शब्दकल्पद्रुमः/हरिले

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/५१८

हरिले, ष्य, नाट्योक्तौ चेटीसम्वोधनम् । इति

केचित् ॥

हारलोचनः, पुं, (हरेरिव लोचनमस्य ।) कुलीरः ।

इति त्रिकाण्डशेषः ॥ पेचकः । इति केचित् ॥
हरिद्वर्णचक्षुर्युक्ते, त्रि ॥

हरिवर्षं, क्ली, (हरिप्रियं वर्षम् ।) जम्बुद्वीपस्य

नववर्षान्तर्गतवर्षविशेषः । इति त्रिकाण्डशेषः ॥
स तु निषधहेमकूटपर्व्वतयोर्म्मध्ये वर्त्तते । यथा ।
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमा-
लय इति प्रागायता यथा नीलादयः । अयुत-
योजनोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा-
संख्यम् । इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥
किञ्च । हरिवर्षे चापि भगवान् नरहरिरूपे-
णास्ते । तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये
तद्दयितं रूपं महापुरुषगुणभाजनो महाभाग-
वतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः
प्राह्वादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्ष-
पुरुषैरुपास्ते । इति च तत्रैव १८ अध्यायः ॥

हरिवंशः, पुं, (हरेर्वंशः ।) श्रीकृष्णस्य सन्तानः ।

यथा, --
“हरिवंशं प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम् ।
वसुदेवात्तु देवक्यां वासुदेवो बलोऽभवत् ॥
रुक्मिणीसत्यभामाद्या अष्टौ पत्न्यो हरेः पुरा ।
षोडशस्त्रीसहस्राणि अन्योन्यासन् महात्मनः ॥
तासां पुत्त्राश्च पौत्त्राद्याः शतशोऽथ सहस्रशः ।
रुक्मिण्याञ्चैव प्रद्युम्नो न्यवधीत् सम्बरञ्च यः ॥
तस्य पुत्त्रोऽनिरुद्धोऽभूत् उषाबाणसुतापतिः ।
अनिरुद्धादभूद्वज्रः स च राजा गते हरौ ।
सान्दीपनिं गुरुं चक्रे सपुत्त्रं यादवाधिपः ॥”
इति गारुडे १४८ । १ ; ६ -- ८ ; ११ ॥
विस्तारस्तु महाभारतीयहरिवंशपर्व्वणि द्रष्टव्यः ॥

हरिवल्लभा, स्त्री, (हरेर्वल्लभा ।) जया । तुलसी ।

इति राजनिर्घण्टः ॥ लक्ष्मीश्च ॥

हरिवान्, [त्] पुं, (हरिरश्वोऽस्त्यस्येति ।

मतुप् । “छन्दसीरः ।” ८ । २ । १५ । इति मस्य वः ।
इन्द्रः । इति हलायुधः ॥ इरिविशिष्टे, त्रि ॥
(यथा, वाजसनेयसंहितायाम् । २० । ३९ ।
“जुषाणो बर्हिर्हरिवान्न इन्द्रः
प्राचीनं सीदत्प्रदिशा पृथिव्याः ॥”)

हरिवासरं, क्ली, (हरेर्वासरम् ।) श्रीहरेर्द्दिनम् ।

तत्तु एकादशीद्वादशीतिथिरूपम् । यथा, --
“एकादशी द्बादशी च प्रोक्ता श्रीचक्रपाणिनः ॥”
“एकादशीमुपोस्यैव द्वादशीं समुपोषयेत् ।
न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥”
इति च तिय्यादितत्त्वम् ॥
अपि च ।
“यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
अन्नमाश्रित्य सर्व्वाणि तिष्ठन्ति हरिवासरे ॥
अघं स केवलं भुङ्क्ते यो भुङ्क्ते हरिवासरे ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
द्वादश्याः प्रथमपादः । यथा । विष्णुधर्म्मोत्तरे ।
“द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः ।
तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अथ हरिवासरे जागरणादिविधिः । स्कान्दे
श्रोब्रह्मनारदसंवादे ।
“शृणु नारद ! वक्ष्यामि जागरस्य तु लक्षणम् ।
येन विज्ञातमात्रेण दुर्लभो न जनार्द्दनः ॥
गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ।
धूपं दीपं च नैवेद्यं पुष्पगन्धानुलेपनम् ॥
फलमर्घ्यञ्च श्रद्धा च दानमिन्द्रियनिग्रहः ।
सत्यान्वितं विनिद्रञ्च मुदा युक्तं क्रियान्वितम् ॥
साश्चर्य्यं चैव सोत्साहं पापालस्यादिवर्ज्जितम् ।
प्रदक्षिणाभिसंयुक्तं नमस्कारपुरःसरम् ॥
नोराजनसमायुक्तमनिर्विण्णेन चेतसा ।
यामे यामे महाभाग ! कुर्य्यादारात्रिकं हरेः ।
एतैर्गुणैः समायुक्तं कुर्य्याज्जागरणं हरेः ॥” * ॥
किञ्च ।
“य एवं कुरुते भक्त्या वित्तशाठ्यविवर्ज्जतः ।
जागरं वासरे विष्णोर्लीयते परमात्मनि ॥
धनवान् वित्तशाठ्येन यः करोति प्रजागरम् ।
तेनात्मा हारितो नूनं कितवेन दुरात्मना ॥”
तत्रैव श्रीमदुमामहेश्वरसंवादे ।
“सशास्त्रं जागरं यच्च नृत्यगान्धर्व्वसंयुतम् ।
सवाद्यं तालसंयुक्तं सदीपं साधुभिर्युतम् ॥
उपचारैश्च संयुक्तं यथोक्तैर्भक्तिभावितैः ।
मनसस्तुष्टिजननं समुदं लोकरञ्जनम् ॥
गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम् ।
कर्त्तव्यं तत् प्रयत्नेन पक्षयोः शुक्लकृष्णयोः ॥” * ॥
किञ्च ।
“परापवादयुक्तं तु मनः प्रशमवर्ज्जितम् ।
शास्त्रहीनमगान्धर्व्वं तथा दीपविवर्ज्जितम् ॥
शक्त्योपचाररहितमुदासीनं सनिद्रकम् ।
कलियुक्तं विशेषेण जागरं नवधाधमम् ॥” * ॥
किञ्च । तत्रैव ।
“अभावे वाचकस्याथ गीतं नृत्यञ्च कारयेत् ।
वाचके सति देवेशि ! पुराणं प्रथमं पठेत् ॥” * ॥
अथ जागरणनित्यत्वम् ।
स्कान्दे ब्रह्मनारदसवादे ।
“अतीतानागतान् वापि पातयिष्यन्ति पूर्ब्बजान् ।
अकुर्व्वाणाः प्रपत्स्यन्ति पुत्त्रधर्म्मवसुक्षयम् ।
जायते नरके वासः पितृभिः सह कालशः ॥
न पुरश्चरणात् पापं व्रतैर्दानैः समाधिभिः ।
विलयं याति विप्रेन्द्र ! विना द्वादशीजागरम् ॥”
तत्रैवोमामहेश्वरसंवादे ।
“संप्राप्तं जागरे विष्णोर्ये न कुर्व्वन्ति जागरम् ।
भ्रश्यते सुकृतं तेषां वैष्णवानाञ्च निन्दया ॥
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति ।
न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि ॥”
अतएवोक्तं ब्रह्मणा । तत्रैव ।
“हृदये वर्त्तते यस्य सदा योगेश्वरो हरिः ।
मतिरुत्पद्यते तस्य द्वादशीजागरोपरि ॥ * ॥
सामान्धेन पुरालेखि गीतनृत्यादिनित्यता ।
अधुना लिख्यते सेयं जागरे च विशेषतः ॥”
अथ जागरे गीतादिनित्यत्वम् । स्कान्दे उमा-
महेश्वरसंवादे ।
“मूकवत्तिष्ठते यो वै गानं पाठञ्च नाचरेत् ।
सप्त जन्मानि मूकत्वं जायते जागरे हरेः ॥
यो न नृत्यति मूढात्मा पुरतो जागरे हरेः ।
पङ्गुत्वं जायते तस्य सप्त जन्मादि पार्व्वति ! ॥
पाद्मे पक्षवर्द्धनीप्रसङ्गे ।
“स्तुवन्ति न प्रशंसन्ति ये जना जागरं हरे ।
नोत्सवो भवते तेषां गृहे जन्मानि सप्त च ॥
स्तुवन्ति ये प्रशंसन्ति जागरं चक्रपाणिनः ।
नित्योत्सवो भवेत्तेषां जन्मानि दश पञ्च च ॥”
अथ जागंरणमाहात्म्यम् ।
स्कान्देब्रह्मनारदसंवादे तथा श्रीप्रह्रादसंहिता-
याञ्च ।
“न गयापिण्डदानेन न तीर्थैर्बहुभिर्मखैः ।
पूर्व्वजा मुक्तिमायान्ति विना द्वादशीजागरम् ॥
सर्व्वावस्थोऽपि यः कुर्य्याद्घादश्यां जागरं हरेः ।
यामेनैकेन दहते पापं जन्मसहस्रजम् ॥ * ॥
यः कुर्य्याद्दीपदानन्तु रात्रौ जागरणे हरेः ॥
निमिषे निमिषे व्रिप्र ! लभते गोशतं फलम् ॥
यः कुर्य्याज्जागरे पूजां द्वादश्यां कुसुमैर्हरेः ।
पुष्पे पुष्पेऽश्वमेधस्य फलमाप्नोति मानवः ॥
यो दहेच्चागुरुं विष्णोः पूजां कृत्वा तु जागरे ।
निमिषार्द्धेन लभते तिलपात्रशतं फलम् ॥
निमेषञ्च दहेद्धूपं सघृतं गुग्गुलुं हरेः ।
लभते जागरे विप्र ! पुण्यं माससमुद्भवम् ॥
यो दद्याज्जागरे विष्णोर्हविष्यान्नसमुद्भवम् ॥
नैवेद्यं लभते पुण्यं शालिशैलसमुद्भवम् ॥
पक्वान्नानि च यो दद्यात् फलानि विविधानि च ।
जागरे पद्मनाभस्य लभते गोऽयुतं फलम् ॥
सकर्पूरञ्च ताम्बूलं यो ददाति हि जागरे ।
पद्मनाभप्रसादेन श्वेतद्वीपे वसेच्चिरम् ॥
जागरे पद्मनाभस्य यः कुर्य्यात् पुष्पमण्डपम् ।
स पुष्पकविमानैस्तु क्रीडते ब्रह्मसद्मनि ॥
जागरे पद्मनाभस्य सकर्पूरं तथागुरुम् ।
दहते दहते पापं जन्मलक्षसमुद्भवम् ॥
स्नानं ददाति कृष्णस्य दधिक्षीरघृतादिभिः ।
रात्रौ जागरणे विप्रा ! मुक्तिभागी भवेद्धि सः ॥
दिव्याम्बराणि यो दद्याज्जागरे समुपस्थिते ।
मन्वन्तराणि वसते तन्तुमंख्यासमानि वै ॥
दद्यादाभरणं विष्णार्हेमजं रत्नसम्भवम् ।
सप्तकल्पानि वसते सोत्सङ्गे मत्प्रियो हि सः ॥
श्रीचन्दनं सकर्पूरं सागुरुं तु सकेशरम् ।
युक्तं मृगमदेनापि यच्छते हरिजागरे ॥
एकैकं मुनिशार्दूल ! अश्वमेधाधिकं फलम् ।
कलौ भवेन्न सन्देहो वासुदेवप्रसादतः ॥
घृतेन दीपकं विष्णोर्गव्येन च विशेषतः ।
ज्वालयेज्जागरे रात्रौ निमेषे गोऽयुतं फलम् ॥
जागरे वासुदेवस्य कर्पूरेण च दीपकम् ।
यो ज्वालयति कोटीनां कपिलानां लभेत्
फलम् ।
आरात्रिकं हरेर्यस्तु सकर्पूरन्तु जागरे ।
कुरुते मोक्षमाप्नोति कुलायुतसमन्वितः ॥
विना हि योऽपि कर्पूरं कुर्य्यादारात्रिकं हरेः ॥
पृष्ठ ५/५१९
निःस्वोऽपि जागरे विष्णोर्दाता भूरिफलं लभेत् ॥
वारिजं वारिणा पूर्णं शिरसि स्नापयेद्धरिम् ।
बिभर्त्ति शिरसा सोऽयं गङ्गास्नानकृतं फलम् ॥
कृत्वा पूजां हरेर्यस्तु जागरे पुरतः शुचिः ।
पठेन्नामसहस्रन्तु गीतां नागविमोक्षणम् ॥
माङ्गल्यस्नपनं पुण्यं स्तवराजमनुस्मृतिम् ।
वैदिकानि व जप्यानि भक्त्या रात्रौ मुहुर्मुहुः ॥
भवेत् प्रत्यक्षरं पुण्यं कपिलागोशतोद्भवम् ।
जागरे यज्ञरूपस्य पुरतः पठतो हरेः ॥
यः पुनः कुरुते गीतं सनृत्यं वाद्यसंयुतम् ।
न तत् क्रतुशतैः पुण्यं व्रतदानशतैरपि ॥
यः पुनः कुरुते गीतं विलज्जो नृत्यते यदि ।
लभते निमिषार्द्धेन चतुराश्रमजं फलम् ॥
जागरे पद्मनाभस्य कुर्य्यात् पुस्तकवाचनम् ।
श्लोकसंख्यां वसेत् स्वर्गे युगानि हरिसन्निधौ ॥
कुर्य्याद्वन्दनमालां यो रम्भास्तम्भैः सुशोभनैः ।
चूतवृक्षोद्भवैः पत्रैर्जागरे चक्रपाणिनः ॥
युगानि पत्रसंख्यानां स्वर्गे तस्योत्सवो भवेत् ।
पूज्यते वासवाद्यैश्च क्रीडते चाप्सरोवृतः ॥
नृत्यमानस्य मर्त्यस्य ये केचिन्निरयं गताः ।
विमुक्ता धर्म्मराजेन मुक्तिं यान्ति हरेः पदम् ॥
गीतध्वनिसुसन्तुष्टो जागरे तु रमापतिः ।
वासवस्याधिकं सौख्यं दद्यान्मन्वन्तरं शतम् ॥
नृत्येन मर्त्ये सौख्यं तु स्वर्गे नृत्येन जागरे ।
रसातले तथा सौख्यं मुक्तिर्नृत्यादवाप्यते ॥
प्रेक्षणीयप्रदानेन यत् पुण्यं कथितं बुधैः ।
न तत् कोटिमखैः पुण्यं योगैः सांख्यैरवाप्यते ॥
दीपमालां हरेरग्रे यः करोति प्रजागरे ।
विमानकोटितंयुक्तः कल्पान्तं वसते दिवि ॥ * ॥
चरितं रामचन्द्रस्यः यः शृणोति हरेर्दिने ।
रात्रौ वाल्मीकिना प्रोक्तं तत्समो न हि वैष्णवः ॥
यः पुनः पठते रात्रौ महाभारतसम्भवाम् ।
कथां जागरणे विष्णोः कुलकोटिं नयेद्दिवम् ॥
औत्तानपादेश्चरितं ध्रुवस्य च महात्मनः ।
कृष्णस्य बालहरितं जागरे पठते हि यः ॥
युमकोटिसहस्रस्य क्षयः पापस्य जायते ।
तस्माज्जागरणं कार्य्यं पक्षयोः शुक्लकृष्णयोः ॥
श्रीमद्भागवतं भक्त्या पठते विष्णुसन्निधौ ।
जागरे तत्पदं याति कुलवृन्दसमन्वितः ॥
अष्टादश पुराणानि पुराणपुरुषस्य च ।
दयितानि सदा विष्णोर्विशेषेण तु जागरे ॥
यो गीतां पठते रात्रौ विष्णोर्नामसहस्रकम् ।
वेदोक्तानां पुराणानां जागरी पुण्यमाप्नुयात् ॥
धेनुदानं तु यः कुर्य्याज्जागरे चक्रपाणिनः ।
लभते नात्र सन्देहः सप्तद्वीपावनीफलम् ॥
जागरे पद्मनाभस्य यः कुर्य्याच्छुभमण्डपम् ।
मण्डले ध्रुवलोकस्य यावत्तिष्ठति पद्मभूः ॥ * ॥
सर्व्वेषामेव पुण्यानां महत् पुण्यं महीतले ।
द्वादश्यां जागरे विप्र ! प्रसिद्धं भुवनत्रये ॥
जागरं ये चिकीर्षन्ति कर्म्मणा मनसा गिरा ।
न तेषां पुनरावृत्तिर्विष्णुलोकात् कथञ्चन ॥
जागरे नृत्यमानन्तु दृष्ट्वा वै द्वादशीदिने ।
रात्रौ मार्जयते शौरिः पापं तस्य युगा-
र्ज्जितम् ॥”
इति श्रीहरिभक्तिविलासे १३ विलासः ॥

हरिवाहनः, पुं, (हरेर्वाहनः ।) गरुडः । इति

हारावली ॥ (हरिरुच्चैश्रवा वाहनं यस्येति ।
इन्द्रः । यथा, महाभारते । १ । २६ । १ ।
एवं स्तुतस्तदा कद्र्वा भगवान् हरिवाहनः ।
नीलजीमूतसङ्घातैः सर्व्वमम्वरमावृणोत् ॥”
तथाच तत्रैव । ३ । ४६ । ५२ ।
“तत आनाय्य तनयं विविक्ते हरिवाहनः ।
सान्त्वयित्वा शुभैर्व्वाक्यैः स्मयमानोऽभ्यभा-
षत ॥”)

हरिवीजं, क्ली, (हरेर्वीजं वीर्य्यम् ।) हरितालम् ।

इति जटाधरः ॥

हरिवृषं, क्ली, हरिवर्षम् । इति भूरिप्रयोगः ॥

हरिशयनं, क्ली, (हरेः शयनम् ।) श्रीहरेर्निद्रा ।

यथा । उपनयने दीपिकायाम् ।
“जीवार्केन्दूडशुद्धौ हरिशयनबहिर्भास्करे चोत्त-
रस्थे
स्वाध्याये वेदवर्णाधिप इह श्रुभदे क्षौरभे
नादितौ च ।”
इत्यादि ज्योतिस्तत्त्वम् ॥ * ॥
तद्विधिर्यथा । वामनपुराणे ।
“एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ।
शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ॥
अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः ।
लब्ध्वा पीताम्बरधरं देवं निद्रां समानयेत् ॥”
अनुज्ञां लब्ध्वेत्यन्वयः । एकादशीसमये दिवा
शयनं परिकल्पयेत् रात्रौ द्वादशीक्षणे
निद्रेति ॥ * ॥ व्यक्तं वाराहे ।
“आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा ।
चातुर्म्मास्यव्रतारम्भं कुर्य्यात् कर्क्कटसंक्रमे ॥
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ।
कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत् ॥
चतुर्धापि हि तच्चीर्णं चातुर्म्मास्यं व्रतं नरः ।
कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ॥”
मात्स्ये ।
“चतुरो वर्षिकान् मासान् देवस्योत्थापना-
वधि ।
मधुस्वरो भवेन्नित्यं नरो गुडविवर्ज्जिनात् ॥
तैलस्य वर्ज्जनादेव सुन्दराङ्गः प्रजायते ।
कटुतैलपरित्यागात् शत्रुनाशः प्रजायते ॥
लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ।
सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ॥
निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते !
एकान्तरोपवासेन विष्णुलोकमवाप्नुयात् ॥
धारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने ।
ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ॥
घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् ।
फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ॥
नमो नारायणायेति जप्त्वानशनजं फलम् ।
पादामिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ।
एवमादिव्रतैः पार्थ ! तुष्ठिमायाति केशवः ॥ *
सनत्कुमारः ।
“इदं व्रतं मया देव ! गृहीतं पुरत्नस्तव ।
निर्व्विघ्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ! ॥
गृहीतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये ।
तन्मे भवतु संपूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥”
समाप्तौ च ।
“इदं व्रतं मया देव ! कृतं प्रीत्यै तव प्रभो ! ।
न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन ! ॥” * ॥
अत्रैव यतिमधिकृत्य काठकगृह्यम् ।
“एकरात्रं वसेद् ग्रामे नगरे पञ्चरात्रकम् ।
वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् ॥”
एतदशक्तविषयम् । ऊर्द्धं वार्षिकाभ्यां मासाभ्यां
नैकस्थानवासीति शङ्खोक्तेः ॥ * ॥ मात्स्ये ।
“शेते विष्णुः सदाषाढे भाद्रे च परिवर्त्तते ।
कार्त्तिके परिबुध्येत शुक्लपक्षे हरेर्द्दिने ॥”
भविष्यनारदीययोः ।
“मैत्राद्यपादे स्वपितीह विष्णु-
र्वैष्णव्यमध्ये परिवर्त्तते च ।
पौष्णावसाने च सुरारिहन्ता
प्रबुध्यते मासचतुष्टयेन ॥”
मैत्रमनुराधा वैष्णव्यं श्रवणा । पौष्णं रेवती ॥ * ॥
भविष्ये ।
“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्त-
नम् ।
अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत् ॥”
अन्यत्र स्वापादिविहितरात्र्यादीतरकाले दश-
मीप्रदीपदोश्च ।
“किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा ।
पौष्णशेषेण किन्तेन प्रतिपद्यथ यो निशि ॥”
दशम्यंशेन दशम्या अंशो यत्र पादे तेन यः
पादो दिवा प्राप्तस्तेन वा किम् । अत्र
दशमीप्रतिपदोर्व्वर्ज्जनात् तदितरैकादश्यादि-
पञ्चतिथिषु मैत्रादिनक्षत्रपादविशेषलाभे
द्वादशीं विनापि शयनादिरिति प्रतीयते ॥ * ॥
वचनान्तरम् ।
“रेवत्यन्तो यदा रात्रौ द्वादश्या च समायुतः ।
तदा विबुध्यते विष्णुर्द्दिनान्ते प्राप्य रेवतीम् ॥”
दिनान्तेत्रिधाविभक्तदिनतृतीयभागे दिवो-
त्थानमित्यनुरोधात् । विष्णुधर्म्मोत्तरे ।
“विष्णुर्द्दिवा न स्वपिति न च रात्रौ प्रबुध्यते ।
द्वादश्यामृक्षसंयोगे पादयोगो न कारणम् ॥
अप्राप्ते द्वादशीमृक्षे उत्थानशयने हरेः ।
पादयोगेन कर्त्तव्ये नाहोरात्रं विचिन्तयेत् ॥”
वराहपुराणम् ।
“द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।
आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम् ॥”
आ-भा-कानां आषाढभाद्रकार्त्तिकानाम् ॥ * ॥
यतश्च द्वादश्यां निशादौ नक्षत्रमात्रयोगात् ।
द्वादश्यामृक्षाभावे तिथ्यन्तरे निशाद्यनादरेण
पादविशेषयोगात् । तद्भावे द्वादश्यां सन्ध्याया-
मेव शयनादिकम् । बोधनन्तु द्वादश्यां रात्र
पृष्ठ ५/५२०
रवत्यन्तपादयोगे दिनतृतीयभागे इति विशेषः ॥
शयने मन्त्रमाह वराहपुराणम् ।
“नमो नारायणायेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।
पश्यन्तु मेघान्यपि मेघश्यामं
ह्युपागतं सिच्यमानं महीमिमाम् ।
निद्रां भगवान् गृह्णातु लोकनाथ
वर्षास्विमं पश्यतु मेघवृन्दम् ॥
ज्ञात्वा च पश्यैव च देवनाथ
मासाश्चत्वारि वैकुण्ठस्य तु पश्यनाथ ! ॥”
ततश्च ।
“सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम् ।
विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥”
इत्यनेन पूजयेत् ॥ * ॥ पार्श्वपरिवर्त्तने तु ।
“वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव ।
पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ! ॥”
इति पठेत् ॥
“त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेदिदम् ।
विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥”
इत्यनेन पूजयेत् ॥
नैयतकालिककल्पतरौ ब्रह्मपुराणम् । कार्त्तिक-
शुक्लपंक्षमधिकृत्य ।
“उपवासः प्रकर्त्तव्य एकादश्यां प्रजागरः ।
द्वादश्यां वासुदेवश्च पूजितव्यः प्रयत्नतः ॥” * ॥
उत्थानमन्त्रस्तु ।
महेन्द्ररुद्रैरभिनूयमानो
भवानृषिर्बन्दितवन्दनीयः ।
प्राप्ता तवेयं किल कौमुदाख्या
जागृष्व जागृष्व च लोकनाथ ! ॥
मेघा गता निर्म्मलपूर्णचन्द्रः
शारद्यपुष्पाणि च लोकानाथ ! ।
अहं ददानीति च पुण्यहेतो-
र्ज्जागृष्व जागृष्व च लोकानाथ ! ॥”
ततः ।
“उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते !
त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥”
इति पठित्वा पूजयेत् ॥
इति तिथ्यादित्त्वम् ॥

