणः। ब्राहृविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् -- अशुद्धं हीदं जगत् सुखदुःखमोहात्मकतया प्रतीयते, प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च; अचेतनं चेदं जगत् चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात्; न हि साम्ये सत्युपकार्योपकारकभावो भवति; न हि प्रदीपौ परस्परस्योपकुरुतः। ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति; न, स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात्; यो ह्रेकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः स एवान्यस्य चेतनस्योपकरोति, न तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा; निरतिशया ह्रकर्तारश्चेतना इति सांख्या मन्यन्ते; तस्मादचेतनं कार्यकारणम्। न च काष्ठलोष्टादीनां चेतनत्वे किंचित्प्रमाणमस्ति; प्रसिद्धश्चायं चेतनाचेतनविभागो लोके। तस्माद्ब्राहृविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम्। योऽपि कश्चिदाचक्षीत -- श्रुत्या जगतश्चेतनप्रकृतिकताम्, तद्बलेनैव समस्तं जगच्चेतनमवगमिष्यामि, प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्; अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति; यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं न विभाव्यते, एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते; एतस्मादेव च विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषेऽपि गुणप्रधानभावो न विरोत्स्यते; यथा च पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति, एवमिहापि भविष्यति; प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति -- तेनापि कथंचिच्चेतनत्वाचेतनत्वलक्षणं विलक्षणत्वं परिह्यियेत; शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्यियते। न चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह -- तथात्वं च शब्दादिति; अनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत; तच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यते; तथात्वमिति प्रकृतिविलक्षणत्वं कथयति; शब्द एव 'विज्ञानं चाविज्ञानं च ' इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्राहृणो विलक्षणमचेतनं जगच्छ्रावयति।।

ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते -- यथा 'मृदब्रावीत् ' 'आपोऽब्राुवन् ' इति ' तत्तेज ऐक्षत ' 'ता आप ऐक्षन्त ' इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः; इन्द्रियविषया अपि -- 'ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्राहृ जग्मुः ' इति, 'ते ह वाचमूचुस्त्वं न उद्गायेति ' इत्येवमाद्येन्द्रियविषयेति। अत उत्तरं पठति --


अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्।। 2.1.5।।

।। 2.1.5।।

तु-शब्द आशङ्कामपनुदति। न खलु 'मृदब्रावीत् ' इत्येवंजातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम्, यतोऽभिमानिव्यपदेश एषः; मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतनादेवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते, न भूतेन्द्रियमात्रम्; कस्मात्? विशेषानुगतिभ्याम् -- विशेषो हि भोक्तॄणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः; सर्वचेतनतायां चासौ नोपपद्येत; अपि च कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति -- 'एता ह वै देवता अहंश्रेयसे विवदमानाः ' इति, 'ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वा ' इति च; अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते -- 'अग्निर्वाग्भूत्वा मुखं प्राविशत् ' इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति; प्राणसंवादवाक्यशेषे च -- 'ते ह प्राणाः प्रजापतिं पितरमेत्योचुः ' इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनम्, तद्वचनाच्चैकैकोत्क्रमणेनान्वयव्यतिरेकाभ्यां प्राणश्रैष्ठ¬प्रतिपत्तिः, तस्मै बलिहरणम् इति चैवंजातीयकोऽस्मदादिष्विव व्यवहारोऽनुगम्यमानोऽभिमानिव्यपदेशं द्रढयति; 'तत्तेज ऐक्षत ' इत्यपि परस्या एव देवताया अधिष्ठात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम्। तस्माद्विलक्षणमेवेदं ब्राहृणो जगत्; विलक्षणत्वाच्च न ब्राहृप्रकृतिकमित्याक्षिप्ते, प्रतिविधत्ते --


दृश्यते तु।। 2.1.6।।

।। 2.1.6।।

तु-शब्दः पक्षं व्यावर्तयति। यदुक्तम् विलक्षणत्वान्नेदं जगद्ब्राहृप्रकृतिकम् इति, नायमेकान्तः; दृश्यते हि लोके -- चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम्। नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति; उच्यते -- एवमपि किंचिदचेतनं चेतनस्यायतनभावमुपगच्छति किंचिन्नेत्यस्त्येव वैलक्षण्यम्। महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च रूपादिभेदात्, तथा गोमयादीनां वृश्चिकादीनां च। अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत। अथोच्येत -- अस्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां च वृश्चिकादिष्विति; ब्राहृणोऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानो दृश्यते। विलक्षणत्वेन च कारणेन ब्राहृप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्राहृस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयते, उत यस्य कस्यचित्? अथ चैतन्यस्येति वक्तव्यम् -- प्रथमे विकल्पे समस्तप्रकृतिविकारभावोच्छेदप्रसङ्गः; न ह्रसत्यतिशये प्रकृतिविकारभाव इति भवति। द्वितीये चासिद्धत्वम्; दृश्यते हि सत्तालक्षणो ब्राहृस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम्। तृतीये तु दृष्टान्ताभावः; किं हि यच्चैतन्येनानन्वितं तदब्राहृप्रकृतिकं दृष्टमिति ब्राहृकारणवादिनं प्रत्युदाह्यियेत, समस्तस्यास्य वस्तुजातस्य ब्राहृप्रकृतिकत्वाभ्युपगमात्। आगमविरोधस्तु प्रसिद्ध एव, चेतनं ब्राहृ जगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात्। यत्तूक्तं परिनिष्पन्नत्वाद्ब्राहृणि प्रमाणान्तराणि संभवेयुरिति, तदपि मनोरथमात्रम्; रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः; लिङ्गाद्यभावाच्च नानुमानादीनाम्; आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत्; तथा च श्रुतिः -- 'नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ' इति; 'को अद्धा वेद क इह प्रवोचत् ' 'इयं विसृष्टिर्यत आबभूव ' इति चैते ऋचौ निजसिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः; स्मृतिरपि भवति -- 'अचिन्त्याः खलु ये भावा न ताँस्तर्केण योजयेत् ' इति, 'अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ' इति च, 'न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः ' इति चैवंजातीयका। यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम्, नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति; श्रुत्यनुगृहीत एव ह्रत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते -- स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वम्, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मकत्वम्, प्रपञ्चस्य ब्राहृप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्राहृाव्यतिरेकः -- इत्येवंजातीयकः; तर्काप्रतिष्ठानादिति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति। योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत, तस्यापि 'विज्ञानं चाविज्ञानं च ' इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम्। परस्यैव त्विदमपि विभागश्रवणं न युज्यते; कथम्? परमकारणस्य ह्रत्र समस्तजगदात्मना समवस्थानं श्राव्यते -- 'विज्ञानं चाविज्ञानं चाभवत् ' इति; तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते। प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथा श्रुत्यैव चेतनं कारणं ग्रहीतव्यं भवति।।

असदिति चेन्न प्रतिषेधमात्रत्वात्।। 2.1.7।।

।। 2.1.7।।

यदि चेतनं शुद्धं शब्दादिहीनं च ब्राहृ तद्विपरीतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येत, असत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत; अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् -- नैष दोषः, प्रतिषेधमात्रत्वात्; प्रतिषेधमात्रं हीदम्; नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति; न ह्रयं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति। कथम्? यथैव हीदानीमपीदं कार्यं कारणात्मना सत्, एवं प्रागुत्पत्तेरपीति गम्यते; न हीदानीमपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति -- 'सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ' इत्यादिश्रवणात्; कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम्। ननु शब्दादिहीनं ब्राहृ जगतः कारणम् -- बाढम् -- न तु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वा अस्ति; तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति। विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः।।

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्।। 2.1.8।।

।। 2.1.8।।

अत्राह -- यदि स्थौल्यसावयवत्त्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्राहृकारणकमभ्युपगम्येत, तदापीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदिति -- अपीतौ कारणस्यापि ब्राहृणः कार्यस्येवाशुद्ध्यादिरूपताप्रसङ्गात् सर्वज्ञं ब्राहृ जगतः कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम्। अपि च समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम्। अपि च भोक्तॄणां परेण ब्राहृणा अविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम्। अथेदं जगदपीतावपि विभक्तमेव परेण ब्राहृणावतिष्ठेत, एवमप्यपीतिश्च न संभवति कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति।।

अत्रोच्यते --


न तु दृष्टान्तभावात्।। 2.1.9।।

।। 2.1.9।।

नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्ति। यत्तावदभिहितम् -- कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, न तद्दूषणम्; कस्मात्? दृष्टान्तभावात् -- सन्ति हि दृष्टान्ताः, यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति; तद्यथा -- शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति; रुचकादयश्च सुवर्णविकारा अपीतौ न पुनः सुवर्णमात्मीयेन धर्मेण संसृजन्ति; पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति; त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तोऽस्ति; अपीतिरेव हि न संभवेत्, यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत; अनन्यत्वेऽपि कार्यकारणयोः, कार्यस्य कारणात्मत्वम्, न तु कारणस्य कार्यात्मत्वम् -- 'आरम्भणशब्दादिभ्यः ' इत्यत्र वक्ष्यामः। अत्यल्पं चेदमुच्यते -- कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति; स्थितावपि हि समानोऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात्; 'इदं सर्वं यदयमात्मा ' 'आत्मैवेदं सर्वम् ' 'ब्राहृैवेदममृतं पुरस्तात् ' 'सर्वं खल्विदं ब्राहृ ' इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणादनन्यत्वं श्राव्यते; तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः। अस्ति चायमपरो दृष्टान्तः -- यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यते -- अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति; यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यते, प्रबोधसंप्रसादयोरनन्वागतत्वात्, एवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते; मायामात्रं ह्रेतत्, यत्परमात्मनोऽवस्थात्रयात्मनावभासनम्, रज्ज्वा इव सर्पादिभावेनेति; अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः -- 'अनादिमायया सुप्तो यदा जीवः प्रबुध्यते। अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ' इति; तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इति, एतदयुक्तम्। यत्पुनरेतदुक्तम् -- समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति, अयमप्यदोषः, दृष्टान्तभावादेव -- यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवति, एवमिहापि भविष्यति; श्रुतिश्चात्र भवति -- 'इमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति, त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति ' इति; यथा ह्रविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितौ दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते। एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः, सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात्। यः पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितः -- अथेदं जगदपीतावपि विभक्तमेव परेण ब्राहृणावतिष्ठेतेति, सोऽप्यनभ्युपगमादेव प्रतिषिद्धः। तस्मात्समञ्जसमिदमौपनिषदं दर्शनम्।।

स्वपक्षदोषाच्च।। 2.1.10।।

।। 2.1.10।।

स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुःष्युः; कथमित्युच्यते -- यत्तावदभिहितम्, विलक्षणत्वान्नेदं जगद्ब्राहृप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात्; अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः; तथापीतौ कार्यस्य कारणाविभागाभ्युपगमात्तद्वत्प्रसङ्गोऽपि समानः; तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेषु, इदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदाः, न ते तथैव पुनरुत्पत्तौ नियन्तुं शक्यन्ते, कारणाभावात्; विनैव च कारणेन नियमेऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः; अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केचिन्नेति चेत् -- ये नापद्यन्ते, तेषां प्रधानकार्यत्वं न प्राप्नोति -- इत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीति -- अदोषतामेवैषां द्रढयति -- अवश्याश्रयितव्यत्वात्।।


तर्काप्रतिष्ठानादप्यन्यथाऽनुमेयमिति चेदेवमप्यविमोक्षप्रसङ्गः।। 2.1.11।।

।। 2.1.11।।

इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम्; यस्मान्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का
अप्रतिष्ठिता भवन्ति, उत्प्रेक्षाया निरङ्कुशत्वात्; तथा हि -- कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना दृश्यन्ते; तैरप्युत्प्रेक्षिताः सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुम्, पुरुषमतिवैरूप्यात्। अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य अन्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत -- एवमप्यप्रतिष्ठितत्वमेव, प्रसिद्धमाहात्म्याभिमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात्। अथोच्येत -- अन्यथा वयमनुमास्यामहे, यथा नाप्रतिष्ठादोषो भविष्यति; न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम्; एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते, केषांचित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वकल्पनात्; सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः; अतीतवर्तमानाध्वसाम्येन ह्रनागतेऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते; श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते; मनुरपि चैवमेव मन्यते -- 'प्रत्यक्षमनुमानं च शास्त्रं च विविधागमम्। त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ' इति। 'आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना। यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ' इति च ब्राुवन्; अयमेव च तर्कस्यालंकारः -- यदप्रतिष्ठितत्वं नाम; एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति; न हि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किंचिदस्ति प्रमाणम्; तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत् -- एवमप्यविमोक्षप्रसङ्गः; यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते, तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य; न हीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम्; रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम। अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः; तच्च सम्यग्ज्ञानमेकरूपम्, वस्तुतन्त्रत्वात्; एकरूपेण ह्रवस्थितो योऽर्थः स परमार्थः; लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते -- यथाग्निरुष्ण इति; तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना; तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः; यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिष्ठापितम्, तदपरेण व्युत्थाप्यते; तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति च प्रसिद्धं लोके; कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत्; न च प्रधानवादी तर्कविदामुत्तम इति सर्वैस्तार्किकैः परिगृहीतः, येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि; न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुम्, येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात्; वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेः, तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम्; अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम्; अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत। अत आगमवशेन आगमानुसारितर्कवशेन च चेतनं ब्राहृ जगतः कारणं प्रकृतिश्चेति स्थितम्।।

एतेन शिष्टापरिग्रहा अपि व्याख्याताः।। 2.1.12।।

शिष्टापरिग्रहाधिकरणम्।। 2.1.12।।

वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्टैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः, स परिह्मतः; इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति -- परिगृह्रन्त इति परिग्रहाः; न परिग्रहाः अपरिग्रहाः; शिष्टानामपरिग्रहाः शिष्टापरिग्रहाः; एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन; शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदप्यंशेनापरिगृहीता येऽण्वादिकारणवादाः, तेऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः; तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किंचिदस्ति; तुल्यमत्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्रत्वम्, तर्कस्य चाप्रतिष्ठितत्वम्, अन्यथानुमानेऽप्यविमोक्षः, आगमविरोधश्च -- इत्येवंजातीयकं निराकरणकारणम्।।


भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत्।। 2.1.13।।

भोक्त्रापत्त्यधिकरणम्।। 2.1.13।।

अन्यथा पुनब्र्राहृकारणवादस्तर्कबलेनैवाक्षिप्यते। यद्यपि श्रुतिः प्रमाणं स्वविषये भवति, तथापि प्रमाणान्तरेण विषयापहारेऽन्यपरा भवितुमर्हति, यथा मन्त्रार्थवादौ; तर्कोऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात्, यथा धर्माधर्मयोः; किमतः, यद्येवम्? अत इदमयुक्तम्, यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः; कथं पुनः प्रमाणान्तरप्रसिद्धोऽर्थः श्रुत्या बाध्यत इति, अत्रोच्यते -- प्रसिद्धो ह्रयं भोक्तृभोग्यविभागो लोके -- भोक्ता चेतनः शारीरः, भोग्याः शब्दादयो विषया इति; यथा भोक्ता देवदत्तः, भोग्य ओदन इति; तस्य च विभागस्याभावः प्रसज्येत, यदि भोक्ता भोग्यभावमापद्येत भोग्यं वा भोक्तृभावमापद्येत; तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्राहृणोऽनन्यत्वात्प्रसज्येत; न चास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम्; यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टः, तथातीतानागतयोरपि कल्पयितव्यः; तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्राहृकारणतावधारणमिति चेत्कश्चिच्चोदयेत्, तं प्रति ब्राूयात् -- स्याल्लोकवदिति। उपपद्यत एवायमस्मत्पक्षेऽपि विभागः, एवं लोके दृष्टत्वात्। तथा हि -- समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनवीचीतरङ्गबुद्बुदादीनामितरेतरविभाग इतरेतरासंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते; न च समुद्रादुदकात्मनोऽनन्यत्वेऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति; न च तेषामितरेतरभावानांपत्तावपि समुद्रात्मनोऽन्यत्वं भवति; एवमिहापि -- न भोक्तृभोग्ययोरितरेतरभावापत्तिः, न च परस्माद्ब्राहृणोऽन्यत्वं भविष्यति। यद्यपि भोक्ता न ब्राहृणो विकारः 'तत्सृष्ट्वा तदेवानुप्राविशत् ' इति रुाष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्तः -- इत्यतः, परमकारणाद्ब्राहृणोऽनन्यत्वेऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम्।।


तदनन्यत्वमारम्भणशब्दादिभ्यः।। 2.1.14।।

आरम्भणाधिकरणम्।। 2.1.14।।

अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम् 'स्याल्लोकवत् ' इति परिहारोऽभिहितः; न त्वयं विभागः परमार्थतोऽस्ति, यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते। कार्यमाकाशादिकं बहुप्रपञ्चं जगत्; कारणं परं ब्राहृ; तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते; कुतः? आरम्भणशब्दादिभ्यः। आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते -- 'यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञात#्ँस्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ' इति; एतदुक्तं भवति -- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत्; यतो वाचारम्भणं विकारो नामधेयम् -- वाचैव केवलमस्तीत्यारभ्यते -- विकारः घटः शराव उदञ्चनं चेति; न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति; नामधेयमात्रं ह्रेतदनृतम्; मृत्तिकेत्येव सत्यम् -- इति एष ब्राहृणो दृष्टान्त आम्नातः; तत्र श्रुताद्वाचारम्भणशब्दाद्दाष्र्टान्तिकेऽपि ब्राहृव्यतिरेकेण कार्यजातस्याभाव इति गम्यते। पुनश्च तेजोबन्नानां ब्राहृकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रावीति- 'अपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ' इत्यादिना। आरम्भणशब्दादिभ्य इत्यादिशब्दात् 'ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि ' 'इदं सर्वं यदयमात्मा ' 'ब्राहृैवेदं सर्वम् ' 'आत्मैवेदं सर्वम् ' 'नेह नानास्ति किंचन ' इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम्; न चान्यथा एकविज्ञानेन सर्वविज्ञानं संपद्यते। तस्माद्यथा घटकरकाद्याकाशानां महाकाशादनन्यत्वम्, यथा च मृगतृष्णिकोदकादीनामूषरादिभ्योऽनन्यत्वम्, दृष्टनष्टस्वरूपत्वात् स्वरूपेण त्वनुपाख्यत्वात्; एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्राहृव्यतिरेकेणाभाव इति द्रष्टव्यम्।।

नन्वनेकात्मकं ब्राहृ; यथा वृक्षोऽनेकशाखः, एवमनेकशक्तिप्रवृत्तियुक्तं ब्राहृ; अत एकत्वं नानात्वं चोभयमपि सत्यमेव -- यथा वृक्ष इत्येकत्वं शाखा इति च नानात्वम्; यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम्, यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम्; तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति; नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति; एवं च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति। नैवं स्यात् -- 'मृत्तिकेत्येव सत्यम् ' इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात्, वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात्, दाष्र्टान्तिकेऽपि 'ऐतदात्म्यमिदं सर्वं तत्सत्यम् ' इति च
परमकारणस्यैवैकस्य सत्यत्वावधारणात्, 'स आत्मा तत्त्वमसि श्वेतकेतो ' इति च शारीरस्य ब्राहृभावोपदेशात्; स्वयं प्रसिद्धं ह्रेतच्छारीरस्य ब्राहृात्मत्वमुपदिश्यते, न यत्नान्तरप्रसाध्यम्; अतश्चेदं शास्त्रीयं ब्राहृात्मत्वमभ्युपगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम्; बाधिते च शारीरात्मत्वे तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति, यत्प्रसिद्धये नानात्वांशोऽपरो ब्राहृणः कल्प्येत; दर्शयति च -- 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ' इत्यादिना ब्राहृात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम्; न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयते इति युक्तं वक्तुम्, 'तत्त्वमसि ' इति ब्राहृात्मभावस्यानवस्थाविशेषनिबन्धनत्वात्; तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन् एकत्वमेवैकं पारमार्थिकं दर्शयति, मिथ्याज्ञानविजृम्भितं च नानात्वम्; उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसंध इत्युच्यते? 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' इति च भेददृष्टिमपवदन्नेतदेव दर्शयति; न चास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात्; उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते। नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन, निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि; तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत; मोक्षशास्त्रस्यापि शिष्यशासित्रादि भेदापेक्षत्वात्तदभावे व्याघातः स्यात्; कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति। अत्रोच्यते -- नैष दोषः, सर्वव्यवहाराणामेव प्राग्ब्राहृात्मताविज्ञानात्सत्यत्वोपपत्तेः स्वप्नव्यवहारस्येव प्राग्बोधात्; यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते; विकारानेव तु 'अहम् ' 'मम ' इत्यविद्यया आत्मात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्राहृात्मतां हित्वा; तस्मात्प्राग्ब्राहृात्मताप्रबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः -- यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्ने उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत्। कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्राहृात्मत्वस्य प्रतिपत्तिरुपपद्येत? न हि रज्जुसर्पेण दष्टो म्रियते; नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति। नैष दोषः, शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात्; तत्कार्यमप्यनृतमेवेति चेद्ब्राूयात्, तत्र ब्राूमः -- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतम्, तथापि तदवगतिः सत्यमेव फलम्, प्रतिबुद्धस्याप्यबाध्यमानत्वात्; न हि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित्। एतेन स्वप्नदृशोऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः। तथा च श्रुतिः -- 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृदिं्ध तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने ' इत्यसत्येन स्वप्नदर्शनेन सत्यायाः फलसमृद्धेः प्राÏप्त दर्शयति, तथा प्रत्यक्षदर्शनेषु सत्यायाः फलसमृद्धेः प्राÏप्त दर्शयति, तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु 'न चिरमिव जीविष्यतीति विद्यात् ' इत्युक्त्वा 'अथ यः स्वप्ने पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति ' इत्यादिना तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं सूच्यत इति दर्शयति; प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यते, ईदृशेनासाध्वागम इति; तथा अकारादिसत्याक्षरप्रतिपत्तिर्दृष्टा रेखानृताक्षरप्रतिपत्तेः। अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकम् -- नातःपरं किंचिदाकाङ्क्ष्यमस्ति; यथा हि लोके यजेतेत्युक्ते, किम्? केन? कथम्? इत्याकाङ्क्ष्यते; नैवं 'तत्त्वमसि ' 'अहं ब्राहृास्मि ' इत्युक्ते, किंचिदन्यदाकाङ्क्ष्यमस्ति -- सर्वात्मैकत्वविषयत्वादवगतेः; सति ह्रन्यस्मिन्नवशिष्यमाणेऽर्थे आकाङ्क्षा स्यात्; न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽन्योऽर्थोऽस्ति, य आकाङ्क्ष्येत। न चेयमवगतिर्नोत्पद्यत इति शक्यं वक्तुम्, 'तद्धास्य विजज्ञौ ' इत्यादिश्रुतिभ्यः, अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधीयमानत्वात्। न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम्; अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च। प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम। तस्मादन्त्येन प्रमाणेन प्रतिपादिते आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वात् न अनेकात्मकब्राहृकल्पनावकाशोऽस्ति। ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्राहृ शास्त्रस्याभिमतमिति गम्यते; परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति। नेत्युच्यते -- 'स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्राहृ ' 'स एष नेति नेत्यात्मा ' 'अस्थूलमनणु ' इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यः ब्राहृणः कूटस्थत्वावगमात्; न ह्रेकस्य ब्राहृणः परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम्; स्थितिगतिवत्स्यादिति चेत्, न; कूटस्थस्येति विशेषणात्; न हि कूटस्थस्य ब्राहृणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति; कूटस्थं च नित्यं ब्राहृ सर्वविक्रियाप्रतिषेधादित्यवोचाम; न च, यथा ब्राहृण आत्मैकत्वदर्शनं मोक्षसाधनम्, एवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते, प्रमाणाभावात्; कूटस्थब्राहृात्मैकत्वविज्ञानादेव हि फलं दर्शयति शास्त्रम् -- 'स एष नेति नेत्यात्मा ' इत्युपक्रम्य 'अभयं वै जनक प्राप्तोऽसि ' इत्येवंजातीयकम्। तत्रैतत्सिद्धं भवति -- ब्राहृप्रकरणे सर्वधर्मविशेषरहितब्राहृदर्शनादेव फलसिद्धौ सत्याम्, यत्तत्राफलं श्रूयते ब्राहृणो जगदाकारपरिणामित्वादि, तद्ब्राहृदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत्; न तु स्वतन्त्रं फलाय कल्प्यत इति। न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तम्, कूटस्थनित्यत्वान्मोक्षस्य। ननु कूटस्थब्राहृात्मवादिन एकत्वैकान्त्यात् ईशित्रीशितव्याभावे ईश्वरकारणप्रतिज्ञाविरोध इति चेत्, न; अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य। 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इत्यादिवाक्येभ्यः नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थितिप्रलयाः, नाचेतनात्प्रधानादन्यस्माद्वा -- इत्येषोऽर्थः प्रतिज्ञातः -- 'जन्माद्यस्य यतः ' इति; सा प्रतिज्ञा तदवस्थैव, न तद्विरुद्धोऽर्थः पुनरिहोच्यते। कथं नोच्यते, अत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्राुवता? श्रृणु यथा नोच्यते -- सर्वज्ञस्येश्वरस्यात्मभूते इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति न श्रुतिस्मृत्योरभिलप्येते; ताभ्यामन्यः सर्वज्ञ ईश्वरः, 'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्राहृ ' इति श्रुतेः, 'नामरूपे व्याकरवाणि ' 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते ' 'एकं बीजं बहुधा यः करोति ' इत्यादिश्रुतिभ्यश्च; एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि; स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये; तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च, न परमार्थतो विद्यया अपास्तसर्वोपाधिस्वरूपे आत्मनि ईशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते; तथा चोक्तम् -- 'यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ' इति; 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ' इत्यादिना च; एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे; तथेश्वरगीतास्वपि -- 'न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ' 'नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्रन्ति जन्तवः ' इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदश्र्यते; व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः -- 'एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय ' इति; तथा चेश्वरगीतास्वपि -- 'ईश्वरः सर्वभूतानां ह्मद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ' इति; सूत्रकारोऽपि परमार्थाभिप्रायेण 'तदनन्यत्वम् ' इत्याह; व्यवहाराभिप्रायेण तु 'स्याल्लोकवत् ' इति महासमुद्रादिस्थानीयतां ब्राहृणः कथयति, अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति -- सगुणेषूपासनेषूपयोक्ष्यत इति।।

भावे चोपलब्धेः।। 2.1.15।।

।। 2.1.15।।

इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे; तद्यथा -- सत्यां मृदि घट उपलभ्यते, सत्सु च तन्तुषु पटः; न च नियमेनान्यभावेऽन्यस्योपलब्धिर्दृष्टा; न ह्रश्वो गोरन्यः सन्गोर्भाव एवोपलभ्यते; न च कुलालभाव एव घट उपलभ्यते, सत्यपि निमित्तनैमित्तिकभावेऽन्यत्वात्। नन्वन्यस्य भावेऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति; नेत्युच्यते -- उद्वापितेऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात्। अथ धूमं कयाचिदवस्थया विशिंष्यात् -- ईदृशो धूमो नासत्यग्नौ भवतीति, नैवमपि कश्चिद्दोषः; तद्भावानुरक्तां हि बुदिं्ध कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः; न चासावग्निधूमयोर्विद्यते। भावाच्चोपलब्धेः -- इति वा सूत्रम्। न केवलं शब्दादेव कार्यकारणयोरनन्यत्वम्, प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः; भवति हि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे; तद्यथा -- तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते, केवलास्तु तन्तव आतानवितानवन्तः
प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशवः, अंशुषु तदवयवाः। अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि रूपाणि, ततो वायुमात्रमाकाशमात्रं चेत्यनुमेयम्, ततः परं ब्राहृैकमेवाद्वितीयम्; तत्र सर्वप्रमाणानां निष्ठामवोचाम।।


सत्त्वाच्चावरस्य।। 2.1.16।।

।। 2.1.16।।

इतश्च कारणात्कार्यस्यानन्यत्वम्, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते -- 'सदेव सोम्येदमग्र आसीत् ' 'आत्मा वा इदमेक एवाग्र आसीत् ' इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात्; यच्च यदात्मना यत्र न वर्तते, न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम्; तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते। यथा च कारणं ब्राहृ त्रिषु कालेषु सत्त्वं न व्यभिचरति, एवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति; एकं च पुनः सत्त्वम्; अतोऽप्यनन्यत्वं कारणात्कार्यस्य।।


असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात्।। 2.1.17।।

।। 2.1.17।।

ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः -- 'असदेवेदमग्र आसीत् ' इति, 'असद्वा इदमग्र आसीत् ' इति च; तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् -- नेति ब्राूमः; न ह्रयमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः; किं तर्हि, व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम्, तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य; कथमेतदवगम्यते? वाक्यशेषात्। यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते; इह च तावत् 'असदेवेदमग्र आसीत् ' इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्, तदेव पुनस्तच्छब्देन परामृश्य, सदिति विशिनष्टि -- 'तत्सदासीत् ' इति -- असतश्च पूर्वापरकालासंबन्धात् आसीच्छब्दानुपपत्तेश्च; 'असद्वा इदमग्र आसीत् ' इत्यत्रापि 'तदात्मानं स्वयमकुरुत ' इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम्; तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य; नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम्; अतः प्रङ्नामरूपव्याकरणादसदिवासीदित्युपचर्यते।।


युक्तेः शब्दान्तराच्च।। 2.1.18।।

।। 2.1.18।।

युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च।।

युक्तिस्तावद्वण्र्यते -- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते; न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरम्; तदसत्कार्यवादे नोपपद्येत; अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, न मृत्तिकायाः? मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात्? अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम्, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे -- इत्युच्येत -- अतस्तह्र्रतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः, सत्कार्यवादसिद्धिश्च; शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत्, असत्त्वाविशेषादन्यत्वाविशेषाच्च; तस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम्। अपि च कार्यकारणयोद्र्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम्; समवायकल्पनायामपि, समवायस्य समवायिभिः संबन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः, अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः; अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्येत, संयोगोऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं समवायं संबध्येत; तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम्। कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम्? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत,
समस्तावयवसंनिकर्षस्याशक्यत्वात्; न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्रते; अथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन्, यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत; कोशावयवव्यतिरिक्तैह्र्रवयवैरसिः कोशं व्याप्नोति; अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात्; अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात्; न हि देवदत्तः रुाुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रेऽपि संनिधीयते; युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात्, देवदत्तयज्ञदत्तयोरिव रुाुघ्नपाटलिपुत्रनिवासिनोः; गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत्, न; तथा प्रतीत्यभावात्; यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात्, यथा गोत्वं प्रतिव्यक्तिप्रत्यक्षं गृह्रते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्रेत; न चैवं नियतं गृह्रते; प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्, तस्य चैकत्वात्, श्रृङ्गेणापि स्तनकार्यं कुर्यात्, उरसा च पृष्ठकार्यम्; न चैवं दृश्यते। प्रागुत्पत्तेश्च कार्यस्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका च स्यात्; उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत्; क्रिया च नाम स्यात्, अकर्तृका च -- इति विप्रतिषिध्येत; घटस्य चोत्पत्तिरुच्यमाना च घटकर्तृका, किं तह्र्रन्यकर्तृका -- इति कल्प्या स्यात्; तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत; तथा च सति 'घट उत्पद्यते ' इत्युक्ते, 'कुलालादीनि कारणान्युत्पद्यन्ते ' इत्युक्तं स्यात्; न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेः; अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् -- कथमलब्धात्मकं संबध्येतेति वक्तव्यम्; सतोर्हि द्वयोः संबन्धः संभवति, न सदसतोरसतोर्वा; अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम्; सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य; न हि, वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन, निरुपाख्यो वन्ध्यापुत्रः -- राजा बभूव भवति भविष्यतीति वा -- विशेष्यते; यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूध्र्वमभविष्यत्, तत इदमप्युपापत्स्यत -- कार्यभावोऽपि कारकव्यापारादूध्र्वं भविष्यतीति; वयं तु पश्यामः -- वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात्, यथा बन्ध्यापुत्रः कारकव्यापारादूध्र्वं न भविष्यति, एवं कार्याभावोऽपि कारकव्यापारादूध्र्वं न भविष्यतीति। नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत; यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते, एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत; व्याप्रियते च; अतः कारकव्यापारार्थवत्त्वाय, मन्यामहे, प्रागुत्पत्तेरभावः कार्यस्येति चेत्, नैष दोषः; यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते; कार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभूतस्यानारभ्यत्वात् -- इत्यभाणि; न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति; न हि देवदत्तः संकुचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात्; तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात्; जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम्, नान्यत्रेति चेत्, न; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात्; अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा; तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा; तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः; तथा च बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङगश्च। एतेन क्षणभङ्गवादः प्रतिवदितव्यः। यस्य तु पुनः प्रागुत्पत्तेरसत्कार्यम्, तस्य निर्विषयः कारकव्यापारः स्यात्, अभावस्य विषयत्वानुपपत्तेः -- आकाशहननप्रयोजनखङ्गाद्यनेकायुधप्रयुक्तिवत्; समवायिकारणविषयः कारकव्यापारः स्यादिति चेत्, न; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात्; समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत्, न; सत्कार्यतापत्तेः। तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं कल्पयितुम्। तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते। एवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम्, अनन्यत्वं च कारणात्, अवगम्यते।।

