सामग्री पर जाएँ

शारीरकमीमांसासूत्रभाष्यम्/तृतीयोऽध्यायः

विकिस्रोतः तः
← द्वितीयोऽध्यायः शारीरकमीमांसासूत्रभाष्यम्
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →

प्रथमः पादः

[सम्पाद्यताम्]


तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्र ननिरूपणाभ्याम् ।। 3.1.1 ।।

तदन्तरप्रतिपत्त्यधिकरणम्।। 3.1.1।।

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति। तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ, देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः, रंहति गच्छति -- इत्यवगन्तव्यम्; कुतः? प्रश्ननिरूपणाभ्याम्; तथा हि प्रश्नः -- 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति; निरूपणं च प्रतिवचनम्, द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट¬न्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा, -- 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति; तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते। नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति -- 'तद्यथा तृणजलायुका ' इति; तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः। एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति, याः पुरुषमतिप्रभवाः कल्पनाः -- व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, -- केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, -- मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, -- जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षाद्वृक्षान्तरम् -- इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात्।।

ननु उदाह्मताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति, अप्शब्दश्रवणसामथ्र्यात्; तत्र कथं सामान्येन प्रतिज्ञायते -- सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति? अत उत्तरं पठति --


त्र्यात्मकत्वात्तु भूयस्त्वात्।। 3.1.2।।

।। 3.1.2।।

तु-शब्देन चोदितामाशङ्कामुच्छिनत्ति। त्र्यात्मिका हि आपः, त्रिवृत्करणश्रुतेः; तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति। त्र्यात्मकश्च देहः, त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः। पुनश्च त्र्यात्मकः, त्रिधातुत्वात् -- त्रिभिर्वातपित्तश्लेष्मभिः; न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते। तस्माद्भूयस्त्वापेक्षोऽयम् -- 'आपः पुरुषवचसः ' इति -- प्रश्नप्रतिवचनयोरप्शब्दः, न कैवल्यापेक्षः; सर्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते। ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलभ्यते; नैष दोषः -- इतरापेक्षया अपां बाहुल्यं भविष्यति; दृश्यते च शुक्रशोणितलक्षणेऽपि
देहबीजे द्रवबाहुल्यम्। कर्म च निमित्तकारणं देहान्तरारम्भे; कर्माणि च अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि; कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिद्र्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति; तस्मादप्यपां बाहुल्यप्रसिद्धिः। बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्।।


प्राणगतेश्च।। 3.1.3।।

।। 3.1.3।।

प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते -- 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ' इत्यादिश्रुतिभिः; सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः, प्राणगतिप्रयुक्ता तदाश्रयभूतानामपामपि भूतान्तरोपसृष्टानां गतिरर्थादवगम्यते; न हि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा, जीवतो दर्शनात्।।


अंग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्।। 3.1.4।।

।। 3.1.4।।

स्यादेतत् -- नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति, अग्न्यादिगतिश्रुतेः; तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति -- 'यत्रास्य पुरुषस्य मृतस्याÏग्न वागप्येति वातं प्राणः ' इत्यादिना इति चेत्, न, भाक्तत्वात्; वागादीनामग्न्यादिगतिश्रुतिर्गौणी, लोमसु केशेषु च अदर्शनात् -- 'ओषधीर्लोमानि वनस्पतीन्केशाः ' इति हि तत्राम्नायते, न हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति संभवति; न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते; नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते; विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम्; अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य -- वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते।।


प्रथमेऽश्रवणादिति चेन्न ता एव ह्रुपपत्तेः।। 3.1.5।।

।। 3.1.5।।

स्यादेतत् -- कथं पुनः 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इत्येतत् निर्धारयितुं पार्यते, यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति? -- इह हि द्युलोकप्रभृतयः पञ्चाग्न्यः पञ्चानामाहुतीनामाधारत्वेनाधीताः; तेषां च प्रमुखे 'असौ वाव लोको गौतमाग्निः ' इत्युपन्यस्य 'तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ' इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता; न तत्र आपो होम्यद्रव्यतया श्रुताः; यदि नाम पर्जन्यादिषूत्तरेषु चतुष्र्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत, परिकल्प्यतां नाम, तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः; प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत्; श्रद्धा च नाम प्रत्ययविशेषः, प्रसिद्धिसामथ्र्यात्; तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत् --

नैष दोषः; हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते; कुतः? उपपत्तेः; एवं ह्रादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते; इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे, प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् -- ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात्। 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति च उपसंहरन् एतदेव दर्शयति। श्रद्धाकार्यं च सोमवृष्ट¬ादि स्थूलीभवदब्बहुलं लक्ष्यते; सा च श्रद्धाया अप्त्वे युक्तिः। कारणानुरूपं हि कार्यं भवति। न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते -- पश्वादिभ्य इव ह्मदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः। श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् -- 'श्रद्धा वा आपः ' इति। तनुत्वं श्रद्धासारूप्यं गच्छन्ति आपो देहबीजभूता इत्यतः, श्रद्धाशब्दाः स्युः -- यथा सिंहपराक्रमो नरः सिंहशब्दो भवति। श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु; श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः, 'आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे ' इति श्रुतेः।।

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः।। 3.1.6।।

।। 3.1.6।।

अथापि स्यात् -- प्रश्नप्रतिवचनाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन्; न तु तत्संपरिष्वक्ता जीवा रंहेयुः, अश्रुतत्वात् -- न ह्रत्र अपामिव जीवानां श्रावयिता कश्चिच्छब्दोऽस्ति; तस्मात् 'रंहति संपरिष्वक्तः ' इत्ययुक्तम् -- इति चेत्, नैष दोषः; कुतः? इष्टादिकारिणां प्रतीतेः -- 'अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति ' इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राÏप्त कथयति 'आकाशाच्चन्द्रमसमेष सोमो राजा ' इति; त एवेहापि प्रतीयन्ते, 'तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति ' इति श्रुतिसामान्यात्। तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति; ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति -- तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति -- 'असौ स्वर्गाय लोकाय स्वाहा ' इति; ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट¬ अमुं लोकं फलदानाय नयन्तीति यत्, तदत्र जुहोतिना अभिधीयते -- श्रद्धां जुह्वतीति। तथा च अग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण 'ते वा एते आहुती हुते उत्क्रामतः ' इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता। तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते।।

कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते, यावता तेषां धूमप्रतीकेन वत्र्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति -- 'एष सोमो राजा तद्देवानामन्नं तं तेवा भक्षयन्ति ' इति, 'ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेतांस्तत्र भक्षयन्ति ' इति च समानविषयं श्रुत्यन्तरम्? न च व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति; अत उत्तरं पठति --


भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति।। 3.1.7।।

।। 3.1.7।।

वा-शब्दश्चोदितदोषव्यावर्तनार्थः। भाक्तमेषामन्नत्वम्, न मुख्यम्; मुख्ये ह्रन्नत्वे 'स्वर्गकामो यजेत ' इत्येवंजातीयकाधिकारश्रुतिरुपरुध्येत; चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्, किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः। अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्यमाणो दृश्यते, यथा -- विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति। तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानाम्, तदेवैषां भक्षणमभिप्रेतम्, न मोदकादिवच्चर्वणं निगरणं वा। 'न ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ' इति च देवानां चर्वणादिव्यापारं वारयति। तेषां च इष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते, राजोपजीविनामिव परिजनानाम्। अनात्मवित्त्वाच्च इष्टादिकारिणां देवोपभोग्यभाव उपपद्यते; तथा हि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति -- 'अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् ' इति; स चास्मिन्नपि लोके इष्टादिभिः कर्मभिः प्रीणयन्पशुवद्देवानामुपकरोति, अमुष्मिन्नपि लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवदेव देवानामुपकरोतीति गम्यते।।

अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या -- अनात्मविदो ह्रेते केवलकर्मिण इष्टादिकारिणः, न ज्ञानकर्मसमुच्चयानुष्ठायिनः पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति, प्रकरणात्; पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै; पञ्चाग्निविद्येह विधित्सिता, वाक्यतात्पर्यावगमात्; तथा हि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति -- 'स सोमलोके विभूतिमनुभूय पुनरावर्तते ' इति; तथा अन्यदपि श्रुत्यन्तरम् 'अथ ये शतं पितॄणां जितलोकानामानन्दाः स एकः कर्म देवानामानन्दो ये कर्मणा देवत्वमभिसंपद्यन्ते ' इति इष्टादिकारिणां देवैः सह संवसतां भोगप्राÏप्त दर्शयति। एवं भाक्तत्वादन्नभाववचनस्य, इष्टादिकारिणोऽत्र जीवा रंहन्तीति प्रतीयते। तस्मात् 'रंहति संपरिष्वक्तः ' इति युक्तमेवोक्तम्।।

कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवञ्च।। 3.1.8।।

कृतात्ययाधिकरणम्।। 3.1.8।।

इष्टादिकारिणां धूमादिना वत्र्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते --
'तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतम् ' इत्यारभ्य, -- यावत् -- रमणीयचरणा ब्रााहृणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति। तत्रेदं विचार्यते -- किं निरनुशया भुक्तकृत्स्नकर्माणोऽवरोहन्ति, आहोस्वित्सानुशया इति। किं तावत्प्राप्तम्? निरनुशया इति; कुतः? 'यावत्संपातम् ' इति विशेषणात् -- संपातशब्देनात्र कर्माशय उच्यते, संपतन्ति अनेन अस्माल्लोकात् अमुं लोकं फलोपभोगायेति; 'यावत्संपातमुषित्वा ' इति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति; 'तेषां यदा तत्पर्यवैति ' इति च श्रुत्यन्तरेणैव एवार्थः प्रदश्र्यते। स्यादेतत् -- यावदमुष्मिँल्लोके उपभोक्तव्यं कर्म तावदुपभुङ्क्त इति कल्पयिष्यामीति; नैवं कल्पयितुं शक्यते, 'यÏत्कच ' इत्यन्यत्र परामर्शात् -- 'प्राप्यान्तं कर्मणस्तस्य यÏत्कचेह करोत्ययम्। तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ' इति हि अपरा श्रुतिः 'यÏत्कच ' इत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणः तत्र क्षयिततां दर्शयति। अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम्; प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः; तच्च अविशेषाद्यावÏत्कचिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम्; न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति; न ह्रविशिष्टे प्रदीपसंनिधौ, घटोऽभिव्यज्यते न पट इत्युपपद्यते। तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते --

ब्राूमः -- कृतात्ययेऽनुशयवानिति। येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय, तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम्, तत् उपभोगक्षयदर्शनशोकाग्निसंपर्कात्प्रविलीयते -- सवितृकिरणसंपर्कादिवहिमकरकाः, हुतभुगर्चिःसंपर्कादिव च घृतकाठिन्यम्; ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति, सानुशया एवेममवरोहन्ति; केन हेतुना? दृष्टस्मृतिभ्यामित्याह। तथा हि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति -- 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्रााहृणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा ' इति; चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति। दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात्। स्मृतिरपि -- 'वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते ' इति सानुशयानामेवावरोहं दर्शयति।।

कः पुनरनुशयो नामेति -- केचित्तावदाहुः -- स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम, भाण्डानुसारिस्नेहवत् -- यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुशयोऽपीति। ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम्; नायं दोषः; न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे। ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः; बाढम् -- तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थानं न लभ्यते; यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति।।

न चैतद्युक्तमिव। न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् -- इत्युक्तम्। नन्वेतदप्युक्तम् -- न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति; तदेतदपेशलम् -- स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कंचित्फललेशं जनयतीति; न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते; स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते; तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते; न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते; नापि कल्पयितुं शक्यते, स्वर्गफलत्वशास्त्रविरोधात्। अवश्यं चैतदेवं विज्ञेयम् -- न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति; यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन्, तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात्, न विपरीतः; तत्रेयमनुशयविभागश्रुतिरुपरुध्येत -- 'तद्य इह रमणीयचरणाः ... अथ य इह कपूयचरणाः ' इति। तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः, तद्वन्तोऽवरोहन्तीति।।

यदुक्तम् -- 'यÏत्कच ' इत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति, नैतदेवम्; अनुशयसद्भावस्यावगमितत्वात्, यÏत्कचिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम्, तत्सर्वं फलोपभोगेन क्षपयित्वा -- इति गम्यते। यदप्युक्तम् -- प्रायणम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति; तत्र केनचित्कर्मणामुष्मिँल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न संभवतीति -- तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम्। अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम्; आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत -- ततो वक्तव्यम् -- यथैव तर्हि पाक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति। न हि अनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपदभिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम्, प्रतिनियतफलत्वविरोधात्; नापि कस्यचित्कर्मणः प्रायणेऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम्, ऐकान्तिकफलत्वविरोधात्; न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः संभाव्यते; स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति -- 'कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति। मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते ' इत्येवंजातीयाका। यदि च कृत्स्नमनारब्धफलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्राहृहत्यादीनां च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत; न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं संभावयितुम्। न च दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं संभवतीति, अव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना; प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः; स्थूलसूक्ष्मरूपाभिव्यक्तिवच्चेदं द्रष्टव्यम् -- यथा हि प्रदीपः समानेऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् -- एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति, न दुर्बलस्येति। तस्माच्छØतिस्मृतिन्यायविरोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगमः। शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने संभ्रमः, सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः। तस्मात् स्थितमेतदेव -- अनुशयवन्तोऽवरोहन्तीति। ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति; यथेतमिति यथागतमित्यर्थः; अनेवमिति तद्विपर्ययेणेत्यर्थः। धूमाकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे संकीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते; रात्र्याद्यसंकीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययोऽपि प्रतीयते।।


चरणादिति चेन्नोपलक्षणार्थेति काष्र्णाजिनिः।। 3.1.9।।

।। 3.1.9।।

अथापि स्यात् -- या श्रुतिरनुशयसद्भावप्रतिपादनायोदाह्मता -- 'तद्य इह रमणीयचरणाः ' इति, सा खलु चरणात् योन्यापतिं्त दर्शयति, नानुशयात्; अन्यच्चरणम्, अन्योऽनुशयः -- चरणं चारित्रम् आचारः शीलमित्यनर्थान्तरम्, अनुशयस्तु भुक्तफलात्कर्मणोऽतिरिक्तं कर्म अभिप्रेतम्; श्रुतिश्च कर्मचरणे भेदेन व्यपदिशति -- 'यथाकारी यथाचारी तथा भवति इति यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माक#्ँसुचरितानि तानि त्वयोपास्यानि ' इति च; तस्मात् चरणाद्योन्यापत्तिश्रुतेः नानुशयसिद्धिः इति चेत्, नैष दोषः -- यतोऽनुशयोपलक्षणार्थैव एषा चरणश्रुतिरिति काष्र्णाजिनिराचार्यो मन्यते।।


आनर्थक्यमिति चेन्न तदपेक्षत्वात्।। 3.1.10।।

।। 3.1.10।।

स्यादेतत् -- कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति; अवश्यं च शीलस्यापि किंचित्फलमभ्युपगन्तव्यम्, अन्यथा ह्रानर्थक्यमेव शीलस्य प्रसज्येत -- इति चेत्, नैष दोषः; कुतः? तदपेक्षत्वात्; इष्टादि हि कर्मजातं चरणापेक्षम्; न हि सदाचारहीनः कश्चिदधिकृतः स्यात् -- 'आचारहीनं न पुनन्ति वेदाः ' इत्यादिस्मृतिभ्यः। पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम्; इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कंचिदतिशयमारप्स्यते। कर्म च सर्वार्थकारि -- इति श्रुतिस्मृतिप्रसिद्धिः। तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति काष्र्णाजिनेर्मतम्; न हि कर्मणि संभवति शीलात् योन्यापत्तिर्युक्ता; न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति -- इति।।

सुकृतदुष्कृते एवेति तु बादरिः।। 3.1.11।।

।। 3.1.11।।

बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते; चरणम् अनुष्ठान कर्मेत्यनर्थान्तरम्। तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते -- यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते -- धर्मं चरत्येष महात्मेति। आचारोऽपि च धर्मविशेष एव। भेदव्यपदेशस्तु कर्मचरणयोब्र्रााहृणपरिव्राजकन्यायेनाप्युपपद्यते। तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः।।

अनिष्टादिकारिणामपि च श्रुतम्।। 3.1.12।।

अनिष्टादिकार्यधिकरणम्।। 3.1.12।।

इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम्। ये त्वितरेऽनिष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छन्तीति चिन्त्यते। तत्र तावदाह -- इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न; कस्मात्? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम्। तथा हि अविशेषेण कौषीतकिनः समामनन्ति -- 'ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति ' इति। देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पते, 'पञ्चम्यामाहुतौ ' इत्याहुतिसंख्यानियमात्। तस्मात्सर्व एव चन्द्रमसमासीदेयुः। इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत्, न, इतरेषां चन्द्रमण्डले भोगाभावात्।।

संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात्।। 3.1.13।।

।। 3.1.13।।

तु-शब्दः पक्षं व्यावर्तयति। नैतदस्ति -- सर्वे चन्द्रमसं गच्छन्तीति; कस्मात्? भोगायैव हि चन्द्रारोहणम्, न निष्प्रयोजनम्; नापि प्रत्यवरोहायैव, -- यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानाय, न निष्प्रयोजनम्, नापि पतनायैव; भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम्; तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे। ते तु संयमनं यमालयमवगाह्र स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेव इमं लोकं प्रत्यवरोहन्ति; एवंभूतौ तेषामारोहावरोहौ भवतः; कुतः? तद्गतिदर्शनात्; तथा हि यमवचनसरूपा श्रुतिः प्रयताम् अनिष्टादिकारिणां यमवश्यतां दर्शयति -- 'न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ' इति। 'वैवस्वतं संगमनं जनानाम् ' इत्येवंजातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति।।


स्मरन्ति च।। 3.1.14।।

।। 3.1.14।।

अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु।।


अपि च सप्त।। 3.1.15।।

।। 3.1.15।।

अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः; ताननिष्टादिकारिणः प्राप्नुवन्ति; कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः।।

ननु विरुद्धमिदम् -- यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति; नेत्याह --


तत्रापि च तद्व्यापारादविरोधः।। 3.1.16।।

।। 3.1.16।।

तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः; यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते।।


विद्याकर्मणोरिति तु प्रकृतत्वात्।। 3.1.17।।

।। 3.1.17।।

पञ्चाग्निविद्यायाम् 'वेत्थ यथासौ लोको न संपूर्यते ' इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते -- 'अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति। जायस्व म्रियस्त्वेत्येतत्तृतीयं स्थानं तेनासौ लोके न संपूर्यते ' इति। तत्र एतयोः पथोरिति विद्याकर्मणोरित्येतत्; कस्मात्? प्रकृतत्वात्; विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपदे प्रकृते -- 'तद्य इत्थं विदुः ' इति विद्या, तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः; 'इष्टापूर्ते दत्तम् ' इति कर्म, तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः -- तत्प्रक्रियायाम् 'अथैतयोः पथोर्न कतरेणचन ' इति श्रुतम्। एतदुक्तं भवति -- ये न विद्यासाधनेन देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति; तस्मादपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते। स्यादेतत् -- तेऽपि चन्द्रबिम्बमारुह्र ततोऽवरुह्र क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति; तदपि नास्ति, आरोहानर्थक्यात्। अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः संपूर्येत -- इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत; तथा हि प्रतिवचनं दातव्यम्, यथा असौ लोको न संपूर्यते। अवरोहाभ्युपगमादसंपूरणोपपत्तिरिति चेत्, न, अश्रुतत्वात्; सत्यम् अवरोहादप्यसंपूरणमुपपद्यते; श्रुतिस्तु तृतीयस्थानसंकीर्तनेन असंपूरणं दर्शयति -- 'एतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यते ' इति; तेन अनारोहादेव असंपूरणमिति युक्तम्; अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात्। तु-शब्दस्तु शाखान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति; एवं सति अधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दोऽवतिष्ठते -- ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति।।

यत्पुनरुक्तम् -- देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, 'पञ्चम्यामाहुतौ ... ' इत्याहुतिसंख्यानियमादिति, तत्प्रत्युच्यते --


न तृतीये तथोपलब्धेः।। 3.1.18।।

।। 3.1.18।।

न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः; कुतः? तथोपलब्धेः; तथा हि अन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते -- 'जायस्व म्रियस्वेत्येतत्तृतीयं स्थानम् ' इति। अपि च 'पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ' इति मनुष्यशरीरहेतुत्वेन आहुतिसंख्या कीत्र्यते, न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात्। अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात्। तत्र येषामारोहावरोहौ, संभवतः, तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति; अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते।।

स्मर्यतेऽपि च लोके।। 3.1.19।।

।। 3.1.19।।

अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम्। तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति; धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः। यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति। बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः।।

दर्शनाच्च।। 3.1.20।।

।। 3.1.20।।

अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शनात् आहुतिसंख्यानादरो भवति। एवमन्यत्रापि भविष्यति।।

ननु 'तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति आण्डजं जीवजमुद्भिज्जम् ' इत्यत्र त्रिविध एव भूतग्रामः श्रूयते; कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति, अत्रोच्यते --


तृतीयशब्दावरोधः संशोकजस्य।। 3.1.21।।

।। 3.1.21।।

'आण्डजं जीवजमुद्भिज्जम् ' इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात्। स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः।।


साभाव्यापत्तिरुपपत्तेः।। 3.1.22।।

साभाव्यापत्त्यधिकरणम्।। 3.1.22।।

इष्टादिकारिणश्चन्द्रमसमारुह्र तस्मिन्यावत्संपातमुषित्वा ततः सानुशया अवरोहन्तीत्युक्तम्; अथावरोहप्रकारः परीक्ष्यते। तत्रेयमवरोहश्रुतिर्भवति -- 'अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति ' इति। तत्र संशयः -- किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते, किं वा आकाशादिसाम्यमिति। तत्र प्राप्तं तावत् -- आकाशादिस्वरूपमेव प्रतिपद्यन्त इति; कुतः? एवं हि श्रुतिर्भवति; इतरथा लक्षणा स्यात्; श्रुतिलक्षणाविशये च श्रुतिन्र्याय्या, न लक्षणा; तथा च 'वायुर्भूत्वा धूमो भवति ' इत्येवमादीन्यक्षरणि तत्तत्स्वरूपापत्तौ आञ्जस्येन अवकल्पन्ते; तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति; एवं प्राप्ते, ब्राूमः -- आकाशादिसाम्यं प्रतिपद्यन्त इति; चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम्, तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति; ततो वायोर्वशमेति; ततो धूमादिभिः संपृच्यत इति। तदेतदुच्यते -- 'यथेतमाकाशमाकाशाद्वायुम् ' इत्येवमादिना। कुत एतत्? उपपत्तेः; एवं हि एतदुपपद्यते; न हि अन्यस्यान्यभावो मुख्य उपपद्यते; आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते; विभुत्वाच्च आकाशेन नित्यसंबद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्संबन्धो घटते। श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव। अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते।।

नातिचिरेण विशेषात्।। 3.1.23।।

नातिचिराधिकरणम्।। 3.1.23।।

तत्र अकाशादिप्रतिपत्तौ प्राग्व्रीह्रादिभावापत्तेः भवति विशयः -- किं दीर्घं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति, उताल्पमल्पमिति। तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते, इदमाह -- नातिचिरेणेति। अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुवमापतन्ति; कुत एतत्? विशेषदर्शनात्; तथा हि व्रीह्रादिभावापत्तेरनन्तरं विशिनष्टि -- 'अतो वै खलु दुर्निष्प्रपतरम् ' इति; तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः; दुर्निष्प्रपततरं दुर्निष्क्रमतरम् -- दुःखतरमस्माद्व्रीह्रादिभावान्निःसरणं भवतीत्यर्थः; तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति; सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः, तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात्। तस्माद्व्रीह्रादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति।।


अन्याधिष्ठितेषु पूर्ववदभिलापात्।। 3.1.24।।

अन्याधिष्ठिताधिकरणम्।। 3.1.24।।

तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ¬ते -- 'त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते ' इति। तत्र संशयः -- किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति, आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति। किं तावत्प्राप्तम्? स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति; कुत एतत्? जनेर्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः; तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्रादिजन्म, श्वादिजन्मवत् -- यथा 'श्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा ' इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति, एवं व्रीह्रादिजन्मापीति। एवं प्राप्ते --

ब्राूमः -- अन्यैर्जीवैरधिष्ठितेषु व्रीह्रादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःखभाजो भवन्ति, पूर्ववत् -- यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम्, एवं व्रीह्रादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम्। कुत एतत्? तद्वदेवेहाप्यभिलापात्; कोऽभिलापस्य तद्वद्भावः? कर्मव्यापारमन्तरेण संकीर्तनम् -- यथा आकाशादिषु प्रवर्षणान्तेषु न किंचित्कर्मव्यापारं परामृशति, एवं व्रीह्रादिजन्मन्यपि। तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम्। यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् -- 'रमणीयचरणाः ... कपूयचरणाः ' इति। अपि च मुख्येऽनुशयिनां व्रीह्रादिजन्मनि, व्रीह्रादिषु लूयमानेषु कण्ड¬मानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः; यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड¬माने प्रवसति -- इति प्रसिद्धम्; तत्र व्रीह्रादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत; अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्रादिषु भवति। एतेन जनेर्मुख्यार्थत्वं प्रतिब्राूयात्, उपभोगस्थानत्वं च स्थावरभावस्य; न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे; भवत्वन्येषां जन्तूनामपुण्यसामथ्र्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम्; चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे।।

अशुद्धमिति चेन्न शब्दात्।। 3.1.25।।

।। 3.1.25।।

यत्पुनरुक्तम् -- पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्रादिजन्म अस्तु; तत्र गौणी कल्पना अनर्थिकेति -- तत्परिह्यियते -- न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य; अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम्, अतीन्द्रियत्वात्तयोः; अनियतदेशकालनिमित्तत्वाच्च -- यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति; तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति। शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम्। ननु 'न हिंस्यात्सर्वा भूतानि ' इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति; बाढम् -- उत्सर्गस्तु सः; अपवादोऽयं च 'अग्नीषोमीयं पशुमालभेत ' इति; उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम्; तस्माद्विशुद्धं कर्म वैदिकम्, शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च; तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम्। न च श्वादिजन्मवदपि व्रीह्रादिजन्म भवितुमर्हति; तद्धि कपूयचरणानधिकृत्य उच्यते; नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति। अतश्चन्द्रस्थलस्खलितानामनुशयिनां व्रीह्रादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते।।

रेतःसिग्योगोऽथ।। 3.1.26।।

।। 3.1.26।।

इतश्च व्रीह्रादिसंश्लेषमात्रं तद्भावः, यत्कारणं व्रीह्रादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते -- 'यो यो ह्रन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ' इति; न चात्र मुख्यो रेतःसिग्भावः संभवति; चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति; कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्यते? तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः; तद्वत् व्रीह्रादिभावोऽपि व्रीह्रादियोग एवेत्यविरोधः।।


योनेः शरीरम्।। 3.1.27।।

।। 3.1.27।।

अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् -- 'तद्य इह रमणीयचरणाः ' इत्यादि; तस्मादप्यवगम्यते -- नावरोहे ब्रााह्रादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति। तस्मात् व्रीह्रादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः।।

द्वितीयः पादः

[सम्पाद्यताम्]


सन्ध्ये सृष्टिराह हि ।। 3.2.1 ।।

संध्याधिकरणम्।। 3.2.1।।

संध्ये सृष्टिरिति; संध्यमिति स्वप्नस्थानमाचष्टे, वेदे प्रयोगदर्शनात् -- 'संध्यं तृतीय#्ँस्वप्नस्थानम् ' इति; द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयोर्वा संधौ भवतीति संध्यम्; तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति; कुतः? यतः प्रमाणभूता श्रुतिरेवमाह -- 'अथ रथान्नथयोगान्पथः सृजते ' इत्यादि; 'स हि कर्ता ' इति च उपसंहारात् एवमेवावगम्यते।।


निर्मातारं चैके पुत्रादयश्च।। 3.2.2।।

।। 3.2.2।।

अपि च एके शाखिनः अस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति -- 'य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ' इति; पुत्रादयश्च तत्र कामा अभिप्रेयन्ते -- काम्यन्त इति। ननु कामशब्देनेच्छाविशेषो एवोच्येरन्; न, 'शतायुषः पुत्रपौत्रान्वृणीष्व ' इति प्रकृत्य अन्ते 'कामानां त्वा कामभाजं करोमि ' इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात्। प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः -- प्राज्ञस्य हीदं प्रकरणम् -- 'अन्यत्र धर्मादन्यत्राधर्मात् ' इत्यादि; तद्विषय एव च वाक्यशेषोऽपि -- 'तदेव शुक्रं तद्ब्राहृ तदेवामृतमुच्यते। तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ' इति। प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया, तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति; तथा च श्रुतिः -- 'अथो खल्वाहुर्जागरितदेश एवास्यैष इति यान्येव जाग्रत्पश्यति तानि सुप्तः ' इति स्वप्नजागरितयोः समानन्यायतां श्रावयति। तस्मात्तथ्यरूपैव संध्ये सृष्टिरिति।।

एवं प्राप्ते, प्रत्याह --


मायामात्रं तु कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात्।। 3.2.3।।

।। 3.2.3।।

तु-शब्दः पक्षं व्यावर्तयति। नैतदस्ति -- यदुक्तम्, संध्ये सृष्टिः पारमार्थिकीति; मायैव संध्ये सृष्टिः, न परमार्थगन्धोऽप्यस्ति; कुतः? कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात् -- न हि कात्स्न्र्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः; किं पुनरत्र कात्स्न्र्यमभिप्रेतम्? देशकालनिमित्तसंपत्तिः अबाधश्च। न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने संभाव्यन्ते --

न तावत्स्वप्ने रथादीनामुचितो देशः संभवति; न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन्; स्यादेतत् -- बहिर्देहात् स्वप्नं द्रक्ष्यति, देशान्तरितद्रव्यग्रहणात्; दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् -- 'बहिष्कुलायादमृतश्चरित्वा। स ईयतेऽमृतो यत्र कामम् ' इति; स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत -- इति। नेत्युच्यते -- न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामथ्र्यं संभाव्यते; क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति -- कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च -- इति; देहाच्चेदपेयात्, पञ्चालेष्वेव प्रतिबुध्येत; तानसावभिगत इति; कुरुष्वेव तु प्रतिबुध्यते; येन च अयं देहेन देशान्तरमश्नुवानो मन्यते, तमन्ये पाशर््वस्थाः शयनदेश एव पश्यन्ति; यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति;
परिधावंश्चेत्पश्येत्, जाग्रद्वत् वस्तुभूतमर्थमाकलयेत्। दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् -- 'स यत्रैतत्स्वप्न्यया चरति ' इत्युपक्रम्य 'स्वे शरीरे यथाकामं परिवर्तते ' इति। अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या -- बहिरिव कुलायात् अमृतश्चरित्वेति -- यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति -- इति। स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः।।

कालविसंवादोऽपि च स्वप्ने भवति -- रजन्यां सुप्तो वासरं भारते वर्षे मन्यते; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति। निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते; करणोपसंहाराद्धि नास्य अश्वरथादिग्रहणाय चक्षुरादीनि सन्ति; रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामथ्र्यं दारूणि वा। बाध्यन्ते चैते रथाश्वादयः स्वप्नदृष्टाः प्रबोधे; स्वप्न एव च एते सुलभबाधा भवन्ति, आद्यन्तयोव्र्यभिचारदर्शनात् -- रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः संपद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः। स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् -- 'न तत्र रथा न रथयोगा न पन्थानो भवन्ति ' इत्यादि। तस्मान्मायामात्रं स्वप्नदर्शनम्।।