हरिशरः, पुं, (हरिः शरो यस्य ।) शिवः । इति

केचित् ॥ त्रिपुरदहनार्थं हरिरेव यतस्तस्य
शरोऽभूत्तस्मात् । यथा, पुष्पदन्तः ।
“रथः क्षौणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
निधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्वरविघि-
र्विधेयैः क्रीडन्तो न खलु परतन्त्राः प्रभुधियः ॥”

हरिश्चन्द्रः, पुं, नृपविशेषः । तु त्रेतायुगे सूर्य्य-

वंशीयः अष्टाविंशराजः । तत्पर्य्यायः । त्रिश-
ङ्कुजः २ । इति हेमचन्द्रः ॥ अपि च । त्रिशङ्की-
र्हरिश्चन्द्रस्तस्माद्रोहिताश्वस्ततश्च हरितः । इति
विष्णुपुराणे । ४ । ३ । १५ ॥

हरिश्चन्द्रपुरं, क्ली, (हरिश्चन्द्रस्य पुरम् ।) हरि-

श्चन्द्राराजनगरम् । तत्पर्य्यायः शौभपुरम् २ ।
इति त्रिकाण्डशेषः ॥

हरिषः, पुं, हर्षः । इति केचित् ॥

हरिषेणः, पुं, जिनचक्रवर्त्तिविशेषः । तत्पर्य्यायः ।

हरिसुतः २ । यथा, --
“हरिषेणो हरिसुतो जयो विजयनन्दनः ।
ब्रह्मसूनुर्ब्रह्मदत्तः सर्व्वे चेक्ष्वाकुवंशजाः ॥”
इति हेमचन्द्रः ॥

हरिसङ्कीर्त्तनं, क्ली, (हरेः सङ्कीर्त्तनम् ।) श्रीहरे-

र्नामोच्चारणम् । यथा, --
“दानं व्रतं तपो यज्ञः श्राद्धं वा पितृतर्पणम् ।
सकलं निष्फलं राजन् ! हरिसुङ्कीर्त्तनं विना ॥”
इति कर्म्मलोचनम् ॥
अपि च ।
“नरके पच्यमानानां नराणां पापकर्म्मणाम् ।
मुक्तिः संजायते तस्मात् नामसंकीर्त्तनाद्धरेः ॥”
इति हरिभक्तिविलासधृतं इति हासोत्तमवच-
नम् ॥

हरिसुतः, पुं, (हरेः सुत इव ।) हरिषेणराजा ।

इति हेमचन्द्रः ॥ हरेः पुत्त्रश्च ॥

हरिहयः, पुं, (हरिरेव हयो यस्य ।) इन्द्रः ।

इत्यमरः । १ । १ । ४६ ॥ (यथा, महाभारते ।
१ । ६७ । ५० ।
“द्वितीयस्तु ततोस्तेषां श्रीमान् हरिहयोपमः ।
अपराजित इत्येव स बभूव नराधिपः ॥”)
सूर्य्यः । कार्त्तिकेयः । गणेशः । इति केचित् ॥

हरिहरः, पुं, (हरिणा सह हरः ।) संयुक्त

हरिहरमूर्त्तिः । यथा, --
पुलस्त्य उवाच ।
“विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् ।
क्वासौ वद जगन्नाथ ! शम्भुस्तिष्ठति केशव ।
यं क्षीराद्यभिषेण स्नापयामो विधानतः ॥
अथोवाच सुरान् विष्णुरेष तिष्ठति शङ्करः ।
मद्देहे किन्न पश्यध्वं योगप्रायं प्रतिष्ठितम् ॥
तमूचुर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् ।
सत्यं वद सुरेशान ! महेशानः क्व तिष्ठति ॥
ततोऽव्ययात्मा स हरिः स्वहृत्पङ्कजशायिनम् ।
दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम् ॥
ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् ।
स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम् ॥
गोरोचनया त्वालिप्य चन्दनेन सुगन्धिना ।
विल्वपत्राम्वुजैर्द्देवं पूजयामासुरञ्जसा ॥
पूजयित्वा गुरुं भक्त्या निवेद्य परमौषधीः ।
जप्त्वाष्टशतनामानि प्रणामं चक्रिरे ततः ॥
इत्येवं चिन्तयन्तश्च देवा देवौ हराच्युतौ ।
कथं योगत्वमापन्नौ संराध्यतममात्मनः ॥
सुराणां चिन्तितं ज्ञात्वा विश्वमूर्त्तिरभूद्विभुः ।
सर्व्वलक्षणसंयुक्तः सर्व्वायुधधरोऽव्ययः ॥
सार्द्धं त्रिनेत्रं कमलाहिकुण्डलं
जटामहाभारशिरोजमण्डितम् ।
हरिं हरञ्चैव नगेन्द्रभूषणं
पीताजिनाच्छन्नकटिप्रदेशकम् ॥
चक्रासिहस्तं घनुःशार्ङ्गपाणिं
पिनाकशूलाजगवान्वितञ्च ।
कन्दर्पखट्टाङ्गकपालघण्टा-
सशङ्खचक्राब्जधरं महर्षे ! ॥
दृष्ट्वैव देवा हरिशङ्करं तं
नमोऽस्तु ते सर्व्वगताव्ययेति ॥”
इति वामनपुराणे ५९ अध्यायः ॥ * ॥
शिवविष्णोरभेदेनार्च्चकस्य रूपन्त्वेवम् । यथा, --
“निरामया नाम गणाः समायाता जगद्-
गुरो ।
सार्द्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः ॥
समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः ।
महापाशुपता नाम शूलचक्रधारास्तथा ।
भैरवो विष्णुना सार्द्धमभेदेनार्च्चितो हि यैः ॥”
इति तत्रैव ६४ अध्यायः ॥
अन्यच्च ।
“अथवा विष्णुरूपेण पूजयेच्चेश्वरं सदा ।
शङ्करं वामभागस्थं सर्व्वकाममवाप्नुयात् ॥”
इति देवीपुराणे १२ अध्यायः ॥

हरिहरक्षेत्रं, क्ली, (हरिहरस्य क्षेत्रम् ।) तीर्थ-

विशेषः । स तु पाटलिपुत्रनगरस्थभागीरथ्यु-
त्तरपारे वर्त्तते । तस्य नामान्तरं ददरिक्षेत्रं
तद्देशीया वदन्ति । तत्र गङ्गागण्डकोसङ्गमे
कार्त्तिकपौर्णमास्यां स्नानार्थं जनसमूहमेलनं
भवति । तस्य नामकारणं यथा, --
“ततः स पञ्च रात्राणि स्थित्वा वै विधिपूर्ब्बकम् ।
गोधनान्यग्रतः कृत्वा हरिक्षेत्रं जगाम ह ।
हरिणाधिष्ठितं क्षेत्रं हरिक्षेत्रं ततः स्मृतम् ॥
सदा नन्दी शूलपाणिर्गोधनेन पुरस्कृतः ।
स्थितवांस्तद्दिनादेव तत्क्षेत्रं हरिहरात्मकम् ।
देवानामटनाच्चैव देवाट इति संज्ञितम् ॥”
इति वाराहे भगवच्छास्त्रे सोमेश्वरादिलिङ्ग-
महिमाविमुक्तक्षेत्रत्रिवेण्यादिमहिमानामा-
ध्यायः ॥

हरिहरात्मकः, पुं, (हरिहरौ आत्मानौ यस्य ।

कप् ।) गरुडः । शिववृषः । इति शब्दरत्नावली ॥
हरिहरक्षेत्रे, क्ली ॥ (हरिहरात्मरूपे, त्रि ।
यथा, हरिवंशे । १८१ । ३० ।
“अनादिमध्यनिधनमेतदक्षरमव्ययम् ।
तदेव ते प्रवक्ष्यामि रूपं हरिहरात्मकम् ॥”)

हरितकी, स्त्री, (हरि पीतवर्णं फलमिता प्राप्ता

इति हरीता । ततः संज्ञायां कन् गौरादि-
त्त्वात् ङीष् ।) स्वनामख्यातवृक्षः । हरडा इति
हिन्दी भाषा । तत्पर्य्यायः । अभया २ अव्यथा ३
पथ्या ४ वयःस्था ५ पूतना ६ अमृता ७ हैम-
वती ८ चेतकी ९ श्रेयसी १० शिवा ११ ।
इत्यमरः । २ । ४ । ५९ ॥ सुधा १२ कायस्था १३
कन्या १४ रसायनफला १५ । इति शब्दरत्ना-
वली ॥ विजया १६ । इति जटाधरः ॥ जया
१७ चेतनकी १८ रोहिणी १९ प्रपथ्या २०
जीवप्रिया २१ जीवनिका २२ भिषग्वरा २३
पुस्तकान्तरे भिषक्प्रिया इति पाठः । जीवन्ती
२४ प्राणदा २५ जीव्या २६ देवी २७ दिव्या
२८ । अस्या गुणाः ।
पृष्ठ ५/५२१
“हरीतकी पञ्चरसा च रेचनी
कोष्ठामयघ्नी लवणेन वर्ज्जिता ।
रसायनी नेत्ररुजापहारिणी
त्वगामयघ्नी किल योगवाहिनी ॥”
अन्यच्च ।
“वीजास्थितिक्तं मधुरा तदन्त-
स्त्वग्भागतः सा कटुरुष्णवीर्य्या ।
मांसांशतश्चाम्लकषाययुक्ता
हरीतको पञ्चरसा स्मृतेयम् ॥
पथ्यामज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥”
तस्या भेदा यथा, --
“हरीतक्यमृतोत्पन्ना सप्तभेदैरुदीरिता ।
तस्यां नामानि वर्णांश्च वक्ष्याम्यथ यथाक्रमात् ॥
विजया रोहिणी चेव पूतना चामृताभया ।
जीवन्ती चेतकी चेति नाम्ना सप्तविधा स्मृता ॥
अलावुवृत्ता विजया मुवृत्ता रोहिणी मता ।
स्वल्पत्वक् पूतना क्षेया स्थूलमांसामृता स्मृता ॥
पञ्चासा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ।
त्र्यस्रा तु चेतक्री विद्यादित्यासां रूपलक्षणम् ॥
बिन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी
पूतना
सिन्धौ स्यादथ रोहिणी तु विजया जाता
प्रतिस्थानके ।
चम्पायाममृताभया च जनिता देशे
सुराष्ट्राह्वये
जीवन्तीति हरीतकी निगदिता सा सप्तभेदा
बुधैः ॥ * ॥
सर्व्वप्रयोगे विजयाथ रोहिणी
क्षतेषु लेपेषु च पूतनोदिता ।
विरेचने स्यादमृता गुणाधिका
जीवन्तिका स्यादिह जीर्णरोगजित् ॥
स्याच्चेतकी सर्व्वरूजापहारिका
नेत्रामयघ्नीमभयां वदन्ति ताम् ।
इत्थं यथारोगमियं प्रयोजिता
ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥
चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः ।
तावद्धिरिच्यते वेगात्तत्प्रभावान्न संशयः ॥
सप्तानामपि जातीनां प्रधानं विजया स्मृता ।
सुखप्रयोगसुलभा सर्व्वव्याधिषु शस्यते ॥
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती
भिषग्वरैः ।
यस्या यस्या भूयो निमञ्जनं सा गुणाल्पा
स्यात् ॥
हरते प्रसभं व्याधीन् भूयस्तकति यद्वपुः ।
हरीतकी तु सा प्रोक्ता तकतिर्दीप्तवाचिका ॥
हरीतकी तु तृष्णायां हनुस्तम्भे गलग्रहे ।
शोषे नवज्वरे क्षीणे गुर्विण्यां नैव शस्यते ।”
इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“दक्षं पजापतिं स्वस्थं अश्विनौ वाक्यमूचतुः ।
कुतो हरीतकी जाता तस्यास्तु कति जातयः ॥
रसाः कति समाख्याताः कति चोपरसाः स्मृताः ।
नामानि कति चोक्तानि कञ्च तासाञ्च लक्षणम् ॥
के च वर्णा गुणाः के च का च कुत्र प्रयुज्यते ।
केन द्रव्येण संयुक्ता कांश्च रोगान् व्यपोहति ॥
पृच्छाम्येतद्यथा पृष्टं भगवन् ! वक्तुमर्हसि ।
अश्विनोर्व्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ॥
पपात बिन्दूर्म्मेदिन्यां शक्रस्य पिबतोऽमृतम् ।
ततो दिव्यात् समुत्पन्ना सप्तजातिर्हरीतकी ॥
हरीतक्यभया पथ्या कायस्था पूतनामृता ।
हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ।
वयस्था विजया चापि जीवन्ती रोहिणीति च ।
विजया रोहिणी चैव पूतना चामृताभया ।
जीवन्ती चेतकी चेति पथ्यायाः सप्तजातयः ॥ * ॥
अलावुवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।
पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥
पञ्चरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।
त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ * ॥
विजया सर्व्वरोगेषु रोहिणी व्रणरोहिणी ।
प्रलेपे पूतना योज्या शोधनार्थेऽमृता हिता ॥
अक्षिरोगेऽभया शस्ता जीवन्ती सर्व्वरोग-
हृत् ॥
चूर्णार्थं चेतकी शस्ता यथा युक्तं प्रयोजयेत् ॥ * ॥
चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ।
षडङ्गुलायता शुक्ला कृष्णा चैकाङ्गुलायता ॥
काचिदास्वादमात्रेण काचिद्गन्धेन भेदयेत् ।
काचित् स्पर्शेन दृष्टान्या चतुर्द्धा भेदयेच्छिवा ।
चेतकीपादपच्छायामुपसर्पन्ति ये नराः ।
भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥
चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ।
तावद्भिद्येत वेगैस्तु प्रभावान्नात्र संशयः ॥
नृपादिसुकुमाराणां कृशानां भेषजद्विषाम् ।
चेतकी परमा शस्ता हिता सुखविरेचनी ॥
सप्तानामपि जातीनां प्रधाना विजया स्मृता ।
सुखप्रयोगा सुलभा सर्व्वरोगेषु शस्यते ॥
हरीतकी पञ्चरसालवणा तुवरा परम् ।
रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ।
चक्षुष्या लघुरायुष्या बृंहणीचानुलोमिनी ।
श्वासकासप्रमेहार्शःकुष्ठशोथोदरक्रिमीन् ॥
वैस्वर्य्यग्रहणीरोगविबन्धविषमज्वरान् ॥
गुल्माध्मानव्रणच्छर्द्दिहिक्वाकण्डूहृदामयान् ॥
व्रणस्थाने तृषा इति क्वचित् पुस्तके पाठः ।
कामलां शूलमानाहं प्नीहानञ्च यकृत्तथा ।
अश्मरीमूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत् ॥
स्वादुतिक्तकषायत्वात् पित्तहृत् कफहृत्तु सा ।
कटुतिक्तकषायत्वादम्लत्वाद्वातहृच्छिवा ॥
पित्तकृत् कटुकाम्लत्वात् वातहृन्न कथं शिवा ।
प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत् प्रकाश्यते ॥
हेतुभिः शिष्यबोधार्थं न पूर्ब्बं क्रियतेऽधुना ।
कर्म्मण्यत्वं गुणैः साम्यं दृष्टमाश्रयभेदतः ।
यतस्ततो नेति चिन्त्यं धात्रीलकुचयोर्यथा ॥
पय्याया मज्जनि स्वादुः स्नायावम्लो व्यव-
स्थितः ।
वृन्ते तिक्तस्त्वचि कटुरस्थिस्थस्तवरो रसः ॥ * ॥
नवा स्निग्धा घना वृत्ता गुर्व्वी क्षिप्ता च
याम्भसि ।
निमज्जेत् सा सुप्रशस्ता कथितातिगुणप्रदा ॥
नवादिगुणयुक्तत्वं तथैकत्र द्विकर्षता ।
हरीतक्याः फले यत्र द्वयं तच्छ्रेष्ठमुच्यते ॥
चर्व्विता वर्द्धयत्यग्निं पेषिता मलशोधिनी ।
स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रिदोष-
नुत् ॥
उन्मीलिनी बुद्धिबसेन्द्रियाणां
निर्म्मूलिनी पित्तकफानिलानाम् ।
विस्रंसिनी मूत्रशकृन्मलानां
हरीतकी स्यात् सह भोजनेन ॥
अन्नपानकृतान् दोषान् वातपित्तकफोद्भवान् ।
हरीतकी हरत्याशु भुक्तस्योपरियोजिता ॥
लवणेन कफं हन्ति पित्तं हन्ति सशर्करा ।
घृतेन वातजान् रोगान् सर्व्वरोगान् गुडान्विता ।
सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा ॥
अध्वातिखिन्नो बलवर्जितश्च
रूक्षः कृशो लङ्घनकर्षितश्च ।
पित्ताधिको गर्भवती च नारी
विमुक्तरक्तस्त्वभयां न खादेत् ॥”
इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“जीवन्ती रोहिणी चैव विजया चाभयामृता ।
पूतना कालिका चेति सप्तजातिर्हरीतकी ॥
सुवर्णवर्णा जीवन्ती रोहिणी कपिलद्युतिः ।
अलावुवृत्ता विजया पञ्चांशा चाभया स्मृता ॥”
पञ्चांशा पञ्चशिरा ।
“स्थूलमांसामृता ज्ञेया पूतनास्थिमती मता ।
त्र्यंशा च कालिकेत्येवं सप्तजातिर्हरीतकी ॥
स्नेहपानेषु सर्व्वेषु जीवन्ती तु प्रशस्यते ।
रोहिणी क्षतरोगेषु विजया सर्वकर्म्मसु ॥
पूतना लेपने ज्ञेया अमृता तु विरेचने ।
अभया नेत्ररोगेषु गन्धयुक्तौ तु कालिका ॥
हरस्य भवने जाता हरिता च स्वभावतः ।
हरते सर्व्वरोगांश्च तेन नाम्ना हरीतकी ॥ * ॥
पीयूषं पिबतस्त्रिपिष्टपपतेर्ये विन्दवो निर्गता-
स्तेभ्योऽभूदभया दिवाकरकरश्रेणीव दोषापहा ।
कालिन्दीव बलप्रमोदजननी गीरीव शूलिप्रिया
वह्निद्योतकरी हुताहुतिरिव क्षौणीव नाना-
रसा ॥
पथ्या पञ्चरसायुष्या चक्षुष्यालवणा सरा ।
मेध्योष्णा दीपनी कुष्ठदोषशोथब्रणाप्रहा ॥” * ॥
पञ्चरसस्य विवरणम् । त्वक् कटुः । मांसं अम्ल
कषायम् । अस्थि तिक्तम् । तन्मध्ये माधुर्य्यम् ॥ * ॥
तन्मज्जगणाः ।
“पथ्यामज्जा तु चक्षुष्यो वातपित्तहरो गुरुः ॥”
इति राजवल्लमः ॥

हरीषा, स्त्री, मांसव्यञ्जनविशेषः । आस इति

हिन्दी भाषा । यथा, --
“पाकपात्रे तबहति मांसखण्डानि निःक्षिपेत् ।
पृष्ठ ५/५२२
पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम् ॥
हरिद्रामाद्रकं शुण्ठी लवणं मरिचानि च ।
तण्डुलां चापि गोधूमान् जम्बीराणां रसान्
बहून् ॥
यथा सर्व्वाणि वस्तूनि सुपक्वानि भवन्ति हि ।
तथा पचेत निपुणो बहुमण्डस्थितिर्यथा ॥
एषा हरीषा बलकृद्वातपित्तापहा गुरुः ।
शीतोष्णा शुक्रदा स्निग्धा सरा सन्धान-
कारिणी ॥”
इति भावप्रकाशः ॥

हरेणुः, स्त्री, (ह्रियते इति । हृ + “कृहृभ्या-

मेणुः ।” उणा० २ । १ । इति एणुः ।) रेणु-
कानामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२० ॥
कुलयोषित् । इति मेदिनी ॥

हरेणुः, पुं, (ह्रियते इति । हृ + एणुः ।) सतीलः ।

इति मेदिनी ॥ (गुणादयोऽस्य सतीलशब्दे
ज्ञातव्याः ॥)

हरेणुकः, पुं, (हरेणुरिव । कन् ।) कलायः ।

इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, --
“कलायो वर्त्तुलः प्रोक्तः सतीलश्च हरेणुकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हर्त्ता, [ऋ] पुं, (हरति ध्वान्तमिति । हृ + तृच् ।)