शब्दान्तराच्चैतदवगम्यते -- पूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाह्मतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम् -- 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' इत्यादि। 'तद्धैक आहुरसदेवेदमग्र आसीत् ' इति चासत्पक्षमुपक्षिप्य, 'कथमसतः सज्जायेत ' इत्याक्षिप्य, 'सदेव सोम्येदमग्र आसीत् ' इत्यवधारयति;
तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्, सत्त्वानन्यत्वे प्रसिध्यतः। यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्, पश्चाच्चोत्पद्यमानं कारणे समवेयात्, तदन्यत्कारणात्स्यात्, तत्र 'येनाश्रुतं श्रुतं भवति ' इतीयं प्रतिज्ञा पीड¬ेत; सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समथ्र्यते।।

पटवच्च।। 2.1.19।।

।। 2.1.19।।

यथा च संवेष्टितः पटो न व्यक्तं गृह्रते -- किमयं पटः, किं वान्यद्द्रव्यमिति; स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्रते। यथा च संवेष्टनसमये पट इति गृह्रमाणोऽपि न विशिष्टायामविस्तारो गृह्रते; स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्रते -- न संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत्, तुरीवेमकुविन्दादिकारकव्यापाराभिव्यक्तं स्पष्टं गृह्रते। अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः।।


यथा च प्राणादि।। 2.1.20।।

।। 2.1.20।।

यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वत्र्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम्; तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वत्र्यते; न च प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम्, समीरणस्वभावाविशेषात् -- एवं कार्यस्य कारणादनन्यत्वम्। अतश्च कृत्स्नस्य जगतो ब्राहृकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा -- 'येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् ' इति।।


इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः।। 2.1.21।।

इतरव्यपदेशाधिकरणम्।। 2.1.21।।

अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते -- चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते; कुतः? इतरव्यपदेशात्। इतरस्य शारीरस्य ब्राहृात्मत्वं व्यपदिशति श्रुतिः -- 'स आत्मा तत्त्वमसि श्वेतकेतो ' इति प्रतिबोधनात्; यद्वा -- इतरस्य च ब्राहृणः शारीरात्मत्वं व्यपदिशति -- 'तत्सृष्ट्वा तदेवानुप्राविशत् ' इति रुाष्टुरेवाविकृतस्य ब्राहृणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात्; 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्राहृणो भिन्नः शारीर इति दर्शयति; तस्माद्यद्ब्राहृणः रुाष्टृत्वं तच्छारीरस्यैवेति। अतश्च स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात्, नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम्; न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति; न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात्; कृतमपि कथंचिद्यद्दुःखकरं तदिच्छया जह्रात्; सुखकरं चोपाददीत; स्मरेच्च -- मयेदं जगद्बिम्बं विचित्रं विरचितमिति; सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति -- मयेदं कृतमिति; यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत्; स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम्; एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते।।


अधिकं तु भेदनिर्देशात्।। 2.1.22।।

।। 2.1.22।।

तु-शब्दः पक्षं व्यावर्तयति। यत्सर्वज्ञं सर्वशक्ति ब्राहृ नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तत् वयं जगतः रुाष्टृ ब्राूमः; न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते; न हि तस्य हितं किंचित्कर्तव्यमस्ति, अहितं वा परिहर्तव्यम्, नित्यमुक्तस्वभावत्वात्; न च तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च; शारीरस्त्वनेवंविधः; तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः; न तु तं वयं जगतः रुाष्टारं ब्राूमः; कुत एतत्? भेदनिर्देशात् -- 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ' 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ' 'सता सोम्य तदा संपन्नो भवति ' 'शारीर आत्मा प्राज्ञेनात्मनान्वारूढः ' इत्येवंजातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्राहृ दर्शयति। नन्वभेदनिर्देशोऽपि दर्शितः -- 'तत्त्वमसि ' इत्येवंजातीयकः; कथं भेदाभेदौ विरुद्धौ संभवेयाताम्? नैष दोषः, महाकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठापितत्वात्। अपि च यदा 'तत्त्वमसि ' इत्येवंजातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवति, अपगतं भवति तदा जीवस्य संसारित्वं ब्राहृणश्च रुाष्टृत्वम्, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात्; तत्र कुत एव सृष्टिः? कुतो वा हिताकरणादयो दोषाः? अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारः, न तु परमार्थतोऽस्तीत्यसकृदवोचाम -- जन्ममरणच्छेदनभेदनाद्यभिमानवत्; अबाधिते तु भेदव्यवहारे 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ' इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्राहृणोऽधिकत्वं हिताकरणादिदोषप्रसकिं्त
निरुणद्धि।।

अश्मादिवच्च तदनुपपत्तिः।। 2.1.23।।

।। 2.1.23।।

यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्वायसप्रक्षेपणार्हाः पाषाणाः -- इत्यनेकविधं वैचित्र्यं दृश्यते; यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकचम्पकादिषूपलक्ष्यते; यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति -- एवमेकस्यापि ब्राहृणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थः। श्रुतेश्च प्रामाण्यात्, विकारस्य च वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्च -- इत्यभ्युच्चयः।।


उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि।। 2.1.24।।

उपसंहारदर्शनाधिकरमम्।। 2.1.24।।

चेतनं ब्राहृैकमद्वितीयं जगतः कारणमिति यदुक्तम्, तन्नोपपद्यते; कस्मात्? उपसंहारदर्शनात्। इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते; ब्राहृ चासहायं तवाभिप्रेतम्; तस्य साधनान्तरानुपसंग्रहे सति कथं रुाष्टृत्वमुपपद्येत? तस्मान्न ब्राहृ जगत्कारणमिति चेत्, नैष दोषः; यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते -- यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्रं साधनम्, तथेहापि भविष्यति। ननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्रं साधनमौष्ण्यादिकम्; कथमुच्यते 'क्षीरवद्धि ' इति? नैष दोषः; स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रामनुभवति, तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय; यदि च स्वयं दधिभावशीलता न स्यात्, नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत; न हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यते; साधनसामग्र्या च तस्य पूर्णता संपाद्यते; परिपूर्णशक्तिकं तु ब्राहृ; न तस्यान्येन केनचित्पूर्णता संपादयितव्या; श्रुतिश्च भवति -- 'न तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते। परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ' इति। तस्मादेकस्यापि ब्राहृणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते।।


देवादिवदपि लोके।। 2.1.25।।

।। 2.1.25।।

स्यादेतत् -- उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्रं साधनं दध्यादिभावः, दृष्टत्वात्; चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते; कथं ब्राहृ चेतनं सत् असहायं प्रवर्तेतेति -- देवादिवदिति ब्राूमः -- यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किंचिद्बाह्रं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात्; तन्तुनाभश्च स्वत एव
तन्तून्सृजति; बलाका चान्तरेणैव शुक्रं गर्भं धत्ते; पद्मिनी चानपेक्ष्य किंचित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते -- एवं चेतनमपि ब्राहृ अनपेक्ष्यैव बाह्रं साधनं स्वत एव जगत्रुाक्ष्यति। स यदि ब्राूयात् -- य एते देवादयो ब्राहृणो दृष्टान्ता उपात्तास्ते दाष्र्टान्तिकेन ब्राहृणा न समाना भवन्ति; शरीरमेव ह्रचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम्, न तु चेतन आत्मा; तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति; बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते; पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृक्षम्, न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते; तस्मान्नैते ब्राहृणो दृष्टान्ता इति -- तं प्रति ब्राूयात् -- नायं दोषः; कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति -- यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्रं साधनमपेक्षन्ते, न देवादयः; तथा ब्राहृ चेतनमपि न बाह्रं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः। तस्माद्यथैकस्य सामथ्र्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः।।

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा।। 2.1.26।।

कृत्स्नप्रसक्त्यधिकरणम्।। 2.1.26।।

चेतनमेकमद्वितीयं ब्राहृ क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्रं साधनं स्वयं परिणममानं जगतः कारणमिति स्थितम्; शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति। कृत्स्नप्रसक्तिः कृत्स्नस्य ब्राहृणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात् -- यदि ब्राहृ पृथिव्यादिवत्सावयवमभविष्यत्, ततोऽस्यैकदेशः पर्यणंस्यत्, एकदेशश्चावस्थास्यत; निरवयवं तु ब्राहृ श्रुतिभ्योऽवगम्यते -- 'निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ' 'दिव्यो ह्रमूर्तः पुरुषः सबाह्राभ्यन्तरो ह्रजः ' 'इदं महद्भूतमनन्तमपारं विज्ञानघन एव ' 'स एष नेति नेत्यात्मा ' 'अस्थूलमनणु ' इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः; ततश्चैकदेशपरिणामासंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत; द्रष्टव्यतोपदेशानर्थक्यं च आपद्येत, अयत्नदृष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्राहृणोऽसंभवात्; अजत्वादिशब्दव्याकोपश्च। अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्राहृाभ्युपगम्येत, तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाह्मतास्ते प्रकुप्येयुः; सावयवत्वे चानित्यत्वप्रसङ्ग इति -- सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति।।


श्रुतेस्तु शब्दमूलत्वात्।। 2.1.27।।

।। 2.1.27।।

तु-शब्देनाक्षेपं परिहरति। न खल्वस्मत्पक्षे कश्चिदपि दोषोऽस्ति। न तावत्कृत्स्नप्रसक्तिरस्ति; कुतः? श्रुतेः -- यथैव हि ब्राहृणो जगदुत्पत्तिः श्रूयते, एवं विकारव्यतिरेकेणापि ब्राहृणोऽवस्थानं श्रूयते -- प्रकृतिविकारयोर्भेदेन व्यपदेशात् 'सेयं देवतैक्षत हन्ताहमिमास्तिरुाो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' इति, 'तावानस्य महिमा ततो ज्यायाँश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ' इति चैवंजातीयकात्; तथा ह्मदयायतनत्ववचनात्; सत्संपत्तिवचनाच्च -- यदि च कृत्स्नं ब्राहृ कार्यभावेनोपयुक्तं स्यात्, 'सता सोम्य तदा संपन्नो भवति ' इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात्, विकृतेन ब्राहृणा नित्यसंपन्नत्वादविकृतस्य च ब्राहृणोऽभावात्; तथेन्द्रियगोचरत्वप्रतिषेधात् -- ब्राहृणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः; तस्मादस्त्यविकृतं ब्राहृ। न च निरवयवत्वशब्दव्याकोपोऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात्; शब्दमूलं च ब्राहृ शब्दप्रमाणकम्, नेन्द्रियादिप्रमाणकम्; तद्यथाशब्दमभ्युपगन्तव्यम्; शब्दश्चोभयमपि ब्राहृणः प्रतिपादयति -- अकृत्स्नप्रसकिं्त निरवयवत्वं च; लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते; ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते -- अस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति; किमुताचिन्त्यस्वभावस्य ब्राहृणो रूपं विना शब्देन न निरूप्येत; तथा चाहुः पौराणिकाः -- 'अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्। प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ' इति। तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः। ननु शब्देनापि न शक्यते विरुद्धोऽर्थः प्रत्याययितुम् -- निरवयवं च ब्राहृ परिणमते न च कृत्स्नमिति; यदि निरवयवं ब्राहृ स्यात्, नैव परिणमेत, कृत्स्नमेव वा परिणमेत; अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति, रूपभेदकल्पनात्सावयवमेव प्रसज्येत; क्रियाविषये हि 'अतिरात्रे षोडशिनं गृह्णाति ' 'नातिरात्रे षोडशिनं गृह्णाति ' इत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधापरिहारकारणं भवति, पुरुषतन्त्रत्वाच्चानुष्ठानस्य; इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवति, अपुरुषतन्त्रत्वाद्वस्तुनः; तस्माद्दुर्घटमेतदिति -- नैष दोषः, अविद्याकल्पितरूपभेदाभ्युपगमात्। न ह्रविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते; न हि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानोऽनेक एव भवति; अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्राहृ परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते; पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते, वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्य -- इति न निरवयवत्वं ब्राहृणः कुप्यति; न चेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात्; सर्वव्यवहारहीनब्राहृात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिपत्तौ फलावगमात्; 'स एष नेति नेत्यात्मा ' इत्युपक्रम्याह -- 'अभयं वै जनक प्राप्तोऽसि ' इति; तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति।।


आत्मनि चेव विचित्राश्च हि।। 2.1.28।।

।। 2.1.28।।

अपि च नैवात्र विवदितव्यम् -- कथमेकस्मिन्ब्राहृणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति; यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ¬ते -- 'न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते ' इत्यादिना; लोकेऽपि देवादिषु मायाव्यादिषु च स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते; तथैकस्मिन्नपि ब्राहृणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति।।


स्वपक्षदोषाच्च।। 2.1.29।।

।। 2.1.29।।

परेषामप्येष समानः स्वपक्षदोषः -- प्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः; तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरवयवत्वाभ्युपगमकोपो वा। ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते; सत्त्वरजस्तमांसि हि त्रयो गुणाः; तेषां साम्यावस्था प्रधानम्; तैरेवावयवैस्तत्सावयवमिति -- नैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते, यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति -- समानत्वात्स्वपक्षदोषप्रसङ्गस्य। तर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत् -- एवमप्यनित्यत्वादिदोषप्रसङ्गः। अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्राहृवादिनोऽप्यविशिष्टाः। तथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कात्स्न्र्येन संयुज्येत, ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः; अथैकदेशेन संयुज्येत, तथापि निरवयवत्वाभ्युपगमकोप इति -- स्वपक्षेऽपि समान एष दोषः। समानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवति। परिह्मतस्तु ब्राहृवादिना स्वपक्षे दोषः।।


सर्वोपेता च तद्दर्शनात्।। 2.1.30।।

सर्वोपेताधिकरणम्।। 2.1.30।।

एकस्यापि ब्राहृणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम्; तत्पुनः कथमवगम्यते -- विचित्रशक्तियुक्तं परं ब्राहृेति; तदुच्यते -- सर्वोपेता च तद्दर्शनात्। सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम्; कुतः? तद्दर्शनात्। तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः -- 'सर्वकर्मा सर्वकामः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ' 'सत्यकामः सत्यसंकल्पः ' 'यः सर्वज्ञः सर्ववित् ' 'एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः ' इत्येवंजातीयका।।


विकरणत्वान्नेति चेत्तदुक्तम्।। 2.1.31।।

।। 2.1.31।।

स्यादेतत् -- विकरणां परां देवतां शास्ति शास्त्रम् -- 'अचक्षुष्कमश्रोत्रमवागमनाः ' इत्येवंजातीयकम्; कथं
सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत्? देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यात्मिककार्यकरणसंपन्ना एव तस्मै तस्मै कार्याय प्रभवन्तो विज्ञायन्ते; कथं च 'नेति नेति ' इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेत्, इति चेत् -- यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम्; श्रुत्यवगाह्रमेवेदमतिगम्भीरं ब्राहृ न तर्कावगाह्रम्; न च यथैकस्य सामथ्र्यं दृष्टं तथान्यस्यापि सामथ्र्येन भवितव्यमिति नियमोऽस्तीति। प्रतिषिद्धसर्वेविशेषस्यापि ब्राहृणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव। तथा च शास्त्रम् -- 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः ' इत्यकरणस्यपि ब्राहृणः सर्वसामथ्र्ययोगं दर्शयति।।


न प्रयोजनवत्त्वात्।। 2.1.32।।

प्रयोजनवत्त्वाधिकरणम्।। 2.1.32।।

अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति -- न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति; कुतः? प्रयोजनवत्त्वात्प्रवृत्तीनाम्। चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनीमारभमाणो दृष्टः, किमुत गुरुतरसंरम्भाम्; भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः -- 'न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ' इति; गुरुतरसंरम्भा चेयं प्रवृत्तिः -- यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम्; यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत, परितृप्तत्वं परमात्मनः श्रूयमाणं बाध्येत; प्रयोजनाभावे वा प्रवृत्त्यभावोऽपि स्यात्; अथ चेतनोऽपि सन् उन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टः, तथा परमात्मापि प्रवर्तिष्यते इत्युच्येत -- तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत; तस्मादश्लिष्टा चेतनात्सृष्टिरिति।।


लोकवत्तु लीलाकैवल्यम्।। 2.1.33।।

।। 2.1.33।।

तु-शब्देनाक्षेपं परिहरति; यथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किंचित्प्रयोजनमनभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति; यथा चोच्छ्वासप्रश्वासादयोऽनभिसंधाय बाह्रं किंचित्प्रयोजनं स्वभावादेव संभवन्ति; एवमीश्वरस्याप्यनपेक्ष्य किंचित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति; न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति; न च स्वभावः पर्यनुयोक्तुं शक्यते। यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति, तथापि परमेश्वरस्य लीलैव केवलेयम्, अपरिमितशक्तित्वात्। यदि नाम लोके लीलास्वपि किंचित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत, तथापि नैवात्र किंचित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः। नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च। न चेयं परमार्थविषया सृष्टिश्रुतिः; अविद्याकल्पितनामरूपव्यवहारगोचरत्वात्, ब्राहृात्मभावप्रतिपादनपरत्वाच्च -- इत्येतदपि नैव विस्मर्तव्यम्।।


वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति।। 2.1.34।।

वैषम्यनैर्घृण्याधिकरणम्।। 2.1.34।।

पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते, स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय। नेश्वरो जगतः कारणमुपपद्यते; कुतः? वैषम्यनैर्घृण्यप्रसङ्गात् -- कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीन् -- इत्येवं विषमां सृÏष्ट निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः, श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत; तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत; तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते --

ब्राूमः -- वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते; कस्मात्? सापेक्षत्वात्। यदि हि निरपेक्षः केवल ईश्वरो विषमां सृÏष्ट निर्मिमीते, स्यातामेतौ दोषौ -- वैषम्यं नैर्घृण्यं च; न तु निरपेक्षस्य निर्मातृत्वमस्ति; सापेक्षो हीश्वरो विषमां सृÏष्ट निर्मिमीते; किमपेक्षत इति चेत् -- धर्माधर्मावपेक्षत इति वदामः; अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा
सृष्टिरिति नायमीश्वरस्यापराधः; ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः -- यथा हि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामथ्र्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति, देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्ति; एवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति। कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति? तथा हि दर्शयति श्रुतिः -- 'एष ह्रेव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषते ' इति, 'पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन ' इति च; स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतृत्वं निग्रहीतृत्वं च दर्शयति -- 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ' इत्येवंजातीयका।।


न कर्माविभागादिति चेन्नानादित्वात्।। 2.1.35।।

।। 2.1.35।।

'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात्; सृष्ट¬ुत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभागः -- इतीतरेतराश्रयत्वं प्रसज्येत; अतो विभागादूध्र्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम; प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत्, नैष दोषः; अनादित्वात्संसारस्य; भवेदेष दोषः, यद्यादिमानयं संसारः स्यात्; अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते।।

कथं पुनरवगम्यते -- अनादिरेष संसार इति? अत उत्तरं पठति --

उपपद्यते चाप्युपलभ्यते च।। 2.1.36।।

।। 2.1.36।।

उपपद्यते च संसारस्यानादित्वम् -- आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमकृतविप्रणाशप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात्; न चेश्वरो वैषम्यहेतुरित्युक्तम्; न चाविद्या केवला वैषम्यस्य कारणम्, एकरूपत्वात्; रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात्; न च कर्म अन्तरेण शरीरं संभवति, न च शरीरमन्तरेण कर्म संभवति -- इतीतरेतराश्रयत्वप्रसङ्गः; अनादित्वे तु बीजङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति। उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः। श्रुतौ तावत् -- 'अनेन जीवेनात्मना ' इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति; आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत? न च धारयिष्यतीत्यतोऽभिलप्येत -- अनागताद्धि संबन्धादतीतः संबन्धो बलीयान्भवति, अभिनिष्पन्नत्वात्; 'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ' इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति। स्मृतावप्यनादित्वं संसारस्योपलभ्यते -- 'न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ' इति; पुराणे चातीतानागतानां च कल्पानां न परिमाणमस्तीति स्थापितम्।।


सर्वधर्मोपपत्तेश्च।। 2.1.37।।

सर्वधर्मोपपत्त्यधिकरणम्।। 2.1.37।।

चेतनं ब्राहृ जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः; इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति। यस्मादस्मिन्ब्राहृणि कारणे परिगृह्रमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते 'सर्वज्ञं सर्वशक्ति महामायं च ब्राहृ ' इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य प्रथमः पादः।।

द्वितीयः पादः

[सम्पाद्यताम्]

रचनानुपपत्ते च नानुमानम् ।। 2.2.1 ।।

रचनानुपपत्त्यधिकरणम्।। 2.2.1।।

तत्र सांख्या मन्यन्ते -- यथा घटशरावादयो भेदा मृदात्मतयान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, तथा सर्व एव बाह्राध्यात्मिका भेदाः सुखदुःखमोहात्मतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति; यत्सुखदुःखमोहात्मकं सामान्यं तत्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना प्रवर्तत इति। तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते।।

तत्र वदामः -- यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किंचिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम्; गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते; तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्रमाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः संभाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत्? लोष्टपाषाणादिष्वदृष्टत्वात्; मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते -- तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः। न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयम्, न बाह्रकुम्भकारादिव्यपाश्रयेण -- -इति किंचिन्नियामकमस्ति। न चैवं सति किंचिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्रते, चेतनकारणसमर्पणात्। अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति। अन्वयाद्यनुपपत्तेश्चेति च-शब्देन हेतोरसिदिं्ध समुच्चिनोति। न हि बाह्राध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः, तन्निमित्तत्वप्रतीतेश्च, शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः। तथा परिमितानां भेदानां मूलाङ्कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्राध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपूर्वकत्वप्रसङ्गः, परिमितत्वाविशेषात्। कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्राध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम्।।


प्रवृत्तेश्च।। 2.2.2।।

।। 2.2.2।।

आस्तां तावदियं रचना; तत्सिद्ध्यर्था या प्रवृत्तिः -- साम्यावस्थानात्प्रच्युतिः, सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिः, विशिष्टकार्याभिमुखप्रवृत्तिता -- सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च। न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते; दृष्टाच्चादृष्टसिद्धिः; अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति। ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा -- सत्यमेतत् -- तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा; न त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा; किं पुनरत्र युक्तम् -- यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा, उत यत्संप्रयुक्तस्य दृष्टा तस्यैव सेति? ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम्, उभयोः प्रत्यक्षत्वात्; न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः; प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः -- केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमिति; अत एव च प्रत्यक्षे देहे सति चैतन्यस्य दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाः; तस्मादचेतनस्यैव प्रवृत्तिरिति। तदभिधीयते -- न ब्राूमः, यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति; भवतु तस्यैव सा; सा तु चेतनाद्भवतीति ब्राूमः, तद्भावे भावात्तदभावे चाभावात् -- यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रिया, अनुपलभ्यमानापि च केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात् -- तद्वत्; लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम्। ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत्, न; अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः। यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितोऽप्ययसः प्रवर्तको भवति, यथा च रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम्। एकत्वात्प्रवत्र्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत्, न; अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात्। तस्मात्संभवति प्रवृत्तिः सर्वज्ञकारणत्वे, न त्वचेतनकारणत्वे।।


पयोम्बुवच्चेत्तत्रापि।। 2.2.3।।

।। 2.2.3।।

स्यादेतत् -- यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथा च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते, एवं प्रधानमप्यचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति। नैतत्साधूच्यते, यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे, उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात्; शास्त्रं च -- 'योऽप्सु तिष्ठन् ' 'योऽपोऽन्तरो यमयति ' 'एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते ' इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति; तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः -- -चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः, वत्सचोषणेन च पयस आकृष्यमाणत्वात्; न चाम्बुनोऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य; चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम्। 'उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ' इत्यत्र तु बाह्रनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट¬ा निदर्शितम्; शास्त्रदृष्ट¬ा पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते।।



व्यतिरेकानवस्थितेश्चानपेक्षत्वात्।। 2.2.4।।

।। 2.2.4।।

सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम्; न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किंचिद्बाह्रमपेक्ष्यमवस्थितमस्ति; पुरुषस्तूदासीनो न प्रवर्तको न निवर्तकः -- इत्यतोऽनपेक्षं प्रधानम्; अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते, कदाचिन्न परिणमते, इत्येतदयुक्तम्। ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते।।

अन्यत्राभावाच्च च तृणादिवत्।। 2.2.5।।

।। 2.2.5।।

स्यादेतत् -- यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते, एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति; कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते? निमित्तान्तरानुपलम्भात्। यदि हि किंचिन्निमित्तान्तरमुपलभेमहि, ततो यथाकामं तेन तेन निमित्तेन तृणाद्युपादाय क्षीरं संपादयेमहि; न तु संपादयामहे; तस्मात्स्वाभाविकस्तृणादेः परिणामः; तथा प्रधानस्यापि स्यादिति। अत्रोच्यते -- भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परिणामः, यदि तृणादेरपि स्वाभाविकः परिणामोऽभ्युपगम्येत; न त्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः। कथं निमित्तान्तरोपलब्धिः? अन्यत्राभावात्। धेन्वैव ह्रुपभुक्तं तृणादि क्षीरीभवति, न प्रहीणम् अनडुहाद्युपभुक्तं वा; यदि हि निर्निमित्तमेतत्स्यात्, धेनुशरीरसंबन्धादन्यत्रापि तृणादि क्षीरीभवेत्; न च यथाकामं मानुषैर्न शक्यं संपादयितुमित्येतावता निर्निमित्तं भवति; भवति हि किंचित्कार्यं मानुषसंपाद्यम्, किंचिद्दैवसंपाद्यम्, मनुष्या अपि शक्नुवन्त्येव स्वोचितेनोपायेन तृणाद्युपादाय क्षीरं संपादयितुम्; प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति; ततश्च प्रभूतं क्षीरं लभन्ते; तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः।।


अभ्युपगमेऽप्यर्थाभावात्।। 2.2.6।।

।। 2.2.6।।

स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम्; अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम, तथापि दोषोऽनुषज्येतैव; कुतः? अर्थाभावात्। यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किंचिदन्यदिहापेक्षत इत्युच्येत, ततो यथैव सहकारि किंचिन्नापेक्षते एवं प्रयोजनमपि किंचिन्नापेक्षिष्यते -- इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत। स यदि ब्राूयात् -- सहकार्येव केवलं नापेक्षते, न प्रयोजनमपीति; तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यम् -- भोगो वा स्यात्, अपवर्गो वा, उभयं वेति। भोगश्चेत् -- कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत्? अनिर्मोक्षप्रसङ्गश्च; अपवर्गश्चेत् -- प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात्, शब्दाद्यनुपलब्धिप्रसङ्गश्च; उभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव; न चौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः; न हि प्रधानस्याचेतनस्यौत्सुक्यं संभवति; न च पुरुषस्य निर्मलस्य; दृक्शक्तिसर्गशक्तिवैयथ्र्यभयाच्चेत्प्रवृत्तिः, तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव। तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम्।।

पुरुषाश्मवदिति चेत्तथाऽपि।। 2.2.7।।

।। 2.2.7।।

स्यादेतत् -- यथा कश्चित्पुरुषो दृक्शक्तिसंपन्नः प्रवृत्तिशक्तिविहीनः पङ्गुः अपरं पुरुषं प्रवृत्तिशक्तिसंपन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय प्रवर्तयति, यथा वा अयस्कान्तोऽश्मा स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति, एवं पुरुषः प्रधानं प्रवर्तयिष्यति -- इति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम्। अत्रोच्यते -- तथापि नैव दोषान्निर्मोक्षोऽस्ति; अभ्युपेतहानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात्, पुरुषस्य च प्रवर्तकत्वानभ्युपगमात्; कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत्? पङ्गुरपि ह्रन्धं पुरुषं वागादिभिः प्रवर्तयति; नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति, निष्क्रियत्वान्निर्गुणत्वाच्च; नाप्ययस्कान्तवत्संनिधिमात्रेण प्रवर्तयेत्, संनिधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात्; अयस्कान्तस्य त्वनित्यसंनिधेरस्ति स्वव्यापारः संनिधिः, परिमार्जनाद्यपेक्षा चास्यास्ति -- इत्यनुपन्यासः पुरुषाश्मवदिति। तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः संबन्धयितुरभावात्संबन्धानुपपत्तिः; योग्यतानिमित्ते च संबन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः; पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः; परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम्, मायाव्यपाश्रयं च प्रवर्तकत्वम् -- इत्यस्त्यतिशयः।।


अङ्गित्वानुपपत्तेश्च।। 2.2.8।

।। 2.2.8।।

इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते -- यद्धि सत्त्वरजस्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम्, सा प्रधानावस्था; तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्तेः, बाह्रस्य च कस्यचित्क्षोभयितुरभावात्, गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात्।।


अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्।। 2.2.9।।

।। 2.2.9।।

अथापि स्यात् -- अन्यथा वयमनुमिमीमहे -- यथा नायमनन्तरो दोषः प्रसज्येत; न ह्रनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते, प्रमाणाभावात्; कार्यवशेन तु गुणानां स्वभावोऽभ्युपगम्यते; यथा यथा कार्योत्पाद उपपद्यते, तथा तथैतेषां स्वभावोऽभ्युपगन्तव्यः; चलं गुणवृत्तमिति चास्त्यभ्युपगमः; तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति। एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव; ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत, चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्राहृवादप्रसङ्गात्; वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन्, भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन् -- इति प्रसज्यत एवायमनन्तरोऽपि दोषः।।


विप्रतिषेधाच्चासमञ्जसम्।। 2.2.10।।

।। 2.2.10।।

परस्परविरुद्धश्चायं सांख्यानामभ्युपगमः -- क्वचित्सप्तेन्द्रियाण्यनुक्रामन्ति, क्वचिदेकादश; तथा क्वचिन्महतस्तन्मात्रसर्गमुपदिशन्ति, क्वचिदहंकारात्; तथा क्वचित्त्रीण्यन्तःकरणानि वर्णयन्ति, क्वचिदेकमिति; प्रसिद्ध एव तु श्रुत्येश्वरकारणवादिन्या विरोधस्तदनुवर्तिन्या च स्मृत्या; तस्मादप्यसमञ्जसं सांख्यानां दर्शनमिति।।

अत्राह -- नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनम्, तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात्; एकं हि ब्राहृ सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छताम् -- एकस्यैवात्मनो विशेषौ तप्यतापकौ, न जात्यन्तरभूतौ -- इत्यभ्युपगन्तव्यं स्यात्; यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्याताम्, स ताभ्यां तप्यतापकाभ्यां न निर्मुच्येत -- इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात्; न ह्रौष्ण्यप्रकाशधर्मस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते; योऽपि जलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एव -- इति समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः। प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके; तथा हि -- अर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते; यद्यर्थिनः स्वतोऽन्योऽर्थो न स्यात्, यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं स्यात् -- यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योऽर्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं भवति -- अप्राप्ते ह्रर्थेऽर्थिनोऽर्थित्वं स्यादिति; तथार्थस्याप्यर्थत्वं न स्यात्; यदि स्यात् स्वार्थत्वमेव स्यात्; न चैतदस्ति; संबन्धिशब्दौ ह्रेतावर्थी चार्थश्चेति; द्वयोश्च संबन्धिनोः संबन्धः स्यात्, नैकस्यैव; तस्माद्भिन्नावेतावर्थार्थिनौ। तथानर्थानर्थिनावपि; अर्थिनोऽनुकूलः अर्थः, प्रतिकूलः अनर्थः; ताभ्यामेकः पर्यायेणोभाभ्यां संबध्यते। तत्रार्थस्याल्पीयस्त्वात्, भूयस्त्वाच्चानर्थस्य उभावप्यर्थानर्थौ अनर्थ एवेति -- तापकः स उच्यते; तप्यस्तु पुरुषः -- य एकः पर्यायेणोभाभ्यां संबध्यते -- इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः; जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति।।