सूचकश्च हि श्रुतेराचक्षते च तद्विदः।। 3.2.4।।

।। 3.2.4।।

मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति -- नेत्युच्यते -- सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः; तथा हि श्रूयते -- 'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृदिं्ध तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने ' इति; तथा 'पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति ' इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति; आचक्षते च स्वप्नाध्यायविदः -- 'कुञ्जरारोहणादीनि स्वप्ने धन्यानि, खरयानादीन्यधन्यानि ' इति; मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते। तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम्; सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम्, बाध्यमानत्वादित्यभिप्रायः। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्।।

यदुक्तम् -- 'आह हि ' इति तदेवं सति भाक्तं व्याख्यातव्यम् -- यथा 'लाङ्गलं गवादीनुद्वहति ' इति निमित्तमात्रत्वादेवमुच्यते, न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति; एवं निमित्तमात्रत्वात् -- सुप्तो रथादीन्सृजते, 'स हि कर्ता ' -- इति च उच्यते; न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति। निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम्। अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिव्र्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः; तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत, ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात्; तस्माद्रथाद्यभाववचनं श्रुत्या, रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम्। एतेन निर्माणश्रवणं व्याख्यातम्। यदप्युक्तम् -- 'प्राज्ञमेनं निर्मातारमामनन्ति ' इति, तदप्यसत्, श्रुत्यन्तरे 'स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ' इति जीवव्यापारश्रवणात्; इहापि 'य एष सुप्तेषु जागर्ति ' इति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता संकीत्र्यते; तस्य तु वाक्यशेषेण 'तदेव शुक्रं तद्ब्राहृ ' इति जीवभावं व्यावत्र्य ब्राहृभाव उपदिश्यते -- 'तत्त्वमसि ' इत्यादिवत् -- इति न ब्राहृप्रकरणं विरुध्यते। न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः; पारमार्थिकस्तु नायं संध्याश्रयः सर्गः वियदादिसर्गवत् -- इत्येतावत्प्रतिपाद्यते; न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति; प्रतिपादितं हि 'तदनन्यत्वमारम्भणशब्दादिभ्यः ' इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम्। प्राक् तु ब्राहृात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति; संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते -- इत्यतो वैशेषिकमिदं संध्यस्य मायामात्रत्वमुदितम्।।

पराभिध्यानात्तु तिरोहितं ततो ह्रस्य बन्धविपर्ययौ।। 3.2.5।।

।। 3.2.5।।

अथापि स्यात् -- परस्यैव तावदात्मनोंऽशः जीवः -- अग्नेरिव विस्फुलिङ्गः; तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती; ततश्च जीवस्य ज्ञानैश्वर्यवशात् सांकल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति। अत्रोच्यते -- सत्यपि जीवेश्वरयोरंशांशिभावे
प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम्। किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव? न नास्त्येव; विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात्। तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य -- तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् -- ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव, सर्वेषां जन्तूनाम्; कुतः? ततो हि ईश्वराद्धेतोः, अस्य जीवस्य, बन्धमोक्षौ भवतः -- ईश्वरस्वरूपापरिज्ञानात् बन्धः, तत्स्वरूपपरिज्ञानात्तु मोक्षः। तथा च श्रुतिः -- 'ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः। तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ' इत्येवमाद्या।।

देहयोगाद्वा सोऽपि।। 3.2.6।।

।। 3.2.6।।

कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति? युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम्, विस्फुलिङ्गस्येव दहनप्रकाशनयोः -- इति। उच्यते -- सत्यमेवैतत्; सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः, देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति। अस्ति च अत्रोपमा -- यथा अग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्मच्छन्नस्य -- एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः। वा-शब्दो जीवस्य ईश्वरात् अन्यत्वशङ्काव्यावृत्त्यर्थः। नन्वन्य एव जीवः ईश्वरादस्तु, तिरस्कृतज्ञानैश्वर्यत्वात्; किं देहयोगकल्पनया? नेत्युच्यते -- न हि अन्यत्वं जीवस्य ईश्वरादुपपद्यते -- 'सेयं देवतैक्षत ' इत्युपक्रम्य 'अनेन जीवेनात्मनानुप्रविश्य ' इत्यात्मशब्देन जीवस्य परामर्शात्; 'तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो ' इति च जीवाय उपदिशति ईश्वरात्मत्वम्; अतः अनन्य एव ईश्वराज्जीवः सन् देहयोगात्तिरोहितज्ञानैश्वर्यो भवति। अतश्च न सांकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते; यदि च सांकल्पिकी स्वप्ने रथादिसृष्टिः स्यात्, नैवानिष्टं कश्चित्स्वप्नं पश्येत्, न हि कश्चिदनिष्टं संकल्पयते। यत्पुनरुक्तम् -- जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति, न तत्साम्यवचनं सत्यत्वाभिप्रायम्, स्वयंज्योतिष्ट्वविरोधात्, श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात्; जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत्। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्।।

तदभावो नाडीषु तच्छØतेरात्मनि च।। 3.2.7।।

तदभावाधिकरणम्।। 3.2.7।।

स्वप्नावस्था परीक्षिता; सुषुप्तावस्थेदानीं परीक्ष्यते। तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति; क्वचिच्छÜयते -- 'तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति ' इति; अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते -- 'ताभिः प्रत्यवसृप्य पुरीतति शेते ' इति; तथान्यत्र नाडीरेवानुक्रम्य -- 'तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति ' इति; तथान्यत्र -- 'य एषोऽन्तह्र्मदय आकाशस्तस्मिञ्शेते ' इति; तथान्यत्र -- 'सतासोम्य तदा संपन्नो भवति स्वमपीतो भवति ' इति; तथा -- 'प्राज्ञेनात्मना संपरिष्वक्तो न बाह्रं किंचन वेद नान्तरम् ' इति च।।

तत्र संशयः -- किमेतानि नाड¬दीनि परस्परनिरपेक्षतया भिन्नानि सुषुप्तिस्थानानि, आहोस्वित्परस्परापेक्षतया एकं सुषुप्तिस्थानमिति। किं तावत्प्राप्तम्? भिन्नानीति; कुतः? एकार्थत्वात् -- न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम्; नाड¬ादीनां च एकार्थता सुषुप्तौ दृश्यते, 'नाडीषु सृप्तो भवति पुरीतति शेते ' इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात्। ननु नैवं सति सप्तमीनिर्देशो दृश्यते -- 'सता सोम्य तदा संपन्नो भवति ' इति; नैष दोषः, तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् -- वाक्यशेषो हि तत्र आयतनैषी जीवः सत् उपसर्पतीत्याह -- 'अन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते ' इति; प्राणशब्देन तत्र प्रकृतस्य सत उपादानात्; आयतनं च सप्तम्यर्थः, सप्तमीनिर्देशोऽपि तत्र वाक्यशेषे दृश्यते -- 'सति संपद्य न विदुः सति संपद्यामहे ' इति। सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते। तस्मादेकार्थत्वात् नाड¬ादीनां विकल्पेन कदाचित् किंचित्स्थानं स्वापायोपसर्पति -- इति।।

एवं प्राप्ते, प्रतिपाद्यते -- तदभावो नाडीष्वात्मनि चेति। तदभाव इति, तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः
सुषुप्तमित्यर्थः; नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड¬ादीनि स्वापायोपसर्पति, न विकल्पेन -- इत्यर्थः; कुतः? तच्छØतेः; तथा हि सर्वेषामेव नाड¬ादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते; तच्च समुच्चये संगृहीतं भवति; विकल्पे ह्रेषाम्, पक्षे बाधः स्यात्। ननु एकार्थत्वाद्विकल्पो नाड¬ादीनां व्रीहियवादिवत् -- इत्युक्तम्; नेत्युच्यते -- न हि एकविभक्तिनिर्देशमात्रेण एकार्थत्वं विकल्पश्च आपतति, नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनात् -- प्रासादे शेते पर्यङ्के शेते इत्येवमादिषु, तथा इहापि नाडीषु पुरीतति ब्राहृणि च स्वपितीति उपपद्यते समुच्चयः; तथा च श्रुतिः -- 'तासु तदा भवति यदा सुप्तः स्वप्नं न कंचन पश्यत्यथास्मिन्प्राण एवैकधा भवति ' इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयति, एकवाक्योपादानात्; प्राणस्य च ब्राहृत्वं समधिगतम् -- 'प्राणस्तथानुगमात् ' इत्यत्र। यत्रापि निरपेक्षा इव नाडीः सुषुप्तिस्थानत्वेन श्रावयति -- 'आसु तदा नाडीषु सृप्तो भवति ' इति, तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्राहृणोऽप्रतिषेधात् नाडीद्वारेण ब्राहृण्येवावतिष्ठत इति प्रतीयते; न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीभिरपि ब्राहृोपसर्पन् सृप्त एव नाडीषु भवति -- यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति। भवति च अत्र रश्मिनाडीद्वारात्मकस्य ब्राहृलोकमार्गस्य विवक्षितत्वात् नाडीस्तुत्यर्थं सृप्तिसंकीर्तनम् -- 'नाडीषु सृप्तो भवति ' इत्युक्त्वा 'तं न कश्चन पाप्मा स्पृशति ' इति ब्राुवन् नाडीः प्रशंसति; ब्रावीति च पाप्मस्पर्शाभावे हेतुम् 'तेजसा हि तदा संपन्नो भवति ' इति -- तेजसा नाडीगतेन पित्ताख्येन अभिव्याप्तकरणो न बाह्रान् विषयानीक्षत इत्यर्थः; अथवा तेजसेति ब्राहृण एवायं निर्देशः, श्रुत्यन्तरे 'ब्राहृैव तेज एव ' इति तेजःशब्दस्य ब्राहृणि प्रयुक्तत्वात्; ब्राहृणा हि तदा संपन्नो भवति नाडीद्वारेण, अतस्तं न कश्चन पाप्मा स्पृशतीत्यर्थः -- ब्राहृसंपत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः 'सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्रेष ब्राहृलोकः ' इत्यादिश्रुतिभ्यः; एवं च सति प्रदेशान्तरप्रसिद्धेन ब्राहृणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति। तथा पुरीततोऽपि ब्राहृप्रक्रियायां संकीर्तनात् तदनुगुणमेव सुषुप्तिस्थानत्वं ज्ञायते -- 'य एषोऽन्तह्र्मदय आकाशस्तस्मिञ्शेते ' इति ह्मदयाकाशे सुषुप्तिस्थाने प्रकृते इदमुच्यते -- 'पुरीतति शेते ' इति; पुरीतदिति ह्मदयपरिवेष्टनमुच्यते; तदन्तर्वर्तिन्यपि ह्मदयाकाशे शयानः शक्यते 'पुरीतति शेते ' इति वक्तुम् -- प्राकारपरिक्षिप्तेऽपि हि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते; ह्मदयाकाशस्य च ब्राहृत्वं समधिगतम् 'दहर उत्तरेभ्यः ' इत्यत्र। तथा नाडीपुरीतत्समुच्चयोऽपि 'ताभिः प्रत्यवसृप्य पुरीतति शेते ' इत्येकवाक्योपादानात् अवगम्यते। सत्प्राज्ञयोश्च प्रसिद्धमेव ब्राहृत्वम्। एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि -- नाड¬ः पुरीतत् ब्राहृ चेति; तत्रापि द्वारमात्रं नाड¬ः पुरीतच्च, ब्राहृैव तु एकम् अनपायि सुषुप्तिस्थानम्। अपि च नाड¬ः पुरीतद्वा जीवस्योपाध्याधार एव भवति -- तत्रास्य करणानि वर्तन्त इति; न हि उपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्संभवति, ब्राहृाव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात्। ब्राहृाधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते, कथं तर्हि? तादात्म्याभिप्रायेण; यत आह -- 'सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति ' इति -- स्वशब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः। अपि च न कदाचिज्जीवस्य ब्राहृणा संपत्तिर्नास्ति, स्वरूपस्यानपायित्वात्; स्वप्नजागरितयोस्तूपाधिसंपर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्विवक्ष्यते -- 'स्वमपीतो भवति ' इति; अतश्च सुप्तावस्थायां कदाचित्सता संपद्यते, कदाचिन्न संपद्यते -- इत्ययुक्तम्। अपि च स्थानविकल्पाभ्युपगमेऽपि विशेषविज्ञानोपशमलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते; तत्र सति संपन्नस्तावत् एकत्वात् न विजानातीति युक्तम्, 'तत्केन कं विजानीयात् ' इति श्रुतेः; नाडीषु पुरीतति च शयानस्य न किंचित् अविज्ञाने कारणं शक्यं विज्ञातुम्, भेदविषयत्वात्, 'यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत् ' इति श्रुतेः। ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात्; बाढमेवं स्यात्, यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत -- यथा विष्णुमित्रः प्रवासी स्वगृहान् न पश्यतीति; न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते; उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत, तथाप्युपाधेरुपशान्तत्वात् सत्येव संपन्नः न विजानातीति युक्तम्। न च वयमिह तुल्यवत् नाड¬ादिसमुच्चयं प्रतिपादयामः; न हि नाड¬ः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किंचित्प्रयोजनमस्ति; न ह्रेतद्विज्ञानप्रतिबद्धं किंचित्फलं श्रूयते; नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते। ब्राहृ तु अनपायि सुप्तिस्थानम् -- इत्येतत्प्रतिपादयामः; तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्राहृात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च। तस्मादात्मैव सुप्तिस्थानम्।।

अतः प्रबोधोऽस्मात्।। 3.2.8।।

।। 3.2.8।।

यस्माच्च आत्मैव सुप्तिस्थानम्, अत एव च कारणात् नित्यवदेव अस्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते, 'कुत एतदागात् ' इत्यस्य प्रश्नस्य प्रतिवचनावसरे -- 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः ' इत्यादिना, 'सत आगम्य न विदुः सत आगच्छामहे ... ' इति च। विकल्प्यमानेषु तु सुषुप्तिस्थानेषु, कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मनः -- इत्यशासिष्यत्। तस्मादप्यात्मैव सुप्तिस्थानमिति।।

स एव तु कर्मानुस्मृतिशब्दविधिभ्यः।। 3.2.9।।

कर्मानुस्मृतिशब्दविध्यधिकरणम्।। 3.2.9।।

तस्याः पुनः सत्संपत्तेः प्रतिबुध्यमानः किं य एव सत्संपन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते। तत्र प्राप्तं तावत् -- अनियम इति; कुतः? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति -- इति दुःसंपादम् -- तद्वत् सुप्तः परेणैकत्वमापन्नः संप्रसीदतीति न स एव पुनरुत्थातुमर्हति; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति।।

एवं प्राप्ते, इदमाह -- स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति, नान्यः; कस्मात्? कर्मानुस्मृतिशब्दविधिभ्यः; विभज्य हेतुं दर्शयिष्यामि -- कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः; तथा हि -- पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते; न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते, अतिप्रसङ्गात्; तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते। इतश्च स एवोत्तिष्ठति, यत्कारणम् अतीतेऽहनि अहमदोऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणम् अन्यस्योत्थाने नोपपद्यते; न ह्रन्यदृष्टम् अन्योऽनुस्मर्तुमर्हति; सोऽहमस्मीति च आत्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते। शब्देभ्यश्च तस्यैवोत्थानमवगम्यते; तथा हि -- 'पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्राहृलोकं न विन्दन्ति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ' इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारपठिता न आत्मान्तरोत्थाने सामञ्जस्यम् ईयुः। कर्मविद्याविधिभ्यश्चैवमेवावगम्यते; अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युः; अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत; एवं चेत्स्यात्, वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात्। अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत्, तत्रत्यव्यवहारलोपप्रसङ्गः स्यात्; अथ तत्र सुप्त उत्तिष्ठेत्, कल्पनानर्थक्यं स्यात् -- यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्यां कल्पनायां लाभः स्यात्? अथ मुक्त उत्तिष्ठेत्, अन्तवान्मोक्ष आपद्येत; निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम्; एतेन ईश्वरस्योत्थानं प्रत्युक्तम्, नित्यनिवृत्ताविद्यत्वात्। अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम्। तस्मात्स एवोत्तिष्ठति, नान्य इति। यत्पुनरुक्तम् -- यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यते, एवं सति संपन्नो जीवो नोत्पतितुमर्हतीति, तत्परिह्यियते -- युक्तं तत्र विवेककारणाभावात् जलबिन्दोरनुद्धरणम्, इह तु विद्यते विवेककारणम् -- कर्म च अविद्या च, इति वैषम्यम्; दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम्। अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते, यो जलबिन्दुरिव जलराशेः सतो विविच्येत; सदेव तु उपाधिसंपर्काज्जीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम्; एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः, तावदेकजीवव्यवहारः; उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः; स एवायमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन -- इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम्।।

मुग्धेऽर्धसम्पत्तिः परिशेषात्।। 3.2.10।।

मुग्धाधिकरणम्।। 3.2.10।।

अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति; स तु किमवस्थ इति परीक्षायाम्, उच्यते -- तिरुास्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः -- जागरितं स्वप्नः सुषुप्तमिति; चतुर्थी शरीरादपसृप्तिः; न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति; तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा -- इति।।

एवं प्राप्ते, ब्राूमः -- न तावन्मुग्धो जागरितावस्थो भवितुमर्हति; न ह्रयमिन्द्रियैर्विषयानीक्षते। स्यादेतत् --
इषुकारन्यायेन मुग्धो भविष्यति -- यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसंपातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति; न, अचेतयमानत्वात्; इषुकारो हि व्यापृतमना ब्रावीति -- इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु लब्धसंज्ञो ब्रावीति -- अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम्, न किंचिन्मया चेतितमिति। जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते; मुग्धस्य तु देहो धरण्यां पतति। तस्मान्न जागर्ति। नापि स्वप्नान्पश्यति, निःसंज्ञकत्वात्। नापि मृतः, प्राणोष्मणोर्भावात् -- मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति, ह्मदयदेशमालभन्ते, निश्चयार्थम्, प्राणोऽस्ति नास्तीति च, नासिकादेशम्; यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति; अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति; पुनरुत्थानाच्च न दिष्टं गतः; न हि यमं गतः यमराष्ट्रात्प्रत्यागच्छति। अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात्, अमृतत्वाच्च; न, वैलक्षण्यात् -- मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम्, विस्फारिते नेत्रे; सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते; पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि। निमित्तभेदश्च भवति मोहस्वापयोः -- मुसलसंपातादिनिमित्तत्वान्मोहस्य, श्रमनिमित्तत्वाच्च स्वापस्य। न च लोकेऽस्ति प्रसिद्धिः -- मुग्धः सुप्त इति। परिशेषादर्धसंपत्तिर्मुग्धतेत्यवगच्छामः -- निःसंज्ञत्वात् संपन्नः, इतरस्माच्च वैलक्षण्यादसंपन्नः इति।।

कथं पुनरर्धसंपत्तिर्मुग्धतेति शक्यते वक्तुम्? -- यावता सुप्तं प्रति तावदुक्तं श्रुत्या -- 'सता सोम्य तदा संपन्नो भवति ' इति, 'अत्र स्तेनोऽस्तेनो भवति नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम् ' इत्यादि; जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति; न च सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते; मुग्धेऽपि तौ प्रत्ययौ नैव विद्येते; तस्मात् उपाध्युपशमात् सुषुप्तवन्मुग्धेऽपि कृत्स्नसंपत्तिरेव भवितुमर्हति, नार्धसंपत्तिरिति। अत्रोच्यते -- न ब्राूमः -- मुग्धेऽर्धसंपत्तिर्जीवस्य ब्राहृणा भवतीति; किं तर्हि, अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम्, अर्धेनावस्थान्तरपक्षस्य -- इति ब्राूमः; दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये। द्वारं चैतत् मरणस्य; यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः; यदा तु निरवशेषं कर्म भवति, तदा प्राणोष्माणावपगच्छतः। तस्मादर्धसंपतिं्त ब्राहृविद इच्छन्ति। यत्तूक्तम् -- न पञ्चमी काचिदवस्था प्रसिद्धास्तीति, नैष दोषः; कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात्। प्रसिद्धा चैषा लोकायुर्वेदयोः। अर्धसंपत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम्।।


न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि।। 3.2.11।।

उभयलिङ्गाधिकरणम्।। 3.2.11।।

येन ब्राहृणा सुषुप्त्यादिषु जीव उपाध्युपशमात्संपद्यते, तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते। सन्त्युभयलिङ्गाः श्रुतयो ब्राहृविषयाः -- 'सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः ' इत्येवमाद्याः सविशेषलिङ्गाः; 'अस्थूलमनण्वह्यस्वमदीर्घम् ' इत्येवमाद्याश्च निर्विशेषलिङ्गाः। किमासु श्रुतिषु उभयलिङ्गं ब्राहृ प्रतिपत्तव्यम्, उत्तान्यतरलिङ्गम्; यदाप्यन्यतरलिङ्गम्, तदापि सविशेषम्, उत निर्विशेषम् -- इति मीमांस्यते। तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्राहृ इत्येवं प्राप्ते, ब्राूमः -- न तावत्स्वत एव परस्य ब्राहृण उभयलिङ्गत्वमुपपद्यते; न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम्, विरोधात्। अस्तु तर्हि स्थानतः, पृथिव्याद्युपाधियोगादिति; तदपि नोपपद्यते -- न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः संभवति; न हि स्वच्छः सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति, भ्रममात्रत्वादस्वच्छताभिनिवेशस्य; उपाधीनां च अविद्याप्रत्युपस्थापितत्वात्। अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्राहृ प्रतिपत्तव्यम्, न तद्विपरीतम्; सर्वत्र हि ब्राहृस्वरूपप्रतिपादनपरेषु वाक्येषु 'अशब्दमस्पर्शमरूपमव्ययम् ' इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्राहृ उपदिश्यते।।

न भेदादिति चेन्न प्रत्येकमतद्वचनात्।। 3.2.12।।

।। 3.2.12।।

अथापि स्यात् -- यदुक्तम्, निर्विकल्पमेकलिङ्गमेव ब्राहृ नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति, तन्नोपपद्यते; कस्मात्? भेदात्; भिन्ना हि प्रतिविद्यं ब्राहृण आकारा उपदिश्यन्ते, चतुष्पात् ब्राहृ, षोडशकलं ब्राहृ,
वामनीत्वादिलक्षणं ब्राहृ, त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्राहृ, इत्येवंजातीयकाः; तस्मात् सविशेषत्वमपि ब्राहृणोऽभ्युपगन्तव्यम्। ननु उक्तं नोभयलिङ्गत्वं ब्राहृणः संभवतीति; अयमप्यविरोधः, उपाधिकृतत्वादाकारभेदस्य; अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत -- इति चेत्, नेति ब्राूमः; कस्मात्? प्रत्येकमतद्वचनात्; प्रत्युपाधिभेदं हि अभेदमेव ब्राहृणः श्रावयति शास्त्रम् -- 'यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ' इत्यादि। अतश्च न भिन्नाकारयोगो ब्राहृणः शास्त्रीय इति शक्यते वक्तुम्, भेदस्य उपासनार्थत्वात्, अभेदे तात्पर्यात्।।


अपि चैवमेके।। 3.2.13।।

।। 3.2.13।।

अपि चैवं भेददर्शननिन्दापूर्वकम् अभेददर्शनमेव एके शाखिनः समामनन्ति -- 'मनसैवेदमाप्तव्यं नेह नानास्ति किंचन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ' इति; तथान्येऽपि -- 'भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्राहृ मे तत् ' इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्राहृैकस्वभावतामधीयते।।

कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्राहृविषयासु श्रुतिषु सतीषु, अनाकारमेव ब्राहृ अवधार्यते, न पुनर्विपरीतम्? इत्यत उत्तरं पठति --


अरूपवदेव हि तत्प्रधानत्वात्।। 3.2.14।।

।। 3.2.14।।

रूपाद्याकाररहितमेव हि ब्राहृ अवधारयितव्यम्, न रूपादिमत्; कस्मात्? तत्प्रधानत्वात्; 'अस्थूलमनण्वह्यस्वमदीर्घम् अशब्दमस्पर्शमरूपमव्ययम् आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्राहृ दिव्यो ह्रमूर्तः पुरुषः सबाह्राभ्यन्तरो ह्रजः तदेतद्ब्राहृापूर्वमनपरमनन्तरमबाह्रमयमात्मा ब्राहृ सर्वानुभूः ' इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्राहृात्मतत्त्वप्रधानानि, न अर्थान्तरप्रधानानि -- इत्येतत्प्रतिष्ठापितम् 'तत्तु समन्वयात् ' इत्यत्र; तस्मादेवंजातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्राहृ अवधारयितव्यम्। इतराणि तु आकारवद्ब्राहृविषयाणि वाक्यानि न तत्प्रधानानि; उपासनाविधिप्रधानानि हि तानि; तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम्; सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति -- इत्येष विनिगमनायां हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्राहृ अवधार्यते, न पुनर्विपरीतमिति।।

का तह्र्राकारवद्विषयाणां श्रुतीनां गतिः? इत्यत आह --


प्रकाशवच्चावैयथ्र्यात्।। 3.2.15।।

।। 3.2.15।।

यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसंबन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्राहृापि पृथिव्याद्युपाधिसंबन्धात् तदाकारतामिव प्रतिपद्यते; तदालम्बनो ब्राहृण आकारविशेषोपदेश उपासनार्थो न विरुध्यते; एवम् अवैयथ्र्यम् आकारवद्ब्राहृविषयाणामपि वाक्यानां भविष्यति; न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम्, प्रमाणत्वाविशेषात्। नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् -- नोपाधियोगादप्युभयलिङ्गत्वं ब्राहृणोऽस्तीति, तद्विरुध्यते; नेति ब्राूमः -- उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः; उपाधीनां च अविद्याप्रत्युपस्थापितत्वात्। सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम।।


आह च तन्मात्रम्।। 3.2.16।।

।। 3.2.16।।

आह च श्रुतिः चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्राहृ -- 'स यथा सैन्धवघनोऽनन्तरोऽबाह्रः कृत्स्नो रसघन एवैवं वा अरेऽयमात्मानन्तरोऽबाह्रः कृत्स्नः प्रज्ञानघन एव ' इति। एतदुक्तं भवति -- नास्य आत्मनोऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति, चैतन्यमेव तु निरन्तरमस्य स्वरूपम् -- यथा सैन्धवघनस्यान्तर्बहिश्च लवणरस एव निरन्तरो भवति, न रसान्तरम्, तथैवेति।।


दर्शयति चाथो अपि स्मर्यते।। 3.2.17।।

।। 3.2.17।।

दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्राहृ -- निर्विशेषत्वात् -- 'अथात आदेशो नेति नेति अन्यदेव तद्विदितादथो अविदितादधि यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' इत्येवमाद्या। बाष्कलिना च बाध्वः पृष्टः सन् अवचनेनैव ब्राहृ प्रोवाचेति श्रूयते -- 'स होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये तृतीये वा वचन उवाच ब्राूमः खलु त्वं तु न विजानासि। उपशान्तोऽयमात्मा ' इति। तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते -- 'ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्राहृ न सत्तन्नासदुच्यते ' इत्येवमाद्यासु। तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते -- 'माया ह्रेषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसि ' इति।।

अत एव चोपमा सूर्यकादिवत्।। 3.2.18।।

।। 3.2.18।।

यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः, अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु -- 'यथा ह्रयं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा ' इति। 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ' इति चैवमादिषु।।

अत्र प्रत्यवस्थीयते --

अम्बुवदग्रहणात्तु न तथात्वम्।। 3.2.19।।

।। 3.2.19।।

न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात्; सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्रते; तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः; न तु आत्मा मूर्तः, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च। तस्मादयुक्तोऽयं दृष्टान्त इति।।

अत्र प्रतिविधीयते --

वृद्धिह्यासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्।। 3.2.20।।

।। 3.2.20।।

युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसंभवात्; न हि दृष्टान्तदाष्र्टान्तिकयोः क्वचित् कंचित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते; सर्वसारूप्ये हि दृष्टान्तदाष्र्टान्तिकभावोच्छेद एव स्यात्; न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम्; शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते। किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते -- वृद्धिह्यासभाक्त्वमिति। जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्यासे ह्यसति, जलचलने चलति, जलभेदे भिद्यते -- इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति; एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्राहृ देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्यासादीन्। एवमुभयोर्दृष्टान्तदाष्र्टान्तिकयोः सामञ्जस्यादविरोधः।।


दर्शनाच्च।। 3.2.21।।

।। 3.2.21।।

दर्शयति च श्रुतिः परस्यैव ब्राहृणो देहादिषूपाधिष्वन्तरनुप्रवेशम् -- 'पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः। पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् ' इति; 'अनेन जीवेनात्मनानुप्रविश्य ' इति च। तस्माद्युक्तमेतत् 'अत एव चोपमा सूर्यकादिवत् ' इति। तस्मात् निर्विकल्पकैकलिङ्गमेव ब्राहृ, न उभयलिङ्गं विपरीतलिङ्गं वा इति सिद्धम्।।

अत्र केचित् द्वे अधिकरणे कल्पयन्ति -- प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्राहृ, उत
प्रपञ्चवदनेकाकारोपेतमिति; द्वितीयं तु प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्राहृ, उत बोधलक्षणम्, उत उभयलक्षणमिति। अत्र वयं वदामः -- सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति; यदि तावदनेकलिङ्गत्वं परस्य ब्राहृणो निराकर्तव्यमित्ययं प्रयासः, तत् पूर्वेणैव 'न स्थानतोऽपि ' इत्यनेनाधिकरणेन निराकृतमिति, उत्तरमधिकरणम् 'प्रकाशवच्च ' इत्येतद्व्यर्थमेव भवेत्। न च सल्लक्षणमेव ब्राहृ न बोधलक्षणम् -- इति शक्यं वक्तुम्, 'विज्ञानघन एव ' इत्यादिश्रुतिवैयथ्र्यप्रसङ्गात्; कथं वा निरस्तचैतन्यं ब्राहृ चेतनस्य जीवस्यात्मत्वेनोपदिश्येत? नापि बोधलक्षणमेव ब्राहृ न सल्लक्षणम् -- इति शक्यं वक्तुम्, 'अस्तीत्येवोपलब्धव्यः ' इत्यादिश्रुतिवैयथ्र्यप्रसङ्गात्; कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत। नाप्युभयलक्षणमेव ब्राहृ -- इति शक्यं वक्तुम्, पूर्वाभ्युपगमविरोधप्रसङ्गात्; सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्राहृ प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत। श्रुतत्वाददोष इति चेत्, न, एकस्य अनेकस्वभावत्वानुपपत्तेः। अथ सत्तैष बोधः, बोध एव च सत्ता, नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्राहृ, उत बोधलक्षणम्, उतोभयलक्षणम् -- इत्ययं विकल्पो निरालम्बन एव स्यात्। सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि। अपि च ब्राहृविषयासु श्रुतिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु, अनाकारे ब्राहृणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः; तादथ्र्येन 'प्रकाशवच्च ' इत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते।।