सूर्य्यः । यथा, --
“लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥”
इति शाम्बपुराणे सूर्य्यस्तवः ॥
हरणकर्त्तरि, त्रि ॥ (यथा, भागवते । ४ । २४ । ५ ।
“अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।
य इन्द्रमश्वहर्त्तारं विद्वानपि न जघ्निवान् ॥”)

हर्म्म, [न्] क्ली, (हरति ग्लानिमिति । हृ +

मनिन् ।) जृम्भणम् । इति शब्दरत्नावली ॥

हर्म्मितं, त्रि, (हर्म्म जातमस्येति । इतच् ।)

क्षिप्तम् । दग्धम् । इति मेदिनी ॥ जृम्भितम् ।
इति हर्म्मशब्दार्थदर्शनात् ॥

हर्म्मुटः, पुं, सूर्य्यः । कच्छपः । इति केचित् ॥

हर्म्म्यं, क्ली, (हरति जनमनांसीति । हृ + अघ्ना-

दित्वात् यत् मुट् च । धनिनां वासः । इत्य-
मरः । २ । २ । ९ ॥ धनिनां व्यवहारिकादीनां
वासः काष्ठेष्टकादिना कृतं धवलगृहं हर्म्म्यादि-
संज्ञकं स्यात् । हरति मनो हर्म्म्यं नाम्नीति
हृञो म्यः इति भरतः । अन्यच्च । हरति मनो
हर्म्म्यं अघ्नानित्वात् यत् मुट् च हर्म्म्यम् ।
आदिशब्देन स्वस्तिकाट्टालिकादेर्ग्रहणम् ।
धनिनां राजव्यतिरिक्तानां वासो गृहम् । एकं
काष्ठेष्टकादिकृतस्य धनिगृहस्य । इत्यमर-
टीकायां रायमुकुटः ॥ (यथा, --
“हर्म्म्यञ्चाक्लेदिभूमिर्नभसि च शयनं शीकरोष्ण-
प्रहीणे ॥”
इति वैद्यकपथ्यापथ्यविधौ वर्षोपचारे ॥)

हर्य, क्लमे । गतौ । इति कविकल्पद्रुमः ॥ भ्वा०-

पर०-क्लमे अक०-गतौ सक०-सेट् ।) रेफोपधः ।
हर्यति । क्लमो ग्लानिः । इति दुर्गादासः ॥

हर्य्यक्षः, पुं, (हरि पिङ्गलं अक्षि यस्य । षच् ।)

सिंहः । इत्यमरः । २ । ५ । १ ॥ कुबेरः । इति
जटाधरः ॥ (पिङ्गलनेत्रे, त्रि । यथा, महा-
भारते । ३ । ३०७ । ५ ।
“तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम् ।
हर्य्यक्षं वृषभस्कन्धं यथास्य पितरं तथा ॥”)

हर्य्यतः, पुं, (हर्य्यति गच्छतीति । हर्य्य + “भूमृ-

दृशियजीति ।” उणा० ६ । ११० । इति
अतच् ।) धोटकः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ अश्वमेधीयाश्वः ! इत्युणादि-
कोषः ॥

हर्य्यश्वः, पुं, (हरिनामा हरिवर्णो वा अश्वो

यस्य ।) इन्द्रः । इति केचित् ॥ (यथा, भाग-
वते । ८ । ११ । २१ ।
“हरीन् दशशतान्याजौ हर्य्यश्वस्य बलः शरैः ।
तावद्भिरर्द्दयामास युगपल्लघुहस्तवान् ॥”
हरिनामा हरिवर्णो वा अश्वः इति कर्म्मधारयेण
इन्द्राश्वः । यथा, महाभारते । ३ । २८९ । १३ ।
“अयं हर्य्यश्वयुग् जैत्रो मघोनः स्यन्दनोत्तमः ।
अनेन शक्रः काकुस्थः समरे दैत्यदानवान् ।
शतशः पुरुषव्याघ्र ! रथोदारेण जघ्निवान् ॥”)

हर्षः, पुं, (हृष तुष्टौ + घञ् ।) इष्टश्रवणजन्य-

सुखम् । इति महाभारते मोक्षधर्म्मः ॥
आह्लादः । तत्पर्य्यायः । मुत् २ प्रीतिः ३ प्रमदः ४
प्रमोदः ५ आमोदः ६ सम्मदः ७ आनन्दथुः ८
आनन्दः ९ शर्म्म १० शातम् ११ सुखम् १२
इत्यमरः । १ । ४ । २४ ॥ मुदा १३ मुदिता १४
आनन्दिः १५ नन्दिः १६ सातम् १७ सौख्यम् १८ ।
केचिंत्तु मुदादिसप्तकं प्रीतौ आनन्दथ्वादिपञ्चकं
सुखे । प्रीतिश्च सुखजो विकारः इत्याहुः ।
इति तट्टीकायां भरतः ॥ तथा च ।
“मुत् प्रीतिः प्रमदामोदसम्मोदमोदसम्मदाः ।
प्रमोदो हर्ष इत्येव हर्षपर्य्याय ईरितः ॥
आनन्दो नन्दथुर्नन्दः सुखमानन्दथुर्म्मुदा ।
सौख्यं शर्म्मोपजोषः स्यादानन्दं जोषमित्यपि ॥
मुदादिजोषपर्य्यन्तमेकपर्य्यायः इत्यपि ॥”
इति शब्दरत्नावली ॥ * ॥
हर्षस्य पुत्त्रः कन्दर्पः । यथा, --
पुलस्त्य उवाच ।
“कन्दर्पो हर्षतनयो योऽसौ कामो निगद्यते ।
स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः ॥”
इति वामने ५ अध्यायः ॥
(रोमाञ्चः । यथा । “हृष्येते हर्षयुक्तौ भवतः
हर्षश्च रोमाञ्चप्रायः ।” इति रुग्विनिश्चयस्य
वातव्याधिव्याख्याने विजयरक्षितः ॥)

हर्षकः, पुं, (हर्षयतीति । हृष् + णिच् + ण्वुल् ।)

पर्व्वतविशेषः । इति शब्दमाला ॥ हर्षकारके,
त्रि । इति शब्दरत्नावली ॥

हर्षणं, क्ली, (हृष + ल्युट् ।) हर्षः । इति धरणिः ।

(यथा, महाभारते । ७ । १४४ । ११५ ।
“तच्छिरः सिन्धुराजस्य शरैर्बद्धमवाहयत् ।
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च ॥”)

हर्षणः, पुं, (हर्षयतीति । हृष् + णिच् + ल्युः ।)

विष्कम्भादिसप्तविंशतियोगान्तर्गतचतर्द्दशयोगः ।
तत्र जातफलम् ।
“सुचारुगात्रं स्फुटपद्मनत्रं
शास्त्रप्रयत्ने विनयोपपन्नः ।
प्रसूतिकाले यदि हर्षणः स्या-
दमर्षणो नैव जनः कदाचित् ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
चक्षूरोगविशेषः । श्राद्धविशेषः । श्राद्धदेवः ॥
हर्षकारके, त्रि । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ७ । ३१ । ७६ ।
“एवं सुकलिलं युद्धमासीत् क्रव्यादहर्षणम् ।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्द्धनम् ॥”)

हर्षमाणः, त्रि, (हर्ष + ताच्छीले शानच् ।)

हर्षयुक्तः । तत्पर्य्यायः । विकुर्व्वाणः २ प्रमनाः ३
हृष्टमानसः ४ इत्यमरः । ३ । १ । ७ ॥ प्रीत-
मानसः ५ । इति शब्दरत्नावली ॥

हर्षयित्नुः, पुं, (हर्षयतीति । हृष तुष्टौ + णिच् +

“स्तनिहृषिपुषीति ।” उणा० ३ । २९ । इति
णेरित्नुच् ।) पुत्त्रः । स्वर्णे, क्ली । इति मेदिनी ॥
हर्षणशीले, त्रि ॥

हर्षस्वनः, पुं, (हर्षसूचकः स्वनः ।) आनन्द-

ध्वनिः तत्पर्य्यायः । किलकिला २ । इति
त्रिकाण्डशेषः ॥

हर्षिणी, स्त्री, हर्षयतीति ॥ हृष् + णिच् +

णिनिः । ङीप्) विजया । इति राजनिर्घण्टः ॥

हर्षितः, त्रि, आह्लादितः । हर्षोऽस्य लात इत्य-

नेन इतप्रत्ययेन निष्पन्नः ॥

हर्षुलः, पुं, (हृष तुष्टौ + “हृषेरुलच् ।) उणा०

१ । ९८ । इति उलच् ।) मृगः । कामुकः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ हर्षण-
शीले, त्रि ॥ (यथा, कथासरित्सागरे । १२२ ।
२६ ।
“प्राभृतं प्रत्युतेदृङ्मे सिद्धमद्येति हर्षुलः ॥”)

हल, झ विलेखे । इति कविकल्पदुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) झ, हालः हलः । हलति
भूमिं कृषकः । इति दुर्गादासः ॥

हलं, क्ली, (हलति भूमिमिति । हल + अच् ।)

लाङ्गलम् । इत्यमरः । २ । ९ । १३ ॥ तत्पर्य्यायः ।
“हलन्तु लाङ्गलं गोदारणञ्च सीरकुन्तलौ ।”
इति जटाधरः ॥
तत्र गोयोजने दोषादोषौ । हारीतः ।
“अष्टौगवं धर्म्महलं षड्गवं जीवितार्थिनाम् ।
चतुर्गवं नृशंसानां द्विगवं ब्रह्मघातिनाम् ॥”
इति तृतीययामार्द्धकृत्ये आह्निकतत्त्वम् ॥ * ॥
हलप्रवाहदिनादि यथा । दीपिकायाम् ।
“पूर्ब्बाग्नियाम्यफणिपित्र्यशिवान्यभेषु
रिक्ताष्टमीविगतचन्द्रतिथिं विहाय ।
द्व्यङ्गालिगोसमुदये विकुजार्किवारे
शस्तेन्दुयोगकरणेषु हलप्रवाहः ॥ * ॥
हलप्रवाहवद्बीजवपनस्य विधिः स्मृतः ।
चित्रायाञ्च शुभे केन्द्रे स्थिरर्क्षमनजोदये ॥”
पृष्ठ ५/५२३
भीमपराक्रमे ।
“वामे कृष्णं बलीवर्द्दं दक्षिणे लोहितं न्यसेत् ।
उत्तराभिमुखो भूत्वा कर्षकः कृषिमारभेत् ॥
हले तु योजिते यत्र क्षेत्रे ग्रासं करोति गौः ।
तत्र स्याद्द्विगुणं श्यस्यमवश्यं गर्गभापितम् ॥” * ॥
कृत्यचिन्तामणौ बलभद्रः ।
“सुखदा प्रतिपच्चैव द्वितीया कार्य्यसाधिनी ।
आरोग्यदा तृतीया च चतुर्थी कीटकृत् सदा ॥
पञ्चमी श्रीप्रदा नूनं षष्ठी च कलहप्रिया ॥
सप्तमी स्थानदा भीग्या वृषं हन्ति तथाष्टमी ॥
नवमी शस्यनाशाय दशमी भूतिदा सदा ।
एकादशी तथा कुर्य्याद्धनं धान्यं मनोरथम् ॥
द्वादशी प्राणसन्देहा सर्व्वसिद्धा त्रयोदशी ।
चतुर्द्दशी पतिं हन्ति पञ्चदश्येव निष्फला ॥
अमावस्याष्टमीषष्ठीरिक्ताश्च परिवर्ज्जयेत् ।
सौरिभीमदिने चैव कृष्यारम्भे धनक्षयः ॥
प्राजेशविष्णुतिष्येयु पितृकरोत्तरेषु च ।
अश्विनीवातपौष्णेषु मूलादितीन्दुभे तथा ॥
वारे भानुजशुक्रे च जीवे शीतकरे तथा ।
लग्ने स्त्रीगोमीनयुग्मे कृष्यारम्भं शुभं विदुः ॥
ऐशान्यां पुष्पनैवेद्यैः क्षेत्रपालञ्च पूजयेत् ।
सालङ्कारो हलधरः स्रग्भिश्च पूजितं हलम् ।
दध्याज्यमधुभिः श्रेष्ठं फलाग्रञ्च प्रलेपितम् ।
कर्षं प्रावर्त्तयेत् पाज्ञो नूतनेन हलेन च ॥ * ॥
हस्ताश्वतिष्यचन्देषु ब्रह्मन्द्रविष्णुवारुणे ।
वायव्येन्द्राग्निभे चैव रोहिण्यामुत्तरासु च ॥
वारे जीवज्ञशुक्रे च सोमे दिनकरे तथा ।
युग्मे युवतिगोमीने शस्तं स्याद्बीजवापनम् ॥”
राजमार्त्तण्डे ।
“प्राजेशश्रवणोत्तरादितिमघामार्त्तण्डतिष्या-
श्विनी-
पौष्णानुष्णमरीचयः शतभिषा स्वाती विशाखा
तथा ।
जीवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये
शस्यानां वपने भवन्ति लवने शस्ते तिथौ
रोपणे ॥”
देवलः ।
“गुरुसोमसूर्य्यशुक्राः क्षेम्याः सम्पत्कराः
शुभाः ।
बुधार्किभूमिपुत्त्राश्च न भवन्ति फलप्रदाः ॥
हन्ति मेषः पशून् सर्व्वान् स्वभावेनाथ वृश्चिकः ।
कर्क्कटेन भवेत् सौख्यं तुलायां न प्ररोहति ॥
केशरी शस्यघाती स्यात् पार्थिवोपद्रवं धनुः ।
मकरे चैव कुम्भे च भयमेव विनिद्दिशेत् ।
गोस्त्रीमन्मथमीनेषु शस्यं सम्पद्यते महत् ॥ * ॥
प्रशस्ते चन्द्रतारे च शुचिः शुकेन वाससा ।
स्नात्वा गन्धैश्च पुष्पैश्च पूजयित्वा विधानतः ॥
पृथ्वीञ्च ग्रहसंयुक्तां पूजयित्वा प्रजापतिम् ।
अग्निं प्रदक्षिणीकृत्य दीयते भूरिदक्षिणा ॥
कृष्णौ वृषौ नियोक्तव्यौ नवनीतैर्घृतेन वा ।
मुखपार्श्वं तयोर्लिप्यात् फालाग्रं कनकैः स्पृशेत् ।
उत्तराभिमुखो भूत्या क्षीरेणार्घ्यं प्रदापयेत् ।
ततः शुभकरः श्रीमान् कृषिकर्म्म समाचरेत् ॥ *
वर्ज्जयेत् भग्नशृङ्गञ्च क्षुरभङ्गञ्च वर्ज्जयेत् ।
विकलं छिन्नलाङ्गूलं कपिलं वृषभं तथा ॥
हलप्रवाहणं कार्य्यं नीरुग्भिः कृषिकर्म्मकैः ।
हलादिभिर्दृढैः क्षेममदृढैर्न शुभं भवेत् ॥
वृषभा यदि मुह्यन्ति तस्य विघ्नप्रदा भवेत् ॥”
कृषिरिति शेषः ।
“तस्मात् सर्व्वप्रयत्नेन निर्व्विघ्नं क्रारयेत् सदा ॥
एका जयकरी रेखा तृतीया चार्थदायिका ।
पञ्चमी या भवेद्रेखा बहुशस्यफला हि सा ॥
अत ऊर्द्ध्वं न कर्त्तव्यं महादोषस्ततो भवेत् ॥
संपूज्याग्निं द्विजं देवं कुर्य्याद्धलप्रवर्त्तनम् ।
हेमनि घृष्टफालाग्रं छिन्नरेखां न कारयेत् ॥
स्मर्त्तव्या वसवश्चेन्द्रः पृथू रामः सचन्द्रमाः ।
पराशरो बलभद्रः सर्व्वविध्नोपशान्तये ॥ * ॥
हले प्रवाह्यमाणे तु कूर्म्म उत्पद्यते यदि ।
गृहिणी म्रियते तस्य ततोऽग्नेश्च भयं भवेत् ॥
लाङ्गलं भिद्यते चापि प्रभुस्तत्र विनश्यति ।
ईशाभङ्गो यदा कर्त्तुः संशयो जीवितस्य च ॥
सुतनाशो युगभङ्गे समीने म्रियते सुतः ।”
समीने योक्त्रबन्धनकाष्ठद्वये ।
“योक्त्रच्छेदे तु व्यासङ्गः शस्यहानिश्च जायते ॥
हले प्रवाह्यमाणे तु गौरेकः प्रपतेद्यदि ।
प्रपतेद्युक्तमात्रस्तु बन्धनं स प्रपद्यते ।
ज्वरातिसाररोगेण कृषिभङ्गं विनिर्द्दिशेत् ॥
प्रवहेत् युक्तमात्रस्तु ततो गौः प्लवते यदि ।
वत्सालीढेन नर्द्दन्ति ततः शस्यं चतुर्गुणम् ॥ * ॥
हेमवारिविलिप्तस्य बीजस्योन्नयतः शुचिः ।
इन्द्रं चित्ते विधायाथ स्वयं मुष्टित्रयं वपेत् ॥
कृत्वा चान्योन्यप्रोत्साहं कर्षको हृष्टमानसः ।
प्राङ्मुखः कलसं गृह्य इमं मन्त्रमुदीरयेत् ॥
त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे ।
नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥
रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु ।
कर्षकास्तु भवन्त्यग्रा धान्येन च धनेन च
स्वाहा ॥” * ॥
कृत्यरत्नाकरे ब्रह्मपुराणम् ।
“चैत्रे च कृष्णपञ्चम्यां काश्मीरा च रजस्वला ।
नित्यं भवति तस्मात्तां कृत्वा शैलमयीं स्त्रियम् ॥
अभ्यङ्गवस्त्रनैविद्यैः पूजयेच्च दिनत्रयम् ।
पुष्पालङ्कारधूपैश्च गोरसं वर्ज्जयन्ति च ॥”
काश्मीरा पृथ्वा ।
“अष्टम्याञ्च ततः स्नाप्य ताभिरेव गृहे गृहे ।
सुस्नाताभिः प्रहृष्टाभिर्जीवपत्नीभिरेव च ।
अनन्तरं द्विजैः स्नाप्या सर्व्वौषधियुतैर्ज्जलैः ।
गन्धैर्बीजैस्तथा रत्नैः फलैः सिद्धार्थकैस्तथा ॥
स्नापयित्वा च तां देवीं गन्धैर्म्माल्यश्च पूजयेत् ।
तन्निवेदितशिष्टञ्च प्राशितव्यं गृहे गृहे ॥
अतः परमृतुस्नाता गर्भं गृह्णाति मेदिनी ॥” * ॥
तथा ।
“ब्रह्मा विष्णुश्च रुद्रश्च काश्यपः सुरभो तथा ।
इन्द्रः प्रचेताः पर्ज्जन्यः शेषश्चन्द्रार्क्क्यवह्नयः ॥
बलदेवो हलं भूमिर्वृषभो रामलक्ष्मणौ ।
रक्षोघ्नौ जानकी सीता युगं गगनमेव च ॥
सीता लाङ्गलपद्धतिः । युगं युगकाष्ठम् ।
“एते द्वाविंशतिः प्रोक्ताः प्रजानां पतयः शुमाः ।
गोमङ्गले तु संपूज्याः कृष्यारम्भे महोत्सवे ॥
अर्घैः पुप्पैश्च धूपैश्च माल्यै रत्नैः पृथक् पृथक् ।
हलेन वाहयेद्भूमिं स्वयं स्नातः स्वलङ्कृतः ॥”
तथा ।
“उप्त्वा बीजन्तु तत्रैव भोक्तव्यं बान्धवैः सह ॥”
बीजवपनं प्राजापत्यतीर्थेन । यथा, हारीतः ॥
कनिष्ठायाः पश्चात् प्राजापत्यमावपनं होम-
तर्पणे प्राजापत्येन कुर्य्यात् । इति । होमतर्पणे
लाजहोमसनकादितर्पणे । राजमार्त्तण्डे ।
“नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम् ।
नित्यञ्च त्रिहले भक्तं नित्यमेकहले ऋणम् ॥” * ॥
कृषिपराशरः ।
“वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणीरवौ ।
अतः परिस्मिन्नधमं न जातु श्रावणे शुभम् ॥”
ज्योतिषे ।
“पूर्ब्बभाद्रपदा मूलं रोहिण्युत्तरफल्गुनी ।
विशाखा शतभिषा वाथ धान्यानां रोपणे
वराः ॥
सदोप्त्वा रजनीं नीलीं पुत्त्रवित्तैर्वियुज्यते ।
स्वयं जाते पुनस्ते द्वे पालयन्नैव दुष्यति ॥
आरामे गृहमध्ये वा मोहात् सर्षपमावपन् ।
पराभवं रिपोर्याति ससाधनधनक्षयम् ॥
निशा नीली पलाशश्च चिञ्चा श्वेतापराजिता ।
कोविदारश्च सर्व्वत्र सर्व्वं निघ्नन्ति मङ्गलम् ॥”
निशा हरिद्रा । कोविदारको रक्तकाञ्चनः ॥ *
“हेमाम्भसा वृक्षबीजं स्नातो मन्त्रेण रोपयेत् ॥
वसुधेति सुशीलेति पुण्यदेति धरेति च ।
नमस्ते सुभगे न्तियं द्रुमोऽयं वर्द्धतामिति ॥ * ॥
लिखित्वालक्तकेनापि मन्त्रं शस्येषु बन्धयेत् ।
न व्याधिकीटहिंस्राणां भयं तत्र भवेत् क्वचित् ॥”
सिद्धिः प्रबलतरतरङ्गतरलितमृदुतरसमीरण-
वनोद्देशे श्रीमद्रामभद्रपादाः कुशलिनः समुद्र-
तटे नानाशतसहस्रवानराणां मध्ये खरनखर-
पञ्चोर्द्धलाङ्गूलं पवनसुतं वायुवेगं परचक्रप्रमथनं
श्रीमद्धनूमन्तमाज्ञापयन्ति अमुकस्याखण्डक्षेत्रे
वाताभोम्भो गान्धीरुती पाण्डरमुण्डी धूली-
शृङ्गारतल्पा कृषराङ्गता फडिङ्गा एला वानरा
गरुडा इमडूका महिषादिरोगं खण्डयत क्षण-
मपि विलम्बं मा चरत यदि विलम्बं कारयत
तदा युप्मान् शतखण्डं कारयामीति । ॐ घ्राँ
व्रीँ घ्रौँ श्रीरामाय नमः । इति शस्येषु बन्ध-
येत् ॥ * ॥ धान्यच्छेदनम् । दीपिकायाम् ।
“याम्याजपादहिधनानलतोयशक्र-
चित्रोत्तरोडुषु कुजार्कजवारवर्जम् ।
शस्तेन्दुयोगकरणषु तिथौ विरिक्ते
धान्यच्छिदिः स्थिरनरस्वमृगोदयेषु ॥”
बलभद्रः ।
“रेवतीहस्तमूसेषु श्रवणे नागयाम्ययोः ।
पृष्ठ ५/५२४
पितृदेवे तथा सौम्ये धान्यच्छेदं मृगोदये ।”
अथ धान्यच्छेदप्रकारः ।
“सपत्रौ माषमुद्गौ च यवधान्ये सकाण्डके !
छिन्द्यात्तिलञ्च निष्पत्रमेतत् पाराशरं मतम् ॥”
ग्रराशरः ।
“न मुष्टिग्रहणं कुर्य्यात् कदाचिद्घटपौषयोः ।
ईशाने लवनं कुर्य्यात् सार्द्धमुष्टिद्वयं शुचिः ॥
पौष्णे पुष्ये शुभाहे वा पूजयित्वेष्टदेवताम् ।
शस्यविघ्नप्रशान्त्यर्थं क्षेत्रे वाहकभोजनम् ॥”
बौधायनः ।
“रथाश्वगजधान्यानां गवां चैव रजः शुभम् ।
अथाशस्तं समूहिन्याः श्वाजाविखरवाय-
साम् ॥”
समूहिनी संमार्ज्जनी ॥ * ॥ कृत्यचिन्तामणौ
मेधिरोपणम् ।
वटश्च सप्तपर्णश्च गम्भारी शाल्मली तथा ।
औडुम्बरी तथा धात्री या चान्या क्षीर-
धारिणी ।
स्त्रीनाम्नी कर्षकैर्नित्यं मेधिः कार्य्या फलप्रदा ॥”
बीजसञ्चयदिनादि तच्छब्दे द्रष्टव्यम् ॥ * ॥ * ॥
अथ प्रयोगः ।
पौर्णमास्यन्तचैत्रीयकृष्णपञ्चम्यां पृथ्वी रजस्वला
तां दिनत्रयमेकस्मिन् पर्व्वताकारे उच्चपदेशे
सधवाः स्त्रियः प्रपूजयेयुरष्टम्यां तां स्नापयित्वा
ताः पूजयेयुः । ततः शुभदिने बीजवपनदिने
वा सर्व्वौषधिगन्धबीजरत्नफलश्वेतसर्षपैः पृथ्वीं
स्नापयित्वा गन्धादिभिः पूजयेत् । नैवेद्यशेषञ्च
पश्चाद्भोक्तव्यम् ॥ * ॥ अथ हलप्रवाहदिने बीज-
षपनदिने च कृतस्नानादिराचान्तो गर्त्तं क्षेवे
कृत्वा जलेनापूर्य्य तत्र प्रजापतिं सूर्य्यादिनव-
ग्रहान् पृथ्वीञ्च पूजयेत् ।
“हिरण्यगर्भे वसुधे शेषस्योपरिशायिनि ।
वसाम्यहं तव पृष्ठे गृहाणार्घ्यं धरित्रि मे ॥”
इति मन्त्रेण क्षीरेणार्घ्यं दद्यात् । ऐशान्यां
पुष्पनैवेद्यैः प्रणवादिनमोऽन्तेन ब्रह्मणे विष्णवे ।
नमस्ते बहुरूपाय विष्णवे परामात्मने स्वाहा ॥
इत्यनेन त्रिः पूजयेत् । रुद्राय कश्यपाय सुरभ्यै
इन्द्राय । तदर्घ्यमन्त्रस्तु ।
“शक्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देव तुभ्यमिन्द्राय वै नमः ॥”
प्रचेतमे पर्ज्जन्याय शेषाय चन्द्राय अर्काय वह्रये
बलदेवाय हलाय भूमये वृषभाय रमाय लक्ष्म-
णाय जानक्यै सीतायै युगाय गगनाय इति
द्वाविंशतिं पूजयेत् क्षेत्रपालमग्निं द्विजञ्च पूज-
येत् । अग्निं प्रदक्षिणीकृत्य ब्राह्मणाय दक्षिणां
दद्यात् । आम्रपल्लवौदनदधीनि गर्त्ते निःक्षिप्य
मृत्तिकाभिः पूरयेत् । कृष्णी वृषौ नवनीतै-
र्घृतेन वा मुखषार्श्वयोर्निलिम्पेत् । हलप्रवाह-
कान् गन्धादिना भूषयित्वा हलं माल्यादिभिः
पूजयित्वा दधिघृतमधुभिः फालाग्रं प्रलिप्य
हेम्ना फालाग्रं घर्षयित्वा कर्षयेत् । वस्विन्द्र-
प्रथरामेन्दुपराशरबलभद्रान् स्मरेत् । एका
तिस्रः पञ्च वा रेखा हलेन कार्य्याः । भग्नशृङ्ग-
खुरलाङ्गूलाः कपिलाश्च वृषा न योक्तव्याः ।
हलप्रवाहकाश्च समर्थाः कर्त्तव्याः । हलानि
नवानि दृढानि कर्त्तव्यानि । वृषभयुद्धादिकं न
शुभदं वृषभाणां नर्द्दनेन चतुर्गुणं शस्य मूत्र-
पुरीषोत्सर्गे तथा ॥ * ॥ वीजवपने त्विदमधि-
कम् । सुवर्णजलसंयुक्तं बीजमुष्टित्रयं इन्द्रं
ध्यायन् स्वयं प्राजापत्येन तीर्थेन वपेत् । उभय-
त्रैव प्राङ्मुखः जलपूर्णं कलसं गृहीत्वा ।
“त्वं वै वसुन्धरे सीते बहुपुष्पफलप्रदे ।
नमस्ते मे शुभं नित्यं कृषिं मेधां शुभे कुरु ॥
रोहन्तु सर्व्वशस्यानि काले देवः प्रवर्षतु ।
कर्षकास्तु भवन्त्वग्य्रा धान्येन च धनेन च
स्नाहेति प्रार्थयेदिति ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
अपि च ।
“अमावस्यां पितृश्राद्धे अम्बुवाचीदिने तथा ।
लाङ्गलेन क्षतं क्षेत्रं पृथिवी कम्पते सदा ॥”
इति कर्म्मलोचनम् ॥ * ॥
स्मृतिसागरसारे गोभिलः ।
“हलैर्व्वा शकटैर्व्वापि वाहयेत् यो वृषं स्वयम् ।
प्राजापत्यद्वयं कुर्य्यात् द्विगुणं योषितां गवाम् ॥
वृषभन्तु समुत्सृष्टं कपिलां वापि कामतः ॥
योजयित्वा हले कुर्य्यात् व्रतं चान्द्रायणद्वयम् ॥”
इति तिथ्यादितत्त्वम् ॥