अत्रोच्यते -- न , एकत्वादेव तप्यतापकभावानुपपत्तेः -- भवेदेष दोषः, यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम्; न त्वेतदस्ति, एकत्वादेव; न ह्रग्निरेकः सन्स्वमात्मानं दहति, प्रकाशयति वा, सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च; किमु कूटस्थे ब्राहृण्येकÏस्मस्तप्यतापकभावः संभवेत्? क्व पुनरयं तप्यतापकभावः स्यादिति; उच्यते -- किं न पश्यसि -- कर्मभूतो जीवद्देहस्तप्यः, तापकः सवितेति?
ननु तप्तिर्नाम दुःखम्; सा चेतयितुः; नाचेतनस्य देहस्य; यदि हि देहस्यैव तप्तिः स्यात्, सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति; उच्यते -- देहाभावेऽपि केवलस्य चेतनस्य तप्तिर्न दृष्टा; न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते; नापि देहचेतनयोः संहतत्वम्, अशुद्ध्यादिदोषप्रसङ्गात्; न च तप्तेरेव तप्तिमभ्युपगच्छसि; कथं तवापि तप्यतापकभावः? सत्त्वं तप्यम्, तापकं रजः -- इति चेत्, न; ताभ्यां चेतनस्य संहतत्वानुपपत्तेः; सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत् -- परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात्; न चेत्तप्यते नेवशब्दो दोषाय; न हि -- डुण्डुभः सर्प इव -- इत्येतावता सविषो भवति, सर्पो वा डुण्डुभ सर्प इव -- इत्येतावता निर्विषो भवति; अतश्चाविद्याकृतोऽयं तप्यतापकभावः, न पारमार्थिकः -- इत्यभ्युपगन्तव्यमिति -- नैवं सति ममापि किंचिद्दुष्यति। अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि, तवैव सुतरामनिर्मोक्षः प्रसज्येत, नित्यत्वाभ्युपगमाच्च तापकस्य। तप्यतापकशक्त्योर्नित्यत्वेऽपि, सनिमित्तसंयोगापेक्षत्वात्तप्तेः, संयोगनिमित्तादर्शननिवृत्तौ, आत्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्नः -- इति चेत्, न; अदर्शनस्य तमसो नित्यत्वाभ्युपगमात्; गुणानां चोद्भवाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्सांख्यस्यैवानिर्मोक्षोऽपरिहार्यः स्यात्। औपनिषदस्य तु आत्मैकत्वाभ्युपगमात्, एकस्य च विषयविषयिभावानुपपत्तेः, विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणात्, अनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायंते; व्यवहारे तु -- यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव सः -- इति न चोदयितव्यः परिहर्तव्यो वा भवति।।

प्रधानकारणवादो निराकृतः, परमाणुकारणवाद इदानीं निराकर्तव्यः; तत्रादौ तावत् -- योऽणुवादिना ब्राहृवादिनि दोष उत्प्रेक्ष्यते, स प्रतिसमाधीयते। तत्रायं वैशेषिकाणामभ्युपगमः -- कारणद्रव्यसमवायिनो गुणाः कार्यद्रव्ये समानजातीयं गुणान्तरमारभन्ते, शुक्लेभ्यस्तन्तुभ्यः शुक्लस्य पटस्य प्रसवदर्शनात्, तद्विपर्ययादर्शनाच्च; तस्माच्चेतनस्य ब्राहृणो जगत्कारणत्वेऽभ्युपगम्यमाने, कार्येऽपि जगति चैतन्यं समवेयात्; तददर्शनात्तु न चेतनं ब्राहृ जगत्कारणं भवितुमर्हतीति। इममभ्युपगमं तदीययैव प्रक्रियया व्यभिचारयति --

महद्दीर्घवद्वा ह्यस्वपरिमण्डलाभ्याम्।। 2.2.11।।

महद्दीर्घाधिकरणम्।। 2.2.11।।

एषा तेषां प्रक्रिया -- परमाणवः किल कंचित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति; ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्व्यणुकादिक्रमेण कृत्स्नं कार्यजातमारभन्ते, कारणगुणाश्च कार्ये गुणान्तरम्; यदा द्वौ परमाणू द्व्यणुकमारभेते, तदा परमाणुगता रूपादिगुणविशेषाः शुक्लादयो द्व्यणुके शुक्लादीनपरानारभन्ते; परमाणुगुणविशेषस्तु पारिमाण्डल्यं न द्व्यणुके पारिमाण्डल्यमपरमारभते, द्व्यणुकस्य परिमाणान्तरयोगाभ्युपगमात्; अणुत्वह्यस्वत्वे हि द्व्यणुकवर्तिनी परिमाणे वर्णयन्ति। यदापि द्वे द्व्यणुके चतुरणुकमारभेते, तदापि समानं द्व्यणुकसमवायिनां शुक्लादीनामारम्भकत्वम्; अणुत्वह्यस्वत्वे तु द्व्यणुकसमवायिनी अपि नैवारभेते, चतुरणुकस्य महत्त्वदीर्घत्वपरिमाणयोगाभ्युपगमात्। यदापि बहवः परमाणवः, बहूनि वा द्व्यणुकानि, द्व्यणुकसहितो वा परमाणुः कार्यमारभते, तदापि समानैषा योजना। तदेवं यथा परमाणोः परिमण्डलात्सतोऽणु ह्यस्वं च द्व्यणुकं जायते, महद्दीर्घं च त्र्यणुकादि, न परिमण्डलम्; यथा वा द्व्यणुकादणोह्र्यस्वाच्च सतो महद्दीर्घं च त्र्यणुकं जायते, नाणु, नो ह्यस्वम्; एवं चेतनाद्ब्राहृणोऽचेतनं जगज्जनिष्यते -- इत्यभ्युपगमे किं तव च्छिन्नम्।।

अथ मन्यसे -- विरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादि -- इत्यतो नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनि -- इत्यभ्युपगच्छामि; न तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत; न ह्रचेतना नाम चेतनाविरोधी कश्चिद्गुणोऽस्ति, चेतनाप्रतिषेधमात्रत्वात्; तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमिति। मैवं मंस्थाः -- यथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वम्, एवं चैतन्यस्यापि -- इत्यस्यांशस्य समानत्वात्; न च परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणम्, प्राक्परिमाणान्तरारम्भात्पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः, आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं
तिष्ठतीत्यभ्युपगमात्; न च परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते, परिमाणान्तरस्यान्यहेतुत्वाभ्युपगमात्; 'कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत् ' 'तद्विपरीतमणु ' 'एतेन दीर्घत्वह्यस्वत्वे व्याख्याते ' इति हि काणभुजानि सूत्राणि; न च -- संनिधानविशेषात्कुतश्चित्कारणबहुत्वादीन्येवारभन्ते, न पारिमाण्डल्यादीनीति -- उच्येत, द्रव्यान्तरे गुणान्तरे वा आरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात्; तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वम्, तथा चेतनाया अपीति द्रष्टव्यम्।।

संयोगाच्च द्रव्यादीनां विलक्षणानामुत्पत्तिदर्शनात्समानजातीयोत्पत्तिव्यभिचारः। द्रव्ये प्रकृते गुणोदाहरणमयुक्तमिति चेत्, न; दृष्टान्तेन विलक्षणारम्भमात्रस्य विवक्षितत्वात्; न च द्रव्यस्य द्रव्यमेवोदाहर्तव्यम्, गुणस्य वा गुण एवेति कश्चिन्नियमे हेतुरस्ति; सूत्रकारोऽपि भवतां द्रव्यस्य गुणमुदाजहार -- 'प्रत्यक्षाप्रत्यक्षाणामप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यते ' इति -- यथा प्रत्यक्षाप्रत्यक्षयोर्भूम्याकाशयोः समवयन्संयोगोऽप्रत्यक्षः, एवं प्रत्यक्षाप्रत्यक्षेषु पञ्चसु भूतेषु समवयच्छरीरमप्रत्यक्षं स्यात्; प्रत्यक्षं हि शरीरम्, तस्मान्न पाञ्चभौतिकमिति -- एतदुक्तं भवति -- गुणश्च संयोगो द्रव्यं शरीरम्। 'दृश्यते तु ' इति चात्रापि विलक्षणोत्पत्तिः प्रपञ्चिता। नन्वेवं सति तेनैवैतद्गतम्; नेति ब्राूमः -- तत्सांख्यं प्रत्युक्तमेतत्तु वैशेषिकं प्रति। नन्वतिदेशोऽपि समानन्यायतया कृतः -- 'एतेन शिष्टापरिग्रहा अपि व्याख्याताः ' इति; सत्यमेतत्; तस्यैव त्वयं वैशेषिकपरीक्षारम्भे तत्प्रक्रियानुगतेन निदर्शनेन प्रपञ्चः कृतः।।

उभयथाऽपि न कर्मातस्तदभावः।। 2.2.12।।

परमाणुजगदकारणत्वाधिकरणम्।। 2.2.12।।

इदानीं परमाणुकारणवादं निराकरोति। स च वाद इत्थं समुत्तिष्ठति -- पटादीनि हि लोके सावयवानि द्रव्याणि स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिद्र्रव्यैरारभ्यमाणानि दृष्टानि; तत्सामान्येन यावÏत्कचित्सावयवम्, तत्सर्वं स्वानुगतैरेव संयोगसचिवैस्तैस्तैद्र्रव्यैरारब्धमिति गम्यते; स चायमवयवावयविविभागो यतो निवर्तते, सोऽपकर्षपर्यन्तगतः परमाणुः; सर्वं चेदं गिरिसमुद्रादिकं जगत्सावयवम्; सावयत्वाच्चाद्यन्तवत्; न चाकारणेन कार्येण भवितव्यम् -- इत्यतः परमाणवो जगतः कारणम् -- इति कणभुगभिप्रायः। तानीमानि चत्वारि भूतानि भूम्युदकतेजःपवनाख्यानि सावयवान्युपलभ्य चतुर्विधाः परमाणवः परिकल्प्यन्ते; तेषां चापकर्षपर्यन्तगतत्वेन परतो विभागासंभवाद्विनश्यतां पृथिव्यादीनां परमाणुपर्यन्तो विभागो भवति; स प्रलयकालः। ततः सर्गकाले च वायवीयेष्वणुष्वदृष्टापेक्षं कर्मोत्पद्यते; तत्कर्म स्वाश्रयमणुमण्वन्तरेण संयुनक्ति; ततो द्व्यणुकादिक्रमेण वायुरुत्पद्यते; एवमग्निः; एवमापः; एवं पृथिवी; एवमेव शरीरं सेन्द्रियम् -- इत्येवं सर्वमिदं जगत् अणुभ्यः संभवति; अणुगतेभ्यश्च रूपादिभ्यो द्व्यणुकादिगतानि रूपादीनि संभवन्ति, तन्तुपटन्यायेन -- इति काणादा मन्यन्ते।।

तत्रेदमभिधीयते -- विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात्; कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम्; अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म स्यात्; अभ्युपगमेऽपि -- यदि प्रयत्नोऽभिघातादिर्वा यथा दृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत, तस्यासंभवान्नैवाणुष्वाद्यं कर्म स्यात्; न हि तस्यामवस्थायामात्मगुणः प्रयत्नः संभवति, शरीराभावात्; शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सति आत्मगुणः प्रयत्नो जायते। एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम्। सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति। अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत -- तत्पुनरात्मसमवायि वा स्यात्? अणुसमवायि वा? उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेत, अदृष्टस्याचेतनत्वात्; न ह्रचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति सांख्यपरीक्षायामभिहितम्; आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात्; आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यात्, असंबन्धात्; अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत् -- संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गः, नियामकान्तराभावात्। तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात्; कर्माभावात्तन्निबन्धनः संयोगो न स्यात्; संयोगाभावाच्च
तन्निबन्धनं द्व्युणकादि कार्यजातं न स्यात्। संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यात्? एकदेशेन वा? सर्वात्मना चेत्, उपचयानुपपत्तेरणुमात्रत्वप्रसङ्गः, दृष्टविपर्ययप्रसङ्गश्च, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात्; एकदेशेन चेत्, सावयवत्वप्रसङ्गः; परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत्, कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात्; असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत। यथा चादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवति, एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत्; न हि तत्रापि किंचिन्नियतं तन्निमित्तं दृष्टमस्ति; अदृष्टमपि भोगप्रसिद्ध्यर्थम्, न प्रलयप्रसिद्ध्यर्थम् -- इत्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म। अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत। तस्मादनुपपन्नोऽयं परमाणुकारणवादः।।


समवायाभ्युपगमाच्च साम्यादनवस्थितेः।। 2.2.13।।

।। 2.2.13।।

समवायाभ्युपगमाच्च -- तदभाव इति -- प्रकृतेनाणुवादनिराकरणेन संबध्यते। द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता; न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम्; कुतः? साम्यादनवस्थितेः -- यथैव ह्रणुभ्यामत्यन्तभिन्नं सत् द्व्यणुकं समवायलक्षणेन संबन्धेन ताभ्यां संबध्यते, एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव संबन्धेन समवायिभिः संबध्येत, अत्यन्तभेदसाम्यात्; ततश्च तस्य तस्यान्योऽन्यः संबन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत। ननु इह प्रत्ययग्राह्रः समवायो नित्यसंबद्ध एव समवायिभिर्गृह्रते, नासंबद्धः, संबन्धान्तरापेक्षो वा; ततश्च न तस्यान्यः संबन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेति। नेत्युच्यते; संयोगोऽप्येवं सति संयोगिभिर्नित्यसंबद्ध एवेति समवायवन्नान्यं संबन्धमपेक्षेत। अथार्थान्तरत्वात्संयोगः संबन्धान्तरमपेक्षेत, समवायोऽपि तह्र्रर्थान्तरत्वात्संबन्धान्तरमपेक्षेत। न च -- गुणत्वात्संयोगः संबन्धान्तरमपेक्षते, न समवायः अगुणत्वादिति -- युज्यते वक्तुम्; अपेक्षाकारणस्य तुल्यत्वात्, गुणपरिभाषायाश्चातन्त्रत्वात्। तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था; प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेद्र्वाभ्यामणुभ्यां द्व्यणुकं नैवोत्पद्येत; तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


नित्यमेव च भावात्।। 2.2.14।।

।। 2.2.14।।

अपि चाणवः प्रवृत्तिस्वभावा वा, निवृत्तिस्वभावा वा, उभयस्वभावा वा, अनुभयस्वभावा वा अभ्युपगम्यन्ते -- गत्यन्तराभावात्; चतुर्धापि नोपपद्यते -- प्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गः; निवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गः; उभयस्वभावत्वं च विरोधादसमञ्जसम्; अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गः, अतन्त्रत्वेऽप्यदृष्टादेर्नित्याप्रवृत्तिप्रसङ्गः। तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


रूपादिमत्त्वाच्च विपर्ययो दर्शनात्।। 2.2.15।।

।। 2.2.15।।

सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो न संभवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति, स तेषामभ्युपगमो निरालम्बन एव; यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत; परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः। कुतः? एवं लोके दृष्टत्वात् -- यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम्; तद्यथा -- पटस्तन्तूनपेक्ष्य स्थूलोऽनित्यश्च भवति; तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति -- तथा चामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते; तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति। यच्च नित्यत्वे कारणं तैरुक्तम् -- 'सदकारणवन्नित्यम् '
इति, तदप्येवं सति अणुषु न संभवति, उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः। यदपि नित्यत्वे द्वितीयं कारणमुक्तम् -- 'अनित्यमिति च विशेषतः प्रतिषेधाभावः ' इति, तदपि नावश्यं परमाणूनां नित्यत्वं साधयति; असति हि यस्मिन्कस्मिँश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते; न पुनः परमाणुनित्यत्वमेवापेक्ष्यते; तच्चास्त्येव नित्यं परमकारणं ब्राहृ; न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोव्र्यवहारावतारात्। यदपि नित्यत्वे तृतीयं कारणमुक्तम् -- 'अविद्या च ' इति -- तद्यद्येवं विव्रीयेत -- सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत; अथाद्रव्यत्वे सतीति विशेष्येत, तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत, तस्य च प्रागेवोक्तत्वात् 'अविद्या च ' इति पुनरुक्तं स्यात्; अथापि कारणविभागात्कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसंभवोऽविद्या, सा परमाणूनां नित्यत्वं ख्यापयति -- इति व्याख्यायेत -- नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनष्टुमर्हतीति नियमोऽस्ति; संयोगसचिवे ह्रनेकÏस्मश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात्; यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते, तदा घृतकाठिन्यविलयनवन्मूत्र्यवस्थाविलयनेनापि विनाश उपपद्यते। तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम्। तस्मादप्यनुपपन्नः परमाणुकारणवादः।।


उभयथा च दोषात्।। 2.2.16।।

।। 2.2.16।।

गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुः -- इत्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि च लोके लक्ष्यन्ते; तद्वत्परमाणवोऽप्युपचितापचितगुणाः कल्पेरन् न वा; उभयथापि च दोषानुषङ्गोऽपरिहार्य एव स्यात्। कल्प्यमाने तावदुपचितापचितगुणत्वे, उपचितगुणानां मूत्र्युपचयादपरमाणुत्वप्रसङ्गः; न चान्तरेणापि मूत्र्युपचयं गुणोपचयो भवतीत्युच्येत, कार्येषु भूतेषु गुणोपचये मूत्र्युपचयदर्शनात्। अकल्प्यमाने तूपचितापचितगुणत्वे -- परमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरन्, ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात्, अप्सु रूपस्पर्शयोः, पृथिव्यां च रसरूपस्पर्शानाम्, कारणगुणपूर्वकत्वात्कार्यगुणानाम्; अथ सर्वे चतुर्गुणा एव कल्प्येरन्, ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात्, तेजसि गन्धरसयोः, वायौ च गन्धरूपरसानाम्। न चैवं दृश्यते। तस्मादप्यनुपपन्नः परमाणुकारणवादः।।

अपरिग्रहाच्चात्यन्तमनपेक्षा।। 2.2.17।।

।। 2.2.17।।

प्रधानकारणवादो वेदविद्भिरपि कैश्चिन्मन्वादिभिः सत्कार्यत्वाद्यंशोपजीवनाभिप्रायेणोपनिबद्धः; अयं तु परमाणुकारणवादो न कैश्चिदपि शिष्टैः केनचिदप्यंशेन परिगृहीत इत्यत्यन्तमेवानादरणीयो वेदवादिभिः। अपि च वैशेषिकास्तन्त्रार्थभूतान् षट्पदार्थान् द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यान् अत्यन्तभिन्नान् भिन्नलक्षणान् अभ्युपगच्छन्ति -- यथा मनुष्योऽश्वः शश इति; तथात्वं चाभ्युपगम्य तद्विरुद्धं द्रव्याधीनत्वं शेषाणामभ्युपगच्छन्ति; तन्नोपपद्यते; कथम्? यथा हि लोके शशकुशपलाशप्रभृतीनामत्यन्तभिन्नानां सतां नेतरेतराधीनत्वं भवति, एवं द्रव्यादीनामप्यत्यन्तभिन्नत्वात्, नैव द्रव्याधीनत्वं गुणादीनां भवितुमर्हति; अथ भवति द्रव्याधीनत्वं गुणादीनाम्, ततो द्रव्यभावे भावाद्द्रव्याभावेऽभावाद्द्रव्यमेव संस्थानादिभेदादनेकशब्दप्रत्ययभाग्भवति -- यथा देवदत्त एक एव सन् अवस्थान्तरयोगादनेकशब्दप्रत्ययभाग्भवति, तद्वत्; तथा सति सांख्यसिद्धान्तप्रसङ्गः स्वसिद्धान्तविरोधश्चापद्येयाताम्। नन्वग्नेरन्यस्यापि सतो धूमस्याग्न्यधीनत्वं दृश्यते; सत्यं दृश्यते; भेदप्रतीतेस्तु तत्राग्निधूमयोरन्यत्वं निश्चीयते; इह तु -- शुक्लः कम्बलः, रोहिणी धेनुः, नीलमुत्पलम् -- इति द्रव्यस्यैव तस्य तस्य तेन तेन विशेषणेन प्रतीयमानत्वात् नैव द्रव्यगुणयोरग्निधूमयोरिव भेदप्रतीतिरस्ति; तस्माद्द्रव्यात्मकता गुणस्य। एतेन कर्मसामान्यविशेषसमवायानां द्रव्यात्मकता व्याख्याता।।

गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यद्युच्येत, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात्,
अपृथक्कालत्वं वा, अपृथक्स्वभावत्वं वा; सर्वथापि नोपपद्यते -- अपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत; कथम्? तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते, न पटदेशः; पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते, न तन्तुदेशाः; तथा चाहुः -- 'द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् ' इति; तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते, तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्ते -- इति हि तेऽभ्युपगच्छन्ति; सोऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येत। अथ अपृथक्कालत्वमयुतसिद्धत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत। तथा अपृथक्स्वभावत्वे त्वयुतसिद्धत्वे, न द्रव्यगुणयोरात्मभेदः संभवति, तस्य तादात्म्येनैव प्रतीयमानत्वात्।।

युतसिद्धयोः संबन्धः संयोगः, अयुतसिद्धयोस्तु समवायः -- इत्ययमभ्युपगमो मृषैव तेषाम्, प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः। अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् -- अयुतसिद्धस्य कार्यस्य कारणेन संबन्धः समवाय इति, एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन संबन्धो नोपपद्यते, द्वयायत्तत्वात्संबन्धस्य। सिद्धं भूत्वा संबध्यत इति चेत्, प्राक्कारणसंबन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात्, कार्यकारणयोः संयोगविभागौ न विद्येते इतीदमुक्तं दुरुक्तं स्यात्। यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिद्र्रव्यान्तरैः संबन्धः संयोग एवाभ्युपगम्यते, न समवायः, एवं कारणद्रव्येणापि संबन्धः संयोग एव स्यात्, न समवायः। नापि संयोगस्य समवायस्य वा संबन्धस्य संबन्धिव्यतिरेकेणास्तित्वे किंचित्प्रमाणमस्ति; संबन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत्, न; एकत्वेऽपि स्वरूपबाह्ररूपापेक्षया अनेकशब्दप्रत्ययदर्शनात्। यथैकोऽपि सन् देवदत्तो लोके स्वरूपं संबन्धिरूपं चापेक्ष्य अनेकशब्दप्रत्ययभाग्भवति -- मनुष्यो ब्रााहृणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एकदशशतसहरुाादिशब्दप्रत्ययभेदमनुभवति, तथा संबन्धिनोरेव संबन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वम्, न व्यतिरिक्तवस्त्वस्तित्वेन -- इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेः अभावः वस्त्वन्तरस्य; नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययोः संततभावप्रसङ्गः; स्वरूपबाह्ररूपापेक्षयेति -- उक्तोत्तरत्वात्। तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः संभवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात्; कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत्, न; अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात्, इयानेवाविद्यमानो विरुद्धोऽविरुद्धो वा अर्थः कल्पनीयः, नातोऽधिकः -- इति नियमहेत्वभावात्, कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसंभवाच्च -- न च वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्योऽन्येऽधिकाः शतं सहरुां वा अर्था न कल्पयितव्या इति निवारको हेतुरस्ति; तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत्; कश्चित्कृपालुः प्राणिनां दुःखबहुलः संसार एव मा भूदिति कल्पयेत्; अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पतिं्त कल्पयेत्; कस्तयोर्निवारकः स्यात्। किंचान्यत् -- द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः; न ह्राकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषोऽस्ति; कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत्, न; इतरेतराश्रयत्वात् -- कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिः, आश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः -- कुण्डबदरवत् -- इतीतरेतराश्रयता स्यात्; न हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात्।।

किंचान्यत् -- परमाणूनां परिच्छिन्नत्वात्, यावत्यो दिशः -- षट् अष्टौ दश वा-तावद्भिरवयवैः सावयवास्ते स्युः, सावयवत्वादनित्याश्च -- इति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येत। यांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि, त एव परमाणव इति चेत्, न; स्थूलसूक्ष्मतारतम्यक्रमेण आ परमकारणाद्विनाशोपपत्तेः -- यथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं च पृथिव्येकजातीयकं विनश्यति, ततः द्व्यणुकम्, तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुः। विनश्यन्तोऽप्यवयवविभागेनैव विनश्यन्तीति चेत्, नायं दोषः; यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचाम -- यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशो भवति, एवं परमाणूनामपि
परमकारणभावापत्त्या मूत्र्यादिविनाशो भविष्यति। तथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात्। तदेवमसारतरतर्कसंदृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छØतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षा अस्मिन्परमाणुकारणवादे कार्या आर्यैः श्रेयोर्थिभिरिति वाक्यशेषः।।


समुदाय उभयहेतुकेऽपि तदप्राप्तिः।। 2.2.18।।

समुदायाधिकरणम्।। 2.2.18।।

वैशेषिकराद्धान्तो दुर्युक्तियोगाद्वेदविरोधाच्छिष्टापरिग्रहाच्च नापेक्षितव्य इत्युक्तम्; सोऽर्धवैनाशिक इति वैनाशिकत्वसाम्यात्सर्ववैनाशिकराद्धान्तो नतरामपेक्षितव्य इतीदमिदानीमुपपादयामः। स च बहुप्रकारः, प्रतिपत्तिभेदाद्विनेयभेदाद्वा; तत्रैते त्रयो वादिनो भवन्ति -- केचित्सर्वास्तित्ववादिनः; केचिद्विज्ञानास्तित्वमात्रवादिनः; अन्ये पुनः सर्वशून्यत्ववादिन इति। तत्र ये सर्वास्तित्ववादिनो बाह्रमान्तरं च वस्त्वभ्युपगच्छन्ति, भूतं भौतिकं च, चित्तं चैत्तं च, तांस्तावत्प्रतिब्राूमः। तत्र भूतं पृथिवीधात्वादयः, भौतिकं रूपादयश्चक्षुरादयश्च, चतुष्टये च पृथिव्यादिपरमाणवः खरस्नेहोष्णेरणस्वभावाः, ते पृथिव्यादिभावेन संहन्यन्ते -- इति मन्यन्ते; तथा रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्चस्कन्धाः, तेऽप्याध्यात्मं सर्वव्यवहारास्पदभावेन संहन्यन्ते -- इति मन्यन्ते।।

तत्रेदमभिधीयते -- योऽयमुभयहेतुक उभयप्रकारः समुदायः परेषामभिप्रेतः -- अणुहेतुकश्च भूतभौतिकसंहतिरूपः, स्कन्धहेतुकश्च पञ्चस्कन्धीरूपः -- तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे, तदप्राप्तिः स्यात् -- समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थः; कुतः? समुदायिनामचेतनत्वात्, चित्ताभिज्वलनस्य च समुदायसिद्ध्यधीनत्वात्, अन्यस्य च कस्यचिच्चेतनस्य भोक्तुः प्रशासितुर्वा स्थिरस्य संहन्तुरनभ्युपगमात्, निरपेक्षप्रवृत्त्यभ्युपगमे च प्रवृत्त्यनुपरमप्रसङ्गात्, आशयस्याप्यन्यत्वानन्यत्वाभ्यामनिरूप्यत्वात्, क्षणिकत्वाभ्युपगमाच्च निव्र्यापारत्वात्प्रवृत्त्यनुपपत्तेः। तस्मात्समुदायानुपपत्तिः; समुदायानुपपत्तौ च तदाश्रया लोकयात्रा लुप्येत।।


इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात्।। 2.2.19।।

।। 2.2.19।।

यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा; तस्यां चोपपद्यमानायां न किंचिदपरमपेक्षितव्यमस्ति; ते चाविद्यादयः -- अविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता -- इत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः, क्वचित्प्रपञ्चिताः; सर्वेषामप्ययमविद्यादिकलापोऽप्रत्याख्येयः; तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः संघात इति चेत्, तन्न; कस्मात्? उत्पत्तिमात्रनिमित्तत्वात् -- भवेदुपपन्नः संघातः, यदि संघातस्य किंचिन्निमित्तमवगम्येत; न त्ववगम्यते; यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत्, न तु संघातोत्पत्तेः किंचिन्निमित्तं संभवति। नन्वविद्यादिभिरर्थादाक्षिप्यते संघात इत्युक्तम्; अत्रोच्यते -- यदि तावदयमभिप्रायः -- अविद्यादयः संघातमन्तरेणात्मानमलभमाना अपेक्षन्ते संघातमिति, ततस्तस्य संघातस्य किंचिन्निमित्तं वक्तव्यम्; तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तृषु सत्सु न संभवतीत्युक्तं वैशेषिकपरीक्षायाम्; किमङ्ग पुनः क्षणिकेष्वप्यणुषु भोक्तृरहितेष्वाश्रयाश्रयिशून्येषु वाभ्युपगम्यमानेषु संभवेत्? अथायमभिप्रायः -- अविद्यादय एव संघातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः? अथ मन्यसे -- संघाता एवानादौ संसारे संतत्यानुवर्तन्ते, तदाश्रयाश्चाविद्यादय इति, तदापि संघातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत; नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात्; अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः
कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात्; उभयमप्यभ्युपगमविरुद्धम्। अपि च यद्भोगार्थः संघातः स्यात्, स जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः; ततश्च भोगो भोगार्थ एव, स नान्येन प्रार्थनीयः; तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम्; अन्येन चेत्प्राथ्र्येतोभयम्, भोगमोक्षकालावस्थायिना तेन भवितव्यम्; अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः। तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत्, भवतु नाम; न तु संघातः सिध्येत्, भोक्त्रभावात् -- इत्यभिप्रायः।।


उत्तरोत्पादे च पूर्वनिरोधात्।। 2.2.20।।

।। 2.2.20।।

उक्तमेतत् -- अविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न संघातसिद्धिरस्तीति; तदपि तु उत्पत्तिमात्रनिमित्तत्वं न संभवतीतीदमिदानीमुपपाद्यते। क्षणभङ्गवादिनोऽयमभ्युपगमः -- उत्तरस्मिन्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति; न चैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते संपादयितुम्, निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेः; अथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायः, तथापि नोपपद्यते, भावभूतस्य पुनव्र्यापारकल्पनायां क्षणान्तरसंबन्धप्रसङ्गात्; अथ भाव एवास्य व्यापार इत्यभिप्रायः, तथापि नैवोपपद्यते, हेतुस्वभावानुपरक्तस्य फलस्योत्पत्त्यसंभवात्; स्वभावोपरागाभ्युपगमे च, हेतुस्वभावस्य फलकालावस्थायित्वे सति, क्षणभङ्गाभ्युपगमत्यागप्रसङ्गः; विनैव वा स्वभावोपरागेण हेतुफलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गः। अपि चोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्याताम्, अवस्थान्तरं वा, वस्त्वन्तरमेव वा -- सर्वथापि नोपपद्यते; यदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्याताम्, ततो वस्तुशब्द उत्पादनिरोधशब्दौ च पर्यायाः प्राप्नुयुः; अथास्ति कश्चिद्विशेष इति मन्येत -- उत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यन्तमध्यक्षणत्रयसंबन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिः; अथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्याताम् -- अश्वमहिषवत्, ततो वस्तु उत्पादनिरोधाभ्यामसंस्पृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गः; यदि च दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम्, एवमपि द्रष्टृधर्मौ तौ न वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एव। तस्मादप्यसंगतं सौगतं मतम्।।


असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा।। 2.2.21।।

।। 2.2.21।।

क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम्; अथासत्येव हेतौ फलोत्पतिं्त ब्राूयात्, ततः प्रतिज्ञोपरोधः स्यात् -- चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेत; निर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येत। अथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्राूयात्, ततो यौगपद्यं हेतुफलयोः स्यात्; तथापि प्रतिज्ञोपरोध एव स्यात् -- क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत।।


प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात्।। 2.2.22।।

।। 2.2.22।।

अपि च वैनाशिकाः कल्पयन्ति -- बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेति; तदपि च त्रयम् -- प्रतिसंख्याप्रतिसंख्यानिरोधौ आकाशं चेत्याचक्षते; त्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्ते; बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यते; तद्विपरीतोऽप्रतिसंख्यानिरोधः; आवरणाभावमात्रमाकाशमिति। तेषामाकाशं परस्तात्प्रत्याख्यास्यति; निरोधद्वयमिदानीं प्रत्याचष्टे -- प्रतिसंख्याप्रतिसंख्यानिरोधयोः अप्राप्तिरसंभव इत्यर्थः; कस्मात्? अविच्छेदात् -- एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ संतानगोचरौ वा स्याताम्, भावगोचरौ वा; न तावत्संतानगोचरौ संभवतः, सर्वेष्वपि संतानेषु संतानिनामविच्छिन्नेन हेतुफलभावेन संतानविच्छेदस्यासंभवात्; नापि भावगोचरौ संभवतः -- न हि भावानां निरन्वयो निरुपाख्यो विनाशः संभवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात्, अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात्। तस्मात्परपरिकल्पितस्य
निरोधद्वयस्यानुपपत्तिः।।


उभयथा च दोषात्।। 2.2.23।।

।। 2.2.23।।

योऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, स सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्; स्वयमेव वा -- पूर्वस्मिन्विकल्पे निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गः; उत्तरÏस्मस्तु मार्गोपदेशानर्थक्यप्रसङ्गः। एवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम्।।


आकाशे चाविशेषात्।। 2.2.24।।

।। 2.2.24।।

यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति -- तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम्; आकाशस्येदानीं निराक्रियते। आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः, प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात्। आगमप्रामाण्यात्तावत् 'आत्मन आकाशः संभूतः ' इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्रसिद्धिः। विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यम् -- गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात्। अपि च आवरणाभावमात्रमाकाशमिच्छताम्, एकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रसङ्गः; यत्रावरणाभावस्तत्र पतिष्यतीति चेत् -- येनावरणाभावो विशेष्यते, तत्तर्हि वस्तुभूतमेवाकाशं स्यात्, न आवरणाभावमात्रम्; अपि च आवरणाभावमात्रमाकशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत; सौगते हि समये 'पृथिवी भगवः किंसंनिश्रया ' इत्यस्मिन्प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्ते 'वायुः किंसंनिश्रयः ' इत्यस्य प्रश्नस्य प्रतिवचनं भवति -- 'वायुराकाशसंनिश्रयः ' इति; तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात्; तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम्। अपि च निरोधद्वयमाकाशं च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम्; न ह्रवस्तुनो नित्यत्वमनित्यत्वं वा संभवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य; धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात्, न निरुपाख्यत्वम्।।


