शब्दकल्पद्रुमः/स्थलकुमुदः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/४४५

स्थलकुमुदः, पुं, (स्थलस्य कुमुदः ।) करवीरः ।

इति राजनिर्घण्टः ॥

स्थलपद्मं, क्ली, (स्थलस्य पद्मम् ।) स्वनामख्यात-

पुष्पविशेषः । (यथा, भट्टिः । २ । ३ ।
“विम्बागतैस्तीरवनैः समृद्धिं
निजां विलोक्यापहृतां पयोभिः ।
कूलानि सामर्षतयेव तेनुः
सरोजलक्ष्मीं स्थलपद्महासैः ॥”)
तत्पर्य्यायः । छत्रपत्रम् २ तमालकम् ३ । इति
त्रिकाण्डशेषः ॥ तच्चतुर्व्विधं यथा, --
“चतुर्था स्थलपद्मानि सेवन्ती गुलदावदी ।
नैपाली च गुलावश्च वकुलश्च कदम्बकः ॥”
इति रावणकृतार्कप्रकाशः ॥

स्थलपद्मः, पुं, (स्थलजातः पद्म इव ।) मानकः ।

इति रत्नमाला ॥ मानकचु इति भाषा ॥
(यथा, --
“स्थलपद्ममयं कल्कं पयसा लोड्य पाययेत् ।
प्लीहामयहरञ्चैव सर्व्वाङ्गैकाङ्गशोथजित् ॥”
इति वैद्यकचक्रपाणिसंग्रहे शोथाधिकारे ॥)

स्थलपद्मिनी, स्त्री, (स्थलस्य पद्मिनी ।) स्थल-

पद्मम् । वेटतामर इति हिन्दी भाषा । तत्-
पर्य्यायः । पद्माह्वा २ चारटी ३ पद्मचारिणी ४
सुगन्धमूला ५ अम्बुरुहा ६ लक्ष्मीः ७ श्रेष्ठा ८
सुपुष्करा ९ रम्या १० पद्मावती ११ अति-
चरा १२ स्थलरुहा १३ पुष्करिणी १४ पुष्कर-
पर्णिका १५ पुष्करनाडी १६ । अस्या गुणाः ।
गौल्यत्वम् तिक्तत्वम् । शीतत्वम् । वान्तिरक्त-
पित्तमेहभूतातीसारनाशित्वञ्च । इति राज-
निर्घण्टः ॥

स्थलमञ्जरी, स्त्री, (स्थलस्य मञ्जरी ।) अपामार्गः ।

इति रत्नमाला ॥

स्थलशृङ्गाटः, पुं, (स्थलजातः शृङ्गाटः ।) गोक्षर-

वृक्षः । इति रत्नमाला ॥

स्थलशृङ्गाटकः, पुं, (स्थलशृङ्गाट एव । स्वार्थे

कन् ।) गोक्षुरकः । इति राजनिर्घण्टः ॥

स्थलसीमा, [न्] पुं, (स्थलस्य सीमा ।) स्थण्डिलः ।

इति भूरिप्रयागः ॥

स्थला, स्त्री, (स्थल + टाप् ।) जलशून्याकृत्रिम-

भूमिः । इत्यमरटीकायां भरतः । २ । १ । ५ ॥
(अस्याः प्रमाणं स्थलशब्दे द्रष्टव्यम् ॥)

स्थली, स्त्री, (स्थल + ङीष् ।) जलशून्याकृत्रिमा

भूमिः । इत्यमरटीकायां भरतः । २ । १ । ५ ।
(यथा, साहित्यदर्पणे ।
“सैषा स्थली यत्र बिचिन्वता त्वां
भ्रष्टं मया नुपूरमेकमूव्व्याम् ।
अदृश्यत त्वच्चरणारविन्द-
विश्लषदुःखादिव बद्धमौनम् ॥”)

स्थलीदेवता, स्त्री, (स्थल्या देवता ।) ग्राम्यदेवता ।

इति केचित् ॥

स्थलेरुहा, स्त्री, (स्थले रोहतीति । रुह + कः ।)

गृहकुमारी । दग्धावृक्षः । इति राजनिर्घण्टः ॥
स्थलजाते, त्रि ॥

स्थलेशयः, पुं, (स्थले शेते इति । इति शी + अच् ।

क्रोडरुरुकुरङ्गादयः । इति राजनिर्घण्टः ॥
स्थलशायिनि, त्रि ॥

स्थविः, पुं, (तिष्ठतीति । स्था + “कृविघृष्वीति ।”

उणा० ४ । ५६ । इति क्विन्प्रत्ययेन साधुः ।)
तन्त्रवायः । स्वर्गः । जङ्गमः । इति संक्षिप्त-
सारोणादिवृत्तिः ॥

स्थविरं, क्ली, (स्था + “अजिरशिशिरेति ।” उणा ०

१ । ५४ । किरच्प्रत्ययेन साधुः ।) शैलेयम् ।
इति राजनिर्घण्टः ॥

स्थविरः, पुं, (स्था + किरच् ।) ब्रह्मा । इति

हेमचन्द्रः ॥

स्थविरः, त्रि, (तिष्ठतीति । स्था + “अजिर-

शिशिरेति ।” उणा० १ । ५४ । इति किरच्-
प्रत्ययेन साधुः ।) वृद्धः । इत्यमरः । २ । ६ ।
४२ ॥ (यथा, मनुः । २ । १२० ।
“ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥”
भिक्षुः । इत्युणादिवृत्तौ उज्ज्वलदत्तः ॥ १ । ४५ ॥)
अचलः । इत्युणादिकोषः ॥

स्थविरा, स्त्री, (स्था + किरच् । टाप् ।) महा-

श्रावणी । इति राजनिर्घण्टः ॥ वृद्धा च ॥

स्थविष्ठः, त्रि, (अयमेषामतिशयेन स्थूलः । स्थूल

+ इष्ठन् । “स्थूलदूरेति ।” ६ । ४ । १५६ ।
इति साधुः ।) अतिशयस्थूलः । इत्यमरः । ३ ।
२ । १११ ॥ (यथा, भागवते । २ । १ । २४ ।
“विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ॥”

स्थाणुः, पुं, (तिष्ठतीति । स्था + “स्थोणुः ।” उणा ०

३ । ३७ । इति णुः ।) शिवः । इत्यमरः । १ ।
१ । ३६ ॥ (यथा, रघुः । ११ । १३ ।
“स्थाणुदग्धवपुषस्तपोवनं
प्राप्य दाशरथिरात्तकार्म्मुकः ।
विग्रहेण मदनस्य चारुणा
सोऽभवत् प्रतिनिधिर्न कर्म्मणा ॥”)
तन्नामकारणं यथा, --
“समुत्तिष्ठन् जलात्तस्मात् प्रजास्ताः सृष्टवानहम्
ततोऽहं ताः प्रजा दृष्ट्वा रहिता एव तेजसा ॥
क्रोधेन महता युक्तो लिङ्गमुत्पाट्य चाक्षिपम् ।
उत्क्षिप्तं सरसो मध्ये ऊर्द्धमेव यदा स्थितम् ।
तदा प्रभृति लोकेषु स्थाणुरित्येव विश्रुतम् ॥”
इति वामने ४६ अध्यायः ॥
(ब्रह्मा । यथा, महाभारते । १ । १ । ३२ ।
“यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः ।
ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”)
कीलः । इति मेदिनी ॥ जीवकगन्धद्रव्यम् । यथा,
“जीवके जीवनो जीवो निधिः स्थाणुः प्रकी-
र्त्तितः ॥”
इति शब्दचन्द्रिका ॥

स्थाणुः, पुं, क्ली, (स्था + णुः ।) निःशाखवृक्षः ।

मुडा गाछ इति भाषा ॥ (यथा, देवीभाग-
वते । १ । १७ । ५३ ।
“छायायामातपे चेव समदर्शी महातपाः ।
ध्यानं कृत्वा तथैकान्ते स्थितः स्थाणुरिवा-
चलः ॥”)
तत्पर्य्यायः । ध्रुवः २ शङ्कुः ३ । इत्यमरः । २ । ४ । ८ ॥
अशाखवृक्षः ४ । इति जटाधरः ॥ अस्त्रभेदः ।
इति नीलकण्ठः ॥

स्थाणुः, त्रि, (स्था + णुः ।) स्थिरः । इति धरणिः ॥

(यथा, विष्णुपुराणे । १ । ५ । ५८ ।
“अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् ।
तत् ससर्ज्ज तदा ब्रह्मा भगवानादिकृत् विभुः ॥”

स्थाणुतीर्थं, क्ली, (स्थानोस्तीर्थम् ।) तीर्थविशेषः ।

यथा, वामने ४३ अध्याये ।
“स प्रोवाच महादेवो ब्रह्माणं प्रणतस्थितम् ।
पुण्यप्रदं नृणाञ्चैव तीर्थमाहात्म्यमुत्तमम् ॥
एतत् सन्निहितं प्रोक्तं सरः पुण्यप्रदं महत् ।
स्थाणुलिङ्गस्य माहात्म्यं ब्रह्मन् मेऽवहितः शृणु ॥
अचेतनः सचेता वा अज्ञो वा प्राज्ञ एव वा ।
लिङ्गस्य दर्शनादेव मुच्यते सर्व्वपातकैः ॥
पुष्करादीनि तीर्थानि समुद्रचरणानि च ।
स्थाणुतीर्थे समेष्यन्ति मध्यं प्राप्ते दिवाकरे ॥
तत्र स्थास्यति यो ब्रह्मन् माञ्च स्तोष्यति
भक्तितः ।
तस्याहं सुलभो नित्यं भविष्यामि न संशयः ॥
इत्येवमुक्त्वा वचनं देवदेवो गतः प्रभुः ।
देवाश्च ऋषयः सर्व्वे स्वानि स्थानानि भेजिरे ॥
ततः प्रभृति लोकेऽस्मिन् स्थाणुतीर्थं वदन्ति
हि ॥”

स्थाण्डिलः, पुं, (स्थण्डिले शयितुं व्रतमस्य ।

स्थण्डिल + “स्थण्डिलात् शयितरि व्रते ।” ४ ॥
२ । १५ । इति अण् ।) स्थण्डिलशायी । इत्य-
मरः । २ । ७ । ४५ ॥ (वाच्यलिङ्गोऽयमिति केचित् ॥)

स्थाण्वीश्वरः, पुं, (स्थाणुरीश्वरश्च ।) शिवलिङ्ग-

विशेषः । यथा, --
“स्थाणुर्नाम्ना हि लोकेषु पूजनीयो दिवौकसाम्
स्थाणुरीश्वरः स्थितो यस्मात् स्थाण्वीश्वरस्ततः
स्मृतः ॥
ये स्मरन्ति सदा स्थाणुं ते मुक्ताः सर्व्व-
किल्विषैः ।
भविष्यन्ति शुद्धदेहा दर्शनान्मोक्षगामिनः ॥
इत्येवमुक्त्वा देवेन ऋषयो ब्रह्मणा सह ।
तस्माद्दारुवणं लिङ्गं नेतुं समुपचक्रमुः ॥”
इति वामने ४२ अध्यायः ॥

स्थातव्यं, त्रि, (स्था + तव्य ।) स्थेयम् । स्थानीयम् ।

यथा, कालिदासकृतशृङ्गारतिलके ।
“बाणिज्येन गतः स मे गृहपतिवार्त्तापि न
श्रूयते
प्रातस्तज्जननो प्रसूततनया जामातृगेहं गता ।
बालाहं नवयौवना निशि कथं स्थातव्यमस्मद्गृहे
सायं सम्पति वर्त्तते पथिक हे स्थानान्तरे
गम्यताम् ॥”