यदप्याहुः -- आकारवादिन्योऽपि श्रुतयः प्रपञ्चविलयमुखेन अनाकारप्रतिपत्त्यर्था एव, न पृथगर्था इति, तदपि न समीचीनमिव लक्ष्यते; कथम्? ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते, यथा -- 'युक्ता ह्रस्य हरयः शता दशेति, अयं वै हरयोऽयं वै दश च सहरुााणि बहूनि चानन्तानि च ' इत्येवमादयः -- ते भवन्तु प्रविलयार्थाः; 'तदेतद्ब्राहृापूर्वमनपरमनन्तरमबाह्रम् ' इत्युपसंहारात्। ये पुनरुपासनाविधानाधिकारे प्रपञ्चा उच्यन्ते, यथा -- 'मनोमयः प्राणशरीरो भारूपः ' इत्येवमादयः -- न तेषां प्रविलयार्थत्वं न्याय्यम्; 'स क्रतुं कुर्वीत ' इत्येवंजातीयकेन प्रकृतेनैव उपासनविधिना तेषां संबन्धात्। श्रुत्या च एवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्पमाने न लक्षणया प्रविलयार्थत्वमवकल्पते। सर्वेषां च साधारणे प्रविलयार्थत्वे सति 'अरूपवदेव हि तत्प्रधानत्वात् ' इति विनिगमनकारणवचनम् अनवकाशं स्यात्। फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः, क्वचिदैश्वैर्यप्राप्तिः, क्वचित्क्रममुक्तिरित्यवगम्यत एव -- इत्यतः पार्थगथ्र्यमेव उपासनावाक्यानां ब्राहृवाक्यानां च न्याय्यम्, न एकवाक्यत्वम्।।

कथं च एषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् -- एकनियोगप्रतीतेः, प्रयाजदर्शपूर्णमासवाक्यवदिति चेत्, न, ब्राहृवाक्येषु नियोगाभावात् -- वस्तुमात्रपर्यवसायीनि हि ब्राहृवाक्यानि, न नियोगोपदेशीनि इत्येतद्विस्तरेण प्रतिष्ठापितम् 'तत्तु समन्वयात् ' इत्यत्र। किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम्; पुरुषो हि नियुज्यमानः 'कुरु ' इति स्वव्यापारे कÏस्मश्चिन्नियुज्यते। ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति -- अप्रविलापिते हि द्वैतप्रपञ्चे ब्राहृतत्त्वाबोधो न भवतीत्यतो ब्राहृतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः -- यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते, एवमपवर्गकामस्य प्रपञ्चप्रविलयः; यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यते, एवं ब्राहृतत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः -- ब्राहृस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्राहृ; तेन नामरूपप्रपञ्चप्रविलापनेन ब्राहृतत्त्वावबोधो भवति -- इति। अत्र वयं पृच्छामः -- कोऽयं प्रपञ्चप्रविलयो नाम? -- किमग्निप्रतापसंपर्कात् घृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्यः, आहोस्विदेकÏस्मश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवत् अविद्याकृतो ब्राहृणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः -- इति। तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्रश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्येत, स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात्; एकेन च आदिमुक्तेन पृथिव्यादिप्रविलयः कृत इति इदानीं पृथिव्यादिशून्यं जगदभविष्यत्। अथ अविद्याध्यस्तो ब्राहृण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्राूयात्, ततो ब्राहृैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् -- 'एकमेवाद्वितीयं ब्राहृ तत्सत्यं स आत्मा तत्त्वमसि ' इति -- तस्मिन्नावेदिते, विद्या स्वयमेवोत्पद्यते; तया च अविद्या बाध्यते, ततश्च अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते -- अनावेदिते तु ब्राहृणि 'ब्राहृविज्ञानं कुरु प्रपञ्चप्रविलयं च ' इति शतकृत्वोऽप्युक्ते न ब्राहृविज्ञानं प्रपञ्चप्रविलयो वा जायेत। नन्वावेदिते ब्राहृणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात्; न, निष्प्रपञ्चब्राहृात्मत्वावेदनेनैव उभयसिद्धेः -- रज्जुस्वरूपप्रकाशनेनैव
हि तत्स्वरूपविज्ञानम् अविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति; न च कृतमेव पुनः क्रियते।।

नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात्, ब्राहृपक्षस्यैव वा -- प्रथमे विकल्पे निष्प्रपञ्चब्राहृतत्त्वप्रतिपादनेन पृथिव्यादिवत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चविलये नियोग उच्येत? कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत? द्वितीयेऽपि ब्राहृैव अनियोज्यस्वभावं जीवस्य स्वरूपम्, जीवत्वं तु, अविद्याकृतमेव -- इति प्रतिपादिते ब्राहृणि नियोज्याभावात् नियोगाभाव एव। द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठिताः तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोधविधिप्रधाना भवन्ति; लोकेऽपि -- इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति; ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते; तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन; तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते; न च प्रमाणान्तरेण अन्यथाप्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते; यदि पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात्, न तु तत् ज्ञानम्, किं तर्हि, मानसी सा क्रिया; स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात्। ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च; न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते; न हि तत् पुरुषतन्त्रम्, वस्तुतन्त्रमेव हि तत्; अतोऽपि नियोगाभावः; किंचान्यत् -- नियोगनिष्ठतयैव पर्यवस्यत्याम्नाये, यदभ्युपगतम् अनियोज्यब्राहृात्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात्; अथ शास्त्रमेव अनियोज्यब्राहृात्मत्वमाचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्राहृशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम्। नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वम् अनित्यत्वं च -- इत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः। तस्मादवगतिनिष्ठान्येव ब्राहृवाक्यानि, न नियोगनिष्ठानि। अतश्च एकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम्।।

अभ्युपगम्यमानेऽपि च ब्राहृवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम्; न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम्; प्रयाजदर्शपूर्णमासवाक्येषु तु अधिकारांशेनाभेदात् युक्तमेकत्वम्; न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वकरोंशोऽस्ति; न हि भारूपत्वादयो गुणाः प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात्; न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम्। तस्मात् अस्मदुक्त एव विभागः आकारवदनाकारोपदेशानां युक्ततर इति।।


प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रावीति च भूयः।। 3.2.22।।

प्रकृतैतावत्त्वाधिकरणम्।। 3.2.22।।

'द्वे वाव ब्राहृणो रूपे मूर्तं चैवामूर्तं च ' इत्युपक्रम्य, पञ्चमहाभूतानि द्वैराश्येन प्रविभज्य, अमूर्तरसस्य च पुरुषशब्दोदितस्य माहारजनादीनि रूपाणि दर्शयित्वा, पुनः पठ¬ते -- 'अथात आदेशो नेति नेति न ह्रेतस्मादिति नेत्यन्यत्परमस्ति ' इति। तत्र कोऽस्य प्रतिषेधस्य विषय इति जिज्ञासामहे; न ह्रत्र इदं तदिति विशेषितं किंचित्प्रतिषेध्यमुपलभ्यते; इति-शब्देन तु अत्र प्रतिषेध्यं किमपि समप्र्यते, 'नेति नेति ' इति इति-परत्वात् नञ्प्रयोगस्य; इति-शब्दश्चायं संनिहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते -- 'इति ह स्मोपाध्यायः कथयति ' इत्येवमादिषु; संनिहितं चात्र प्रकरणसामथ्र्याद्रूपद्वयं सप्रपञ्चं ब्राहृणः, तच्च ब्राहृ, यस्य ते द्वे रूपे। तत्र नः संशय उपजायते -- किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति, आहोस्विदेकतरम्; यदाप्येकतरम्, तदापि किं ब्राहृ प्रतिषेधति, रूपे परिशिनष्टि, आहोस्विद्रूपे प्रतिषेधति, ब्राहृ परिशिनष्टि -- इति।।

तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे -- द्वौ चैतौ प्रतिषेधौ, द्विः नेतिशब्दप्रयोगात्; तयोरेकेन सप्रपञ्चं ब्राहृणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्राहृ -- इति भवति मतिः। अथवा ब्राहृैव रूपवत् प्रतिषिध्यते; तद्धि वाङ्मनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम्; न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः; अभ्यासस्त्वादरार्थः इत्येवं प्राप्ते --

ब्राूमः -- न तावदुभयप्रतिषेध उपपद्यते, शून्यवादप्रसङ्गात् -- कंचिद्धि परमार्थमालम्ब्य अपरमार्थः प्रतिषिध्यते, यथा रज्ज्वादिषु सर्पादयः; तच्च परिशिष्यमाणे कÏस्मश्चिद्भावे अवकल्पते; कृत्स्नप्रतिषेधे तु कोऽन्यो भावः परिशिष्येत? अपरिशिष्यमाणे चान्यस्मिन्, य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात् तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः। नापि ब्राहृप्रतिषेध उपपद्यते -- 'ब्राहृ ते ब्रावाणि ' इत्याद्युपक्रमविरोधात्, 'असन्नेव स भवति। असद्ब्राहृेति वेद चेत् ' इत्यादिनिन्दाविरोधात्, 'अस्तीत्येवोपलब्धव्यः ' इत्याद्यवधारणविरोधात्, सर्ववेदान्तव्याकोपप्रसङ्गाच्च। वाङ्मनसातीतत्वमपि ब्राहृणो न अभावाभिप्रायेणाभिधीयते; न हि महता परिकरबन्धेन 'ब्राहृविदाप्नोति परम् सत्यं ज्ञानमनन्तं ब्राहृ ' इत्येवमादिना वेदान्तेषु ब्राहृ प्रतिपाद्य तस्यैव पुनः अभावोऽभिलप्येत; 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ' इति हि न्यायः। प्रतिपादनप्रक्रिया तु एषा -- 'यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह ' इति; एतदुक्तं भवति -- वाङ्मनसातीतमविषयान्तःपातिप्रत्यगात्मभूतं नित्यशुद्धबुद्धमुक्तस्वभावं ब्राहृेति। तस्माद्ब्राहृणो रूपप्रपञ्चं प्रतिषेधति, परिशिनष्टि ब्राहृ -- इत्यवगन्तव्यम्।।

तदेतदुच्यते -- प्रकृतैतावत्त्वं हि प्रतिषेधतीति। प्रकृतं यदेतावत् इयत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्राहृणो रूपं तदेष शब्दः प्रतिषेधति। तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिन्ग्रन्थे अधिदैवतमध्यात्मं च। तज्जनितमेव च वासनालक्षणमपरं रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् -- अमूर्तरसस्य पुरुषस्य चक्षुग्र्राह्ररूपयोगित्वानुपपत्तेः। तदेतत् सप्रपञ्चं ब्राहृणो रूपं संनिहितालम्बनेन इति-करणेन प्रतिषेधकं नञं प्रति उपनीयत इति गम्यते। ब्राहृ तु रूपविशेषणत्वेन षष्ठ¬ा निर्दिष्टं पूर्वस्मिन्ग्रन्थे, न स्वप्रधानत्वेन। प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायाम् इदमुपक्रान्तम् -- 'अथात आदेशो नेति नेति ' इति। तत्र कल्पितरूपप्रत्याख्यानेन ब्राहृणः स्वरूपावेदनमिति निर्णीयते। तदास्पदं हि इदं समस्तं कार्यम् 'नेति नेति ' इति प्रतिषिद्धम्। युक्तं च कार्यस्य, वाचारम्भणशब्दादिभ्योऽसत्त्वमिति, नेति नेतीति प्रतिषेधनम्; न तु ब्राहृणः, सर्वकल्पनामूलत्वात्। न च अत्र इयमाशङ्का कर्तव्या -- कथं हि शास्त्रं स्वयमेव ब्राहृणो रूपद्वयं दर्शयित्वा, स्वयमेव पुनः प्रतिषेधति -- 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ' इति -- यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्राहृणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं तु इदं रूपद्वयं ब्राहृणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्राहृस्वरूपप्रतिपादनाय च -- इति निरवद्यम्। द्वौ च एतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः; यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति, उत्तरो वासनाराशिम्। अथवा 'नेति नेति ' इति वीप्सा इयम् -- 'इति ' इति यावÏत्कचित् उत्प्रेक्ष्यते, तत्सर्वं न भवतीत्यर्थः -- परिगणितप्रतिषेधे हि क्रियमाणे, यदि नैतद्ब्राहृ, किमन्यद्ब्राहृ भवेदिति जिज्ञासा स्यात्; वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्राहृेति, जिज्ञासा निवर्तते। तस्मात् प्रपञ्चमेव ब्राहृणि कल्पितं प्रतिषेधति, परिशिनष्टि ब्राहृ -- इति निर्णयः।।

इतश्च एष एव निर्णयः, यतः -- ततः प्रपञ्चप्रतिषेधात्, भूयो ब्राहृ ब्रावीति -- 'अन्यत्परमस्ति ' इति। अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्राूयात्। तत्रैषा अक्षरयोजना -- 'नेति नेति ' इति ब्राहृ आदिश्य, तमेव आदेशं पुनर्निर्वक्ति -- 'नेति नेति ' इत्यस्य कोऽर्थः? न हि एतस्माद्ब्राहृणो व्यतिरिक्तमस्तीत्यतः 'नेति नेति ' इत्युच्यते, न पुनः स्वयमेव नास्ति -- इत्यर्थः; तच्च दर्शयति -- अन्यत्परम् अप्रतिषिद्धं ब्राहृ अस्तीति। यदा पुनरेवमक्षराणि योज्यन्ते -- न हि, एतस्मात् 'इति न इति न ' इति प्रपञ्चप्रतिषेधरूपात् आदेशनात्, अन्यत्परमादेशनं ब्राहृणः अस्तीति -- तदा, 'ततो ब्रावीति च भूयः ' इत्येतत् नामधेयविषयं योजयितव्यम् -- 'अथ नामधेय#्ँसत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ' इति हि ब्रावीति -- इति। तच्च ब्राहृावसाने प्रतिषेधे समञ्जसं भवति; अभावावसाने तु प्रतिषेधे, किम् 'सत्यस्य सत्यम् ' इत्युच्येत? तस्माद्ब्राहृावसानः अयं प्रतिषेधः, नाभावावसानः -- इत्यध्यवस्यामः।।

तदव्यक्तमाह हि।। 3.2.23।।

।। 3.2.23।।

यत्तत् प्रतिषिद्धात्प्रपञ्चजातादन्यत् परं ब्राहृ, तदस्ति चेत्, कस्मान्न गृह्रत इति, उच्यते -- तत् अव्यक्तमनिन्द्रियग्राह्रम्, सर्वदृश्यसाक्षित्वात्। आह हि एवं श्रुतिः -- 'न चक्षुषा गृह्रते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा स एष नेति नेत्यात्मागृह्रो न हि गृह्रते यत्तदद्रेश्यमग्राह्रम् यदा ह्रेवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने ' इत्याद्या; स्मृतिरपि -- 'अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते '
इत्याद्या।।


अपि च संराधने प्रत्यक्षानुमानाभ्याम्।। 3.2.24।।

।। 3.2.24।।

अपि च एनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगनः; संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम्। कथं पुनरवगम्यते -- संराधनकाले पश्यन्तीति? प्रत्यक्षानुमानाभ्याम्, श्रुतिस्मृतिभ्यामित्यर्थः। तथा हि श्रुतिः -- 'पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ' इति, 'ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ' इति चैवमाद्या। स्मृतिरपि -- 'ये विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः। ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः।। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ' इति चैवमाद्या।।

ननु संराध्यसंराधकभावाभ्युपगमात्परापरात्मनोरन्यत्वं स्यादिति; नेत्युच्यते --


प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात्।। 3.2.25।।

।। 3.2.25।।

यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृतिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति; एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्तु ऐकात्म्यमेव। तथा हि वेदान्तेषु अभ्यासेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते।।


अतोऽनन्तेन तथा हि लिङ्गम्।। 3.2.26।।

।। 3.2.26।।

अतश्च स्वाभाविकत्वादभेदस्य, अविद्याकृतत्वाच्च भेदस्य, विद्यया अविद्यां विधूय जीवः परेण अनन्तेन प्राज्ञेन आत्मना एकतां गच्छति। तथा हि लिङ्गम् -- 'स यो ह वै तत्परमं ब्राहृ वेद ब्राहृैव भवति ब्राहृैव सन्ब्राहृाप्येति ' इत्यादि।।

उभयव्यपदेशात्त्वहिकुण्डलवत्।। 3.2.27।।

।। 3.2.27।।

तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति, स्वमतविशुद्धये। क्वचित् जीवप्राज्ञयोर्भेदो व्यपदिश्यते -- 'ततस्तु तं पश्यते निष्कलं ध्यायमानः ' इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च; 'परात्परं पुरुषमुपैति दिव्यम् ' इति गन्तृगन्तव्यत्वेन; 'यः सर्वाणि भूतान्यन्तरो यमयति ' इति नियन्तृनियन्तव्यत्वेन च। क्वचित्तु तयोरेवाभेदो व्यपदिश्यते -- 'तत्त्वमसि अहं ब्राहृास्मि एष त आत्मा सर्वान्तरः एष त आत्मान्तर्याम्यमृतः ' इति। तत्रैवमुभयव्यपदेशे सति, यद्यभेद एव एकान्ततो गृह्रते, भेदव्यपदेशो निरालम्बन एव स्यात्। अत उभयव्यपदेशदर्शनात् अहिकुण्डलवदत्र तत्त्वं भवितुमर्हति -- यथा अहिरित्यभेदः, कुण्डलाभोगप्रांशुत्वादीनीति च भेदः, एवमिहापीति।।

प्रकाशाश्रयवद्वा तेजस्त्वात्।। 3.2.28।।

।। 3.2.28।।

अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् -- यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेजस्त्वाविशेषात्; अथ च भेदव्यपदेशभाजौ भवतः -- एवमिहापीति।।

पूर्ववद्वा।। 3.2.29।।

।। 3.2.29।।

यथा वा पूर्वमुपन्यस्तम् -- 'प्रकाशादिवच्चावैशेष्यम् ' इति, तथैव एतद्भवितुमर्हति; तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते। यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मनः संस्थानभूतः, प्रकाशाश्रयन्यायेन च एकदेशभूतोऽभ्युपगम्येत; ततः पारमार्थिकस्य बन्धस्य
तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयथ्र्यं प्रसज्येत। न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति; अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानुवदति अर्थान्तरविवक्षया। तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः।।

प्रतिषेधाच्च।। 3.2.30।।

।। 3.2.30।।

इतश्च एष एव सिद्धान्तः, यत्कारणं परस्मादात्मनोऽन्यं चेतनं प्रतिषेधति शास्त्रम् -- 'नान्योऽतोऽस्ति द्रष्टा ' इत्येवमादि। 'अथात आदेशो नेति नेति तदेतद्ब्राहृापूर्वमनपरमनन्तरमबाह्रम् ' इति च ब्राहृव्यतिरिक्तप्रपञ्चनिराकरणात् ब्राहृमात्रपरिशेषाच्च एष एव सिद्धान्त इति गम्यते।।

यदेतत् निरस्तसमस्तप्रपञ्चं ब्राहृ निर्धारितम्, अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः। कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्राहृणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव; तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते --

परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः।। 3.2.31।।

।। 3.2.31।।

परम् अतो ब्राहृणः अन्यत्तत्त्वं भवितुमर्हति; कुतः? सेतुव्यपदेशात् उन्मानव्यपदेशात् संबन्धव्यपदेशात् भेदव्यपदेशाच्च। सेतुव्यपदेशस्तावत् -- 'अथ य आत्मा स सेतुर्विधृतिः ' इत्यात्मशब्दाभिहितस्य ब्राहृणः सेतुत्वं संकीर्तयति; सेतुशब्दश्च हि लोके जलसंतानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः; इह च सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति; 'सेतु तीत्र्वा ' इति च तरतिशब्दप्रयोगात् -- यथा लौकिकं सेतुं तीत्र्वा जाङ्गलमसेतुं प्राप्नोति, एवमात्मानं सेतुं तीत्र्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते। उन्मानव्यपदेशश्च भवति -- तदेतद्ब्राहृ चतुष्पात् अष्टाशफं षोडशकलमिति; यच्च लोके उन्मितम् एतावदिदमिति परिच्छिन्नं कार्षापणादि, ततोऽन्यद्वस्त्वस्तीति प्रसिद्धम्; तथा ब्राहृणोऽप्युन्मानात् ततोऽन्येन वस्तुना भवितव्यमिति गम्यते। तथा संबन्धव्यपदेशो भवति -- 'सता सोम्य तदा संपन्नो भवति ' इति, शारीर आत्मा 'प्राज्ञेनात्मना संपरिष्वक्तः ' इति च; मितानां च मितेन संबन्धो दृष्टः, यथा नराणां नगरेण; जीवानां च ब्राहृणा संबन्धं व्यपदिशति सुषुप्तौ; अतः ततः परमन्यदमितमस्तीति गम्यते। भेदव्यपदेशश्च एनमर्थं गमयति; तथा हि -- 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ' इत्यादित्याधारमीश्वरं व्यपदिश्य, ततो भेदेन अक्ष्याधारमीश्वरं व्यपदिशति -- 'अथ य एषोऽक्षिणि पुरुषो दृश्यते ' इति; अतिदेशं च अस्य अमुना रूपादिषु करोति -- 'तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ' इति; सावधिकं च ईश्वरत्वमुभयोव्र्यपदिशति -- 'ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां च ' इत्येकस्य, 'ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां च ' इत्येकस्य, यथा इदं मागधस्य राज्यम्, इदं वैदेहस्येति। एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्राहृणः परमस्तीति।।

एवं प्राप्ते, प्रतिपाद्यते --


सामान्यात्तु।। 3.2.32।।

।। 3.2.32।।

तु-शब्देन प्रदर्शितां प्राÏप्त निरुणद्धि। न ब्राहृणोऽन्यत् किंचिद्भवितुमर्हति, प्रमाणाभावात् -- न ह्रन्यस्यास्तित्वे किंचित्प्रमाणमुपलभामहे; सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्राहृणो भवतीति निर्धारितम्, अनन्यत्वं च कारणात् कार्यस्य; न च ब्राहृव्यतिरिक्तं किंचित् अजं संभवति, 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' इत्यवधारणात्; एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्राहृव्यतिरिक्तवस्त्वस्तित्वमवकल्पते। ननु सेत्वादिव्यपदेशाः ब्राहृव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम्; नेत्युच्यते -- सेतुव्यपदेशस्तावत् न ब्राहृणो बाह्रस्य सद्भावं प्रतिपादयितुं क्षमते; सेतुरात्मेति हि आह, न अतः परमस्तीति; तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत; न चैतत् न्याय्यम्; हठो हि अप्रसिद्धकल्पना; अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सबाह्रवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत; न चैतन्न्याय्यम्,
अजत्वादिश्रुतिविरोधात्; सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते; जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः; अतः सेतुरिव सेतुः -- इति प्रकृत आत्मा स्तूयते। 'सेतुं तीत्र्वा ' इत्यपि तरतिः अतिक्रमासंभवात् प्राप्नोत्यर्थ एव वर्तते -- यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत्।।

बुद्ध्यर्थः पादवत्।। 3.2.33।।

।। 3.2.33।।

यदप्युक्तम् -- उन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते -- उन्मानव्यपदेशोऽपि न ब्राहृव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः; किमर्थस्तर्हि? बुद्ध्यर्थः, उपासनार्थ इति यावत्; चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा -- बुद्धिः कथं नु नाम ब्राहृणि स्थिरा स्यादिति -- विकारद्वारेण ब्राहृण उन्मानकल्पनैव क्रियते; न हि अविकारेऽनन्ते ब्राहृणि सर्वैः पुंभिः शक्या बुद्धिः स्थापयितुम्, मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति। पादवत् -- यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्राहृप्रतीकयोराम्नातयोः, चत्वारो वागादयो मनःसंबन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसंबन्धिनः -- आध्यानाय -- तद्वत्। अथवा पादवदिति -- यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते -- न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् -- तद्वदित्यर्थः।।


स्थानविशेषात्प्रकाशादिवत्।। 3.2.34।।

।। 3.2.34।।

इह सूत्रे द्वयोरपि संबन्धभेदव्यपदेशयोः परिहारोऽभिधीयते। यदप्युक्तम् -- संबन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते। संबन्धव्यपदेशे तावदयमर्थः -- बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना संबन्धः -- इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया। तथा भेदव्यपदेशोऽपि ब्राहृण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया। प्रकाशादिवदिति उपमोपादानम् -- यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्संबन्धव्यपदेशो भवति, उपाधिभेदाच्च भेदव्यपदेशः; यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतः -- तद्वत्।।

उपपत्तेश्च।। 3.2.35।।

।। 3.2.35।।

उपपद्यते च अत्र ईदृश एव संबन्धः, नान्यादृशः -- 'स्वमपीतो भवति ' इति हि स्वरूपसंबन्धमेनमामनन्ति; स्वरूपस्य च अनपायित्वात् न नरनगरन्यायेन संबन्धो घटते; उपाधिकृतस्वरूपतिरोभावात्तु 'स्वमपीतो भवति ' इत्युपपद्यते। तथा भेदोऽपि नान्यादृशः संभवति, बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात्; तथा च श्रुतिरेकस्याप्याकाशस्य स्थानकृतं भेदव्यपदेशमुपपादयति -- 'योऽयं बहिर्धा पुरुषादाकाशः योऽयमन्तः पुरुष आकाशः योऽयमन्तह्र्मदय आकाशः ' इति।।


तथान्यप्रतिषेधात्।। 3.2.36।।

।। 3.2.36।।

एवं सेत्वादिव्यपदेशान् परपक्षहेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वन्तरेणोपसंहरति। तथान्यप्रतिषेधापि न ब्राहृणः परं वस्त्वन्तरमस्तीति गम्यते; तथा हि -- 'स एवाधस्तात् ... अहमेवाधस्तात् आत्मैवाधस्तात् सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ब्राहृैवेदं सर्वम् आत्मैवेदं सर्वम् नेह नानास्ति किंचन यस्मात्परं नापरमस्ति किंचित् तदेतद्ब्राहृापूर्वमनपरमनन्तरमबाह्रम् ' इत्येवमादीनि वाक्यानि स्वप्रकरणस्थानि अन्यार्थत्वेन परिणेतुमशक्यानि ब्राहृव्यतिरिक्तं वस्त्वन्तरं वारयन्ति। सर्वान्तरश्रुतेश्च न परमात्मनोऽन्यः अन्तरात्मा अस्तीत्यवगम्यते।।

अनेन सर्वगतत्वमायामशब्दादिभ्यः।। 3.2.37।।

।। 3.2.37।।

अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति; अन्यथा हि तन्न
सिध्येत्। सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वादीनामेवमात्मकत्वात्; तथा अन्यप्रतिषेधेऽप्यसति, वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत। सर्वगतत्वं च अस्य आयामशब्दादिभ्योऽवगम्यते; आयामशब्दः व्याप्तिवचनः शब्दः; 'यावान्वा अयमाकाशस्तावानेषोऽन्तह्र्मदय आकाशः आकाशवत्सर्वगतश्च नित्यः ज्यायान्दिवः ज्यायानाकाशात् ' -- 'नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ' इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनोऽवबोधयन्ति।।

फलमत उपपत्तेः।। 3.2.38।।

फलाधिकरणम्।। 3.2.38।।

तस्यैव ब्राहृणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम्, अयमन्यः स्वभावो वण्र्यते। यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम्, किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति विचारणा। तत्र तावत्प्रतिपाद्यते -- फलम् अतः ईश्वरात् भवितुमर्हति; कुतः? उपपत्तेः; स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं संपादयतीत्युपपद्यते; कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम्, अभावाद्भावानुत्पत्तेः। स्यादेतत् -- कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कत्र्रा भोक्ष्यत इति; तदपि न परिशुध्यति, प्राग्भोक्तृसंबन्धात् फलत्वानुपपत्तेः -- यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम्; न हि असंबद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः। अथोच्येत -- मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः, तदस्तित्वे एव प्रमाणाभावात्; अर्थापत्तिः प्रमाणमिति चेत्, न, ईश्वरसिद्धेरर्थापत्तिक्षयात्।।

श्रुतत्वाच्च।। 3.2.39।।

।। 3.2.39।।

न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः, किं तर्हि श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे, तथा च श्रुतिर्भवति -- 'स वा एष महानज आत्मान्नादो वसुदानः ' इत्येवंजातीयका।।

धर्मं जैमिनिरत एव।। 3.2.40।।

।। 3.2.40।।

जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः -- श्रुतेः उपपत्तेश्च। श्रूयते तावदयमर्थः 'स्वर्गकामो यजेत ' इत्येवमादिषु वाक्येषु; तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते; अन्यथा हि अननुष्ठातृको याग आपद्येत; तत्र अस्य उपदेशवैयथ्र्यं स्यात्। ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोषः, श्रुतिप्रामाण्यात् -- श्रुतिश्चेत् प्रमाणम्, यथायं कर्मफलसंबन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः; न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति; अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तक्र्यते। उपपद्यते च अयमर्थं उक्तेन प्रकारेण। ईश्वरस्तु फलं ददातीत्यनुपपन्नम्, अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात्, तदनुष्ठानवैयथ्र्यापत्तेश्च। तस्मात् धर्मादेव फलमिति।।

पूर्वं तु बादरायणो हेतुव्यपदेशात्।। 3.2.41।।

।। 3.2.41।।

बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते। केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावत्र्यते। कर्मापेक्षात् अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः; कुतः? हेतुव्यपदेशात्; धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन -- 'एष ह्रेव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष उ एवासाधु कर्म कारयति तं यमधो निनीषते ' इति; स्मर्यते च अयमर्थो भगवद्गीतासु -- 'यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।। स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान्हितान् ' इति। सर्ववेदान्तेषु च ईश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते; तदेव च ईश्वरस्य फलहेतुत्वम्, यत् स्वकर्मानुरूपाः प्रजाः सृजति।
विचित्रकार्यानुपपत्त्यादयोऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः।।

तृतीयः पादः

[सम्पाद्यताम्]

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ।। 3.3.1 ।।

सर्ववेदान्तप्रत्ययाधिकरणम्।। 3.3.1।।

सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति; कुतः? चोदनाद्यविशेषात्; आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते -- संयोगरूपचोदनाख्याविशेषादित्यर्थः। यथा एकस्मिन्नग्निहोत्रे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते -- जुहुयादिति, एवम् 'यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ' इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना। प्रयोजनसंयोगोऽप्यविशिष्ट एव -- 'ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ' इति। रूपमप्युभयत्र तदेव विज्ञानस्य, यदुत ज्येष्ठश्रेष्ठादिविशेषणान्वितं प्राणतत्त्वम् -- यथा च द्रव्यदेवते यागस्य रूपम्, एवं विज्ञेयं रूपं विज्ञानस्य; तेन हि तत् रूप्यते। समाख्यापि सैव -- प्राणविद्येति। तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम्। एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिष्वपि योजयितव्यम्। ये तु नामरूपादयो भेदहेत्वाभासाः, ते प्रथम एव काण्डे 'न नाम्ना स्यादचोदनाभिधानत्वात् ' इत्यारभ्य परिह्मताः।।

इहापि कंचिद्विशेषमाशङ्क्य परिहरति --

भेदान्नेति चेन्नैकस्यामपि।। 3.3.2।।

।। 3.3.2।।

स्यादेतत् -- सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदात् नोपपद्यते; तथा हि -- वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति -- 'तस्याग्निरेवाग्निर्भवति ' इत्यादिना; छन्दोगास्तु तं न आमनन्ति, पञ्चसंख्ययैव च ते उपसंहरन्ति -- 'अथ ह य एतानेवं पञ्चाग्नीन्वेद ' इति; येषां च स गुणोऽस्ति, येषां च
नास्ति, कथमुभयेषामेका विद्योपपद्येत? न च अत्र गुणोपसंहारः शक्यते प्रत्येतुम्, पञ्चसंख्याविरोधात्। तथा प्राणसंवादे श्रेष्ठात् अन्यान् चतुरः प्राणान् वाक्चक्षुःश्रोत्रमनांसि छन्दोगा आमनन्ति; वाजसनेयिनस्तु पञ्चममप्यामनन्ति -- 'रेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेद ' इति; आवापोद्वापभेदाच्च वेद्यभेदो भवति, वेद्यभेदाच्च विद्याभेदः, द्रव्यदेवताभेदादिवयागस्येति चेत् -- नैष दोषः; यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते; यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति, तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति; न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते। पठ¬तेऽपि च षष्ठोऽग्निः छन्दोगैः -- 'तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति ' इति; वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये 'तस्याग्निरेवाग्निर्भवति समित्समित् ' इत्यादि समामनन्ति; स नित्यानुवादः; अथाप्युपासनार्थ एष वादः, तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम्। न च अत्र पञ्चसंख्याविरोध आशङ्क्यः; सांपादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता, न विधिसमवायिनी -- इत्यदोषः। एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते। न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः, कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात्। तस्मादैकविद्यमेव।।