अनस्मृतेश्च।। 2.2.25।।

।। 2.2.25।।

अपि च वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात्; न च सा संभवति; अनुस्मृतेः -- अनुभवम् उपलब्धिमनूत्पद्यमानं स्मरणमेव अनुस्मृतिः; सा चोपलब्ध्येककर्तृका सती संभवति, पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात्; कथं हि 'अहमदोऽद्राक्षम् -- इदमिदानीं पश्यामि ' इति च पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात्। अपि च दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः -- 'अहमदोऽद्राक्षम् -- इदं पश्यामि ' इति; यदि हि तयोर्भिन्नः कर्ता स्यात्, ततः 'अहं स्मरामि -- अद्राक्षीदन्यः ' इति प्रतीयात्; न त्वेवं प्रत्येति कश्चित्; यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति -- 'स्मराम्यहम् -- असावदोऽद्राक्षीत् ' इति; इह तु 'अहमदोऽद्राक्षम् ' इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति; न 'नाहम् ' इत्यात्मनो दर्शनं निर्वृत्तं निह्नुते -- यथा अग्निरनुष्णोऽप्रकाश इति वा। तत्रैवं सत्येकस्य दर्शनस्मरणलक्षणक्षणद्वयसंबन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात्। तथा अनन्तरामनन्तरामात्मन एव प्रतिपतिं्त प्रत्यभिजानन्नेककर्तृकाम् आ उत्तमादुच्छ्वासात्, अतीताश्च प्रतिपत्तीः आ जन्मन आत्मैककर्तृकाः, प्रतिसंदधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत? स यदि ब्राूयात् सादृश्यादेतत्संपत्स्यत इति, तं प्रतिब्राूयात् -- तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोद्र्वयोर्वस्तुनोग्र्रहीतुरेकस्याभावात्, सादृश्यनिमित्तं प्रतिसंधानमिति मिथ्याप्रलाप एव स्यात्; स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड¬ेत; 'तेनेदं सदृशम् ' इति प्रत्ययान्तरमेवेदम्, न पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत्, न; तेन इदम् इति भिन्नपदार्थोपादानात्; प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात्, 'तेनेदं सदृशम् ' इति वाक्यप्रयोगोऽनर्थकः स्यात्, सादृश्यम् इत्येव प्रयोगः प्राप्नुयात्। यदा हि लोके प्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्रते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परीक्षकाणामात्मनश्च
यथार्थत्वेन न बुद्धिसंतानमारोहति। एवमेवैषोऽर्थः इति निश्चितं यत्, तदेव वक्तव्यम्; ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत्। न चायं सादृश्यात्संव्यवहारो युक्तः; तद्भावावगमात्, तत्सदृशभावानवगमाच्च। भवेदपि कदाचिद्बाह्रवस्तुनि विप्रलम्भसंभवात् 'तदेवेदं स्यात्, तत्सदृशं वा ' इति संदेहः; उपलब्धरि तु संदेहोऽपि न कदाचिद्भवति -- 'स एवाहं स्यां तत्सदृशो वा ' इति, य 'एवाहं पूर्वेद्युरद्राक्षं स एवाहमद्य स्मरामि ' इति निश्चिततद्भावोपलम्भात्। तस्मादप्यनुपपन्नो वैनाशिकसमयः।।

नासतोऽदृष्टत्वात्।। 2.2.26।।

।। 2.2.26।।

इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छताम् अभावाद्भावोत्पत्तिरित्येतदापद्येत; दर्शयन्ति चाभावाद्भावोत्पत्तिम् -- 'नानुपमृद्य प्रादुर्भावात् ' इति; विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः; कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येत, अविशेषात्सर्वं सर्वत उत्पद्येत; तस्मादभावग्रस्तेभ्यो बीजादिभ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिः -- इति मन्यन्ते। तत्रेदमुच्यते -- 'नासतोऽदृष्टत्वात् ' इति। नाभावाद्भाव उत्पद्यते; यद्यभावाद्भाव उत्पद्येत, अभावत्वाविशेषात्कारणविशेषाभ्युपगमोऽनर्थकः स्यात्; न हि, बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च, निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषोऽस्ति; येन, बीजादेवाङ्कुरो जायते क्षीरादेव दधि -- इत्येवंजातीयकः कारणविशेषाभ्युपगमोऽर्थवान्स्यात्; निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन्; न चैवं दृश्यते; यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येत -- उत्पलादीनामिव नीलत्वादिः, ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत; नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात्, अभावत्वादेव,शशविषाणादिवत्; अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात्; न चैवं दृश्यते, सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात्; न च मृदन्विताः शरावादयो भावास्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते; मृद्विकारानेव तु मृदन्वितान्भावान् लोकः प्रत्येति। यत्तूक्तम् -- स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वानुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति, तद्दुरुक्तम्, स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकारणभावदर्शनात्; येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते, तेष्वपि नासावुपमृद्यमाना पूर्वावस्था उत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङ्कुरादिकारणभावाभ्युपगमात्। तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात्, सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनात्, अनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः। अपि च चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यते -- इत्यभ्युपगम्य, पुनरभावाद्भावोत्पतिं्त कल्पयद्भिरभ्युपगममपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते।।


उदीसीनानामपि चैवं सिद्धिः।। 2.2.27।।

।। 2.2.27।।

यदि चाभावाद्भावोत्पत्तिरभ्युपगम्येत, एवं सत्युदासीनानामनीहमानानामपि जनानामभिमतसिद्धिः स्यात्, अभावस्य सुलभत्वात्। कृषीवलस्य क्षेत्रकर्मण्यप्रयतमानस्यापि सस्यनिष्पत्तिः स्यात्; कुलालस्य च मृत्संस्क्रियायामप्रयतमानस्यापि अमत्रोत्पत्तिः। तन्तुवायस्यापि तन्तूनतन्वानस्यापि तन्वानस्येव वस्त्रलाभः; स्वर्गापवर्गयोश्च न कश्चित्कथंचित्समीहेत। न चैतद्युज्यते अभ्युपगम्यते वा केनचित्। तस्मादनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः।।


नाभाव उपलब्धेः।। 2.2.28।।

नाभावाधिकरणम्।। 2.2.28।।

एवं बाह्रार्थवादमाश्रित्य समुदायाप्राप्त्यादिषु दूषणेषूद्भावितेषु विज्ञानवादी बौद्ध इदानीं प्रत्यवतिष्ठते -- केषांचित्किल विनेयानां बाह्रे वस्तुन्यभिनिवेशमालक्ष्य तदनुरोधेन बाह्रार्थवादप्रक्रियेयं विरचिता। नासौ सुगताभिप्रायः। तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः। तÏस्मश्च विज्ञानवादे बुद्ध्यारूढेन
रूपेणान्तस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते, सत्यपि बाह्रार्थे बुद्ध्यारोहमन्तरेण प्रमाणादिव्यवहारानवतारात्। कथं पुनरवगम्यते -- अन्तस्थ एवायं सर्वव्यवहारः, न विज्ञानव्यतिरिक्तो बाह्रोऽर्थोऽस्तीति; तदसंभवादित्याह -- स हि बाह्रोऽर्थोऽभ्युपगम्यमानः परमाणवो वा स्युः, तत्समूहा वा स्तम्भादयः स्युः; तत्र न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति, परमाण्वाभासज्ञानानुपपत्तेः; नापि तत्समूहाः स्तम्भादयः, तेषां परमाणुभ्योऽन्यत्वानन्यत्वाभ्यां निरूपयितुमशक्यत्वात्। एवं जात्यादीनपि प्रत्याचक्षीत। अपि च अनुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः -- स्तम्भज्ञानं कुड¬ज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगतविशेषमन्तरेणोपपद्यत इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम्; अङ्गीकृते च तस्मिन्विषयाकारस्य ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्रार्थसद्भावकल्पना। अपि च सहोपलम्भनियमादभेदो विषयविज्ञानयोरापतति; न ह्रनयोरेकस्यानुपलम्भेऽन्यस्योपलम्भोऽस्ति; न चैतत्स्वभावविवेके युक्तम्, प्रतिबन्धकारणाभावात्; तस्मादप्यर्थाभावः। स्वप्नादिवच्चेदं द्रष्टव्यम् -- यथा हि स्वप्नमायामरीच्युदकगन्धर्वनगरादिप्रत्यया विनैव बाह्रेनार्थेन ग्राह्रग्राहकाकारा भवन्ति; एवं जागरितगोचरा अपि स्तम्भादिप्रत्यया भवितुमर्हन्तीत्यवगम्यते, प्रत्ययत्वाविशेषात्। कथं पुनरसति बाह्रार्थे प्रत्ययवैचित्र्यमुपपद्यते? वासनावैचित्र्यादित्याह -- अनादौ हि संसारे बीजाङ्कुरवद्विज्ञानानां वासनानां चान्योन्यनिमित्तनैमित्तिकभावेन वैचित्र्यं न विप्रतिषिध्यते; अपि च अन्वयव्यतिरेकाभ्यां वासनानिमित्तमेव ज्ञानवैचित्र्यमित्यवगम्यते, स्वप्नादिष्वन्तरेणाप्यर्थं वासनानिमित्तस्य ज्ञानवैचित्र्यस्य उभाभ्यामप्यावाभ्यामभ्युपगम्यमानत्वात्, अन्तरेण तु वासनामर्थनिमित्तस्य ज्ञानवैचित्र्यस्य मया अनभ्युपगम्यमानत्वात्; तस्मादप्यभावो बाह्रार्थस्येति। एवं प्राप्ते --

ब्राूमः -- नाभाव उपलब्धेरिति। न खल्वभावो बाह्रस्यार्थस्याध्यवसातुं शक्यते; कस्मात्? उपलब्धेः -- उपलभ्यते हि प्रतिप्रत्ययं बाह्रोऽर्थः -- स्तम्भः कुड¬ं घटः पट इति; न चोपलभ्यमानस्यैवाभावो भवितुमर्हति; यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्राूयात् -- 'नाहं भुञ्जे न वा तृप्यामि ' इति -- तद्वदिन्द्रियसंनिकर्षेण स्वयमुपलभमान एव बाह्रमर्थम्, 'नाहमुपलभे न च सोऽस्ति ' इति ब्राुवन्, कथमुपादेयवचनः स्यात्। ननु नाहमेवं ब्रावीमि -- 'न कंचिदर्थमुपलभे ' इति; किं तु 'उपलब्धिव्यतिरिक्तं नोपलभे ' इति ब्रावीमि; बाढमेवं ब्रावीषि निरङ्कुशत्वात्ते तुण्डस्य, न तु युक्त्युपेतं ब्रावीषि, यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः, उपलब्धेरेव; न हि कश्चिदुपलब्धिमेव स्तम्भः कुड¬ं चेत्युपलभते; उपलब्धिविषयत्वेनैव तु स्तम्भकुड¬ादीन्सर्वे लौकिका उपलभन्ते। अतश्च एवमेव सर्वे लौकिका उपलभन्ते, यत् प्रत्याचक्षाणा अपि बाह्रमर्थम् एवमाचक्षते -- 'यदन्तज्र्ञेयरूपं तद्बहिर्वदवभासते ' इति -- तेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः, प्रत्याख्यातुकामाश्च बाह्रमर्थम्, 'बहिर्वत् ' इति वत्कारं कुर्वन्ति; इतरथा हि कस्मात् 'बहिर्वत् ' इति ब्राूयुः; न हि 'विष्णुमित्रो वन्ध्यापुत्रवदवभासते ' इति कश्चिदाचक्षीत; तस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम्, न तु बहिर्वत् अवभासत इति। ननु बाह्रस्यार्थस्यासंभवात् बहिर्वदवभासते इत्यध्यवसितम्; नायं साधुरध्यवसायः, यतः प्रमाणप्रवृत्त्यंप्रवृत्तिपूर्वकौ संभवासंभवाववधार्येते, न पुनः संभवासंभवपूर्वके प्रमाणप्रवृत्त्यप्रवृत्ती; यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत्संभवति; यत्तु न केनचिदपि प्रमाणेनोपलभ्यते, तन्न संभवति; इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्रोऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न संभवतीत्युच्येत -- उपलब्धेरेव? न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य; अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुकः, न अभेदहेतुकः -- इत्यभ्युपगन्तव्यम्। अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेवे घटपटयोर्भेदः, न विशेष्यस्य ज्ञानस्य -- यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्यकाष्ण्र्ययोरेव भेदः, न गोत्वस्य; द्वाभ्यां च भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोः; तस्मादर्थज्ञानयोर्भेदः; तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम्; अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः, न विशेषणस्य घटस्य -- यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, न विशेषणस्य क्षीरस्य, तद्वत्। अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्रग्राहकत्वानुपपत्तिः; ततश्च -- विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताः -- ता हीयेरन्।
किंचान्यत् -- विज्ञानं विज्ञानमित्यभ्युपगच्छता, बाह्रार्थः स्तम्भः कुड¬मित्येवंजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम्? विज्ञानमनुभूयत इति चेत्, बाह्रोऽप्यर्थोऽनुभूयत एवेति युक्तमभ्युपगन्तुम्; अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते, न तथा बाह्रोऽप्यर्थ इति चेत् -- अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छसि -- अग्निरात्मानं दहतीतिवत्; अविरुद्धं तु लोकप्रसिद्धम् -- स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्रार्थोऽनुभूयत इति नेच्छसि; अहो पाण्डित्यं महद्दर्शितम्; न चार्थव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव। ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्रत्वे, तदप्यन्येन ग्राह्रं तदप्यन्येन -- इत्यनवस्था प्राप्नोति; अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत्, विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः, साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः, स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात्। किंचान्यत् -- प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथते -- इति ब्राुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् -- शिलाघनमध्यस्थप्रदीपसहरुाप्रथनवत्; बाढमेवम् -- अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत्, न; अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात्; अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते। साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता, स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत्, न; विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात्; अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम्।।


वैधम्र्याच्च न स्वप्नादिवत्।। 2.2.29।।

।। 2.2.29।।

यदुक्तं बाह्रार्थापलापिना -- स्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्रेनार्थेन भवेयुः, प्रत्ययत्वाविशेषादिति, तत्प्रतिवक्तव्यम्; अत्रोच्यते -- न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति; कस्मात्? वैधम्र्यात् -- वैधम्र्यं हि भवति स्वप्नजागरितयोः; किं पुनर्वैधम्र्यम्? बाधाबाधाविति ब्राूमः -- बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य -- मिथ्या मयोपलब्धो महाजनसमागम इति, न ह्रस्ति मम महाजनसमागमः, निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्तिरुद्बभूवेति; एवं मायादिष्वपि भवति यथायथं बाधः; नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्यांचिदप्यवस्थायां बाध्यते। अपि च स्मृतिरेषा, यत्स्वप्नदर्शनम्; उपलब्धिस्तु जागरितदर्शनम्; स्मृत्युपलब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयते अर्थविप्रयोगसंप्रयोगात्मकम् -- इष्टं पुत्रं स्मरामि, नोपलभे, उपलब्धुमिच्छामीति। तत्रैवं सति न शक्यते वक्तुम् -- मिथ्या जागरितोपलब्धिः, उपलब्धित्वात्, स्वप्नोपलब्धिवदिति -- उभयोरन्तरं स्वयमनुभवता; न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम्। अपि च अनुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधम्र्याद्वक्तुमिष्यते; न च, यो यस्य स्वतो धर्मो न संभवति सोऽन्यस्य साधम्र्यात्तस्य संभविष्यति; न ह्रग्निरुष्णोऽनुभूयमान उदकसाधम्र्याच्छीतो भविष्यति; दर्शितं तु वैधम्र्यं स्वप्नजागरितयोः।।


न भावोऽनुपलब्धेः।। 2.2.30।।

।। 2.2.30।।

यदप्युक्तम् -- विनाप्यर्थेन ज्ञानवैचित्र्यं वासनावैचित्र्यादेवावकल्पत इति, तत्प्रतिवक्तव्यम्; अत्रोच्यते -- न भावो वासनानामुपपद्यते, त्वत्पक्षेऽनुपलब्धेर्बाह्रानामर्थानाम्; अर्थोपलब्धिनिमित्ता हि प्रत्यर्थं नानारूपा वासना भवन्ति; अनुपलभ्यमानेषु त्वर्थेषु किंनिमित्ता विचित्रा वासना भवेयुः? अनादित्वेऽप्यन्धपरंपरान्यायेनाप्रतिष्ठैवानवस्था व्यवहारलोपिनी स्यात्, नाभिप्रायसिद्धिः; यावप्यन्वयव्यतिरेकावर्थापलापिनोपन्यस्तौ -- वासनानिमित्तमेवेदं ज्ञानजातं नार्थनिमित्तमिति, तावप्येवं सति प्रत्युक्तौ द्रष्टव्यौ, विना अर्थोपलब्ध्या वासनानुपपत्तेः। अपि च विनापि वासनाभिरर्थोपलब्ध्युपगमात्, विना त्वर्थोपलब्ध्या वासनोत्पत्त्यनभ्युपगमात् अर्थसद्भावमेवान्वयव्यतिरेकावपि प्रतिष्ठापयतः। अपि च वासना नाम संस्कारविशेषाः; संस्काराश्च नाश्रयमन्तरेणावकल्पन्ते, एवं लोके दृष्टत्वात्; न च तव वासनाश्रयः कश्चिदस्ति, प्रमाणतोऽनुपलब्धेः।।


क्षणिकत्वाच्च।। 2.2.31।।

।। 2.2.31।।

यदप्यालयविज्ञानं नाम वासनाश्रयत्वेन परिकल्पितम्, तदपि क्षणिकत्वाभ्युपगमादनवस्थितस्वरूपं सत्, प्रवृत्तिविज्ञानवन्न वासनानामधिकरणं भवितुमर्हति; न हि कालत्रयसंबन्धिन्येकस्मिन्नन्वयिन्यसति कूटस्थे वा सर्वार्थदर्शिनि देशकालनिमित्तापेक्षवासनाधीनस्मृतिप्रतिसंधानादिव्यवहारः संभवति; स्थिरस्वरूपत्वे त्वालयविज्ञानस्य सिद्धान्तहानिः। अपि च विज्ञानवादेऽपिक्षणिकत्वाभ्युपगमस्य समानत्वात्, यानि बाह्रार्थवादे क्षणिकत्वनिबन्धनानि दूषणान्युद्भावितानि -- 'उत्तरोत्पादे च पूर्वनिरोधात् ' इत्येवमादीनि, तानीहाप्यनुसंधातव्यानि। एवमेतौ द्वावपि वैनाशिकपक्षौ निराकृतौ -- बाह्रार्थवादिपक्षो विज्ञानवादिपक्षश्च; शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते। न ह्रयं सर्वप्रमाणसिद्धो लोकव्यवहारोऽन्यत्तत्त्वमनधिगम्य शक्यतेऽपह्नोतुम्, अपवादाभावे उत्सर्गप्रसिद्धेः।।


सर्वथाऽनुपपत्तेश्च।। 2.2.32।।

।। 2.2.32।।

किं बहुना? सर्वप्रकारेण -- यथा यथायं वैनाशिकसमय उपपत्तिमत्त्वाय परीक्ष्यते तथा तथा -- सिकताकूपवद्विदीर्यत एव; न कांचिदप्यत्रोपपतिं्त पश्यामः; अतश्चानुपपन्नो वैनाशिकतन्त्रव्यवहारः। अपि च बाह्रार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता सुगतेन स्पष्टीकृतमात्मनोऽसंबद्धप्रलापित्वम्, प्रद्वेषो वा प्रजासु -- विरुद्धार्थप्रतिपत्त्या विमुह्रेयुरिमाः प्रजा इति। सर्वथाप्यनादरणीयोऽयं सुगतसमयः श्रेयस्कामैरित्यभिप्रायः।।

नैकस्मिन्नसम्भवात्।। 2.2.33।।

एकस्मिन्नसंभवाधिकरणम्।। 2.2.33।।

निरस्तः सुगतसमयः; विवसनसमय इदानीं निरस्यते। सप्त चैषां पदार्थाः संमताः -- जीवाजीवारुावसंवरनिर्जरबन्धमोक्षा नाम; संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ, यथायोगं तयोरेवेतरान्तर्भावात् -- इति मन्यन्ते। तयोरिममपरं प्रपञ्चमाचक्षते, पञ्चास्तिकाया नाम -- जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति। सर्वेषामप्येषामवान्तरभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति। सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति -- स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति; एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति।।

अत्राचक्ष्महे -- नायमभ्युपगमो युक्त इति; कुतः? एकस्मिन्नसंभवात्। न ह्रेकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति, शीतोष्णवत्; य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति, ते तथैव वा स्युः, नैव वा तथा स्युः; इतरथा हि, तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात्। नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति; नेति ब्राूमः -- निरङ्कुशं ह्रनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात्, 'स्यादस्ति स्यान्नास्ति ' इत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात्; एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता, स्याच्च पक्षे नास्तितेति; एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात्? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन्? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा; अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात्। तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्या 'अस्ति वा नास्ति वा ' इति विकल्प्यमाना, स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यात् -- इत्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्
। न चैषां पदार्थानामवक्तव्यत्वं संभवति; अवक्तव्याश्चेन्नोच्येरन्; उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम्; उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च। तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा -- एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वा -- इति प्रलपन् मत्तोन्मत्तपक्षस्यैव पक्षः स्यात्, न प्रत्ययितव्यपक्षस्य। स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावः, तथा पक्षे नित्यता पक्षे चानित्यता-इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः। अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः। एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात्, सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासंभवात्, असत्त्वे चैवं सत्त्वस्यासंभवात्, असंगतमिदमार्हतं मतम्। एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः। यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः संघाताः संभवन्तीति कल्पयन्ति, तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते।।


एवं चात्माकात्स्न्र्यम्।। 2.2.34।।

।। 2.2.34।।

यथैकस्मिन्धर्मिणि विरुद्धधर्मासंभवो दोषः स्याद्वादे प्रसक्तः, एवमात्मनोऽपि जीवस्य अकात्स्न्र्यमपरो दोषः प्रसज्येत; कथम्? शरीरपरिमाणो हि जीव इत्यार्हता मन्यन्ते; शरीरपरिमाणतायां च सत्याम्, अकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादिवदनित्यत्वमात्मनः प्रसज्येत; शरीराणां चानवस्थितपरिमाणत्वात् मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा पुनः केनचित्कर्मविपाकेन हस्तिजन्म प्राप्नुवन् न कृत्स्नं हस्तिशरीरं व्याप्नुयात्; पुत्तिकाजन्म च प्राप्नुवन् न कृत्स्नः पुत्तिकाशरीरे संमीयेत; समान एष एकस्मिन्नपि जन्मनि कौमारयौवनस्थाविरेषु दोषः। स्यादेतत् -- अनन्तावयवो जीवः; तस्य त एवावयवा अल्पे शरीरे संकुचेयुः; महति च विकसेयुरिति। तेषां पुनरनन्तानां जीवावयवानां समानदेशत्वं प्रतिविहन्यते वा, न वेति वक्तव्यम्; प्रतिघाते तावत् नानन्तावयवाः परिच्छिन्ने देशे संमीयेरन्; अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः सर्वेषामवयवानां प्रथिमानुपपत्तेर्जीवस्याणुमात्रत्वप्रसङ्गः स्यात्; अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवानामानन्त्यं नोत्प्रेक्षितुमपि शक्यम्।।

अथ पर्यायेण बृहच्छरीरप्रतिपत्तौ केचिज्जीवावयवा उपगच्छन्ति, तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्तीत्युच्येत; तत्राप्युच्यते --

न च पर्यायादप्यविरोधो विकारादिभ्यः।। 2.2.35।।

।। 2.2.35।।

न च पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते; कुतः? विकारादिदोषप्रसङ्गात् -- अवयवोपगमापगमाभ्यां ह्रनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम्; विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत; ततश्च बन्धमोक्षाभ्युपगमो बाध्येत -- कर्माष्टकपरिवेष्टितस्य जीवस्य अलाबूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूध्र्वगामित्वं भवतीति। किंचान्यत् -- आगच्छतामपगच्छतां च अवयवानामागमापायधर्मवत्त्वादेव अनात्मत्वं शरीरादिवत्; ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात्; न च स निरूपयितुं शक्यते -- अयमसाविति। किंचान्यत् -- आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम्; न हि भूतेभ्यः प्रादुर्भवेयुः, भूतेषु च निलीयेरन्, अभौतिकत्वाज्जीवस्य; नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते, प्रमाणाभावात्। किंचान्यत् -- अनवधृतस्वरूपश्चैवं सति आत्मा स्यात्, आगच्छतामपगच्छतां च अवयवानामनियतपरिमाणत्वात्; अत एवमादिदोषप्रसङ्गात् न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते। अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकात्स्न्र्यप्रसञ्जनद्वारेणानित्यतायां चोदितायाम्, पुनः पर्यायेण परिमाणानवस्थानेऽपि रुाोतःसंताननित्यतान्यायेन आत्मनो नित्यता स्यात् -- यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्संताननित्यता, तद्वद्विसिचामपि -- इत्याशङ्क्य, अनेन सूत्रेणोत्तरमुच्यते -- संतानस्य तावदवस्तुत्वे
नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति।।

अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः।। 2.2.36।।

।। 2.2.36।।

अपि च अन्त्यस्य मोक्षावस्थाभाविनो जीवपरिमाणस्य नित्यत्वमिष्यते जैनैः; तद्वत्पूर्वयोरप्याद्यमध्यमयोर्जीवपरिमाणयोर्नित्यत्वप्रसङ्गादविशेषप्रसङ्गः स्यात्; एकशरीरपरिमाणतैव स्यात्, न उपचितापचितशरीरान्तरप्राप्तिः। अथवा अन्त्यस्य जीवपरिमाणस्य अवस्थितत्वात् पूर्वयोरप्यवस्थयोरवस्थितपरिमाण एव जीवः स्यात्; ततश्चाविशेषेण सर्वदैव अणुर्महान्वा जीवोऽभ्युपगन्तव्यः, न शरीरपरिमाणः। अतश्च सौगतवदार्हतमपि मतमसंगतमित्युपेक्षितव्यम्।।


पत्युरसामञ्जस्यात्।। 2.2.37।।

पत्यधिकरणम्।। 2.2.37।।

इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यते। तत्कथमवगम्यते? 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ' ' अभिध्योपदेशाच्च ' इत्यत्र प्रकृतिभावेन अधिष्ठातृभावेन च उभयस्वभावस्येश्वरस्य स्वयमेव आचार्येण प्रतिष्ठापितत्वात्; यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत, पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येत; तस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वरः -- इत्येष पक्षो वेदान्तविहितब्राहृैकत्वप्रतिपक्षत्वात् यत्नेनात्र प्रतिषिध्यते। सा चेयं वेदबाह्रेश्वरकल्पना अनेकप्रकारा -- केचित्तावत्सांख्ययोगव्यपाश्रयाः कल्पयन्ति -- प्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वरः; इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इति; माहेश्वरास्तु मन्यन्ते -- कार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः; पशुपतिरीश्वरो निमित्तकारणमिति; तथा वैशेषिकादयोऽपि केचित्कथंचित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वरम् -- इति।।

अत उत्तरमुच्यते -- पत्युरसामञ्जस्यादिति; पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं नोपपद्यते; कस्मात्? असामञ्जस्यात्; किं पुनरसामञ्जस्यम्? हीनमध्यमोत्तमभावेन हि प्राणिभेदान्विदधत ईश्वरस्य रागद्वेषादिदोषप्रसक्तेः अस्मदादिवदनीश्वरत्वं प्रसज्येत। प्राणिकर्मापेक्षितत्वाददोष इति चेत्, न; कर्मेश्वरयोः प्रवत्र्यप्रवर्तयितृत्वे इतरेतराश्रयदोषप्रसङ्गात्। न, अनादित्वात्, इति चेत्, न; वर्तमानकालवदतीतेष्वपि कालेष्वितरेतराश्रयदोषाविशेषादन्धपरंपरान्यायापत्तेः। अपि च 'प्रवर्तनालक्षणा दोषाः ' इति न्यायवित्समयः; न हि कश्चिददोषप्रयुक्तः स्वार्थे परार्थे वा प्रवर्तमानो दृश्यते; स्वार्थप्रयुक्त एव च सर्वो जनः परार्थेऽपि प्रवर्तत इत्येवमप्यसामञ्जस्यम्, स्वार्थवत्त्वादीश्वरस्यानीश्वरत्वप्रसङ्गात्। पुरुषविशेषत्वाभ्युपगमाच्चेश्वरस्य, पुरुषस्य चौदासीन्याभ्युपगमादसामञ्जस्यम्।।

सम्बन्धानुपपत्तेश्च।। 2.2.38।।

।। 2.2.38।।

पुनरप्यसामञ्जस्यमेव -- न हि प्रधानपुरुषव्यतिरिक्त ईश्वरोऽन्तरेण संबन्धं प्रधानपुरुषयोरीशिता; न तावत्संयोगलक्षणः संबन्धः संभवति, प्रधानपुरुषेश्वराणां सर्वगतत्वान्निरवयवत्वाच्च; नापि समवायलक्षणः संबन्धः, आश्रयाश्रयिभावानिरूपणात्; नाप्यन्यः कश्चित्कार्यगम्यः संबन्धः शक्यते कल्पयितुम्, कार्यकारणभावस्यैवाद्याप्यसिद्धत्वात्। ब्राहृवादिनः कथमिति चेत्, न; तस्य तादात्म्यलक्षणसंबन्धोपपत्तेः; अपि च आगमबलेन ब्राहृवादी कारणादिस्वरूपं निरूपयतीति नावश्यं तस्य यथादृष्टमेव सर्वमभ्युपगन्तव्यमिति नियमोऽस्ति; परस्य तु दृष्टान्तबलेन कारणादिस्वरूपं निरूपयतः यथादृष्टमेव सर्वमभ्युपगन्तव्यमित्ययमस्त्यतिशयः। परस्यापि सर्वज्ञप्रणीतागमसद्भावात् समानमागमबलमिति चेत्, न; इतरेतराश्रयप्रसङ्गात् -- आगमप्रत्ययात्सर्वज्ञत्वसिद्धिः सर्वज्ञत्वप्रत्ययाच्चागमसिद्धिरिति। तस्मादनुपपन्ना सांख्ययोगवादिनामीश्वरकल्पना। एवमन्यास्वपि वेदबाह्रास्वीश्वरकल्पनासु यथासंभवमसामञ्जस्यं योजयितव्यम्।।


अधिष्ठानानुपपत्तेश्च।। 2.2.39।।

।। 2.2.39।।

इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य -- स हि परिकल्प्यमानः, कुम्भकार इव मृदादीनि, प्रधानादीन्यधिष्ठाय प्रवर्तयेत्; न चैवमुपपद्यते; न ह्रप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति, मृदादिवैलक्षण्यात्।।


करणवच्चेन्न भोगादिभ्यः।। 2.2.40।।

।। 2.2.40।।

स्यादेतत् -- यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं च पुरुषोऽधितिष्ठति, एवं प्रधानमीश्वरोऽधिष्ठास्यतीति; तथापि नोपपद्यते; भोगादिदर्शनाद्धि करणग्रामस्य अधिष्ठितत्वं गम्यते; न चात्र भोगादयो दृश्यन्ते; करणग्रामसाम्ये च अभ्युपगम्यमाने संसारिणामिव ईश्वरस्यापि भोगादयः प्रसज्येरन्।।

अन्यथा वा सूत्रद्वयं व्याख्यायते -- 'अधिष्ठानानुपपत्तेश्च ' -- इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य; साधिष्ठानो हि लोके सशरीरो राजा राष्ट्रस्येश्वरो दृश्यते; न निरधिष्ठानः; अतश्च तद्दृष्टान्तवशेनादृष्टमीश्वरं कल्पयितुमिच्छतः ईश्वरस्यापि किंचिच्छरीरं करणायतनं वर्णयितव्यं स्यात्; न च तद्वर्णयितुं शक्यते, सृष्ट¬ुत्तरकालभावित्वाच्छरीरस्य, प्राक्सृष्टेस्तदनुपपत्तेः; निरधिष्ठानत्वे चेश्वरस्य प्रवर्तकत्वानुपपत्तिः, एवं लोके दृष्टत्वात्। 'करणवच्चेन्न भोगादिभ्यः ' -- अथ लोकदर्शनानुसारेण ईश्वरस्यापि किंचित्करणानामायतनं शरीरं कामेन कल्प्येत -- एवमपि नोपपद्यते; सशरीरत्वे हि सति संसारिवद्भोगादिप्रसङ्गात् ईश्वरस्याप्यनीश्वरत्वं प्रसज्येत।।