स्थानं, क्ली, (स्था + ल्युट् ।) नीतिवेदिनां त्रिव-

र्गान्तर्गतवर्गविशेषः । इत्यमरः । २ । ८ । १९ ॥
पृष्ठ ५/४४६
नीतिवेदिनां नीतिशास्त्रज्ञानां क्षयादिभि-
स्त्रिवर्गः । अन्येषान्तु धर्म्मकामार्थैः पूर्व्वमुक्तः ।
अष्टवर्गस्यापचयः क्षयः । तस्यैवोपचयो वृद्धिः ।
तस्य नोपचयो नाप्यपचयः स्थानम् । अष्टवर्गो
यथा, --
“कृषिर्ब्बणिक्पथो दुर्गं सेतुकुञ्जरबन्धनम् ।
कन्याकरवलादानं सैन्यानाञ्च निवेशनम् ॥
अष्टवर्गः स्मृतो राज्ञामिति -- ॥”
इति भरतः ॥ * ॥
सादृश्यम् । अवकाशः । स्थितिः । इति मेदिनी ।
(यथा, मनुः । ६ । २२ ।
“स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥”)
सन्निवेशः । इति हेमचन्द्रः ॥ वसतिः । इति
चतुर्थकाण्डे हेमचन्द्रः ॥ यथाह कश्चित् ।
“स्थानं प्रधानं न बलं प्रधानं
स्थानस्थितः कापुरुषोऽपि सिंहः ॥”)
ग्रन्थसन्धिः । इति त्रिकाण्डशेषः ॥ भाजनम् ।
इति हलायुधः ॥ निकटम् । यथा, --
“त्वमत्र कृत्तिकास्थाने कथयामासुरीश्वर ।
सर्व्वे धर्म्मादयो देवा धर्म्माधर्म्मस्य साक्षिणः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । १५ । १६ ॥
अपि च ।
“एते ह्यपत्यास्तस्यर्षे धारयन्ति चराचरम् ।
पुरा मङ्कनकः सिद्धस्तत्स्थाने इति मे श्रुतम् ॥”
इति वामने ३७ अध्यायः ॥ * ॥
स्वधर्म्मानुष्ठायिनां असम्यग्वर्त्तिनाञ्च स्थान-
विशेषप्राप्तिर्यथा, --
“वर्णानामाश्रमाणाञ्च सम्यग्धर्म्मानुपालिनाम्
असम्यग्वर्त्तिनां लोकान् ब्रह्मा चक्रे यथा च यत्
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्
क्षत्त्रियाणां तथा चैन्द्रं संग्रामेष्वनुवर्त्ति नाम् ॥
वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तिनाम् ।
गान्धर्व्वं शूद्रजातीनां परिचर्य्यानुकारिणाम् ॥
अष्टाशीतिसहस्राणां यतीनामूर्द्ध्वरेतसाम् ।
स्मृतं तेषान्तु यत् स्थानं तदेव गुरुवासिनाम् ॥
सप्तर्षोणाञ्च यत् स्थाणं स्मृतं तद्वत् वनौ-
कसाम् ।
प्राजापत्यं गृहस्थानां गृहधर्म्मानुवर्त्तिनाम् ॥
न्यासिनान्तु परं ब्रह्म योगिनाममृतं स्मृतम् ।
एकान्तवासिनां ब्रह्मध्यायिनां परमं पदम् ॥
तामिस्रमन्धतामिस्रं महारौरवरौरवम् ।
असिपत्रवनं घोरं कालपत्रमवीचिमत् ॥
वेदस्य निन्दकानान्तु यज्ञव्याघातकारिणाम् ।
स्थानमेतत्समाख्यातं स्वधर्म्मविनिवर्त्तिनाम् ॥”
इति वह्निपुराणे सर्गकथननामाध्यायः ॥

स्थानकं, क्ली, स्थानामिव । कन् । स्थाने कं जलं

यत्रेति वा ।) आलवालम् । इति हेमचन्द्रः ॥
नगरम् । फेनम् । इति केचित् ॥ (स्थानमेव ।
स्वार्थे कन् । स्थानशब्दार्थोऽप्यत्र । यथा, महा-
भारते । १३ । २६ । ९४ ।
तत् स्थानकं ब्राह्म्यमभीप्समानै-
र्गङ्गा सदैवात्मवशैरुपास्या ॥”)

स्थानचञ्चला, स्त्री, (स्थाने चञ्चला ।) वर्व्वरीवृक्षः

इति शब्दचन्द्रिका ॥

स्थानच्युतः, त्रि, (स्थानात् चुतः ।) स्थानभ्रष्टः ।

यथा, गारुडे ११ । ७१ ।
“स्थानस्थितस्य पद्मस्य मित्रौ वरुणभास्करौ ।
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥”

स्थानपालः, पुं, स्थानं पालयति यः । (स्थान +

पालि + अण् ।) स्थानरक्षकः । (यथा, याज्ञ-
वल्क्ये । २ । १७६ ।
“शौल्विकैः स्थानपालैर्व्वा नष्टापहृतमाहृतम्
अर्व्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥”

स्थानभ्रष्टः, त्रि, (स्थानात् भ्रष्टः ।) पदच्युतः ।

यथा, --
“स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदस्थिताः
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥
इति गारुडे । ११५ । ७३ ।

स्थानाध्यक्षः, पुं, (स्थानस्य अध्यक्षः ।) स्थान-

रक्षकः । तत्पर्य्यायः । स्थानिकः २ । इति
हेमचन्द्रः ॥

स्थानिकः, पुं, (स्थानमस्येति । ठन् ।) स्थाना-

ध्यक्षः । इति हेमचन्द्रः ॥

स्थानी, [न्] त्रि, स्थानविशिष्टः । स्थानं विद्यते-

ऽस्य इत्यर्थे इन्प्रत्ययेन निष्पन्नः । यथा,
स्थानिवदादेशः । इति मुग्धबोधव्याकरणम् ॥

स्थानीयं, क्ली, (स्थानाय हितमिति । स्थान + छः)

नगरम् । इत्यमरः । २ । २ । १ ॥ स्थानसम्ब-
न्धिनि, त्रि ॥

स्थाने, व्य, योग्यम् । (यथा, रघुः । ५ । १६ ।

“स्थाने भवानेकनराधिपः स-
नकिञ्चनत्वं मखजं व्यनक्ति ॥”)
कारणार्थः । सादृश्यम् । सत्यम् । इति शब्द-
रत्नावली ॥

स्थापकः, त्रि, (स्थापयतीति । स्था + णिच् +

ण्वुल् ।) स्थापनकर्त्ता । ञ्यन्तस्थाधातोर्णकप्रत्य-
येन निष्पन्नः ॥

स्थापत्यः, पुं, (स्थपतिरेव । स्थपति + ष्यञ् ।)

अन्तःपुररक्षकः । इत्यमरः । २ । ८ । ८ ॥ स्थपते-
र्भावे, क्ली ॥

स्थापनं क्ली, (स्था + णिच् + ल्युट् ।) रोपणम् ।

पुंसवनम् । इति मेदिनी ॥ समाधिः । इति
विश्वः ॥ (पादादिपिण्डीकरणम् । इति श्रीधर-
स्वामी ॥ यथा, भागवते । १० । ४४ । ५ ।
“उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि ।
परस्परं जिगीषन्तावपचक्रतुरात्सनः ॥”

स्थापना, स्त्री, (स्था + णिच् + युच् + टाप् ।)

स्थापनम् निवेशनम् । (यथा, महाभारते ।
१२ । २८१ । २४ ।
“स्थापना वै सुमहती त्वया देव प्रवर्त्तिता ॥”
विचाराङ्गविशेषः । तद्यथा, --
“अथ स्थापना । स्थापना नाम तस्या एव
प्रतिज्ञाया हेतुभिर्दृष्टान्तोपनयनिगमैः स्थापना
पूर्व्वं हि प्रतिज्ञा पश्चात् स्थापना किंह्यप्रति-
ज्ञातं स्थापयिष्यति यथा नित्यः पुरुष इति
प्रतिज्ञा हेतुरकृतकत्वात् इति । दृष्टान्तः यथा,
अकृतकमाकाशं तच्च नित्यम् । उपनयो यथा,
चाकृतकमाकाशन्तथा पुरुषः । निगमनन्तस्मा-
न्नित्यैति ।” इति चरके विमानस्थाने ८ अध्याये ॥

स्थापनी, स्त्री, (स्थाप्यतेऽनयेति । स्था + णिच् +

ल्युट् । ङीप् ।) पाठा । इति मेदिनी अमरश्च ।
२ । ४ । ८४ ॥

स्थापितं, त्रि, (स्था + णिच् + क्तः ।) निश्चितम् ।

न्यस्तम् । इति मेदिनी ॥ (यथा, देवीभागवते ।
२ । ९ । ४३ ।
“मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे ॥”)

स्थाम, [न्] क्ली, (तिष्ठत्यनेनेति । स्था + सर्व्व-

धातुभ्यो मनिन् ।” उणा ० ४ । १४४ । इति
मनिन् ।) सामर्थ्यम् । इत्यमरः । २ । ८ । १०२ ॥
(नादः । यथा, महाभारते । १ । १३१ । २४ ।
“अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् ।
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥”

स्थायिभावः, पुं, (स्थायी भावः !) रसस्य त्रिधा-

भावान्तर्गतभावविशेषः । यथा, --
“सञ्चारिणः प्रधानानि देवादिविषया रतिः ।
उद्बुद्धमात्रः स्थायी च भाव इत्यभिधीयते ॥
न भावहीनोऽस्ति रसो न भावो रसवर्ज्जितः ।
परस्परकृता सिद्धिरनयो रसभावयोः ॥”
इत्युक्तदिशा परमालोचनया परमविश्रान्ति-
स्थानेन रसेन सहैव वर्त्तमाना अपि राजा-
नुगतविहारप्रवृत्तभृत्यवत् आपाततो यत्र
प्राधान्येनाभिव्यक्ता व्यभिचारिणः देवमुनिगुरु-
नृपादिविषया रतिः उद्बुद्धमात्राविभवादिभि-
रपरिपुष्टतया रसतामनापाद्यमानाश्च स्थायिनो
भावा भावशब्दवाच्याः । उद्बुद्धमात्रस्थायीभावो
यथा, --
“हरस्तु किञ्चित् परिहृत्य धैर्य्यं
चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे विम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि ॥”
अत्र पार्व्वतीविषया भगवतो रतिः । इति
साहित्यदर्पणे रसभावादिनिरूपणो नाम ३
परिच्छेदः ॥

स्थायी, [न्] पुं, (तिष्ठतीति । स्था + णिनिः ।)

भावभेदः । यथा, --
“स्थायिसात्त्विकसञ्चारिप्रभेदैः स्याद्रतिः पुनः ॥”
इति हेमचन्द्रः ॥
(यथा, साहित्यदर्पणे । ३ । २०५ -- २०७ ।
“अविरुद्धा विरुद्वा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दोऽसौ भावःस्थायीति सम्मतः ॥
यदुक्तम् ।
स्रक्सूत्रवृत्त्या भावानामन्येषामनुगामुकः ।
न तिरोधीयते स्थायी तैरसौ पुष्यते परम् ॥
तद्भेदानाह ।
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥
पृष्ठ ५/४४७
तत्र
रतिर्मनोऽकूलेऽर्थे मनसः प्रवणायितम् ।
वागादिवैकृच्चेतोविकासो हास इष्यते ॥
इष्टनाशादिभिश्चेतो वैक्लव्यं शोकशब्दभाक् ।
प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥
कार्य्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्रशक्या तु जनितं चित्तवैक्लव्यदं भयम् ॥
दोषेक्षणादिभिर्गर्हा जुगुप्सा विषयोद्भवा ।
विविधेषु पदार्थेषु लोकसीमातिवर्त्तिषु ॥
विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ।
शमो निरीहावस्थायामात्मविश्रामजं सुखम् ॥
यथा मालतीमाधवे रतिः । नटकमेलके हासः ।
रामायणे शोकः । महाभारते शमः । एवमन्ये
ऽपि । एते हि एतेष्वन्तरा उत्पद्यमानैस्तैस्तै-
र्विरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परि-
पुष्टा एव स्वहृदयानुभवसिद्धाः ॥” * ॥) स्थिति-
विशिष्टे, त्रि ॥ (तथा, महाभारते । ६ । ३ । २६ ।
“संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ॥”)