हलद्दी, स्त्री, हरिद्रा । इति राजनिर्घण्टः ॥

हलधरः, पुं, (धरतीति । धृ + अच् । हलस्य

धरः ।) बलदेवः । यथा, --
“नीलाम्बरो हलधरो हलभृद्धालभृत् बलः ॥”
इति शब्दरत्नावली ॥
(यथा च महाभारते । १ । २२० । ७ ।
“ततो हलधरः क्षीवो रेवतीसहितः प्रभुः ।
अनुगम्यमानो गन्धर्व्वैरचरत्तत्र भारत ! ॥”)
हालिकः । यथा, ज्योतिस्तत्त्वे ।
“सालङ्कारो हलधरः स्रग्भिश्च पूजितं हलम् ॥”

हलभूतिः, स्त्री, (हलसाध्या भूतिः ।) कृषिकर्म्म ।

यथा, --
“अथ सेवा श्ववृत्तिः स्यात् स्त्रियां कृषिश्च
कर्षणम् ।
कर्षोऽमृतञ्च प्रकृतं हलभूतिर्महाधनम् ॥”
इति शब्दरत्नावली ॥”

हलभृत्, पुं, (हलं विभर्त्तीति । भृ + क्विप् । हलस्य

भृदिति वा । बलदेवः । इति त्रिकाण्डशेषः ॥
(यथा, मेघदूते । ६१ ।
“अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥”)

हलभृतिः, पुं, (हलेन भृतिर्भरणमस्य ।) मुनि-

विशेषः । तत्पर्य्यायः । उपवर्षः २ कृतकोटिः ३
अयाचितः ४ । इति त्रिकाण्डशेषः ॥ (हलस्य
हलेन वा भृतिः ।) कृषिकर्म्म च ॥

हलराक्षं, क्ली, आहुल्यम् । इति राजनिर्घण्टः ॥

हला, व्य, नाट्योक्तौ सखीं प्रत्याह्वानम् । इत्य-

मरः । १ । ७ । १५ ॥

हला, स्त्री, सखी, । इति जटाधरः ॥ मद्यम् ।

पृथिवी । जलम् । इत्यनेकार्थकोषः ॥

हलायुधः, पुं, (हलमायुधं यस्य ।) बलदेवः ।

इत्यमरः । १ । १ । २४ ॥ (यथा, महाभारते ।
१ । २२१ । २३ ।
“ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् ।
तूष्णींभूतास्ततः सर्व्वे साधु साध्विति चाब्रुवन् ॥”)

हलाहः, पुं, चित्रिताश्वः । इति हेमचन्द्रः ॥

हलाहलः, पुं, (हलमिव आ समन्तात् सर्व्वाङ्गेषु

हलति कर्षतीति । आ + हल + अच् ।) विष-
भेदः । यथा, --
“समौ कञ्चुकनिर्म्मोकौ क्ष्वेडस्तु गरलं विषम् ।
पुंसि क्लावे च काकोलकालकूटहलाहलाः ॥”
इत्यमरः । १ । ८ । १० ॥
हलमिव आ समन्तात् हलति विलिखति
हलाहलः । हलज विलेखे अन् स्वार्थे ष्णे
हालाहलश्च । निपातनात् ललोपे हाहलश्च ।
“हालाहलं हालहलं हाहलञ्च हलाहलम् ॥”
इति रुद्रः ॥
एते काकोलादयस्त्रयः पुंसि क्लीवे चेत्यन्वयः ।
केचित्तु क्ष्वेडभेदा इति पुंस्त्वे वक्ष्वमाणत्वात्
पुंसि क्लीवे चेत्यस्य विषमित्यनेन सम्बन्धः ।
इत्याहुः । तन्नातिहृद्यम् ।
“काकोलमुग्रतेजः स्यात् कृष्णच्छवि महा-
विषम् ।”
इति वैद्यकम् ।
“तत् कालकूटं विषमुग्रतेजः
कण्ठे धृतं पर्व्वतराजकन्ये ॥”
इति व्यासः ॥
हालाहलं विषमिव प्रगुणं तदेव इति वामनः ॥
“मधु तिष्ठति वाचि योषितां हृदये हलाहलं
महद्विषम् ।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव
ताड्यते ॥”
इति कुलचरितेऽश्वघोषः । इति भरतः ॥
(मूलजविषभेदः ।
“सङ्कोचं मर्क्कटं शृङ्गिविष हलाहलन्तया ।
एवमादीनि चान्यानि मूलजानि स्थिराणि च ॥”
इति चरके चिकित्सास्थाने २५ अध्याये ॥)

हलाहलः, पुं, (हलाहलोऽस्यास्तीति ।) अच् ।)

ब्रह्मसर्पः । अञ्जना । इति मेदिनी ॥ बुद्धविशेषः ।
इति त्रिकाण्डशेषः ॥

हलिः, पुं, (हलति कर्पति भूमिमिति । हल +

“सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति
इन् बृहद्धलम् । इति शब्दरत्नावली ॥ तत्-
पर्य्यायः । जित्या २ । इति हेमचन्द्रः ॥

हलिनी, स्त्री, (हलमिव आकारोऽस्त्यस्या इति ।

इनिः । ङीप् ।) लाङ्गलिकीवृक्षः । विषलाङ्गला
इति भाषा इति रत्नमाला ॥ (पर्य्यायोऽस्य
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ।
“कलिहारी तु हलिनी लाङ्गली शक्रपुष्प्यपि ।
विषल्याग्निशिखानन्ता वह्निवक्त्वा च गर्भनुत ॥”
पृष्ठ ५/५२५
“लाङ्गली हलिनी च स्यात्” इति गारुडे २०८
अध्याये ॥) हलसमूहश्च ॥

हलिप्रियः, पुं, (हलिनो बलदेवस्य प्रियः ।)

कदम्बवृक्षः । इत्यमरः । २ । ४ । ४२ ॥ (पर्य्यायो
यथा, --
“कदम्बः प्रियको नीपो वृत्तपुष्पो हलिप्रियः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हलिप्रिया, स्त्री, (हलिनो बलदेवस्य प्रिया ।)

मदिरा । इति राजनिर्घण्टः । अमरश्च । २ ।
१० । ३९ ॥ (विवरणमस्या मदिराशब्दे ज्ञात-
व्यम् ॥)

हली, स्त्री, (हल्यते इति । हल + इन् । ङीष् ।)

कलिकारीवृक्षः । इति राजनिर्घण्टः ॥

हली, [न्] पुं, (हलमस्यास्तीति । हल + इनि ।)

बलदेवः । इत्यमरः । १ । १ । २४ ॥ (यथा,
उपदेशशतके । ६९ ।
“क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् ।
अनुनीतस्तदमुञ्चत् क्रोधाविष्टोऽनुनेतव्य ॥”)
कृषिकर्म्मकर्त्ता । तत्पर्य्यायः । कुटुम्बी २
कर्षकः ३ क्षेत्री ४ कृषिकः ५ कार्षिकः ६
कृषीवलः ७ । इति हेमचन्द्रः ॥

हलीनः, पुं, (हलाय हितः । हल + छः ।)

शाकवृक्षः । इति शब्दचन्द्रिका ॥

हलीमकः, पुं, रोगविशेषः । यथा पाण्डुरोगस्यैव

भेदं हलीमकञ्चाह ।
“यदा तु पाण्डोर्व्वर्णः स्याद्धरितश्यावपीतकः ।
बलोत्साहः क्षयस्तन्द्रामन्दाग्नित्वं मृदुज्वरः ॥
स्त्रीष्वहर्षोऽङ्गमर्द्दश्च श्वासतृष्णारुचिभ्रमाः ।
हलीमकं तदा तस्य विद्यादनिलपित्ततः ॥”
पाण्डोः पाण्डुरोगिणः ॥ तस्य चिकित्सा यथा,
“मारितस्यायसश्चूर्णं मुस्ताचूर्णेन संयुतम् ।
खदिरस्य कषायेण पिबेद्धन्तुं हलीमकम् ॥
सिता तिक्ता बला यष्टी त्रिफला रजनीयुगैः ।
लेहं लिह्यात् समध्वाज्यं हलीमकनिवृत्तये ॥
अमृतलतारमकल्कपसाधितं तुरगविद्विषः सर्पिः ।
क्षीरचतुर्गुणमेतद्वितरेच्च हलीमकार्त्तेभ्यः ॥”
इति अमृताघृतम् ॥ * ॥
“मधुरैरन्नपानेस्तं वातपित्तहरैर्हरेत् ।
कामलापाण्डुरोगोक्तक्रियाञ्चात्रोपयोजयेत् ॥”
अथ सामान्यतः पाण्डुरोगकामलाहलीमक-
चिकित्सा ।
“फलत्रिकामृतावासातिक्तामूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्यात् पाण्डुरोगं सकामलम् ॥ १
त्र्यूषणं त्रिफला मुस्तं विडङ्गं चव्यचित्रके ।
दार्व्वी त्वङ्माक्षिको धातुर्ग्रन्थिको देवदारु च ॥
एपां द्विपलिकान् भागवान् कृत्वा चूर्णं पृथक्
पृथक् ।
मण्डूरं द्विगुणं चूर्णाच्छुद्धमञ्जनसन्निभम् ॥
मूत्रे चाष्टगुणे पक्त्वा तस्मिंस्तत् प्रक्षिपेत्ततः ।
औडम्बरसमान् कृत्वा वटकांस्तान् यथाग्नि च ।
उपयुञ्जीत तक्रेण जीर्णे सात्म्यञ्च भोजनम् ।
मण्डूरवटका ह्येते प्राणदाः पाण्डुरोगिणाम् ॥
कुष्टानि जठरं शोथमूरुस्तम्भं कफामयान् ।
अर्शांसि कामलां मेहं प्लीहानं शमयन्ति च ॥”
इति त्र्यूषणादिमण्डूरवटकः ॥ २ ॥
“किराततिक्तं सुरदारु दार्व्वी
मुस्ता गुडूची कटुका पटोलम् ।
दुरालभा पर्पटकं सनिम्बं
कटुत्रिकं वह्निफलत्रिकञ्च ॥
फलं विडङ्गस्य समांशकानि
सर्व्वैः समं चूर्णमथायसश्च ।
सर्पिर्मधुभ्यां वटिका विधेया
तक्रानुपानात् भिषजा प्रयोज्या ॥
निहन्ति पाण्डुञ्च हलीमकञ्च
शोथं प्रमेहं ग्रहणारुजञ्च ।
श्वासञ्च कासञ्च सरक्तपित्त-
मर्शांस्यथोरुग्रहमामवातम् ॥
व्रणांश्च गुल्मान् कफविद्रधिञ्च
श्वित्रञ्च कुष्ठञ्च ततः प्रयोगात् ॥”
इति अष्टादशाङ्गलोहम् ॥ ३ ॥
“यवगोधूमशाल्यन्नै रसैर्जाङ्गलजैर्हितैः ।
मुद्गाढकीमसूराद्यैरेषु भोजनमिष्यते ॥”
एषु पाण्डुरोगकामलाहलीमकेषु ॥ ४ ॥
इति भावप्रकाशः ॥

हलीशा, स्त्री, (हलस्य ईशा । शकन्ध्वादित्वात्

साधुः ।) लाङ्गलदण्डः । इति मुग्धबोधव्याक-
रणम् ॥

हल्यं, त्रि, (हलेन कृष्टम् । हल + यत् ।) कर्षित-

क्षेत्रम् । इत्यमरः । २ । ९ । ८ ॥ अस्य पर्य्यायः
कृष्टशब्दे द्रष्टव्यः ॥ (हलस्येदमिति ।) हल-
सम्बन्धि च ॥ (पुं, हलस्य कर्षः । हल + “मत-
जनहलात् करणजल्पकर्षेषु ।” ४ । ४ । ९७ ॥
इति यत् ॥)

हल्यं, क्ली, (हलस्येदमिति । यत् ।) वैरूप्यम् ।

इति केचित् ॥

हण्या, स्त्री, (हलस्य समूहः । हल + “पाशा-

दिभ्यो यः ।” ४ । २ ॥ ४९ । इति यः ।)
हलसमूहः । इत्यमरः । ३ । ३ । ४१ ॥

हल्लकं, क्ली, रक्तकह्लारम् । हेला इति भाषा ।

तत्पर्य्यायः । रक्तसन्धकम् २ । इत्यमरः । १ ।
१० । ३६ ॥ रक्तसौगन्धिकम् ३ रेचना ४ ।
इति जटाधरः ॥ अल्पगन्धम् ५ सोमाख्यम् ६
रक्तकैरवम् ७ । इति रत्नमाला ॥

हल्लनं, त्रि, प्रचलायितम् । इति जटाधरः ॥

हल्लीषं, क्ली, स्त्रीणां सह नर्त्तनम् । इति

त्रिकाण्डशेषः ॥ (पुं, उपरूपकविशेषः । तल्ल-
क्षणं यथा, साहित्यदर्पणे । ६ । ५५५ ।
“हल्लीष एव एकाङ्कः सप्ताष्टौ दश वा स्त्रियः ।
वागुदात्तैकपुरुषः कैशिकीवृत्तसङ्कुलः ।
मुखान्तिमौ तथा सन्धी बहुताललयस्थितिः ॥”)

हल्लीषकं, क्ली, (हल्लीषमेव । स्वार्थे कन् ।)

स्त्रीणां मण्डलिकानृत्यम् । इति जटाधरः ॥
“मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीषकन्तु तत् ॥
इति हेमचन्द्रः ॥
एकस्य पुंसो बहुभिः स्त्रीभिः क्रीडनम् । तत्तु
रासक्रीडा । यथा, --
“गोपीनां मण्डलीनृत्यबन्धे हल्लीषकं विदुः ॥”
इति कोषात् ॥
तल्लक्षणन्तु ।
“पृथुं सुवृत्तं मसृणं वितस्ति-
मात्रोन्नतं कौ विनिखन्य शङ्कुकम् ।
आक्रम्य पद्भ्यामितरेतरन्तु
हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥”
इति हरिवंशटीकायां नीलकण्ठः ॥
हल्लीसकं दन्त्यसकारमध्यमपि ॥

हवः, पुं, (हु लि होमे + अप् ।) होमः । आज्ञा ।

(ह्वे + “भावेऽनुपसर्गस्व ।” ३ । ३ । ७५ । इति
अप् सम्प्रसारणञ्च ।) आह्वानम् । अध्वरः ।
इत्यमरः । ३ । २ । ८ ॥

हव ङ्गः, पुं, कांस्यपात्रे दधिमिश्रितान्नभक्षणम् ।

इति केचित् ॥

हवनं, क्ली, (हु + ल्युट् ।) होमः । इति शब्द-

रत्नावली ॥ (यथा, महाभारते । १ । १६८ ।
३४ ।
“याजस्तु हवनस्यान्ते देवीमाज्ञापयत्तदा ।
प्रैहि मां राज्ञि पृषति ! मिथुणं त्वामुपस्थितम् ॥)

हवनायुः, [स्] पुं, (हवनमेव आयुर्यस्य ।)

अग्निः । इति शब्दरत्नावली ॥

हवनी, स्त्री, (हूयतेऽत्रेति । हु + ल्युट् । ङीप् ।)

होमकुण्डम् । इति त्रिकाण्डशेषः ॥

हवनीयं, त्रि, होमीयद्रव्यम् । हव्यम् । हुधातो-

रनीयप्रत्ययेन निष्पन्नम् ॥

हविः, [स्] क्ली (हूयतेऽनेनेति । हु + “अर्च्चि-

श्रुचिहुसृपीति ।” उणा० २ । १०९ । इति
इसिः ।) हवनीयद्रव्यम् । तत्पर्य्यायः । सान्ना-
य्यम् २ । घृतम् । इत्यमरः । २ । ३ । २७ ॥
(यथा, महाभारते । १ । ८५ । ११ ।
“न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥”)
जलम् । इति केचित् ॥ (विष्णुः । इति महा
भारतम् । १३ । १४९ । ५२ ॥ शिवः । इति च
तत्रैव । १३ । १७ । १०२ ॥)

