शाबरीकवचम्

विकिस्रोतः तः
शाबरीकवचम्
वेदव्यासः‎


शाबरीकवचम्
अथ ध्यानम्

ॐ नमो भगवते श्रीवीरभद्राय ।

विरुपाक्षी लं निकुंभिनी षोडशी उपचारिणी ।

वरुथिनी मांसचर्विणी ।

चें, चें, चें, चामलरायै ।
धनं धनं कंप कंप आवेशय ।
त्रिलोकवर्ति लोकदायै ।
सहस्त्रकोटिदेवानां आकर्षय आकर्षय ।
नवकोटी गंधर्वानां आकर्षय आकर्षय ।
हंसः, हंसः, सोहं, सोहं, सर्व रक्ष, मां रक्ष,
भूतेभ्यो रक्ष । ग्रहेभ्यो रक्ष । पिशाचेभ्या रक्ष ।
शाकिनीती रक्ष, डाकिनीती रक्ष ।
अप्रत्यक्ष प्रत्यक्षारिष्टेभ्यो रक्ष, रक्ष, ।
महाशक्ति रक्ष । कवचशक्ति रक्ष ।
रक्ष ओजंवाल । गुरुवाल ।
ॐ प्रसह हनुमंत रक्ष ।
श्रीमन्नाथगुरुत्रयं गणपतिं पीठत्रयं भैरव ॥
सिद्धाढ्यं बटुकत्रय पदयुगं द्युतित्र्कंमं मंडल ॥
वैराटाष्टचतुष्टयं च नक्कं वैरावली पंचकं ।
श्रीमन्मालिनीमंत्रराजसहितं वंदे गुरोमंडलम् ।
इति ध्यानम् ॥
अथ प्रार्थना ।
ॐ र्‍हां, र्‍हीं, र्‍हृं, क्षां, क्षीं, क्षुं ।
कृष्णक्षेत्रपालाय नमः आगच्छ आगच्छ ।
बली सर्वग्रहशमन मम कार्यं कुरु कुरु स्वाहा ।
ॐ नमो ॐ र्‍हीं, श्रीं, क्लीं, ऐं, चक्रेश्र्वरी ।
शंख-चक्र गदा पद्मधारिणी ।
मम वांछित सिद्धिं कुरु कुरु स्वाहा ।
ॐ नमो कमलवदन मोहिनी सर्वजनवशकारिणी साक्षात् ।
सूक्ष्मस्वरुपिणी यन्मम वशगा ॐ सुरातुरा भवेयुः स्वाहा ।
गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्र्वरः ।
गुरु साक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः ॥
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥
अरुणकिरण जालं रंजिता सावकाशा ।
विधृतजपमाला वीटिका पुस्तकहस्ता ।
इतरकरकराढ्या फुल्लकल्हार हस्ता ।
निवसतु हृदि बाला नित्यकल्याणशीला ॥
अथ शाबरीकवचजपे विनियोगः ॥
॥ श्री ॥
॥ अथ शाबरीकवचपाठप्रारंभः ॥
ॐ सर्वविघ्ननाशाय । सर्वारिष्ट निवारणाय ।
सर्व सौख्यप्रदाय । बालानां बुद्धिप्रदाय ।
नानाप्रकारकधनवाहन भूमिप्रदाय ।
मनोवांछितफलप्रदाय । रक्षां कुरु कुरु स्वाहा ।
ॐ गुरुवे नमः । ॐ श्रीकृष्णाय नमः ।
ॐ बल भद्राय नमः । ॐ श्रीरामाय नमः ।
ॐ हनुमते नमः । ॐ शिवाय नमः ।
ॐ जगन्नाथाय नमः । ॐ बद्रिनारायणाय नमः ।
ॐ दुर्गादेव्यै नमः । ॐ सूर्याय नमः ।
ॐ चंद्राय नमः । ॐ भौमाय नमः ।
ॐ बुधाय नमः । ॐ गुरुवे नमः ।
ॐ भृगवे नमः । ॐ शनैश्र्वराय नमः ।
ॐ राहवे नमः । ॐ पुच्छनायकाय नमः ।
ॐ नवग्रह रक्षा कुरु कुरु नमः ।