स्थायुकः, पुं, (स्थातुं शीलमस्य । स्था + “लस-

पतपदेति ।” ३ । २ । १५४ । इति उकञ् ।) एक-
ग्रामाधिकृतः एकस्मिन् ग्रामे नियोजितः । इत्य-
मरः । २ । ८ । ७ ॥ (स्थितिशीले, त्रि । यथा,
भट्टिः । २ । २२ ।
“आयोधने स्थायुकमस्त्रजात-
ममोघमभ्यंर्णमहाहवाय ।
ददौ वधाय क्षणदाचराणां
तस्मै मुनिः श्रेयसि जागरूकः ॥”)

स्थालं, क्ली, (तिष्ठत्यस्मिन् अन्नादिकमिति स्था +

“स्थाचतिमृजेरिति ।” उणा ० १ । ११५ । इति
आलच् ।) हेमादिकृतभोजनपात्रम् । थाल
इति भाषा । इत्यमरः । ३ । ५ । ३२ ॥ स्थलति
तिष्ठति अन्नादिकमत्र स्थालं स्थल ज स्थाने
घञ् । इति भरतः ॥ (अस्थिविशेषः । यथा,
याज्ञवल्क्यः । ३ । ८५ ।
“स्थालैः सह चतुःषष्टिर्द्दण्डा वै विंशतिर्नखाः ॥”
“स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि ।” इति
तत्र मिताक्षरा ॥)

स्थाली, स्त्री, (तिष्ठन्त्यत्रान्नादीनीति । स्था +

आलच् । गौरादित्वात् ङीष् । इत्युणादिवृत्तौ
उज्ज्वलः । १ । ११५ ।) पाकपात्रविशेषः ।
हाँडी इति थाली इति च भाषा । तत्पर्य्यायः ।
पिठरः २ उखा ३ कुण्डम् ४ । इत्यमरः । २ ।
९ । ३१ ॥ पिठरी ५ स्थालम् ६ उषा ७ कुण्डी
८ । इति तट्टीका ॥ कुण्डा ९ कुण्ड्यका १० ।
इति शब्दरत्नावली ॥ वाकः ११ पातिली १२ ।
इति जटाधरः ॥ (यथा, हरिवंशे । २६ । ४० ।
“पूरयित्वाग्निना स्थालीं गन्धर्व्वाश्च तमब्रुवन् ।
अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ॥”)
पाटलावृक्षः । इत्यमरटौका । २ । ४ । ५४ ॥
मेदिनी च ॥

स्थालीपक्वं त्रि, (स्थाल्यां पक्वम् ।) स्थाल्यां

पक्वान्नादि ॥

स्थालीपाकः, त्रि, (स्थाल्यां पाको यस्य ।) भाजन-

पक्वान्नादिः । यथा, चातुर्म्मास्यव्रते मात्स्ये ।
“लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ॥”
इति तिथ्यादितत्त्वम् ॥
(स्थाल्यां पच्यते इति । पच् + घञ् । स्थाली-
कृतपाकविशेषे, चरुविशेषे च पुं । यथा,
महाभारते । ३ । २३२ । ३२ ।
“ये च धर्म्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा ।
भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्व्वसु ॥
मान्यानां मांनसत्कारा ये चान्ये विदिता मम
तान् सर्व्वाननुवर्त्तामि दिवारात्रमतन्द्रिता ॥”)
मांसाष्टकाश्राद्धे स्थालीपाकस्य मांसप्रति-
निधित्वं यथा, “पश्वभावे स्थालीपाकेन यथा
गोभिलः । ‘अपि वा स्थालीपाकं कुर्व्वीत
इति ।’ तद्विधानन्तु ।
“स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकम्
श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु ॥”
इति छन्दोगपरिशिष्टोक्तं ग्राह्यम् । अन्विति
ओदनचरोः पश्चात् ।” इति तिथ्यादितत्त्वम् ॥
(वैद्यकोक्तस्थालीपाकविधिर्यथा, --
अथ स्थालीपाकविधिः ।
“इत्थमादित्यपाकान्ते स्थाल्यां पाकमुपाचरेत् ।
स्थालीपाके फलग्राह्यमयसस्त्रिगुणीकृतम् ॥
तस्य षोडशिकं तोयमष्टभागावशेषितम् ।
मृदुमध्यकठोराणामन्येषामयसा समम् ॥
क्वथनीयं समादाय चतुरष्टौ च षोडश ।
गुणानां स्थाप्यते तोयं शेषयेदयसा समम् ॥
स्वरसस्यापि लौहेन स्थालीपाके समानता ।
स्थाल्यां क्वाथादिकं दत्त्वा यथाविधिविनिर्म्मितम्
पाकेन क्षीयते यस्मात् स्थालीपाक इति स्मृतः
हस्तिकर्णपलाशस्य मूलञ्च शतमूलिका ॥
भृङ्गराजाख्यराजानामेषां निजरसैः सह ।
मिलित्वा वा विधातव्यं स्थालीपाके फलादनु ।
यथा दोषौषधेनापि स्थालीपाको विधीयते ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

स्थालीपुलाकः, पुं, (स्थालीस्थः पुलाको भक्त-

गुलिका यत्र ।) न्यायविशेषः । यथा, --
“स्थालीस्थास्तण्डुला एते सर्व्वेविक्लित्तिभागिनः
समकालाग्निसंयोगभागित्वात् प्रतिपन्नवत् ॥”
इति स्थालीपुलाकन्यायेन वैदिकलिङत्वाव-
च्छेदेनापूर्व्वे शक्तिकल्पनात् । प्रतिपन्नं हस्त-
मर्दनादिना स्फुटितत्वेन ज्ञातम् । इति मल-
मासतत्त्वम् ॥

स्थालीबिलं, क्ली, (स्थाल्या बिलम् ।) पाकपात्र-

स्याभ्यन्तरम् । स्थाल्याः शून्यभागः । इति
सिद्धान्तकौमुदी ॥

स्थालीबिलीयः, त्रि, (स्थालबिलमर्हतीति ।

“स्थालीबिलात् ।” ५ । १ । ७० ।
इति छः यच्च ।) पाकयोग्यतण्डुलादिः । यथा,
स्थालीबिलीयास्तण्डुलाः । स्थालीबिल्याः पाक
योग्या इत्यर्थः । इति सिद्धान्तकीमुदी ॥

स्थालीबिल्यः, त्रि, (स्थालबिलमर्हतीति ।

“स्थालीबिलात् ।” ५ । १ । ७० ।
इति छः यच्च ।) पाकयोग्यतण्डुलादिः । यथा,
स्थालीबिलीयास्तण्डुलाः । स्थालीबिल्याः पाक
योग्या इत्यर्थः । इति सिद्धान्तकीमुदी ॥

स्थालीवृक्षः, पुं, (स्थालीवत् वृक्षः ।) तरुप्रभेदः ।

वेलियापीपर इति हिन्दी भाषा । तत्पर्य्यायः ।
नन्दीवृक्षः २ अश्वत्थभेदः ३ प्ररोहीः ४ गज-
पादपः ५ क्षयतरुः ६ क्षीरी ७ वनस्पतिः ८ ।
अस्य गुणाः । लघुत्वम् । स्वादुत्वम् । तिक्त-
त्वम् । तुवरत्वत् । उष्णत्वम् । कटुपाकरसत्वम् ।
ग्राहित्वम् । विषपित्तकफास्रनाशित्वञ्च । इति
भावप्रकाशः ॥

स्थावरं, क्ली, (तिष्ठति धनुषीति स्था + वरच् ।)