हवित्री, स्त्री, होमकुण्डम् । इति हेमचन्द्रः ॥

हविरशनः, पुं, (हविरशनं यस्य ।) अग्निः । इति

हेमचन्द्रः ॥ घृतभोजने, क्ली ॥

हविर्गन्धा, स्त्री, (हविषो गन्धो यस्याम् ।) शमी ।

इति राजनिर्घण्टः ॥ शमीशब्देऽस्या गुणा-
दयो ज्ञायव्याः ॥

हविर्गेहं, क्ली, (हविषो गेहम् ।) होमगृहम् ।

तत्पर्य्यायः । होत्रीयम् २ । इति हेमचन्द्रः ॥

हविर्म्मन्थः, पुं, (हविषो हवनीयाय मथ्यते इति ।

मन्थ + घञ् ।) गणिकारीवृक्षः । इति रत्र-
माला ॥

हविष्यं, क्ली, (हविषे हितम् । हविस् + “उग-

वादिभ्यो यत् ।” ५ । १ । २ । इति यत् ।)
घृतम् । यथा, --
पृष्ठ ५/५२६
“घृतं हविष्यमाज्यञ्च हविराघारसर्पिषी ॥”
इति हेमचन्द्रः ॥
हविष्यान्नम् । यथा, --
“त्रयोदश्यां कृतस्नानो ब्रह्मचारी समाहितः ।
निरामिषं हविष्यं वा सकृद्भुञ्जीत नान्यथा ॥”
इति शितरात्रिव्रतकथा ॥ * ॥
अन्यच्च ।
“हेमन्ते प्रथमे मासि नन्द व्रजकुमारिकाः ।
चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्च्चनव्रतम् ॥”
इति श्रीमद्भागवतम् ॥

हविष्यान्नं, क्ली, (हविष्यमन्नम् ।) व्रतादौ भक्ष-

णीयद्रव्यविशेषः । यथा, स्मृतिः ।
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ।
कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥
षष्टिका कालशाकञ्च मूलकं केमुकेतरत् ।
लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।
तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली ॥
कदली लवली धात्री फलान्यगुडमैक्षवम् ।
अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते ॥”
अत्रास्विन्नमित्युपादानादन्यत्र स्विन्नधान्यतण्डु-
लेम दोषः । हैमन्ति कमित्यभिधाय अगस्त्य-
संहितायाम् ।
“नारिकेलफलञ्चैव कदलीं लवलीन्तथा ।
आम्रमामलकञ्चैव पनसञ्च हरीतकीम् ।
व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः ॥”
इति तिथ्यादितत्त्वम् ॥

हव्यं, क्ली, (हूयते इति । हु + यत् ।) दैवान्नम् ।

इत्यमरः । २ । ७ । २४ ॥ (यथा, मनुः । ३ । ९७ ।
“नश्यन्ति हव्यकव्यानि नराणामविजानताम् ।
भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥”)
हवनीयद्रव्यञ्च ॥

हव्यपाकः, पुं, (हव्याय पाको यस्य ।) चरुः ।

इत्यमरः । २ । ७ । २२ ॥

हव्यवाहः, पुं, हव्यं वहतीति । वह + अण् ।)

अग्निः । इति रत्नमाला ॥ (यथा, महा-
भारते । १ । २२४ । ५८ ।
“एतच्छ्रुत्वा हुतवहाद्भगवान् सर्व्वलोकभृत् ।
हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव ॥”)

हव्यवाहनः, पुं, (हव्यं वाहयतीति । वह + णिच् +

ल्युः ।) अग्निः । इत्यमरः । १ । १ । ५८ ॥
(यथा, महाभारते । १ । २२४ । १३ ।
“न ह्येतत् कारणं ब्रह्मन्नल्पं सस्प्रतिभाति मे ।
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः ॥”)

हव्याशः, पुं, (हव्यमश्नातीति । हव्य + अश् +

अण् ।) हुताशनः । इति शब्दरत्नावली ॥

हव्याशनः, पुं, (हव्यं अशनं यस्य ।) अग्निः ।

इति हेमचन्द्रः ॥

हस, ए हासे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-उपहामे सक०-सेट् ।) ए, अह-
मात् । हामोऽपूर्ब्बप्रतीत्या कपोलस्य विकसिती-
करणम् । तत्रैवाकर्म्मकः । हसति शनैः शुष्क-
रुदितस्वरी । इति गोवर्द्धनः । यदा तु कस्य
चिद्दोषादिकमुद्दिश्य तत् स्यात्तदा सकर्म्मकः ।
हसन्तमन्तर्व्वलमर्व्वतां रवेरिति श्रीहर्षः ॥
हसन्ति साधवश्चीरम् । इति दुर्गादासः ॥

हसः, पुं, (हसनमिति । हस + “स्वनहसोर्वा ।”

३ । ३ । ६२ । इति अप् ।) हास्यम् । इत्य-
मरः । १ । ७ । १८ ॥ (यथा, वाजसनेयसंहि-
तायाम् । ३० । ६
“हमाय कारिमानन्दाय स्त्रीषखमिति ॥”)

हसन्, [त्] त्रि, हास्यं कुर्व्वन् । हसधातोः शतृ-

प्रत्ययेन निष्पन्नः ॥ (यथा, हरिवंशे । १४६ । २७ ।
“हसन् विहासांश्च जहाति हर्षात्
वाष्पागमं कृष्णविनोदनार्थम् ॥”)

हसनं, क्ली, (हस + ल्युट् ।) हास्यम् । इति

मेदिनी ॥ (यथा, वृहत्संहितायाम् । ४६ । २५ ।
“हसने देशभ्रंशं रुदिते च व्याधिबाहुल्यम् ॥)

हसनी, स्त्री, (हसतीति । हस + कृत्यल्युट इति

ल्युट् । टिढ्ढेति ङीप् ।) अङ्गारधानी । इति
मेदिनी ॥

हसनीमणिः, पुं, अग्निः । इति त्रिकाण्डशेषः ॥

हसन्तिका, स्त्री, अङ्गारधानी । इति हेमचन्द्रः ॥

हसन्ती, स्त्री, (हसतीति । हस + शतृ । ङीप् ।)

अङ्गारधानिका । इत्यमरः । २ । ९ । २९ ॥
मल्लिकाविशेषः । शाकिनीभेदः । इति मेदिनी ॥
(हास्यं कुर्व्वती । यथा कथासरित्सागरे । ११ ।
३१ ।
“अस्तीहोज्जयिती नाम नगरी भूषणं भुवः ।
हसन्तीव सुधाधौतैः प्रासादैरमरावतीम् ॥”)

हसिकः, त्रि, (हसो हासोऽस्त्यस्तेति । ठन् ।)

हास्यकर्त्ता । इति केचित् ॥ हसशब्दात् ष्णिक-
प्रत्ययेन निष्पन्नः ॥

हसितं, क्ली, (हस + क्तः ।) हास्यम् । (यथा,

वृहत्संहितायाम् । ६८ । ७४ ।
“हासतं शुभदमकम्पं
स निमीलितलोचनञ्च पापस्य ।
हृष्टस्य हसितमसकृत्
सोन्मादस्यासकृत् प्रान्ते ॥”)
कामदेवधनुः । इति केचित् ॥ (हास्यकरणम् ।
यथा, कथासरित्सागरे । ५९ । १५९ ।
“अथ कर्म्मगतिं चित्रां दृष्ट्वास्य हसितं मया ॥”
परिहासः । यथा, किराते । १३ । ४७ ।
“कीर्त्तितानि हसितेऽपि तानि यं
व्रीडयन्ति चरितानि मानिनम् ॥”)

हसितः, त्रि, (हस + क्तः ।) विकसितः । इति

शब्दमाला ॥ कृतहासश्च ॥

हस्तं, क्ली, (हस + तन् ।) चर्म्मप्रसेविका । इति

केचित् ॥

हस्तः, पुं, (हसति विकशतीति । हस + “हसि-

मृग्रिण्वामीति ।” उणा० ३ । ८६ । इति
तन् ।) शरीरावयवविशेषः । स च कर्म्मे-
न्द्रियः । हात इति भाषा । ततपर्य्यायः ।
पाणिः २ समः ३ शयः ४ । इत्यमरमाला ॥
पञ्चशाखः ५ । इत्यमरः ॥ करः ६ भुजः ७ ।
इति जटाधर ॥ कुलिः ८ भुजादलः ९ । इति
शब्दरत्नावली ॥
“हस्तावध्यात्ममित्याहुरध्यात्मविदुषो जनाः ।
अधिभूतञ्च कर्म्माणि शुक्रस्तत्राधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
हस्तस्य शुभाशुभलक्षणं बाहुशब्दे द्रष्टव्यम् ॥ * ॥
विस्तृतकरप्रकोष्ठः । इत्यमरः । २ । ६ । ६८ ॥
स च चतुर्व्विंशत्यङ्गुलपरिमाणम् । इति भरतः ॥
यथा, --
“यवानां तण्डुलैरेकमङ्गलं चाष्टभिर्भवेत् ।
अदीर्घयोजितैर्हस्तश्चतुर्विंशतिभिरङ्गुलैः ॥”
इति तिथ्यादितत्त्वधृतकालिकापुराणम् ॥
अपि च ।
“यवोदरैरङ्गुलमष्टसंख्यै-
र्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः ।
हस्तैश्चतुर्भिर्भवतीह दण्डः
क्रोशः सहस्रद्वितयेन तेषाम् ॥”
इति लीलावती ॥ * ॥
हस्तमात्रदत्तस्नेहादिद्रव्यभक्षणनिषेधो यथा,
“हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ते भोक्ता भुङ्क्ते तु किल्वि-
षम् ॥
तस्मादन्तरितं कृत्वा पर्णेनाथ तृणेन वा ।
प्रदद्यात् न तु हस्तेन नायसेन कदाचन ॥”
इति श्राद्धतत्त्वधृतवशिष्ठवचनम् ॥ * ॥
एकहस्तदत्तद्रव्यभोजननिषेधो यथा, --
“एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत् ।”
इति तद्धृतादिपुराणवचनम् ॥ * ॥
हस्तिशुण्डः । यथा, रामायणे । २ । २३ । ४ ।
“अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः ॥”)
हस्तानक्षत्रम् । (यथा, मार्कण्डेये । ३३ । ११ ।
“प्रयाति श्रेष्ठतां सत्यं हस्ते श्राद्धप्रदो नरः ॥”)
केशात् परे तत्समूहवाचकः । इति मेदिनी ॥

हस्तज्योडिः, पुं, करज्योडिवृक्षः । हाताजुडि

इति हिन्दी भाषा । अस्य गुणः । रसबद्धादि-
वश्यकृत् । इति राजनिर्घण्टः ॥

हस्तधारणं, क्ली, (हस्तस्य धारणम् ।) मार-

णोद्यतस्य निवारणम् । इति हस्तवारणशब्द-
टीकायां रामाश्रमः । ३ । २ । ५ ॥ (परि-
त्राणम । यथा, महाभारते । १ । २१४ । १० ।
“ब्राह्मणस्वे हृते चौरैर्धर्म्मार्थे च विलोपिते ।
रोरूयमाणे च मयि क्रियतां हस्तधारणम् ॥”)

हस्तपुच्छं, क्ली, (हस्तस्य पुच्छम् ।) हस्तावयव-

विशेषः । हातेर पोँछा इति भाषा । तत्प-
र्य्यायः । कल्मषम् २ । इति त्रिकाण्डशेषः ॥

हस्तबिम्बं, क्ली, (हस्तस्य बिम्बं यत्र ।) स्थासकः ।

स तु चन्दनादिना देहविलेपनविशेषः । इति
हेमचन्द्रः ॥ करप्रतिबिम्बञ्च ॥

हस्तवारणं, क्ली, (हस्तेन वारणम् ।) परित्राणम् ।

तत्तु मारणोद्यतस्य निवारणम् । इत्यमरः । ३ ।
२ । ५ ॥ करेण निषेधनञ्च ॥
पृष्ठ ५/५२७

हस्तसिद्धिः, स्त्री, (हस्तस्य सिद्धिः ।) भृतिः ।

वेतनम् । यथा, --
“प्रतीकारमिमं कृत्वा शीतादेस्ताः प्रजाः पुनः ।
वार्त्तोपायं ततश्चक्रुर्हस्तसिद्धिञ्च कर्म्मजाम् ॥”
इति विष्णुपुराणे १ अंशे ६ अध्यायः ॥
हस्तसिद्धिं हस्ताभ्यां साध्यां सिद्धिं भृतिं तामे-
वाह कर्म्मजां तत्कर्म्मनिमित्ताम् । इति तट्टीका ॥
करेण साधनञ्च ॥

हस्तसूत्र, क्ली, (हस्तस्य सूत्रम् ।) वलयम् । यथा,

“कटको वलयं पारिहार्य्यावापौ तु कङ्कणम् ।
हस्तसूत्रं प्रतिसरः ऊर्म्मिका त्वङ्गुलीयकम् ॥”
इति हेमचन्द्रः ॥
(विवाहादिकालीनमङ्गलार्थनिबद्धकरसूत्रम् ।
यथा, कुमारे । ७ । २५ ।
“बबन्ध चास्राकुलदृष्टिरस्याः
स्थानान्तरे कल्पितसन्निवेशम् ।
धात्र्यङ्गुलीभिः प्रतिसार्य्यमाण-
मूर्णामयं कौतुकहस्तसूत्रम् ॥”)

हस्ता, पुं, स्त्री, अश्विन्यादिसप्तविंशतिनक्षत्रान्त-

र्गतत्रयोदशनक्षत्रम् । तत्तु हस्ताकृतिपञ्च-
तारात्मकम् । अस्याधिदेवता दिनकृत् । जन्म-
कालीनोऽयं जघन्यगुणदायकः । इति ज्योति-
स्तत्त्वम् ॥ * ॥ तद्दर्शनेन लग्ननिरूपणं यथा, --
“मस्तकोपरि कराकृतौ करे
तिष्ठतीन्दूमुखि ! बाणतारके ।
लिप्तिकाः शरकुपक्षसंज्ञकाः
नायकासनविलग्नतो गताः ॥” दं ३ । ३५ ।
इति कालिदासकृतरात्रिलग्ननिरूपणग्रन्थः ॥ * ॥
तत्र जातफलम् ।
“दाता यशस्वी सुतरां मनस्वी
भूदेवदेवार्च्चनकृन्नयज्ञः ।
प्रसूतिकाले किल यस्य हस्ता
हस्तस्थिता तस्य समस्तसम्पत् ॥”
इति कोष्ठीप्रदीपः ॥

हस्ताङ्गुलिः, पुं, (हस्तस्य अङ्गुलिः ॥ करशाखा ।

यथा, --
“हस्ताङ्गुलय एव स्युरायुर्दा ललिताः शुभाः ।”
इति गारुडे ६६ अध्यायः ॥
अस्य विवरेणं बाहुशब्दे द्रष्टव्यम् ॥

हस्तामलकं, क्ली, (हस्तस्थितं आमलकम् ।)

करस्थितामलकीफलम् । (यथा, रामायणे ।
“त्वया दृष्टं जगत्सर्व्वं हस्तामलकवत् सदा ॥”)
वेदान्तग्रन्थविशेषः । तल्लिख्यते । श्रीमच्छङ्करा-
चार्य्यस्य दिग्विजयसमये पथिमध्ये कञ्चित्
बालकं प्रति प्रश्नः ।
“कस्त्वं शिशो ! कस्य कुतोऽसि गन्ता
किं नाम ते त्वं कुत आगतोऽसि ।
एतद्वद त्वं मम सुप्रसिद्धं
मत्प्रीतये प्रीतिविवर्द्धनोऽसि ॥”
बालकस्योत्तरम् ।
“नाहं मनुष्यो न च देवयक्षो
न ब्राह्मणक्षत्त्रियवैश्यशूद्राः ।
न ब्रह्मचारी न गृही वनस्थो
भिक्षुर्न चाहं निजबोधरूपः ॥”
एतस्य श्लोकस्य शङ्कराचार्य्येण भाष्यं न कृतम् ॥
“निमित्तं मनश्चक्षुरादिप्रवृत्तौ
निरस्ताखिलोपाधिराकाशकल्पः ।
रविर्लोकचेष्टानिमित्तं यथा यः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥
यमग्न्युष्णवन्नित्यबोधस्वरूपं
मनश्चक्षुरादीन्यबोधात्मकानि ।
प्रवर्त्तन्त आश्रित्य निष्कम्पमेकं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥
मुखाभासको दर्पणे दृश्यमानो
मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु ।
चिदाभासको धीषु जीवोऽपि तद्वत्
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥
यथा दर्पणाभाव आभासहानौ
मुखं विद्यते कल्पनाहीनमेकम् ।
तथा धीवियोगे निराभासको यः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ४ ॥
मनश्चक्षुरादेर्विमुक्तः स्वयं यो
मनश्चक्षुरादेर्मनश्चक्षुरादिः ।
मनश्चक्षुरादेरगम्यस्वरूपः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ५ ॥
य एको विभाति स्वतः शुद्धचेताः
प्रकाशस्वरूपोऽपि नानेव धीषु ।
शरावोदकस्थो यथा भानुरेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ६ ॥
यथानेकचक्षुः प्रकाशी रविर्न
क्रमेण प्रकाशीकरोति प्रकाश्यम् ।
अनेका धियो यस्तथैकप्रबोधः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ७ ॥
विवस्वत्प्रभातं यथा रूपमक्षं
प्रगृह्णाति नाभातमेवं विवस्वान् ।
यथा भात आभासयत्यक्षमेकः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ८ ॥
यथा सूर्य्य एकोऽप्स्वनेकश्चलासु
स्थिरास्वप्यनन्वन्विभाव्यस्वरूपः ।
चलासु प्रभिन्नासु धीष्वेक एवं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ९ ॥
घनच्छन्नदृष्टिर्घनच्छन्नमर्क
यथा निष्प्रभं मन्यते चातिमूढः ।
तथा बद्धवद्भाति यो मूढदृष्टेः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १० ॥
समस्तेषु वस्तुष्वनुस्यूतमेकं
समस्तानि वस्तूनि यन्न स्पृशन्ति ।
वियद्वत् सदा शुद्धमच्छस्वरूपं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ११ ॥
उपाधौ यथा भेदता सन्मणीनां
तथा भेदता बुद्धिभेदेषु तेषु ।
यथा चन्द्रकाणां जले चञ्चलत्वं
तथा चञ्चलत्वं तवापीह विष्णो ॥” १२ ॥
इति हस्तामलकं समाप्तम् ॥

हस्तिकं, क्ली, (हस्तिनां समूहः । कन् ।) हस्ति-

समूहः । तत्पर्य्यायः । नजता २ । इति शब्द-
रत्नावली ॥

हस्तिकक्षः, पुं, (हस्ती कक्षे यस्य ।) सिंहः ।

व्याघ्रः । इति केचित् ॥

हस्तिकन्दः, पुं, (हस्तिनः पद इव कन्दो यस्य ।)

बृहत्कन्दविशेषः । तत्पर्य्यायः । हस्तिपत्रः २
स्थूलकन्दः ३ अतिकन्दकः ४ बृहत्पत्रः ५ अति-
पत्रः ६ हस्तिकर्णः ७ सुकर्णकः ८ त्वग्दोषारिः
९ कुष्ठहन्ता १० गिरिवासी ११ नागाश्रयः १२
गजकन्दः १३ नागकन्दः १४ । अस्य गुणाः ।
कटुत्वम् । उष्णत्वम् । कफवातामयत्वग्दोषश्रम-
कुष्ठविषवैसर्पनाशित्वञ्च । इति राजनिर्घण्टः ॥

हस्तिकरञ्जः, पुं, (हस्तीव महान् करञ्जः ।)

महाकरञ्जः । इति राजनिर्घण्टः ॥ (गुणादयो-
ऽस्य महाकरञ्जशब्दे ज्ञातव्याः ॥)

हस्तिकर्णः, पुं, (हस्तिनः कर्णमिव पर्णमस्य ।)

एरण्डः । पलाशभेदः । गणदेवताभेदः । इति
मेदिनी ॥ हस्तिकन्दः । रक्तैरण्डः । इति राज-
निर्घण्टः ॥ हस्तिकर्णपलाशस्य गुणाः ।
“हस्तिकर्णः परं वृष्यो मेधायुर्बलवर्द्धनः ।”
इति राजवल्लभः ॥
अपि च ।
श्रीहरिरुवाच ।
“हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ! ।
सर्व्वरोगविनिर्म्मक्तं चूर्णं पलशतं शिव ! ॥
सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ! ।
नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम् ॥
पद्मगौरप्रतीकाशं युक्तं दशशतायुषा ।
षोडशाब्दाकृतिं रुद्र ! सततं दुग्धभोजितम् ॥
मधुसर्पिःसमायुक्तं जग्धमायुष्करं भवेत् ।
तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् ॥
कुर्य्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् ।
दध्ना नित्यं भक्षितन्तु वज्रदेहकरं शिव ! ॥
कृष्णकेशसमायुक्तं नरं वर्षसहस्रिणम् ।
तच्च काञ्जिकसंयुक्तं नरं कुर्य्याच्च भक्षितम् ॥
शतवर्षं दिव्यदेहं बलीपलितवर्ज्जितम् ।
जग्धं त्रिफलया युक्तं चक्षुष्मन्तं करोति वै ॥
अन्धः पश्येत्तु चूर्णस्य सांज्यस्यैव तु भक्षणात् ।
महिषक्षीरसंयुक्तं तल्लेपः-कृष्णकेशकृत् ॥
खल्लीटस्य च वै केशा भवन्ति वृषभध्वज ! ।
तैलयुक्तेन चूर्णेन बलीपलितवर्ज्जितम् ॥
तदुद्वर्त्तनमात्रेण सर्व्वरोगैः प्रमुच्यते ।
सच्छागक्षीरचूर्णेन दृष्टिः षण्मासतोऽञ्जनात् ॥”
इति गारुडे १० अध्यायः ॥

हस्तिकर्णकः, पुं, (हस्तिनः कर्ण इव पर्णमस्य ।

कप् ।) किंशुकभेदः । इति शब्दरत्नावली ॥

हस्तिकर्णदलः, पुं, (हस्तिनः कर्ण इव दलमस्य ।

पलाशमेदः । इत्यमरमाला ॥

हस्तिकोलिः, पुं, (हस्तीव कोलिः । (वदरीभेदः ।

तत्पर्य्यायः । गोपघोण्टा २ घोण्टा ३ वदरी-
च्छदा ४ । इति रत्रमाला ॥
पृष्ठ ५/५२८

हस्तिगिरिः, पुं, (हस्तिप्रधानो गिरिर्यत्र ।) काञ्चि-

देशः । इति केचित् ॥

हस्तिघोषा, स्त्री, (हस्तीव बृहती घोषा ।)