ॐ मन्ये वरं हरिहरादय एवं दृष्ट्वा ।
दृष्टेषु हृदयं त्वयि तोषमेतिः ।
किं वीक्षितेन भवता भुवि अेन नान्यः
कश्र्चित् मनो हरति नाथ भवानत एहि ।
ॐ नमः श्रीमन्बलभद्रजयविजय अपराजित
भद्रं भद्रं कुरु कुरु स्वाहा ।
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥
सर्वविघ्नशांति कुरु कुरु स्वाहा ।
ॐ ऐं, र्‍हीं, क्लीं, श्री बटुकभैरवाय ।
आपदुद्धरणाय । महानभस्याय स्वरुपाय ।
दीर्घारिष्टं विनाशय विनाशय ।
नानाप्रकारभोगप्रदाय । मम सर्वारिष्टं हन हन ।
पच पच, हर हर, कच कच,
राजद्वारे जयं कुरु कुरु ।
व्यवहारे लाभं वर्धय वर्धय ।
रणे शत्रुं विनाशय विनाशय ।
अनापत्तियोगं निवारय निवारय ।
संतत्युत्पत्तिं कुरु कुरु । पूर्ण आयुः कुरु कुरु ।
स्त्रीप्राप्तिं कुरु कुरु । हुं फट् स्वाहा ॥
ॐ नमो भगवते वासुदेवाय नमः ।
ॐ नमो भगवते विश्र्वमूर्तये नारायणाय ।
श्रीपुरुषोत्तमाय रक्ष रक्ष ।
युष्मदधीनं प्रत्यक्षं परोक्षं वा ।
अजीर्ण पच पच ।
विश्र्वमूर्ते अरीन् हन हन ।
एकाहिकं द्व्याहिकं, त्र्याहिकं, चातुर्थिकं ज्वरं नाशय नाशय ।
चतुरधिकान्वातान् अष्टादशक्षयरोगान्, अष्टादशकुष्टान् हन हन।
सर्वदोषान् भंजय भंजय । तत्सर्वं नाशय नाशय ।
शोषय शोषय, आकर्षय आकर्षय ।
मम शत्रुं मारय मारय । उच्चाटय उच्चाटय, विद्वेषय विद्वेषय ।
स्तंभय स्तंभय, निवारय निवारय ।
विघ्नान् हन हन । दह दह, पच पच,
मथ मथ, विध्वंसय विध्वंसय, विद्रावय विद्रावय
चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हन हन ।
पर विद्या छेदय छेदय ।
चतुरशीतिचेटकान् विस्फोटय नाशय नाशय ।
वातशूलाभिहत दृष्टीन् ।
सर्प-सिंह-व्याघ्र-द्विपद-चतुष्पदान ।
अपरे बाह्यांतरा दिभुव्यंतरिक्षगान् ।
अन्यानपि कश्र्चित् देशकालस्थान् ।
सर्वान् हन हन । विषममेघनदीपर्वतादीन् ।
अष्टव्याधीन् सर्वस्थानानि रात्रिदिनपथग
चोरान् वशमानय वशमानय ।
सर्वोपद्रवान् नाशय नाशय ।
परसैन्यं विदारय विदारय परचक्रं निवारय निवारय ।
दह दह रक्षां कुरु कुरु ।
ॐ नमो भगवते ॐ नमो नारायण हुं फट् स्वाहा ।
ठः ठः ॐ र्‍हां र्‍हीं हृदये स्वदेवता ॥
एषा विद्या महानाम्नी पुरा दत्ता शतक्रतोः ।
असुरान् हन्तु हत्वा तान् सर्वाश्र्च बलिदानवान् ।
यः पुमान् पठते नित्यं वैष्णवीं नियतात्मवान् ।
तस्य सर्वान् हिंसती यस्या दृष्टिगतं विषम् ।
अन्यादृष्टिविषं चैव न देयं संक्रमे ध्रुवम् ।
संग्रामे धारयत्यंगे उत्पातशमनी स्वयम् ॥