धनुर्गुणः । इति त्रिकाण्डशेषः ॥

स्थावरः, पुं, (तिष्ठतीति । स्था + वरच् । पर्व्वतः ।

इति शब्दरत्नावली त्रिकाण्डशेषश्च ॥

स्थावरः, त्रि, (तिष्ठतीति । स्था + “स्थेशभास-

पिसकसो वरच् ।” ३ । २ । १७५ । इति
वरच् ।) जङ्गमेतरः । अचलवस्तु । इत्यमरः ।
३ । १ । ७३ ॥ जङ्गमा गोमक्षिष्यादयः ततो-
ऽन्यो वृक्षादिः स्थावरः । इति भरतः ॥ * ॥
स च ब्रह्मणः सप्तमः सर्गः षड्विधश्च । यथा, --
“सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषाञ्च यः ।
वनस्पत्योषधिलता त्वक्सारो वीरुधो द्रुमाः ॥”
तेषां लक्षणं यथा, --
“उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशेषिणः ॥”
इति श्रीभागवतम् ॥
“ये पुष्पं विना फलन्ति ते वनष्पतयः । ओषधयः
फलपाकान्ताः । लता आरोहणापेक्षाः ।
त्वक्सारो वेण्वादयः । लता एव काठिन्येन
आरोहणानपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते
द्रुमाः । ऊर्द्ध्वं स्रोत आहारसञ्चारो येषां ते ।
तमःप्रायाः अव्यक्तचैतन्याः । अन्तःस्पर्शाः स्पर्श-
मेव जानन्ति नान्यत्तदापि अन्तरेव न बहिः ।
विशेषिणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः”
इति तट्टीकायां श्रीधरस्वामी ॥ * ॥ स्थावरधनं
सान्निध्ये तरेभ्यो न विक्रे तव्यम् । यथा, --
“स्थावरं धनमन्यस्मै स्थिते सान्निध्यवर्त्तिनि ।
योग्ये क्रेतरि विक्रेतुं न शक्तः स्थावराधिपः ॥
सान्निध्यवर्त्तिनां ज्ञातिः सवर्णो वा विशिष्यते ।
तयोरभावे सुहृदो विक्रेत्रिच्छा गरीयसी ।
निर्णीतमूल्ये पण्येन स्थावरस्य क्रयोद्यमे ।
तन्मूल्यञ्चेत् समीपस्थो राति क्रेता न चापरः ॥
मूल्यं दातुमशक्तश्चेत् सम्मतो विक्रयेऽपि वा ।
सन्निधिस्थस्तदान्यस्मै गृही शक्नोति विक्रये ॥
क्रीतञ्चेत् स्थावरं देवि ! परोक्षे प्रतिवासिनः ।
श्रवणादेव तन्मूल्यं दत्त्वासौ प्राप्नुमर्हति ॥
क्रेता तत्र गृहारामान् विनिर्म्माति भुनक्ति वा
मूल्यं दत्त्वापि नाप्नोति स्थावरं सन्निधिस्थितः ॥
इति महानिर्व्वाणतन्त्रे द्वादशोल्लासः ॥
स्थावरे विशेषो यथा, याज्ञवल्क्यः ।
“मणिमुक्ताप्रबालानां सर्व्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्व्वस्य न पिता न पितामहः ॥”
अपि च ।
“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्ज्जितम् ।
असम्भूय सूतान् सर्व्वान् न दानं न च विकयः ॥”
पृष्ठ ५/४४८
किञ्च ।
“पितुः प्रसादात् भुज्यन्ते वस्त्राण्याभरणानि च
स्थावरन्तु न भुञ्जीत प्रसादे सति पैतृके ॥”
इति मिताक्षराधृतवचनमपि पितामहधन-
परम् । पित्रा च स्वोपार्जितं स्थावरं दत्तं
भुज्यत एव इति ॥
“स्थावरे विक्रयो नास्ति कुर्य्यादाधिमनुज्ञया ॥”
इति स्थावरस्य केवलविक्रयप्रतिषेधात् विक्रये-
ऽपि कर्त्तव्ये सहिरण्यमुदकं दत्त्वा दानरूपेण
स्थावरविक्रय इतिविज्ञानेश्वरः । वस्तुतस्तु स्थाव-
रविक्रयनिषेधोऽविभक्तस्थावरविषयः ॥ * ॥ पूर्व्व-
पुरुषार्जितनष्टोद्धारे विशेषयति मिताक्षरायाम् ।
“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।
असम्भूय सुतान् सर्व्वान् न दानं न च विक्रयः ॥”
अस्याप्यपवादमाह ।
“एकोऽपि स्थावरे कुर्य्यात् दानाधमनविक्रयम्
आपत्काले कुटुम्बार्थे धर्म्मार्थे च विशेषतः ॥”
अनुपभोगे तु सर्व्वस्य क्रीतादेर्हानिर्यथा बृह-
स्पतिः ।
“संविभागक्रयप्राप्तं पित्र्यं लब्धञ्च राजतः ।
स्थावरं सिद्धिमाप्नोति भुक्त्या हानिरुपेक्षया ॥ *
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकल्पितम्
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥”
नारदः ।
“भर्त्रा प्रीतेन यद्दत्तंस्त्रियै तस्मिन् मृतेऽपि तत्
सा यथा काममश्नीयात् दद्याद्वा स्थावरादृते ॥”
यमः ।
“अविभक्तं स्थावरं यत् सर्व्वेषामेव तद्भवेत् ।
विभक्तं स्थावरं प्राप्तं नान्योदर्य्यैः कदाचन ॥”
सर्व्वेषां सोदरासोदराणाम् । स्थावरातिरिक्तन्तु
विभक्ताविभक्तसोदराणामेवेत्यर्थतः सिद्धम् ।
तेषां तत्पिण्डदातृत्वेन तन्मातृभोग्यपार्व्वणपि-
ण्डदातृत्वेन चाधिकारात् । इति दायतत्त्वम् ॥ *
(अथातः स्थावरविषविज्ञानीयमध्यापं व्याख्या-
स्यामः ।
“स्थावरञ्जङ्गमञ्चैव द्विविधं विषमुच्यते ।
दशाधिष्ठानमाद्यन्तु द्वितीयं षोडशाश्रयम् ॥
मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च ।
निर्य्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ॥
तत्र क्लीतकाश्वमारगुञ्जासुबन्धगर्गरककरघाट-
विद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि । विष-
पत्रिका-लम्बावरदारुककरम्भ-महाकरम्भाणि
पञ्च पत्रविषाणि । कुमुद्वतीवेणुकाकरम्भकहा-
करम्भकर्क्कोटकरेणुकखद्योतकचर्म्मरीभगन्धा-
सर्पधातिनन्दनसारपाकानीति द्वादश फल-
विषाणि । वेत्रकादम्बवल्लीजकरम्भमहाकर-
म्भाणि पञ्च पुष्पविषाणि । अन्त्रपाचककर्त्तरीय-
सौरीयककरघाटकरम्भनन्दनवराटकानि सप्त-
त्वक्सारनिर्य्यासविषाणि कुमुदघ्नोस्नु हीजाल-
क्षीर्य्याणि त्रीणि क्षीरविषाणि । फेणाश्मभस्म-
हरितालञ्च द्वै धातुविषे । कालकूटवत्सनाभ-
सर्षपकपालककर्द्द्रमकवैराटकमुस्तकशृङ्गीविष-
प्रपौण्डरिकमूलकहलाहलमहाविषकर्कटका-
नीति त्रयोदश कन्दविषाणि । इत्येवं पञ्च-
पञ्चाशत् स्थावरविषाणि भवन्ति ॥
चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्त्तिते ।
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ॥
उद्वेष्टनं मूलविषैः प्रलापो मोह एव च ।
जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ॥
मुष्कशोफः फलविषैर्द्दाहोऽन्नद्वेष एव च ।
भवेत् पुष्पविषैश्छर्द्दिराध्मानं मोह एव च ॥
त्वक्सारनिर्य्यासविषैरुपयुक्तैर्भवन्ति हि ।
आस्यदीर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ॥
फेणागमः क्षीरविषे विड्भेदो जिम्भजिह्वता ।
हृत्पीडनं धातुविषैर्म्मूर्च्छा दाहश्च तालुनि ॥
प्रायेण कालघातीनि विषाण्ये तानि निर्द्दिशेत्
कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम्
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च ।
ग्रीवास्तम्भो वत्सनाभे पीतविण्मूवनेत्रता ॥
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च ।
ग्रीवा दौर्व्वल्यवाक्सङ्गौ पलकेऽनुमताविह ॥
प्रसेकः कर्द्द्वमाख्ये तु विड्भेदो नेत्रपीतता ।
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ॥
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु ।
शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ॥
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे ।
वैवर्ण्यं मूलकैश्चर्द्दिहिक्काशोफप्रमूढताः ॥
चिरेणोच्छसिति श्यावो नरो हालाहलेन वै ।
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ॥
कर्क्कटैर्नोत्पतत्यूर्द्ध्वं हसन् दन्तान् दशत्यपि ।
कन्द जान्यूग्रवीर्य्याणि प्रयुक्तानि त्रयोदश ॥
सर्व्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः ।
रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च ॥
विकाशि विशदञ्चैव लब्धपाकि च तत स्मृतम्
तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणि-
तम् ॥
मानसं मोहयेत्तैक्ष्ण्यादङ्गबन्धान् छिनत्त्यपि ।
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ॥
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् ।
क्षपयेच्च विकाशित्वाद्दोषान् धातुमलानपि ॥
वैशद्यादतिरिच्येत दुश्चिकित्स्यञ्च लाघवात् ।
दुर्ज्ज रञ्चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ॥
स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्धितम् ।
सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ॥
यत् स्थावरं जङ्गमकृत्रिमं वा
देहादशेषं यदनिर्गतं तत् ।
जीर्णं विषघ्नौषधिभिर्हतं वा
दावाग्निवातातपशोषितं वा ॥
स्वभावतो वा गुणविप्रहीनं
विषं हि दूषीविषतामुपैति ।
वीर्य्याल्पभावान्न निपातयेत्तत्
कफावृतं वर्षगणानुबन्धि ॥
तेनार्द्दितो भिन्नपुराषवर्णो
विगन्धवैरस्यमुखः पिपासी ।
मूर्च्छन् वमन् गद्गदवाग्विषण्णो
भवेच्च दूष्योदरलिङ्गजुष्टः ॥
आमाशयस्थे कफवातरोगी
पित्ताशयस्थेऽनिलपित्तरोगी ।
भवेन्नरो ध्वस्तशिरोरुहाङ्गो
विलूनपक्षस्तु यथा विहङ्गः ॥
स्थितं रसादिष्वथ वा यथोक्तान्
करोति धातुप्रभवान् विकारान् ।
कोपञ्च शीतानीलदुर्द्दिनेषु
यात्याशु पूर्व्वं शृणु तत्र रूपम् ॥
निद्रा गुरुत्वञ्च विजृम्भणञ्च
विश्लेषहर्षावथवाङ्गमर्द्दः ।
ततः करोत्यन्नमदाविपाका-
वरोचकं मण्डलकोठमोहान् ॥
धातुक्षयं पादकरास्यशोफं
दकोदरं छर्द्दिमथातिसारम् ।
ववर्ण्यमूर्च्छाविषमज्वरान् वा
कुर्य्यात् प्रवृद्धां प्रबलां तृषां वा ।
उन्मादमन्यज्जनयेत्तथाऽन्य-
दानाहमन्यत् क्षपयेच्च शुक्रम् ।
गाद्गद्यमन्यज्जनयेच्च कुष्ठं
तांस्तान् विकारांश्च बहुप्रकारान् ॥
दूषितं देशकालान्नदिवास्वप्नै रभिक्ष्णशः ।
यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ॥
स्थावरस्योपयुक्तस्य वेगे तु प्रथमें नृणाम् ।
श्यावा जिह्वा भवेत् स्तब्धा मूर्च्छाश्वासश्च जाय
द्वितीये वेपथुः स्वेदो दाहः कण्डूरुजस्तथा ।
विषमामाशयप्राप्तं कूरुते हृदि वेदनान् ॥
तालुशोषं तृतीये तु शूलं चामाशये भृशम् ।
दुर्व्वर्णे हरिते शूने जायेते चास्य लोचने ॥
पक्वाशयगते तोदो हिक्काकासोऽन्त्रकूजनम् ।
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ॥
कफप्रसेको वैवर्ण्यं पर्व्वभेदश्च पञ्चमे ।
सर्व्वदोषप्रकोपश्च पक्वाधाने च वेदना ॥
षष्ठे प्रज्ञाप्रणाशश्च भृशं वाप्यतिसार्य्यते ।
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ॥
प्रथमे विषवेगे तु वान्तं शीताम्बुसेवितम् ।
अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ॥
द्वितीये पूर्व्ववद्वान्तं पाययेत्तु विरेचनम् ।
तृतीयेऽगदपानन्तु हितं नस्ये तथाञ्जनम् ॥
चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक् ।
पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ॥
षष्ठेऽतिसारवत्सिद्धिरवपीडश्च सप्तमे ।
मूर्द्ध्नि काकपदं कृत्वा सासृग्वापि शितं क्षिपेत्
वेगान्तरे त्वन्यतमे कृते कर्म्माणि शीतलाम् ।
यवागूं सघृतक्षौद्रमिमां दद्याद्विचक्षणः ॥
कोषातक्योऽग्निकः पाठासूर्य्यवल्ल्यमृताभयाः ।
शिरीषः किणिहीशेलुगिर्य्याह्वा रजनीद्वयम् ॥
पुनर्णवे हरेणुश्च त्रिकटुः सारिवे बला ।
एषां यवागूर्निक्वाथे कृता हन्ति विषद्वयम् ॥
मधूकं तगरं कुष्ठं भद्रदारु हरेणवः ।
पुन्नागलैलबालूनि नागषुष्पोत्पललं सिता ।
पृष्ठ ५/४४९
विडङ्गं चन्दनं पत्रं प्रियङ्गु ध्यामकं तथा ।
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरासहा ॥
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् ।
विषाणि हन्ति सर्व्वाणि शीघ्रमेवाजितं क्वचित् ॥
दूषीविषार्त्तं सुखिन्नमूर्द्धञ्चाधमश्च शोधितम् ।
पाययेतागदं नित्यमिमं दूषीविषापहम् ॥
पिप्पल्यो ध्यामकं मांसी सावरः परिपेलवम् ।
सुवर्च्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ॥
क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति ।
एष नाम्ना विषारिस्तु न चान्यत्रापि वार्य्यते ॥
ज्वरे दाहे च हिक्कायामानाहे शुक्रसंक्षये ।
शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि वा ॥
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः ।
यथास्वं तेषु कुर्व्वीत विषघ्नै रौषधैः क्रियाम् ॥
साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् ।
दूषीविषमसाध्यन्तु क्षीणस्याहितसेविनः ॥”
इति सुश्रुते कल्पस्थाने २ अध्यायः ॥)

स्थावरादि, क्ली, (स्थावरं आदिः कारणं यस्य ।)

वत्सनाभविषम् । इति राजनिर्घण्टः ॥

स्थाविरं, क्ली, (स्थविरस्य भावः कर्म्म वा । स्थविर

+ “हायनान्तयुवादिभ्योऽण् ।” ५ । १ । १३० ।
इत्यण् ।) स्थविरत्वम् । वृद्धत्वम् । इत्यमरः ।
२ । ३ । ४० ॥ (यथा, महाभारते । २ । १९९ । ३ ।
“गार्हस्थेऽथवा बाल्ये यौवने स्थाविरेऽपि वा ।
यथाफलं समश्नाति तथा त्वं कथयस्व मे ॥”)
तत्तु सप्ततिवर्षात् परम् यथा, --
“आ षोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।
वृद्धः स्यात् सप्ततेरूर्द्ध्वं व्रर्षोयान् नवतेः परम् ॥”
इति भरतधृतस्मृतिवचनम् ॥

स्थासकः, पुं, चार्च्चिक्यम् । इत्यमरः । २ । ६ । १२२ ॥

जलादेर्व्वुद्वुदम् । इति मेदिनी ॥

स्थासु, क्ली, शारीरबलम् । ष्ठाधातोः सुप्रत्ययेन

निष्पन्नम् । इति केचित् ॥

स्थास्नुः, त्रि, (तिष्ठतीति । स्था + “ग्लाजिस्थश्च

क्स्नुः ।” ३ । २ । १३९ । इति स्नुः ।) स्थिरतरः ।
इत्यमरः । ३ । १ । ७३ ॥ (यथा, भट्टिः । २ । ४७ ।
“हिरण्मयी शाललतेव जङ्गमा
च्युता दिवः स्थास्नु रिवाचिरप्रभा ।
शशाङ्ककान्तेरधिदेवताकृतिः
सुता ददे तस्य सुताय मैथिली ॥”)
शाश्वतः । इति भरतः ॥ (यथा किराते । २ । १९ ।
“अभिमानधनस्य गत्वरै-
रसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासञ्चञ्चला
ननु लक्ष्मीः फलमानुसङ्गिकम् ॥”
स्थावरः । इति श्रीभागवतटीकायां श्रीधर-
स्वामी । २ । ६ । ४० ॥ (यथा, मनुः । १ । ५६ ।
“यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस्तदा मूर्त्तिं विमुञ्चति ॥”