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः।। 3.3.3।।

।। 3.3.3।।

यदप्युक्तम् -- आथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणात् अन्येषां च तदनपेक्षणात् विद्याभेद इति, तत्प्रत्युच्यते। स्वाध्यायस्य एष धर्मः, न विद्यायाः; कथमिदमवगम्यते? यतः, तथात्वेन स्वाध्यायधर्मत्वेन, समाचारे वेदव्रतोपदेशपरे ग्रन्थे, आथर्वणिकाः 'इदमपि वेदव्रतत्वेन व्याख्यातम् ' इति समामनन्ति; 'नैतदचीर्णव्रतोऽधीते ' इति च अधिकृतविषयादेतच्छब्दात् अध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एव एष इति निर्धार्यते। ननु 'तेषामेवैतां ब्राहृविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ' इति ब्राहृविद्यासंयोगश्रवणात्, एकैव सर्वत्र ब्राहृविद्येति, संकीर्येत एष धर्मः -- न, तत्रापि एतामिति प्रकृतप्रत्यवमर्शात्; प्रकृतत्वं च ब्राहृविद्यायाः ग्रन्थविशेषापेक्षम् -- इति ग्रन्थविशेषसंयोग्येव एष धर्मः। सववच्च तन्नियम इति निदर्शननिर्देशः -- यथा च सवाः सप्त सौर्यादयः शतौदनपर्यन्ताः वेदान्तरोदितत्रेताग्न्यनभिसंबन्धात् आथर्वणोदितैकाग्न्यभिसंबन्धाच्च आथर्वणिकानामेव नियम्यन्ते, तथैव अयमपि धर्मः स्वाध्यायविशेषसंबन्धात् तत्रैव नियम्यते। तस्मादप्यनवद्यं विद्यैकत्वम्।।

दर्शयति च।। 3.3.4।।

।। 3.3.4।।

दर्शयति च वेदोऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् -- 'सर्वे वेदा यत्पदमामनन्ति ' इति, 'तथैतं ह्रेव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः ' इति च। तथा 'महद्भयं वज्रमुद्यतम् ', इति काठके उक्तस्य ईश्वरगुणस्य भयहेतुत्वस्य तैत्तिरीयके भेददर्शननिन्दायै परामर्शो दृश्यते -- 'यदा ह्रेवैष एतस्मिन्नुदरमन्तरं कुरुते। अथ तस्य भयं भवति। तत्त्वेव भयं विदुषोऽमन्वानस्य ' इति। तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्वानरस्य च्छान्दोग्ये सिद्धवदुपादानम् -- 'यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते ' इति। तथा सर्ववेदान्तप्रत्ययत्वेन अन्यत्र विहितानामुक्थादीनामन्यत्रोपासनविधानाय उपादानात् प्रायदर्शनन्यायेन उपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः।।

उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च।। 3.3.5।।

उपसंहाराधिकरणम्।। 3.3.5।।

इदं प्रयोजनसूत्रम्। स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानाम्, अन्यत्रोदितानां विज्ञानगुणानाम्, अन्यत्रापि समाने विज्ञाने उपसंहारो भवति; अर्थाभेदात् -- य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः, स एव अन्यत्रापि; उभयत्रापि हि तदेवैकं विज्ञानम्; तस्मादुपसंहारः। विधिशेषवत् -- यथा विधिशेषाणामग्निहोत्रादिधर्माणाम्, तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति, अर्थाभेदात् उपसंहरणम्; एवमिहापि। यदि हि विज्ञानभेदो भवेत्, ततो विज्ञानान्तरनिबद्धत्वाद्गुणानाम्, प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः; विज्ञानैकत्वे तु नैवमिति। अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः 'सर्वाभेदात् ' इत्यारभ्य भविष्यति।।

अन्यथात्वं शब्दादिति चेन्नाविशेषात्।। 3.3.6।।

अन्यथात्वाधिकरणम्।। 3.3.6।।

वाजसनेयके 'ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति ते ह वाचमूचुस्त्वं न उद्गाय ' इति प्रक्रम्य, वागादीन्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा, मुख्यप्राणपरिग्रहः पठ¬ते -- 'अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् ' इति। तथा छान्दोग्येऽपि 'तद्ध देवा उद्गीथमाजह्युरनेनैनानभिभविष्यामः ' इति प्रक्रम्य, इतरान्प्राणान् असुरपाप्मविद्धत्वेन निन्दित्वा, तथैव मुख्यप्राणपरिग्रहः पठ¬ते -- 'अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे ' इति। उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते। तत्र संशयः -- किमत्र विद्याभेदः स्यात्, आहोस्वित् विद्यैकत्वमिति। किं तावत्प्राप्तम् पूर्वेण न्यायेन विद्यैकत्वमिति। ननु न युक्तं विद्यैकत्वम्, प्रक्रमभेदात्; अन्यथा हि प्रक्रमन्ते वाजसनेयिनः, अन्यथा छन्दोगाः -- 'त्वं न उद्गाय ' इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति, छन्दोगास्तु उद्गीथत्वेन 'तमुद्गीथमुपासांचक्रिरे ' इति, तत्कथं विद्यैकत्वं स्यादिति चेत् -- नैष दोषः; न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति, अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात्; तथा हि -- देवासुरसंग्रामोपक्रमत्वम्, असुरात्ययाभिप्रायः, उद्गीथोपन्यासः, वागादिसंकीर्तनम्, तन्निन्दया मुख्यप्राणव्यपाश्रयः, तद्वीर्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन -- इत्येवं बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते। वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् -- 'एष उ वा उद्गीथः ' इति। तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम्। तस्माच्च विद्यैकत्वमिति।।

न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्।। 3.3.7।।

।। 3.3.7।।

न वा विद्यैकत्वमत्र न्याय्यम्; विद्याभेद एव अत्र न्याय्यः; कस्मात्? प्रकरणभेदात्, प्रक्रमभेदादित्यर्थः; तथा हि इह प्रक्रमभेदो दृश्यते -- छान्दोग्ये तावत् -- 'ओमित्येतदक्षरमुद्गीथमुपासीत ' इत्येवमुद्गीथावयवस्य ओंकारस्य उपास्यत्वं प्रस्तुत्य, रसतमत्वादिगुणोपव्याख्यानं तत्र कृत्वा, अथ 'खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ' इति पुनरपि तमेव उद्गीथावयवमोंकारमनुवत्र्य, देवासुराख्यायिकाद्वारेण तम् 'प्राणमुद्गीथमुपासांचक्रिरे ' इत्याह; तत्र यदि उद्गीथशब्देन सकला भक्तिरभिप्रेयेत, तस्याश्च कर्ता उद्गाता ऋत्विक्, तत उपक्रमश्चोपरुध्येत, लक्षणा च प्रसज्येत; उपक्रमतन्त्रेण च एकस्मिन्वाक्ये उपसंहारेण भवितव्यम्; तस्मात् अत्र तावत् उद्गीथावयवे ओंकारे प्राणदृष्टिरूपदिश्यते -- वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यते; 'त्वं न उद्गाय ' इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति -- प्रस्थानान्तरम्। यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य, तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति। सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम्। न च प्राणस्योद्गातृत्वम् असंभवेन हेतुना परित्यज्यते, उद्गीथभाववत् उद्गातृभावस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात्; प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसंभवः; तथा च तत्रैव श्रावितम् -- 'वाचा च ह्रेव स प्राणेन चोदगायत् ' इति। न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम्; तथा हि -- अभ्युदयवाक्ये पशुकामवाक्ये च 'त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् ' इत्यादिनिर्देशसाम्येऽपि, उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसितः, पशुकामवाक्ये तु यागविधिः -- तथा इहापि उपक्रमभेदात् विद्याभेदः। परोवरीयस्त्वादिवत् -- यथा परमात्मदृष्ट¬ध्याससाम्येऽपि, 'आकाशो ह्रेवैभ्यो ज्यायानाकाशः परायणम् स एष परोवरीयानुद्गीथः स एषोऽनन्तः ' इति परोवरीयस्त्वगुणविशिष्टम् उद्गीथोपासनम् अक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनात् भिन्नम्; न च इतरेतरगुणोपसंहार एकस्यामपि शाखायाम् -- तद्वत् शाखान्तरस्थेष्वपि एवंजातीयकेषु उपासनेष्विति।।

संज्ञातश्चेत्तदुक्तमस्ति तु तदपि।। 3.3.8।।

।। 3.3.8।।

अथोच्येत -- संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम्, उद्गीथविद्येत्युपभयत्रापि एका संज्ञेति, तदपि नोपपद्यते; उक्तं ह्रेतत् -- 'न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ' इति; तदेव च अत्र न्याय्यतरं श्रुत्यक्षरानुगतं हि; तत् संज्ञैकत्वं तु श्रुत्यक्षरबाह्रम् उद्गीथशब्दमात्रयोगात् लौकिकैव्र्यवहर्तृभिरुपचर्यते। अस्ति च एतत्संज्ञैकत्वं
प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषु -- उद्गीथविद्येति; तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञैकत्वं दृश्यते, तथेहापि भविष्यति। यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः, तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् -- यथा संवर्गविद्यादिषु।।

व्याप्तेश्च समञ्जसम्।। 3.3.9।।

व्याप्त्याधिकरणम्।। 3.3.9।।

'ओमित्येतदक्षरमुद्गीथमुपासीत ' इत्यत्र अक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे अध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात् कतमोऽत्र पक्षोन्याय्यः स्यादिति विचारः। तत्र अध्यासो नाम -- द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते; यस्मिन् इतरबुद्धिरध्यस्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः, अध्यस्तेतरबुद्धावपि -- यथा नाम्नि ब्राहृबुद्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धिः, न ब्राहृबुद्ध्या निवर्तते -- यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः -- एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्येत, उद्गीथे वा अक्षरबुद्धिरिति। अपवादो नाम -- यत्र कÏस्मश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम्, पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति -- यथा देहेन्द्रियसंघाते आत्मबुद्धिः, आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या 'तत्त्वमसि ' इत्यनया यथार्थबुद्ध्या निवत्र्यते -- यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवत्र्यते -- एवमिहापि अक्षरबुद्ध्या उद्गीथबुद्धिर्निवत्र्येत, उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति। एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् -- यथा द्विजोत्तमो ब्रााहृणो भूमिदेव इति। विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्गे औद्गात्रविशेषस्य समर्पणम् -- यथा नीलं यदुत्पलम् तदानयेति, एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति। एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने, एते पक्षाः प्रतिभान्ति; तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारणप्राप्तौ --

इदमुच्यते -- व्याप्तेश्च समञ्जसमिति। च-शब्दोऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजनः। तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते; विशेषणपक्ष एवैको निरवद्य इत्युपादीयते। तत्राध्यासे तावत् -- या बुद्धिः इतरत्र अध्यस्यते, तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत, तत्फलं च कल्प्येत; श्रूयत एव फलम्, 'आपयिता ह वै कामानां भवति ' इत्यादि, इति चेत् -- तन्न, तस्य अन्यफलत्वात्; आप्त्यादिदृष्टिफलं हि तत्, नोद्गीथाध्यासफलम्। अपवादेऽपि समानः फलाभावः; मिथ्याज्ञाननिवृत्तिः फलमिति चेत्, न; पुरुषार्थोपयोगानवगमात्; न च कदाचिदपि ओंकारात् ओकारबुद्धिर्निवर्तेत, उद्गीथाद्वा उद्गीथबुद्धिः; न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम्, उपासनाविधिपरत्वात्। नापि एकत्वपक्षः संगच्छते; निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात्, एकेनैव विवक्षितार्थसमर्पणात्। न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसिद्धिरस्ति, नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गीथशब्दवाच्यायाम् ओंकारशब्दप्रसिद्धिः, येनानतिरिक्तार्थता स्यात्। परिशेषाद्विशेषणपक्षः परिगृह्रते, व्याप्तेः सर्ववेदसाधारण्यात्; सर्वव्याप्यक्षरमिह मा प्रसञ्जि -- इत्यत उद्गीथशब्देन अक्षरं विशेष्यते -- कथं नाम उद्गीथावयवभूत ओंकारो गृह्रेतेति। नन्वस्मिन्नपि पक्षे समाना लक्षणा, उद्गीथशब्दस्य अवयवलक्षणार्थत्वात्; सत्यमेवमेतत्; लक्षणायामपि तु संनिकर्षविप्रकर्षौ भवत एव; अध्यासपक्षे हि अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समप्र्यत इति संनिकृष्टा; समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तमाना दृष्टाः पटग्रामादिषु। अतश्च व्याप्तेर्हेतोः 'ओमित्येतदक्षरम् ' इत्येतस्य 'उद्गीथम् ' इत्येतद्विशेषणमिति समञ्जसमेतत्, निरवद्यमित्यर्थः।।

सर्वाभेदादन्यत्रेमे।। 3.3.10।।

सर्वाभेदाधिकरणम्।। 3.3.10।।

वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ¬गुणान्वितस्य प्राणस्य उपास्यत्वमुक्तम्; वागादयोऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः; ते च गुणाः प्राणे पुनः प्रत्यर्पिताः -- 'यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसि ' इत्यादिना। अन्येषामपि तु शाखिनां कोषीतकिप्रभृतीनां प्राणसंवादेषु 'अथातो निःश्रेयसादानमेता ह वै देवता अहंश्रेयसे विवदमानाः ' इत्येवंजातीयकेषु प्राणस्य श्रैष्ठ¬मुक्तम्, न त्विमे वसिष्ठत्वादयोऽपि गुणा उक्ताः। तत्र संशयः -- किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्रापि अस्येरन्, उत नास्येरन्निति। तत्र प्राप्तं तावत् -- नास्येरन्निति; कुतः? एवं-शब्दसंयोगात्; 'अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा ' इति हि तत्र तत्र
एवं-शब्देन वेद्यं वस्तु निवेद्यते; एवं-शब्दश्च संनिहितावलम्बनः न शाखान्तरपरिपठितम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम्; तस्मात् स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमित्येवं प्राप्ते --

प्रत्याह -- अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि; कुतः? सर्वाभेदात् -- सर्वत्रैव तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते, प्राणसंवादादिसारूप्यात्; अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन्। ननु एवं-शब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम्; अत्रोच्यते -- यद्यपि कौषीतकिब्रााहृणगतेन एवं-शब्देन वाजसनेयिब्रााहृणगतं गुणजातम् असंशब्दितम् असंनिहितत्वात्, तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्रााहृणगतेन एवं-शब्देन तत् संशब्दितमिति -- न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्वशाखागताद्विशिष्यते; न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति; एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति, गुणवतो भेदाभावात्; न हि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्देश्यैरविभावितशौर्यादिगुणोऽपि अतद्गुणो भवति; यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अभियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्यस्येरन्। तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैव उपसंहर्तव्या इति।।

आनन्दादयः प्रधानस्य।। 3.3.11।।

आनन्दाद्यधिकरणम्।। 3.3.11।।

ब्राहृस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वंमित्येवंजातीयका ब्राहृणो धर्माः क्वचित् केचित् श्रूयन्ते। तेषु संशयः -- किमानन्दादयो ब्राहृधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति। तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम्, इदमुच्यते -- आनन्दादयः प्रधानस्य ब्राहृणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः; कस्मात्? सर्वाभेदादेव -- सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्राहृ न भिद्यते; तस्मात् सार्वत्रिकत्वं ब्राहृधर्माणाम् -- तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन।।

ननु एवं सति प्रियशिरस्त्वादयोऽपि धर्माः सर्वे सर्वत्र संकीर्येरन्; तथा हि तैत्तिरीयके आनन्दमयमात्मानं प्रक्रम्य आम्नायते -- 'तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः। प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्राहृ पुच्छं प्रतिष्ठा ' इति। अत उत्तरं पठति --

प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे।। 3.3.12।।

।। 3.3.12।।

प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः, यत्कारणम् -- प्रियं मोदः प्रमोद आनन्द इत्येते -- परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते; उपचयापचयौ च सति भेदे संभवतः; निर्भेदं तु ब्राहृ 'एकमेवाद्वितीयम् ' इत्यादिश्रुतिभ्यः। न च एते प्रियशिरस्त्वादयो ब्राहृधर्माः; कोशधर्मास्तु एते इत्युपदिष्टमस्माभिः 'आनन्दमयोऽभ्यासात् ' इत्यत्र। अपि च परस्मिन् ब्राहृणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्यन्ते, न द्रष्टव्यत्वेन; एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम्। ब्राहृधर्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् -- प्रियशिरस्त्वाद्यप्राप्तिरिति; स च न्यायः अन्येषु निश्चितेषु ब्राहृधर्मेषु उपासनायोपदिश्यमानेषु नेतव्यः -- संयद्वामत्वादिषु सत्यकामत्वादिषु च; तेषु हि सत्यपि उपास्यस्य ब्राहृण एकत्वे, प्रक्रमभेदादुपासनाभेदे सति, न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः; यथा च द्वे नार्यौ एकं नृपतिमुपासाते -- छत्रेण अन्या चामरेण अन्या -- तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति -- एवमिहापीति। उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्राहृण्युपपद्यते, न निर्गुणे परस्मिन्ब्राहृणि। अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छØतानां सर्वत्र प्राप्तिरित्यर्थः।।

इतरे त्वर्थसामान्यात्।। 3.3.13।।

।। 3.3.13।।

इतरे तु आनन्दादयो धर्मा ब्राहृस्वरूपप्रतिपादनायैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्राहृणो धर्मिण एकत्वात्, सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् -- प्रतिपत्तिमात्रप्रयोजना हि ते इति।।

आध्यानाय प्रयोजनाभावात्।। 3.3.14।।

आध्यानाधिकरणम्।। 3.3.14।।

काठके हि पठ¬ते -- 'इन्द्रियेभ्यः परा ह्रर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिः ' इत्यारभ्य 'पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ' इति। तत्र संशयः -- किमिमे सर्व एव अर्थादयः ततस्ततः परत्वेन प्रतिपाद्यन्ते, उत पुरुष एव एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति। तत्र तावत् सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः; तथाहि श्रूयते -- इदमस्मात्परम्, इदमस्मात्परमिति। ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात्; नैष दोषः, वाक्यबहुत्वोपपत्तेः; बहून्येव हि एतानि वाक्यानि प्रभवन्ति बहूनर्थान् परत्वोपेतान् प्रतिपादयितुम्। तस्मात् प्रत्येकमेषां परत्वप्रतिपादनमित्येवं प्राप्ते --

ब्राूमः -- पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् -- न प्रत्येकमेषां परत्वप्रतिपादनम्; कस्मात्? प्रयोजनाभावात्; न हि इतरेषु परत्वेन प्रतिपन्नेषु किंचित्प्रयोजनं दृश्यते, श्रूयते वा; पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम्, मोक्षसिद्धिः; तथा च श्रुतिः -- 'निचाय्य तन्मृत्युमुखात्प्रमुच्यते ' इति। अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति। आध्यानायेति -- आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः; सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदिश्यते, न तु आध्यानमेव स्वप्रधानम्।।

आत्मशब्दाच्च।। 3.3.15।।

।। 3.3.15।।

इतश्च पुरुषप्रतिपत्त्यर्थैव इयमिन्द्रियादिप्रवाहोक्तिः, यत्कारणम् 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ' इति प्रकृतं पुरुषम् आत्मेत्याह; अतश्च अनात्मत्वमितरेषां विवक्षितमिति गम्यते; तस्यैव च दुर्विज्ञानतां संस्कृतमतिगम्यतां च दर्शयति; तद्विज्ञानायैव च -- 'यच्छेद्वाङ्मनसी प्राज्ञः ' इति आध्यानं विदधाति। तत् व्याख्यातम् 'आनुमानिकमप्येकेषाम् ' इत्यत्र। एवम् अनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते, नेतरेषु। अपि च 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ' इत्युक्ते, किं तत् अध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायाम् इन्द्रियाद्यनुक्रमणात् परमपदप्रतिपत्त्यर्थ एवायम् आम्नाय इत्यवसीयते।।

आत्मगृहीतिरितरवदुत्तरात्।। 3.3.16।।

आत्मगृहीत्यधिकरणम्।। 3.3.16।।

ऐतरेयके श्रूयते -- 'आत्मा वा इदमेक एवाग्र आसीन्नान्यÏत्कचन मिषत्स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजताम्भो मरीचीर्मरमापः ' इत्यादि। तत्र संशयः -- किं पर एवात्मा इह आत्मशब्देनाभिलप्यते, उत अन्यः कश्चिदिति। किं तावत्प्राप्तम्? न परमात्मा इह आत्मशब्दाभिलप्यो भवितुमर्हतीति; कस्मात्? वाक्यान्वयदर्शनात्। ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते, प्रागुत्पत्तेः आत्मैकत्वावधारणात्, ईक्षणपूर्वकरुाष्टृत्ववचनाच्च; नेत्युच्यते, लोकसृष्टिवचनात् -- परमात्मनि हि रुाष्टरि परिगृह्रमाणे, महाभूतसृष्टिः आदौ वक्तव्या; लोकसृष्टिस्तु इह आदावुच्यते; लोकाश्च महाभूतसंनिवेशविशेषाः; तथा च अम्भःप्रभृतीन् लोकत्वेनैव निब्र्रावीति -- 'अदोऽम्भः परेण दिवम् ' इत्यादिना। लोकसृष्टिश्च परमेश्वराधिष्ठितेन अपरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते; तथा हि श्रुतिर्भवति -- 'आत्मैवेदमग्र आसीत्पुरुषविधः ' इत्याद्या; स्मृतिरपि -- 'स वै शरीरी प्रथमः स वै पुरुष उच्यते। आदिकर्ता स भूतानां ब्राहृाग्रे समवर्तत ' इति; ऐतरेयिणोऽपि 'अथातो रेतसः सृष्टिः प्रजापते रेतो देवाः ' इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति; आत्मशब्दोऽपि तस्मिन्प्रयुज्यमानो दृश्यते -- 'आत्मैवेदमग्र आसीत्पुरुषविधः ' इत्यत्र। एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते; ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम्। अपि च 'ताभ्यो गामानयत् ताभ्योऽश्वमानयत् ताभ्यः पुरुषमानयत् ता अब्राुवन् ' इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते। तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते --

ब्राूमः -- पर एव आत्मा इह आत्मशब्देन गृह्रते; इतरवत् -- यथा इतरेषु सृष्टिश्रवणेषु 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः ' इत्येवमादिषु परस्यात्मनो ग्रहणम्, यथा च इतरस्मिन् लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य
आत्मशब्देन गृह्रते -- तथा इहापि भवितुमर्हति। यत्र तु 'आत्मैवेदमग्र आसीत् ' इत्येवमादौ 'पुरुषविधः ' इत्येवमादि विशेषणान्तरं श्रूयते, भवेत् तत्र विशेषवत आत्मनो ग्रहणम्; अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमपि उत्तरम् उपलभ्यते -- 'स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजत ' इत्येवमादि; तस्मात् तस्यैव ग्रहणमिति न्याय्यम्।।

अन्वयादिति चेत्स्यादवधारणात्।। 3.3.17।।

।। 3.3.17।।

वाक्यान्वयदर्शनात् न परमात्मग्रहणमिति पुनः यदुक्तम्, तत्परिहर्तव्यमिति -- अत्रोच्यते -- स्यादवधारणादिति। भवेदुपपन्नं परमात्मनो ग्रहणम्; कस्मात्? अवधारणात्; परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते; अन्यथा हि अनाञ्जसं तत्परिकल्प्येत। लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट¬नन्तरमिति योजयिष्यामि; यथा 'तत्तेजोऽसृजत ' इत्येतत् श्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट¬नन्तरमिति अयूयुजम्, एवमिहापि; श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषु उपसंहर्तव्यो भवति। योऽपि अयं व्यापारविशेषानुगमः 'ताभ्यो गामानयत् ' इत्येवमादिः, सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः; न ह्रयं सकलः कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम्, तत्प्रतिपत्तौ पुरुषार्थाभावात्; ब्राहृात्मत्वं तु इह विवक्षितम्; तथा हि -- अम्भःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृÏष्ट शिष्ट्वा, करणानि करणायतनं च शरीरमुपदिश्य, स एव रुाष्टा 'कथं न्विदं मदृते स्यात् ' इति वीक्ष्य, इदं शरीरं प्रविवेशेति दर्शयति -- 'स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत ' इति; पुनश्च 'यदि वाचाभिव्याह्मतं यदि प्राणेनाभिप्राणितम् ' इत्येवमादिना करणव्यापारविवेचनपूर्वकम् 'अथ कोऽहम् ' इति वीक्ष्य, 'स एतमेव पुरुषं ब्राहृ ततममपश्यत् ' इति ब्राहृात्मत्वदर्शनमवधारयति; तथोपरिष्टात् -- 'एष ब्राहृैष इन्द्रः ' इत्यादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्य, 'सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्राहृ ' इति ब्राहृात्मत्वदर्शनमेव अवधारयति। तस्मात् इह आत्मगृहीतिरित्यनपवादम्।।

अपरा योजना -- 'आत्मगृहीतिरितरवदुत्तरात् '। वाजसनेयके 'कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु ह्मद्यन्तज्र्योतिः पुरुषः ' इत्यात्मशब्देनोपक्रम्य, तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्राहृात्मतामवधारयति; तथा हि उपसंहरति -- 'स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्राहृ ' इति। छान्दोग्ये तु 'सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' इति अन्तरेणैवात्मशब्दम् उपक्रम्य उदर्के 'स आत्मा तत्त्वमसि ' इति तादात्म्यमुपदिशति। तत्र संशयः -- तुल्यार्थत्वं किमनयोराम्नानयोः स्यात्, अतुल्यार्थत्वं वेति। अतुल्यार्थत्वमिति तावत् प्राप्तम्, अतुल्यत्वादाम्नानयोः; न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम्, आम्नानतन्त्रत्वादर्थपरिग्रहस्य; वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते; छान्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः। ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम्; सत्यमुक्तम्, उपक्रमतन्त्रत्वादुपसंहारस्य, तादात्म्यसंपत्तिः सा -- इति मन्यते। तथा प्राप्ते, अभिधीयते -- आत्मगृहीतिः 'सदेव सोम्येदमग्र आसीत् ' इत्यत्र च्छन्दोगानामपि भवितुमर्हति; इतरवत् -- यथा 'कतम आत्मा ' इत्यत्र वाजसनेयिनामात्मगृहीतिः, तथैव; कस्मात्? उत्तरात् तादात्म्योपदेशात्। 'अन्वयादिति चेदवधारणात् ' -- यदुक्तम्, उपक्रमान्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीतिरिति, तस्य कः परिहार इति चेत्, सोऽभिधीयते -- स्यादवधारणादिति। भवेदुपपन्ना इह आत्मगृहीतिः, अवधारणात्; तथा हि -- 'येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् ' इत्येकविज्ञानेन सर्वविज्ञानमवधार्य, तत्संपिपादयिषया 'सदेव ' इत्याह; तच्च आत्मगृहीतौ सत्यां संपद्यते; अन्यथा हि, योऽयं मुख्य आत्मा स न विज्ञात इति, नैव सर्वविज्ञानं संपद्येत। तथा प्रागुत्पत्तेः एकत्वाधारणम्, जीवस्य च आत्मशब्देन परामर्शः, स्वापावस्थायां च तत्स्वभावसंपत्तिकथनम्, परिचोदनापूर्वकं च पुनः पुनः 'तत्त्वमसि ' इत्यवधारणम् -- इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते, न तादात्म्यसंपादनायाम्। न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्याय्यः; न हि उपक्रमे आत्मत्वसंकीर्तनम् अनात्मत्वसंकीर्तनं वा अस्ति; सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते, विशेषाकङ्क्षित्वात्सामान्यस्य। सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः संभवति, अतोऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः। आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति, 'आहर पात्रम् पात्रमाहर ' इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात्। तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम्।।

कार्याख्यानादपूर्वम्।। 3.3.18।।

कार्याख्यानाधिकरणम्।। 3.3.18।।

छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिमर्यादं प्राणस्य अन्नमाम्नाय, तस्यैव आपो वास आमनन्ति; अनन्तरं च च्छन्दोगा आमनन्ति -- 'तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति ' इति; वाजसनेयिनश्चामनन्ति -- 'तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुते ' इति। तत्र च आचमनम् अनग्नताचिन्तनं च प्राणस्य प्रतीयते; तत्किमुभयमपि विधीयते, उत आचमनमेव, उन अनग्नताचिन्तनमेवेति विचार्यते। किं तावत्प्राप्तम्? उभयमपि विधीयत इति; कुतः? उभयस्याप्यवगम्यमानत्वात्; उभयमपि च एतत् अपूर्वत्वात् विध्यर्हम्। अथवा आचमनमेव विधीयते; विस्पष्टा हि तस्मिन्विधिविभक्तिः -- 'तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेत् ' इति; तस्यैव स्तुत्यर्थम् अनग्नतासंकीर्तनमित्येवं प्राप्ते --

ब्राूमः -- न आचमनस्य विधेयत्वमुपपद्यते, कार्याख्यानात् -- प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृतिप्रसिद्धम् अन्वाख्यायते। ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात्; नेत्युच्यते, विषयनानात्वात्; सामान्यविषया हि स्मृतिः पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयति; श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदधती विदध्यात्; न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभावोऽवकल्पते; न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम्, पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात्; अत एव च नोभयविधानम्; उभयविधाने च वाक्यं भिद्येत; तस्मात् प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनूद्य, 'एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ' इति प्राणस्य अनग्नताकरणसंकल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेन अपूर्व उपदिश्यते। न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम्, आचमनस्याविधेयत्वात्। स्वयं च अनग्नतासंकल्पस्य विधेयत्वप्रतीतेः। न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति -- प्रायत्यार्थता परिधानार्थता चेति, क्रियान्तरत्वाभ्युपगमात् -- क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते; तदीयासु तु अप्सु वासःसंकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम्। अपि च 'यदिदं किंचा श्वभ्य आ कृमिभ्य आ कीटपतंगेभ्यस्तत्तेऽन्नम् ' इत्यत्र तावत् न सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम्, अशब्दत्वादशक्यत्वाच्च; सर्वं तु प्राणस्यान्नमिति इयमन्नदृष्टिश्चोद्यते; तत्साहचर्याच्च 'आपो वासः ' इत्यत्रापि न अपामाचमनं चोद्यते; प्रसिद्धास्वेव तु आचमनीयास्वप्सु परिधानदृष्टिश्चोद्यत इति युक्तम्; न हि अर्धवैशसं संभवति। अपि च आचामन्तीति वर्तमानापदेशित्वात् नायं शब्दो विधिक्षमः। ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम्; सत्यमेव तत्; अवश्यविधेये तु अन्यतरस्मिन् वासःकार्याख्यानात् अपां वासःसंकल्पनमेव अपूर्वं विधीयते; न आचमनम्; पूर्ववद्धि तत् -- इत्युपपादितम्। यदप्युक्तम् -- विस्पष्टा च आचमने विधिविभक्तिरिति, तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम्; अत एव आचमनस्याविधित्सितत्वात् 'एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ' इत्यत्रैव काण्वाः पर्यवस्यन्ति, न आमनन्ति 'तस्मादेवंवित् ' इत्यादि; तस्मात् माध्यंदिनानामपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम्। योऽप्ययमभ्युपगमः -- क्वचिदाचमनं विधीयताम्, क्वचिद्वासोविज्ञानमिति -- सोऽपि न साधुः, 'आपो वासः ' इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात्। तस्मात् वासोविज्ञानमेव इह विधीयते, न आचमनमिति न्याय्यम्।।