बृहद्धोषा । वडी तोरै इति हिन्दी भाषा ।
तत्पर्य्यायः । ऐभी २ महत्पुष्पा ३ सपीतिका ४
महाकोशातकी ५ । अस्या गुणाः । स्निग्धत्वम् ।
सारकत्वम् । पित्तानिलनाशित्वञ्च । इति मदन-
विनोदः ॥ (पर्य्यायान्तरं यथा, --
“महाकोषातकी प्रोक्ता हस्तिघोषा महाफला ।
धामार्गवी घोमकश्च हस्तिपर्णश्च स स्मृतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

हस्तिघोषातकी, स्त्री, (हस्तीव बृहती घोषा-

तकी ।) हस्तिघोषा । इति रत्नमाला ॥
(गुणादिकमस्या हस्तिघोषाशब्दे ज्ञातव्यम् ॥)

हस्तिघ्नः, पुं, (हस्तिनं हन्तुं शक्तः । हस्तिन् +

हन + “शक्तौ हस्तिकपाटयोः ।” ३ । २ । ५४ ।
इति टक् ।) मनुस्यः । इति केचित् ॥ करि-
नाशके, त्रि ॥

हस्तिचारिणी, स्त्री, (हस्तीव चरतीति । चर +

णिनिः । ङीप् ।) महाकरञ्जः । इति राज
निर्घण्टः ॥

हस्तिदन्तं, क्ली, (हस्तिनो दन्त इव आकारोऽस्त्य-

स्येति । अच् ।) मूलकम् । इति राजनिर्घण्टः ॥

हस्तिदन्तः, पुं, (हस्तिनो दन्त इव आकारोऽस्य ।

अच् ।) मूलकम् । इति शब्दरत्नावली ॥ (हस्तिनो
दन्त इव ।) द्रव्यरक्षार्थभित्तिस्थकीलकः ।
(हस्तिनो दन्तः) गजदशनञ्च ॥ (यथा, --
“हस्तिदन्तमसीं कृत्वा मुख्यञ्चैव रसाञ्जनम् ।
लोमान्यनेन जायन्ते नृणां पाणितलेष्वपि ॥”
इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥)

हस्तिदन्तकं, क्ली, (हस्तिदन्तमेव । कन् ।)

मूलकम् । इति शब्दमाला ॥ (मूलकशब्देऽस्य
गुणादयो ज्ञातव्याः ॥)

हस्तिदन्तफला, स्त्री, (हस्तिदन्त इव फलमस्याः ।)

एर्व्वारुः । इति राजनिर्घण्टः ॥

हस्तिद्वयसः, त्रि, गजपरिमाणम् । हस्तिशब्दात्

द्वयसच्प्रत्ययेल निष्पन्नः । इति सिद्धान्तकौमुदी ॥

हस्तिनखः, पुं, (हस्तिनो नख इव ।) पुर्द्वारि

यत् कूटं तत् । इत्यमरः । २ । २ । १७ ॥ द्वारो-
परि दुर्गार्थं यत् कूटं मृत्तिकाराशिस्तस्मिन्
हस्तिनखो दम्दमा इति ख्यातः । दुर्गद्वारा-
वरणार्थः क्रमनिम्नोन्नतखातोद्धृतमृत्कूटो
हस्तिनख इत्यन्योऽपि । दुर्गपुरद्वारसमीपे
युद्धार्थं यद्वहिरतटमन्तःसोपानयुक्तं मृत्कूटं
यत्र स्थित्वा विपक्षेषु काण्डादिकं क्षिप्यते तत्र
हस्तिनखो वुरुज इति ख्यात इत्यपरे । हस्तिनो
नख इव हस्तिनखः । इति तट्टीकायां भरतः ।
(यथा, माघे । ३ । ६८ ।
“शनैरनीयन्त रयात् पतन्तो
रथाः क्षितिं हस्तिनखादखेदैः ।
सयत्रसूतायतरश्मिभुग्न-
ग्रीवाग्रसंसक्तगुगैस्तुरङ्गैः ॥”)

हस्तिनपुरं, क्ली, हस्तिनापुरम् । इति हेम-

चन्द्रः ॥

हस्तिनापुरं, क्ली, चन्द्रवंशीयहस्तिनामकराज-

निर्म्मितनगरम् । परिक्षित्गड् इति दिल्ली इति
च ख्यातम् । तत्पर्य्यायः । नागाह्वः २ हस्तिन-
पुरम् ३ हास्तिनम् ४ गजाह्वयम् ५ गजाह्वम् ६
गजसाह्वयम् ७ । इति शब्दरत्नावली ॥
हस्तिनीपुरम् ८ । इति हेमचन्द्रः । शतानीका-
दप्यश्वमेधदत्तो भविता । तस्मादप्यधिसीमकृष्णः ।
अधिसीमकृष्णात् त्रिचक्षुः । यो गङ्गापहृते
हस्तिनापुरे कौशाम्ब्यां निवत्स्यति । इति
विष्णुपुराणे ४ अंशे २१ । ३ ॥

हस्तिनी, स्त्री, (हस्तिनः स्त्री । ङीप् ।) गज-

पत्नी । हातिनी इति भाषा । तत्पर्य्यायः ।
करेणूः २ करेणुः ३ रेणुका ४ करेणुका ५
धेनुका ६ वासिता ७ वासा ८ करिणी ९
विशा १० । इति शब्दरत्नावली ॥ कटम्भरा ११
पुष्करिणी १२ कचा १३ वसा १४ गणिका १५
गजयोषित् १६ । इति जटाधरः ॥ इभी १७
पद्मिनी १८ मातङ्गी १९ । अस्या दुग्धगुणाः ।
मधुरत्वम् । वृष्यत्वम् । गुरुत्वम् । कषायत्वम् ।
स्निग्धत्वम् । स्थैर्य्यकरत्वम् । शीतत्वम् । चक्षु-
ष्यत्वम् । बलवर्द्धनत्वञ्च ॥ तद्दधिगुणाः ।
कषायत्वम् । लघुत्वम् । उष्णत्वम् । पक्तिशूल-
शमनत्वम् । रुचिप्रदत्वम् । दीप्तिदत्वम् । वलास-
गदनाशित्वम् । वीर्य्यवर्द्धनत्वम् । उत्तमवल-
प्रदत्वञ्च ॥ तन्नवनीतगुणाः । कषायत्वम् ।
शीतलत्वम् । लघुत्वम् । तिक्तत्वम् । विष्टम्भि-
जन्तुपित्तकफक्रमिनाशित्वञ्च ॥ तद्घृतगुणाः ।
कफपित्तविषक्रमिनाशित्वम् । कषायत्वम् ।
विष्टम्भित्वम् । तिक्तत्वम् । अग्निकरत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ चतुर्ष्विधस्त्रीमध्ये स्त्री-
विशेषः । तल्लक्षणं थथा, --
“स्थूलाधरा स्थूलनितम्बभागा
स्थूलाङ्गुली स्थूलकुचा सुशीला ।
कामोत्सुका गाढरतिप्रिया च
नितम्बखर्व्वा खलु हस्तिनी स्यात् ॥”
इति रतिमञ्जरी ॥
हट्टविलासिनी । इति शब्दचन्द्रिका ॥

हस्तिनीपुरं, क्ली, हस्तिनापुरम् । इति हेमचन्द्रः ॥

हस्तिपः, पुं, (हस्तिनं पाति रक्षतीति । पा +

कः ।) हस्यारोहः । इति शब्दमाला ॥
(यथा, मार्कण्डेये । ३९ ॥ १८ ॥
“वश्यं मत्तं यथेच्छातो नागं नयति हस्तिपः ।
तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् ॥”)

हस्तिपकः, पुं, (हस्तिप एव । कन् ।) गजारोहः ।

माहुत इति भाषा । तत्पर्य्यायः । आधोरणः २
हस्त्यारोहः ३ निषादी ४ । इत्यमरः । २ । ८ ।
५९ ॥ आद्यौ पालकौ परौ योद्धाराविति
केचित् । इति भरतः ॥ (यथा, माघे । ५ । ४९ ।
“जज्ञे जनैर्मुकुलिताक्षमनाददाने
संरब्धहस्तिपकनिष्ठरचोदनाभिः ।
गम्भीरवेदिनि पुरः कवलं करीन्द्रे
मन्दोऽपि नाम न महानवगृह्य साध्यः ॥”)

हस्तिपत्रः, पुं, (हस्तिनः कर्णः इव पत्रमस्य ।

हस्तिकन्दः । इति राजनिर्घण्टः ॥

हस्तिपर्णिका, स्त्री, (हस्तिनः कर्ण इव पर्णमस्याः

कन् । टापि अत इत्वम् ।) राजकोशातकी ।
इति राजनिर्घण्टः ॥

हस्तिपर्णी, स्त्री, (हस्तिनः पर्णमिव पर्णमस्याः ।

ङीष् ।) मोरटालता । इति रत्नमाला ॥
कर्क्कटी । इति राजनिर्घण्टः ॥

हस्तिमदः, पु, (हस्तिनो मदः ।) करिगण्डक्षरित

मदजलम् । तत्पर्य्यायः । गजमदः २ गज-
दानम् ३ मदः ४ कुम्भिमदः ५ दन्तिमदः ६
दानम् ७ द्विपमदः ८ । अस्य गुणाः । स्निग्ध-
त्वम् । तिक्तत्वम् । केश्यत्वम् । अपस्मारविष-
कुष्ठकण्डूतिव्रणदद्रुविसर्पनाशित्वञ्च । इति राज-
निर्घण्टः ॥

हस्तिमल्लः, पुं, (हस्तिषु मल्लः ।) गणेशः । शङ्ख-

नागः । ऐरावतः । इति मेदिनी ॥

हस्तिरोहणकः, पुं, (हस्तीव राहते इति । रुह +

ल्युः । ततः कन् ।) महाकरञ्जः । इति राज-
निर्घण्टः ॥

हस्तिलोध्रकः, पुं, (हस्तीव महान् लोध्रः । ततः

कन् ।) लोध्रः । इति राजनिर्घण्टः ॥

हस्तिवाहः, पुं, (हस्तिनं वाहयतीति । वह +

णिच् + अण् ।) अङ्कुशः । इति शब्दरत्नावली ॥
गजवाहकश्च ॥

हस्तिविषाणी, स्त्री, कदली । इति राजनिर्घण्टः ॥

(विवरणमस्याः कदलीशब्दे ज्ञातव्यम् ॥)

हस्तिशाला, स्त्री, (हस्तिनः शाला ।) गज-

गृहम् । फीलखाना इति पारस्य भाषा । तत्-
पर्य्यायः । चतुरम् २ । इति हेमचन्द्रः ॥

हस्तिशुण्डा, स्त्री, (हस्तिनः शुण्ड इव आकारो-

ऽस्त्यस्येति । अच् । विभाषया
ङीष् ।) क्षुपविशेषः । हातिशुँडा इति भाषा ।
तत्पर्य्यायः । हस्तिनी २ भुरुण्डी ३ जले-
च्छया ४ । इति शब्दचन्द्रिका ॥ नागशुण्डी ५
शुण्डी ६ धूसरपत्रिका ७ । (पर्य्यायान्तरं यथा,
“हस्तिशुण्डी चातिविषा त्र्यूषणं हेममाक्षिकम् ॥
इति वैद्यकरसेन्द्रसारसंप्रहे ज्वराधिकारे ॥)
अस्या गुणाः । कटुत्वम् । उष्णत्वम् । सन्निपात-
ज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ करि-
करे, पुं ॥

हस्तिशुण्डी, स्त्री, (हस्तिनः शुण्ड इव आकारो-

ऽस्त्यस्येति । अच् । विभाषया
ङीष् ।) क्षुपविशेषः । हातिशुँडा इति भाषा ।
तत्पर्य्यायः । हस्तिनी २ भुरुण्डी ३ जले-
च्छया ४ । इति शब्दचन्द्रिका ॥ नागशुण्डी ५
शुण्डी ६ धूसरपत्रिका ७ । (पर्य्यायान्तरं यथा,
“हस्तिशुण्डी चातिविषा त्र्यूषणं हेममाक्षिकम् ॥
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)
अस्या गुणाः । कटुत्वम् । उष्णत्वम् । सन्निपात-
ज्वरनाशित्वञ्च । इति राजनिर्घण्टः ॥ करि-
करे, पुं, ॥

हस्तिश्यामाकः, पुं, (हस्तीव स्थूलः श्यामाकः ।)

शस्यविशेषः । हातियाशामा इति भाषा ।
अस्य गुणाः । धातुशोषणत्वम् । पित्तश्लेष्म-
नाशित्वम् । वायुवर्द्धनत्वम् । रूक्षत्वञ्च । इति
राजवल्लभः ॥