स्थिकः, पुं, कटिप्रोधः । यथा, शब्दरत्नावल्याम् ।

“कटिप्रोथः कटिप्रौथः पुलः स्थिकः स्त्रियां
स्फिचा ॥”

स्थितः, त्रि, (स्था + क्तः ।) प्रतिज्ञातवान् ।

(यथा, हरिवंशे । २५५ । ९५ ।
“पक्षीन्द्रवचनं श्रुत्वा दानवेन्द्रोऽब्रवीदिदम् ।
स्थितोऽस्मि समये तस्य अनन्तस्य महात्मनः ॥”)
ऊर्द्ध्वः । निश्चलः । इति मेदिनी ॥ (वर्त्तमानः ।
गतिनिवृत्तिविशिष्टः । यथा, रघुः । २ । ६ ।
“स्थितः स्थितामुच्चलितः प्रयातां
निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमादधानां
छायेव तां भूपतिरन्वगच्छत् ॥” * ॥
क्ली, स्था + भावे क्तः । अवस्थानम् । कुल-
मर्य्यादा । यथा, रामायणे । २ । ३९ । २४ ।
“साध्वीनान्तु स्थितानान्तु शीले सत्ये श्रुते स्थिते
स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥”)

स्थितप्रज्ञः, त्रि, (स्थिता प्रतिष्ठिता आत्मा-

नात्मविवेकजा प्रज्ञा यस्य ।) मनोगतसर्व्व-
वासनारहितः । यथा, श्रीभगवद्गीतायाम् २ ।
५५ -- ५६ ।
“प्रजहाति यदा कामान् सर्व्वान् पार्थ ! मनो-
गतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधोर्म्मुनिरुच्यते ॥”

स्थितप्रेमा, [न्] पुं, (स्थितं प्रेम यस्य ।) स्थिर-

तरबन्धुः । इति केचित् ॥

स्थितिः, स्त्री, (स्था + क्तिन् ।) न्याय्यपथस्थितिः ।

तत्पर्य्यायः । संस्था २ मर्य्यादा ३ धारणा ४ ।
इति क्षत्त्रियवर्गे अमरः । २ । ८ । २६ ॥
संस्थितिः ५ । इति शब्दरत्नावली ॥ (यथा,
कुमारे । १ । १८ ।
“स मानसों मेरुसखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः
मेनां मुनीनामपि माननीया-
मात्मानुरूपां विधिनोपयेमे ॥”)
अवस्थानम् । तत्पर्य्यायः । आस्या २ आसना ३ ।
इति सङ्कीर्णवर्गे अमरः । ३ । २ । २१ ॥
(यथा, रघुः । १ । ८९ ।
“प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थिति-
माचरेः ॥”)
सीमा । इति मेदिनी ॥ * ॥ (नियमः । यथा,
महाभारते । ३ । १३१ । २० ।
“श्येनः कपोतानत्तीति स्थितिरेषा सनातनी ।
मा राजन् सारमज्ञात्वा कदलीस्कन्धमासजः ॥”)
द्रव्यविशेषे स्थितिनिषेधो यथा, --
“नास्थिभस्मकपालानि न केशान् वा कथञ्चन ।
तुषाङ्गारकविष्ठानामधितिष्ठेत् कदाचन ॥
इति कौर्म्मे उपविभागे । १६ । ७९ ॥

स्थिरः, पुं, (तिष्ठतीति । स्था + “अजिरशिशि-

रेति । उणा ० १ । ५४ । इति किरच्प्रत्ययेन
साधुः ।) देवः । पर्व्वतः । कार्त्तिकेयः । वृक्षः ।
इति शब्दरत्नावली ॥ शनिः । मोक्षः । इति
मेदिनी ॥ अनड्वान् । इति राजनिर्घण्टः ॥
धववृक्षः । इति भावप्रकाशः ॥ वृषसिंहवृश्रिक-
कुम्भराशयः । यथा, --
क्रूरोऽथ सौम्यः पुरुषोऽङ्गना च
ओजोऽथ युग्मं विषमः समश्च ।
चरस्थिरद्व्यात्मकनामधेया
मेषादयोऽमी क्रमशः प्रदिष्टाः ॥”
इति ज्योतिस्तत्त्वम् ॥
तत्र जातफलं यथा,
“अस्थिरविभूतिमित्रं चलमटनं स्खलितनियम-
मपि चरभे
स्थिरभे तद्विपरीतं क्षेमान्वितं दीर्घसूत्रञ्च ॥
द्विशरीरे त्यागयुक्तं कृतद्रुमुत्साहिनं विविध-
चेष्टम् ॥”
इति दीपिका ॥ * ॥
स्थिरवस्तूनि यथा । युद्धे प्रधानभटः १ साध्वी २
धर्म्मः ३ अधर्म्मः ४ सन्मनः ५ । अस्थिरवस्तूनि
यथा । अबला १ दोला २ अपाङ्गः ३ यौवनम् ४
दुर्जनः ५ स्वामिप्रसादः ६ हस्तिकर्णः ७
स्वर्णम् ८ मत्स्यः ९ कपिः १० श्रीः ११ । इति
कविकल्पलता ॥

स्थिरः, त्रि, (स्था + किरच् । कठिनः । निश्चलः ।

इति धरणिः ॥ यथा, --
“अब्भ्रच्छाया खलैः प्रीतिः परनारीषु
सङ्गतिः ॥
पञ्चैते अस्थिरा भावा यौवनानि धनानि च ॥
अस्थीरं जीवितं लोके अस्थिरं धनयौवनम् ।
अस्थिरं पुत्त्रदाराद्यं धर्म्मः कीर्त्तिर्यशः स्थिरम् ॥”
इति गारुडे । ११५ । २५ -- २६ ॥

स्थिरगन्धः, पुं, (स्थिरो गन्धो यस्य ।) चम्पकवृक्षः ।

इति राजनिर्घण्टः ॥ चिरस्थायिसौरभयुक्ते, त्रि ॥

स्थिरगन्धा, स्त्री, (स्थिरो गन्धो यस्याः ।) पाटला ।

केतकी । इति राजनिर्घण्टः ॥

स्थिरचक्रः, पुं, (स्थिरं चक्रं यस्य ।) जिनविशेषः ।

तत्पर्य्यायः । मञ्जुश्रीः २ ज्ञानदर्पणः ३ मञ्जु-
भद्रः ४ मञ्जुघोषः ५ कुमारः ६ अष्टारचक्रवान् ७
वज्रधरः ८ प्रज्ञाकायः ९ वादिराट् १० नीलो-
त्पली ११ महाराजः १२ नीलः १३ शार्द्दूल-
वाहनः १४ धियाम्पतिः १५ पूर्व्वजिनः १६
खङ्गी १७ दण्डी १८ विभूषणः १९ बाल-
व्रतः २० पञ्चचीरः २१ सिंहकेलिः २२ शिखा-
धरः २३ वागीश्वरः २४ । इति त्रिकाण्डशेषः ॥

स्थिरच्छदः, पुं, (स्थिराश्छदा यस्य ।) भूर्ज्जपत्रः ।

इति रत्नमाला ॥

स्थिरच्छायः, पुं, (स्थिरा निश्चला च्छाया यस्य ।)

वृक्षमात्रम् । इति शब्दमाला ॥ छायातरुः ।
इति त्रिकाण्डशेषः ॥ (निश्चलच्छायायुक्ते, त्रि ।
यथा, महानिर्व्वाणे । १ । ३ ।
“स्थिरच्छायद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥”)

स्थिरजिह्वः, पुं, (स्थिरा जिह्वा यस्य ।) मत्स्यः ।

इति हेमचन्द्रः ॥

स्थिरजीविता, स्त्री, (स्थिरं बहुकालस्थायि जीवितं

यस्याः ।) शाल्मलिवृक्षः । इति शब्दमाला ॥
पृष्ठ ५/४५०

स्थिरतरः, त्रि, (अयमनयोरतिशयेन स्थिरः ।

स्थिर + तरप् ।) अतिशयस्थिरः । तत्पर्य्यायः ।
स्थास्नुः २ स्थेयान् ३ । इत्यमरः । ३ । १ । ७३ ॥
दृढतरः ४ । इति शब्दरत्नावली ॥ स्थेयः ५ ।
अतिस्थिरः ६ स्थेष्ठः ७ । इति हेमचन्द्रः ॥

स्थिरदंष्ट्रः, पुं, (स्थिरा दंष्ट्रा यस्य ।) भुजङ्गः ।

वराहाकृतिविष्णुः इति मेदिनी ॥ ध्वनिः ।
इत्यजयः ॥

स्थिरपत्रः, पुं, (स्थिराणि पत्राणि यस्य ।)

हिन्तालः । इति राजनिर्घण्टः ॥

स्थिरपुष्पः, पुं, (स्थिराणि पुष्पाणि यस्य ।) चम्पक-

वृक्षः । वकुलः । इति राजनिर्घण्टः ॥

स्थिरपुष्पी, [न्] पुं, (स्थिरपुष्पमस्यास्तीति ।

इनिः ।) तिलकवृक्षः । इति राजनिर्घण्टः ॥

स्थिरफला, स्त्री, (स्थिरं फलं यस्याः ।)

कुष्माण्डी । इति केचित् ॥

स्थिरमतिः, स्त्री, (स्थिरा मतिः ।) निश्चला

बुद्धिः । यथा, --
“स्थिरमतिं सुमतिं कमनीयतां
कुशलतां हि नृणामुपभोगिताम् ।
वृषगतो हिमगुर्भृशमादिशेत्
सुकृतिनः कृतिनश्च सुखान्यपि ॥”
इति कोष्ठीप्रदीपः ॥
तद्युक्ते, त्रि । स्थिरा मतिर्यस्येति बहुव्रीहि-
समासः ॥

स्थिरयोनिः, पुं, (स्थिरा योनिरुत्पत्तिर्यस्य ।)

छायातरुः । इति भूरिप्रयोगः ॥

स्थिरयौवनः, पुं, (स्थिरं यौवनं यस्य ।) विद्या-

धरः । इति त्रिकाण्डशेषः ॥ (स्थिरं यौवन-
मिति । निश्चलयौवने, क्ली । यथा, मार्कण्डेये ।
६० । ३ ।
“तस्य ते वै फलरसं पिबन्तः पुरुषाः सदा ।
स्थिरयौवनसम्पन्नाः स्त्रियश्चोत्पलगन्धिकाः ॥”)
चिरस्थायितरुणावस्थे, त्रि ॥ (यथा, विष्णु-
पुराणे । १२१ । ६२ ।
“सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना ।
जरां न यास्यति बधूर्यावत्त्वं कृष्ण मानुषः ॥”)

स्थिररङ्गा, स्त्री, (स्थिरो रङ्गो रागो यस्याः ।)

नीली । इति राजनिर्घण्टः ॥

स्थिररागा, स्त्री, (स्थिरो रागो यस्याः ।) दारु-

हरिद्रा । इति राजनिर्घण्टः ॥

स्थिरश्रीः, त्रि, स्थिरा श्रीर्लक्ष्मीर्यस्य । स्थिर-

लक्ष्मीकः । यथा, तिथ्यादितत्त्वे मत्स्यपुराणम् ।
“स्थिरोपायो हि पुरुषः स्थिरश्रीरेव जायते ।
रक्षितुं नैव शक्नोति चपलश्चपलां श्रियम् ॥”