अन्तवत्त्वमसर्वज्ञता वा।। 2.2.41।।

।। 2.2.41।।

इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य -- स हि सर्वज्ञस्तैरभ्युपगम्यतेऽनन्तश्च; अनन्तं च प्रधानम्, अनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्ते; तत्र सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा, न वा परिच्छिद्येत; उभयथापि दोषोऽनुषक्त एव; कथम्? पूर्वÏस्मस्तावद्विकल्पे, इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यंभावि, एवं लोके दृष्टत्वात्; यद्धि लोके इयत्तापरिच्छिन्नं वस्तु घटादि, तदन्तवद्दृष्टम् -- तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात्; संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम्; स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येत, पुरुषगता च महासंख्या। ततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते, तेषां संसारोऽन्तवान्, संसारित्वं च तेषामन्तवत्; एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां च अन्तवत्त्वं स्यात्; प्रधानं च सविकारं पुरुषार्थमीश्वरस्य अधिष्ठेयं संसारत्वेनाभिमतम्; तच्छून्यतायाम् ईश्वरः किमधितिष्ठेत्? किंविषये वा सर्वज्ञतेश्वरते स्याताम्? प्रधानपुरुषेश्वराणाम् चैवमन्तवत्त्वे सति आदिमत्त्वप्रसङ्गः; आद्यन्तवत्त्वे च शून्यवादप्रसङ्गः। अथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्येत -- न प्रधानस्य पुरुषाणामात्मनश्च इयत्ता ईश्वरेण परिच्छिद्यत इति; तत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येत। तस्मादप्यसंगतस्तार्किकपरिगृहीत ईश्वरकारणवादः।।


उत्पत्त्यसम्भवात्।। 2.2.42।।

उत्पत्त्यसंभवाधिकरणम्।। 2.2.42।।

येषामप्रकृतिरधिष्ठाता केवलनिमित्तकारणमीश्वरोऽभिमतः, तेषां पक्षः प्रत्याख्यातः। येषां पुनः प्रकृतिश्चाधिष्ठाता च उभयात्मकं कारणमीश्वरोऽभिमतः, तेषां पक्षः प्रत्याख्यायते। ननु श्रुतिसमाश्रयणेनाप्येवंरूप एवेश्वरः प्राङ्निर्धारितः -- प्रकृतिश्चाधिष्ठाता चेति; श्रुत्यनुसारिणी च स्मृतिः प्रमाणमिति स्थितिः; तत्कस्य हेतोरेष पक्षः प्रत्याचिख्यासित इति -- उच्यते -- यद्यप्येवंजातीयकोंऽशः समानत्वान्न विसंवादगोचरो भवति, अस्ति त्वंशान्तरं विसंवादस्थानमित्यतस्तत्प्रत्याख्यानायारम्भः।।

तत्र भागवता मन्यते -- भगवानेवैको वासुदेवो निरञ्जनज्ञानस्वरूपः परमार्थतत्त्वम्; स चतुर्धात्मानं प्रविभज्य प्रतिष्ठितः -- वासुदेवव्यूहरूपेण, संकर्षणव्यूहरूपेण, प्रद्युम्नव्यूहरूपेण, अनिरुद्धव्यूहरूपेण च; वासुदेवो नाम परमात्मा उच्यते; संकर्षणो नाम जीवः; प्रद्युम्नो नाम मनः; अनिरुद्धो नाम अहंकारः; तेषां वासुदेवः परा प्रकृतिः, इतरे संकर्षणादयः कार्यम्; तमित्थंभूतं परमेश्वरं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैर्वर्षशतमिष्ट्वा क्षीणक्लेशो भगवन्तमेव प्रतिपद्यत इति। तत्र यत्तावदुच्यते -- योऽसौ नारायणः परोऽव्यक्तात्प्रसिद्धः परमात्मा सर्वात्मा, स आत्मनात्मानमनेकधा व्यूह्रावस्थित इति -- तन्न निराक्रियते, 'स एकधा भवति त्रिधा भवति ' इत्यादिश्रुतिभ्यः परमात्मनोऽनेकधाभावस्याधिगतत्वात्; यदपि तस्य भगवतोऽभिगमनादिलक्षणमाराधनमजरुामनन्यचित्ततयाभिप्रेयते, तदपि न प्रतिषिध्यते, श्रुतिस्मृत्योरीश्वरप्रणिधानस्य प्रसिद्धत्वात्। यत्पुनरिदमुच्यते -- वासुदेवात्संकर्षण उत्पद्यते, संकर्षणाच्च प्रद्युम्नः, प्रद्युम्नाच्चानिरुद्ध इति, अत्र ब्राूमः -- न वासुदेवसंज्ञकात्परमात्मनः संकर्षणसंज्ञकस्य जीवस्योत्पत्तिः संभवति, अनित्यत्वादिदोषप्रसङ्गात्; उत्पत्तिमत्त्वे हि जीवस्य अनित्यत्वादयो दोषाः प्रसज्येरन्; ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात्, कारणप्राप्तौ कार्यस्य प्रविलयप्रसङ्गात्; प्रतिषेधिष्यति च आचार्यो जीवस्योत्पत्तिम् -- 'नात्माश्रुतेर्नित्यत्वाच्च ताभ्यः ' इति। तस्मादसंगतैषा कल्पना।।


न च कर्तुः करणम्।। 2.2.43।।

।। 2.2.43।।

इतश्चासंगतैषा कल्पना -- यस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यते; वर्णयन्ति च भागवताः कर्तुर्जीवात्संकर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते, कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति; न चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः; न चैवंभूतां श्रुतिमुपलभामहे।।

विज्ञानादिभावे वा तदप्रतिषेधः।। 2.2.44।।

।। 2.2.44।।

अथापि स्यात् -- न चैते संकर्षणादयो जीवादिभावेनाभिप्रेयन्ते; किं तर्हि, ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वर्यधर्मैरन्विता अभ्युपगम्यन्ते -- वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति; तस्मान्नायं यथावर्णित उत्पत्त्यसंभवो दोषः प्राप्नोतीति। अत्रोच्यते -- एवमपि, तदप्रतिषेधः उत्पत्त्यसंभवस्याप्रतिषेधः, प्राप्नोत्येवायमुत्पत्त्यसंभवो दोषः प्रकारान्तरेणेत्यभिप्रायः; कथम्? यदि तावदयमभिप्रायः -- परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणः, नैषामेकात्मकत्वमस्तीति -- ततोऽनेकेश्वरकल्पनानर्थक्यम्, एकेनैवेश्वरेणेश्वरकार्यसिद्धेः; सिद्धान्तहानिश्च, भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात्। अथायमभिप्रायः -- एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसंभवः; न हि वासुदेवात्संकर्षणस्योत्पत्तिः संभवति, संकर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात्; भवितव्यं हि कार्यकारणयोरतिशयेन, यथा मृद्धटयोः; न ह्रसत्यतिशये, कार्यं कारणमित्यवकल्पते। न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते; वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते। न चैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन्, ब्राहृादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात्।।


विप्रतिषेधाच्च।। 2.2.45।।

।। 2.2.45।।

विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यते -- गुणगुणित्वकल्पनादिलक्षणः; ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः, आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्। वेदविप्रतिषेधश्च भवति -- चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात्। तस्मात् असंगतैषा कल्पनेति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः।।

तृतीयः पादः

[सम्पाद्यताम्]

</poem> न वियदश्रुतेः ।। 2.3.1 ।।

वियदधिकरणम्।। 2.3.1।।

किमस्याकाशस्योत्पत्तिरस्ति, उत नास्तीति। तत्र तावत्प्रतिपद्यते -- न वियदश्रुतेरिति; न खल्वाकाशमुत्पद्यते; कस्मात्? अश्रुतेः -- न ह्रस्योत्पत्तिप्रकरणे श्रवणमस्ति; छान्दोग्ये हि 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' इति सच्छब्दवाच्यं ब्राहृ प्रकृत्य, 'तदैक्षत ' 'तत्तेजोऽसृजत ' इति च पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते; श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ; न च अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी; तस्मान्नाकाशस्योत्पत्तिरिति।।


अस्ति तु।। 2.3.2।।

।। 2.3.2।।

तु-शब्दः पक्षान्तरपरिग्रहे; मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः; श्रुत्यन्तरे त्वस्ति; तैत्तिरीयका हि समामनन्ति -- 'सत्यं ज्ञानमनन्तं ब्राहृ ' इति प्रकृत्य, 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इति। ततश्च श्रुत्योर्विप्रतिषेधः -- क्वचित्तेजःप्रमुखा सृष्टिः, क्वचिदाकाशप्रमुखेति। नन्वेकवाक्यता अनयोः श्रुत्योर्युक्ता; सत्यं सा युक्ता, न तु सा अवगन्तुं शक्यते; कुतः? 'तत्तेजोऽसृजत ' इति सकृच्छØतस्य रुाष्टुः रुाष्टव्यद्वयेन संबन्धानुपपत्तेः -- 'तत्तेजोऽसृजत ' 'तदाकाशमसृजत ' इति। ननु सकृच्छØतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते -- यथा सः सूपं पक्त्वा ओदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि; नैवं युज्यते; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते; तैत्तिरीयके च आकाशस्य; न च उभयोः प्रथमजत्वं संभवति; एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः -- 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इत्यत्रापि -- तस्मादाकाशः संभूतः, तस्मात्तेजः संभूतम् -- इति सकृच्छØतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः, 'वायोरग्निः ' इति च पृथगाम्नानात्।।

अस्मिन्विप्रतिषेधे कश्चिदाह --


गोण्यसम्भवात्।। 2.3.3।।

।। 2.3.3।।

नास्ति वियत उत्पत्तिः, अश्रुतेरेव। या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाह्मता, सा गौणी भवितुमर्हति; कस्मात्? असंभवात्। न ह्राकाशस्योत्पत्तिः संभावयितुं शक्या, श्रीमत्कणभुगभिप्रायानुसारिपु जीवत्सु; ते हि कारणसामग्र्यसंभवादाकाशस्योत्पतिं्त वारयन्ति; समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते; द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति; न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति; यस्मिन्समवायिकारणे सति, असमवायिकारणे च तत्संयोगे, आकाश उत्पद्येत; तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति। उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकालयोर्विशेषः संभाव्यते -- प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव, पश्चाच्च भवतीति; आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते; किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम्? पृथिव्यादिवैधम्र्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिः। तस्माद्यथा लोके -- आकाशं कुरु, आकाशो जातः- इत्येवंजातीयको गौणः प्रयोगो भवति, यथा च-घटाकाशः, करकाकाशः गृहाकाशः -- इत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवति -- वेदेऽपि 'आरण्यानाकाशेष्वालभेरन् ' इति; एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या।।


शब्दाच्च।। 2.3.4।।

।। 2.3.4।।

शब्दः खल्वप्याकाशस्य अजत्वं ख्यापयति, यत आह -- 'वायुश्चान्तरिक्षं चैतदमृतम् ' इति; न ह्रमृतस्योत्पत्तिरुपपद्यते; 'आकाशवत्सर्वगतश्च नित्यः ' इति च आकाशेन ब्राहृ सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति; न च तादृशस्योत्पत्तिरुपपद्यते। 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः ' इति च उदाहरण् -- - 'आकाशशरीरं ब्राहृ ' 'आकाश आत्मा ' इति च। न ह्राकाशस्योत्पत्तिमत्त्वे ब्राहृणस्तेन विशेषणं संभवति -- नीलेनेवोत्पलस्य। तस्मान्नित्यमेवाकाशेन साधारणं ब्राहृेति गम्यते।।


स्याच्चैकस्य ब्राहृशब्दवत्।। 2.3.5।।

।। 2.3.5।।

इदं पदोत्तरं सूत्रम्। स्यादेतत्। कथं पुनरेकस्य संभूतशब्दस्य 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभवति, आकाशे च गौणत्वमिति। अत उत्तरमुच्यते -- स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यश्च प्रयोगः -- ब्राहृशब्दवत्; यथैकस्यापि ब्राहृशब्दस्य 'तपसा ब्राहृ विजिज्ञासस्व तपो ब्राहृ ' इत्यस्मिन्नधिकारेऽन्नादिषु गौणः प्रयोगः, आनन्दे च मुख्यः; यथा च तपसि ब्राहृविज्ञानसाधने ब्राहृशब्दो भक्त्या प्रयुज्यते, अञ्जसा तु विज्ञेये ब्राहृणि -- तद्वत्। कथं पुनरनुत्पत्तौ नभसः 'एकमेवाद्वितीयम् ' इतीयं प्रतिज्ञा समथ्र्यते? ननु नभसा द्वितीयेन सद्वितीयं ब्राहृ प्राप्नोति; कथं च ब्राहृणि विदिते सर्वं विदितं स्यादिति, तदुच्यते -- 'एकमेव ' इति तावत्स्वकार्यापेक्षयोपपद्यते; यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि च उपलभ्य अपरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्राूयात् -- 'मृदेवैकाकिनी पूर्वेद्युरासीत् ' इति, स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयात्, न दण्डचक्रादि -- तद्वदद्वितीयश्रुतिरधिष्ठात्रन्तरं वारयति -- यथा मृदोऽमत्रप्रकृतेः कुम्भकारोऽधिष्ठाता दृश्यते, नैवं ब्राहृणो जगत्प्रकृतेरन्योऽधिष्ठाता अस्तीति। न च नभसापि द्वितीयेन सद्वितीयं ब्राहृ प्रसज्यते; लक्षणान्यत्वनिमित्तं हि नानात्वम्; न च प्रागुत्पत्तेब्र्राहृनभसोर्लक्षणान्यत्वमस्ति -- क्षीरोदकयोरिव संसृष्टयोः -- व्यापित्वामूर्तत्वादिधर्मसामान्यात्; सर्गकाले तु ब्राहृ जगदुत्पादयितुं यतते, स्तिमितमितरत्तिष्ठति, तेनान्यत्वमवसीयते; तथा च 'आकाशशरीरं ब्राहृ ' इत्यादिश्रुतिभ्योऽपि ब्राहृाकाशयोरभेदोपचारसिद्धिः; अत एव च ब्राहृविज्ञानेन सर्वविज्ञानसिद्धिः; अपि च सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्राहृणा च अव्यतिरिक्तदेशकालमेवाकाशं भवतीति -- अतो ब्राहृणा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति -- यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति; न हि क्षीरग्रहणादब्बिन्दुग्रहणं परिशिष्यते; एवं ब्राहृणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वात् गृहीतमेव ब्राहृग्रहणेन नभो भवति। तस्माद्भाक्तं नभसः संभवश्रवणमिति।।

एवं प्राप्ते, इदमाह --


प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः।। 2.3.6।।

।। 2.3.6।।

'येनाश्रुत#्ँश्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् ' इति, 'आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम् ' इति, 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ' इति, 'न काचन मद्बहिर्धा विद्यास्ति ' इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते; तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात्, यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्राहृणः स्यात्; व्यतिरेके हि सति एकविज्ञानानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत। स चाव्यतिरेक एवमुपपद्यते, यदि कृत्स्नं वस्तुजातमेकस्माद्ब्राहृण उत्पद्येत। शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते; तथा हि -- 'येनाश्रुत#्ँश्रुतं भवति ' इति प्रतिज्ञाय, मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समथ्र्यते; तत्साधनायैव चोत्तरे शब्दाः -- 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' 'तदैक्षत ' 'तत्तेजोऽसृजत ' इत्येवं कार्यजातं ब्राहृणः प्रदश्र्य, अव्यतिरेकं प्रदर्शयन्ति -- 'ऐतदात्म्यमिद#्ँसर्वम् ' इत्यारभ्य आ प्रपाठकपरिसमाप्तेः; तद्यद्याकाशं न ब्राहृकार्यं स्यात्, न ब्राहृणि विज्ञाते आकाशं विज्ञायेत; ततश्च प्रतिज्ञाहानिः स्यात्; न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम्। तथा हि प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ज्ञापयन्ति -- 'इदं सर्वं यदयमात्मा ' 'ब्राहृैवेदममृतं पुरस्तात् ' इत्येवमादयः; तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते।।

यदुक्तम् -- अश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तम्, वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् -- 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इति। सत्यं दर्शितम्, विरुद्धं तु 'तत्तेजोऽसृजत ' इत्यनेन श्रुत्यन्तरेण; न, एकवाक्यत्वात्सर्वश्रुतीनाम्। भवत्वेकवाक्यत्वमविरुद्धानाम्; इह तु विरोध उक्तः -- सकृच्छØतस्य रुाष्टुः रुाष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति -- नैष दोषः, तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् -- 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः, आकाशाद्वायुः, वायोरग्निः ' इति; अशक्या हीयं श्रुतिरन्यथा परिणेतुम्; शक्या तु परिणेतुं छान्दोग्यश्रुतिः -- तदाकाशं वायुं च सृष्ट्वा 'तत्तेजोऽसृजत ' इति; न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पतिं्त वारयितुं शक्नोति, एकस्य वाक्यस्य व्यापारद्वयासंभवात्; रुाष्टा त्वेकोऽपि क्रमेणानेकं रुाष्टव्यं सृजेत् -- इत्येकवाक्यत्वकल्पनायां संभवन्त्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या; न चास्माभिः सकृच्छØतस्य रुाष्टुः रुाष्टव्यद्वयसंबन्धोऽभिप्रेयते, श्रुत्यन्तरवशेन रुाष्टव्यान्तरोपसंग्रहात्; यथा च 'सर्वं खल्विदं ब्राहृ तज्जलान् ' इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्राहृजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसोऽपि ब्राहृजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति। ननु शमविधानार्थमेतद्वाक्यम् -- 'तज्जलानिति शान्त उपासीत ' इति श्रुतेः; नैतत्सृष्टिवाक्यम्; तस्मादेतन्न प्रदेशान्तरप्रसिद्धं क्रममनुरोद्धुमर्हतीति; 'तत्तेजोऽसृजत ' इत्येतत्सृष्टिवाक्यम्; तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति। नेत्युच्यते; न हि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य; अपि च 'तत्तेजोऽसृजत ' इति नात्र क्रमस्य वाचकः कश्चिच्छब्दोऽस्ति; अर्थात्तु क्रमो गम्यते; स च 'वायोरग्निः ' इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते; विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितो; तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः। अपि च छान्दोग्ये 'येनाश्रुतं श्रुतं भवति ' इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियत् उत्पत्तावुपसंख्यातव्यम्; किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्रते। यच्चोक्तम् -- आकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्राहृणा तत्कार्यैश्च सह विदितमेव तद्भवति; अतो न प्रतिज्ञा हीयते; न च 'एकमेवाद्वितीयम् ' इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्राहृनभसोरव्यतिरेकोपपत्तेरिति। अत्रोच्यते -- न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम्; मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते; क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात्; न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति; न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते; सावधारणा चेयम् 'एकमेवाद्वितीयम् ' इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड¬ेत। न च स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेवाद्वितीयतावधारणं चेति न्याय्यम्, मृदादिष्वपि हि तत्संभवात् -- न तदपूर्ववदुपन्यसितव्यं भवति -- 'श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवति ' इत्यादिना। तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्राहृकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम्।।

यत्पुनरेतदुक्तम् -- असंभवाद्गौणी गगनस्योत्पत्तिश्रुतिरिति, अत्र ब्राूमः --


यावद्विकारं तु विभागो लोकवत्।। 2.3.7।।

।। 2.3.7।।

तु-शब्दोऽसंभवाशङ्काव्यावृत्त्यर्थः। न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या; यतो यावÏत्कचिद्विकारजातं दृश्यते -- घटघटिकोदञ्चनादि वा, कटककेयूरकुण्डलादि वा, सूचीनाराचनिÏस्त्रशादि वा -- तावानेव विभागो लोके लक्ष्यते; न त्वविकृतं किंचित्कुतश्चिद्विभक्तमुपलभ्यते; विभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यते; तस्मात्सोऽपि विकारो भवितुमर्हति। एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम्। नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति; न, ठ आत्मन आकाशः संभूतः ' इति श्रुतेः; यदि ह्रात्मापि विकारः स्यात्, तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात्; तथा च शून्यवादः प्रसज्येत; आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः न ह्रात्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात्; न ह्रात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यति; तस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धये उपादीयन्ते; न ह्राकाशादयः पदार्थाः प्रमाणनिरपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्ते; आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति; न चेदृशस्य निराकरणं संभवति; आगन्तुकं हि वस्तु निराक्रियते, न स्वरूपम्; य एव हि निराकर्ता तदेव तस्य स्वरूपम्; न ह्रग्नेरौष्ण्यमग्निना निराक्रियते; तथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम्, अहमेवानागतमनागततरं च ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात्; तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः; वर्तमानस्वभावादन्यस्वभावत्वं वा न संभावयितुं शक्यम्; एवमप्रत्याख्येयस्वभावत्वादकार्यत्वमात्मानः, कार्यत्वं च आकाशस्य।।

यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते -- न तावत्समानजातीयमेवारभते, न भिन्नजातीयमिति नियमोऽस्ति; न हि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात्; न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति। स्यादेतत् -- समवायिकारणविषय एव समानजातीयत्वाभ्युपगमः, न कारणान्तरविषय इति; तदप्यनैकान्तिकम्; सूत्रगोवालैह्र्रनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते; तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते; सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम्, सर्वस्य सर्वेण समानजातीयकत्वात्। नाप्यनेकमेवारभते, नैकम् -- इति नियमोऽस्ति; अणुमनसोराद्यकर्मारम्भाभ्युपगमात्। एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते, न द्रव्यान्तरैः संहत्य -- इत्यभ्युपगम्यते। द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत्, न; परिणामाभ्युपगमात्। भवेदेष नियमः -- यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत; तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते; तच्च क्वचिदनेकं परिणमते मृद्बीजादि, अङ्कुरादिभावेन; क्वचिदेकं परिणमते क्षीरादि, दध्यादिभावेन; नेश्वरशासनमिति -- अनेकमेव कारणं कार्यं जनयतीति। अतः श्रुतिप्रामाण्यादेकस्माद्ब्राहृण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते; तथा चोक्तम् -- 'उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ' इति।।

यच्चोक्तम् आकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यत इति, तदयुक्तम्; येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते, स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते; यथा च ब्राहृ न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत् -- 'अस्थूलमनणु ' इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते; तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम्। यदप्युक्तं पृथिव्यादिवैधम्र्यादाकाशस्याजत्वमिति, तदप्यसत्, श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्तेः, उत्पत्त्यनुमानस्य च दर्शितत्वात्; अनित्यमाकाशम्, अनित्यगुणाश्रयत्वात्, घटादिवदित्यादिप्रयोगसंभवाच्च; आत्मन्यनैकान्तिकमिति चेत्, न; तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः; विभुत्वादीनां च आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात्। यच्चोक्तमेतत् -- शब्दाच्चेति -- तत्रामृतत्वश्रुतिस्तावद्वियति 'अमृता दिवौकसः ' इतिवद्द्रष्टव्या; उत्पत्तिप्रलययोरुपपादितत्वात्; 'आकाशवत्सर्वगतश्च नित्यः ' इत्यपि प्रसिद्धमहत्त्वेनाकाशोपमानं क्रियते निरतिशयमहत्त्वाय, न आकाशसमत्वाय -- यथा 'इषुरिव सविता धावति ' इति क्षिप्रगतित्वायोच्यते, न इषुतुल्यगतित्वाय -- तद्वत्; एतेनानन्तत्वोपमानश्रुतिव्र्याख्याता; 'ज्यायानाकाशात् ' इत्यादिश्रुतिभ्यश्च ब्राहृणः सकाशादाकाशस्योनपरिमाणत्वसिद्धिः 'न तस्य प्रतिमास्ति ' इति च ब्राहृणोऽनुपमानत्वं दर्शयति; 'अतोऽन्यदार्तम् ' इति च ब्राहृणोऽन्येषामाकाशादीनामार्तत्वं दर्शयति। तपसि ब्राहृशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिह्मतम्। तस्माद्ब्राहृकार्यं वियदिति सिद्धम्।।


एतेन मातरिश्वा व्याख्यातः।। 2.3.8।।

मातरिश्वाधिकरणम्।। 2.3.8।।

अतिदेशोऽयम्। एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुव्र्याख्यातः। तत्राप्येते यथायोगं पक्षा रचयितव्याः -- न वायुरुत्पद्यते, छन्दोगानामुत्पत्तिप्रकरणेऽनाम्नानादित्येकः पक्षः, अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरणे आम्नानम् 'आकाशाद्वायुः ' -- इति पक्षान्तरम्; ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिः, असंभवात् इत्यपरोऽभिप्रायः; असंभवश्च 'सैषानस्तमिता देवता यद्वायुः ' इत्यस्तमयप्रतिषेधादमृतत्वादिश्रवणाच्च। प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः। अस्तमयप्रतिषेधोऽपरविद्याविषय आपेक्षिकः, अग्न्यादीनामिव वायोरस्तमयाभावात्। कृतप्रतिविधानं च अमृतत्वादिश्रवणम्। ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति, उच्यते -- सत्यमेवमेतत्; तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थोऽयमतिदेशः क्रियते -- संवर्गविद्यादिषु ह्रुपास्यत वायोर्महाभागत्वश्रवणात् अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति।।


असम्भवस्तु सतोऽनुपपत्तेः।। 2.3.9।।

असंभवाधिकरणम्।। 2.3.9।।

वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य, ब्राहृणोऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः; तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्य, आकाशस्यापि विकारादेव ब्राहृण उत्पत्तिरिति कश्चिन्मन्येत; तामाशङ्कामपनेतुमिदं सूत्रम् -- असंभवस्त्विति। न खलु ब्राहृणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या; कस्मात्? अनुपपत्तेः। सन्मात्रं हि ब्राहृ; न तस्य सन्मात्रादेवोत्पत्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः; नापि सद्विशेषात्, दृष्टविपर्ययात् -- सामान्याद्विशेषा उत्पद्यमाना दृश्यन्ते, मृदादेर्घटादयः, न तु विशेषेभ्यः सामान्यम्; नाप्यसतः, निरात्मकत्वात्; 'कथमसतः सज्जायेत ' इति च आक्षेपश्रवणात्। 'स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ' इति च ब्राहृणो जनयितारं वारयति। वियत्पवनयोः पुनरुत्पत्तिः प्रदर्शिता, न तु ब्राहृणः सा अस्तीति वैषम्यम्। न च विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्राहृणोऽपि विकारत्वं भवितुमर्हति, मूलप्रकृत्यनभ्युपगमेऽनवस्थाप्रसङ्गात्; या मूलप्रकृतिरभ्युपगम्यते, तदेव च नो ब्राहृेत्यविरोधः।।


तेजोऽतस्तथाह्राह।। 2.3.10।।

तेजोऽधिकरणम्।। 2.3.10।।

छान्दोग्ये सन्मूलत्वं तेजसः श्रावितम्, तैत्तिरीयके तु वायुमूलत्वम्; तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्याम्, प्राप्तं तावद्ब्राहृयोनिकं तेज इति। कुतः? 'सदेव ' इत्युपक्रम्य 'तत्तेजोऽसृजत ' इत्युपदेशात्; सर्वविज्ञानप्रतिज्ञायाश्च, ब्राहृप्रभवत्वे सर्वस्य, संभवात्; 'तज्जलान् ' इति च अविशेषश्रुतेः; 'एतस्माज्जायते प्राणः ' इति च उपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्राहृजत्वोपदेशात्; तैत्तिरीयके च 'स तपस्तप्त्वा। इदं सर्वमसृजत। यदिदं किंच ' इत्यविशेषश्रवणात्; तस्मात् -- 'वायोरग्निः ' इति क्रमोपदेशो द्रष्टव्यः -- वायोरनन्तरमग्निः संभूत इति --

एवं प्राप्ते, उच्यते -- तेजः अतः मातरिश्वनः जायत इति; कस्मात्? तथा ह्राह -- 'वायोरग्निः ' इति। अव्यवहिते हि तेजसो ब्राहृजत्वे सति, असति वायुजत्वे 'वायोरग्निः ' इतीयं श्रुतिः कदर्थिता स्यात्। ननु क्रमार्थैषा भविष्यतीत्युक्तम्; नेति ब्राूमः -- 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इति पुरस्तात् संभवत्यपादानस्य आत्मनः पञ्चमीनिर्देशात्, तस्यैव च संभवतेरिहाधिकारात्, परस्तादपि तदधिकारे 'पृथिव्या ओषधयः ' इत्यपादानपञ्चमीदर्शनात्, 'वायोरग्निः ' इत्यपादानपञ्चम्येवैषेति गम्यते; अपि च, वायोरूध्र्वमग्निः संभूतः -- इति कल्प्यः उपपदार्थयोगः, क्लृप्तस्तु कारकार्थयोगः -- वायोरग्निः संभूतः इति; तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयति। नन्वितरापि श्रुतिब्र्राहृयोनित्वं तेजसोऽवगमयति -- 'तत्तेजोऽसृजत ' इति; न, तस्याः पारंपर्यजत्वेऽप्यविरोधात्; यदापि ह्राकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्राहृ तेजोऽसृजतेति कल्प्यते, तदापि ब्राहृजत्वं तेजसो न विरुध्यते, यथा -- तस्याः श्रृतम्, तस्या दधि, तस्या आमिक्षेत्यादि; दर्शयति च ब्राहृणो विकारात्मनावस्थानम् -- 'तदात्मान#्ँस्वयमकुरुत ' इति; तथा च ईश्वरस्मरणं भवति -- 'बुद्धिज्र्ञानमसंमोहः ' इत्याद्यनुक्रम्य 'भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ' इति। यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड¬ा वा ईश्वरवंश्यत्वात्; एतेनाक्रमसृष्टिवादिन्यः श्रुतयो व्याख्याताः, तासां सर्वथोपपत्तेः, क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः। प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते, न अव्यवहितजन्यत्वम् -- इत्यविरोधः।।


आपः।। 2.3.11।।

अबधिकरणम्।। 2.3.11।।

'अतस्तथा ह्राह ' इत्यनुवर्तते; आपः, अतः तेजसः, जायन्ते; कस्मात्? तथा ह्राह -- 'तदपोऽसृजत ' इति, 'अग्नेरापः ' इति च; सति वचने नास्ति संशयः। तेजसस्तु सृÏष्ट व्याख्याय पृथिव्या व्याख्यास्यन्, अपोऽन्तरियामिति 'आपः ' इति सूत्रयांबभूव।।


पृथिव्यधिकाररूपशब्दान्तरेभ्यः।। 2.3.12।।

पृथिव्यधिकाराधिकरणम्।। 2.3.12।।

'ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त ' इति श्रूयते; तत्र संशयः -- किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यं वा ओदनाद्युच्यते, किं वा पृथिवीति; तत्र प्राप्तं तावत् -- व्रीहियवादि ओदनादि वा परिग्रहीतव्यमिति; तत्र ह्रन्नशब्दः प्रसिद्धो लोके; वाक्यशेषोऽप्येतमर्थमुपोद्बलयति -- 'तस्माद्यत्र क्वचन वर्षति तदेव भूयिष्ठमन्नं भवति ' इति -- व्रीहियवाद्येव हि सति वर्षणे बहु भवति, न पृथिवीति।।

एवं प्राप्ते, ब्राूमः -- पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति; कस्मात्? अधिकारात्, रूपात्, शब्दान्तराच्च। अधिकारस्तावत् -- 'तत्तेजोऽसृजत ' 'तदपोऽसृजत ' इति महाभूतविषयो वर्तते; तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्रादिपरिग्रहो न्याय्यः। तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते -- 'यत्कृष्णं तदन्नस्य ' इति; न ह्रोदनादेरभ्यवहार्यस्य कृष्णत्वनियमोऽस्ति, नापि व्रीह्रादीनाम्। ननु पृथिव्या अपि नैव कृष्णत्वनियमोऽस्ति, पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात्; नायं दोषः -- बाहुल्यापेक्षत्वात्; भूयिष्ठं हि पृथिव्याः कृष्णं रूपम्, न तथा श्वेतरोहिते; पौराणिका अपि पृथिवीछायां शर्वरीमुपदिशन्ति, सा च कृष्णाभासा -- इत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते। श्रुत्यन्तरमपि समानाधिकारम् -- 'अदभ्यः पृथिवी ' इति भवति, 'तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत् ' इति च; पृथिव्यास्तु व्रीह्रादेरुत्पतिं्त दर्शयति -- 'पृथिव्या ओषधय ओषधीभ्योऽन्नम् ' इति च। एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्रादिप्रतिपत्तिः? प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते; वाक्यशेषोऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम्। तस्मात्पृथिवीयमन्नशब्देति।।


तदभिध्यानादेव तु तल्लिङ्गात्सः।। 2.3.13।।

तदभिध्यानाधिकरणम्।। 2.3.13।।

किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्ति, आहोस्वित्परमेश्वर एव तेन तेन आत्मनावतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति संदेहे सति, प्राप्तं तावत् -- स्वयमेव सृजन्तीति; कुतः? 'आकाशाद्वायुर्वायोरग्निः ' इत्यादिस्वातन्त्र्यश्रवणात्। ननु अचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा; नैष दोषः -- 'तत्तेज ऐक्षत ता आप ऐक्षन्त ' इति च भूतानामपि चेतनत्वश्रवणादिति।।