समान एवं चाभेदात्।। 3.3.19।।

समानाधिकरणम्।। 3.3.19।।

वाजसनेयिशाखायाम् अग्निरहस्ये शाण्डिल्यनामाङ्किता विद्या विज्ञाता; तत्र च गुणाः श्रूयन्ते -- 'स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपम् ' इत्येवमादयः; तस्यामेव शाखायां बृहदारण्यके पुनः पठ¬ते -- 'मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तह्र्मदये यथा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच ' इति। तत्र संशयः -- किमियम् एका विद्या अग्निरहस्यबृहदारण्यकयोः गुणोपसंहारश्च, उत द्वे इमे विद्ये गुणानुपसंहारश्चेति। किं तावत्प्राप्तम्? विद्याभेदः गुणव्यवस्था चेति; कुतः? पौनरुक्त्यप्रसङ्गात् -- भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्यियन्ते प्राणसंवादादिषु -- इत्युक्तम्; एकस्यां पुनः शाखायाम्
अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रक्रष्टदेशस्था एका विद्या भवितुमर्हति। न च अत्र एकमाम्नानं विद्याविधानार्थम्, अपरं गुणविधानार्थम् -- इति विभागः संभवति; तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन्, न समानाः; समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः। तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते --

ब्राूमहे -- यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात्। तदेव हि ब्राहृ मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमः; उपास्यं च रूपं विद्यायाः; न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः; नापि विद्याभेदे गुणव्यवस्थानम्। ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः; नेत्युच्यते, अर्थविभागोपपत्तेः -- एकं हि आम्नानं विद्याविधानार्थम्, अपरं गुणविधानार्थम् -- इति न किंचिन्नोपपद्यते। ननु एवं सति यदपठितमग्निरहस्ये, तदेव बृहदारण्यके पठितव्यम् -- 'स एष सर्वस्येशानः ' इत्यादि; यत्तु पठितमेव 'मनोमयः ' इत्यादि, तन्न पठितव्यम् -- नैष दोषः, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात्; समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते; अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते। अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये संजाते, प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते। तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम्।।

सम्बन्धादेवमन्यत्रापि।। 3.3.20।।

संबन्धाधिकरणम्।। 3.3.20।।

बृहदारण्यके 'सत्यं ब्राहृ ' इत्युपक्रम्य, तद्यत्तत्सत्यमसौ 'स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः ' इति तस्यैव सत्यस्य ब्राहृणः अधिदैवतमध्यात्मं च आयतनविशेषमुपदिश्य, व्याह्मतिशरीरत्वं च संपाद्य, द्वे उपनिषदावादिश्येते -- 'तस्योपनिषदहः ' इति -- अधिदैवतम्, 'तस्योपनिषदहम् ' इति -- अध्यात्मम्। तत्र संशयः -- किमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसंधातव्ये, उत विभागेन -- एका अधिदैवतम्, एका अध्यात्ममिति। तत्र सूत्रेणैवोपक्रमते -- यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः, एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति, एकविद्याभिसंबन्धात् -- एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता, उपक्रमाभेदात् व्यतिषक्तपाठाच्च; कथं तस्यामुदितो धर्मः तस्यामेव न स्यात्। यो ह्राचार्ये कश्चिदनुगमनादिराचारश्चोदितः, स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति। तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्तिरिति।।

एवं प्राप्ते, प्रतिविधत्ते --

न वा विशेषात्।। 3.3.21।।

।। 3.3.21।।

नैव उभयोः उभयत्र प्राप्तिः; कस्मात्? विशेषात्, उपासनस्थानविशेषोपनिबन्धादित्यर्थः। कथं स्थानविशेषोपनिबन्ध इति, उच्यते -- 'य एष एतस्मिन्मण्डले पुरुषः ' इति हि आधिदैविकं पुरुषं प्रकृत्य, 'तस्योपनिषदहः ' इति श्रावयति; 'योऽयं दक्षिणेऽक्षन्पुरुषः ' इति च आध्यात्मिकं पुरुषं प्रकृत्य, 'तस्योपनिषदहम् ' इति; तस्येति च एतत् संनिहितावलम्बनं सर्वनाम; तस्मात् आयतनविशेषव्यपाश्रयेणैव एते उपनिषदावुपदिश्येते; कुत उभयोरुभयत्र प्राप्तिः। ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः, एकस्यैव सत्यस्य ब्राहृण आयतनद्वयप्रतिपादनात्; सत्यमेवमेतत्; एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति; अस्ति चायं दृष्टान्तः -- सत्यपि आचार्यस्वरूपानपाये, यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम्, न तत् तिष्ठतो भवति; यच्च तिष्ठत उक्तम्, न तदासीनस्येति। ग्रामारण्ययोस्तु आचार्यस्वरूपानपायात् तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः। तस्मात् व्यवस्था अनयोरुपनिषदोः।।

दर्शयति च।। 3.3.22।।

।। 3.3.22।।

अपि च एवंजातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति -- 'तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ' इति। कथमस्य लिङ्गत्वमिति, तदुच्यते -- अक्ष्यादित्यस्थानभेदभिन्नान् धर्मान् अन्योन्यस्मिन्ननुपसंहार्यान् पश्यन् इह अतिदेशेन आदित्यपुरुषगतान्रूपादीन् अक्षिपुरुषे उपसंहरति -- 'तस्यैतस्य तदेव रूपम् ' इत्यादिना। तस्माद्व्यवतिष्ठेते एव एते उपनिषदाविति निर्णयः।।

ाम्भृतिद्युव्याप्त्यपि चातः।। 3.3.23।।

संभृत्यधिकरणम्।। 3.3.23।।

'ब्राहृज्येष्ठा वीर्या संभृतानि ब्राहृाग्रे ज्येष्ठं दिवमाततान ' इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्राहृणो विभूतयः पठ¬न्ते; तेषामेव च उपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्राहृविद्याः पठ¬न्ते; तासु ब्राहृविद्यासु ता ब्राहृविभूतय उपसंह्यियेरन्, न वेति विचारणायाम्, ब्राहृसंबन्धादुपसंहारप्राप्तौ एवं पठति। संभृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः, अत एव च आयतनविशेषयोगात्। तथा हि शाण्डिल्यविद्यायां ह्मदयायतनत्वं ब्राहृण उक्तम् -- 'एष म आत्मान्तह्र्मदये ' इति; तद्वदेव दहरविद्यायामपि -- 'दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः ' इति; उपकोसलविद्यायां तु अक्ष्यायतनत्वम् -- 'य एषोऽक्षिणि पुरुषो दृश्यते ' इति; एवं तत्र तत्र तत्तत् आध्यात्मिकमायतनम् एतासु विद्यासु प्रतीयते; आधिदैविक्यस्तु एता विभूतयः संभृतिद्युव्याप्तिप्रभृतयः; तासां कुत एतासु प्राप्तिः। नन्वेतास्वपि आधिदैविक्यो विभूतयः श्रूयन्ते -- 'ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति यावान्वायमाकाशस्तावानेषोऽन्तह्र्मदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते ' इत्येवमाद्याः; सन्ति च अन्या आयतनविशेषहीना अपि इह ब्राहृविद्याः षोडशकलाद्याः -- सत्यमेवमेतत्; तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहारहेतुः -- समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशगुणा उपसंह्यियेरन्निति युक्तम्; संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च गुणाः परस्परव्यावृत्तस्वरूपत्वात् न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमाः। न च ब्राहृसंबन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते, विद्याभेदेऽपि तदुपपत्तेः; एकमपि हि ब्राहृ विभूतिभेदैरनेकधा उपास्यत इति स्थितिः, परोवरीयस्त्वादिवद्भेददर्शनात्। तस्मात् वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिषु अनुपसंहार इति।।

पुरुषविद्यायामिव चेतरेषामनाम्नानात्।। 3.3.24।।

पुरुषविद्याधिकरणम्।। 3.3.24।।

अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्रााहृणे पुरुषविद्या; तत्र पुरुषो यज्ञः कल्पितः; तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम्; अशिशिषादीनि च दीक्षादिभावेन कल्पितानि; अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः। तैत्तिरीयका अपि कंचित् पुरुषयज्ञं कल्पयन्ति -- 'तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी ' इत्येतेनानुवाकेन। तत्र संशयः -- किमितरत्र उक्ताः पुरुषयज्ञस्य धर्माः तैत्तिरीयकेषु उपसंहर्तव्याः, किं वा नोपसंहर्तव्या इति। पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ, आचक्ष्महे -- नोपसंहर्तव्या इति; कस्मात्? तद्रूपप्रत्यभिज्ञानाभावात; तदाहाचार्यः पुरुषविद्यायामिवेति -- यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम्, नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति; तेषां हि इतरविलक्षणमेव यज्ञसंपादनं दृश्यते, पत्नीयजमानवेदिवेदबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात्। यदपि सवनसंपादनम्, तदपि इतरविलक्षणमेव -- 'यत्प्रातर्मध्यंदिन#्ँसायं च तानि ' इति। यदपि किंचित्, मरणावभृथत्वादिसामान्यम्, तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम्। न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते; 'विदुषः यज्ञस्य ' इति हि न च एते समानाधिकरणे षष्ठ¬ौ -- विद्वानेव यो यज्ञस्तस्येति; न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति; व्यधिकरणे तु एते षष्ठ¬ौ -- विदुषो यो यज्ञस्तस्येति; भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः; सत्यां च गतौ, मुख्य एवार्थ आश्रयितव्यः, न भाक्तः। 'आत्मा यजमानः ' इति च यजमानत्वं पुरुषस्य निब्र्राुवन् वैयधिकरण्येनैव अस्य यज्ञसंबन्धं दर्शयति। अपि च 'तस्यैवंविदुषः ' इति सिद्धवदनुवादश्रुतौ सत्याम्, पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात्। अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् 'तस्यैवंविदुषः ' इत्याद्यनुक्रमणं पश्यन्तः -- पूर्वशेष एव एष आम्नायः, न स्वतन्त्र इति प्रतीमः; तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे -- 'ब्राहृणो महिमानमाप्नोति ' इति; इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः; आयुरभिवृद्धिफलो ह्रसौ, 'प्रह षोडशं वर्षशतं जीवति य एवं वेद ' इति समभिव्याहारात्। तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके।।

वेधाद्यर्थभेदात्।। 3.3.25।।

वेधाद्यधिकरणम्।। 3.3.25।।

अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः -- 'सर्वं प्रविध्य ह्मदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः ' इत्यादिः; ताण्डिनाम् -- 'देव सवितः प्रसुव यज्ञम् ' इत्यादिः; शाट¬ायनिनाम् -- 'श्वेताश्वो हरितनीलोऽसि ' इत्यादिः; कठानां तैत्तिरीयाणां च -- 'शं नो मित्रः शं वरुणः ' इत्यादिः; वाजसनेयिनां तु उपनिषदारम्भे प्रवग्र्यब्रााहृणं पठ¬ते -- 'देवा ह वै सत्रं निषेदुः ' इत्यादि; कौषीतकिनामपि अग्निष्टोमब्रााहृणम् -- 'ब्राहृ वा अग्निष्टोमो ब्राहृैव तदहब्र्राहृणैव ते ब्राहृोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति ' इति। किमिमे सर्वे प्रविध्यादयो मन्त्राः प्रवग्र्यादीनि च कर्माणि विद्यासु उपसंह्यियेरन्, किं वा न उपसंह्यियेरन् -- इति मीमांसामहे। किं तावत् नः प्रतिभाति? उपसंहार एव एषां विद्यास्विति; कुतः? विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात्। ननु एषां विद्यार्थतया विधानं नोपलभामहे -- बाढम्, अनुपलभमाना अपि तु अनुमास्यामहे, संनिधिसामथ्र्यात्; न हि संनिधेः अर्थवत्त्वे संभवति, अकस्मादसावनाश्रयितुं युक्तः। ननु नैषां मन्त्राणां विद्याविषयं किंचित्सामथ्र्यं पश्यामः; कथं च प्रवग्र्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति -- नैष दोषः; सामथ्र्यं तावत् मन्त्राणां विद्याविषयमपि किंचित् शक्यं कल्पयितुम्, ह्मदयादिसंकीर्तनात्; ह्मदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि; तद्द्वारेण च 'ह्मदयं प्रविध्य ' इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम्; दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः -- 'भूः प्रपद्येऽमुनामुनामुना ' इत्येवमादिः; तथा प्रवग्र्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः -- वाजपेय इव बृहस्पतिसवस्य -- इत्येवं प्राप्ते --

ब्राूमः -- नैषामुपसंहारो विद्यास्विति; कस्मात्? वेधाद्यर्थभेदात् -- 'ह्मदयं प्रविध्य ' इत्येवंजातीयकानां हि मन्त्राणां येऽर्था ह्मदयवेधादयः, भिन्नाः अनभिसंबद्धाः ते उपनिषदुदिताभिर्विद्याभिः; न तेषां ताभिः संगन्तुं सामथ्र्यमस्ति। ननु ह्मदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासंबन्ध उपन्यस्तः -- नेत्युच्यते; ह्मदयमात्रसंकीर्तनस्य हि एवमुपयोगः कथंचिदुत्प्रेक्ष्येत; न च ह्मदयमात्रमत्र मन्त्रार्थः; 'ह्मदयं प्रविध्य धमनीः प्रवृज्य ' इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसंबध्यते; अभिचारविषयो ह्रेषोऽर्थः; तस्मादाभिचारिकेण कर्मणा 'सर्वं प्रविध्य ' इत्येतस्य मन्त्रस्याभिसंबन्धः; तथा 'देव सवितः प्रसुव यज्ञम् ' इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसंबन्धः; तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः; एवमन्येषामपि मन्त्राणाम् -- केषांचित् लिङ्गेन, केषांचिद्वचनेन, केषांचित्प्रमाणान्तरेणेत्येवम् -- अर्थान्तरेषु विनियुक्तानाम्, रहस्यपठितानामपि सताम्, न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः; दुर्बलो हि संनिधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे -- 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ' इत्यत्र। तथा कर्मणामपि प्रवग्र्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः; न ह्रेषां विद्याभिः सह ऐकाथ्र्यं किंचिदस्ति; वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् -- 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत ' इति; अपि च एकोऽयं प्रवग्र्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति; अगृह्रमाणविशेषत्वे हि प्रमाणयोः एवं स्यात्; न तु बलवदबलवतोः प्रमाणयोरगृह्रमाणविशेषता संभवति, बलवदबलवत्त्वविशेषादेव। तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम्; अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतोष्टव्यम्।।

हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम्।। 3.3.26।।

हान्यधिकरणम्।। 3.3.26।।

अस्ति ताण्डिनां श्रुतिः -- 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्राहृलोकमभिसंभवामि ' इति; तथा आथर्वणिकानाम् -- 'तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ' इति; तथा शाट¬ायनिनः पठन्ति -- 'तस्य पुत्रा दायमुपयन्ति सुह्मदः साधुकृत्यां द्विषन्तः पापकृत्याम् ' इति; तथैव कौषीतकिनः -- 'तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपयन्त्यप्रिया दुष्कृतम् ' इति। तदिह क्वचित् सुकृतदुष्कृतयोर्हानं श्रूयते; क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनम्; क्वचित्तु उभयमपि हानमुपायनं च; तद्यत्रोभयं श्रूयते तत्र तावत् न किंचिद्वक्तव्यमस्ति; यत्राप्युपायनमेव श्रूयते, न हानम्, तत्राप्यर्थादेव हानं संनिपतति, अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोः आवश्यकत्वात्तद्धानस्य; यत्र तु हानमेव श्रूयते,
नोपायनम् -- तत्रोपायनं संनिपतेद्वा, न वेति विचिकित्सायाम् -- अश्रवणादसंनिपातः, विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य। अपि च आत्मकर्तृकं सुकृतदुष्कृतयोर्हानम्; परकर्तृकं तु उपायनम्; तयोरसत्यावश्यकभावे, कथं हानेनोपायनमाक्षिप्येत? तस्मादसंनिपातो हानावुपायनस्येति।।

अस्यां प्राप्तौ पठति -- हानाविति। हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं संनिपतितुमर्हति; तच्छेषत्वात् -- हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये; तस्मादन्यत्र केवलहानश्रवणेऽप्युपायनानुवृत्तिः। यदुक्तम् -- अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्यकत्वाच्च असंनिपात इति, तदुच्यते -- भवेदेषा व्यवस्थोक्तिः, यद्यनुष्ठेयं किंचिदन्यत्र श्रुतम् अन्यत्र निनीष्येत; न त्विह हानमुपायनं वा अनुष्ठेयत्वेन संकीत्र्यते; विद्यास्तुत्यर्थं तु अनयोः संकीर्तनम् -- इत्थं महाभागा विद्या, यत्सामथ्र्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते, ते च अस्य सुह्मद्दुह्र्मत्सु निविशेते इति; स्तुत्यर्थे च अस्मिन्संकीर्तने, हानानन्तरभावित्वेनोपायनस्य, क्वचिच्छØतत्वात् अन्यत्रापि हानश्रुतावुपायनानुवृतिं्त मन्यते -- स्तुतिप्रकर्षलाभाय; प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः -- 'एकविंशो वा इतोऽसावादित्यः ' इत्येवमादिषु; कथं हि इह एकविंशता आदित्यस्याभिधीयेत, अनपेक्ष्यमाणेऽर्थवादान्तरे -- 'द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ' इत्यस्मिन्? तथा 'त्रिष्टुभौ भवतः सेन्द्रियत्वाय ' इत्येवमादिवादेषु 'इन्द्रियं वै त्रिष्टुप् ' इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते। विद्यास्तुत्यर्थत्वाच्च अस्योपायनवादस्य, कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम्। उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हानावुपायनानुवृतिं्त सूचयति; गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृतिं्त ब्राूयात्। तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम्। कुशाच्छन्दस्तुत्युपगानवदिति उपमोपादानम्; तद्यथा -- भाल्लविनाम् 'कुशा वानस्पत्याः स्थता मा पात ' इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वश्रवणे, शाट¬ायनिनाम् 'औदुम्बराः ' इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते; यथा च क्वचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे, देवच्छन्दांसि पूर्वाणीति पैङ्ग्याम्नानात्प्रतीयते; यथा च षोडशिस्तोत्रे केषांचित्कालाविशेषप्राप्तौ, 'समयाध्युषिते सूर्ये ' इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः; यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः -- यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वयः, एवं हानावप्युपायनान्वय इत्यर्थः। श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात्; स च अन्याय्यः सत्यां गतौ; तदुक्तं द्वादशलक्षण्याम् -- 'अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् ' इति।।

अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एतच्चिन्तयितव्यम् -- किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते, किं वा अर्थान्तरमिति। तत्र च एवं प्रापयितव्यम् -- न हानं विधूननमभिधीयते, 'धूञ्कम्पने ' इति स्मरणात्, 'दोधूयन्ते ध्वजाग्राणि ' इति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात्; तस्मात् चालनं विधूननमभिधीयते; चालनं तु सुकृतदुष्कृतयोः कंचित्कालं फलप्रतिबन्धनात् -- इत्येवं प्रापय्य, प्रतिवक्तव्यम् -- हानावेव एष विधूननशब्दो वर्तितुमर्हति, उपायनशब्दशेषत्वात्; न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपायनं संभवति; यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं न आञ्जसं संभाव्यते, तथापि तत्संकीर्तनात्तावत् तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते। क्वचिदपि च इदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाच्छन्दस्तुत्युपगानवत् विधूननश्रुत्या सर्वत्रापेक्ष्यमाणं सार्वत्रिकं निर्णयकारणं संपद्यते। न च चालनं ध्वजाग्रवत् सुकृतदुष्कृतयोर्मुख्यं संभवति, अद्रव्यत्वात्। अश्वश्च रोमाणि विधून्वानः त्यजन् रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति -- 'अश्व इव रोमाणि विधूय पापम् ' इति च ब्रााहृणम्; अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः। तदुक्तमिति व्याख्यातम्।।

साम्पराये तर्तव्याभावात्तथा ह्रन्ये।। 3.3.27।।

सांपरायाधिकरणम्।। 3.3.27।।

देवयानेन पथा पर्यङ्कस्थं ब्राहृ अभिप्रस्थितस्य व्यध्वनि सुकृतदुष्कृतयोर्वियोगं कौषीतकिनः पर्यङ्कविद्यायामामनन्ति -- 'स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति ' इत्युपक्रम्य, 'स आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुते ' इति। तत् किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यम्, आहोस्वित् आदावेव देहादपसर्पणे -- इति विचारणायाम्, श्रुतिप्रामाण्यात् यथाश्रुति
प्रतिपत्तिप्रसक्तौ, पठति -- सांपराय इति। सांपराये गमन एव देहादपसर्पणे, इदं विद्यासामथ्र्यात्सुकृतदुष्कृतहानं भवति -- इति प्रतिजानीते; हेतुं च आचष्टे -- तर्तव्याभावादिति; न हि विदुषः संपरेतस्य विद्यया ब्राहृ संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किंचित्प्राप्तव्यमस्ति, यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम्। विद्याविरुद्धफलत्वाच्च विद्यासामथ्र्येन तयोः क्षयः; स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति। तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षयः पश्चात्पठ¬ते। तथा हि अन्येऽपि शाखिनः ताण्डिनः शाट¬ायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति -- 'अश्व इव रोमाणि विधूय पापम् ' इति, 'तस्य पुत्रा दायमुपयन्ति सुह्मदः साधुकृत्यां द्विषन्तः पापकृत्याम् ' इति च।।

छन्दत उभयाविरोधात्।। 3.3.28।।

।। 3.3.28।।

यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत, ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात्; तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात्, तत्पूर्वकं च सुकृतदुष्कृतहानम् -- इति द्रष्टव्यम्; एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट¬ायनिश्रुत्योश्च संगतिरिति।।

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः।। 3.3.29।।

गतेरर्थवत्त्वाधिकरणम्।। 3.3.29।।

क्वचित् पुण्यपापाहानसंनिधौ देवयानः पन्थाः श्रूयते, क्वचिन्न; तत्र संशयः -- किं हानावविशेषेणैव देवयानः पन्थाः संनिपतेत्, उत विभागेन क्वचित्संनिपतेत् क्वचिन्नेति। यथा तावत् हानावविशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ, आचक्ष्महे -- गतेः देवयानस्य पथः, अर्थवत्त्वम्, उभयथा विभागेन भवितुमर्हति -- क्वचिदर्थवती गतिः क्वचिन्नेति; न अविशेषेण। अन्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् -- 'पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ' इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत; कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत्; गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तम् -- इत्यानर्थक्यमेवात्र गतेर्मन्यामहे।।

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत्।। 3.3.30।।

।। 3.3.30।।

उपपन्नश्चायम् उभयथाभावः -- क्वचिदर्थवती गतिः क्वचिन्नेति; तल्लक्षणार्थोपलब्धेः -- गतिकारणभूतोऽर्थः पर्यङ्कविद्यादिषु सगुणेषु उपासनेषु उपलभ्यते; तत्र हि पर्यङ्कारोहणम्, पर्यङ्कस्थेन ब्राहृणा सह संवदनम्, विशिष्टगन्धादिप्राप्तिश्च -- इत्येवमादि बहुदेशान्तरप्राप्त्यायत्तं फलं श्रूयते; तत्र अर्थवती गतिः; न तु सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति; न हि आत्मैकत्वदर्शिनामाप्तकामानाम् इहैव दग्धाशेषक्लेशबीजानाम् आरब्धभोगकर्माशयक्षपणव्यतिरेकेण अपेक्षितव्यं किंचिदस्ति; तत्र अनर्थिका गतिः। लोकवच्च एष विभागो द्रष्टव्यः -- यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते, न आरोग्यप्राप्तौ, एवमिहापीति। भूयश्च एनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः।।

अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम्।। 3.3.31।।

अनियमाधिकरणम्।। 3.3.31।।

सगुणासु विद्यासु गतिरर्थवती, न निर्गुणायां परमात्मविद्यायाम् -- इत्युक्तम्; सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते -- यथा पर्यङ्कविद्यायाम् उपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति; न अन्यासु -- यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायामिति। तत्र संशयः -- किं यास्वेषा गतिः श्रूयते, तास्वेव नियम्येत; उत अनियमेन सर्वाभिरेव एवंजातीयकाभिर्विद्याभिरभिसंबध्येतेति। किं तावत्प्राप्तम्? नियम इति; यत्रैव श्रूयते, तत्रैव भवितुमर्हति, प्रकरणस्य नियामकत्वात्; यद्यन्यत्र अश्रूयमाणापि गतिः विद्यान्तरं गच्छेत्, श्रुत्यादीनां प्रामाण्यं हीयेत, सर्वस्य सर्वार्थत्वप्रसङ्गात्। अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ¬ते; तत् सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात्। तस्मान्नियम इत्येवं प्राप्ते --

पठति -- अनियम इति। सर्वासामेव अभ्युदयप्राप्तिफलानां सगुणानां विद्यानाम् अविशेषेण एषा देवयानाख्या गतिर्भवितुमर्हति। ननु अनियमाभ्युपगमे प्रकरणविरोध उक्तः -- नैषोऽस्ति विरोधः; शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः; तथा हि श्रुतिः -- 'तद्य इत्थं विदुः ' इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' इति विद्यान्तरशीलिनामपि पञ्चाग्निविद्याविद्भिः समानमार्गतां गमयति। कथं पुनरवगम्यते -- विद्यान्तरशीलिनामियं गतिरिति? ननु श्रद्धातपःपरायणानामेव स्यात्, तन्मात्रश्रवणात् -- नैष दोषः; न हि केवलाभ्यां श्रद्धातपोभ्याम् अन्तरेण विद्याबलम् एषा गतिर्लभ्यते -- 'विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः ' इति श्रुत्यन्तरात्; तस्मात् इह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम्। वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारेऽधीयते -- 'य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते ' इति; तत्र श्रद्धालवो ये सत्यं ब्राहृोपासते इति व्याख्येयम्, सत्यशब्दस्य ब्राहृणि असकृत्प्रयुक्तत्वात्। पञ्चाग्निविद्याविदां च इत्थंवित्तयैव उपात्तत्वात्, विद्यान्तरपरायणानामेव एतदुपादानं न्याय्यम्। 'अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ' इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिः देवयानपितृयाणयोरेव एनान् अन्तर्भावयति। तत्रापि विद्याविशेषादेषां देवयानप्रतिपत्तिः। स्मृतिरपि -- 'शुक्लकृष्णे गती ह्रेते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययावर्तते पुनः ' इति। यत्पुनः देवयानस्य पथो द्विराम्नानम् उपकोसलविद्यायां पञ्चाग्निविद्यायां च, तत् उभयत्रापि अनुचिन्तनार्थम्। तस्मादनियमः।।

यावदधिकारमवस्थितिराधिकारिकाणाम्।। 3.3.32।।

यावदधिकाराधिकरणम्।। 3.3.32।।

विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते, न वा -- इति चिन्त्यते। ननु विद्यायाः साधनभूतायाः संपत्तौ कैवल्यनिर्वृत्तिः स्यात्, न वेति नेयं चिन्ता उपपद्यते; न हि पाकसाधनसंपत्तौ, ओदनो भवेत्, न वेति चिन्ता संभवति; नापि भुञ्जानः तृप्येत्, न वेति चिन्त्यते -- उपपन्ना तु इयं चिन्ता, ब्राहृविदामपि केषांचित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात्; तथा हि -- अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति; वसिष्ठश्च ब्राहृणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदेहः पुनब्र्राहृादेशान्मित्रावरुणाभ्यां संबभूवेति; भृग्वादीनामपि ब्राहृण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः स्मर्यते; सनत्कुमारोऽपि ब्राहृण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव; एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ। श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलक्ष्यते। ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन। सर्वे च एते समधिगतसकलवेदार्थाः स्मर्यन्ते। तत् एतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्राहृविद्यायाः पाक्षिकं मोक्षहेतुत्वम्, अहेतुत्वं वेति।।

अत उत्तरमुच्यते -- न, तेषाम् अपान्तरतमःप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानाम् अधिकारतन्त्रत्वात्स्थितेः। यथासौ भगवान्सविता सहरुायुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसाने उदयास्तमयवर्जितं कैवल्यमनुभवति -- 'अथ तत ऊध्र्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता ' इति श्रुतेः; यथा च वर्तमाना ब्राहृविदः आरब्धभोगक्षये कैवल्यमनुभवन्ति -- 'तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ' इति श्रुतेः -- एवम् अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते, तदवसाने च अपवृज्यन्त इत्यविरुद्धम्। सकृत्प्रवृत्तमेव हि ते फलादानाय कर्माशयमतिवाहयन्तः, स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं संचरन्तः स्वाधिकारनिर्वर्तनाय, अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति; न च एते जातिस्मरा इत्युच्यन्ते -- त एवैते इति स्मृतिप्रसिद्धेः -- यथा हि सुलभा नाम ब्राहृवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम्, जानकं देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश -- इति स्मर्यते। यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्, ततः अन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्राहृविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा शङ्क्येत; न तु इयमाशङ्का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात्। तथा हि श्रुतिः -- 'भिद्यते ह्मदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ' इति, 'स्मृतिलम्भे सर्वग्रन्थीनां
विप्रमोक्षः ' इति चैवमाद्या। स्मृतिरपि -- 'यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ' इति, 'बाजीन्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनः ' इति चैवमाद्या। न च अविद्यादिक्लेशदाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते; न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते; प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः, 'तस्य तावदेव चिरम् ' इति शरीरपातावधिक्षेपकरणात्। तस्मादुपपन्ना यावदधिकारम् आधिकारिकाणामवस्थितिः। न च ज्ञानफलस्य अनैकान्तिकता; तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति -- 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् ' इति। ज्ञानान्तरेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः; ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाय कैवल्यं प्रापुरित्युपपद्यते -- 'ब्राहृणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ' इति स्मरणात्। प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः; कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का -- भवेद्वा न वेति; अनुभवारूढं तु ज्ञानफलम् -- 'यत्सांक्षादपरोक्षाद्ब्राहृ ' इति श्रुतेः, 'तत्त्वमसि ' इति सिद्धवदुपदेशात्; न हि 'तत्त्वमसि ' इत्यस्य वाक्यस्य अर्थः -- तत् त्वं मृतो भविष्यसीति -- एवं परिणेतुं शक्यः। 'तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च ' इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति। तस्मात् ऐकान्तिकी विदुषः कैवल्यसिद्धिः।

अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्।। 3.3.33।।

अक्षरध्यधिकरणम्।। 3.3.33।।

वाजसनेयके श्रूयते -- 'एतद्वै तदक्षरं गार्गि ब्रााहृणा अभिवदन्त्यस्थूलमनण्वह्यस्वमदीर्घमलोहितमस्नेहम् ' इत्यादि; तथा आथर्वणे श्रूयते -- 'अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्रमगोत्रमवर्णम् ' इत्यादि; तथैव अन्यत्रापि विशेषनिराकरणद्वारेण अक्षरं परं ब्राहृ श्राव्यते; तत्र च क्वचित् केचित् अतिरिक्ता विशेषाः प्रतिषिध्यन्ते; तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिः, उत व्यवस्थेति संशये, श्रुतिविभागात् व्यवस्थाप्राप्तौ, उच्यते -- अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः, सामान्यतद्भावाभ्याम् -- समानो हि सर्वत्र विशेषनिराकरणरूपो ब्राहृप्रतिपादनप्रकारः; तदेव च सर्वत्र प्रतिपाद्यं ब्राहृ अभिन्नं प्रत्यभिज्ञायते; तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः। तथा च 'आनन्दादयः प्रधानस्य ' इत्यत्र व्याख्यातम्; तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह प्रतिषेधरूपाणीति विशेषः; प्रपञ्चार्थश्चायं चिन्ताभेदः। औपसदवदिति निदर्शनम्; यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु, पुरोडाशप्रदानमन्त्राणाम् 'अग्नेर्वेर्होत्रं वेरध्वरम् ' इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसंबन्धो भवति, अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य, प्रधानतन्त्रत्वाच्चाङ्गानाम् -- एवमिहापि अक्षरतन्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः। तदुक्तं प्रथमे काण्डे -- 'गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः ' इत्यत्र।।

इयदामननात्।। 3.3.34।।

इयदधिकरणम्।। 3.3.34।।

'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ' -- इत्यध्यात्माधिकारे मन्त्रमाथर्वणिकाः श्वेताश्वतराश्च पठन्ति; तथा कठाः -- 'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे पराध्र्ये। छायातपौ ब्राहृविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ' इति। किमत्र विद्यैकत्वम्, उत विद्यानानात्वमिति संशयः। किं तावत्प्राप्तम्? विद्यानानात्वमिति; कुतः? विशेषदर्शनात् -- 'द्वा सुपर्णा ' इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते; 'ऋतं पिबन्तौ ' इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते; तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते --

ब्रावीति -- विद्यैकत्वमिति; कुतः? यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति। ननु दर्शितो रूपभेदः -- नेत्युच्यते; उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः, नार्थान्तरम्। 'द्वा सुपर्णा ' इत्यत्र तावत् -- 'अनश्नन्नन्यो अभिचाकशीति ' इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते; वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते 'जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम् ' इति; 'ऋतं पिबन्तौ ' इत्यत्र तु जीवे पिबति, अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते; परमात्मप्रकरणं हि
एतत् -- 'अन्यत्र धर्मादन्यत्राधर्मात् ' इत्युपक्रमात्; तद्विषय एव च अत्रापि वाक्यशेषो भवति -- 'यः सेतुरीजानानामक्षरं ब्राहृ यत्परम् ' इति। 'गुहां प्रविष्टावात्मानौ हि ' इत्यत्र च एतत्प्रपञ्चितम्। तस्मान्नास्ति वेद्यभेदः; तस्माच्च विद्यैकत्वम्। अपि च त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यालोचने परमात्मविद्यैव अवगम्यते; तादात्म्यविवक्षयैव जीवोपादानम्, नार्थान्तरविवक्षया; न च परमात्मविद्यायां भेदाभेदविचारावतारोऽस्तीत्युक्तम्। तस्मात्प्रपञ्चार्थ एव एष प्रयोगः; तस्माच्चाधिकधर्मोपसंहार इति।।

अन्तरा भूतग्रामवत् स्वात्मनः।। 3.3.35।।

अन्तरत्वाधिकरणम्।। 3.3.35।।

'यत्साक्षादपरोक्षाद्ब्राहृ य आत्मा सर्वान्तरः ' इत्येवं द्विः उषस्तकहोलप्रश्नयोः नैरन्तर्येण वाजसनेयिनः समामनन्ति। तत्र संशयः -- विद्यैकत्वं वा स्यात्, विद्यानानात्वं वेति। विद्यानानात्वमिति तावत्प्राप्तम्, अभ्याससामथ्र्यात्; अन्यथा हि अनूनानतिरिक्तार्थे द्विराम्नानम् अनर्थकमेव स्यात्; तस्मात् यथा अभ्यासात्कर्मभेदः, एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते, प्रत्याह -- अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति; सर्वान्तरो हि स्वात्मा उभयत्राप्यविशिष्टः पृच्छयते, प्रत्युच्यते च; न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ संभवतः; तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत, एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात्; यथा च पञ्चभूतसमूहे देहे -- पृथिव्या आपोऽन्तराः, अद्भ्यस्तेजोऽन्तरमिति -- सत्यप्यापेक्षिकेऽन्तरत्वे, नैव मुख्यं सर्वान्तरत्वं भवति, तथेहापीत्यर्थः। अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति; यथा -- 'एको देवाः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ' इत्यस्मिन्मन्त्रे समस्तेषु भूतग्रामेष्वेक एव सर्वान्तर आत्मा आम्नायते -- एवमनयोरपि ब्रााहृणयोरित्यर्थः। तस्मात् वेद्यैक्यात् विद्यैकत्वमिति।।

अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत्।। 3.3.36।।

।। 3.3.36।।

अथ यदुक्तम् -- अनभ्युपगम्यमाने विद्याभेदे आम्नानभेदानुपपत्तिरिति, तत्परिहर्तव्यम्; अत्रोच्यते -- नायं दोषः; उपदेशान्तरवदुपपत्तेः; यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके -- 'स आत्मा तत्त्वमसि श्वेतकेतो ' इति नवकृत्वोऽप्युपदेशे न विद्याभेदो भवति, एवमिहापि भविष्यति। कथं च नवकृत्वोऽप्युपदेशे विद्याभेदो न भवति? उपक्रमोपसंहाराभ्यामेकार्थतावगमात् -- 'भूय एव मा भगवान्विज्ञापयतु ' इति च एकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितत्वेन उपक्षेपात् आशङ्कान्तरनिराकरणेन च असकृदुपदेशोपपत्तेः। एवमिहापि प्रश्नरूपाभेदात्, 'अतोऽन्यदार्तम् ' इति च परिसमाप्त्यविशेषात् उपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्येते; 'यदेव साक्षादपरोक्षाद्ब्राहृ ' इति द्वितीये प्रश्ने एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थम् उत्तरत्रानुकृष्यमाणं दर्शयति; पूर्वÏस्मश्च ब्रााहृणे कार्यकरणव्यतिरिक्तस्य आत्मनः सद्भावः कथ्यते; उत्तरÏस्मस्तु तस्यैव अशनायादिसंसारधर्मातीतत्वं विशेषः कथ्यते -- इत्येकार्थतोपपत्तिः। तस्मात् एका विद्येति।।

व्यतिहारो विशिंषन्ति हीतरवत्।। 3.3.37।।

व्यतिहाराधिकरणम्।। 3.3.37।।

यथा -- 'तद्योऽहं सोऽसौ योऽसौ सोऽहम् ' इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः -- 'त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि ' इति। तत्र संशयः -- किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति। एकरूपैवेति तावदाह; न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यÏत्कचिच्चिन्तयितव्यमस्ति; यदि चैवं चिन्तयितव्यविशेषः परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम्, ईश्वरस्य संसार्यात्मत्वमिति -- तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेत्; ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात्। तस्मात् एैकरूप्यमेव मतेः। व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते, प्रत्याह -- व्यतिहारोऽयम् आध्यानायाम्नायते; इतरवत् -- यथा इतरे गुणाः सर्वात्मत्वप्रभृतयः आध्यानाय आम्नायन्ते, तद्वत्। तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन -- 'त्वमहमस्म्यहं च त्वमसि ' इति; तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति; अन्यथा हि इदं विशेषेणोभयाम्नम् अनर्थकं स्यात्, एकेनैव कृतत्वात्। ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रसज्येतेत्युक्तम् -- नैष दोषः; ऐकात्म्यस्यैव अनेन प्रकारेणानुचिन्त्यमानत्वात्। ननु एवं सति स एव एकत्वदृढीकार आपद्येत -- न वयमेकत्वदृढीकारं वारयामः; किं तर्हि, व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात्, नैकरूपेत्येतावत् उपपादयामः; फलतस्तु
एकत्वमपि दृढीभवति। यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति, तद्वत्। तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति।।

सैव हि सत्यादयः।। 3.3.38।।

सत्याद्यधिकरणम्।। 3.3.38।।

'स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्राहृ ' इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधाय, अनन्तरमाम्नायते -- 'तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः ' इत्यादि। तत्र संशयः -- किं द्वे एते सत्यविद्ये, किं वा एकैवेति। द्वे इति तावत्प्राप्तम्; भेदेन हि फलसंयोगो भवति -- 'जयतीमाल्ँलोकान् ' इति पुरस्तात्, 'हन्ति पाप्मानं जहाति च ' इत्युपरिष्टात्। प्रकृताकर्षणं तु उपास्यैकत्वादित्येवं प्राप्ते --

ब्राूमः -- एकैवेयं सत्यविद्येति; कुतः? 'तद्यत्तत्सत्यम् ' इति प्रकृताकर्षणात्। ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपास्यैकत्वादुपपद्यत इत्युक्तम् -- नैतदेवम्; यत्र तु विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते, तत्र एतदेवं स्यात्; अत्र तु उभयथा संभवे 'तद्यत्तत्सत्यम् ' इति प्रकृताकर्षणात् पूर्वविद्यासंबद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्यात्वनिश्चयः। यत्पुनरुक्तम् -- फलान्तरश्रवणाद्विद्यान्तरमिति, अत्रोच्यते -- 'तस्योपनिषदहः ... अहम् ' इति च अङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः। अपि च अर्थवादादेव फले कल्पयितव्ये सति, विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उपसंहर्तव्यानि भवन्ति; तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता -- इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्प्रयोगे उपसंहर्तव्याः।।

केचित्पुनरस्मिन्सूत्रे इदं च वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यम्, छान्दोग्ये च 'अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते य एषोऽक्षिणि पुरुषो दृश्यते ' इति -- उदाह्मत्य, सैवेयम् अक्ष्यादित्यपुरुषविषया विद्या उभयत्र एकैवेति कृत्वा, सत्यादीन्गुणान् वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान् मन्यन्ते। तन्न साधु लक्ष्यते; छान्दोग्ये हि कर्मसंबन्धिनी उद्गीथव्यपाश्रया विद्या विज्ञायते; तत्र हि आदिमध्यावसानेषु कर्मसंबन्धिचिह्नानि भवन्ति -- 'इयमेवर्गग्निः साम ' इत्युपक्रमे, 'तस्यक्र्च साम च गेष्णौ तस्मादुद्गीथः ' इति मध्ये, 'य एवं विद्वान्साम गायति ' इत्युपसंहारे। नैवं वाजसनेयके किंचित् कर्मसंबन्धि चिह्नम् अस्ति; तत्र प्रक्रमभेदात् विद्याभेदे सति गुणव्यवस्थैव युक्तेति।।

कामादीतरत्र तत्र चायतनादिभ्यः।। 3.3.39।।

कामाद्यधिकरणम्।। 3.3.39।।

'अथ यदिदमस्मिन्ब्राहृपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः ' इति प्रस्तुत्य, छन्दोगा अधीयते -- 'एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः ' इत्यादि; तथा वाजसनेयिनः -- 'स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तह्र्मदय आकाशस्तस्मिञ्शेते सर्वस्य वशी ' इत्यादि। तत्र विद्यैकत्वं परस्परगुणयोगश्च, किं वा नेति संशये -- विद्यैकत्वमिति। तत्रेदमुच्यते -- कामादीति, सत्यकामादीत्यर्थः -- यथा देवदत्तो दत्तः, सत्यभामा भामेति। यदेतत् छान्दोग्ये ह्मदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते, तदितरत्र वाजसनेयके 'स वा एष महानज आत्मा ' इत्यत्र संबध्येत; यच्च वाजसनेयके वशित्वादि उपलभ्यते, तदपि इतरत्र छान्दोग्ये 'एष आत्मापहतपाप्मा ' इत्यत्र संबध्येत; कुतः? आयतनादिसामान्यात्; समानं हि उभयत्रापि ह्मदयमायतनम्, समानश्च वेद्य ईश्वरः, समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनम् -- इत्येवमादि बहुसामान्यं दृश्यते। ननु विशेषोऽपि दृश्यते -- छान्दोग्ये ह्मदयाकाशस्य गुणयोगः, वाजसनेयके तु आकाशाश्रयस्य ब्राहृण इति -- न, 'दहर उत्तरेभ्यः ' इत्यत्र च्छान्दोग्येऽपि आकाशशब्दं ब्राहृैवेति प्रतिष्ठापितत्वात्। अयं तु अत्र विद्यते विशेषः -- सगुणा हि ब्राहृविद्या छान्दोग्ये उपदिश्यते -- 'अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् ' इत्यात्मवत् कामानामपि वेद्यत्वश्रवणात्, वाजसनेयके तु निर्गुणमेव ब्राहृ उपदिश्यमानं दृश्यते -- 'अथ उध्र्वं विमोक्षाय ब्राूहि असङ्गो ह्रयं पुरुषः ' इत्यादिप्रश्नप्रतिवचनसमन्वयात्। वशित्वादि तु स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीत्र्यते; तथा च उपरिष्टात् 'स एष नेति नेत्यात्मा ' इत्यादिना निर्गुणमेव ब्राहृ उपसंहरति। गुणवतस्तु ब्राहृण एकत्वात् विभूतिप्रदर्शनाय अयं
गुणोपसंहारः सूत्रितः, नोपासनाय -- इति द्रष्टव्यम्।।

आदरादलोपः।। 3.3.40।।

आदराधिकरणम्।। 3.3.40।।

छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते -- 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहा ' इत्यादि; तत्र पञ्च प्राणाहुतयो विहिताः; तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः 'य एतदेवं विद्वानग्निहोत्रं जुहोति ' इति, 'यथेह क्षुधिता बाला मातरं पर्युपासते। एवं सर्वाणि भूतान्यग्निहोत्रमुपासते ' इति च। तत्रेदं विचार्यते -- किं भोजनलोपे लोपः प्राणाग्निहोत्रस्य, उत अलोप इति। 'तद्यद्भक्तम् ' इति भक्तागमनसंयोगश्रवणात्, भक्तागमनस्य च भोजनार्थत्वात्, भोजनलोपे लोपः प्राणाग्निहोत्रस्येत्येवं प्राप्ते, न लुप्येतेति तावदाह; कस्मात्? आदरात्; तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुतिः -- 'पूर्वोऽतिथिभ्योऽश्नीयात्। यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत् ' इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा, स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति; या हि न प्राथम्यलोपं सहते, नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते। ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रापितः -- न, तस्य द्रव्यविशेषविधानार्थत्वात्; प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्निहोत्रशब्दात् कौण्डपायिनामयनवत् तद्धर्मप्राप्तौ सत्याम्, भक्तद्रव्यतागुणविशेषविधानार्थम् इदं वाक्यम् 'तद्यद्भक्तम् ' इति; अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम्; भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति।।

अत उत्तरं पठति --

उपस्थितेऽतस्तद्वचनात्।। 3.3.41।।

।। 3.3.41।।

उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमोपनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम्; कस्मात्? तद्वचनात्; तथा हि -- 'तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् ' इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति। ताः अप्रयोजकलक्षणापन्नाः सत्यः, कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः। न च अत्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति; कुण्डपायिनामयने हि 'मासमग्निहोत्रं जुहोति ' इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्तिः; इह पुनः अर्थवादगतोऽग्निहोत्रशब्दः न तद्वद्भावं विधापयितुमर्हति; तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम्, अग्न्युद्धरणादयोऽपि प्राप्येरन्; न च अस्ति संभवः; अग्न्युद्धरणं तावत् होमाधिकरणभावाय; न च अयम् अग्नौ होमः, भोजनार्थताव्याघातप्रसङ्गात्; भोजनार्थोपनीतद्रव्यसंबन्धाच्च आस्य एव एष होमः; तथा च जाबालश्रुतिः 'पूर्वोऽतिथिभ्योऽश्नीयात् ' इति आस्याधारामेव इमां होमनिर्वृतिं्त दर्शयति; अत एव च इहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति -- 'उर एव वेदिर्लोमानि बर्हिह्र्मदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ' इति; वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या, मुख्याग्निहोत्रे वेद्यभावात्, तदङ्गानां च इह संपिपादयिषितत्वात्; भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसंभवः; एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथंचित् विरुध्यन्ते। तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः। यत्तु आदरदर्शनवचनम्, तत् भोजनपक्षे प्राथम्यविधानार्थम्; न ह्रस्ति वचनस्य अतिभारः; न तु अनेन अस्य नित्यता शक्यते दर्शयितुम्। तस्मात् भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति।।

तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्।। 3.3.42।।

तन्निर्धारणाधिकरणम्।। 3.3.42।।

सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि -- 'ओमित्येतदक्षरमुद्गीथमुपासीत ' इत्येवमादीनि। किं तानि नित्यान्येव स्युः कर्मसु, पर्णमयीत्वादिवत्; उत अनित्यानि, गोदोहनादिवदिति विचारयामः। किं तावत्प्राप्तम्? नित्यानीति; कुतः? प्रयोगवचनपरिग्रहात् -- अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसंबन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते; यत्तु एषां स्ववाक्येषु फलश्रवणम् -- 'आपयिता ह वै कामानां भवति ' इत्यादि, तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव, अपापश्लोकश्रवणादिवत्, न फलप्रधानम्; तस्मात् यथा 'यस्य पर्णमयी
जुहूर्भवति न स पापं श्लोकं श्रृणोति ' इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता, एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते --

ब्राूमः -- तन्निर्धारणानियम इति। यान्येतानि उद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि -- रसतमः, आप्तिः, समृद्धिः, मुख्यप्राणः, आदित्यः -- इत्येवमादीनि, नैतानि नित्यवत् कर्मसु नियम्येरन्; कुतः? तद्दृष्टेः; तथा हि अनित्यत्वमेवंजातीयकानां दर्शयति श्रुतिः -- 'तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ' इत्यविदुषोऽपि क्रियाभ्यनुज्ञानात्; प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्शनात् -- 'प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि तां चेदविद्वानुद्गास्यसि तां चेदविद्वान्प्रतिहरिष्यसि ' इति च। अपि च एवंजातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलम् उपलभ्यते -- कर्मफलसिद्ध्यप्रतिबन्धः तत्समृद्धिः अतिशयविशेषः कश्चित् -- 'तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद। नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ' इति; तत्र 'नाना तु ' इति विद्वदविद्वत्प्रयोगयोः पृथक्करणात्, 'वीर्यवत्तरम् ' इति च तरप्प्रत्ययप्रयोगात् विद्याहीनमपि वीर्यवदिति गम्यते; तच्च अनित्यत्वे विद्याया उपपद्यते; नित्यत्वे तु कथं तद्विहीनं कर्म वीर्यवदित्यनुज्ञायेत; सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः। तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते -- 'कल्पन्ते हास्मै लोका ऊध्र्वाश्चावृत्ताश्च ' इत्येवमादीनि। न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम्; तथा हि गुणवाद आपद्येत; फलोपदेशे तु मुख्यवादोपपत्तिः; प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात् तादथ्र्ये सति युक्तं फलश्रुतेरर्थवादत्वम्। तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु -- न हि पर्णमयीत्वादीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसंबन्धोऽवकल्पते; गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः; तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः; न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति; वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात्। उपासनानां तु क्रियात्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले विधानं न विरुध्यते। तस्मात् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि, एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम्। अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयांचक्रुः।।

प्रदानवदेव तदुक्तम्।। 3.3.43।।

प्रदानाधिकरणम्।। 3.3.43।।

वाजसनेयके 'वदिष्याम्येवाहमिति वाग्दध्रे ' इत्यत्र अध्यात्मं वागादीनां प्राणः श्रेष्ठोऽवधारितः, अधिदैवतमग्न्यादीनां वायुः; तथा छान्दोग्ये 'वायुर्वाव संवर्गः ' इत्यत्र अधिदैवतम् अग्न्यादीनां वायुः संवर्गोऽवधारितः, प्राणो वाव संवर्गः ' इत्यत्र अध्यात्मं वागादीनां प्राणः। तत्र संशयः -- किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्याताम्, उत अपृथगिति। अपृथगिति तावत्प्राप्तम्, तत्त्वाभेदात्; न हि अभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम्; दर्शयति च श्रुतिः अध्यात्ममधिदैवतं च तत्त्वाभेदम् -- 'अग्निर्वाग्भूत्वा मुखं प्राविशत् ' इत्यारभ्य; तथा 'त एते सर्व एव समाः सर्वेऽनन्ताः ' इति आध्यात्मिकानां प्राणानाम् आधिदैविकीं विभूतिमात्मभूतां दर्शयति। तथा अन्यत्रापि तत्र तत्र अध्यात्ममधिदैवतं च बहुधा तत्त्वाभेददर्शनं भवति; क्वचिच्च 'यः प्राणः स वायुः ' इति स्पष्टमेव वायुं प्राणं च एकं करोति। तथा उदाह्मतेऽपि वाजसनेयिब्रााहृणे 'यतश्चोदेति सूर्यः ' इत्यस्मिन् उपसंहारश्लोके, 'प्राणाद्वा एष उदेति प्राणेऽस्तमेति ' इति प्राणेनैव उपसंहरन् एकत्वं दर्शयति; 'तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च ' इति च प्राणव्रतेनैव एकेनोपसंहरन् एतदेव द्रढयति। तथा छान्दोग्येऽपि परस्तात् 'महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः ' इत्येकमेव संवर्गं गयमति; न ब्रावीति -- एक एव एषां चतुर्णां संवर्गः, अपरोऽपरेषामिति। तस्मादपृथक्त्वमुपगमनस्येत्येवं प्राप्ते --

ब्राूमः -- पृथगेव वायुप्राणावुपगन्तव्याविति; कस्मात्? पृथगुपदेशात्; आध्यानार्थो हि अयम् अध्यात्माधिदैवविभागोपदेशः; सः असत्याध्यानपृथक्त्वे अनर्थक एव स्यात्। ननु उक्तम्, अपृथगनुचिन्तनं तत्त्वाभेदादिति -- नैष दोषः; तत्त्वाभेदेऽप्यवस्थाभेदात् उपदेशभेदवशेन अनुचिन्तनभेदोपपत्तेः, श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणापि उपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामथ्र्याभावात्, 'स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः ' इति च उपमानोपमेयकरणात्। एतेन व्रतोपन्यासो व्याख्यातः;
'एकमेव व्रतम् ' इति च एवकारः वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः; भग्नव्रतानि हि वागादीन्युक्तानि, 'तानि मृत्युः श्रमो भूत्वोपयेमे ' इति श्रुतेः; न वायुव्रतनिवृत्त्यर्थः, 'अथातो व्रतमीमांसा ' इति प्रस्तुत्य तुल्यवत् वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात्; 'एकमेव व्रतं चरेत् ' इति च उक्त्वा, 'तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ' इति वायुप्राÏप्त फलं ब्राुवन् वायुव्रतमनिवर्तितं दर्शयति; देवतेत्यत्र वायुः स्यात्, अपरिच्छिन्नात्मकत्वस्य प्रोप्सतत्वात्, पुरस्तात्प्रयोगाच्च -- 'सैषानस्तमिता देवता यद्वायुः ' इति। तथा 'तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ' इति भेदेन व्यपदिशति; 'ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम् ' इति च भेदेनैव उपसंहरति; तस्मात्पृथगेव उपगमनम्। प्रदानवत् -- यथा 'इन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञे ' इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ, 'सर्वेषामभिगमयन्नवद्यत्यछंबट्कारम् ' इत्यतो वचनात्, इन्द्राभेदाच्च, सहप्रदानाशङ्कायाम् -- राजादिगुणभेदात् याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति; एवं तत्त्वाभेदेऽपि आध्येयांशपृथक्त्वात् आध्यानपृथक्त्वमित्यर्थः। तदुक्तं संकर्षे -- 'नाना वा देवता पृथग्ज्ञानात् ' इति। तत्र तु द्रव्यदेवताभेदात् यागभेदो विद्यते; नैवमिह विद्याभेदोऽस्ति, उपक्रमोपसंहाराभ्याम् अध्यात्माधिदैवोपदेशेषु एकविद्याविधानप्रतीतेः; विद्यैक्येऽपि तु अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो भवति -- अग्निहोत्र इव सायंप्रातःकालभेदात् -- इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम्।।

लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि।। 3.3.44।।

लिङ्गभूयस्त्वाधिकरणम्।। 3.3.44।।

वाजसनेयिनोऽग्निरहस्ये 'नैव वा इदमग्रे सदासीत् ' इत्येतस्मिन्ब्रााहृणे मनोऽधिकृत्य अधीयते -- 'तत्षट्तिं्रशतं सहरुााण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः ' इत्यादि; तथैव 'वाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः ' इति पृथगग्नीन् आमनन्ति सांपादिकान्। तेषु संशयः -- किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति। तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं तावत्प्रतिजानीते -- लिङ्गभूयस्त्वादिति। भूयांसि हि लिङ्गानि अस्मिन्ब्रााहृणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते -- 'तद्यÏत्कचेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः ' इति, 'तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते ' इति च एवंजातीयकानि। तद्धि लिङ्गं प्रकरणाद्बलीयः। तदप्युक्तं पूर्वस्मिन्काण्डे -- 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् इति।।

पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत्।। 3.3.45।।

।। 3.3.45।।

नैतद्युक्तम् -- स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति; पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विकल्पविशेषोपदेशः स्यात्, न स्वतन्त्रः। ननु प्रकरणाल्लिङ्गं बलीयः -- सत्यमेवमेतत्; लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति; अन्यार्थदर्शनं हि एतत्, सांपादिकाग्निप्रशंसारूपत्वात्; अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते; तस्मात् सांपादिका अप्येतेऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः। मानसवत् -- यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्रमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते, स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति -- एवमयमप्यग्निकल्प इत्यर्थः।।

अतिदेशाच्च।। 3.3.46।।

।। 3.3.46।।

अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति -- 'षट्तिं्रशत्सहरुााण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्वः ' इति; सति हि सामान्ये अतिदेशः प्रवर्तते; ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना सांपादिकानग्नीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति।।

विद्यैव तु निर्धारणात्।। 3.3.47।।

।। 3.3.47।।

तु-शब्दः पक्षं व्यावर्तयति। विद्यात्मका एव एते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युः, न क्रियाशेषभूताः। तथा हि निर्धारयति -- 'ते हैते विद्याचित एव ' इति, 'विद्यया हैवैत एवंविदश्चिता भवन्ति ' इति च।।

दर्शनाच्च।। 3.3.48।।

।। 3.3.48।।

दृश्यते च एतेषां स्वातन्त्र्ये लिङ्गम्; तत्पुरस्ताद्दर्शितम् -- 'लिङ्गभूयस्त्वात् ' इत्यत्र।।

ननु लिङ्गमपि असत्यामन्यस्यां प्राप्तौ असाधकं कस्यचिदर्थस्येति, अपास्य तत्, प्रकरणसामथ्र्यात् क्रियाशेषत्वमध्यवसितम् -- इत्यत उत्तरं पठति --

श्रुत्यादिबलीयस्त्वाच्च न बाधः।। 3.3.49।।

।। 3.3.49।।

नैवं प्रकरणसामथ्र्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्यः, श्रुत्यादेर्बलीयस्त्वात्; बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे; तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते; कथम्? श्रुतिस्तावत् -- 'ते हैते विद्याचित एव ' इति; तथा लिङ्गम् -- 'सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते ' इति; तथा वाक्यमपि -- 'विद्यया हैवैत एवंविदश्चिता भवन्ति ' इति। 'विद्याचित एव ' इति हि सावधारणां इयं श्रुतिः क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात्। ननु अबाह्रसाधनत्वाभिप्रायमिदमवधारणं भविष्यति -- नेत्युच्यते; तदभिप्रायतायां हि 'विद्याचितः ' इति इयता स्वरूपसंकीर्तनेनैव कृतत्वात्, अनर्थकमवधारणं भवेत् -- स्वरूपमेव हि एषाम् अबाह्रसाधनत्वमिति; अबाह्रसाधनत्वेऽपि तु मानसग्रहवत् क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति। तथा 'स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्ति ' इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽवकल्पते -- यथा सांपादिके वाक्प्राणमयेऽग्निहोत्रे 'प्राणं तदा वाचि जुहोति ... वाचं तदा प्राणे जुहोति ' इति च उक्त्वा उच्यते -- 'एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोति ' इति -- तद्वत्; क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अल्पकालत्वात् न सातत्येन एषां प्रयोगः कल्पेत। न च इदमर्थवादमात्रमिति न्याय्यम्; यत्र हि विस्पष्टो विधायको लिङादिः उपलभ्यते, युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम्; इह तु विस्पष्टविध्यन्तरानुपलब्धेः संकीर्तनादेव एषां विज्ञानविधानं कल्पनीयम्; तच्च यथासंकीर्तनमेव कल्पयितुं शक्यत इति, सातत्यदर्शनात् तथाभूतमेव कल्प्यते; ततश्च सामथ्र्यादेषां स्वातन्त्र्यसिद्धिः। एतेन 'तद्यÏत्कचेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः ' इत्यादि व्याख्यातम्। तथा वाक्यमपि 'एवंविदे ' इति पुरुषविशेषसंबन्धमेव एषामाचक्षाणं न क्रतुसंबन्धं मृष्यते। तस्मात् स्वातन्त्र्यपक्ष एव ज्यायानिति।।

अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम्।। 3.3.50।।

।। 3.3.50।।

इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम्, यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति -- 'ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्रन्त मनसास्तुवन्मनसाशंसन्यÏत्कच यज्ञे कर्म क्रियेत यÏत्कच यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते ' इत्यादिना; संपत्फलो हि अयमनुबन्धः; न च प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः। न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसंबन्धात् तदनुप्रवेशित्वमाशङ्कितव्यम्, श्रुतिवैरूप्यात्; न हि अत्र क्रियाङ्गं किंचिदादाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति; षट्तिं्रशत्सहरुााणि तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति, पुरुषयज्ञादिवत्; संख्या च इयं पुरुषायुषस्याहःसुदृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम्। एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम्। आदिशब्दात् अतिदेशाद्यपि यथासंभवं योजयितव्यम्; तथा हि -- 'तेषामेकैक एव तावान्यावानसौ पूर्वः ' इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन् क्रियायामनादरं दर्शयति; न च सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम्; न हि, येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति। यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम् -- सति हि सामान्येऽतिदेशः प्रवर्तत इति, तत् अस्मत्पक्षेऽप्यग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् -- अस्ति हि सांपादिकानामप्यग्नीनामग्नित्वमिति।
श्रुत्यादीनि च कारणानि दर्शितानि। एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम्; प्रज्ञान्तरपृथक्त्ववत् -- यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति, एवमिति; दृष्टश्च अवेष्टेः राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षः -- वर्णत्रयानुबन्धात्; राजयज्ञत्वाच्च राजसूयस्य; तदुक्तं प्रथमे काण्डे -- 'क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात् ' इति।।

न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः।। 3.3.51।।

।। 3.3.51।।

यदुक्तं मानसवदिति, तत्प्रत्युच्यते। न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम्, पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः; न हि किंचित् कस्यचित् केनचित् सामान्यं न संभवति; न च तावता यथास्वं वैषम्यं निवर्तते; मृत्युवत् -- यथा 'स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः ' इति, 'अग्निर्वै मृत्युः ' इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे, न अत्यन्तसाम्यापत्तिः; यथा च 'असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित् ' इत्यत्र न समिदादिसामान्यात् लोकस्याग्निभावापत्तिः -- तद्वत्।।

ारेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः।। 3.3.52।।

।। 3.3.52।।

परस्तादपि 'अयं वाव लोक एषोऽग्निश्चितः ' इत्यस्मिन् अनन्तरे ब्रााहृणे, ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्धकर्माङ्गविधित्वम्; तत्र हि -- 'विद्यया तदारोहन्ति यत्र कामाः परागताः। न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्वनिः ' इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति। तथा पुरस्तादपि 'यदेतन्मण्डलं तपति ' इत्यस्मिन्ब्रााहृणे विद्याप्रधानत्वमेव लक्ष्यते -- 'सोऽमृतो भवति मृत्युह्र्रस्यात्मा भवति ' इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता। तत्सामान्यात् इहापि तथात्वम्। भूयांस्तु अग्न्यवयवाः संपादयितव्या विद्यायाम् -- इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात्। तस्मात् मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः।।

एक आत्मनः शरीरे भावात्।। 3.3.53।।

शरीरेभावाधिकरणम्।। 3.3.53।।

इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समथ्र्यते, बन्धमोक्षाधिकारसिद्धये; न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन्; कस्य वा ब्राहृात्मत्वमुपदिश्येत। ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् -- सत्यमुक्तं भाष्यकृता; न तु तत्रात्मास्तित्वे सूत्रमस्ति; इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम्; इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम्; अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः। इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्नशास्त्रशेषत्वप्रदर्शनाय; अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम्; कोऽसौ पुरुषः, यदर्था एते मनश्चिदादयः -- इत्यस्यां प्रसक्तौ इदं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते; तदस्तित्वाक्षेपार्थमिदमादिमं सूत्रम् -- आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति।।

अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यतिरिक्तस्य आत्मनोऽभावं मन्यमानाः, समस्तव्यस्तेषु बाह्रेषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति -- संभावयन्तस्तेभ्यश्चैतन्यम्, मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः -- इति च आहुः। न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात्; देह एव तु चेतनश्च आत्मा च इति प्रतिजानते। हेतुं च आचक्षते -- शरीरे भावादिति यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्धर्मत्वेनाध्यवसीयते -- यथा अग्निधर्मावौष्ण्यप्रकाशौ। प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभिमता आत्मवादिनाम् -- तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति। तस्मादव्यतिरेको देहादात्मन इति।।

एवं प्राप्ते, ब्राूमः --

व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत्।। 3.3.54।।

।। 3.3.54।।

न त्वेतदस्ति -- यदुक्तमव्यतिरेको देहादात्मन इति; व्यतिरेक एव अस्य देहाद्भवितुमर्हति; तद्भावाभावित्वात्; यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत -- ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत? देहधर्मवैलक्षण्यात्; ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति; प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति; देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, न त्वात्मधर्माश्चैतन्यस्मृत्यादयः। अपि च सति हि तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम्, न तु असत्यभावः; पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसंचारेण आत्मधर्मा अनुवर्तेरन्; संशयमात्रेणापि परपक्षः प्रतिषिध्यते। किमात्मकं च पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छति -- इति परः पर्यनुयोक्तव्यः, न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किंचित् तत्त्वं प्रत्येति; यत् अनुभवनं भूतभौतिकानाम्, तत् चैतन्यमिति चेत्, तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधात्। न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति। न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन्; न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते; विषयीक्रियन्ते तु बाह्राध्यात्मिकानि भूतभौतिकानि चैतन्येन। अतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः; उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम्। नित्यत्वं च उपलब्धेः, ऐकरूप्यात्, 'अहम् इदम् अद्राक्षम् ' इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात्, स्मृत्याद्युपपत्तेश्च। यत्तूक्तम् -- शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम्। अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवतीति -- न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति; एवं सति देहे उपलब्धिर्भवति, असति च न भवतीति -- न देहधर्मो भवितुमर्हति; उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः। न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात्। तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम्।।

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्।। 3.3.55।।

अङ्गावबद्धाधिकरणम्।। 3.3.55।।

समाप्ता प्रासङ्गिकी कथा; संप्रति प्रकृतामेवानुवर्तामहे। 'ओमित्येतदक्षरमुद्गीथमुपासीत लोकेषु पञ्चविधं सामोपासीत उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी अयं वाव लोकः एषोऽग्निश्चितः ' इत्येवमाद्या ये उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः, ते तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः, अथवा सर्वशाखागतेषु -- इति विशयः। प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यासः। किं तावत्प्राप्तम्? स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति; कुतः? संनिधानात् -- 'उद्गीथमुपसीत ' इति हि सामान्यविहितानां विशेषाकाङ्क्षायां संनिकृष्टेनैव स्वशाखागतेन विशेषेण आकाङ्क्षादिनिवृत्तेः, तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति। तस्मात्प्रतिशाखं व्यवस्थेत्येवं प्राप्ते, ब्रावीति -- 'अङ्गावबद्धास्त्विति। तु-शब्दः पक्षं व्यावर्तयति। नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् ' अपि तु सर्वशाखास्वनुवर्तेरन्; कुतः? उद्गीथादिश्रुत्यविशेषात्; स्वशाखाव्यवस्थायां हि 'उद्गीथमुपासीत ' इति सामान्यश्रुतिरविशेषप्रवृत्ता सती संनिधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात्; न चैतन्न्याय्यम्; संनिधानाद्धि श्रुतिर्बलीयसी; न च सामान्याश्रयः प्रत्ययो नोपपद्यते। तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखागतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः।।


मन्त्रादिवद्वाऽविरोधः।। 3.3.56।।

।। 3.3.56।।

अथवा नैवात्र विरोधः शङ्कितव्यः -- कथमन्यशाखागतेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति, मन्त्रादिवत् अविरोधोपपत्तेः। तथा हि -- मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तरे उपसंग्रहो दृश्यते; येषामपि हि शाखिनाम् 'कुटरुरसि ' इत्यश्मादानमन्त्रो नाम्नातः, तेषामपि असौ विनियोगो
दृश्यते -- 'कुक्कुटोऽसीत्यश्मानमादत्ते, कुटरुरसीति वा ' इति; येषामपि समिदादयः प्रयाजा नाम्नाताः, तेषामपि तेषु गुणविधिराम्नायते -- 'ऋतवो वै प्रयाजाः समानत्र होतव्याः ' इति; तथा येषामपि 'अजोऽग्नीषोमीयः ' इति जातिविशेषोपदेशो नास्ति, तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते -- 'छागस्य वपाया मेदसोऽनुब्राूहि ' इति; तथा वेदान्तरोत्पन्नानामपि 'अग्नेर्वेर्होत्रं वेरध्वरम् ' इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः; तथा बह्वृचपठितस्य सूक्तस्य 'यो जात एव प्रथमो मनस्वान् ' इत्यस्य, 'अध्वर्यवे सजनीयं शस्यम् ' इत्यत्र परिग्रहो दृष्टः। तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिः, एवम् आश्रितानामपि प्रत्ययानाम् -- इत्यविरोधः।।

भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति।। 3.3.57।।

भूमज्यायस्त्वाधिकरणम्।। 3.3.57।।

'प्राचीनशाल औपमन्यवः ' इत्यस्यामाख्यायिकायां व्यस्तस्य समस्तस्य च वैश्वानरस्य उपासनं श्रूयते। व्यस्तोपासनं तावत् -- 'औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से ' इत्यादि; तथा समस्तोपासनमपि -- 'तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वत्र्मात्मा संदेहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ ' इत्यादि। तत्र संशयः -- किमिह उभयथापि उपासनं स्यात् व्यस्तस्य समस्तस्य च, उत समस्तस्यैवेति। किं तावत्प्राप्तम्? प्रत्यवयवं सुतेजः -- प्रभृतिषु 'उपास्से ' इति क्रियापदश्रवणात्, 'तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ' इत्यादिफलभेदश्रवणाच्च, व्यस्तान्यप्युपासनानि स्युः -- इति प्राप्तम्।।

ततोऽभिधीयते -- भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्येन अस्मिन्वाक्ये विवक्षितं भवितुमर्हति, न प्रत्येकम् अवयवोपासनानामपि; क्रतुवत् -- यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते, न व्यस्तानामपि प्रयोगः प्रयाजादीनाम्, नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य -- तद्वत्। कुत एतत् -- भूमैव ज्यायानिति? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति, एकवाक्यतावगमात्; एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते; तथा हि -- प्राचीनशालप्रभृतय उद्दालकावसानाः षट् ऋषयः वैश्वानरविद्यायां परिनिष्ठामप्रतिपद्यमानाः अश्वपतिं कैकेयं राजानमभ्याजग्मुः -- इत्युपक्रम्य, एकैकस्य ऋषेरुपास्यं द्युप्रभृतीनामेकैकं श्रावयित्वा, 'मूर्धा त्वेष आत्मन इति होवाच ' इत्यादिना मूर्धादिभावं तेषां विदधाति; 'मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः ' इत्यादिना च व्यस्तोपासनमपवदति; पुनश्च व्यस्तोपासनं व्यावत्र्य, समस्तोपासनमेवानुवत्र्य, 'स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ' इति भूमाश्रयमेव फलं दर्शयति। यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम्, तत् एवं सति अङ्गफलानि प्रधान एवाभ्युच्चिनोति -- इति द्रष्टव्यम्। तथा 'उपास्से ' इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम्, न व्यस्तोपासनविधानार्थम्। तस्मात्समस्तोपासनपक्ष एव श्रेयानिति।।

केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य, ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कल्पयन्ति। तदयुक्तम्, 'एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात्, मूर्धा ते व्यपतिष्यत् ' इति च एवमादिनिन्दाविरोधात्, स्पष्टे च उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात्, सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्यमानत्वात्।।

नाना शब्दादिभेदात्।। 3.3.58।।

शब्दादिभेदाधिकरणम्।। 3.3.58।।

पूर्वस्मिन्नधिकरणे सत्यामपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तस्योपासनं ज्याय इत्युक्तम्; अतः प्राप्ता बुद्धिः -- अन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्य उपासिष्यन्ते इति। अपि च नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते; वेद्यं हि रूपं विद्यायाः, द्रव्यदैवतमिव यागस्य; वेद्यश्च एक एव ईश्वरः श्रुतिनानात्वेऽप्यवगम्यते -- 'मनोमयः प्राणशरीरः कं ब्राहृ खं ब्राहृ सत्यकामः सत्यसंकल्पः ' इत्येवमादिषु -- तथा 'एक एव प्राणः प्राणो वाव संवर्गः प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च प्राणो ह पिता प्राणो माता ' इत्येवमादिषु; वेद्यैकत्वाच्च विद्यैकत्वम्। श्रुतिनानात्वमपि अस्मिन्पक्षे गुणान्तरपरत्वात् न अनर्थकम्। तस्मात् स्वपरशाखाविहितम् एकवेद्यव्यपाश्रयं गुणजातमुपसंहर्तव्यं विद्याकात्स्न्र्याय इत्येवं प्राप्ते --

प्रतिपाद्यते -- नानेति; वेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हति; कुतः? शब्दादिभेदात्; भवति हि शब्दभेदः -- 'वेद उपासीत स क्रतुं कुर्वीत ' इत्येवमादिः; शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात् 'शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ' इति। आदिग्रहणात् गुणादयोऽपि यथासंभवं भेदहेतवो योजयितव्याः। ननु 'वेद ' इत्यादिषु शब्दभेद एव अवगम्यते, न 'यजति ' इत्यादिवत् अर्थभेदः, सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात्, अर्थान्तरासंभवाच्च; तत् कथं शब्दभेदाद्विद्याभेद इति -- नैष दोषः, मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेः; एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते; तथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्यादृग्गुणोऽन्यत्रोपासितव्यः अन्यादृग्गुणश्चान्यत्र -- इत्येवमनुबन्धभेदाद्विधिभेदे सति विद्याभेदो विज्ञायते। न च अत्र एको विद्याविधिः, इतरे गुणविधय इति शक्यं वक्तुम् -- विनिगमनायां हेत्वभावात्, अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः। न च अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः। प्रतिप्रकरणं च -- इदंकामेनेदमुपासितव्यम्, इदंकामेन च इदम् -- इति नैराकाङ्क्ष्यावगमात् नैकवाक्यतापत्तिः। न च अत्र वैश्वानरविद्यायामिव समस्तचोदना अपरा अस्ति, यद्बलेन प्रतिप्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुः। वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने, समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेत। तस्मात् सुष्ठु उच्यते -- नाना शब्दादिभेदादिति। स्थिते च एतस्मिन्नधिकरणे, सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम्।।

विकल्पोऽविशिष्टफलत्वात्।। 3.3.59।।

विकल्पाधिकरणम्।। 3.3.59।।

स्थिते विद्याभेदे विचार्यते -- किमासामिच्छया समुच्चयो विकल्पो वा स्यात्, अथवा विकल्प एव नियमेनेति। तत्र स्थितत्वात् तावद्विद्याभेदस्य न समुच्चयनियमे किंचित्कारणमस्ति। ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते -- नैष दोषः; नित्यताश्रुतिर्हि तत्र कारणम्; नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति; तस्मान्न समुच्चयनियमः। नापि विकल्पनियमः, विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात्। पारिशेष्यात् याथाकाम्यमापद्यते। ननु अविशिष्टफलत्वादासां विकल्पो न्याय्यः; तथा हि -- 'मनोमयः प्राणशरीरः कं ब्राहृ खं ब्राहृ सत्यकामः सत्यसंकल्पः ' इत्येवमाद्याः तुल्यवत् ईश्वरत्वप्राप्तिफला लक्ष्यन्ते -- नैष दोषः, समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात्। तस्मात् याथाकाम्यप्राप्तौ, उच्यते -- विकल्प एव आसां भवितुमर्हति, न समुच्चयः; कस्मात्? अविशिष्टफलत्वात्। अविशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम्; एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ, द्वितीयमनर्थकम्। अपि च असंभव एव, साक्षात्करणस्य समुच्चयपक्षे, चित्तविक्षेपहेतुत्वात्; साक्षात्करणसाध्यं च विद्याफलं दर्शयन्ति श्रुतयः -- 'यस्य स्यादद्धा न विचिकित्सास्ति ' इति, 'देवो भूत्वा देवानप्येति ' इति च एवमाद्याः; स्मृतयश्च -- 'सदा तद्भावभावितः ' इत्येवमाद्याः। तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात्, यावदुपास्यविषयसाक्षात्करणेन तत्फलं प्राप्तमिति।।

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्।। 3.3.60।।

काम्याधिकरणम्।। 3.3.60।।

अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम्। यासु पुनः काम्यासु विद्यासु 'स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति स यो नाम ब्राहृेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति ' इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु, साक्षात्करणापेक्षा नास्ति; ता यथाकामं समुच्चीयेरन्, न वा समुच्चीयेरन् -- पूर्वहेत्वभावात् -- पूर्वस्य अविशिष्टफलत्वादित्यस्य विकल्पहेतोः अभावात्।।

अङ्गेषु यथाश्रयभावः।। 3.3.61।।

यथाश्रयभावाधिकरणम्।। 3.3.61।।

कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः, किं ते समुच्चीयेरन्, किं वा यथाकामं स्युरिति संशये -- यथाश्रयभाव इत्याह। यथैव एषामाश्रयाः स्तोत्रादयः संभूय भवन्ति, एवं प्रत्यया अपि, आश्रयतन्त्रत्वात्प्रत्ययानाम्।।

शिष्टेश्च।। 3.3.62

।। 3.3.62।।

यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एवमाश्रिता अपि प्रत्ययाः -- नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः।।

समाहारात्।। 3.3.63।।

।। 3.3.63।।

'होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति ' इति च -- प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधाति -- इति ब्राुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसंबन्धसामान्यात् सर्ववेदोदितप्रत्ययोपसंहारं सूचयति -- इति लिङ्गदर्शनम्।।

गुणसाधारण्यश्रुतेश्च।। 3.3.64।।

।। 3.3.64।।

विद्यागुणं च विद्याश्रयं सन्तम् ओंकारं वेदत्रयसाधारणं श्रावयति -- 'तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायति ' इति च; ततश्च आश्रयसाधारण्यात् आश्रितसाधारण्यमिति -- लिङ्गदर्शनमेव। अथवा गुणसाधारण्यश्रुतेश्चेति; यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः, न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः; ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते; ततश्च आश्रयसहभावात्प्रत्ययसहभाव इति।।

न वा तत्सहभावाश्रुतेः।। 3.3.65।।

।। 3.3.65।।

न वेति पक्षव्यावर्तनम्। न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति; कुतः? तत्सहभावाश्रुतेः; यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते -- 'ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति, स्तुतमनुशंसति, प्रस्तोतः साम गाय, होतरेतद्यज ' इत्यादिना; नैवमुपासनानां सहभावश्रुतिरस्ति। ननु प्रयोगवचन एषां सहभावं प्रापयेत् -- नेति ब्राूमः, पुरुषार्थत्वादुपासनानाम्; प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत्; उद्गीथाद्युपासनानि तु क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचाम 'पृथग्घ्यप्रतिबन्धः फलम् ' इत्यत्र। अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् -- यदेकेषां क्रत्वर्थत्वम्, एकेषां पुरुषार्थत्वमिति। परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य, श्रुतिन्यायाभावात्। न च प्रतिप्रयोगम् आश्रयकात्स्न्र्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम्, अतत्प्रयुक्तत्वादुपासनानाम् -- आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन्; न त्वाश्रयसहभावेन सहभावनियममर्हन्ति, तत्सहभावाश्रुतेरेव। तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन्।।

दर्शनाच्च।। 3.3.66।।

।। 3.3.66।।

दर्शयति च श्रुतिरसहभावं प्रत्ययानाम् -- 'एवंविद्ध वै ब्राहृा यज्ञं यजमानं सर्वांश्चÐत्वजोऽभिरक्षति ' इति। सर्वप्रत्ययोपसंहारे हि, सर्वे सर्वविद इति न विज्ञानवता ब्राहृणा परिपाल्यत्वमितरेषां संकीत्र्येत। तस्मात् यथाकाममुपासनानां समुच्चयो विकल्पो वेति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः।।

चतुर्थः पादः

[सम्पाद्यताम्]

पुरुषार्थोऽतः शब्दादिति बादरायणः ।। 3.4.1 ।।

पुरुषार्थाधिकरणम्।। 3.4.1।।

पुरुषार्थोऽत इति। अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते; कुत एतदवगम्यते? शब्दादित्याह। तथा हि -- 'तरति शोकमात्मवित् ' 'स यो ह वै तत्परमं ब्राहृ वेद ब्राहृैव भवति ' 'ब्राहृविदाप्नोति परम् ' 'आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ' 'य आत्मापहतपाप्मा ' इत्युपक्रम्य, 'स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति ' इति; 'आत्मा वा अरे द्रष्टव्यः ' इत्युपक्रम्य, 'एतावदरे खल्वमृतत्वम् ' इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति।।

अथात्र प्रत्यवतिष्ठते --

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः।। 3.4.2।।

।। 3.4.2।।

कर्तृत्वेन आत्मनः कर्मशेषत्वात्, तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसंबन्ध्येव -- इत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः -- इति जैमिनिराचार्यो मन्यते। यथा अन्येषु द्रव्यसंस्कारकर्मसु 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति ' 'यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते ' 'यत्प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै ' इत्येवंजातीयका फलश्रुतिः अर्थवादः -- तद्वत्। कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसंबन्ध इति चेत्, न, वाक्याद्विनियोगानुपपत्तेः -- अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसंबन्धोऽवकल्पते; कर्ता तु व्यभिचारि द्वारम्, लौकिकवैदिककर्मसाधारण्यात्; तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसंबन्धसिद्धिरिति -- न, व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात्; न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः; वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम्। ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् -- न, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वोपदेशात्; अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति। ननु तत्र तत्र प्रसाधितमेतत् -- अधिकमसंसारि ब्राहृ जगत्कारणम्; तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति -- सत्यं प्रसाधितम्; तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दाढर्¬ाय।।

आचारदर्शनात्।। 3.4.3।।

।। 3.4.3।।

'जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ' 'यक्ष्यमाणो वै भगवन्तोऽहमस्मि ' इत्येवमादीनि ब्राहृविदामपि अन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति। तथा उद्दालकादीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसंबन्धोऽवगम्यते। केवलाच्चेत् ज्ञानात् पुरुषार्थसिद्धिः स्यात्, किमर्थम् अनेकायाससमन्वितानि कर्माणि ते कुर्युः? 'अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ' इति न्यायात्।।

तच्छØतेः।। 3.4.4।।

।। 3.4.4।।

'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति ' इति च कर्मशेषत्वश्रवणात् विद्याया न केवलायाः पुरुषार्थहेतुत्वम्।।

समन्वारम्भणात्।। 3.4.5।।

।। 3.4.5।।

'तं विद्याकर्मणी समन्वारभेते ' इति च विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् न स्वातन्त्र्यं विद्यायाः।।

तद्वतो विधानात्।। 3.4.6।।

।। 3.4.6।।

'आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः ' इति च एवंजातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति; तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम्। ननु अत्र 'अधीत्य ' इत्यध्ययनमात्रं वेदस्य श्रूयते, न अर्थविज्ञानम् -- नैष दोषः; दृष्टार्थत्वात् वेदाध्ययनम् अर्थावबोधपर्यन्तमिति स्थितम्।।

नियमाच्च।। 3.4.7।।

।। 3.4.7।।

'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ' इति -- तथा 'एतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्रेवास्मान्मुच्यते मृत्युना वा ' -- इत्येवंजातीयकात् नियमादपि कर्मशेषत्वमेव विद्याया इति।।

एवं प्राप्ते, प्रतिविधत्ते --

अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात्।। 3.4.8।।

।। 3.4.8।।

तु-शब्दात् पक्षो विपरिवर्तते। यदुक्तम् 'शेषत्वात्पुरुषार्थवादः ' इति, तत् नोपपद्यते; कस्मात्? अधिकोपदेशात्; यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात्, ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात्; अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु। न च तद्विज्ञानं कर्मणां प्रवर्तकं भवति, प्रत्युत कर्माण्युच्छिनत्ति -- इति वक्ष्यति 'उपमर्दं च ' इत्यत्र। तस्मात् 'पुरुषार्थोऽतः शब्दात् ' इति यन्मतं भगवतो बादरायणस्य, तत् तथैव तिष्ठति; न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते। तथा हि तमधिकं शारीरात् ईश्वरमात्मानं दर्शयन्ति श्रुतयः -- 'यः सर्वज्ञः सर्ववित् ' 'भीषास्माद्वातः पवते ' 'महद्भयं वज्रमुद्यतम् ' 'एतस्य वा अक्षरस्य प्रशासने गार्गि ' 'तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत ' इत्येवमाद्याः। यत्तु प्रियादिसंसूचितस्य संसारिण एव आत्मनो वेद्यतया अनुकर्षणम् -- - 'आत्मनस्तु कामाय सर्वं प्रियं भवति। आत्मा वा अरे द्रष्टव्यः ' 'यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ' 'य एषोऽक्षिणि पुरुषो दृश्यते ' इत्युपक्रम्य 'एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ' इति चैवमादि -- तदपि, 'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः ' 'योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ' 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः ' इत्येवमादिभिर्वाक्यशेषैः सत्यामेव अधिकोपदिदिक्षायाम्, अत्यन्ताभेदाभिप्रायमित्यविरोधः। पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम्; उपाधिकृतं तु शारीरत्वम्, 'तत्त्वमसि ' 'नान्यदतोऽस्ति द्रष्टृ ' इत्यादिश्रुतिभ्यः। सर्वं च एतत् विस्तरेणास्माभिः पुरस्तात् तत्र तत्र वर्णितम्।।

तुल्यं तु दर्शनम्।। 3.4.9।।

।। 3.4.9।।

यत्तूक्तम् -- आचारदर्शनात्कर्मशेषो विद्येति, अत्र ब्राूमः -- तुल्यमाचारदर्शनम् अकर्मशेषत्वेऽपि विद्यायाः। तथा हि श्रुतिर्भवति -- 'एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे। एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवांचक्रिरे ' 'एतं वै तमात्मानं विदित्वा ब्रााहृणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ' इत्येवंजातीयका। याज्ञवल्क्यादीनामपि ब्राहृविदाम् अकर्मनिष्ठत्वं दृश्यते -- 'एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राज ' इत्यादिश्रुतिभ्यः। अपि च 'यक्ष्यमाणो वै भगवन्तोऽहमस्मि ' इत्येतत् लिङ्गदर्शनं वैश्वानरविद्याविषयम्; संभवति च सोपाधिकायां ब्राहृविद्यायां कर्मसाहित्यदर्शनम्; न तु अत्रापि कर्माङ्गत्वमस्ति, प्रकरणाद्यभावात्।।

यत्पुनरुक्तम् -- 'तच्छØतेः ' इति, अत्र ब्राूमः --

असार्वत्रिकी।। 3.4.10।।

।। 3.4.10।।

'यदेव विद्यया करोति ' इत्येषा श्रुतिर्न सर्वविद्याविषया, प्रकृतविद्याभिसंबन्धात्। प्रकृता च उद्गीथविद्या -- 'ओमित्येतदक्षरमुद्गीथमुपासीत ' इत्यत्र।।

विभागः शतवत्।। 3.4.11।।

।। 3.4.11।।

यदप्युक्तम् -- 'तं विद्याकर्मणी समन्वारभेते ' इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्रत्युच्यते -- विभागोऽत्र द्रष्टव्यः -- विद्या अन्यं पुरुषमन्वारभते, कर्म अन्यमिति। शतवत् -- यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते -- पञ्चाशदेकस्मै पञ्चाशदपरस्मै, तद्वत्। न च इदं समन्वारम्भवचनं मुमुक्षुविषयम् -- 'इति नु कामयमानः ' इति संसारिविषयत्वोपसंहारात्, 'अथाकामयमानः ' इति च मुमुक्षोः पृथगुपक्रमात्; तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्रते, विशेषाभावात्; कर्मापि विहितं प्रतिषिद्धं च, यथाप्राप्तानुवादित्वात्; एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते।।

यच्चैतत् -- 'तद्वतो विधानात् ' इति, अत उत्तरं पठति --

अध्ययनमात्रवतः।। 3.4.12।।

।। 3.4.12।।

'आचार्यकुलाद्वेदमधीत्य ' इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रक्षवत एव कर्मविधिरित्यध्यवस्यामः। ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत -- नैष दोषः; न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः; किं तर्हि औपनिषदमात्मज्ञानम्, स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम्, न कर्माधिकारकारणतां प्रतिपद्यते -- इत्येतत्प्रतिपादयामः। यथा च न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति।।

यदप्युक्तम् -- 'नियमाच्च ' इति, अत्राभिधीयते --

नाविशेषात्।। 3.4.13।।

।। 3.4.13।।

'कुर्वन्नेवेह कर्माणि जिजीविषेत् ' इत्येवमादिषु नियमश्रवणेषु न विदुष इति विशेषोऽस्ति, अविशेषेण नियमविधानात्।।

स्तुतयेऽनुमतिर्वा।। 3.4.14।।

।। 3.4.14।।

'कुर्वन्नेवेह कर्माणि ' इत्यत्र अपरो विशेष आख्यायते। यद्यपि अत्र प्रकरणसामथ्र्यात् विद्वानेव -- कुर्वन् -- इति संबध्येत, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम्; 'न कर्म लिप्यते नरे ' इति हि वक्ष्यति। एतदुक्तं भवति -- यावज्जीवं कर्म कुर्वत्यपि त्वयि विदुषि पुरुषे न कर्म लेपाय भवति, विद्यासामथ्र्यादिति -- तदेवं विद्या स्तूयते।।

कामकारेण चैके।। 3.4.15।।

।। 3.4.15।।

अपि च एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः, तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेण -- इति श्रुतिर्भवति वाजसनेयिनाम् -- 'एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति '। अनुभवारूढमेव च विद्याफलं न क्रियाफलवत् कालान्तरभावि -- इत्यसकृदवोचाम। अतोऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम्।।

उपमर्दं च।। 3.4.16।।

।। 3.4.16।।

अपि च कर्माधिकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्य अविद्याकृतस्य विद्यासामथ्र्यात् स्वरूपोपमर्दमामनन्ति -- 'यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत् ' इत्यादिना। वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिदिं्ध प्रत्याशासानस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत। तस्मादपि स्वातन्त्र्यं विद्यायाः।।

ऊध्र्वरेतःसु च शब्दे हि।। 3.4.17।।

।। 3.4.17।।

ऊध्र्वरेतःसु च आश्रमेषु विद्या श्रूयते; न च तत्र कर्माङ्गत्वं विद्याया उपपद्यते, कर्माभावात्; न हि अग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति। स्यादेतत्, ऊध्र्वरेतस आश्रमा न श्रूयन्ते वेद इति -- तदपि नास्ति; तेऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते -- 'त्रयो धर्मस्कन्धाः ' 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' 'तपःश्रद्धे ये ह्रुपवसन्त्यरण्ये ' 'एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ' 'ब्राहृचर्यादेव प्रव्रजेत् ' इत्येवमादिषु। प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानाम् अपाकृतानपाकृतर्णत्रयाणां च ऊध्र्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम्। तस्मादपि स्वातन्त्र्यं विद्यायाः।।

ारामर्शं जैमिनिरचोदना चापवदति हि।। 3.4.18।।

परामर्शाधिकरणम्।। 3.4.18।।

'त्रयो धर्मस्कन्धाः ' इत्यादयो ये शब्दा ऊध्र्वरेतसामाश्रमाणां सद्भावाय उदाह्मताः, न ते तत्प्रतिपादनाय प्रभवन्ति; यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते, न विधिम्। कुतः? न हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्ति; अर्थान्तरपरत्वं च एषु प्रत्येकमुपलभ्यते। 'त्रयो धर्मस्कन्धाः ' इत्यत्र तावत् 'यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्राहृचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ' इति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीत्र्य, आत्यन्तिकफलतया ब्राहृसंस्थता स्तूयते -- 'ब्राहृसंस्थोऽमृतत्वमेति ' इति। ननु परामर्शेऽपि आश्रमा गम्यन्त एव -- सत्यं गम्यन्ते; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः, न प्रत्यक्षश्रुतेः; अतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वा। ननु गार्हस्थ्यमपि सहैवोध्र्वरेतोभिः परामृष्टम् -- 'यज्ञोऽध्ययनं दानमिति प्रथमः ' इति -- सत्यमेवम्; तथापि तु
गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम्; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, न चोदनार्थः। अपि च अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् -- - 'वीरहा वा एष देवानां योऽग्निमुद्वासयते ' 'आचार्याय प्रियं धनमाह्मत्य प्रजातन्तुं मा व्यवच्छेत्सीः ' 'नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः ' इत्येवमाद्या। तथा 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' 'तपःश्रद्धे ये ह्रुपवसन्त्यरण्ये ' इति च देवयानोपदेशः, न आश्रमान्तरोपदेशः। संदिग्धं च आश्रमान्तराभिधानम् -- 'तप एव द्वितीयः ' इत्येवमादिषु। तथा 'एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ' इति लोकसंस्तवोऽयम्, न पारिव्राज्यविधिः। ननु 'ब्राहृचर्यादेव प्रव्रजेत् ' इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम् -- सत्यमेवमेतत्; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम्।।

अनुष्ठेयं बादरायणः साम्यश्रुतेः।। 3.4.19।।

।। 3.4.19।।

अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते -- वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम् -- इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानः। कुतः? साम्यश्रुतेः; समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते -- 'त्रयो धर्मस्कन्धाः ' इत्याद्या; यथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम्, एवमाश्रमान्तरमपीति प्रतिपत्तव्यम् -- यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्ये; तस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्य। तथा 'एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ' इत्यस्य वेदानुवचनादिभिः समभिव्याहारः; 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ' इत्यस्य च पञ्चाग्निविद्यया। यत्तूक्तम् -- 'तप एव द्वितीयः ' इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति; नैष दोषः, निश्चयकारणसद्भावात्; 'त्रयो धर्मस्कन्धाः ' इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम्; न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसंबन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते; तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्राहृचारीति च स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येत। 'ये चेमेऽरण्ये ' इति च अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः। तस्मात् परामर्शेऽप्यनुष्ठेयमाश्रमान्तरम्।।