स्थिरसाधनकः, पुं, (स्थिरं साधयतीति । साधि +

ल्यः । ततः कन् ।) सिन्दुवारवृक्षः । इति
राजनिर्घण्टः ॥

स्थिरसारः, पुं, (स्थिरः सारो यस्य ।) शाक-

वृक्षः । इति राजनिर्घण्टः ॥

स्थिरा, स्त्री, (स्था + किरच् । टाप् ।) पृथिवी ।

शालपर्णो । इत्यमरः । २ । १ । २ । २ । ४ । ११५ ॥
काकोली । इति जटाधरः ॥ शाल्मलिवृक्षः ।
इति शब्दचन्द्रिका ॥ स्थैर्य्ययुक्ता स्त्री च ॥

स्थिराङ्घ्रिपः, पुं, (स्थिरः अङ्घ्रिपः वृक्षः ।)

हिन्तालवृक्षः । इति राजनिर्घण्टः ॥

स्थिरायुः, [स्] पुं, (स्थिरं आयुर्यस्य ।) शाल्मलि-

वृक्षः । इत्यमरः । २ । ४ । ४६ ॥ चिरजीविनि, त्रि ॥

स्थुड, शि वृत्याम् । इति कविकल्पद्रुमः ॥

(तुदा०-कुटा०-पर०-सक० सेट् ।) दन्त्यादिः ।
शि, स्थुडति अस्थुडीत् तुस्थोड । वृत्यां वरणे ।
इति दुर्गादासः ॥

स्थुरी, [न्] पुं, स्थौरी । इत्यमरटीकायां राय-

मुकुटः ॥

स्थूणा, स्त्री, (तिष्ठतीति । स्था + “रास्नासास्ना-

स्थूणाबीणाः ।” उणा० ३ । १५ । इति नप्रत्य-
येन साधुः ।) गृहस्तम्भः । खुँटी इति भाषा ॥
(यथा, साहित्यदर्पणे । ३ । १७२ ।
“वृद्वोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहं
कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य
वार्त्तापि नो ।
यत्नात् सञ्चिततैलबिन्दुघटिका भग्नेति पर्य्याकुला
दृष्ट्वा गर्भभरालसां निजबधूं श्वश्रूश्चिरं
रोदिति ॥”)
शूर्म्मो । लौहप्रतिमा । इत्यमरः । ३ । ३ । ५० ॥

स्थूमः, पुं, दीप्तिः । चन्द्रः । इति केचित् ॥

स्थूरः, पुं, (तिष्ठतीति । स्था + “स्थः किच्च ।”

उणा० ५ । ४ । इति उरन् ।) वृषः । इति
संक्षिप्तसारोणादिवृत्तिः । मनुष्यः । इति
सिद्धान्तकौमुदी ॥

स्थूरी, [न्] पुं, सादृश्येन स्थूरो वृषोऽस्यास्तीति ।

इनिः ।) खरवृषभवत् पृष्ठेन भारवाहकोऽश्वः ।
पृष्ठेन वहति पृष्ठस्थमपि बाह्यमुपचारात् पृष्ठं
तद्वहति वा पृष्ठ्यः ढघे कादिति यः स्थूल्यते
संव्रियते पृष्ठमनया स्थुरा । स्थूल त् क ङ
वृंहणे सेमक्तात् सरोरिति अः निपातनात्
लस्य रत्वं स्थूरा पर्य्ययणं तस्या इदमिति ष्णे
स्थौरं पृष्ठारोपितभारादिकं तदस्त्यस्येति इनि
स्थौरी स्थूरी च स्थौरीति स्वामी । इत्यमर-
टीकायां भरतः ॥

स्थूल, त् क ङ वृंहणे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-आत्म० अक०-सेट् ।) दीर्घी
ङ, अतुस्थूलत् । वृंहणं वृद्धिः । इति दुर्गादासः

स्थूलं, त्रि, (स्थूलयतीति । स्थूल + अच् ।) उप-

चितावयवम् । मोटा इति भाषा । तत्पर्य्यायः ।
पीनम् २ पीवम् ३ पीवरम् ४ । यथा, कुमारे ।
२ । ११ ।
“द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्ते तरश्चासि प्राकाम्यं ते विभूतिषु ॥”)
जडः । इत्यमरः । ३ । ३ । २०३ ॥ (यथा,
महाभारते । १२ । ३०५ । १६ ।
न यः संसत्सुः कथयेत् ग्रन्थार्थं स्थूलबुद्धिमान् ।
स कथं मन्दविज्ञानो ग्रन्थं वक्ष्यति निर्णयात् ॥”)

स्थूलं, क्ली, (स्थूल + अच् ।) कूटम् । समूहः ।

इति मेदिनी ॥

स्थूलः, पुं, (स्थूलत् क ङ वृंहणे + अच् ।) पनसः ।

इति राजनिर्घण्टः ॥ (विष्णुः । इति महा-
भारतम् । १३ । १४९ । १०३ ॥ कन्दविशेषः ।
रक्तलशुनः । इति केचित् ॥ यथा, सुश्रुते ।
१ । ४६ । “स्थूलशूरणमाणकप्रभृतयः कन्दा
ईषत्कषायाः कटुका रूक्षा विष्टम्भिनो गुरवः
कफवातलाः पित्तहराश्च ।
माणकं स्वादु शीतञ्च गुरु चापि प्रकीर्त्तितम् ।
स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा ॥”)

स्थूलकः, पुं, (स्थूल एव । कन् ।) तृणविशेषः ।

उलु इति भाषा । यथा, रत्नमालायाम् ।
“सूच्यग्रः स्थूलको दर्भो जूर्णाख्यश्च स्वरच्छदः ॥”

स्थूलकः, त्रि, (स्थूल + स्वार्थे कन् । यद्वा, स्थूल-

प्रकार इति । “स्थूलादिभ्यः प्रकारवचने कन् ।”
५ । ४ । ३ । इति कन् ।) स्थूलः । स्थूलशब्दात्
स्वार्थे कप्रत्ययेन निष्पनः ॥

स्थूलकङ्गुः, पुं, (स्थूलः कङ्गुः ।) वरकधान्यम् ।

इति राजनिर्घण्टः ॥

स्थूलकणा, स्त्री, (स्थूला कणा यस्याः ।) स्थूल-

जीरकः । इति राजनिर्घण्टः ॥

स्थूलकण्टकः, पुं, (स्थूलाः कण्टका यस्य ।) जाल-

वर्व्वूरः । इति राजनिर्घण्टः ॥

स्थूलकण्टकिका, स्त्री, (स्थूलाः कण्टका यस्याः ।

ततः कापि अत इत्वम् ।) शाल्मलिवृक्षः ।
इति शब्दचन्द्रिका ॥

स्थूलकण्टा, स्त्री, (स्थूलः कण्टो यस्याः ।) बहती ।

इति राजनिर्घण्टः ॥

स्थूलकन्दः, पुं, स्थूलः कन्दः ।) रक्तलशुनः ।

(यथा, सुश्रुते । १ । ४६ ।
“स्थूलकन्दस्तु नात्युष्णः शूरणो गुदकीलहा ॥”)
शूरणः । हस्तिकन्दः । माणकन्दः । इति राज-
निर्घण्टः ॥

स्थूलकाष्ठधक्, [ह्] पुं (स्थूलकाष्ठं दहतीति ।

दह + क्विप् । स्थूलकाष्ठस्य धक् इति वा ।)
बृहत्काष्ठाग्निः । तत्पर्य्यायः । स्कन्धानलः २ ।
इति जटाधरः ॥

स्थूलकाष्ठाग्निः, पुं, (स्थूलकाष्ठस्य अग्निः ।) बृहत्-

काष्ठानलः । तत्पर्य्यायः । स्कन्धाग्निः २ । इति
हारावली ॥

स्थूलक्षेडः, पुं, । (स्थूलः क्षेडः ।) बाणः । इति

त्रिकाण्डशेषः ॥

स्थूलचञ्चुः, पुं, (स्थूला चञ्चुरिव शिखा यस्य ।)

महाचञ्चुशाकः । इति राजनिर्घण्टः ॥

स्थूलचापः, पुं, (स्थूलश्चापः ।) तूलपरिष्कारार्थ-

धनुः । इति शब्दरत्नावली ॥ तूलचाप इति
साधुपाठः ॥

स्थूलजीरकः, पुं, (स्थूलो जीरकः ।) जीरकभेदः ।

कालजिरा इति वङ्गभाषा । मगरेला इति
कलौञ्जी इति च हिन्दीभाषा । तत्पर्य्यायः ।
दिव्या २ उपकुञ्चिका ३ काला ४ पृथ्वी ५
पृष्ठ ५/४५१
स्थूलकणा ६ पृथुः ७ मनोज्ञा ८ जारणी ९
जीर्णा १० तरुणः ११ सुषुवी १२ कारवी १३
पृथ्वीका १४ । अस्य गुणाः । कटुत्वम् । तिक्त-
त्वम् । उष्णत्वम् । बातगुल्मामदोषश्लेष्माध्मान-
जन्तुनाशित्वम् । जीर्णत्वम् । दीपनत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥ त्रिविधजीरकनामगुणाः ।
“जीरको जरणोऽजाजी कणा स्याद्दीघजीरकः
कृष्णजीरः सुगन्धश्च तथैवाहारशोधनः ॥
कणाजाजी तु सुषवो कालिका चोपकालिका
पृध्वीका कारवी पृध्वी पृथुः कृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च बृहज्जीरक इत्यपि ॥
जीरकत्रितयं रूक्षं कटुकं दीपनं लघु ।
संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥
ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ।
चक्षष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत् ॥”
इति भावप्रकाशः ॥

स्थूलतालः, पुं, (स्थूलस्तालः ।) हिन्तालः ।

इति राजनिर्घण्टः ॥

स्थूलत्वचा, स्त्री, (स्थूला त्वक् यस्याः ।) काश्मरी ।

इति राजनिर्घण्टः ॥

स्थूलदण्डः, पुं, (स्थूलो दण्डो यस्य ।) देवनलः ।

इति राजनिर्घण्टः ॥

स्थूलदर्भः, पुं, (स्थूलो दर्भो यस्य । मुञ्जः । इति

राजनिर्घण्टः ॥

स्थूलदला, स्त्री, (स्थूलं दलं यस्याः ।) गृह-

कन्या । इति राजनिर्घण्टः ॥

स्थूलनालः, पुं, (स्थूलो नालः देवनलः । इति

राजनिर्घण्टः ॥

स्थूलनासः, पुं, (स्थूला नासा यस्य ।) सूकरः ।

इति हेमचन्द्रः ॥

स्थूलनासिकः, पुं, (स्थूला नासिका यस्य । “अञ्ना-

सिकायाः संज्ञायां नसं चास्थूलात् ।” ५ । ४ ।
११८ । इत्यत्र स्थूलवर्ज्जनात् न नसादेशः ।)
शूकरः । इति त्रिकाण्डशेषः ॥ पीननासायुक्ते,
त्रि ॥

स्थूलपटः, त्रि, (स्थूलः पटो यस्य । पीवरवस्त्र-

युक्तः । यथा, --
“ह्रस्वगृहाः स्थूलपटा यवगोधूमशालिनः ।
प्रलयेऽपि न सीदन्ति यदि कन्या न विद्यते ॥”
इति पुराणम् ॥
(स्थूलवस्त्रे, पुं क्ली ॥)

स्थूलपट्टः, पुं, स्थूलः पट्टः कौषेय इव ।) कार्पासः ।

इति शब्दरत्नावली ॥

स्थूलपट्टाकः, (पुं, स्थूलपट्टं कार्पासं अकति

प्राप्नोति कारणत्वेनेति । अक गतौ + अण् ।)
स्थूलवस्त्रम् । इति शब्दरत्नावली ॥

स्थूलपादः, पुं, (स्थूलः पादो यस्य ।) हस्ती । इति

शब्दमाला ॥ श्लीपदी च ॥

स्थूलपुष्पः, पुं, (स्थूलं पुष्पमस्य ।) वकवृक्षः । इति

रत्नमाला ॥ झण्टुक्षुपः । इति राजनिर्घण्ठः ॥

स्थूलपुष्पा, स्त्री, (स्थूलं पुष्पं यस्याः ।) पर्व्वत-

जातापराजिता । इति रत्नमाला ॥

स्थूलपुष्पी, स्त्री, (स्थूलं पुष्पं यस्याः । ङीष् ।)