एवं प्राप्ते, अभिधीयते -- स एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीति; कुतः? तल्लिङ्गात्। तथा हि शास्त्रम् -- 'यः पृथिव्यां तिष्ठन्यः पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति ' इत्येवंजातीयकम् -- साध्यक्षाणामेव भूतानां प्रवृतिं्त दर्शयति; तथा 'सोऽकामयत बहु स्यां प्रजायेयेति ' इति प्रस्तुत्य, 'सच्च त्यच्चाभवत्, तदात्मानं स्वयमकुरुत ' इति च तस्यैव च सर्वात्मभावं दर्शयति। यत्तु ईक्षणश्रवणमप्तेजसोः, तत्परमेश्वरावेशवशादेव द्रष्टव्यम् -- 'नान्योऽतोऽस्ति द्रष्टा ' इतीक्षित्रन्तरप्रतिषेधात्, प्रकृतत्वाच्च सत ईक्षितुः 'तदैक्षत बहु स्यां प्रजायेयेति ' इत्यत्र।।


विपर्ययेण तु क्रमोऽत उपपद्यते च।। 2.3.14।।

विपर्ययाधिकरणम्।। 2.3.14।।

भूतानामुत्पत्तिक्रमश्चिन्तितः; अथेदानीम् अप्ययक्रमश्चिन्त्यते -- किमनियतेन क्रमेणाप्ययः, उत उत्पत्तिक्रमेण, अथवा तद्विपरीतेनेति। त्रयोऽपि च उत्पत्तिस्थितिप्रलया भूतानां ब्राहृायत्ताः श्रूयन्ते -- 'यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति ' इति। तत्रानियमोऽविशेषादिति प्राप्तम्; अथवा उत्पत्तेः क्रमस्य श्रुतत्वात्प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति।।

एवं प्राप्तं ततो ब्राूमः -- विपर्ययेण तु प्रलयक्रमः, अतः उत्पत्तिक्रमात्, भवितुमर्हति; तथा हि लोके दृश्यते -- येन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीति; अपि च दृश्यते -- मृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति। अतश्चोपपद्यत एतत् -- यत्पृथिवी अद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तौ अपः अपीयात्; आपश्च तेजसो जाताः सत्यः तेजः अपीयुः; एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तरमनन्तरतरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्राहृाप्येतीति वेदितव्यम्; न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः। स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः -- - 'जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते। ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ' इत्येवमादौ। उत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति; न च असौ अयोग्यत्वादप्ययेनाकाङ्क्ष्यते; न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणाप्यये कार्यस्यावस्थानानुपपत्तेः; कार्याप्यये तु कारणस्यावस्थानं युक्तम् -- मृदादिष्वेवं दृष्टत्वात्।।

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति चेन्नाविशेषात्।। 2.3.15।।

अन्तराविज्ञानाधिकरणम्।। 2.3.15।।

भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम्; आत्मादिरुत्पत्तिः प्रलयश्चात्मान्तः -- इत्यप्युक्तम्। सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः -- 'बुदिं्ध तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुः ' इत्यादिलिङ्गेभ्यः; तयोरपि कÏस्मश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्रौ, सर्वस्य वस्तुजातस्य ब्राहृजत्वाभ्युपगमात्। अपि च आथर्वणे उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते -- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुज्र्योतिरापः पृथिवी विश्वस्य धारिणी ' इति। तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत्, न; अविशेषात् -- यदि तावद्भौतिकानि करणानि, ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम्; भवति च भौतिकत्वे लिङ्गं करणानाम् -- 'अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् ' इत्येवंजातीयकम्; व्यपदेशोऽपि क्वचिद्भूतानां करणानां च ब्रााहृणपरिव्राजकन्यायेन नेतव्यः। अथ त्वभौतिकानि करणानि, तथापि भूतोत्पत्तिक्रमो न करणैर्विशिष्यते -- प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि, प्रथमं वा भूतान्युत्पद्यन्ते चरमं करणानीति; आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च, न तत्रोत्पत्तिक्रम उच्यते; तथा अन्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते -- 'प्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनोऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजत ' इत्यादिना। तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः।।


चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्।। 2.3.16।।

चराचरव्यपाश्रयाधिकरणम्।। 2.3.16।।

स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवंजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्च -- इति स्यात्कस्यचिद्भ्रान्तिः; तामपनुदामः। न जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसंबन्धोपपत्तेः; शरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्थकौ स्याताम्; श्रूयते च -- 'जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते ' इति। ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः; सत्यं दर्शितः; भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः। किमाश्रयः पुनरयं मुख्यः, यदपेक्षया भाक्त इति? उच्यते -- चराचरव्यपाश्रयः; स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ; स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते च; अतस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते, तद्भावभावित्वात् -- शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतः, नासतोः; न हि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते; 'स वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाणः ' इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति। जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम्, अभावाज्जीवप्रादुर्भावस्य। जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति; देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्तः इत्येतदनेन सूत्रेणावोचत्।।

नात्माऽश्रुतेर्नित्यत्वाच्च ताभ्यः।। 2.3.17।।

आत्माधिकरणम्।। 2.3.17।।

अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसंबन्धी; स किं व्योमादिवदुत्पद्यते ब्राहृणः, आहोस्विद्ब्राहृवदेव नोत्पद्यते, इति श्रुतिविप्रतिपत्तेर्विशयः; कासुचिच्छØतिषु अग्निविस्फुलिङ्गादिनिदर्शनैः र्जीवात्मनः परस्माद्ब्राहृण उत्पत्तिराम्नायते; कासुचित्तु अविकृतस्यैव परस्य ब्राहृणः कार्यप्रवेशेन जीवभावो विज्ञायते, न च उत्पत्तिराम्नायत इति। तत्र प्राप्तं तावत् -- उत्पद्यते जीव इति; कुतः? प्रतिज्ञानुपरोधादेव। 'एकस्मिन्विदिते सर्वमिदं विदितम् ' इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्राहृप्रभवत्वे सति नोपरुध्येत, तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत। न च अविकृतः परमात्मैव जीव इति शक्यते विज्ञातुम्, लक्षणभेदात् -- अपहतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः। विभागाच्चास्य विकारत्वसिद्धिः -- यावान् हि आकाशादिः प्रविभक्तः, स सर्वो विकारः; तस्य च आकाशादेरुत्पत्तिः समधिगता; जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक् प्रतिशरीरं प्रविभक्त इति, तस्यापि प्रपञ्चोत्पत्त्यवसरे उत्पत्तिर्भवितुमर्हति। अपि च 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः ' इति प्राणादेर्भोग्यजातस्य सृÏष्ट शिष्ट्वा 'सर्व एत आत्मानो व्युच्चरन्ति ' इति भोक्तॄणामात्मनां पृथक्सृÏष्ट शास्ति। 'यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहरुाशः प्रभवन्ते सरूपाः। तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ' इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते, सरूपवचनात् -- जीवात्मानो हि परमात्मना सरूपा भवन्ति, चैतन्ययोगात्; न च क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति, श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात्। प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या -- 'तदात्मानं स्वयमकुरुत ' इत्यादिवत्। तस्मादुत्पद्यते जीव इति।।

एवं प्राप्ते, ब्राूमः -- नात्मा जीव उत्पद्यत इति; कस्मात्? अश्रुतेः; न ह्रस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु। ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयतीत्युक्तम्; सत्यमुक्तम्; उत्पत्तिरेव त्वस्य न संभवतीति वदामः; कस्मात्? नित्यत्वाच्च ताभ्यः -- च-शब्दादजत्वादिभ्यश्च -- नित्यत्वं ह्रस्य श्रुतिभ्योऽवगम्यते, तथा अजत्वम् अविकारित्वम् अविकृतस्यैव ब्राहृणो जीवात्मनावस्थानं ब्राहृात्मना चेति; न चैवंरूपस्योत्पत्तिरुपपद्यते। ताः काः श्रुतयः? -- 'न जीवो म्रियते ' 'स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्राहृ ' 'न जायते म्रियते वा विपश्चित् ' 'अजो नित्यः शाश्वतोऽयं पुराणः ' 'तत्सृष्ट्वा तदेवानुप्राविशत् ' 'अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ' 'स एष इह प्रविष्ट आ नखाग्रेभ्यः ' 'तत्त्वमसि ' 'अहं ब्राहृास्मि ' 'अयमात्मा ब्राहृ सर्वानुभूः ' इत्येवमाद्या नित्यत्ववादिन्यः सत्यः जीवस्योत्पतिं्त प्रतिबध्नन्ति। ननु प्रविभक्तत्वाद्विकारः, विकारत्वाच्चोत्पद्यते -- इत्युक्तम्; अत्रोच्यते -- नास्य प्रविभागः स्वतोऽस्ति, 'एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ' इति श्रुतेः; बुद्ध्याद्युपाधिनिमित्तं तु अस्य प्रविभागप्रतिभानम्, आकाशस्येव घटादिसंबन्धनिमित्तम्; तथा च शास्त्रम् -- 'स वा अयमात्मा ब्राहृ विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः ' इत्येवमादि -- ब्राहृण एवाविकृतस्य सतोऽस्यैकस्यानेकबुद्ध्यादिमयत्वं दर्शयति; तन्मयत्वं च अस्य तद्विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वम् -- स्त्रीमयो जाल्म इत्यादिवत् -- द्रष्टव्यम्। यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणम्, तदप्यत एवोपाधिसंबन्धान्नेतव्यम् -- उपाध्युत्पत्त्या अस्योत्पत्तिः, तत्प्रलयेन च प्रलय इति; तथा च दर्शयति -- 'प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति ' इति; तथोपाधिप्रलय एवायम्, नात्मविलयः -- इत्येतदपि -- 'अत्रैव मा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि ' -- न प्रेत्य संज्ञास्ति -- इति प्रश्नपूर्वकं प्रतिपादयति -- 'न वा अरेऽहं मोहं ब्रावीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ' -- मात्रासंसर्गस्त्वस्य भवति -- इति। प्रतिज्ञानुपरोधोऽप्यविकृतस्यैव ब्राहृणो जीवभावाभ्युपगमात्; लक्षणभेदोऽप्यनयोरुपाधिनिमित्त एव, 'अत ऊध्र्वं विमोक्षायैव ब्राूहि ' इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात्। तस्मात् नैवात्मोत्पद्यते प्रविलीयते चेति।।


ज्ञोऽत एव।। 2.3.18।।

ज्ञाधिकरणम्।। 2.3.18।।

स किं काणभुजानामिवागन्तुकचैतन्यः, स्वतोऽचेतनः, आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एव, इति वादिविप्रतिपत्तेः संशयः। किं तावत्प्राप्तम्? आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजम्, अग्निघटसंयोगजरोहितादिगुणवदिति प्राप्तम्; नित्यचैतन्यत्वे हि सुप्तमूर्छितग्रहाविष्टानामपि चैतन्यं स्यात्; ते पृष्टाः सन्तः 'न किंचिद्वयं चेतयेमहि ' इति जल्पन्ति; स्वस्थाश्च चेतयमाना दृश्यन्ते; अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति।।

एवं प्राप्ते, अभिधीयते -- ज्ञः नित्यचैतन्योऽयमात्मा -- अत एव -- यस्मादेव नोत्पद्यते, परमेव ब्राहृ अविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते; परस्य हि ब्राहृणश्चैतन्यस्वरूपत्वमाम्नातम् -- 'विज्ञानमानन्दं ब्राहृ ' 'सत्यं ज्ञानमनन्तं ब्राहृ ' 'अनन्तरोऽबाह्रः कृत्स्नः प्रज्ञानघन एव ' इत्यादिषु श्रुतिषु; तदेव चेत्परं ब्राहृ जीवः, तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते। विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति -- 'असुप्तः सुप्तानभिचाकशीति ' 'अत्रायं पुरुषः स्वयंज्योतिर्भवति ' इति, 'न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते ' इत्येवंरूपाः। 'अथ यो वेदेदं जिघ्राणीति स आत्मा ' इति च -- सर्वैः करणद्वारैः 'इदं वेद, इदं वेद ' इति विज्ञानेनानुसंधानात् तद्रूपत्वसिद्धिः। नित्यचैतन्यस्वरूपत्वे घ्राणाद्यानर्थक्यमिति चेत्, न, गन्धादिविषयविशेषपरिच्छेदार्थत्वात्; तथा हि दर्शयति -- 'गन्धाय घ्राणम् ' इत्यादि। यत्तु सुप्तादयो न चेतयन्त इति, तस्य श्रुत्यैव परिहारोऽभिहितः सुषुप्तं प्रकृत्य -- 'यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति; न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ' इत्यादिना; एतदुक्तं भवति -- विषयाभावादियमचेतयमानता, न चैतन्याभावादिति -- यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्याभावादनभिव्यक्तिः, न स्वरूपाभावात् -- तद्वत्। वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति। तस्मान्नित्यचैतन्यस्वरूप एव आत्मेति निश्चिनुमः।।


उत्क्रान्तिगत्यागतीनाम्।। 2.3.19।।

उत्क्रान्तिगत्यधिकरणम्।। 2.3.19।।

इदानीं तु किंपरिमाणो जीव इति चिन्त्यते -- किमणुपरिमाणः, उत मध्यमपरिमाणः, आहोस्वित् महापरिमाण इति। ननु च नात्मोत्पद्यते नित्यचैतन्यश्चायमित्युक्तम्; अतश्च पर एव आत्मा जीव इत्यापतति; परस्य च आत्मनोऽनन्तत्वमाम्नातम्; तत्र कुतो जीवस्य परिमाणचिन्तावतार इति; उच्यते -- सत्यमेतत्; उत्क्रान्तिगत्यागतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति; स्वशब्देन च अस्य क्वचिदणुपरिमाणत्वमाम्नायते; तस्य सर्वस्यानाकुलत्वोपपादनायायमारम्भः। तत्र प्राप्तं तावत् -- उत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नोऽणुपरिमाणो जीव इति; उत्क्रान्तिस्तावत् -- 'स यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामति ' इति; गतिरपि -- 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' इति; आगतिरपि -- 'तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ' इति; आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति -- न हि विभोश्चलनमवकल्पत इति; सति परिच्छेदे, शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वात् अणुरात्मेति गम्यते।।


स्वात्मना चोत्तरयोः।। 2.3.20।।

।। 2.3.20।।

उत्क्रान्तिः कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत; उत्तरे तु गत्यागती नाचलतः संभवतः; स्वात्मना हि तयोः संबन्धो भवति, गमेः कर्तृस्थक्रियात्वात्; अमध्यमपरिमाणस्य च गत्यागती अणुत्वे एव संभवतः; सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते; न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम् -- देहप्रदेशानां च उत्क्रान्तावपादानत्ववचनात् -- 'चक्षुष्टो वा मूध्र्नो वान्येभ्यो वा शरी़रदेशेभ्यः ' इति; 'स एतास्तेजोमात्राः समभ्याददानो ह्मदयमेवान्ववक्रामति ' 'शुक्रमादाय पुनरैति स्थानम् ' इति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवतः; तस्मादप्यस्याणुत्वसिद्धिः।।


नाणुरतच्छØतेरिति चेन्नेतराधिकारात्।। 2.3.21।।

।। 2.3.21।।

अथापि स्यात् -- नाणुरयमात्मा; कस्मात्? अतच्छØतेः; अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः; 'स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु ' 'आकाशवत्सर्वगतश्च नित्यः ' 'सत्यं ज्ञानमनन्तं ब्राहृ ' इत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत्, नैष दोषः; कस्मात्? इतराधिकारात् -- परस्य हि आत्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः, परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात्, 'विरजः पर आकाशात् ' इत्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात्। ननु 'योऽयं विज्ञानमयः प्राणेषु ' इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते -- शास्त्रदृष्ट¬ा तु एष निर्देशो वामदेववद्द्रष्टव्यः। तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते।।


स्वशब्दोन्मानाभ्यां च।। 2.3.22।।

।। 2.3.22।।

इतश्चाणुरात्मा, यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते -- 'एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ' इति; प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति गम्यते। तथोन्मानमपि जीवस्याणिमानं गमयति -- 'वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः ' इति; 'आराग्रमात्रो ह्रवरोऽपि दृष्टः ' इति च उन्मानान्तरम्।।

नन्वणुत्वे सति एकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते; दृश्यते च जाह्नवीह्यदनिमग्नानां सर्वाङ्गशैत्योपलब्धिः, निदाघसमये च सकलशरीरपरितापोपलब्धिरिति -- अत उत्तरं पठति --


अविरोधश्चन्दनवत्।। 2.3.23।।

।। 2.3.23।।

यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धोऽपि सन् सकलदेहव्यापिनमाह्लादं करोति, एवमात्मापि देहैकदेशस्थः सकलदेहव्यापिनीमुपलÏब्ध करिष्यति; त्वक्संबन्धाच्चास्य सकलशरीरगता वेदना न विरुध्यते; त्वगात्मनोर्हि संबन्धः कृत्स्नायां त्वचि वर्तते; त्वक्च कृत्स्नशरीरव्यापिनीति।।

अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृदि हि।। 2.3.24।।

।। 2.3.24।।

अत्राह -- यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तम्, दृष्टान्तदाष्र्टान्तिकयोरतुल्यत्वात्; सिद्धे हि आत्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति, प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च; आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षम्, नैकदेशवर्तित्वम्; अनुमेयं तु तदिति यदप्युच्येत -- न च अत्रानुमानं संभवति -- किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः, किं वा विभोर्नभस इव, आहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्य इति संशयानतिवृत्तेरिति; अत्रोच्यते -- नायं दोषः; कस्मात्? अभ्युपगमात्। अभ्युपगम्यते हि आत्मनोऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम्; कथमिति, उच्यते -- ह्मदि ह्रेष आत्मा पठ¬ते वेदान्तेषु, 'ह्मदि ह्रेष आत्मा ' 'स वा एष आत्मा ह्मदि ' 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु ह्मद्यन्तज्र्योतिः पुरुषः ' इत्याद्युपदेशेभ्यः। तस्माद्दृष्टान्तदाष्र्टान्तिकयोरवैषम्यात् युक्तमेवैतत् -- 'अविरोधश्चन्दनवत् ' इति।।


गुणाद्वा लोकवत्।। 2.3.25।।

।। 2.3.25।।

चैतन्यगुणव्याप्तेर्वा अणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते -- यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभा अपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति -- तद्वत्। स्यात् कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वम्; न त्वणोर्जीवस्यावयवाः सन्ति, यैरयं सकलदेहं विसर्पेत् -- इत्याशङ्क्य 'गुणाद्वा लोकवत् ' इत्युक्तम्।।

कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत? न हि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते। प्रदीपप्रभावद्भवेदिति चेत्, न; तस्या अपि द्रव्यत्वाभ्युपगमात् -- निबिडावयवं हि तेजोद्रव्यं प्रदीपः, प्रविरलावयवं तु तेजोद्रव्यमेव प्रभा इति, अत उत्तरं पठति --


व्यतिरेको गन्धवत्।। 2.3.26।।

।। 2.3.26।।

यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति, अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः; एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति। अतश्चानैकान्तिकमेतत् -- गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति, गुणस्यैव सतो गन्धस्य आश्रयविश्लेषदर्शनात्। गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत्, न; यस्मान्मूलद्रव्याद्विश्लेषः तस्य क्षयप्रसङ्गात्; अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते; अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत। स्यादेतत् -- गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात् सन्नपि विश्लेषो नोपलक्ष्यते; सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत्, न; अतीन्द्रियत्वात्परमाणूनाम्, स्फुटगन्धोपलब्धेश्च नागकेसरादिषु; न च लोके प्रतीतिः -- -गन्धवद्द्रव्यमाघ्रातमिति; गन्ध एव आघ्रात इति तु लौकिकाः प्रतियन्ति। रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत्, न; प्रत्यक्षत्वादनुमानाप्रवृत्तेः; तस्मात् यत् यथा लोके दृष्टम्, तत् तथैव अनुमन्तव्यं निरूपकैः, नान्यथा; न हि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयोऽपि गुणा जिह्वयैवोपलभ्येरन्निति नियन्तुं शक्यते।।


तथा च दर्शयति।। 2.3.27।।

।। 2.3.27।।

ह्मदयायतनत्वमणुपरिमाणत्वं च आत्मनः अभिधाय तस्यैव 'आ लोमभ्य आ नखाग्रेभ्यः ' इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति।।


पृथगुपदेशात्।। 2.3.28।।

।। 2.3.28।। 'प्रज्ञया शरीरं समारुह्र ' इति च आत्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशात् चैतन्यगुणेनैव अस्य शरीरव्यापिता गम्यते। 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय ' इति च कर्तुः शारीरात्पृथग्विज्ञानस्योपदेशः एतमेवाभिप्रायमुपोद्बलयति। तस्मादणुरात्मेति।।

एवं प्राप्ते, ब्राूमः --


तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत्।। 2.3.29।।

।। 2.3.29।।

तु-शब्दः पक्षं व्यावर्तयति। नैतदस्ति -- अणुरात्मेति; उत्पत्त्यश्रवणात् परस्यैव तु ब्राहृणः प्रवेशश्रवणात् तादात्म्योपदेशाच्च परमेव ब्राहृ जीव इत्युक्तम्; परमेव चेद्ब्राहृ जीवः, तस्माद्यावत्परं ब्राहृ तावानेव जीवो भवितुमर्हति; परस्य च ब्राहृणो विभुत्वमाम्नातम्; तस्माद्विभुर्जीवः; तथा च 'स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ' इत्येवंजातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति। न च अणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते; त्वक्संबन्धात्स्यादिति चेत्, न; कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत -- त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते -- त्वक्च कृत्स्नशरीरव्यापिनीति; पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते। न च अणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात्; गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत; प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम्। गन्धोऽपि गुणत्वाभ्युपगमात्साश्रय एव संचरितुमर्हति, अन्यथा गुणत्वहानिप्रसङ्गात्; तथा चोक्तं भगवता द्वैपायनेन -- 'उपलभ्याप्सु चेद्गन्धं केचिद्ब्राूयुरनैपुणाः। पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम् ' इति। यदि च चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयात्, नाणुर्जीवः स्यात्; चैतन्यमेव हि अस्य स्वरूपम्, अग्नेरिवौष्ण्यप्रकाशौ -- नात्र गुणगुणिविभागो विद्यत इति। शरीरपरिमाणत्वं च प्रत्याख्यातम्। परिशेषाद्विभुर्जीवः।।

कथं तर्हि अणुत्वादिव्यपदेश इत्यत आह -- तद्गुणसारत्वात्तु तद्व्यपदेश इति। तस्या बुद्धेः गुणास्तद्गुणाः -- इच्छा द्वेषः सुखं दुःखमित्येवमादयः -- तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे संभवति, स तद्गुणसारः, तस्य भावस्तद्गुणसारत्वम्। न हि बुद्धेर्गुणैर्विना केवलस्य आत्मनः संसारित्वमस्ति; बुद्ध्युपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वम् अकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः; तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः, तदुत्क्रान्त्यादिभिश्च अस्योत्क्रान्त्यादिव्यपदेशः, न स्वतः। तथा च -- 'वालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ' इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह; तच्चैवमेव समञ्जसं स्यात् -- यद्यौपचारिकमणुत्वं जीवस्य भवेत्, पारमार्थिकं च आनन्त्यम्; न हि उभयं मुख्यमवकल्पेत; न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम्, सर्वोपनिषत्सु ब्राहृात्मभावस्य प्रतिपिपादयिषितत्वात्। तथेतरस्मिन्नप्युन्माने 'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्रवरोऽपि दृष्टः ' इति च बुद्धिगुणसंबन्धेनैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना। 'एषोऽणुरात्मा चेतसा वेदितव्यः ' इत्यत्रापि न जीवस्य अणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्रत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात्, जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः; तस्माद्दुज्र्ञानत्वाभिप्रायमिदमणुत्ववचनम्, उपाध्यभिप्रायं वा द्रष्टव्यम्। तथा 'प्रज्ञया शरीरं समारुह्र ' इत्येवंजातीयकेष्वपि भेदोपदेशेषु -- -बुद्ध्यैवोपाधिभूतया जीवः शरीरं समारुह्र -- इत्येवं योजयितव्यम्, व्यपदेशमात्रं वा -- शिलापुत्रकस्य शरीरमित्यादिवत्; न ह्रत्र गुणगुणिविभागोऽपि विद्यत इत्युक्तम्। ह्मदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात्। तथा उत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति -- 'कस्मिन्नु अहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ' 'स प्राणमसृजत ' इति; उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते; न हि अनपसृप्तस्य देहाद्गत्यागती स्याताम्। एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः, प्राज्ञवत्। यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषु उपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः -- 'अणीयान्व्रीहेर्वा यवाद्वा ' 'मनोमयः प्राणमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पः ' इत्येवंप्रकारः -- तद्वत्।।

स्यादेतत् -- यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सति आत्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति -- अत उत्तरं पठति --


यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात्।। 2.3.30।।

।। 2.3.30।।

नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया; कस्मात्? यावदात्मभावित्वाद्बुद्धिसंयोगस्य -- यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति; यावदेव चायं बुद्ध्युपाधिसंबन्धः, तावदेवास्य जीवत्वं संसारित्वं च; परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति; न हि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते -- 'नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता ' 'नान्यदतोऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृ ' 'तत्त्वमसि ' 'अहं ब्राहृास्मि ' इत्यादिश्रुतिशतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति? तद्दर्शनादित्याह; तथा हि शास्त्रं दर्शयति -- 'योऽयं विज्ञानमयः प्राणेषु ह्मद्यन्तज्र्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ' इत्यादि; तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति, प्रदेशान्तरे 'विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः ' इति विज्ञानमयस्य मनआदिभिः सह पाठात्; बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते -- यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते, तद्वत्; 'स समानः सन्नुभौ लोकावनुसंचरति ' इति च लोकान्तरगमनेऽप्यवियोगं बुद्ध्या दर्शयति; केन समानः? तयैव बुद्ध्येति गम्यते, संनिधानात्; तच्च दर्शयति -- 'ध्यायतीव लेलायतीव ' इति; एतदुक्तं भवति -- नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव, चलन्त्यां बुद्धौ चलतीवेति। अपि च मिथ्याज्ञानपुरःसरोऽयमात्मनो बुद्ध्युपाधिसंबन्धः; न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्राहृात्मतानवबोधः, तावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति; दर्शयति च -- 'वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्। तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ' इति।।

ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्ध आत्मनोऽभ्युपगन्तुम्, 'सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति ' इति वचनात्, कृत्स्नविकारप्रलयाभ्युपगमाच्च; तत्कथं यावदात्मभावित्वं बुद्धिसंबन्धस्येति, अत्रोच्यते --


पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात्।। 2.3.31।।

।। 2.3.31।।

यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति; न अविद्यमानान्युत्पद्यन्ते, षण्डादीनामपि तदुत्पत्तिप्रसङ्गात् -- एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति; एवं हि एतद्युज्यते; न हि आकस्मिकी कस्यचिदुत्पत्तिः संभवति, अतिप्रसङ्गात्। दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम् -- 'सति संपद्य न विदुः सति संपद्यामह इति ' 'त इह व्याघ्रो वा सिंहो वा ' इत्यादिना। तस्मात्सिद्धमेतत् -- यावदात्मभावी बुद्ध्याद्युपाधिसंबन्ध इति।।


नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो वाऽन्यथा।। 2.3.32।।

।। 2.3.32।।

तच्चात्मन उपाधिभूतम् -- अन्तःकरणं मनो बुद्धिर्विज्ञानं चित्तमिति च अनेकधा तत्र तत्राभिलप्यते; क्वचिच्च वृत्तिविभागेन -- संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति; तच्चैवं भूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम्, अन्यथा ह्रनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् -- आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां संनिधाने सति नित्यमेवोपलब्धिः प्रसज्येत; अथ सत्यपि हेतुसमवधाने फलाभावः, ततो नित्यमेवानुपलब्धिः प्रसज्येत; न चैवं दृश्यते। अथवा अन्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धोऽभ्युपगन्तव्यः; न च आत्मनः शक्तिप्रतिबन्धः संभवति, अविक्रियत्वात्; नापि इन्द्रियस्य; न हि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतोऽकस्माच्छक्तिः प्रतिबध्येत। तस्मात् यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतः, तन्मनः। तथा च श्रुतिः -- 'अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम् ' इति, 'मनसा ह्रेव पश्यति मनसा श्रृणोति ' इति च; कामादयश्चास्य वृत्तय इति दर्शयति -- 'कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिह्र्यीर्धीर्भीरित्येतत्सर्वं मन एव ' इति। तस्माद्युक्तमेतत् -- तद्गुणसारत्वात्तद्व्यपदेश इति।।


कर्ता शास्त्रार्थवत्त्वात्।। 2.3.33।।

कत्र्रधिकरणम्।। 2.3.33।।

तद्गुणसारत्वाधिकारेणैवापरोऽपि जीवधर्मः प्रपञ्च्यते। कर्ता च अयं जीवः स्यात्; कस्मात्? शास्त्रार्थवत्त्वात् -- एवं च 'यजेत ' 'जुहुयात् ' 'दद्यात् ' इत्येवंविधं विधिशास्त्रमर्थवद्भवति; अन्यथा तदनर्थकं स्यात्; तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति; न च असति कर्तृत्वे तदुपपद्येत। तथेदमपि शास्त्रमर्थवद्भवति -- 'एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ' इति।।


विहारोपदेशात्।। 2.3.34।।

।। 2.3.34।।

इतश्च जीवस्य कर्तृत्वम्, यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति -- 'स ईयतेऽमृतो यत्र कामम् ' इति, 'स्वे शरीरे यथाकामं परिवर्तते ' इति च।।


उपादानात्।। 2.3.35।।

।। 2.3.35।।

इतश्चास्य कर्तृत्वम्, यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति -- 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय ' इति, 'प्राणान्गृहीत्वा ' इति च।।


व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः।। 2.3.36।।

।। 2.3.36।।

इतश्च जीवस्य कर्तृत्वम्, यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम् -- 'विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च ' इति। ननु विज्ञानशब्दो बुद्धौ समधिगतः, कथमनेन जीवस्य कर्तृत्वं सूच्यत इति, नेत्युच्यते -- जीवस्यैवैष निर्देशः, न बुद्धेः; न चेज्जीवस्य स्यात्, निर्देशविपर्ययः स्यात् -- विज्ञानेनेत्येवं निरदेक्ष्यत्; तथा हि अन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते -- 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय ' इति; इह तु 'विज्ञानं यज्ञं तनुते ' इति कर्तृसामानाधिकरण्यनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः।।

अत्राह -- यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्, स स्वतन्त्रः सन् प्रियं हितं चैव आत्मनो नियमेन संपादयेत्, न विपरीतम्; विपरीतमपि तु संपादयन्नुपलभ्यते; न च स्वतन्त्रस्यात्मनः ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति, अत उत्तरं पठति --


उपलब्धिवदनियमः।। 2.3.37।।

।। 2.3.37।।

यथायमात्मोपलÏब्ध प्रति स्वतन्त्रोऽपि अनियमेनेष्टमनिष्टं च उपलभते, एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति; उपलब्धावप्यस्वातन्त्र्यम्, उपलब्धिहेतूपादानोपलम्भादिति चेत्, न, विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम्; उपलब्धौ तु अनन्यापेक्षत्वमात्मनः, चैतन्ययोगात्। अपि च अर्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति, देशकालनिमित्तविशेषापेक्षत्वात्; न च सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते; भवति ह्रेधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम्; सहकारिवैचित्र्याच्च इष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते।।


शक्तिविपर्ययात्।। 2.3.38।।

।। 2.3.38।।

इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति। यदि पुनर्विज्ञानशब्दवाच्या बुद्धिरेव कत्र्री स्यात्, ततः शक्तिविपर्ययः स्यात् -- करणशक्तिर्बुद्धेर्हीयेत, कर्तृशक्तिश्चापद्येत; सत्यां च बुद्धेः कर्तृशक्तौ, तस्या एव अहंप्रत्ययविषयत्वमभ्युपगन्तव्यम्, अहंकारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् -- 'अहं गच्छामि, अहमागच्छामि, अहं भुञ्जे, अहं पिबामि ' इति च; तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारि करणमन्यत्कल्पयितव्यम्; शक्तोऽपि हि सन् कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यते; ततश्च संज्ञामात्रे विवादः स्यात्, न वस्तुभेदः कश्चित्, करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात्।।


समाध्यभावाच्च।। 2.3.39।।

।। 2.3.39।।

योऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु -- 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ' 'ओमित्येवं ध्यायथ आत्मानम् ' इत्येवंलक्षणः, सोऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत। तस्मादप्यस्य कर्तृत्वसिद्धिः।।


यथा च तक्षोभयथा।। 2.3.40।।

तक्षाधिकरणम्।। 2.3.40।।

एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितम्; तत्पुनः स्वाभाविकं वा स्यात्, उपाधिनिमित्तं वेति चिन्त्यते। तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वम्, अपवादहेत्वभावादिति। एवं प्राप्ते, ब्राूमः -- न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात्; कर्तृत्वस्वभावत्वे ह्रात्मनो न कर्तृत्वान्निर्मोक्षः संभवति -- अग्नेरिवौष्ण्यात्; न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात्। ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति; तत्परिहारश्च निमित्तपरिहारात् -- यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावः -- तद्वत् -- न, निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभावात्। ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति -- न, साधनायत्तस्य अनित्यत्वात्। अपि च नित्यशुद्धमुक्तात्मप्रतिपादनात् मोक्षसिद्धिरभिमता; तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वेऽवकल्पेत; तस्मात् उपाधिधर्माध्यासेनैवात्मनः कर्तृत्वम्, न स्वाभाविकम्; तथा च श्रुतिः -- 'ध्यायतीव लेलायतीव ' इति 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ' इति च -- उपाधिसंपृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति। न हि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते, 'नान्योऽतोऽस्ति द्रष्टा ' इत्यादिश्रवणात्। पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत; परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता, बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् -- न, अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः; तथा च शास्त्रम् -- 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति ' इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा, विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति -- 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ' इति; तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा, तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति -- 'तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ' इत्यारभ्य 'एषास्य परमा गतिरेषास्य परमा संपदेषोऽस्य परमो लोक एषोऽस्य परम आनन्दः ' इत्युपसंहारात्।।