हस्ती, [न्] पुं, सुहोत्रराजपुत्त्रः । यथा । बृहत्-

क्षत्त्रस्य सुहोत्रः पुत्त्रः सुहोत्राद्धस्ती य इदं
हस्तिनापुरं निर्म्मापयामास । इति विष्णु-
पुराणे ४ अंशे १८ अध्यायः ॥ अपि च ।
पृष्ठ ५/५२९
“सुहोत्रस्यापि दायादो हस्तो नाम बभूव ह ।
तेनेदं निर्म्मितं पूर्ब्बं पुरैव हस्तिनापुरम् ॥
हस्तिनश्चैव दायादास्त्रयः परमधार्म्मिकाः ।
अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥”
इति हरिवंशे पितृकल्पे २० अध्यायः ॥ * ॥
अजमोदा । इति राजनिर्घण्टः ॥ (हस्तोऽस्त्य-
स्येति । हस्त + इनिः ।) वृहत्पशुविशेषः ।
हाती इति भाषा । तत्पर्य्यायः । दन्ती २
दन्तावलः ३ द्विरदः ४ अनेकपः ५ द्विपः ६
मतङ्गजः ७ गजः ८ नागः ९ कुञ्जरः १०
वारणः ११ करी १२ इभः १३ स्तम्बेरमः १४
पद्मी १५ । इत्यमरः । २ । ८ । ३४ ॥ मतङ्गः १६
मातङ्गः १७ पीलुः १८ वराङ्गः १९ पुष्करी २०
जलकङ्कः २१ महामृगः २२ स्तरमः २३
शूर्पकर्णः २४ सिन्धुरः २५ सामजः २६ कटी २७
अन्तःस्वेदः २८ दोर्घमारुतः २९ विलोम-
जिह्वः ३० करटी ३१ पिण्डपादः ३२ महा-
मदः ३३ पेटकी ३४ कटकी ३५ कुम्भी ३६
निर्झरः ३७ । इति शब्दरत्नावली ॥ सिन्दूर-
तिलकः ३८ पञ्चनखः ३९ शृङ्गारी ४०
करेणुः ४१ कर्णिकी ४२ लिङ्गी ४३ साम-
योनिः ४४ । इति जटाधरः ॥ राजीवः ४५
जलकाङ्क्षः ४६ लतालकः ४७ पेचिलः ४८ ।
इति त्रिकाण्डशेषः ॥ द्विरदनः ४९ करभी ५०
विषाणी ५१ रदनी ५२ महाबलः ५३ भद्रः ५४
द्रुमारिः ५५ षष्टिहायनः ५६ । इति राज-
निर्घण्टः ॥ * ॥ स च चतुर्जातिर्यथा, --
“भद्रो मन्द्रो मृगो मिश्रश्चतस्रो गजजातयः ॥”
इति हेमचन्द्रः ॥ * ॥
तद्द्वारा भ्रमणगुणाः । वातकोपनत्वम् । अङ्ग-
स्थैर्य्यबलाग्निकारित्वञ्च । इति राजवल्लभः ॥ * ॥
कामुकोन्मत्तगजारोहणदोषो यथा ।
“नारोहेत् कामुकोन्मत्तं गजं राजा कदाचन ।
आरुह्य कामुकं तन्तु परत्रेह विषीदति ॥”
इति कालिकापुराणे ८९ अध्यायः ॥ * ॥
अथ गजायुर्व्वेदः ।
“गजायुर्व्वेदमाख्यास्ये उक्ताः कल्पा गजे हिताः ।
गजे चतुर्गुणा मात्रा ताभिर्गजरुगर्द्दनम् ॥
गजोपसर्गव्याधीनां शमनं शान्तिकर्म्म च ।
पूजयित्वा सुरान् विप्रान् ब्राह्मणे कपिलां ददेत् ॥
दन्तिदन्तद्वये मालां निबध्नीयादुपोषितः ।
मन्त्रणं मन्त्रिता वैद्यो वचा सिद्धार्थकामले ॥
सूर्य्याद्याः शिवदुर्गा श्रीर्विष्णुना रक्षसाङ्गणः ।
बलिं दद्याच्च भूतेभ्यः स्नापयेच्च चतुर्घटैः ॥
भोजनं मन्त्रितं दद्यात् भस्मनोद्धूनयेद्गजम् ।
भूती रक्षा शुभा मध्या वारुणी रक्षसां सदा ॥
त्रिफला पञ्चकोले च दशमूलं विडङ्गकम् ।
शतावरी गुडूची च निम्बवासककिंशुकाः ॥
गजरोगविनाशाय प्रोक्तः कल्कः कषायकः ।
आयुर्व्वेदो गजाश्वानामुक्तः संक्षेपसारतः ॥”
इति गारुडे । २०७ । ३६ -- ४२ ॥ * ॥ गजे
वर्णनीयानि यथा, --
“गजे सहस्रयोधित्वमुच्चत्वं कर्णचापलम् ।
अरिव्यूहविभेदित्वं कुम्भमुक्तामलादयः ॥”
इति कविकल्पलतायां १ स्तवके २ कुसुमम् ॥ * ॥
तच्छकुनानि यथा ।
“ऊर्द्ध्वं करं यः कुरुतेऽथवा यो
धत्ते करं दक्षिणदन्तभागे ।
यो वा भवेत् वृंहितपूरिताशः
करी भवेदध्वगपूरिताशः ॥”
इति वसन्तराजशाकुने चतुष्पदशाकुनम् ॥ * ॥
स च प्रजापतिदेवताकः । यथा विष्णुधर्म्मोत्तरे ।
“अभयं सर्व्वदैवत्यं भूमिर्वै विष्णुदेवता ।
कन्या दासस्तया दासी प्राजापत्याः प्रकीर्त्तिताः ।
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः ॥”
इत्यादि ॥ * ॥
तस्य प्रतिग्रहे आरुह्य ग्राह्यम् । यथा ।
“करे गृह्य तथा कन्यां दासदास्यौ द्विजोत्तमाः ।
करत्नु हृदि विन्यस्य धर्म्म्यो ज्ञेयः प्रतिग्रहः ।
आरुह्य च गजस्योक्तः कर्णे चाश्वस्य
कीर्त्तितः ॥”
इत्यादि ॥ * ॥
प्रतिग्रहाशक्तेन तदग्राह्यम् । यथा, ब्रह्मपुरा-
णम् ।
“ब्राह्मणः प्रतिगृह्णीयाद्वृत्त्यर्थं साधुतस्तथा ।
अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत् ॥”
इत्यादि ॥
तद्दानफलम् । यथा नन्दिपुराणम् ।
“योऽश्वं रथं गजं वापि ब्राह्मणे प्रतिपादयेत् ।
स शक्रस्य वसेल्लो के शक्रतुल्यो युगान् दश ।
प्राप्यान्ते चेव मानुष्यं राजा भवति बुद्धिमान् ॥”
इति शुद्धितत्त्वम् ॥ * ॥
अपि च ।
“गामश्वञ्च महीं हेम मणोनथ गजांस्तिलान् ।
ये प्रयच्छन्ति पापेषु निरताः सर्व्वदा मुने ! ।
न तेषां रौरवः पन्था दत्त्वैषां दानमित्युत ॥”
इति वह्निपुराणे यमशर्म्मिलोपाख्याननामा-
ध्यायः ॥ * ॥ अथ गजपरीक्षा । तत्र कालः ।
“ऐन्द्रमित्रवरुणानिलपुष्या-
चन्द्रतोयरविवारिजतारे ।
सूर्य्यशुक्रगुरुसोमजवारे
श्रेयसे भवति कुञ्जरयानम् ॥
लग्ने चरे शुभसमाश्रितवीक्षिते वा
चन्द्रस्य दृष्टिरिभयानविधौ विरुद्धा ।
सौम्ये दिने करनिशाटवसुश्रवण्य-
तोयेशमैत्रमदितिश्च शुभग्रहाहः ॥
स्यात् कुञ्जरक्रयणदर्शनदानकालः
शेषेषु दुःखफलमार्कसुतेऽह्नि चैव ॥
गजानामष्टधा भेदाः संक्षेपेण प्रकाश्यते ।
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥
पुष्पदन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजाः ।
एषां वंशप्रसूतत्वाद्गजानामष्टजातयः ॥
ये कुञ्जराः पाण्डरसर्व्वदेहाः
सुदीर्घदन्ताः सितपुष्पदन्ताः ।
अलोमशा अल्पभुजो बलाढ्या
महाप्रमाणा लघुपुष्टलिङ्गाः ॥
क्रुद्धाः समीके मृदवोऽन्यकाले
लघ्वम्बुपाना बहुलोग्रदानाः ।
विस्तीर्णदानास्तनुलोमपुच्छा
ऐरावतस्याभिजनप्रसूताः ॥
तेष्वेव सर्व्वेषु विशुद्धवर्णा
अतीववृत्ताः प्रभवन्ति मुक्ताः ।
नाल्पेन पुण्येन महीपतीनां
स्पृशन्ति भूमण्डलमध्यमेते ।
दन्ता विभग्ना अपि युद्धरङ्गे
पुनः प्ररोहन्ति पुरैव तेषाम् ॥ १ ॥
ये कुञ्जराः कोमलसर्व्वदेहाः
पुच्छा न दण्डाः खरगण्डदेशाः ।
स्रवन्मदाः सन्ततरोषभाजोऽ-
मरप्रियाः सर्व्वभुजो बलाढ्याः ॥
सुतीक्ष्णदन्ता रसना गजानां
ते पुण्डरीकप्रवरप्रसूताः ।
ते पद्मगन्धं विसृजन्ति रेतो
दानञ्च नैषां वमथुः प्रभूता ॥
न तोयपानेऽभ्यधिका स्पृहा च
श्रमेऽपि नैते बलमुत्सृजन्ति ।
अमी तु येषां निवसन्ति राज्ञां
ते वै समस्तक्षितिशासनार्हाः ॥ २ ॥
ये कुञ्जराः कर्कशखर्व्वदेहाः
कदापि माद्यन्ति गलन्मदाश्च ।
आहारयोगाद्बलवीर्य्यभाजो
नात्यम्बुकामा बहुलोमगण्डाः ।
विरूपदन्तास्तनुपुच्छकर्णा
ज्ञेया बधैर्व्वामनवंशजाताः ॥ ३ ॥
ये दीर्घदेहास्तनुदीर्घशुण्डाः
कुदन्तभाजो मलपूर्णदेहाः ।
स्थविष्ठगण्डाः कलहप्रियाश्च
ते कुञ्जराः स्युः कुमुदस्य वंशाः ।
अन्यद्विपान् दर्शनमात्रतस्तु
निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ४ ॥
ये स्निग्धदेहाः सलिलाभिलाषा
महाप्रमाणास्तनुशुण्डदन्ताः ।
स्थविष्ठदन्ताः श्रमदुःसहाश्च
ते कुञ्जराश्चाञ्जनवंशजाताः ॥ ५ ॥
रेतश्च दानञ्च सृजन्ति शश्व-
दानूपदेशे प्रभवन्ति ये तु ।
ते पुष्पदन्ताभिजनप्रसूता
महाजवास्ते तनुपुच्छभागाः ॥ ६ ॥
सुदीर्घदन्ता षहुलोमभाजो
महाप्रमाणाश्च सुकर्क्कशाङ्गाः ।
भ्राम्यन्ति नाध्वभ्रमणाभियोगा-
न्नाहारपानादिषु चातिशक्तिः ॥
मरुप्रदेशे विचरन्ति ते वै
मुक्ताफलानामिह जन्म मध्ये ।
महाशरीरातिसुकर्क्कशाङ्गा
नारिष्टदन्ता मृदुशुक्लदन्ताः ॥
पृष्ठ ५/५३०
महाशनाः क्षीणपुरीषमूत्र-
विस्तीर्णकर्णास्तनुरोमगण्डाः ।
ते सार्व्वभौमाभिजनप्रसूता
विशुद्धमुक्ताः प्रभवन्ति चैषु ॥ ७ ॥
ये दीर्घशुण्डाः सुविभक्तदेहा
महाजवाः क्रोधपरीतकाश्च ।
विस्तब्धकर्णास्तनुपुच्छदन्ताः
सदाशनश्चैव वशाप्रियाश्च ॥
प्रवृद्धगण्डास्तनुलोमयुक्ताः ।
ते सुप्रतीकप्रवरप्रसूताः ।
महाप्रमाणामितमौक्तिकानि
भवन्ति चैतन्निजगाद काप्यः ॥ ८ ॥ * ॥
एकजातिसमुत्पन्नो गजः शुद्ध इति स्मृतः ।
लक्षणञ्च यथा प्रोक्तं शुद्धञ्चैतत्र दृश्यते ॥
शुद्धद्विजातिसम्भूतस्तल्लक्षणस्रमन्वितः ।
जारजो नाम विख्यातो यथास्वं बलवीर्य्यवान् ॥
द्विजातिद्वयजातो यः स शूर इति कथ्यते ।
द्विजातिजारजोत्पन्न उद्दान्त इति कथ्यते ॥
एवं संयोगभेदेन गजजातिरनेकधा ।
तां यो जानाति तत्त्वेन स राज्ञः पात्रमर्हति ॥
ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः ।
विशालाङ्गाः पवित्राश्च ब्राह्मणाः स्वल्पभो-
जिनः ॥
शूरा विशाला बह्वाशाः क्रुद्धाः क्षत्त्रिय-
जातयः ॥ * ॥
अथ गुणाः ।
“यथा रक्तं यथा खङ्गो यथा स्त्री सप्तयो यथा ।
परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥
रम्यो भीमो ध्वजोऽधीरो वीरः शूरोऽष्ट-
मङ्गलः ।
सुनन्दः सर्व्वतोभद्रः स्थिरो गम्भीरवेद्यपि ।
वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥”
तद्यथाह भोजः ।
“विभक्तावयवः पुष्टः सुदन्तः सुमहानपि ।
तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्द्धकः ॥ १ ॥
अङ्कुशादिप्रहारेण यस्य भीतिर्न जायते ।
स भीमोऽयं गजः शुद्धो राज्ञः सर्व्वार्थसाधनः ॥ २ ॥
शुण्डाग्रात् पुच्छपर्य्यन्त रेखा यस्यैव दृश्यते ।
ध्वजः शुद्धो गजो नाम साम्राज्यप्राणदा-
यकः ॥ ३ ॥
समौ कुम्भौ खराकारौ आवर्त्तौ तत्र चोच्छ्रयौ ।
अधीरोऽयं गजो नाम्ना राज्ञां विप्र विना-
शनः ॥ ४ ॥
आवर्त्तः पृष्ठतो यस्य स्वनाभिमभिविन्दति ।
पुष्टाङ्गो बलवान् वीरो राज्ञामभिमतप्रदः ॥ ५ ॥
महाप्रमाणः पुष्टाङ्गः सुदन्तश्चारुगण्डकः ।
भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मीविवर्द्धनः ॥ ६ ॥
सितौ दन्तौ सितः पुच्छः सिता रेखा सिता
नखाः ।
रक्तकुम्भाक्षिवीर्य्याङ्गैर्विज्ञेयः सोऽष्टमङ्गलः ॥
अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही ।
नारिष्टानीतयस्तत्र यत्रास्तेऽयं गजेश्वरः ॥
आयोजनशतं यावदनर्थं कुरुते क्षयम् ।
नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रैः कलौ युगे ॥ ८ ॥
शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः ।
गण्डयोर्गण्डयोर्मध्ये आवर्त्तः शुभलक्षणः ॥
शश्वन्मदस्रुतिपरिप्लुतगण्डदेशा-
स्तीक्ष्णाङ्कुशेन विनिवारयितुं न शक्याः ।
ज्ञातिद्विषो नवपयोदरवा गभीराः
पृथ्वीभुजां सकलसौख्यकरा भवन्ति ॥ *” ॥
अथ दोषाः ।
“दीनः क्षीणोऽथ विषमो विरूपो विकलः
खरः ।
विमदो ध्मापकः काको धूम्रो जटिल इत्यपि ॥
अजिनी मण्डली श्वित्री हतावर्त्तो महाभयः ।
राष्ट्रहा मुषली भाली निःसत्त्व इति विंशतिः ।
महादोषाः समाख्याता गजानां भोजभूभुजा ॥”
तद्यथा, --
“अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्प्रभः ।
दीनाख्यः कुरुते दीनं भूभुजं नात्र संशयः ॥ १ ॥
खर्व्वशुण्डो महापुच्छो निश्वासो वेगवर्ज्जितः ।
क्षीणोऽयं कुरुते क्षीणं स्वामिनं धनसम्पदा ॥ २
कुम्भे दन्तेऽक्षिकर्णे च वैषम्यं पार्श्वयोस्तथा ।
यस्यायं विषमो नागो नागवत् कुरुते क्षयम् ॥ ३ ॥
आस्कन्धात्तु शिरः क्षीणं पश्चाद्भागस्य पुष्टता ।
विरूप इति नागोऽयं कुरुते भूधनक्षयम् ॥ ४ ॥
नानाभोगैरपि कृतैर्यस्य नो जायते मदः ।
युद्धाय नोपक्रमते विकलं तं विवर्ज्जयेत् ॥ ५ ॥
खरता सहजा यस्य शरीरेऽस्तीति लक्ष्यते ।
तनुदन्तकरो हस्ती खरः कुलविनाशनः ॥ ६ ॥
न जायते मदो यस्य स्वकाले जायतेऽथवा ।
विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ ७ ॥
लघुप्रमाणः क्षीणाङ्गस्तनुशुण्डशिरोदरः ।
अश्रान्तं श्वसिति व्यग्रः पतेद्वै नेत्रयोर्म्मलम् ॥
त्रिके पुच्छाग्रतो वापि आवर्त्तो मण्डलोऽथवा ।
बहिः प्रकुरुते लिङ्गं सर्वथा गतचेष्टवत् ॥
भूभुजा नहि वीक्ष्योऽयं ध्मापकाख्यो गजाधमः
यदीच्छेच्छाश्वतीं भूतिं शरीरारोग्यमेव वा ॥ ८ ॥
शङ्खदेशौ यस्य भग्नौ स्कन्धदेशोऽतिगुच्छकः ।
काकोऽयं कुरुते मृत्युं स्वामिनो नात्र संशयः ॥ ९ ॥
विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ ।
भिद्येते वा विदीर्य्येतां स्वयं शून्यान्तरावुभौ ।
कुरुते व्याधितं नाथं धूम्रनामा गजाधमः ॥ १० ॥
मूर्द्धजाः कर्क्कशा रूक्षा जटारूपानुबन्धिनः ।
यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ ११ ॥
स्कन्धे वा गात्रदेशे वा लग्नं चर्म्मेऽवलक्ष्यते ।
अजिनी नाम नागोऽयं कुरुते भूधनक्षयम् ।
नैनं स्पृशेन्न वीक्षेत यदीच्छेदात्मनः श्रियम् ॥ १२ ॥
मण्डलानि प्रदृश्यन्ते एकं द्वे वा बहूनि वा ।
विरूपाण्युद्गतानीव मण्डली कुलनाशनः ॥ १३ ॥
तानि श्वेतानि यस्य स्युः श्वित्री स धननाशनः ॥ १४
हृदये उदरे चैव त्रिके पुच्छस्य मूलतः ।
गुदे मेढ्रे पदे चैव आवर्त्तेन हतश्रियम् ।
योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् ॥ १५ ॥
गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं
मुहुः ।
अपि सर्व्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥
राष्ट्रं धनं कुलं सैन्यं मैत्रं दारान् तथा प्रजाः ॥
क्षपयत्यशुभो नागो दृष्टमात्रो न संशयः ॥
तत्रापम्रियते लोकस्तत्र वज्रभयं भवेत् ।
व्याधिवह्निभयं वात्र यत्रास्ते स महाभयः ॥ १६ ॥
भृशं सन्ताड्यमानस्तु पादैकं यो न गच्छति ।
पृष्ठोदरं समावृत्त्य रेखा रक्तसमा यदि ॥
न्यस्ताग्रिमपदस्थाने पश्चात् पातः पदे यदि ।
अपि सर्व्वगुणैर्युक्तो राष्ट्रहायं गजाधमः ॥
राष्ट्रादपाक्रियतेऽयं भूमुजा श्रियमिच्छता ।
राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंक्ष-
यम् ॥ १७ ॥
पादाश्चात्यन्तविषमा दन्तौ चान्योन्यवैषमौ ।
पञ्जरो दृश्यते भग्न एको वाष्टौ द्वयोऽथवा ॥
दन्तौ वा चलतो यस्य किमु वा न प्ररोहतः ॥
कुम्भौ वा विषदौ यस्य मुषलीस गजाधमः ।
राष्ट्रदुर्गबलामात्यक्षयकृत्तं परित्यजेत् ॥ १८ ॥
चर्म्मखण्ड इवाभाति भाले यस्यातिकर्क्कशः ।
भाली स कुरुते नागो भर्त्तुः कुलधनक्षयम् ॥ १९ ॥
पुष्टो विशालः सद्दन्तः सत्कारोऽपि शुभोऽपि
सन् ।
न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥
सर्व्वेषां गजदोषाणामुक्त एव महानयम् ।
येनैकेन गुणाः सर्व्वे तृणायन्ते सुनिश्चितम् ॥” २०
पालकाप्यस्तु ।
“क्षीणदन्ताङ्गशुण्डत्वं विषमत्वं रदादिषु ।
शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥” *
गार्ग्यस्तु ।
“ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः
क्षीणाः सुदीनवपुषो गुरुदीघपुच्छाः ।
वश्यादिभिः खलु गुणैरहिता हिताय
ते भूभुजामभिमता नहि वीक्षणीयाः ॥
यो न स्रवेन्मदजलं तनुमूर्द्ध्वभागो
निर्व्वीर्य्यतामुपगतो बहुभोजनेऽपि ।
नेच्छत्यसावुपगतानपरान्निहन्तुं
भूमीभुजा न हि गजोऽयमवेक्षणीयः ॥
दोषैर्दुष्टान् गजान्राजा न वीक्षेत कदाचन ।
न्यसेद्वा परराष्ट्रेषु नगरात् क्रियते बहिः ॥
दद्यात् द्विजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः ।
दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छृङ्गिशतं द्विजे ।
पुरं नीराजयेद्वापि आत्मानं वाथवा सुतम् ।
देवसूक्तेन जुहुयादयुतं वातितत्परः ॥
तिलान् वा जुहुयादग्नौ तत्प्रतीकारहेतवे ।
ब्रह्मादिजातिभेदेन जातिरुक्ता चतुर्व्विधा ॥
चतुर्व्विधानां भूपानां वाहने ते शुभप्रदाः ।
ये दोषा दोषवत्त्वानां त एव स्युः स्वजातितः ॥
ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः ।
चिकित्सापि तथा तेषां मात्रा चैव गरीयसी ॥”
इति गजपरीक्षा ॥
इति भाजराजकृतयुक्तिकल्पतरुः ॥
पृष्ठ ५/५३१

हस्ते, व्य, पाणौ । यथा । हस्ते करोति । इति

मुग्धबोधव्याकरणम् ॥

हस्तेकरणं, क्ली, पाणिग्रहणम् । विवाहः । इति

केचित् ॥

हस्त्यः, त्रि, (हस्त + “तेन यथाकथाचहस्ताभ्यां

णयतौ ।” ५ । १ । ९८ । इति यत् ।) हस्तेन
दत्तः । हस्तेन कृतः । इति सिद्धान्तकौमुदी ॥

हस्त्यध्यक्षः, पुं, (हस्तिषु अध्यक्षः) गजाध्यक्षः ।

तल्लक्षणं यथा, --
“हस्तिशिक्षाविधानज्ञो वन्यजातिविशारदः ।
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥”
इति मात्स्ये १८९ अध्यायः ॥

हस्त्यायुर्व्वेदः, पुं, (हस्तिन आयुर्व्वेदः ।) गजायु-

र्व्वेदः । हस्तिचिकित्साशास्त्रम् । तत्प्रमाणं
हस्तिशब्दे द्रष्टव्यम् ॥

हस्त्यारोहः, पुं, (हस्तिनमारोहतीति । आ +

रुह + कः ।) हस्तिपकः । इत्यमरः । २ । ८ । ५९ ॥
तल्लक्षणं यथा, --
“एतैरेव गुणैर्युक्तः स्वासनश्च विशेषतः ।
गजारोहो नरेन्द्रस्य सर्व्वकर्म्मणि शश्यते ॥”
एतैर्हस्त्यध्यक्षगुणैः । इति मात्स्ये १८९ अः ॥

हस्रः, त्रि, (हसति निरर्थकमिति । हस +

“स्फारितञ्चीति ।” उणा० २ । १३ । इति
रक् ।) मूर्खः । इत्युणादिकोषः ॥

हहलं, क्ली, हालाहलम् । इति शब्दचन्द्रिका ॥

हहाः, पुं, हाहानामगन्धर्व्वः । इति शब्दमाला ॥

हा, ओ लि त्यागे । इति कविकल्पद्रुमः ॥ (ह्वा०-

पर०-सक०-अनिट् ।) ओ हाक त्यागे इति
प्रसिद्धोयम् । यत्र हाक इति ग्रहणं तत्रा-
स्यैव । तेन दामा गै हाक इत्यादि सूत्रेणास्य
हीयते इत्यादि । अन्यस्य हायते इत्यादि ।
ओ हीनः । लि जहाति । अकर्म्मकश्चायम् ।
यथा । स्वार्थाद्धीनः । एवं जहाति अपैति
स्वार्थो यस्यामिति जहत्स्वार्था वृत्तिः । इति
दुर्गादासः ॥

हा, ओ ङ लिगतौ । इति कविकल्पद्रुमः ॥ (ह्वा०-

आत्म०-सक०-अनिट् ।) ओ, हानः । ङ लि,
जिहीते । इति दुर्गादासः ॥

हा, व्य, विषादः । शोकः । अर्त्तिः । इत्यमरः ।

३ । ४ । २५५ ॥ (यथा, महाभारते । ३ । ६३ । ३ ॥
“हा नाथ ! हा महाराज ! हा स्वामिन् !
किं जहासि माम् ।
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥”)
कुत्सा इति मेदिनी ॥

हाङ्गरः, पुं, स्वनामख्यातजलजन्तुः । इति शब्द-

चन्द्रिका ॥ तत्पर्य्यायः अवहारकशब्दे द्रष्टव्यः ॥

हाटकं, क्ली, (हटति शोभते इति । हट दीप्तौ +

ण्वुल् ।) स्वर्णम् (यथा, माघे । १३ । ६३ ।
“नवहाटकेष्टकचितं ददर्श सं
क्षितिपस्य वस्त्यमथ तत्र संसदि ॥”
अस्य पर्य्यायो यथा, --
“स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ।
तपनीयञ्च गाङ्गेयं कलधौतञ्च काञ्चनम् ॥
चामीकरं शातकुम्भं तथा कार्त्तस्वरञ्च तत् ।
जाम्बुनदं जातरूपं महाराजत इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
हाटकपरिमितः । “जातरूपेभ्यः परिमाणे ।”
४ । ३ । १५३ । इति अण् ॥) धुस्तूरः । इत्य-
मरः । २ । ९ । ९४ ॥ स्वर्णनिर्म्मिते, त्रि ॥

हाटकमयं, त्रि, स्वर्णमयम् । हाटकशब्दात् मयट्-

प्रत्ययेन निष्पन्नम् ॥

हाटकेश्वरः, पुं, (हाटकस्य ईश्वरः ।) गोदावरी-

तीरस्थशिवः, । यथा, --
“एतस्मिन्नन्तरे प्राप्ताः सर्व्व एवर्षिपार्थिवाः ।
द्रष्टं त्रैलोक्यभर्त्तारं त्र्यम्बकं हाटकेश्वरम् ॥
ततः कपिवरः प्राप्तो घृताच्या सह सुन्दरि ! ।
स्नात्वा गोदावरीतीर्थे दिदृक्षुर्हाटकेश्वरम् ॥”
इति वामने ६२ अध्यायः ॥
(वितलस्थितो महादेवः । यथा, भागवते ।
५ । २४ । १७ । “ततोऽधस्ताद्वितले हरो भग-
वान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजा-
पतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनी-
भूयास्ते । यतः प्रवृत्ता सरित्प्रवरा हाटकी
नाम भवयोर्वीर्य्येण । यत्तच्चित्रभानुर्मातरिश्वना
समिध्यामान ओजसा पिबति । तन्निष्ठ्यूतं हाट
काख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः
सह पुरुषीभिर्धारयन्ति ॥”)

हातव्यं, त्रि, (हा + तव्य ।) त्यक्तव्यम् । यथा ।

“हातव्योऽयमसार एवविरसःसंसार इत्यादिकम् ।
सर्व्वस्यैव हि वाचि चेतसि पुनः कस्यापि
पुण्यात्मनः ।”
इति शान्तिशतकम् ॥

हात्रं, क्ली, (हा + ष्ट्रन् ।) वेतनम् । इति सिद्धान्त-

कौमुद्यामुणादिवृत्तिः ॥ प्रमथनम् । मरणम् ।
राक्षसः । इति संक्षिप्तसारोणादिवृत्तिः ॥

हानं, क्ली, (हा + क्तः ।) त्यागः । इति जटाधरः ॥

हानिः, स्त्री, (हा + “वहिश्रिश्रुयुद्रुग्लेति ।” उणा०

४ । ५ । इति निः । यद्वा, हा + क्तिन् ।
“ग्लाम्लाज्याहाभ्यो निः ।” ३ । ३ । ९४ । इत्यस्य
वार्त्तिकोक्त्या निः ।) क्षतिः । तत्पर्य्यायः ।
अपहारः २ अपचयः ३ । इति जटाधरः ॥
(यथा, महाभारते । ५ । ९९ । ४ ।
“अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः ।
अतः सोमस्य हानिश्च वृद्धिश्चैव प्रदृश्यते ॥”)

हानुकः, त्रि, घातुकः । इति केचित् ॥

हान्द्रं, क्ली, (हन + “भ्रस्जिगमिनमिहनीति ॥”

उणा० ४ । १५९ । इति ष्ट्रन् वृद्धिश्च ।)
मरणम् । इत्युणादिकोषः ॥

हापुत्त्रिका, स्त्री, पक्षिविशेषः । तत्पर्य्यायः ।

सर्षपी २ खञ्जनिका ३ तुलिका ४ स्फोटिका ५ ।
इति त्रिकाण्डशेषः ॥

हापुत्त्री, स्त्री, हापुत्त्रिका । यथा, --

“गोभण्डीरः पङ्ककीरो हापुत्त्री राजभट्टिका ॥”
इति हारावली ॥

हाफिका, स्त्री, जृम्भा । हाइ इति भाषा ।

तत्पर्य्यायः । उपपुष्पिका २ । इति हारा-
वली ॥

हायनः, पुं, क्ली, (जहाति त्यजति जिहीते

प्राप्नोति वा भावानिति । हा त्यागे हा गतौ
वा + “हश्च ब्रीहिकालयोः ।” ३ । १ । १४८ ।
इति ण्युट् ।) वत्सरः । इत्यमरः । १ । ४ । २० ॥
(यथा, भागवते । १ । ६ । ८ ।
“अहञ्च तद्ब्रह्मकुले ऊषिवांस्तदपेक्षया ।
दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥”)

हायनः, पुं, (जहात्युदकमिति । हा + “हश्च

ब्रीहिकालयोः ।” ३ । १ । १४८ । इति ण्युट् ।)
ब्रीहिभेदः । अग्निशिखा । इति मेदिनी ॥

हारं, त्रि, (हरेरिदं । हरि + अण् । पक्षे हर-

तीति । हरं तदेव । हर + स्वार्थे अण् ।)
हरिसम्बन्धीयम् । हरणकर्त्तृ । यथा, --
“यच्छृण्वतोऽपैत्यरतिर्व्वितृष्णा
सत्वञ्च शुध्यत्यचिरेण पुंसः ।
भक्तिर्हरौ तत्पुरुषे च सख्यं
तदेव हारं वद मन्यसे चेत् ॥”
इति श्रीभागवते । १० । ७२ ॥
“तदेव हारं हरेश्चरितं मनोहरं वा ॥”
इति तट्टीकायां श्रीधरस्वामी ॥