यवतिक्ता । इति राजनिर्घण्टः ॥

स्थूलफलः, (स्थूलं फलं यस्य ।) शाल्मलिवृक्षः ।

इति राजनिर्घण्टः ॥

स्थूलफला, स्त्री, (स्थूलं फलं यस्याः ।) शण-

पुष्पी । इति राजनिर्घण्टः ॥

स्थूलभद्रः, पुं, (स्थूलं प्रचुरमित्यर्थः भद्रं शुभं यस्य ।)

श्रुतकेवलिनामजैनभेदः । इति हेमचन्द्रः ॥

स्थूलभूतं, क्ली, (स्थूलं भूतम् ।) पञ्चीकृताकाशा-

दिभूतम् । इति वेदान्तसारः ॥

स्थूलमरिचं, क्ली, (स्थूलं मरिचम् ।) कक्कोलम् ।

इति राजनिर्घण्टः ॥

स्थूलमूलं, क्ली, (स्थूलं मूलमस्य ।) चाणक्यमूलम् ।

इति राजनिर्घण्टः ॥

स्थूललक्षः, त्रि, (स्थूलं प्रचुरं लक्षयति दानार्थ-

मिति । लक्ष + अण् ।) बहुप्रदः । इत्यमर-
टीकायां रायमुकुटः । ३ । १ । ६ ॥ (यथा,
याज्ञवल्क्यः । १ । ३०८ ।
“महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसम्पन्नः कुलीनः सत्यवाक्
शुचिः ॥”)

स्थूललक्ष्यः, त्रि, (स्थूलं प्रचुरं वस्तु लक्ष्यमस्य ।)

बहुप्रदः । इत्यमरः । ३ । १ । ६ ॥ (यथा,
महाभारते । ३ । ४५ । ११ ।
“अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ।
सुहृदश्चान्नपानेन विविधेनाभिवर्षति ॥”)

स्थूलवर्त्मकृत्, पुं, (स्थूलस्य वर्त्मनः कृत् कारकः ।)

ब्राह्मणयष्टिका । इति शब्दचन्द्रिका ॥

स्थूलवल्कलः, पुं, (स्थूलं वल्कलं यस्य ।) रक्त-

लोध्रः । इति जटाधरः ॥

स्थूलवृक्षफलः, पुं, (स्थूलं वृक्षफलं यस्य ।) स्निग्ध-

पिण्डीतकः । इति राजनिर्घण्टः ॥

स्थूलवैदेही, स्त्री, (स्थूला वैदेही विदेहभवा

च ।) गजपिप्पली । इति राजनिर्घण्टः ॥

स्थूलशरः, पुं, (स्थूलः शरः ।) शरविशेषः ।

मोटा शर इति भाषा । तत्पर्य्यायः । महा-
शरः २ स्थूलशायकः ३ इक्षुरकः ४ क्षुरपत्रः ५
बहुमूलः ६ दीर्घमूलकः ७ । अस्य गुणाः ।
मधुरत्वम् । सुतिक्तत्वम् । कोष्णत्वम् । कफ-
भ्रान्तिमदापहरत्वम् । बलवीर्य्यकारित्वम् ।
नित्यं सेवितश्चेत् किञ्चिद्वातकरत्वञ्च । इति
राजनिर्घण्टः ॥

स्थूलशाटकः, पुं, (स्थूलः शाटकः ।) पीनवस्त्रम् ।

माटा कापड इति भाषा । तत्पर्य्यायः ।
वराशिः २ । इत्यमरः । २ । ६ । ११६ ॥
वरासिः ३ । इति जटाधरः ॥

स्थूलशाटका, स्त्री, स्थूलवस्त्रम् । इत्यमरटीका ।

२ । ६ । ११६ ॥

स्थूलशाटिका, स्त्री, (स्थूला शाटिका ।) स्थूल-

वस्त्रम् । इत्यमरटीका । २ । ६ । ११६ ॥

स्थूलशाटिः, पुं, (स्थूलः शाटिः ।) वराशिः । इति

हेमचन्द्रः ॥

स्थूलशालिः, पुं, (स्थूलः शालिः ।) शालिधान्य-

भेदः । तत्पर्य्यायः । महाशालिः २ स्थूलाङ्गः ३
स्थूलतण्डुलः ४ । अस्य गुणाः । स्वादुत्वम् ।
मधुरत्वम् । शिशिरत्वम् । पित्तशमनत्वम् ।
जीर्णज्वर-दाह-जठररुजा-शीघ्र-शमनत्वम् ।
शिशूनां यूनां जरतां च हितकरत्वम् । सदा
सेवनेनानलबलवीर्य्यकारित्वञ्च । इति राज-
निर्घण्टः ॥

स्थूलशिरः, [स्] क्ली, (स्थूलं शिरः ।) बृहन्म-

स्तकम् । (स्थूलं शिरो यस्य । मुनिविशेषः ॥
यथा, महाभारते । २ । ४ । ११ ।
“वको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः
शुकः ॥”)
स्थूलमस्तकयुक्ते, त्रि । इति केचित् ॥

स्थूलशीर्षिका, स्त्री, शरीरापेक्षया स्थूलं शीर्ष-

मस्याः स्थूलशीर्षा स्वार्थे के स्थूलशीर्षिका ॥
क्षुद्रपिपीलिका । इति हेमचन्द्रः ॥ बृहन्मस्तके,
त्रि ॥

स्थूलषट्पदः, पुं, (स्थूलः षट्पदः ।) वरेलः ।

इति भूरिप्रयोगः ॥ वोलता इति भाषा ॥

स्थूलस्कन्धः, पुं, (स्थूलः स्कन्धो यस्य ।) लकुचः ।

इति राजनिर्घण्टः ॥

स्थूलहस्तः, पुं, (स्थूलो हस्तः ।) हस्तिशुण्डम् ।

इति त्रिकाण्डशेषः ॥ (यथा, मेघदूते । १४ ।
“स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः स्व
दिङ्नागानां पथि परिहरन् स्थूलहस्ताव-
लेपान् ॥”
स्थूलौ हस्तौ यस्येति ।) पीनभुजे, त्रि ॥

स्थूला, स्त्री, (स्थूल + टाप् ।) गजपिप्पली । इति

शब्दचन्द्रिका ॥ एर्व्वारुः । इति राजनिर्घण्टः ॥
बृहदेला । इति रत्नमाला ॥

स्थूलांशा, स्त्री, (स्थूलोऽंशो यस्याः ।) गन्धपत्रा ।

इति राजनिर्घण्टः ॥

स्थूलाम्रः, पुं, (स्थूलः आम्रः ।) महाराजचूतः ।

इति राजनिर्घण्टः ॥

स्थूलास्यः, पुं, (स्थूलं आस्यं यस्य ।) सर्पः । इति

शब्दचन्द्रिका ॥ बृहन्मुखे, त्रि ॥

स्थूली, [न्] पुं, (स्थूलं शरीरमस्यास्तीति ।

इनिः ।) उष्ट्रः । इति केचित् ॥

स्थूलैरण्डः, पुं, (स्थूल एरण्डः ।) बृहदेरण्डवृक्षः ।

तत्पर्य्यायः । महैरण्डः २ महापञ्चाङ्गलः ३ ।
अस्य गुणाः ।
“स्थूलैरण्डो गुणाढ्यः स्याद्रसवीर्य्यविपक्तिषु ॥”
इति राजनिर्घण्टः ॥

स्थूलैला, स्त्री, (स्थूला एला ।) एलाविशेषः ।

वड एलाचि इति भाषा । तत्पर्य्यायः । बृह-
देला २ त्रिपुटा ३ त्रिदिवोद्भवाः ४ सुरभी-
त्वक् ५ महैला ६ पृथ्वी ७ कन्या ८ कुमारिका ९
कायस्था १० गोपुटा ११ भद्रैला १२ कान्ता १३
घृताचीगर्भसम्भवा १४ इन्द्राणी १५ दिव्य-
गन्धा १६ ऐन्द्री १७ । एलाद्वयगुणाः । शीतल-
त्वम् । तिक्तत्वम् । उष्णत्वम् । सुगन्धित्वम् ।
पृष्ठ ५/४५२
पित्तार्त्तिकफापहत्वम् । हृद्रोगमलार्त्तिवस्ति-
कारित्वम् । पुंस्त्वनाशित्वम् । अत्र स्थविराया
गुणाढ्यत्वञ्च ॥ स्थूलैलागुणाः । रोचनत्वम् ।
तीक्ष्णत्वम् । लघुत्वम् । उष्णत्वम् । कफपित्त-
हृल्लासविषवस्त्यास्यशिरोरुग्वमिकासनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

स्थूलोच्चयः, पुं, (स्थूलानामुच्चयो यत्र ।) गण्डो-

पलः । गजानां मध्यमगतिः । (यथा, माघे ।
१२ । १६ ।
स्थूलोच्चयेनागमदन्तिकागतां
गजोऽग्रयाताग्रकरः करेणुकाम् ॥”)
असाकल्यम् । वरण्डः । इति मेदिनी ॥ हस्ति-
दन्तरन्ध्रम् । इति शब्दमाला ॥

स्थेयः, पुं, (तिष्ठति विवादनिर्णयार्थमस्मिन्निति ।

स्था + यत् ।) विवादपक्षस्य निर्णेता । (यथा,
राजतरङ्गिण्याम् । ६ । १३ ।
“कार्त्तान्तिको भिषक् सभ्यो गुरुर्मन्त्री पुरोहितः
दूतः स्थेयो लेखको वा न तदाभूदपण्डितः ॥”)
पुरोहितः । इति मेदिनी ॥ स्थिरतरे, त्रि । इति
हेमचन्द्रः ॥ (क्ली, स्था + भावे यत् । स्थात-
व्यम् । यथा, हरिवशे । ९५ । ७ ।
“बलिनः सन्निकर्षे तु न स्थेयं पण्डितेन वै ।
अपक्रामेद्धि कालज्ञः समर्थो युद्धमावहेत् ॥”)

स्थेयान् [स्] त्रि, (अयमनयोरतिशयेन स्थिरः ।

स्थिर + इयसुन् । “प्रियस्थिरेति ।” ६ । ४ ।
१५७ । इति स्थादेशः ।) स्थिरतरः । इत्यमरः ।
३ । १ । ७३ ॥ (यथा, महागणपतिस्तोत्रे ।
१५ ।
“श्रेयः स्थेयः स देयान मम विमलदृशो बन्धुरं
सिन्धुरास्यः ॥”)
शाश्वतः । इति भरतः ॥

स्थेष्ठः, त्रि, (अयमेषामतिशयेन स्थिरः । स्थिर +

इष्ठन् । प्रियस्थिरेति । ६ । ४ । १५७ । इति
स्थादेशः ।) अतिस्थिरः । इति हेमचन्द्रः ॥

स्थैर्य्यं, क्ली, (स्थिरस्य भावः । स्थिर + ष्यञ् ।)

स्थिरत्वम् । गर्भस्थस्याङ्गानां स्थैर्य्यं चतुर्थे मासि
भवति । इति सुखबोधः ॥ (यथा, याज्ञवल्क्यः ।
३ । ८० ।
“स्थैर्य्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्नाञ्च सम्भवः ॥” * ॥
दृढता । यथा, महाभारते । ६ । १३ । ८ ।
“महेन्द्रसदृशः शौर्य्ये स्थैर्य्ये च हिमवानिव ।
समुद्र इव गाम्भीर्य्ये सहिष्णुत्वे धरासमः ॥”)

स्थौरी, [न्] पुं, भारवाहकाश्वः । इति भरत-

द्विरूपकोषः ॥

स्थौणेयं, क्ली, (स्थूणायां भवम् । स्थूणा + ढक् ।)