तदेतदाहाचार्यः -- 'यथा च तक्षोभयथा ' इति। त्वर्थे च अयं चः पठितः। नैवं मन्तव्यम् -- स्वाभाविकमेवात्मनः कर्तृत्वम्, अग्नेरिवौष्ण्यमिति; यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति, स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निर्वृतो निव्र्यापारः सुखी भवति -- एवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति, सः तच्छ्रमापनुत्तये स्वमात्मानं परं ब्राहृ प्रविश्य विमुक्तकार्यकरणसंघातोऽकर्ता सुखी भवति संप्रसादावस्थायाम् -- तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूय आत्मैव केवलो निर्वृत्तः सुखी भवति। तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्यः -- तक्षा हि विशिष्टेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति, स्वशरीरेण तु अकर्तैव; एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना तु कर्तैवेति। न तु आत्मनस्तक्ष्ण इवावयवाः सन्ति, यैः हस्तादिभिरिव वास्यादीनि तक्षा, मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा।।

यत्तूक्तम्, शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति, तन्न -- विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति, न कर्तृत्वमात्मनः प्रतिपादयति; न च स्वाभाविकमस्य कर्तृत्वमस्ति, ब्राहृात्मत्वोपदेशात् -- इत्यवोचाम; तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते। कर्ता विज्ञानात्मा पुरुषः -- इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति। एतेन विहारोपादाने परिह्मते, तयोरप्यनुवादरूपत्वात्। ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तते -- इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति; तथोपादानेऽपि 'तदेषां प्राणानां विज्ञानेन विज्ञानमादाय ' इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति; अत्रोच्यते -- न तावत्संध्ये स्थानेऽत्यन्तमात्मनः करणविरमणमस्ति, 'सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति ' इति तत्रापि धीसंबन्धश्रवणात्; तथा च स्मरन्ति -- 'इन्द्रियाणामुपरमे मनोऽनुपरतं यदि। सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम् ' इति; कामादयश्च मनसो वृत्तयः इति श्रुतिः; ताश्च स्वप्ने दृश्यन्ते; तस्मात्समना एव स्वप्ते विहरति; विहारोऽपि च तत्रत्यो वासनामय एव, न तु पारमार्थिकोऽस्ति; तथा च श्रुतिः इवकारानुबद्धमेव स्वप्नव्यापारं वर्णयति -- 'उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ' इति; लौकिका अपि तथैव स्वप्नं कथयन्ति -- आरुक्षमिव गिरिश्रृङ्गम्, अद्राक्षमिव वनराजिमिति; तथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशः, तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम्, केवले कर्तृत्वासंभवस्य दर्शितत्वात्; भवति च लोकेऽनेकप्रकारा विवक्षा -- योधा युध्यन्ते, योधै राजा युध्यत इति। अपि च अस्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते, न स्वातन्त्र्यं कस्यचित्, अबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात्। यस्त्वयं व्यपदेशो दर्शितः, 'विज्ञानं यज्ञं तनुते ' इति, स बुद्धेरेव कर्तृत्वं प्रापयति -- विज्ञानशब्दस्य तत्र प्रसिद्धत्वात्, मनोऽनन्तरं पाठाच्च, 'तस्य श्रद्धैव शिरः ' इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् -- श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः, 'विज्ञानं देवाः सर्वे ब्राहृ ज्येष्ठमुपासते ' इति च वाक्यशेषात् -- ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात्, 'स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञः ' इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात्। न च बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति, सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात्; उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वम्; सा चात्मनः; न च तस्यामप्यस्य कर्तृत्वमस्ति, नित्योपलब्धिस्वरूपत्वात्। अहंकारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति, अहंकारस्याप्युपलभ्यमानत्वात्; न चैवं सति करणान्तरकल्पनाप्रसङ्गः, बुद्धेः करणत्वाभ्युपगमात्। समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिह्मतः, यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात्। तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम्।।


परात्तु तच्छØतेः।। 2.3.41।।

परायत्ताधिकरणम्।। 2.3.41।।

यदिदमविद्यावस्थायामुपाधिनिबन्धनं कर्तृत्वं जीवस्याभिहितम्, तत्किमनपेक्ष्येश्वरं भवति, आहोस्विदीश्वरापेक्षमिति भवति विचारणा। तत्र प्राप्तं तावत् -- नेश्वरमपेक्षते जीवः कर्तृत्व इति; कस्मात्? अपेक्षाप्रयोजनाभावात्; अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसंपन्नः कर्तृत्वमनुभवितुं शक्नोति; तस्य किमीश्वरः करिष्यति? न च लोके प्रसिद्धरस्ति -- कृष्यादिकासु क्रियास्वनडुहादिवत् ईश्वरोऽपरोऽपेक्षितव्य इति। क्लेशात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत; विषमफलं च एषां कर्तृत्वं विदधतो वैषम्यम्। ननु 'वैषम्यनैर्घृण्ये न सापेक्षत्वात् ' इत्युक्तम् -- सत्यमुक्तम्, सति तु ईश्वरस्य सापेक्षत्वसंभवे; सापेक्षत्वं च ईश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोः; तयोश्च सद्भावः सति जीवस्य कर्तृत्वे; तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्, किंविषयमीश्वरस्य सापेक्षत्वमुच्येत। अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत। तस्मात्स्वत एवास्य कर्तृत्वमिति -- एतां प्राÏप्त तु-शब्देन व्यावत्र्य प्रतिजानीते -- परादिति; अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः; तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति; कुतः? तच्छØतेः; यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धम्, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते; तथा हि श्रुतिर्भवति -- 'एष ह्रेव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष ह्रेवासाधु कर्म कारयति तं यमधो निनीषते ' इति, 'य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति ' इति च एवंजातीयका।।

ननु एवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घृण्ये स्याताम्, अकृताभ्यागमश्च जीवस्येति; नेत्युच्यत --


कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयथ्र्यादिभ्यः।। 2.3.42।।

।। 2.3.42।।

तु-शब्दश्चोदितदोषव्यावर्तनार्थः। कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणः, तदपेक्ष एवैनमीश्वरः कारयति; अतश्चैते चोदिता दोषा न प्रसज्यन्ते -- जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवत् ईश्वरो निमित्तत्वमात्रेण -- यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां च असाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः -- न हि असति पर्जन्ये रसपुष्पफलपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु -- एवं जीवकृतप्रयत्नापेक्ष ईश्वरः तेषां शुभाशुभं विदध्यादिति श्लिष्यते। ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते -- नैष दोषः; परायत्तेऽपि हि कर्तृत्वे, करोत्येव जीवः, कुर्वन्तं हि तमीश्वरः कारयति; अपि च पूर्वप्रयत्नमपेक्ष्य इदानीं कारयति, पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदिति -- अनादित्वात्संसारस्येति -- अनवद्यम्। कथं पुनरवगम्यते -- कृतप्रयत्नापेक्ष ईश्वर इति? विहितप्रतिषिद्धावैयथ्र्यादिभ्यः इत्याह; एवं हि 'स्वर्गकामो यजेत ' 'ब्रााहृणो न हन्तव्यः ' इत्येवंजातीयकस्य विहितस्य प्रतिषिद्धस्य च अवैयथ्र्यं भवति; अन्यथा तदनर्थकं स्यात्; ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत, अत्यन्तपरतन्त्रत्वाज्जीवस्य; तथा विहितकारिणमप्यनर्थेन संसृजेत्, प्रतिषिद्धकारिणमप्यर्थेन; ततश्च प्रामाण्यं वेदस्यास्तमियात्; ईश्वरस्य च अत्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयथ्र्यम्, तथा देशकालनिमित्तानाम्; पूर्वोक्तदोषप्रसङ्गश्च -- इत्येवंजातीयकं दोषजातमादिग्रहणेन दर्शयति।।


अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके।। 2.3.43।।

अशाधिकरणम्।। 2.3.43।।

जीवेश्वरयोरुपकार्योपकारकभाव उक्तः; स च संबद्धयोरेव लोके दृष्टः -- यथा स्वामिभृत्ययोः, यथा वा अग्निविस्फुलिङ्गयोः; ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात् किं स्वामिभृत्यवत्संबन्धः, आहोस्विदग्निविस्फुलिङ्गवत्? इत्यस्यां विचिकित्सायाम् अनियमो वा प्राप्नोति। अथवा स्वामिभृत्यप्रकारेष्वेव ईशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति।।

अतो ब्रावीति अंश इति; जीव ईश्वरस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः; अंश इवांशः; न हि निरवयवस्य मुख्योंऽशः संभवति; कस्मात्पुनः निरवयवत्वात् स एव न भवति? नानाव्यपदेशात्; 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ' 'एतमेव विदित्वा मुनिर्भवति ' 'य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति ' इति च एवंजातीयको भेदनिर्देशो नासति भेदे युज्यते। ननु च अयं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इति, अत आह -- अन्यथा चापीति; न च नानाव्यपदेशादेव केवलादंशत्वप्रतिपत्तिः; किं तर्हि, अन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः; तथा ह्रेके शाखिनो दाशकितवादिभावं ब्राहृण आमनन्त्याथर्वणिका ब्राहृसूक्ते -- 'ब्राहृ दाशा ब्राहृ दासा ब्राहृैवेमे कितवाः ' इत्यादिना; दाशा य एते कैवर्ताः प्रसिद्धाः, ये च अमीदासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये च अन्ये कितवा द्यूतकृतः, ते सर्वे ब्राहृैव -- इति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्राहृत्वमाह; तथा अन्यत्रापि ब्राहृप्रक्रियायामेवायमर्थः प्रपञ्च्यते -- 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी। त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवति विश्वतोमुखः ' इति, 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते ' इति च; 'नान्योऽतोऽस्ति द्रष्टा ' इत्यादिश्रुतिभ्यश्च अस्यार्थस्य सिद्धिः। चैतन्यं च अविशिष्टं जीवेश्वरयोः, यथाग्निविस्फुलिङ्गयोरौष्ण्यम्। अतो भेदाभेदावगमाभ्यामंशत्वावगमः।।

कुतश्च अंशत्वावगमः? --


मन्त्रवर्णाच्च।। 2.3.44।।

।। 2.3.44।।

मन्त्रवर्णश्चैतमर्थमवगमयति -- 'तावानस्य महिमा। ततो ज्याया#्ँश्च पुरुषः। पादोऽस्य सर्वा भूतानि। त्रिपादस्यामृतं दिवि ' इति; अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति, 'अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः ' इति प्रयोगात्; अंशः पादो भाग इत्यनर्थान्तरम्; तस्मादप्यंशत्वावगमः।।

कुतश्च अंशत्वावगमः? --


अपि च स्मर्यते।। 2.3.45।।

।। 2.3.45।।

ईश्वरगीतास्वपि च ईश्वरांशत्वं जीवस्य स्मर्यते -- 'ममैवांशो जीवलोके जीवभूतः सनातनः ' इति; तस्मादप्यंशत्वावगमः। यत्तूक्तम्, स्वामिभृत्यादिष्वेव ईशित्रीशितव्यभावो लोके प्रसिद्ध इति -- यद्यप्येषा लोके प्रसिद्धिः, तथापि शास्त्रात्तु अत्र अंशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते; निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान् प्रशास्तीति न किंचिद्विप्रतिषिध्यते।।

अत्राह -- ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् -- यथा लोके हस्तपादाद्यन्यतमाङ्गतेन दुःखेन अङ्गिनो देवदत्तस्य दुःखित्वम्, तद्वत्; ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात्; अतो वरं पूर्वावस्थः संसार एवास्तु -- इति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यात् -- इति; अत्रोच्यते --


प्रकाशादिवन्नैवं परः।। 2.3.46।।

।। 2.3.46।।

यथा जीवः संसारदुःखमनुभवति, नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहे; जीवो हि अविद्यावेशवशात् देहाद्यात्मभावमिव गत्वा, तत्कृतेन दुःखेन दुःखी अहम् इति अविद्यया कृतं दुःखोपभोगम् अभिमन्यते; नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वा अस्ति; जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानः, न तु पारमार्थिकोऽस्ति; यथा च स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति, तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवति -- अहमेव पुत्रः, अहमेव मित्रम् इत्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः; ततश्च निश्चितमेतदवगम्यते -- मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति। व्यतिरेकदर्शनाच्च एवमवगम्यते; तथा हि -- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च, पुत्रो मृतो मित्रं मृतमित्येवमाघोषिते, येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते, न अभिमानहीनानां परिव्राजकादीनाम्। अतश्च लौकिकस्यापि पुंसः सम्यग्दशनार्थवत्त्वं दृष्टम्, किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति; तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः -- प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसंबन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते, यथा च आकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति, यथा च उदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान्सूर्यः कम्पते -- एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्ये अंशे दुःखायमानेऽपि न तद्वानीश्वरो दुःखायते। जीवस्यापि दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम्। तथा च अविद्यानिमित्तजीवभावव्युदासेन ब्राहृभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः -- 'तत्त्वमसि ' इत्येवमादयः। तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः।।


स्मरन्ति च।। 2.3.47।।

।। 2.3.47।।

स्मरन्ति च व्यासादयः -- यथा जैवेन दुःखेन न परमात्मा दुःखायत इति; 'तत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः। न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा। कर्मात्मा त्वपरो योऽसौ मोक्षबन्धैः स युज्यते। स सप्तदशकेनापि राशिना युज्यते पुनः ' इति। च-शब्दात् -- समामनन्ति च -- इति वाक्यशेषः -- 'तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ' इति, 'एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्रः ' इति च।।

अत्राह -- यदि तह्र्रेक एव सर्वेषां भूतानामन्तरात्मा स्यात्, कथमनुज्ञापरिहारौ स्यातां लौकिकौ वैदिकौ चेति। ननु च अंशो जीव ईश्वरस्य इत्युक्तम्; तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते; किमत्र चोद्यत इति, उच्यते -- नैतदेवम्; अनंशत्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति -- 'तत्सृष्ट्वा तदेवानुप्राविशत् ' 'नान्योऽतोऽस्ति द्रष्टा ' 'मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' 'तत्त्वमसि ' 'अहं ब्राहृास्मि ' इत्येवंजातीयकाः। ननु भेदाभेदावगमाभ्यामंशत्वं सिध्यतीत्युक्तम् -- स्यादेतदेवम्, यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्; अभेद एव त्वत्र प्रतिपिपादयिषितः, ब्राहृात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः; स्वभावप्राप्तस्तु भेदोऽनूद्यते; न च निरवयवस्य ब्राहृणो मुख्योंऽशो जीवः संभवतीत्युक्तम्; तस्मात्पर एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्या अनुज्ञापरिहारोपपत्तिः। तां ब्राूमः --


अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत्।। 2.3.48।।

।। 2.3.48।।

'ऋतौ भार्यामुपेयात् ' इत्यनुज्ञा, 'गुर्वङ्गनां नोपगच्छेत् ' इति परिहारः; तथा 'अग्नीषोमीयं पशुं संज्ञपयेत् ' इत्यनुज्ञा, 'न हिंस्यात्सर्वा भूतानि ' इति परिहारः;- एवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा, शत्रुः परिहर्तव्य इति परिहारः -- एवंप्रकारावनुज्ञापरिहारौ एकत्वेऽप्यात्मनः देहसंबन्धात् स्यात्। देहैः संबन्धो देहसंबन्धः; कः पुनर्देहसंबन्धः? देहादिरयं संघातोऽहमेव -- इत्यात्मनि विपरीतप्रत्ययोत्पत्तिः; दृष्टा च सा सर्वप्राणिनाम् -- अहं गच्छामि अहमागच्छामि, अहमन्धः अहमनन्धः, अहं मूढः अहममूढः इत्येवमात्मिका; न हि अस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति; प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु। तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमेऽप्यनुज्ञापरिहाराववकल्पेते। सम्यग्दर्शिनस्तह्र्रनुज्ञापरिहारानर्थक्यं प्राप्तम् -- न, तस्य कृतार्थत्वान्नियोज्यत्वानुपपत्तेः -- हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात्; आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन् कथं नियुज्येत; न च आत्मा आत्मन्येव नियोज्यः स्यात्। शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत्, न; तत्संहतत्वाभिमानात् -- सत्यं व्यतिरेकदर्शिनो नियोज्यत्वम्; तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एव आत्मनो नियोज्यत्वाभिमानः; न हि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः, किमुतैकात्म्यदर्शिनः। न च नियोगाभावात् सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः, सर्वत्राभिमानस्यैव प्रवर्तकत्वात्, अभिमानाभावाच्च सम्यग्दर्शिनः। तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ -- ज्योतिरादिवत् -- यथा ज्योतिष एकत्वेऽप्यग्निः क्रव्यात्परिह्यियते, नेतरः; यथा च प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्यियते, नेतरः शुचिभूमिष्ठः; तथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते, भौमा अपि सन्तो नरकलेबरादयः परिह्यियन्ते; तथा मूत्रपुरीषं गवां पवित्रतया परिगृह्रते, तदेव जात्यन्तरे परिवज्र्यते -- तद्वत्।।


असन्ततेश्चाव्यतिकरः।। 2.3.49।।

।। 2.3.49।।

स्यातां नाम अनुज्ञापरिहारावेकस्यात्मनो देहविशेषयोगात्; यस्त्वयं कर्मफलसंबन्धः, स च ऐकात्म्याभ्युपगमे व्यतिकीर्येत, स्वाम्येकत्वादिति चेत्, नैतदेवम्, असंततेः; न हि कर्तुर्भोक्तुश्चात्मनः संततः सर्वैः शरीरैः संबन्धोऽस्ति; उपाधितन्त्रो हि जीव इत्युक्तम्; उपाध्यसंतानाच्च नास्ति जीवसंतानः -- ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति।।

आभास एव च।। 2.3.50।।

।। 2.3.50।।

आभास एव च एष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः, न स एव साक्षात्, नापि वस्त्वन्तरम्। अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः। एवमव्यतिकर एव कर्मफलयोः। आभासस्य च अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति, तद्व्युदासेन च पारमार्थिकस्य ब्राहृात्मभावस्योपदेशोपपत्तिः। येषां तु बहव आत्मानः, ते च सर्वे सर्वगताः, तेषामेवैष व्यतिकरः प्राप्नोति; कथम्? बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च; तदर्थं साधारणं प्रधानम्; तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः। सति बहुत्वे विभुत्वे च घटकुड¬ादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः, तदुपकरणानि च अणूनि मनांस्यचेतनानि, तत्र आत्मद्रव्याणां मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते, ते च अव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति, स संसारः; तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः। तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्च एकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति। स्यादेतत् -- प्रधानप्रवृत्तेः पुरुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति; अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात्; तथा च अनिर्मोक्षः प्रसज्येतेति -- नैतत्सारम् -- न हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम्; उपपत्त्या तु कयाचिद्व्यवस्थोच्येत; असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम्; प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः। काणादानामपि -- यदा एकेनात्मना मनः संयुज्यते, तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात्, संनिधानाद्यविशेषात्; ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत।।

स्यादेतत् -- अदृष्टनिमित्तो नियमो भविष्यतीति; नेत्याह --


अदृष्टानियमात्।। 2.3.51।।

।। 2.3.51।।

बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्राभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपाज्र्यते। सांख्यानां तावत् तदनात्मसमवायि प्रधानवर्ति। प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते। काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्यापि अस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः।।

स्यादेतत् -- अहमिदं फलं प्राप्नवानि, इदं परिहराणि, इत्थं प्रयतै, इत्थं करवाणि -- इत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति; नेत्याह --


अभिसन्ध्यादिष्वपि चैवम्।। 2.3.52।।

।। 2.3.52।।

अमिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव।।


प्रदेशादिति चेन्नान्तर्भावात्।। 2.3.53।।

।। 2.3.53।।

अथोच्येत -- विभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति; अतः प्रदेशकृता व्यवस्था अभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति, तदपि नोपपद्यते; कस्मात्? अन्तर्भावात्; विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति; तत्र न वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यः; कल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति; शरीरमपि सर्वात्मसंनिधावुत्पद्यमानम् -- अस्यैव आत्मनः, नेतरेषाम् -- इति न नियन्तुं शक्यम्। प्रदेशविशेषाभ्युपगमेऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात्, समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात्; तथा हि -- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्, तस्मात्प्रदेशादपक्रान्ते तच्छरीरे, यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते, तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते; स न स्यात्, यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं न स्यात्। स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात्, ब्रााहृणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य। सर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम्, दृष्टान्ताभावात्; वद तावत् त्वम् -- के बहवः समानदेशाश्चेति; रूपादय इति चेत्, न; तेषामपि धम्र्यंशेनाभेदात्, लक्षणभेदाच्च -- न तु बहूनामात्मनां लक्षणभेदोऽस्ति; अन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत्, न; भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरेतराश्रयत्वात्; आकाशादीनामपि विभुत्वं ब्राहृवादिनोऽसिद्धम्, कार्यत्वाभ्युपगमात्। तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः।। </poem>

चतुर्थः पादः

[सम्पाद्यताम्]

</poem> तथा प्राणाः ।। 2.4.1 ।।

प्राणोत्पत्त्यधिकरणम्।। 2.4.1।।

तथा प्राणा इति। कथं पुनरत्र तथा इत्यक्षरानुलोम्यम्, प्रकृतोपमानाभावात् -- सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम्; तत्तावन्नोपमानं संभवति, सादृश्याभावात्; सादृश्ये हि सति उपमानं स्यात् -- यथा सिंहस्तथा बलवर्मेति; अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत -- यथा अदृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वम्, एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति -- तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत्; न च जीवेन प्राणा उपमीयेरन्, सिद्धान्तविरोधात् -- जीवस्य हि अनुत्पत्तिराख्याता, प्राणानां तु उत्पत्तिराचिख्यासिता; तस्मात्तथा इत्यसंबद्धमिव प्रतिभाति -- न, उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः- अत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम् -- 'एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ' इत्येवंजातीयकम्; तत्र यथा लोकादयः परस्माद्ब्राहृण उत्पद्यन्ते, तथा प्राणा अपीत्यर्थः; तथा -- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुज्र्योतिरापः पृथिवी विश्वस्य धारिणी ' इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम्। अथवा 'पानव्यापच्च तद्वत् ' इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् -- यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्राहृणो विकाराः समधिगताः, तथा प्राणा अपि परस्य ब्राहृणो विकारा इति योजयितव्यम्। कः पुनः प्राणानां विकारत्वे हेतुः? श्रुतत्वमेव; ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तम् -- तदयुक्तम्, प्रदेशान्तरेषु श्रवणात्; न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते; तस्माच्छØतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम्।।


गौण्यसम्भवात्।। 2.4.2।।

।। 2.4.2।।

यत्पुनरुक्तं प्रागुत्पत्तेः सद्भावश्रवणाद्गौणी प्राणानामुत्पत्तिश्रुतिरिति, तत्प्रत्याह -- गौण्यसंभवादिति; गौण्या असंभवो गौण्यसंभवः -- न हि प्राणानामुत्पत्तिश्रुतिर्गौणी संभवति, प्रतिज्ञाहानिप्रसङ्गात् -- 'कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति ' इति हि एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्साधनायेदमाम्नायते 'एतस्माज्जायते प्राणः ' इत्यादि; सा च प्रतिज्ञा प्राणादेः समस्तस्य जगतो ब्राहृविकारत्वे सति प्रकृतिव्यतिरेकेण विकाराभावात्सिध्यति; गौण्यां तु प्राणानामुत्पत्तिश्रुतौ प्रतिज्ञा इयं हीयेत। तथा च प्रतिज्ञातार्थमुपसंहरति -- 'पुरुष एवेदं विश्वं कर्म तपो ब्राहृ परामृतम् ' इति, 'ब्राहृैवेदं विश्वमिदं वरिष्ठम् ' इति च; तथा 'आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ' इत्येवंजातीयकासु श्रुतिषु एषैव प्रतिज्ञा योजयितव्या। कथं पुनः प्रागुत्पत्तेः प्राणानां सद्भावश्रवणम्? नैतन्मूलप्रकृतिविषयम्, 'अप्राणो ह्रमनाः शुभ्रो ह्रक्षरात्परतः परः ' इति मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वावधारणात्; अवान्तरप्रकृतिविषयं त्वेतत् स्वविकारापेक्षं प्रागुत्पत्तेः प्राणानां सद्भावावधारणमिति द्रष्टव्यम्, व्याकृतविषयाणामपि भूयसीनामवस्थानां श्रुतिस्मृत्योः प्रकृतिविकारभावप्रसिद्धेः। वियदधिकरणे हि -- 'गौण्यसंभवात् ' इति पूर्वपक्षसूत्रत्वात् -- गौणीजन्मश्रुतिः, असंभवात् -- इति व्याख्यातम्; प्रतिज्ञाहान्या च तत्र सिद्धान्तोऽभिहितः; इह तु सिद्धान्तसूत्रत्वात् -- गौण्या जन्मश्रुतेरसंभवात् -- इति व्याख्यातम्; तदनुरोधेन तु इहापि -- गौणी जन्मश्रुतिः, असंभवात् -- इति व्याचक्षाणैः प्रतिज्ञाहानिरुपेक्षिता स्यात्।।


तत्प्राक्श्रुतेश्च।। 2.4.3।।

।। 2.4.3।।

इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः -- यत् 'जायते ' इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्तरेष्वाकाशादिष्वनुवर्तते -- - 'एतस्माज्जायते प्राणः ' इत्यत्र; आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम्; तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति; न हि एकस्मिन्प्रकरणे एकÏस्मश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम्, वैरूप्यप्रसङ्गात्। तथा 'स प्राणमसृजत प्राणाच्छ्रद्धाम् ' इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते। यत्रापि पश्चाच्छØत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते, तत्राप्येष एव न्यायः -- यथा 'सर्वाणि भूतानि व्युच्चरन्ति ' इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते।।


तत्पूर्वकत्वाद्वाचः।। 2.4.4।।

।। 2.4.4।।

यद्यपि 'तत्तेजोऽसृजत ' इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ¬ते, तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्तिश्रवणात्; तथापि ब्राहृप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वाक्प्राणमनसाम्, तत्सामान्याच्च सर्वेषामेव प्राणानां ब्राहृप्रभवत्वं सिद्धं भवति। तथा हि -- अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते -- 'अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् ' इति; तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वम्, ततो वर्तत एव ब्राहृप्रभवत्वम्; अथ भाक्तम्, तथापि ब्राहृकर्तृकायां नामरूपव्याक्रियायां श्रवणात्, 'येनाश्रुतं श्रुतं भवति ' इति चोपक्रमात् 'ऐतदात्म्यमिदं सर्वम् ' इति चोपसंहारात्, श्रुत्यन्तरप्रसिद्धेश्च ब्राहृकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते। तस्मादपि प्राणानां ब्राहृविकारत्वसिद्धिः।।

सप्त गतेर्विशेषितत्वाच्च।। 2.4.5।।

सप्तगत्यधिकरणम्।। 2.4.5।।

उत्पत्तिविषयः श्रुतिविप्रतिषेधः प्राणानां परिह्मतः; संख्याविषय इदानीं परिह्यियते। तत्र मुख्यं प्राणमुपरिष्टाद्वक्ष्यति; संप्रति तु कति इतरे प्राणा इति संप्रधारयति। श्रुतिविप्रतिपत्तेश्चात्र विशयः -- क्वचित्सप्त प्राणाः संकीत्र्यन्ते -- 'सप्त प्राणाः प्रभवन्ति तस्मात् ' इति; क्वचिदष्टौ प्राणा ग्रहत्वेन गुणेन संकीत्र्यन्ते -- 'अष्टौ ग्रहा अष्टावतिग्रहाः ' इति; क्वचिन्नव -- 'सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चौ ' इति; क्वचिद्दश -- 'नव वै पुरुषे प्राणा नाभिर्दशमी ' इति; क्वचिदेकादश -- 'दशेमे पुरुषे प्राणा आत्मैकादशः ' इति; क्वचिद्द्वादश -- 'सर्वेषां स्पर्शानां त्वगेकायनम् ' इत्यत्र; क्वचित्त्रयोदश -- 'चक्षुश्च द्रष्टव्यं च ' इत्यत्र -- एवं हि विप्रतिपन्नाः प्राणेयत्तां प्रति श्रुतयः। किं तावत्प्राप्तम्? सप्तैव प्राणा इति। कुतः? गतेः; यतस्तावन्तोऽवगम्यन्ते 'सप्त प्राणाः प्रभवन्ति तस्मात् ' इत्येवंविधासु श्रुतिषु, विशेषिताश्चैते 'सप्त वै शीर्षण्याः प्राणाः ' इत्यत्र। ननु 'प्राणा गुहाशया निहिताः सप्त सप्त ' इति वीप्सा श्रूयते; सा सप्तभ्योऽतिरिक्तान्प्राणान्गमयतीति -- नैष दोषः; पुरुषभेदाभिप्रायेयं वीप्सा -- प्रतिपुरुषं सप्त सप्त प्राणा इति; न तत्त्वभेदाभिप्राया -- सप्त सप्त अन्येऽन्ये प्राणा इति। नन्वष्टत्वादिकापि संख्या प्राणेषु उदाह्मता; कथं सप्तैव स्युः? सत्यमुदाह्मता; विरोधात्त्वन्यतमा संख्या अध्यवसातव्या; तत्र स्तोककल्पनानुरोधात्सप्तसंख्याध्यवसानम्; वृत्तिभेदापेक्षं च संख्यान्तरश्रवणमिति मन्यते।।

अत्रोच्यते --


हस्तादयस्तु स्थितेऽतो नैवम्।। 2.4.6।।

।। 2.4.6।।

हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः श्रूयन्ते -- 'हस्तो वै ग्रहः स कर्मणातिग्रहेण गृहीतो हस्ताभ्यां हि कर्म करोति ' इत्येवमाद्यासु श्रुतिषु; स्थिते च सप्तत्वातिरेके सप्तत्वमन्तर्भावाच्छक्यते संभावयितुम्; हीनाधिकसंख्याविप्रतिपत्तौ हि अधिका संख्या संग्राह्रा भवति; तस्यां हीना अन्तर्भवति, न तु हीनायामधिका; अतश्च नैवं मन्तव्यम् -- स्तोककल्पनानुरोधात्सप्तैव प्राणाः स्युरिति। उत्तरसंख्यानुरोधात्तु एकादशैव ते प्राणाः स्युः; तथा च उदाह्मता श्रुतिः -- 'दशेमे पुरुषे प्राणा आत्मैकादशः ' इति; आत्मशब्देन च अत्र अन्तःकरणं परिगृह्रते, करणाधिकारात्। नन्वेकादशत्वादप्यधिके द्वादशत्रयोदशत्वे उदाह्मते -- सत्यमुदाह्मते; न त्वेकादशभ्यः कार्यजातेभ्योऽधिकं कार्यजातमस्ति, यदर्थमधिकं करणं कल्प्येत; शब्दस्पर्शरूपरसगन्धविषयाः पञ्च बुद्धिभेदाः, तदर्थानि पञ्च बुद्धीन्द्रियाणि; वचनादानविहरणोत्सर्गानन्दाः पञ्च कर्मभेदाः, तदर्थानि च पञ्च कर्मेन्द्रियाणि; सर्वार्थविषयं त्रैकाल्यवृत्ति मनस्तु एकम् अनेकवृत्तिकम्; तदेव वृत्तिभेदात् क्वचिद्भिन्नवद्व्यपदिश्यते -- 'मनो बुद्धिरहंकारश्चित्तं च ' इति; तथा च श्रुतिः कामाद्या नानाविधा वृत्तीरनुक्रम्याह -- 'एतत्सर्वं मन एव ' इति। अपि च सप्तैव शीर्षण्यान्प्राणानभिमन्यमानस्य चत्वार एव प्राणा अभिमताः स्युः; स्थानभेदाद्ध्येते चत्वारः सन्तः सप्त गण्यन्ते -- 'द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके एका वाक् ' इति; न च तावतामेव वृत्तिभेदा इतरे प्राणा इति शक्यते वक्तुम्, हस्तादिवृत्तीनामत्यन्तविजातीयत्वात्। तथा 'नव वै पुरुषे प्राणा नाभिर्दशमी ' इत्यत्रापि देहच्छिद्रभेदाभिप्रायेणैव दश प्राणा उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण, 'नाभिर्दशमी ' इति वचनात्; न हि नाभिर्नाम कश्चित्प्राणः प्रसिद्धोऽस्ति; मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं विशेषायतनमिति -- अतो 'नाभिर्दशमी ' इत्युच्यते। क्वचिदुपासनार्थं कतिचित्प्राणा गण्यन्ते, क्वचित्प्रदर्शनार्थम्; तदेवं विचित्रे प्राणेयत्ताम्नाने सति, क्व किं परम् आम्नानमिति विवेक्तव्यम्; कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्।।