सौभाग्यं जायते तस्य परमं नात्र संशयः ।
हूते सद्यो जयस्तस्य विघ्नं तस्य न जायते ।
किमत्र बहुनोक्तेन सर्वसौभाग्यसंपदः ।
लभते नात्र संदेहो नान्यथा नदिते भवेत् ॥
गृहीतो यदि वा यत्नं बालानां विविधैरपि ।
शीतं चोष्णतां याति उष्णः शीतमयो भवेत् ॥
नान्यथा श्रुयते विद्यां यः पठेत् कथितां मया ।
भूर्जपत्रे लिखेद्यंत्र गोरोचनमयेन च ।
इमां विद्यां शिरोबंधात्सर्वरक्षां करोनु मे ।
पुरुषस्याथवा नार्या हस्ते बध्वा विचक्षणः ।
विद्रवंति प्रणश्यंति धर्मस्तिष्ठति नित्यशः ।
सर्वशत्रुभयं याति शीघ्रं ते च पलायिताः ॥
ॐ ऐं, र्‍हीं, क्लीं, श्रीं भुवनेश्र्वर्यै ।
श्रीं ॐ भैरवाय नमो नमः ।
अथ श्रीमातंगीभेदा, द्वाविंशाक्षरो मंत्रः ।
समुख्यायां स्वाहातो वा ॥
हरिः ॐ उच्चिष्टदेव्यै नमः ।
डाकिनी सुमुखिदेव्यै महापिशाचिनी ।
ॐ ऐं, र्‍हीं, ठाः, ठः द्वाविंशत् ॐ चक्रीधरायाः ।
अहं रक्षां कुरु कुरु ।
सर्वबाधाहरिणी देव्यै नमो नमः ।
सर्वप्रकार बाधाशमनं, अरिष्टनिवारणं कुरु कुरु ।
फट्, श्री ॐ कुब्जिकादेव्यै र्‍हीं ठः स्वः ।
शीघ्रं अरिष्टनिवारण कुरु कुरु ।
देवी शाबरी कीं ठः, स्वः ।
शारीरिकं भेदाहं माया भेदय पूर्ण आयुः कुरु ।
हेमवती मूलरक्षां कुरु ।
चामुंडायै देव्यै नमः ।
शीघ्रं विघ्ननिवारणं सर्ववायुकफपित्तरक्षां कुरु ।
भूतप्रेतपिशाचान् घातय ।
जादूटोणाशमनं कुरु ।
सती सरस्वत्यै चंडिकादेव्यै गलं विस्फोटकान्,
वीक्षित्य शमनं कुरु ।
महाज्वरक्षयं कुरु स्वाहा ।
सर्वसामग्री भोग सत्यं, दिवसे दिवसे,
देहि देहि रक्षां कुरु कुरु ।
क्षणे क्षणे, अरिष्टं निवारय ।
दिवसे दिवसे, दुःखहरणं, मंगलकरणं,
कार्यासिद्धिं कुरु कुरु ।
हरि ॐ श्रीरामचंद्राय नमः ।
हरिः ॐ भूर्भुवः स्वः
चंद्रतारा-नवग्रह-शेष-नाग-पृथ्वी-देव्यै
आकाश-निवासिनी सर्वारिष्टशमनं कुरु स्वाहा ॥
आयुरारोग्यमैश्र्वर्यं वित्तं ज्ञानं यशोबलम् ॥
नाभिमात्रजले स्थित्वा सहस्त्रपरिसंख्यया ॥
जपेत्कवचमिदं नित्यं वाचां सिद्धिर्भवे त्ततः ॥
अनेन विधिना भक्त्याकवचसिद्धिश्र्च जायते ॥
शतमावर्तयेद्युस्तु मुच्यते नात्र संशयः ॥
सर्वव्याधिभयस्थाने मनसा ऽ स्य तु चिंतनम् ॥
राजानो वश्यतां यांति सर्वकामार्थसिद्धये ॥
अनेन यथाशक्तिपाठेन शाबरीदेवी प्रीयतां नमम ॥
शुभं भवतु ॥ इति शाबरीकवचं ॥

"https://sa.wikisource.org/w/index.php?title=शाबरीकवचम्&oldid=84752" इत्यस्माद् प्रतिप्राप्तम्