हारः, पुं, ह्नियते मनो येन । हृ + घञ् ।) मुक्ता-

माला । तत्पर्य्यायः । मुक्तावली २ । इत्यमरः
२ । ६ । १०५ ॥ हारा ३ यष्टिः ४ यष्टी ५
लता ६ । इति शब्दरत्नावली ॥ (यथा, कुमारे ।
५ । ८ ।
“विमुच्य सा हारमहार्य्यनिश्चया
विलोलयष्टिप्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं
पयोधरोत्सेधविशीर्णसंहति ॥”
ह्रियन्ते प्राणा यत्रेति ।) युद्धम् । इति मेदिनी ॥
(हृ + भावे घञ् । हरणम् । यथा, भाग-
वते । १० । ६३ । १७ ।
“हंस्युन्मर्गान् हिंसया वर्त्तमानान्
जन्मैतत्ते भारहाराय भूमेः ॥”)

हारकः, पुं, (हरतीति । हृ + ण्वुल् ।) कितवः ।

चौरः । गद्यभेदः ॥ विज्ञानविशेषः । इति
मेदिनी ॥ शाखोटवृक्षः । इति शब्दचन्द्रिका ॥
भाजकाङ्कः । इति लीलावती ॥ हरणकर्त्तरि,
त्रि ॥ (यथा, मनुः । ११ । ५१ ।
“वस्त्रापहारकः श्वेत्रं पङ्गुतामश्वहारकः ॥”)

हारहारा, स्त्री, कपिलद्राक्षा । इति राज-

निर्घण्टः ॥

हारहूरः, पुं, मद्यम् । इति हेमचन्द्रः ॥

हारहूरा, स्त्री, द्राक्षा । इति हलायुधः ॥

(पर्य्यायो यथा, --
“द्राक्षा स्वादुफला प्रोक्ता तथा मधुरसापि च ।
मृद्वीका हारहूरा च गोस्तनी चापि
कीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पृष्ठ ५/५३२

हारावली, स्त्री, पुरुषोत्तमकृतकोषविशेषः । यथा,

“मुक्तामयातिमधुरा मसृणावदात-
च्छायाघिरागतरलामलसद्गुणश्रीः ।
साध्वी सतां भजतु कण्ठमसौ प्रियेव
हारावली विरचिता पुरुषोत्तमेन ॥”
इति तद्धृतश्लोकः ॥
(हारस्य आवली ।) हारश्रेणी च ॥ (यथा,
गीतगोविन्दे । ११ । १३ ।
“हारावलीतरलकाञ्चनकाञ्चिदाम-
मञ्जीरकङ्कणमणिद्युतिदीपितश्च ॥”)

हारिः, स्त्री, (हरतीति । हृ + बाहुलकात् इञ् ।

इत्युणादिवृत्तौ उज्ज्वलदत्तः । ४ । १२४ ।) पथिक-
सन्तानः । द्यूतादिभङ्गः । इति मेदिनी ॥ रुचिरे,
त्रि ॥

हारिकण्ठः, पुं, (हारी मनोहरः कण्ठः कण्ठ-

रवो यस्य ।) कोकिलः । (हारी हारयुक्तः
कण्ठो यस्य ।) हारान्वितगले, त्रि । इति
मेदिनी ॥

हारिणिकः, पुं, (हरिणं हन्तीति । हरिण +

“पक्षिमत्स्यभृगान् हन्ति । “४ । ४ । ३५ । इति
ठक् ।) व्याधः । हरिणघातकः । इति केचित् ॥

हारितः, पुं, पक्षिविशेषः । तत्पर्य्यायः । हरि-

तालुकः २ । इति जटाधरः ॥ हारीतः ३ ।
इति मेदिनी ॥ अस्य मांसगुणाः हारीतकशब्दे
द्रष्टव्याः । हरिद्वर्णश्च ॥ (हरितस्य हरिश्चन्द्र-
पौत्त्रस्यापत्यं पुमानिति । हरित + अण् । हरित-
पुत्त्रः । यथा, हरिवंशे । १३ । २८ ।
“हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥”)

हारितकं, क्ली, (हरितकमेव । स्वार्थे अण् ।)

शाकम् । इति शब्दरत्नावली ॥

हारिद्रः, पुं, कदम्बवृक्षः । (हरिद्रया रक्तम् ।

हरिद्रा + “हरिद्रामहारजनाभ्यामञ् वक्तव्यः ।”
४ । २ । २ । इत्यस्य वार्त्तिकोक्त्या अञ् ।)
हरिद्रारञ्जिते, त्रि । इति मेदिनी ॥ हरिद्रा-
वर्णः । इति हेमचन्द्रः ॥ (यथा, बृहत्संहिता-
याम् । ५ । ५८ ।
“दूर्व्वाकाण्डश्यामे हारिद्रे वापि निर्द्दिशेन्मर-
कम् ॥”)
विषभेदः । यथा, --
“हरिद्रातुख्यमूलो यो हारिद्रः स उदाहृतः ।”
इति भावप्रकाशः ॥

हारी, स्त्री, मुक्ता । यथा, --

“मुक्ता मुक्ताफलं शुक्तिबीजं हारी च मौक्ति-
कम् ॥”)
इति शब्दरत्नावली ॥

हारी, [न्] त्रि, (हारोऽस्त्यस्येति । इनिः ।)

हारविशिष्टः । यथा, --
“केयूरवान् कनककुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ।”
इति नारायणध्यानम् ।
(हरतीति । हृ + णिनिः ।) हरणकर्त्ता ॥
यथा, महाभारते । ३ । २ । ६५ ।
“ह्रियते वध्यमानोऽपि नरो हारिभिरिन्द्रियैः ।
विमूढमंज्ञो दुष्टाश्वैरुद्भ्रान्तैरिव सारथिः ॥”
मनोहरः । यथा, शाकुन्तले प्रस्तावनायाम् ।
“तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्मन्तः सारङ्गेणातिरंहसा ॥”)

हारीतः, पुं, पक्षिभेदः । (अस्य लक्षणं गुणाश्च ।

“हारीतो रक्तपित्तः स्याद्धरितोऽपि स कथ्यते ।”
हारीतो हारील इति लोके ।
“हारीतो रूक्ष उष्णश्च रक्तपित्तकफापहः ।
स्वेदस्वरकरः प्रोक्तः ईषद्वातकरश्च सः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
आयुर्व्वेद कर्त्तरि च । यथा, --
“अग्निवेशश्च भेलश्च जतृकर्णः पराशरः ।
हारीतः क्षारपाणिश्च जगृहुस्तन्मुर्नेवचः ॥”
इति चरके सूत्रस्थाने प्रथमेऽघ्याये ॥)
मुनिभेदः । स च धर्म्मशास्त्रकर्त्ता । (यथा,
याज्ञवल्क्यः । १ । ४ ।
“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसम्बर्त्ताः कात्यायनबहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”
अयञ्च पौराणिक आसीत् । यथा, भागवते ।
१२ । ७ । ५ ।
“त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः ।
वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥”)
कैतवः । इति मेदिनी ॥

हारीतकः, पुं, (हारीत एव । स्वार्थे कन् ।)

हारीतपक्षी । हारिल इति हरिताल इति च
भाषा । तस्य मांसगुणाः । स्वादुत्वम् । कफ-
पित्तास्रदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

हार्द्दं, क्ली, (हृदयस्य भावः कर्म्म वा । हृदय +

“हायनान्तयुवादिभ्योऽण् ।” ५ । १ । १३० ।
इत्यण् । “हृदयस्य हृल्लेखयदणलासेषु ।” ६ ।
३ । ५० । इति हृदादेशः ।) प्रेम । स्नेहः ।
इत्यमरः । १ । ७ । २७ ॥ (यथा, महाभारते ।
१३ । ७१ । ५२ ।
“गावो लोकांस्तारयन्ति क्षरन्त्यो
गावश्चान्नं संजनयन्ति लोके ।
यस्तज्जानन् न गवां हार्द्दमेति
स वै गन्ता निरयं पापचेताः ॥”
अभिप्रायः । यथा, भागवते । १ । ७ । ५५ ।
“अर्ज्जुनः सहसाज्ञाय हरेर्हार्द्दमथासिना ।
मणिं जहार मूर्द्धन्यं द्विजस्य सह मूर्द्धजम् ॥”

हार्द्दी, [न्] त्रि, (हार्द्दमस्यास्तीति । इनिः ।)

स्नेहयुक्तः । यथा, --
“अयञ्च निकृतः पुत्त्रैर्द्दारैर्भृत्यैस्तथोज्झितः ।
स्वजनेन च सन्त्यक्तस्तेषु हार्द्दी तथाप्यति ॥”
इति देवीमाहात्म्यम् ॥

हार्य्यः, पुं, (ह्रियते इति । हृ + “ऋहलोर्ण्यत् ।”

३ । १ । १२४ । इति ण्यत् ।) विभीतकवृक्षः ।
हर्त्तव्ये, त्रि । इति मेदिनी ॥ (यथा, कुमारे ।
५ । ७० ।
“इयञ्च तेऽन्या पुरतो विडम्बना
यदूढया वारणराजहार्य्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥”)
हरणीयाङ्कः । तत्पर्य्यायः । भाज्यः २ । इति
लीलावती ॥

हालः, पुं, (हलेन क्रीडतीति । अण् । यद्वा,

हलतीति । हल + “ज्वलितिकसन्तेभ्यो णः ।”
३ । १ । १४० । इति णः ।) बलरामः । इति
त्रिकाण्डशेषः ॥ शालिवाहनराजः । इति हेम-
चन्द्रः ॥ हलः । इति मेदिनी ॥

हालकः, पुं, पोतहरितवर्णाश्वः । यथा, --

“हरितः पीतहरितच्छायः स एव हालकः ।”
इति हेमचन्द्रः ॥

हालहलं, क्ली, विषभेदः । इति शब्दरत्नावली ॥

हालहालं, क्ली, विषभेदः । इति शब्दरत्नावली ॥

हाला, स्त्री, (हल्यते कृष्यते इव चित्तमनयेति ।

हल + घञ् । टाप् ।) मद्यम् । इत्यमरः ।
२ । १० । ३९ ॥ (पर्य्यायो यथा, --
“मद्यन्तु सीधुमैरेयमिरा च मदिरा सुरा ।
कादम्बरी वारुणी च हालापि बलवल्लभा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
तालादिनिर्यासमद्यम् । इति राजनिर्घण्टः ॥
(यथा, माघे १० । २१ ।
“योषिदित्यभिललाष न हालां
दुस्त्यजः खलु सुखादपि मानः ॥”)

हालाहः, पुं, चित्रवर्णघोटकः । इति केचित् ॥

हालाहलं, क्ली, पुं (हालामपि हलतीति ।

हल + अच् ।) विषभेदः । तत्पर्य्यायः । हाल-
हलम् २ हाहलम् ३ हलाहलम् ४ हाल-
हलम् ५ हाहालम् ६ । इति शब्दरत्नावली ॥
तस्य स्वरूपं यथा, --
“गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा ।
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥
असौ हालाहलो क्षेयः किष्किन्ध्यायां हिमा-
लये ॥
दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते ॥”
इति भावप्रकाशः ॥
मद्यम् । इति राजनिर्घण्टः ॥ (यथा च वाभटे
उत्तरस्थाने ३५ अध्याये ।
“कालकूटेन्द्रवत्साख्यशृङ्गीहालहलादि-
कम् ॥”)

हालाहलः, पुं, (हालाहलमस्त्यस्येति । अच् ।)

कीटविशेषः । तत्पर्य्यायः । अज्जलिका २ कुटिल-
कीटकः ३ । इति राजनिर्घण्टः ॥

हालाहलधरः, पुं, (धरतीति । धृ + अच् । हाला-

हलस्य धरः ।) सर्पः । इति शब्दरत्नावली ॥

हालाहला, स्त्री, (हालाहलमस्त्यस्या इति ।

अच् । टाप् ।) क्षुद्रमूषिका । यथा, --
“हालाहलास्त्वञ्जलिका गिरिका बाल-
मूषिका ।”
इति जटाधरः ॥
पृष्ठ ५/५३३

हालाहली, स्त्री, मदिरा । इति राजनिर्घण्टः ॥

हालिकः, त्रि, हलेन खनति यः । (हलस्यायमिति

वा + हल + “हलसीरात् ठक् ।” ४ । ३ । १२४ ।
इति ठक् ।) हलस्य वोढा । हलसम्बन्धी ।
तत्पर्य्यायः । सैरिकः २ । इत्यमरः । २ । ९ । ६४ ॥
(यथा, वक्रोक्तिपञ्चाशिकायाम् । २ ।
“त्वं हालाहलभृत्करोषि मनसो मूर्च्छां ममा-
लिङ्गितो
हालां नैव बिभर्मि नैव च हलं मुग्धे ! कथं
हालिकः ।
सत्यं हालिकतैव ते समुचिता शक्तस्य गोवाहने
वक्रोक्त्येति जितो हिमाद्रिसुतया स्मेरो हरः
पातु वः ॥”)

हालिनी, स्त्री, स्थूलपल्ली । इति हेमचन्द्रः ॥

हाली, स्त्री, कनिष्ठा श्यालिका । इति हेमचन्द्रः ॥

हालुः, पुं, (हल्यतेऽनेनेति । हल + उण् । इत्यु-

णादिवृत्तौ उज्ज्वलः । १ । १ ।) दन्तः । इति
त्रिकाण्डशेषः ॥

हावः, पुं, (ह्वे + घञ् ।) आह्वानम् । इति जटा-

धरः ॥ स्त्रीणां शृङ्गारभावजाः क्रियाः । यथा,
“स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ।
हेला लीलेत्यमी हावाः क्रियाः शृङ्गार-
भावजाः ॥”
इत्यमरः । १ । ७ । ३१ ॥
स्त्रीणां विलासादयः शृङ्गारभावजाः क्रियाः
हावशब्देनोच्यन्ते । क्रियाः चेष्टाः । शृङ्गार-
भावो रतिः तत्र जाताः शृङ्गारभावजाः ।
हूयन्ते रागिणोऽत्र हावः हुलि होमेऽदने
आधारे घञ् । हूयन्ते रागिनः कामाग्नावने-
नेति करणे वा घञ् । यदुक्तम् ।
“युवानोऽनेन हूयन्ते नारीभिर्म्मदनानले ।
अतो निरुच्यते हावस्ते विलासादयो मताः ॥”
इति ।
हा कष्टं वयति शोषयतीति वै शोषे इत्यस्मात्
डे वा । यदाह भरतः ।
“अलङ्काराश्च नाट्यज्ञैर्ज्ञेया भावरसाश्रयाः ।
यौवनेष्वधिकः स्त्रीणां विकारा वक्त्रगात्रजाः ॥”
तथा ।
“लीला विलासो विच्छित्तिर्विभ्रमः किल-
किञ्चितम् ।
मोट्टायितं कुट्टमितं विव्वोको ललितं तथा ।
विकृतञ्चेति मन्तव्या दश स्त्रीणां स्वभावजाः ॥”
इत्यमरभरतौ ॥ * ॥
तल्लक्षणं यथा, --
“ग्रीवारेचकसंयुक्तो भ्रूनेत्रादिविकाशकृत् ।
भावादीषत्प्रकाशो यः स हाव इति कथ्यते ॥”
इत्युज्ज्वलनीलमणिः ॥

हासः, पुं, (हस + घञ् ।) हास्यम् । इत्यमरः ।

१ । ७ । १९ ॥ (यथा, रघुः । १२ । ३६ ।
“संरम्भं मैथिलीहासः क्षणसौम्यां निनाय-
ताम् ।
निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः ॥”)
विकाशः । यथा, भट्टिः । २ । ३ ।
“विम्बागतैस्तीरवनैः समृद्धिं
निजां विलोक्यापहृतां पयोभिः ।
कूलानि सामर्षतयेव तेनुः
सरोजलक्ष्मीं स्थलपद्महासैः ॥”)

हासाः, [स्] पुं, (जहाति शीतकिरणमिति ।

हा + “वहिहाधाञ्भ्यश्छन्दसि ।” उणा० ४ ।
२२० । इति असुन् । तस्य सुट् च ।) चन्द्रः ।
वैदिकशब्दोऽयम् ॥

हासिका, स्त्री, हास्यम् । इति हेमचन्द्रः ॥

हास्तिकं, क्ली, (हस्तिनां समूहः । हस्तिन् +

“अचित्तहस्तिधेनोष्ठक् ।” ४ । २ । ४७ । इति
ठक् ।) हस्तिसमूहः । इत्यमरः । २ । ८ । ३६ ॥
(यथा, महाभारते । ९ । ४९ । १० ।
“दत्वा च दानं विविधं नानारत्नसमन्वितम् ।
सगोहास्तिकदासीकं साजावि गतवान् वनम् ॥”
हस्तिना चरतीति । “चरति ।” ४ । ४ । ८ ।
इति ठक् ।) हस्त्यारोहे, त्रि ॥

हास्तिनं क्ली, (हस्तिना नृपेण निर्वृत्तमिति ।

हस्तिन् + अण् ।) हस्तिनापुरम् । इति
त्रिकाण्डशेषः । (हस्ती प्रमाणमस्य । हस्तिन् +
“पुरुषहस्तिभ्यामण् च ।” ५ । २ । ३८ । इति
अण् ।) गजपरिमाणे हस्तहस्तिसम्बन्धिनि च
त्रि ॥

हास्तिनपुरं, क्ली, (हास्तिनं पुरम् ।) हस्तिना-

पुरम् । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
९ । ३५ । ६ ।
“स गत्वा हास्तिनपरं धृतराष्ट्रं समेत्य च ।
उक्तवान् वचनं तथ्यं हितञ्चैव विशेषतः ॥”)

हास्यं, क्ली, (हस + ण्यत् ।) रसविशेषः । स च

कौतुकोद्भवम् । तत्पर्य्यायः । हासः २ हसः ३ ।
इत्यमरः । १ । १ । १९ ॥ हसनम् ४ घर्घरः ५
हासिका ६ । इति हेमचन्द्रः ॥ * ॥ अथ हासः ।
“विकृताकारवाग्वेशचेष्टादेः कुतुकाद् भवेत् ।
हास्या हासः स्थायिभावः श्वेतः प्रमथदैवतः ॥
विकृताकारवाक्चेष्टं यदालोक्य हसेज् जनः ।
तदत्रालम्बनं प्राहुः तच्चेष्टोद्दीपनं मतम् ॥
अनुभावोऽक्षिसङ्कोचवदनस्मेरतादिकः !
निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥
ज्येष्ठानां स्मितहसिते मध्यानां विहसिता-
वहसिते च ।
नीचानामपहसितं तथातिहसितञ्च षड्भेदाः ॥
ईषद्विकासि कथनं स्मितं स्यात् स्यन्दिताधरम् ।
किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥
मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् ।
अपहसितं सास्राक्षविक्षिप्ताङ्गं भवत्यतिह-
सितम् ॥”
यथा मम ।
“गुरोर्गिरः पञ्च दिनान्यधीत्य
वेदान्तशास्त्राणि दिनद्वयञ्च ।
अमी समाघ्राय च तर्कपादान्
समागताः कुक्कुटमिश्रपादाः ॥”
अस्य नाटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।
अत्र च ।
“यस्य हासः स चेत् क्वापि साक्षान्नैव निबध्यते ।
तथाप्येष विभावादिसामर्थ्यादुपलभ्यते ॥
अभेदेन विभावादि सावारण्यात् प्रतीयते ।
सामाजिकैस्तती हास्यरसोऽयमनुभूयते ॥”
एवमन्येष्वपि रसेषु द्रष्टव्यम् । इति साहित्य-
दर्पणे ३ परिच्छेदः ॥ * ॥ तस्य शुभाशुभलक्षणं
यथा, --
“अकम्पं हसितं श्रेष्ठं मीलिताक्षमघापहम् ।
असकृद्धसितं दुष्येत् तत् सोन्मादस्य नैकधा ॥”
इति गारुडे । ६५ । ३५ अध्यायः ॥
(हासयोग्ये, त्रि । यथा रघुः । २ । ४३ ।
संरुद्धचेष्टस्य मृगेन्द्र ! कामं
हास्यं वचस्तद्यदहं विवक्षुः ॥”)

हाहलं, क्ली, हलाहलविषम् । इति शब्दरत्ना-

वली ॥

हाहाः, [स्] पुं, देवगन्धर्व्वविशेषः । इत्यमर-

टीकायां भरतः ॥

हाहाः, पुं, देवगन्धर्व्वविशेषः । यथा, --

“हाहा हूहूश्चैवमाद्या गन्धर्व्वास्त्रिदिवौकसाम् ॥”
इत्यमरः । १ । १ । ५५ ॥
देवतानां हाहाहूहूविश्वावसुतुम्बुरुचित्ररथ-
प्रभृतयो गन्धर्व्वशब्दवाच्याः । उपास्योपासक-
लक्षणसम्बन्धः । अव्युत्पन्नोऽयं हाहाशब्दः ।
हाहति शब्दं जहतीति त्रासुसिति हाको
विच् इत्येवं व्युत्पन्ने तु शसाद्यचि धोरालोपो-
ऽच्यघावित्यालोपः सात् । असि प्रत्यये हाहः-
शब्दश्च सान्तोऽपि । गन्धर्व्वो हाहसि प्रोक्तो
गन्धर्व्वो गायनेऽपि च । इति साहसाङ्कः । गन्धर्व्व
पीतिहाहसोरिति वाचस्पतिः । हाहाशब्दोऽपि
दृश्यते । हंहो हाहा हूहू च द्वौ वृषणश्चैव
तुम्बुरुरिति व्याडिप्रभृतयः । इति भरतः ॥ * ॥
विस्मयशब्दे शोकशब्दे च व्य । यथा, --
“ततो हाहा कृतं सर्व्वं दैत्यसैन्यं ननाश तत् ॥
प्रहर्षञ्च परं जग्मुः सकला देवतागणाः ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ३ । ४० ॥

हाहाकारः, पुं, (हाहा इत्यव्यक्तशब्दस्य कारः

करणम् ।) युद्धकलरवः । इति केचित् ॥ (यथा,
महाभारते । १ । १९ । १६ ।
“हाहाकारः समभवत्तत्र सहस्रशः ।
अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥”
शोकध्वनिः । यथा, --
“उद्वहो विकटो वायुः करालो वात्ययान्वितः ।
देशवृक्षलतानाञ्च हाहाकाराय कल्पते ॥”
इति ज्योतिषे वायुफलम् ॥

हाहालं, क्ली, विषम् । इति शब्दरत्नावली ॥

"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/हरिले&oldid=44117" इत्यस्माद् प्रतिप्राप्तम्