इयमपरा सूत्रद्वययोजना -- सप्तैव प्राणाः स्युः, यतः सप्तानामेव गतिः श्रूयते -- 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' इत्यत्र। ननु सर्वशब्दोऽत्र पठ¬ते, तत्कथं सप्तानामेव गतिः प्रतिज्ञायत इति; विशेषितत्वादित्याह -- सप्तैव हि प्राणाश्चक्षुरादयस्त्वक्पर्यन्ता विशेषिता इह प्रकृताः 'स यत्रैव चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ' 'एकीभवति न पश्यतीत्याहुः ' इत्येवमादिना अनुक्रमणेन; प्रकृतगामी च सर्वशब्दो भवति; यथा सर्वे ब्रााहृणा भोजयितव्या इति ये निमन्त्रिताः प्रकृता ब्रााहृणास्त एव सर्वशब्देनोच्यन्ते, नान्ये -- एवमिहापि ये प्रकृताः सप्त प्राणास्त एव सर्वशब्देनोच्यन्ते, नान्य इति। नन्वत्र विज्ञानमष्टममनुक्रान्तम्; कथं सप्तानामेवानुक्रमणम्? नैष दोषः। मनोविज्ञानयोस्तत्त्वाभेदाद्वृत्तिभेदेऽपि सप्तत्वोपपत्तेः। तस्मात्सप्तैव प्राणा इति -- एवं प्राप्ते, ब्राूमः -- हस्तादयस्त्वपरे सप्तभ्योऽतिरिक्ताः प्राणाः प्रतीयन्ते 'हस्तो वै ग्रहः ' इत्यादिश्रुतिषु; ग्रहत्वं च बन्धनभावः, गृह्रते बध्यते क्षेत्रज्ञः अनेन ग्रहसंज्ञकेन बन्धनेनेति; स च क्षेत्रज्ञो नैकस्मिन्नेव शरीरे बध्यते, शरीरान्तरेष्वपि तुल्यत्वाद्बन्धनस्य; तस्माच्छरीरान्तरसंचारि इदं ग्रहसंज्ञकं बन्धनम् इत्यर्थादुक्तं भवति। तथा च स्मृतिः -- 'पुर्यष्टकेन लिङ्गेन प्राणाद्येन स युज्यते। तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ' इति प्राङ्मोक्षात् ग्रहसंज्ञकेन बन्धनेन अवियोगं दर्शयति; आथर्वणे च विषयेन्द्रियानुक्रमणे 'चक्षुश्च द्रष्टव्यं च ' इत्यत्र तुल्यवद्धस्तादीनीन्द्रियाणि सविषयाण्यनुक्रामति -- 'हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च ' इति; तथा 'दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मत्र्यादुत्क्रामन्त्यथ रोदयन्ति ' इत्येकादशानां प्राणानामुत्क्राÏन्त दर्शयति। सर्वशब्दोऽपि च प्राणशब्देन संबध्यमानोऽशेषान्प्राणानभिदधानो न प्रकरणवशेन सप्तस्वेवावस्थापयितुं शक्यते, प्रकरणाच्छब्दस्य बलीयस्त्वात्; सर्वे ब्रााहृणा भोजयितव्याः इत्यत्रापि सर्वेषामेव अवनिवर्तिनां ब्रााहृणानां ग्रहणं न्याय्यम्, सर्वशब्दसामथ्र्यात्; सर्वभोजनासंभवात्तु तत्र निमन्त्रितमात्रविषया सर्वशब्दस्य वृत्तिराश्रिता; इह तु न किंचित्सर्वशब्दार्थसंकोचने कारणमस्ति; तस्मात्सर्वशब्देन अत्र अशेषाणां प्राणानां परिग्रहः। प्रदर्शनार्थं च सप्तानामनुक्रमणमित्यनवद्यम्। तस्मादेकादशैव प्राणाः -- शब्दतः कार्यतश्चेति सिद्धम्।।


अणवश्च।। 2.4.7।।

प्राणाणुत्वाधिकरणम्।। 2.4.7।।

अधुना प्राणानामेव स्वभावान्तरमभ्युच्चिनोति। अणवश्चैते प्रकृताः प्राणाः प्रतिपत्तव्याः; अणुत्वं चैषां सौक्ष्म्यपरिच्छेदौ, न परमाणुतुल्यत्वम्, कृत्स्नदेहव्यापिकार्यानुपपत्तिप्रसङ्गात् -- सूक्ष्मा एते प्राणाः, स्थूलाश्चेत्स्युः -- मरणकाले शरीरान्निर्गच्छन्तः, बिलादहिरिव, उपलभ्येरन् म्रियमाणस्य पाशर््वस्थैः; परिच्छिन्नाश्चैते प्राणाः, सर्वगताश्चेत्स्युः -- उत्क्रान्तिगत्यागतिश्रुतिव्याकोपः स्यात्, तद्गुणसारत्वं च जीवस्य न सिध्येत्। सर्वगतानामपि वृत्तिलाभः शरीरदेशे स्यादिति चेत्, न, वृत्तिमात्रस्य करणत्वोपपत्तेः; यदेव हि उपलब्धिसाधनम् -- वृत्तिः अन्यद्वा -- तस्यैव नः करणत्वम्, संज्ञामात्रे विवादः इति करणानां व्यापित्वकल्पना निरर्थिका। तस्मात्सूक्ष्माः परिच्छिन्नाश्च प्राणा इत्यध्यवस्यामः।।


श्रेष्ठश्च।। 2.4.8।।

प्राणश्रैष्ठ¬ाधिकरणम्।। 2.4.8।।

मुख्यश्च प्राण इतरप्राणवद्ब्राहृविकारः -- इत्यतिदिशति। तच्च अविशेषेणैव सर्वप्राणानां ब्राहृविकारत्वमाख्यातम् -- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ' इति सेन्द्रियमनोव्यतिरेकेण प्राणस्योत्पत्तिश्रवणात्, 'स प्राणमसृजत ' इत्यादिश्रवणेभ्यश्च। किमर्थः पुनरतिदेशः? अधिकाशङ्कावारणार्थः -- नासदासीये हि ब्राहृप्रधाने सूक्ते मन्त्रवर्णो भवति -- 'न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः। आनीदवातं स्वधया तदेकं तस्माद्धान्यन्नपरः किंचनास ' इति; 'आनीत् ' इति प्राणकर्मोपादानात् प्रागुत्पत्तेः सन्तमिव प्राणं सूचयति; तस्मादजः प्राण इति जायते कस्यचिन्मतिः; तामतिदेशेनापनुदति। आनीच्छब्दोऽपि न प्रागुत्पत्तेः प्राणसद्भावं सूचयति, 'अवातम् ' इति विशेषणात्, 'अप्राणो ह्रमनाः शुभ्रः ' इति च मूलप्रकृतेः प्राणादिसमस्तविशेषरहितत्वस्य दर्शितत्वात्; तस्मात्कारणसद्भावप्रदर्शनार्थ एवायम् आनीच्छब्द इति। 'श्रेष्ठः ' इति च मुख्यं प्राणमभिदधाति, 'प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ' इति श्रुतिनिर्देशात्; ज्येष्ठश्च प्राणः, शुक्रनिषेककालादारभ्य तस्य वृत्तिलाभात् -- न चेत्तस्य तदानीं वृत्तिलाभः स्यात्, योनौ निषिक्तं शुक्रं पूयेत, न संभवेद्वा; श्रोत्रादीनां तु कर्णशष्कुल्यादिस्थानविभागनिष्पत्तौ वृत्तिलाभान्न ज्येष्ठत्वम्। श्रेष्ठश्च प्राणः, गुणाधिक्यात् -- 'न वै शक्ष्यामस्त्वदृते जीवितुम् ' इति श्रुतेः।।


न वायुक्रिये पृथगुपदेशात्।। 2.4.9।।

वायुक्रियाधिकरणम्।। 2.4.9।।

स पुनर्मुख्यः प्राणः किंस्वरूप इति इदानीं जिज्ञास्यते। तत्र प्राप्तं तावत् -- श्रुतेः वायुः प्राण इति; एवं हि श्रूयते -- 'यः प्राणः स वायुः स एष वायुः पञ्चविधः प्राणोऽपानो व्यान उदानः समानः ' इति। अथवा तन्त्रान्तरीयाभिप्रायात् समस्तकरणवृत्तिः प्राण इति प्राप्तम्; एवं हि तन्त्रान्तरीया आचक्षते -- सामान्या करणवृत्तिः प्राणाद्या वायवः पञ्चेति।।

अत्रोच्यते -- न वायुः प्राणः, नापि करणव्यापारः; कुतः? पृथगुपदेशात्; वायोस्तावत् प्राणस्य पृथगुपदेशो भवति -- 'प्राण एव ब्राहृणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च ' इति; न हि वायुरेव सन् वायोः पृथगुपदिश्येत। तथा करणवृत्तेरपि पृथगुपदेशो भवति, वागादीनि करणान्यनुक्रम्य तत्र तत्र पृथक्प्राणस्यानुक्रमणात्, वृत्तिवृत्तिमतोरभेदात्; न हि करणव्यापार एव सन् करणेभ्यः पृथगुपदिश्येत। तथा 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुः ' इत्येवमादयोऽपि वायोः करणेभ्यश्च प्राणस्य पृथगुपदेशा अनुसर्तव्याः। न च समस्तानां करणानामेका वृत्तिः संभवति, प्रत्येकमेकैकवृत्तित्वात्, समुदायस्य च अकारकत्वात्; ननु पञ्जरचालनन्यायेन एतद्भविष्यति -- यथा एकपञ्जरवर्तिन एकादशपक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः संभूय एकं पञ्जरं चालयन्ति, एवमेकशरीरवर्तिन एकादशप्राणाः प्रत्येकं प्रतिनियतवृत्तयः सन्तः संभूय एकां प्राणाख्यां वृतिं्त प्रतिलप्स्यन्त इति; नेत्युच्यते -- युक्तं तत्र -- प्रत्येकवृत्तिभिरवान्तरव्यापारैः पञ्जरचालनानुरूपैरेवोपेताः पक्षिणः संभूय एकं पञ्जरं चालयेयुरिति, तथा दृष्टत्वात्; इह तु -- श्रवणाद्यवान्तरव्यापारोपेताः प्राणा न संभूय प्राण्युरिति युक्तम्, प्रमाणाभावात्, अत्यन्तविजातीयत्वाच्च श्रवणादिभ्यः प्राणनस्य। तथा प्राणस्य श्रेष्ठत्वाद्युद्धोषणम्, गुणभावोपगमश्च तं प्रति वागादीनाम्, न करणवृत्तिमात्रे प्राणेऽवकल्पते। तस्मादन्यो वायुक्रियाभ्यां प्राणः। कथं तर्हीयं श्रुतिः -- 'यः प्राणः स वायुः ' इति? उच्यते -- वायुरेवायम् अध्यात्ममापन्नः पञ्चव्यूहो विशेषात्मनावतिष्ठमानः प्राणो नाम भण्यते, न तत्त्वान्तरम्, नापि वायुमात्रम्; अतश्चोभे अपि भेदाभेदश्रुती न विरुध्येते।।

स्यादेतत् -- प्राणोऽपि तर्हि जीववत् अस्मिन् शरीरे स्वातन्त्र्यं प्राप्नोति, श्रेष्ठत्वात्, गुणभावोपगमाच्च तं प्रति वागादीनामिन्द्रियाणाम्; तथा हि अनेकविधा विभूतिः प्राणस्य श्राव्यते -- सुप्तेषु वागादिषु प्राण एवैको जागर्ति, प्राण एवैको मृत्युना अनाप्तः, प्राणः संवर्गो वागादीन् संवृङ्क्ते, प्राण इतरान्प्राणान्रक्षति मातेव पुत्रान् -- इति; तस्मात्प्राणस्यापि जीववत् स्वातन्त्र्यप्रसङ्गः; तं परिहरति --


चक्षुरादिवत्तु तत्सहशिष्ट¬ादिभ्यः।। 2.4.10।।

।। 2.4.10।।

तु-शब्दः प्राणस्य जीववत् स्वातन्त्र्यं व्यावर्तयति। यथा चक्षुरादीनि, राजप्रकृतिवत्, जीवस्य कर्तृत्वं भोक्तृत्वं च प्रति उपकरणानि, न स्वतन्त्राणि; तथा मुख्योऽपि प्राणः, राजमन्त्रिवत्, जीवस्य सर्वार्थकरत्वेन उपकरणभूतः, न स्वतन्त्रः। कुतः? तत्सहशिष्ट¬ादिभ्यः; तैश्चक्षुरादिभिः सहैव प्राणः शिष्यते प्राणसंवादादिषु; समानधर्मणां च सह शासनं युक्तं बृहद्रथंतरादिवत्; आदिशब्देन संहतत्वाचेतनत्वादीन् प्राणस्य स्वातन्त्र्यनिराकरणहेतून् दर्शयति।।

स्यादेतत् -- यदि चक्षुरादिवत् प्राणस्य जीवं प्रति करणभावोऽभ्युपगम्येत, विषयान्तरं रूपादिवत् प्रसज्येत -- रूपालोचनादिभिर्वृत्तिभिर्यथास्वं चक्षुरादीनां जीवं प्रति करणभावो भवति। अपि च एकादशैव कार्यजातानि रूपालोचनादीनि परिगणितानि, यदर्थमेकादश प्राणाः संगृहीताः; न तु द्वादशमपरं कार्यजातमवगम्यते, यदर्थमयं द्वादशः प्राणः प्रतिज्ञायत इति; अत उत्तरं पठति --


अकरणत्वाच्च न दोषस्तथाहि दर्शयति।। 2.4.11।।

।। 2.4.11।।

न तावद्विषयान्तरप्रसङ्गो दोषः, अकरणत्वात्प्राणस्य; न हि चक्षुरादिवत् प्राणस्य विषयपरिच्छेदेन करणत्वमभ्युपगम्यते। न च अस्य एतावता कार्याभाव एव; कस्मात्? तथा हि श्रुतिः प्राणान्तरेष्वसंभाव्यमानं मुख्यप्राणस्य वैशेषिकं कार्यं दर्शयति प्राणसंवादादिषु -- 'अथ ह प्राणा अहं श्रेयसि व्यूदिरे ' इत्युपक्रम्य, 'यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठः ' इति च उपन्यस्य, प्रत्येकं वागाद्युत्क्रमणेन तद्वृत्तिमात्रहीनं यथापूर्वं जीवनं दर्शयित्वा, प्राणोच्चिक्रमिषायां वागादिशैथिल्यापतिं्त शरीरपातप्रसङ्गं च दर्शयन्ती श्रुतिः प्राणनिमित्तां शरीरेन्द्रियस्थितिं दर्शयति; 'तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि ' इति च एतमेवार्थं श्रुतिराह; 'प्राणेन रक्षन्नवरं कुलायम् ' इति च सुप्तेषु चक्षुरादिषु प्राणनिमित्तां शरीररक्षां दर्शयति; 'यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति ', इति 'तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति ' इति च प्राणनिमित्तां शरीरेन्द्रियपुÏष्ट दर्शयति; 'कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि ' इति, 'स प्राणमसृजत... ' इति च प्राणनिमित्ते जीवस्योत्क्रान्तिप्रतिष्ठे दर्शयति।।


पञ्चवृत्तिर्मनोवद्व्यपदिश्यते।। 2.4.12।।

।। 2.4.12।।

इतश्चास्ति मुख्यस्य प्राणस्य वैशेषिकं कार्यम्, यत्कारणं पञ्चवृत्तिरयं व्यपदिश्यते श्रुतिषु -- 'प्राणोऽपानो व्यान उदानः समानः ' इति; वृत्तिभेदश्चायं कार्यभेदापेक्षः -- प्राणः प्राग्वृत्तिः उच्छ्वासादिकर्मा, अपानः अवाग्वृत्तिर्निश्वासादिकर्मा, व्यानः तयोः संधौ वर्तमानो वीर्यवत्कर्महेतुः, उदानः ऊध्र्ववृत्तिरुत्क्रान्त्यादिहेतुः, समानः समं सर्वेष्वङ्गेषु योऽन्नरसान्नयति -- इत्येवं पञ्चवृत्तिः प्राणः, मनोवत् -- यथा मनसः पञ्च वृत्तयः, एवं प्राणस्यापीत्यर्थः। श्रोत्रादिनिमित्ताः शब्दादिविषया मनसः पञ्च वृत्तयः प्रसिद्धाः; न तु 'कामः संकल्पः... ' इत्याद्याः परिपठिता गृह्रेरन्, पञ्चसंख्यातिरेकात्। नन्वत्रापि श्रोत्रादिनिरपेक्षा भूतभविष्यदादिविषया अपरा मनसो वृत्तिरस्तीति समानः पञ्चसंख्यातिरेकः; एवं तर्हि 'परमतमप्रतिषिद्धमनुमतं भवति ' इति न्यायात् इहापि योगशास्त्रप्रसिद्धा मनसः पञ्च वृत्तयः परिगृह्रन्ते -- 'प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ' नाम; बहुवृत्तित्वमात्रेण वा मनः प्राणस्य निदर्शनमिति द्रष्टव्यम्। जीवोपकरणत्वमपि प्राणस्य पञ्चवृत्तित्वात्, मनोवत् -- इति वा योजयितव्यम्।।

अणुश्च।। 2.4.13।।

श्रेष्ठाणुत्वाधिकरणम्।। 2.4.13।।

अणुश्चायं मुख्यः प्राणः प्रत्येतव्यः, इतरप्राणवत्। अणुत्वं च इहापि सौक्ष्म्यपरिच्छेदौ, न परमाणुतुल्यत्वम्, पञ्चभिर्वृत्तिभिः कृत्स्नशरीरव्यापित्वात्; -- सूक्ष्मः प्राणः, उत्क्रान्तौ पाशर््वस्थेन अनुपलभ्यमानत्वात्; परिच्छिन्नश्च, उत्क्रान्तिगत्यागतिश्रुतिभ्यः। ननु विभुत्वमपि प्राणस्य समाम्नायते -- - 'समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण ' इत्येवमादिषु प्रदेशेषु; तदुच्यते -- आधिदैविकेन समष्टिव्यष्टिरूपेण हैरण्यगर्भेण प्राणात्मनैव एतद्विभुत्वमाम्नायते, न आध्यात्मिकेन; अपि च 'समः प्लुषिणा ' इत्यादिना साम्यवचनेन प्रतिप्राणिवर्तिनः प्राणस्य परिच्छेद एव प्रदश्र्यते; तस्माददोषः।।

ज्योतिराद्यधिष्ठानं तु तदामननात्।। 2.4.14।।

ज्योतिराद्यधिकरणम्।। 2.4.14।।

ते पुनः प्रकृताः प्राणाः किं स्वमहिम्नैव स्वस्मै स्वस्मै कार्याय प्रभवन्ति, आहोस्विद्देवताधिष्ठिताः प्रभवन्ति इति विचार्यते। तत्र प्राप्तं तावत् -- यथास्वं कार्यशक्तियोगात् स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति; अपि च देवताधिष्ठितानां प्राणानां प्रवृत्तावभ्युगम्यमानायां तासामेवाधिष्ठात्रीणां देवतानां भोक्तृत्वप्रसङ्गात् शारीरस्य भोक्तृत्वं प्रलीयेत; अतः स्वमहिम्नैव एषां प्रवृत्तिरिति; एवं प्राप्ते, इदमुच्यते -- ज्योतिराद्यधिष्ठानं तु -- इति। तु-शब्देन पूर्वपक्षो व्यावत्र्यते। ज्योतिरादिभिरग्न्याद्यभिमानिनीभिर्देवताभिरधिष्ठितं वागादिकरणजातं स्वकार्येषु प्रवर्तत इति प्रतिजानीते। हेतुं च व्याचष्ठे -- तदामननादिति; तथा हि आमनन्ति -- 'अग्निर्वाग्भूत्वा मुखं प्राविशत् ' इत्यादि; अग्नेश्चायं वाग्भावो मुखप्रवेशश्च देवतात्मना अधिष्ठातृत्वमङ्गीकृत्य उच्यते; न हि देवतासंबन्धं प्रत्याख्याय अग्नेः वाचि मुखे वा कश्चिद्विशेषसंबन्धो दृश्यते; तथा 'वायुः प्राणो भूत्वा नासिके प्राविशत् ' इत्येवमाद्यपि योजयितव्यम्। तथा अन्यत्रापि 'वागेव ब्राहृणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च ' इत्येवमादिना वागादीनाम् अग्न्यादिज्योतिष्ट्वादिवचनेन एतमेवार्थं द्रढयति। 'स वै वाचमेव प्रथमामत्यवहत्सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ' इति च एवमादिना वागादीनामग्न्यादिभावापत्तिवचनेन एतमेवार्थं द्योतयति। सर्वत्र च अध्यात्माधिदैवतविभागेन वागाद्यग्न्याद्यनुक्रमणम् अनयैव प्रत्यासत्त्या भवति। स्मृतावपि -- - 'वागध्यात्ममिति प्राहुब्र्रााहृणास्तत्त्वदर्शिनः। वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ' इत्यादिना वागादीनामग्न्यादिदेवताधिष्ठितत्वं सप्रपञ्चं प्रदर्शितम्। यदुक्तम् -- स्वकार्यशक्तियोगात्स्वमहिम्नैव प्राणाः प्रवर्तेरन्निति, तदयुक्तम्, शक्तानामपि शकटादीनामनडुहाद्यधिष्ठितानां प्रवृत्तिदर्शनात्; उभयथोपपत्तौ च आगमात् वागादीनां देवताधिष्ठितत्वमेव निश्चीयते।।

यदप्युक्तम् -- देवतानामेवाधिष्ठात्रीणां भोक्तृत्वप्रसङ्गः, न शारीरस्येति, तत्परिह्यियते --


प्राणवता शब्दात्।। 2.4.15।।

।। 2.4.15।।

सतीष्वपि प्राणानामधिष्ठात्रीषु देवतासु प्राणवता कार्यकरणसंघातस्वामिना शारीरेणैव एषां प्राणानां संबन्धः श्रुतेरवगम्यते; तथा हि श्रुतिः -- 'अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ' इत्येवंजातीयका शारीरेणैव प्राणानां संबन्धं श्रावयति। अपि च अनेकत्वात्प्रतिकरणमधिष्ठात्रीणां देवतानां न भोक्तृत्वम् अस्मिन् शरीरेऽवकल्पते; एको ह्रयमस्मिन् शरीरे शारीरो भोक्ता प्रतिसंधानादिसंभवादवगम्यते।।

तस्य च नित्यत्वात्।। 2.4.16।।

।। 2.4.16।।

तस्य च शारीरस्यास्मिन् शरीरे भोक्तृत्वेन नित्यत्वम् -- पुण्यपापोपलेपसंभवात् सुखदुःखोपभोगसंभवाच्च, न देवतानाम्; ता हि परस्मिन्नैश्वर्ये पदेऽवतिष्ठमाना न हीनेऽस्मिन् शरीरे भोक्तृत्वं प्रतिलब्धुमर्हन्ति; श्रुतिश्च भवति -- 'पुण्यमेवामुं गच्छति न ह वै देवान्पापं गच्छति ' इति। शारीरेणैव च नित्यः प्राणानां संबन्धः, उत्क्रान्त्यादिषु तदनुवृत्तिदर्शनात् -- 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' इत्यादिश्रुतिभ्यः। तस्मात् सतीष्वपि करणानां नियन्त्रीषु देवतासु न शारीरस्य भोक्तृत्वमपगच्छति; करणपक्षस्यैव हि देवता, न भोक्तृपक्षस्येति।।


त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्।। 2.4.17।।

इन्द्रियाधिकरणम्।। 2.4.17।।

मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः; तत्रेदम परं संदिह्रते -- किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः, आहोस्वित् तत्त्वान्तराणीति। किं तावत्प्राप्तम् -- मुख्यस्यैवेतरे वृत्तिभेदा इति; कुतः? श्रुतेः; तथा हि श्रुतिः मुख्यमितरांश्च प्राणान्संनिधाप्य, मुख्यात्मतामितरेषां ख्यापयति -- 'हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन् ' इति; प्राणैकशब्दत्वाच्च एकत्वाध्यवसायः; इतरथा ह्रन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत, एकत्र वा मुख्यस्येतरत्र लाक्षणिकत्वमापद्येत। तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः, एवं वागाद्या अप्येकादशेति; एवं प्राप्ते, ब्राूमः -- तत्त्वान्तराण्येव प्राणाद्वागादीनीति; कुतः? व्यपदेशभेदात्; कोऽयं व्यपदेशभेदः? ते प्रकृताः प्राणाः, श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते, श्रुतावेवं व्यपदेशभेददर्शनात् -- 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति ह्रेवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते, पृथक्च इन्द्रियाणि। ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन, प्राणवत्, स्यात् -- 'मनः सर्वेन्द्रियाणि च ' इति पृथग्व्यपदेशदर्शनात्; सत्यमेतत् -- स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् संगृह्रते; प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति। व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते; तत्त्वैकत्वे तु, स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च -- इति विप्रतिषिद्धम्। तस्मात्तत्त्वान्तरभूता मुख्यादितरे।।

कुतश्च तत्त्वान्तरभूताः? --


भेदश्रुतेः।। 2.4.18।।

।। 2.4.18।।

भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते -- 'ते ह वाचमूचुः ' इत्युपक्रम्य, वागादीनसुरपाप्मविध्वस्तानुपन्यस्य, उपसंह्मत्य वागादिप्रकरणम्, 'अथ हेममासन्यं प्राणमूचुः ' इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात्। तथा 'मनो वाचं प्राणं तान्यात्मनेऽकुरुत ' इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः। तस्मादपि तत्त्वान्तरभूता मुख्यादितरे।।

कुतश्च तत्त्वान्तरभूताः? --


वैलक्षण्याच्च।। 2.4.19।।

।। 2.4.19।।

वैलक्षण्यं च भवति, मुख्यस्य इतरेषां च -- सुप्तेषु वागादिषु मुख्य एको जागर्ति; स एव च एको मृत्युना अनाप्तः, आप्तास्त्वितरे, तस्यैव च स्थित्युत्क्रान्तिभ्यां देहधारणपतनहेतुत्वम्, न इन्द्रियाणाम्; विषयालोचनहेतुत्वं च इन्द्रियाणाम्, न प्राणस्य -- इत्येवंजातीयको भूयाँल्लक्षणभेदः प्राणेन्द्रियाणाम्; तस्मादप्येषां तत्त्वान्तरभावसिद्धिः। यदुक्तम् -- 'त एतस्यैव सर्वे रूपमभवन् ' इति श्रुतेः प्राण एवेन्द्रियाणीति, तदयुक्तम्, तत्रापि पौर्वापर्यालोचनाद्भेदप्रतीतेः; तथा हि -- 'वदिष्याम्येवाहमिति वाग्दध्रे ' इति वागादीनीन्द्रियाण्यनुक्रम्य, 'तानि मृत्युः श्रमो भूत्वोपयेमे तस्माच्छ्राम्यत्येव वाक् ' इति च श्रमरूपेण मृत्युना ग्रस्तत्वं वागादीनामभिधाय, 'अथेममेव नाप्नोद्योऽयं मध्यमः प्राणः ' इति पृथक् प्राणं मृत्युना अनभिभूतं तमनुक्रामति; 'अयं वै नः श्रेष्ठः ' इति च श्रेष्ठतामस्यावधारयति, तस्मात् तदविरोधेन, वागादिषु परिस्पन्दलाभस्य प्राणायत्तत्वम् -- तद्रूपभवनं वागादीनाम् -- इति मन्तव्यम्, न तु तादात्म्यम्। अत एव च प्राणशब्दस्येन्द्रियेषु लाक्षणिकत्वसिद्धिः; तथा च श्रुतिः -- 'त एतस्यैव सर्वे रूपमभवन्। तस्मादेत एतेनाख्यायन्ते प्राणाः ' इति मुख्यप्राणविषयस्यैव प्राणशब्दस्येन्द्रियेषु लाक्षणिकीं वृतिं्त दर्शयति। तस्मात्तत्त्वान्तराणि प्राणात् वागादीनि इन्द्रियाणीति।।


संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्।। 2.4.20।।

संज्ञामूर्तिक्लृप्त्यधिकरणम्।। 2.4.20।।

सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते -- 'सेयं देवतैक्षत हन्ताहमिमास्तिरुाो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति। तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति ' तत्र संशयः -- किं जीवकर्तृकमिदं नामरूपव्याकरणम्, आहोस्वित्परमेश्वरकर्तृकमिति। तत्र प्राप्तं तावत् -- जीवकर्तृकमेवेदं नामरूपव्याकरणमिति; कुतः? 'अनेन जीवेनात्मना ' इति विशेषणात् -- यथा लोके 'चारेणाहं परसैन्यमनुप्रविश्य संकलयानि ' इत्येवंजातीयके प्रयोगे, चारकर्तृकमेव सत् सैन्यसंकलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण; एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण। अपि च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम्। तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते --

अभिधत्ते -- संज्ञामूर्तिक्लृप्तिस्त्विति। तु-शब्देन पक्षं व्यावर्तयति। संज्ञामूर्तिक्लृप्तिरिति -- नामरूपव्याक्रियेत्येतत्; त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति, त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् -- येयं संज्ञाक्लृप्तिः मूर्तिक्लृप्तिश्च, अग्निः आदित्यः चन्द्रमाः विद्युदिति, तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च, प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा, सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति; कुतः? उपदेशात्; तथा हि -- 'सेयं देवता ' इत्युपक्रम्य 'व्याकरवाणि ' इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्राहृणो व्याकर्तृत्वमिहोपदिश्यते। ननु 'जीवेन ' इति विशेषणात् जीवकृर्तृकत्वं व्याकरणस्याध्यवसितम् -- नैतदेवम्; 'जीवेन ' इत्येतत् 'अनुप्रविश्य ' इत्यनेन संबध्यते, आनन्तर्यात्; न 'व्याकरवाणि ' इत्यनेन -- तेन हि संबन्धे 'व्याकरवाणि ' इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत; न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामथ्र्यमस्ति; येष्वपि च अस्ति सामथ्र्यम्, तेष्वपि परमेश्वरायत्तमेव तत्; न च जीवो नाम परमेश्वरादत्यन्तभिन्नः -- चार इव राज्ञः, 'आत्मना ' इति विशेषणात्, उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य; तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति; परमेश्वर एव च नामरूपयोव्र्याकर्तेति सर्वोपनिषत्सिद्धान्तः, 'आकाशो ह वै नाम नामरूपयोर्निर्वहिता ' इत्यादिश्रुतिभ्यः; तस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपव्याकरणम्। त्रिवृत्करणपूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते, प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात्; तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति -- 'यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य ' इत्यादिना; तत्राग्निरिति इदं रूपं व्याक्रियते, सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते; एवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम्। अनेन च अग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति, उपक्रमोपसंहारयोः साधारणत्वात्; तथा हि -- अविशेषेणैव उपक्रमः -- 'इमास्तिरुाो देवतास्त्रिवृत्त्रिवृदेकैका भवति ' इति, अविशेषेणैव च उपसंहारः -- 'यदु रोहितमिवाभूदिति तेजसस्तद्रूपम् ' इत्येवमादिः, 'यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समासः ' इत्येवमन्तः।।

तासां तिसृणां देवतानाम्, बहिस्त्रिवृत्कृतानां सतीनाम्, अध्यात्ममपरं त्रिवृत्करणमुक्तम् -- 'इमास्तिरुाो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति ' इति; तदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति, आशङ्कितं कंचिद्दोषं परिहरिष्यन् --


मांसादि भौमं यथाशब्दमितरयोश्च।। 2.4.21।।

।। 2.4.21।।

भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते; तथा हि श्रुतिः -- 'अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः ' इति; त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्रायः; तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति; मध्यममध्यात्मं मांसं वर्धयति; अणिष्ठं तु मनः। एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् -- मूत्रं लोहितं प्राणश्च अपां कार्यम्, अस्थि मज्जा वाक् तेजसः -- इति।।

अत्राह -- यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम्, अविशेषश्रुतेः -- 'तासां त्रिवृतं त्रिवृतमेकैकामकरोत् ' इति, किंकृतस्तह्र्रयं विशेषव्यपदेशः -- इदं तेजः, इमा आपः, इदमन्नम् इति? तथा अध्यात्मम् -- इदमन्नस्याशितस्य कार्यं मांसादि, इदमपां पीतानां कार्यं लोहितादि, इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति? अत्रोच्यते --


वैशेष्यात्तु तद्वादस्तद्वादः।। 2.4.22।।

।। 2.4.22।।

तु-शब्देन चोदितं दोषमपनुदति; विशेषस्य भावो वैशेष्यम्, भूयस्त्वमिति यावत्; सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते -- अग्नेस्तेजोभूयस्त्वम्, उदकस्याब्भूयस्त्वम्, पृथिव्या अन्नभूयस्त्वम् इति। व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम्; व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्याम्, न भेदेन भूतत्रयगोचरो लोकस्य प्रसिध्येत्। तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते। 'तद्वादस्तद्वादः ' इति पदाभ्यासः अध्यायपरिसमाÏप्त द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये द्वितीयोऽध्यायः।। </poem>