विधिर्वा धारणवत्।। 3.4.20।।

।। 3.4.20।।

विधिर्वा अयमाश्रमान्तरस्य, न परामर्शमात्रम्। ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत; प्रतीयते चं अत्र एकवाक्यता -- पुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्राहृसंस्थता त्वमृतत्वफलेति -- सत्यमेतत्; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपूर्वत्वात्, विध्यन्तरस्यादर्शनात्, विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः। धारणवत् -- यथा 'अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति ' इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ, विधीयत एव उपरिधारणम्, अपूर्वत्वात्; तथा च उक्तं शेषलक्षणे 'विधिस्तु धारणेऽपूर्वत्वात् ' इति; तद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते।।

यदापि परामर्श एवायमाश्रमान्तराणाम्, तदापि ब्राहृसंस्थता तावत्, संस्तवसामथ्र्यादवश्यं विधेया अभ्युपगन्तव्या। सा च किं चतुष्र्वाश्रमेषु यस्य कस्य चित्, आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम्। यदि च ब्राहृचर्यान्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुष्र्वाश्रमेषु ब्राहृसंस्थो भविष्यति; अथ न परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्राहृसंस्थ इति सेत्स्यति। तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित्। तदयुक्तम्; न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति; यथा अत्र ब्राहृचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षुवैखानसावपीति युक्तम्; तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात्, तपःशब्दस्य तत्र रूढेः; भिक्षोस्तु धर्म इन्द्रियसंयमादिः लक्षणयैव तपःशब्देनाभिलप्येत। चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम्। अपि च
भेदव्यपदेशोऽत्र भवति -- त्रय एते पुण्यलोकभाजः, एकोऽमृतत्वभागिति; पृथक्त्वे च भेदव्यपदेशोऽवकल्पते; न ह्रेवं भवति -- देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्त्वनयोर्महाप्रज्ञ इति; भवति त्वेवम् -- देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इति; तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः, परिशिष्यमाणः परिव्राट् अमृतत्वभाक्। कथं पुनः ब्राहृसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र संभवन् परिव्राजक एवावतिष्ठेत? रूढ¬भ्युपगमे च आश्रममात्रादमृतत्वप्राप्तेज्र्ञानानर्थक्यप्रसङ्ग इति -- अत्रोच्यते -- ब्राहृसंस्थ इति हि ब्राहृणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते; तच्च त्रयाणामाश्रमाणां न संभवति, स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात्; परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न संभवति अननुष्ठाननिमित्तः; शमदमादिस्तु तदीयो धर्मो ब्राहृसंस्थाया उपोद्बलकः, न विरोधी; ब्राहृनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म; यज्ञादीनि च इतरेषाम्; तद्व्यतिक्रमे च तस्य प्रत्यवायः। तथा च 'न्यास इति ब्राहृा ब्राहृा हि परः परो हि ब्राहृा। तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् ' 'वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ' इत्याद्याः श्रुतयः, स्मृतयश्च 'तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ' इत्याद्याः -- ब्राहृसंस्थस्य कर्माभावं दर्शयन्ति। तस्मात् परिव्राजकस्य आश्रममात्रादमृतत्वप्राप्तेज्र्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति। तदेवं परामर्शेऽपि इतरेषामाश्रमाणाम्, पारिव्राज्यं तावद्ब्राहृसंस्थतालक्षणं लभ्येतैव। अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीम् अयमाचार्येण विचारः प्रवर्तितः; विद्यत एव तु आश्रमान्तरविधिश्रुतिः प्रत्यक्षा -- 'ब्राहृचर्यं समाप्य गृही भवेद्गृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत्। यदि वेतरथा ब्राहृचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ' इति; न च इयं श्रुतिः अनधिकृतविषया शक्या वक्तुम्, अविशेषश्रवणात्, पृथग्विधानाच्च अनधिकृतानाम् -- 'अथ पुन रेव व्रती वाव्रती वा स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वा ' इत्यादिना; ब्राहृज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य न अनधिकृतविषयत्वम्, तच्च दर्शयति -- 'अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्राहृभूयाय भवति ' इति। तस्मात्सिद्धा ऊध्र्वरेतसामाश्रमाः। सिद्धं च ऊध्र्वरेतःसु विधानाद्विद्यायाः स्वातन्त्र्यमिति।।

स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात्।। 3.4.21।।

स्तुतिमात्राधिकरणम्।। 3.4.21।।

'स एष रसानां रसतमः परमः पराध्र्योऽष्टमो यदुद्गीथः ' 'इयमेवर्गग्निः साम ' 'अयं वाव लोकः, एषोऽग्निश्चितः, तदिदमेवोक्थम्, इयमेव पृथिवी ' इत्येवंजातीयकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्थाः, आहोस्वित् उपासनाविध्यर्था इत्यस्मिन्संशये -- स्तुत्यर्था इति युक्तम्, उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात्; यथा 'इयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयः ' इत्याद्या जुह्वादिस्तुत्यर्थाः, तद्वत् -- इति चेत्, नेत्याह; न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम्, अपूर्वत्वात्; विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति; स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात्; विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ' इत्यत्र; प्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात्; 'इयमेव जुहूः ' इत्यादि तु विधिसंनिधावेवाम्नातमिति वैषम्यम्। तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः।।

भावशब्दाच्च।। 3.4.22।।

।। 3.4.22।।

'उद्गीथमुपासीत ' 'सामोपासीत ' 'अहमुक्थमस्मीति विद्यात् ' इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते; ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन्। तथा च न्यायविदां स्मरणम् -- 'कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्। एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम् ' इति; लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति। प्रतिप्रकरणं च फलानि श्राव्यन्ते -- 'आपयिता ह वै कामानां भवति ' 'एष ह्रेव कामागानस्येष्टे ' 'कल्पन्ते हास्मै लोका ऊध्र्वाश्चावृत्ताश्च ' इत्यादीनि; तस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः।।

पारिप्लवार्था इति चेन्न विशेषितत्वात्।। 3.4.23।।

पारिप्लवाधिकरणम्।। 3.4.23।।

'अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च ' 'प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ' जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ' इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः -- किमिमानि पारिप्लवप्रयोगार्थानि, आहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति। पारिप्लवार्था इमा आख्यानश्रुतयः, आख्यानसामान्यात्, आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात्; ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात्, मन्त्रवत् प्रयोगशेषत्वादिति चेत् -- तन्न; कस्मात्? विशेषितत्वात् -- - 'पारिप्लवमाचक्षीत ' इति हि प्रकृत्य, 'मनुर्वैवस्वतो राजा ' इत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्ते; आख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात्, अनर्थकमेवेदं विशेषणं भवेत्। तस्मात् न पारिप्लवार्था एता आख्यानश्रुतयः।।

तथा चैकवाक्यतोपबन्धात्।। 3.4.24।।

।। 3.4.24।।

असति च पारिप्लवार्थत्वे आख्यानानां संनिहितविद्याप्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात्; तथा हि तत्र तत्र संनिहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च -- मैत्रेयीब्रााहृणे तावत् -- 'आत्मा वा अरे द्रष्टव्यः ' इत्याद्यया विद्यया एकवाक्यता दृश्यते; प्रातर्दनेऽपि 'प्राणोऽस्मि प्रज्ञात्मा ' इत्याद्यया; 'जानश्रुतिः ' इत्यत्रापि 'वायुर्वाव संवर्गः ' इत्याद्यया -- यथा 'स आत्मनो वपामुदखिदत् ' इत्येवमादीनां कर्मश्रुतिगतानामाख्यानानां संनिहितविधिस्तुत्यर्थता, तद्वत्। तस्मान्न पारिप्लवार्थत्वम्।।

अत एव चाग्नीन्धनाद्यनपेक्षा।। 3.4.25।।

अग्नीन्धनाद्यधिकरणम्।। 3.4.25।।

'पुरुषार्थोऽतः शब्दात् ' इत्येतत् व्यवहितमपि संभवात् 'अतः ' इति परामृश्यते। अत एव च विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया।।

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्।। 3.4.26।।

सर्वापेक्षाधिकरणम्।। 3.4.26।।

इदमिदानीं चिन्त्यते -- किं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम्, उत अस्ति काचिदपेक्षेति। तत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते; एवमत्यन्तमेवानपेक्षायां प्राप्तायाम्, इदमुच्यते -- -सर्वापेक्षा चेति; अपेक्षते च विद्या सर्वाण्याश्रमकर्माणि, नात्यन्तमनपेक्षैव। ननु विरुद्धमिदं वचनम् -- अपेक्षते च आश्रमकर्माणि विद्या, नापेक्षते चेति। नेति ब्राूमः; उत्पन्ना हि विद्या फलसिदिं्ध प्रति न किंचिदन्यदपेक्षते, उत्पतिं्त प्रति तु अपेक्षते; कुतः? यज्ञादिश्रुतेः; तथा हि श्रुतिः -- 'तमेतं वेदानुवचनेन ब्रााहृणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ' इति, यज्ञादीनां विद्यासाधनभावं दर्शयति; विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयते; 'अथ यद्यज्ञ इत्याचक्षते ब्राहृचर्यमेव तत् ' इत्यत्र च विद्यासाधनभूतस्य ब्राहृचर्यस्य यज्ञादिभिः संस्तवात् यज्ञादीनामपि हि साधनभावः सूच्यते; 'सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्राहृचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रावीमि ' इत्येवमाद्या च श्रुतिः आश्रमकर्मणां विद्यासाधनभावं सूचयति; स्मृतिरपि -- 'कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः। कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ' इत्येवमाद्या। अश्ववदिति योग्यतानिदर्शनम् -- यथा च योग्यतावशेन अश्वो न लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ च अपेक्ष्यन्त इति।।

शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात्।। 3.4.27।।

।। 3.4.27।।

यदि कश्चिन्मन्येत -- यज्ञादीनां विद्यासाधनभावो न न्याय्यः, विध्यभावात्; 'यज्ञेन विविदिषन्ति ' इत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा, न यज्ञादिविधिपरा -- इत्थं महाभागा विद्या, यत्
यज्ञादिभिरेतामवाप्तुमिच्छन्तीति -- तथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, 'तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति ' इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां च अवश्यानुष्ठेयत्वात्। ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः -- नेति ब्राूमः, 'तस्मात् ' इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः; 'पश्येत् ' इति च माध्यंदिना विस्पष्टमेव विधिमधीयते। तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि। यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेव। ननु उक्तम् -- यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति -- सत्यमुक्तम्; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते; न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत; 'तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि ' इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य, 'पौष्णं पेषणं विकृतौ प्रतीयेत ' -- इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः; तथा च उक्तम् 'विधिर्वा धारणवत् ' इति। स्मृतिष्वपि भगवद्गीताद्यासु अनभिसंधाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोज्र्ञानसाधनानि भवन्तीति प्रपञ्चितम्। तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि। तत्रापि 'एवंवित् ' इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु बाह्रतराणि यज्ञादीनीति विवेक्तव्यम्।।

सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्।। 3.4.28।।

सर्वान्नानुमत्यधिकरणम्।। 3.4.28।।

प्राणसंवादे श्रूयते छन्दोगानाम् -- 'न ह वा एवंविदि किंचनानन्नं भवति ' इति; तथा वाजसनेयिनाम् -- 'न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतम् ' इति; सर्वमस्यादनीयमेव भवतीत्यर्थः। किमिदं सर्वान्नानुज्ञानं शमादिवत् विद्याङ्गं विधीयते, उत स्तुत्यर्थं संकीत्र्यत इति संशये -- विधिरिति तावत्प्राप्तम्; तथा हि प्रवृत्तिविशेषकर उपदेशो भवति; अतः प्राणविद्यासंनिधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यते। ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् -- नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेः; यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा च 'न कांचन स्त्रियं परिहरेत्तद्व्रतम् ' इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते -- एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते --

ब्राूमः -- नेदं सर्वान्नानुज्ञानं विधीयत इति; न हि अत्र विधायकः शब्द उपलभ्यते, 'न ह वा एवंविदि किंचनानन्नं भवति ' इति वर्तमानापदेशात्। न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते। अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यते -- नैवंविदः किंचिदनन्नं भवतीति; न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते; शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम्। तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, न सर्वान्नानुज्ञानविधिः। तद्दर्शयति -- 'सर्वान्नानुमतिश्च प्राणात्यये ' इति; एतदुक्तं भवति -- प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात्; तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृतिं्त दर्शयति 'मटचीहतेषु कुरुषु ' इत्यस्मिन् ब्रााहृणे -- चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद; अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे; कारणं चात्रोवाच 'न वा अजीविष्यमिमानखादन् ' इति, 'कामो म उदपानम् ' इति च; पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव -- इति; तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते -- प्राणात्ययप्रसङ्गे प्राणसंधारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि -- इत्यनुपानप्रत्याख्यानाद्गम्यते। तस्मात् अर्थवादः 'न ह वा एवंविदि ' इत्येवमादिः।।

अबाधाच्च।। 3.4.29।।

।। 3.4.29।।

एवं च सति 'आहारशुद्धौ सत्त्वशुद्धिः ' इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति।।

अपि च स्मर्यते।। 3.4.30।।

।। 3.4.30।।

अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण -- 'जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ' इति। तथा 'मद्यं नित्यं ब्रााहृणः ' 'सुरापस्य ब्रााहृणस्योष्णामासिञ्चेयुः ', 'सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात् ' इति च -- स्मर्यते वर्जनमनन्नस्य।।

शब्दश्चातोऽकामकारे।। 3.4.31।।

।। 3.4.31।।

शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते -- 'तस्माद्ब्रााहृणः सुरां न पिबेत् ' इति। सोऽपि 'न ह वा एवंविदि ' इत्यस्यार्थवादत्वात् उपपन्नतरो भवति। तस्मादेवंजातीयका अर्थवादा न विधय इति।।

विहितत्वाच्चाश्रमकर्मापि।। 3.4.32।।

आश्रमकर्माधिकरणम्।। 3.4.32।।

'सर्वापेक्षा च ' इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम्; इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि, उताहो नेति चिन्त्यते। तत्र 'तमेतं वेदानुवचनेन ब्रााहृणा विविदिषन्ति ' इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानि; अथ तस्याप्यनुष्ठेयानि, न तर्हि एषां विद्यासाधनत्वम्, नित्यानित्यसंयोगविरोधात् -- इत्यस्यां प्राप्तौ, पठति -- आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, 'यावज्जीवमग्निहोत्रं जुहोति ' इत्यादिना विहितत्वात्; न हि वचनस्यातिभारो नाम कश्चिदस्ति।।

अथ यदुक्तम् -- नैवं सति विद्यासाधनत्वमेषां स्यादिति, अत उत्तरं पठति --

सहकारित्वेन च।। 3.4.33।।

।। 3.4.33।।

विद्यासहकारीणि च एतानि स्युः, विहितत्वादेव 'तमेतं वेदानुवचनेन ब्रााहृणा विविदिषन्ति ' इत्यादिना; तदुक्तम् -- सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ' इति। न चेदं विद्यासहकारित्ववचनमाश्रमकर्मणां प्रयाजादिवत् विद्याफलविषयं मन्तव्यम्, अविधिलक्षणत्वाद्विद्यायाः, असाध्यत्वाच्च विद्याफलस्य; विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरम् अपेक्षते, नैवं विद्या; तथा चोक्तम् -- 'अत एव चाग्नीन्धनाद्यनपेक्षा ' इति; तस्मादुत्पत्तिसाधनत्व एव एषां सहकारित्ववाचोयुक्तिः। न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात्; नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः, न तस्य विद्याफलत्वम्; अनित्यस्तु अपरः संयोगः 'तमेतं वेदानुवचनेन ' इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम् -- यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम्, अनित्येन संयोगेन पुरुषार्थत्वम्, तद्वत्।।

सर्वथाऽपि तु त एवोभयलिङ्गात्।। 3.4.34।।

।। 3.4.34।।

सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च, त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः। 'त एव ' इत्यवधारयन्नाचार्यः किं निवर्तयति? कर्मभेदशङ्कामिति ब्राूमः; यथा कुण्डपायिनामयने 'मासमग्निहोत्रं जुह्वति ' इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते, नैवमिह कर्मभेदोऽस्तीत्यर्थः। कुतः? उभयलिङ्गात् -- श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च। श्रुतिलिङ्गं तावत् -- 'तमेतं वेदानुवचनेन ब्रााहृणा विविदिषन्ति ' इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते, न तु 'जुह्वति ' इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति। स्मृतिलिङ्गमपि -- - 'अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ' इति
विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति; 'यस्यैतेऽष्टाचत्वारिंशत्संस्काराः ' इत्याद्या च संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति। तस्मात्साध्विदम् अभेदावधारणम्।।

अनभिभवं च दर्शयति।। 3.4.35।।

।। 3.4.35।।

सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम्। अनभिभवं च दर्शयति श्रुतिः ब्राहृचर्यादिसाधनसंपन्नस्य रागादिभिः क्लेशैः -- 'एष ह्रात्मा न नश्यति यं ब्राहृचर्येणानुविन्दते ' इत्यादिना। तस्मात् यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति स्थितम्।।

अन्तरा चापि तु तद्दृष्टेः।। 3.4.36।।

विधुराधिकरणम्।। 3.4.36।।

विधुरादीनां द्रव्यादिसंपद्रहितानां च अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किंवा नास्ति -- इति संशये, नास्तीति तावत्प्राप्तम्, आश्रमकर्मणां विद्याहेतुत्वावधारणात्, आश्रमकर्मासंभवाच्चैतेषाम् -- इत्येवं प्राप्ते, इदमाह -- अन्तरा चापि तु -- अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते; कुतः? तद्दृष्टेः -- रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्राहृवित्त्वश्रुत्युपलब्धेः।।

अपि च स्मर्यते।। 3.4.37।।

।। 3.4.37।।

संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे।।

ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम्; का नु खलु प्राप्तिरिति, सा अभिधीयते --

विशेषानुग्रहश्च।। 3.4.38।।

।। 3.4.38।।

तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्रसंबन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः संभवति। तथा च स्मृतिः -- 'जप्येनैव तु संसिध्येद्ब्रााहृणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्रााहृण उच्यते ' इति असंभवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति। जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः संभवत्येव विद्याया अनुग्रहः; तथा च स्मृतिः -- 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ' इति जन्मान्तरसंचितानपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयति। दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु। तस्मात् विधुरादीनामप्यधिकारो न विरुध्यते।।

अतस्त्वितरज्ज्यायो लिंङ्गाच्च।। 3.4.39।।

।। 3.4.39।।

अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम्, श्रुतिस्मृतिसंदृब्धत्वात्; श्रुतिलिङ्गाच्च -- 'तेनैति ब्राहृवित्पुण्यकृत्तैजसश्च ' इति; 'अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः। संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत् ' इति च स्मृतिलिङ्गात्।।

तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः।। 3.4.40।।

तद्भूताधिकरणम्।। 3.4.40।।

सन्ति ऊध्र्वरेतस आश्रमा इति स्थापितम्; तांस्तु प्राप्तस्य कथंचित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः। पूर्वधर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते -- तद्भूतस्य तु प्रतिपन्नोध्र्वरेतोभावस्य न कथंचिदपि अतद्भावः, न ततः प्रच्युतिः स्यात्; कुतः? नियमातद्रूपाभावेभ्यः।
तथा हि -- 'अत्यन्तमात्मानमाचार्यकुलेऽवसादयन् ' इति, 'अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत् ' इति, 'आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्। आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि ' इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति। यथा च 'ब्राहृचर्यं समाप्य गृही भवेत् ' 'ब्राहृचर्यादेव प्रव्रजेत् ' इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि। न चैवमाचाराः शिष्टा विद्यन्ते। यत्तु पूर्वधर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् -- 'श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ' इति स्मरणात्, न्यायाच्च -- यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते, चोदनालक्षणत्वाद्धर्मस्य। न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात्। जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपतिं्त शास्ति प्रतिपत्तिदाढर्¬ाय।।

न चाधिकारिकमपि पतनानुमानात्तदयोगात्।। 3.4.41।।

आधिकारिकाधिकरणम्।। 3.4.41।।

यदि नैष्ठिको ब्राहृचारी प्रमादादवकीर्येत, किं तस्य 'ब्राहृचार्यवकीर्णी नैर्ऋतं गर्दभमालभेत ' इत्येतत्प्रायश्चित्तं स्यात्, उत नेति। नेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम् 'अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात् ' इति, तदपि न नैष्ठिकस्य भवितुमर्हति; किं कारणम्? 'आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा ' इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः; उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम्।।

उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम्।। 3.4.42।।

।। 3.4.42।।

अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते; यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्राहृचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात्; तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्राहृचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च; अशनवत् -- यथा ब्राहृचारिणो मधुमांसाशाने व्रतलोपः पुनः संस्कारश्च, एवमिति। ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते; ये तु भावमिच्छन्ति, तेषां 'ब्राहृचार्यवकीर्णी ' इत्येतदविशेषश्रवणं मूलम्; तस्मात् भावो युक्ततरः; तदुक्तं प्रमाणलक्षणे -- 'समा विप्रतिपत्तिः स्यात् ' 'शास्त्रस्था वा तन्निमित्तत्वात् ' इति; प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम्। एवं भिक्षुवैखानसयोरपि -- 'वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् ' 'भिक्षुर्वानप्रस्थवत्सोमवृद्धिवर्जं स्वशास्त्रसंस्कारश्च ' इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम्।।

बहिस्तूभयथाऽपि स्मृतेराचाराच्च।। 3.4.43।।

बहिरधिकरणम्।। 3.4.43।।

यदि ऊध्र्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम्, यदि वा उपपातकम्, उभयथापि शिष्टैस्ते बहिष्कर्तव्याः -- 'आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः। प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा ' इति, 'आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम्। उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत् ' इति च एवमादिनिन्दातिशयस्मृतिभ्यः, शिष्टाचाराच्च -- न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः।।

स्वामिनः फलश्रुतेरित्यात्रेयः।। 3.4.44।।

स्वाम्यधिकरणम्।। 3.4.44।।

अङ्गेषूपासनेषु संशयः -- किं तानि यजमानकर्माणि आहोस्वित् ऋत्विक्कर्माणीति। किं तावत्प्राप्तम्? यजमानकर्माणीति; कुतः? फलश्रुतेः; फलं हि श्रूयते -- 'वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्ते ' इत्यादि; तच्च स्वामिगामि न्याय्यम्, तस्य साङ्गे प्रयोगेऽधिकृतत्वात्, अधिकृताधिकारत्वाच्च एवंजातीयकस्य; फलं च कर्तरि उपासनानां श्रूयते -- 'वर्षत्यस्मै य उपास्ते ' इत्यादि। ननु ऋत्विजोऽपि फलं दृष्टम् 'आत्मने वा यजमानाय वा यं कामं कामयते तमागायति ' इति -- न, तस्य
वाचनिकत्वात्। तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् -- इत्यात्रेय आचार्यो मन्यते।।

आÐत्वज्यमित्यौडुलोमिस्तस्मै हि परिक्रियते।। 3.4.45।।

।। 3.4.45।।

नैतदस्ति -- स्वामिकर्माण्युपासनानीति; ऋत्विक्कर्माण्येतानि स्युः -- इत्यौडुलोमिराचार्यो मन्यते; किं कारणम्? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रियते; तत्प्रयोगान्तःपातीनि च उद्गीथाद्युपासनानि अधिकृताधिकारत्वात्; तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वत्र्येरन्; तथा च 'तं ह बको दाल्भ्यो विदांचकार स ह नैमिशीयानामुद्गाता बभूव ' इत्युद्गातृकर्तृकतां विज्ञानस्य दर्शयति। यत्तूक्तं कत्र्राश्रयं फलं श्रूयत इति -- नैष दोषः, परार्थत्वादृत्विजः अन्यत्र वचनात् फलसंबन्धानुपपत्तेः।।

श्रुतेश्च।। 3.4.46।।

।। 3.4.46।।

'यां वै कांचन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाच ' इति, 'तस्मादु हैवंविदुद्गाता ब्राूयात्कं ते काममागायानि ' इति च ऋत्विक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति। तस्मात् अङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः।।

ाहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्।। 3.4.47।।

सहकार्यन्तरविध्यधिकरणम्।। 3.4.47।।

'तस्माद्ब्रााहृणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्रााहृणः ' इति बृहदारण्यके श्रूयते। तत्र संशयः -- मौनं विधीयते, न वेति। न विधीयत इति तावत्प्राप्तम्, 'बाल्येन तिष्ठासेत् ' इत्यत्रैव विधेरवसितत्वात्; न हि 'अथ मुनिः ' इत्यत्र विधायिका विभक्तिरुपलभ्यते; तस्मादयमनुवादो युक्तः; कुतः प्राप्तिरिति चेत् -- मुनिपण्डितशब्दयोज्र्ञानार्थत्वात् 'पाण्डित्यं निर्विद्य ' इत्येवं प्राप्तं मौनम्। अपि च 'अमौनं च मौनं च निर्विद्याथ ब्रााहृणः ' इत्यत्र तावत् न ब्रााहृणत्वं विधीयते, प्रागेव प्राप्तत्वात्; तस्मात् 'अथ ब्रााहृणः ' इति प्रशंसावादः, तथैव 'अथ मुनिः ' इत्यपि भवितुमर्हति, समाननिर्देशत्वादित्येवं प्राप्ते --

ब्राूमः -- सहकार्यन्तरविधिरिति। विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः, अपूर्वत्वात्। ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् -- नैष दोषः, मुनिशब्दस्य ज्ञानातिशयार्थत्वात्, मननान्मुनिरिति च व्युत्पत्तिसंभवात्, 'मुनीनामप्यहं व्यासः ' इति च प्रयोगदर्शनात्। ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते 'गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम् ' इत्यत्र -- न, 'वाल्मीकिर्मुनिपुंगवः ' इत्यादिषु व्यभिचारदर्शनात्; इतराश्रमसंनिधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम्, ज्ञानप्रधानत्वादुत्तमाश्रमस्य। तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते। यत्तु बाल्य एव विधिपर्यवसानमिति, तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते -- मुनिः स्यादिति; निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम्। तद्वतः विद्यावतः संन्यासिनः; कथं च विद्यावतः संन्यासिन इत्यवगम्यते? तदधिकारात् -- आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय 'अथ भिक्षाचर्यं चरन्ति ' इति। ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिना -- इत्यत आह -- पक्षेणेति। एतदुक्तं भवति -- यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति, तस्मिन् एष विधिरिति। विध्यादिवत् -- यथा 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ' इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः।।

एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने, कस्मात् छान्दोग्ये गृहिणा उपसंहारः 'अभिसमावृत्य कुटुम्बे ' इत्यत्र? तेन हि उपसंहरन् तद्विषयमादरं दर्शयति -- इत्यत उत्तरं पठति --

कृत्स्नभावात्तु गृहिणोपसंहारः।। 3.4.48।।

।। 3.4.48।।

तु-शब्दो विशेषणार्थः; कृत्स्नभावोऽस्य विशेष्यते; बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि, आश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते। तस्मात् गृहमेधिना उपसंहारो न विरुध्यते।।

मौनवदितरेषामप्युपदेशात्।। 3.4.49।।

।। 3.4.49।।

यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ, एवमितरावपि वानप्रस्थगुरुकुलावासौ; दर्शिता हि पुरस्ताच्छØतिः -- 'तप एव द्वितीयो ब्राहृचार्याचार्यकुलवासी तृतीयः ' इत्याद्या। तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः। इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा -- इति द्रष्टव्यम्।।

अनाविष्कुर्वन्नन्वयात्।। 3.4.50।।

अनाविष्काराधिकरणम्।। 3.4.50।।

'तस्माद्ब्रााहृणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ' इति बाल्यमनुष्ठेयतया श्रूयते; तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति, बालभावस्य वयोविशेषस्य इच्छया संपादयितुमशक्यत्वात्, यथोपपादमूत्रपुरीषत्वादि बालचरितम्, अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भादिरहितत्वं वा बाल्यं स्यादिति संशयः। किं तावत्प्राप्तम्? कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम्। ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् -- न; विद्यावतः संन्यासिनो वचनसामथ्र्यात् दोषनिवृत्तिः, पशुहिंसादिष्विवेत्येवं प्राप्ते --

अभिधीयते -- न, वचनस्य गत्यन्तरसंभवात्; अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने, न विध्यन्तरव्याघातकल्पना युक्ता; प्रधानोपकाराय च अङ्गं विधीयते; ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम्; न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते; तस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते; तदाह -- अनाविष्कुर्वन्निति। ज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत् -- यथा बालः अप्ररूढेन्द्रियतया न परेषाम् आत्मानमाविष्कर्तुमीहते, तद्वत्। एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते; तथा च उक्तं स्मृतिकारैः -- 'यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम्। न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्रााहृणः।। गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्। अन्धवज्जडवच्चापि मूकवच्च महीं चरेत् ' 'अव्यक्तलिङ्गोऽव्यक्ताचारः ' इति चैवमादि।।

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्।। 3.4.51।।

ऐहिकाधिकरणम्।। 3.4.51।।

'सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ' इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते। किं तावत्प्राप्तम्? इहैवेति; किं कारणम्? श्रवणादिपूर्विका हि विद्या; न च कश्चित् अमुत्र मे विद्या जायतामित्यनुसंधाय श्रवणादिषु प्रवर्तते; समान एव तु जन्मनि विद्याजन्म अभिसंधाय एतेषु प्रवर्तमानो दृश्यते। यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाः। तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते --

वदामः -- ऐहिकं विद्याजन्म भवति, असति प्रस्तुतप्रतिबन्ध इति। एतदुक्तं भवति -- यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण, तदा इहैव विद्या उत्पद्यते; यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति। उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिपाताद्भवति; यानि च एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि, तान्येव अन्यस्यापीति न नियन्तुं शक्यते; यतो
विरुद्धफलान्यपि कर्माणि भवन्ति। शास्त्रमपि अस्य कर्मण इदं फलमित्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकीर्तयति। साधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति, तत्प्रतिबद्धा परस्य तिष्ठति। न च अविशेषेण विद्यायाम्, अभिसंधिर्नोत्पद्यते -- इह अमुत्र वा मे विद्या जायतामिति, अभिसंधेर्निरङ्कुशत्वात्। श्रवणादिद्वारेणापि विद्या उत्पद्यमाना प्रतिबन्धक्षयापेक्षयैव उत्पद्यते। तथा च श्रुतिः दुर्बोधत्वमात्मनो दर्शयति -- 'श्रवणायापि बहुभिर्यो न लभ्यः श्रृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ' इति। गर्भस्थ एव च वामदेवः प्रतिपेदे ब्राहृभावमिति वदन्ती जन्मान्तरसंचितात् साधनात् जन्मान्तरे विद्योत्पतिं्त दर्शयति; न हि गर्भस्थस्यैव ऐहिकं किंचित्साधनं संभाव्यते। स्मृतावपि -- 'अप्राप्य योगसंसिदिं्ध कां गतिं कृष्ण गच्छति ' इत्यर्जुनेन पृष्टो भगवान्वासुदेवः 'न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ' इत्युक्त्वा, पुनस्तस्य पुण्यलोकप्राÏप्त साधुकुले संभूतिं च अभिधाय, अनन्तरम् 'तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ' इत्यादिना 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ' इत्यन्तेन एतदेव दर्शयति। तस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम्।।