ग्रन्थिपर्णनामकगन्धद्रव्यम् । इत्यमरः । २ । ४ ।
१३२ ॥ गाँठियाला इति भाषा ॥ अथ ग्रन्थि-
पर्णस्यैव भेदः । इषतसुगन्धि स्थौणेयं थुनेर
इति लोके ।
“स्थौणेयकं बर्हिबर्हं शुकबर्हञ्च कुक्कुरम् ।
शीर्णं रोम शुकं चापि शुकपुष्पं शुकच्छदम् ॥
स्थौणेयकं कटु स्वादु तिक्तं स्निग्धं त्रिदोषनुत्
मेधाशुक्रकरं त्वच्यं रक्षोऽश्रीज्वरजन्तुजित् ॥
हन्ति कुष्ठास्रतृड्दाहदौर्गन्ध्यतिलकालकान् ॥”
अथ ग्रन्थिपर्णस्यैव भेदो भण्डिउर इति नेपाल-
देशे भवति ।
“निशाचरो धनहरः कितवो गणहासकः ।
रोचको मधुरस्तिक्तः कटुः पाके कटुर्लघुः ॥
तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफा-
निलान् ।
रक्षोऽश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥”
इति भावप्रकाशः ॥

स्थौणेयकं, क्ली, (स्थौणेयमेव । स्वार्थे कन् ।)

सुगन्धद्रव्यभेदः । थुनिरा इति हिन्दी भाषा ।
तत्पर्य्यायः । बर्हिशिखम् २ शुकच्छदम् ३
मयूरचूडम् ४ शुकपुच्छकम् ५ विकीर्णरोम ६
कीरवणकम् ७ विकीर्णसंज्ञम् ८ हरितम् ९ ।
अस्य गुणाः । कफवातनाशित्वम् । सुगन्धि-
त्वम् । कटुत्वम् । तिक्तत्वम् । पित्तप्रकोपशम-
नत्वम् । बलपुष्टिविवर्द्धनत्वञ्च । इति राज-
निर्घण्टः । भावप्रकाशोक्तगुणपर्य्यायौ पूर्व्वोक्त-
शब्दे द्रष्टव्यौ ॥

स्थौरी, [न्] पुं, खरवृषभवत् पृष्ठेन भारवाहको-

ऽश्वः । तत्पर्य्यायः । पृष्ठ्यः २ । इत्यमरः २ । ८ ।
४६ ॥ द्वे खरवृषभवत् पृष्ठेन भारवाहकेऽश्वे ।
पृष्ठेन वहति पृष्ठस्थमपि बाह्यमुपचारात् तद्व-
हति वा पृष्ठ्यः ढघे कादिति यः । स्थूल्यते
संव्रियते पृष्ठमनया स्थूरा स्थूलत् क ङ बृंहणे-
सेमक्तात् सरोरिति अः निपातनात् लस्य रत्वं
स्थूरा पर्य्ययणं तस्या इदमितिष्णे स्थौरं पृष्ठा
रोपितभारादिकं तदस्त्यस्येति इनि स्थौरी
स्थूरी च स्थौरीति स्वामी । इति भरतः ॥

स्थौलशीर्षं, त्रि, (स्थूलशिरस इदमिति । स्थूल-

शिरस् + अण् । “अचि शीर्षः ।” ६ । १ । ६२ ।
इति शीर्षादेशः ।) बृहन्मस्तकसम्बन्धि । इति
काशिका ॥

स्थौल्यं, त्रि, (स्थूलस्य भावः । स्थूल + ष्यञ् ।)

स्थूलता । (यथा, भागवते । ३ । ११ । ३ ।
“एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च
सत्तम ॥”)

स्नपनं, क्ली, (स्ना + णिच् + ल्युट् ।) स्नानम् ।

यथा, दुर्गोत्सवप्रकरणे तिथ्यादितत्त्वे ।
“पूजनात् स्नपनं श्रेष्ठं स्नपनात्तर्पणं स्मृतम् ।
तपंणान्मांसदानन्तु महिषाजनिपातनम् ॥”

स्नपितः, त्रि, (स्ना + णिच् + क्तः ।) कृतस्नानः ।

(यथा, गीतगोविन्दे । १२ । १ ।
“गतवति सखीवृन्दे मन्दत्रपाभरनिर्भर-
स्मरशरवशाकूतस्फीतस्मितस्नपिताधराम् ॥”)

स्नवः, पुं, (स्नुप्रस्रवणे + “ऋदोरप् ।” इत्यप् ।)

स्रवणम् । क्षरणम् । इत्यमरः । ३ । २ । ९ ॥

स्नसा, स्त्री, स्नायुः । इति हेमचन्द्रः ॥

स्नातः, त्रि, (स्ना + क्तः ।) कृतस्नानः । यथा, --

म्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि
अस्नातस्य क्रियाः सर्व्वा भवन्ति हि यतोऽफलाः
प्रातः समाचरेत् स्नानमतो नित्यमतन्द्रितः ॥”
इति प्रायश्चित्ततत्त्वम् ॥

स्नातकः, पुं, (स्नात एव । स्ना + “यावादिभ्यः

कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।)
आप्लुतव्रती । इत्यमरः । २ । ७ । ४३ ॥ द्वे
समाप्तवेदाध्ययने स्नानशीले स्नातं स्नानं शील-
मस्य । स्नातकः विकारसंघेति कः । आप्लुतं
स्नानं तत्र व्रती नित्यस्नायी । स्ना प्लुत्यां भावे
क्तः आप्लवव्रतीति क्वचित् पाठः । ब्रह्मचर्य्यं
त्यक्त्वा यो गृहाश्रमं गतः स स्नातकः । समाप्त-
वेदाध्ययनो यः स्नानशीलः आश्रमान्तरं न गतः
सौऽपि स्नातकः । स्नातकस्त्रिविधः । ब्रह्मचर्य्या-
चरणस्य यः शास्त्रबोधितोऽवधिः । तावद्वेद-
मुपास्यासमाप्तवेद एवाश्रमान्तरं गतो यः स
व्रतस्नातकः । वेदमधीत्यगुरुसन्निधौ वेदाभ्यासं
यः करोति स विद्यास्नातकः । पालितसम्यग्-
व्रतः प्राप्तवेदो यो द्वितीयाश्रमं गतः स उभय-
स्नातकः । इति टीकान्तरे । इति भरतः ॥

स्नानं, क्ली, (स्ना + ल्युट् ।) मज्जनम् । अव-

गाहनम् । तत्पर्य्यायः । आप्लावः २ आप्लवः ३ ।
इत्यमरः । २ । ६ । १२१ ॥ अभिषेकः ४ इति
शब्दरत्नावली ॥ उपस्पर्शनम् ५ सवनम् ६ सर्ज-
नम् ७ । इति जटाधरः ॥ तदनुकल्पः सप्त-
विधः । मान्त्रम् १ भौमम् २ आग्नेयम् ३ वाय-
व्यम् ४ दिव्यम् ५ वारुणम् ६ मानसम् ७ ।
एतेषां विवरणं पश्चात् स्फुटीभविष्यति ॥ * ॥
अस्य गुणाः ।
“स्नानं पवित्रमायुष्यं श्रमस्वेदमलापहम् ।
शरीरबलसन्धानं केश्यमोजस्करं परम् ॥
उष्णाम्बुनाधःकायस्य परिषेको बलावहः ।
तेनैव तूत्तमाङ्गस्य बलकृत् केशचक्षुषोः ॥
विनिहन्ति शिरः स्नानं तृष्णाताल्वास्यशोष-
णम् ।
मलोष्णपीडकाकण्डं शिरोरोगांश्च पैत्तिकान् ॥
मधुकामलकैः स्नानं पित्तघ्नं तिमिरापहम् ।
स्नानं वचाघनैरिष्टं श्लेष्मघ्नं तिमिरापहम् ॥
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहम् ।
अस्नातस्य शरीरस्य उष्मा सर्व्वाङ्गगोचरः ॥
स्नानेनैकत्वमायाति तेन दीप्यति पावकः ।
स्नानमर्द्दि तनेत्रास्यकर्णरोगातिसारिषु ॥
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ।
दौर्गर्न्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् ।
स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥”
इति राजवल्लभः ॥ * ॥
अथ स्नानविधिः । दक्षः ।
“चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।
तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले ॥”
कुर्य्यादिति शेषः । तथा च ।
“अस्नात्वा चाप्यहुत्वा च भुङ्क्तेऽदत्त्वा च
यो नरः ।
देवादीनामृणी भूत्वा नरकं प्रतिपद्यते ॥” * ॥
पृष्ठ ५/४५३
अथ स्नानम् । दक्षः ।
“अस्नात्वा नाचरेत् कर्म्म जपहोमादि किञ्चन ।
लालास्वे दसमाकीर्णः शयनादुत्थितः पुमान् ॥
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।
स्रवत्येव दिवारात्रौ प्रातःस्नानं विशोधनम् ॥
प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टफलं हि तत् ।
सर्व्वमर्हति पूतात्मा प्रातःस्नायी जपादिकम् ॥
अज्ञानात् यदि वा मोहात् रात्रौ दुश्चरितं
कृतम् ।
प्रातःस्नानेन तत् सर्व्वं शोधयन्ति द्विजातयः ॥”
दृष्टं मलापकर्षादि अदृष्टं प्रत्यवायपरीहारादि ॥
प्रातः सूर्य्योदयात् प्राक्कालः । प्रातःस्नाय्यरुण-
किरणग्रस्तां प्राचीमवलोक्य स्नायात् । इति
विष्णूक्तेः ॥ * ॥ प्रातःस्नाने मध्याह्नस्नान-
धर्म्मातिदेशमाह कात्यायनः ।
“यथाहनि तथा प्रातर्नित्यं स्नायादनातुरः ।
दन्तान् प्रक्षल्य नद्यादौ गेहे चेत्तदमन्त्रवत् ॥”
यथा तथेतिकर्त्तव्यतया । सा च ।
“आचरेदुषसि स्नानं तर्पयेत् देवमानुषान् ।”
इति जावाल्युक्ता ॥
वैदिके कर्म्मणि वामहस्ते बहुतरकुशान् दक्षि-
णेन पवित्रं धारयेत् । मार्कण्डेयः ।
“सर्व्वकालं तिलैः स्नानं पुण्यं व्यासोऽब्रबीन्मुनिः
श्रीकामः सर्व्वदा स्नानं कुर्व्वीतामलकैर्नरः ।
सप्तमों नवमीञ्चैव पर्व्वकालञ्च वर्ज्जयेत् ॥” * ॥
विष्णुधर्म्मोत्तरे ।
“त्वराक्रोधौ तथा वर्ज्जौ देवकर्म्मणि पण्डितैः ।
इक्षुरापः पयश्चैव ताम्बूलं फलमौषघम् ।
भक्षयित्वा तु कर्त्तव्याः स्नानदानादिकाः
क्रियाः ॥”
भविष्योत्तरे ।
“स्नातुस्तु वरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत्
भुञ्जानस्य यमस्त्वायुस्तस्मान्न व्याहरेत्त्रिषु ॥”
स्नातुः स्नानं कुर्व्वतः । न व्याहरेत् न कथयेत् ॥
अशुचेरवगाहनानन्तरं स्नानमाह योगियाज्ञ-
वल्क्यः ।
“तूष्णीमेवावगाहेत यदा स्यादशुचिर्नरः ।
आचम्य तु ततः पश्चात् स्नानं विधिवदाचरेत् ॥”
वामनपुराणम् ।
“नाभिमात्रजले गत्वा कृत्वा केशान् द्विधा
द्विजः ।
निरुध्य कर्णौ नासाञ्च त्रिकृत्वो मज्जनं ततः ॥”
तत्रैव वृद्धयाज्ञवल्क्यः ।
“स्रोतसां संमुखो मज्जेत् यत्रापः प्रवहन्ति वै ।
स्थावरेषु गृहे चैव सूर्य्यसंमुख आप्लवेत् ॥”
हारीतः । नातुरो न भुक्त्वा न जीर्णवासा न
बहुवासा न नम्नो नाश्नन् नावसक्थिको नाल-
ङ्कृतो नाजस्रं नाज्ञाते जले नाकुले नाशुचौ न
प्रभूतजले न नाभेरप्लजले न चत्वरे नोपद्वारे
नो सन्ध्यायां न निशायां स्नायादिति । चत्वरे
काकादिवलिस्थले इति श्रीदत्तः ॥ उपद्वारे द्वार-
समोपे । अत्रैकेन मुनिना नग्नबहुबाससोर्निषेध-
विधानात् स्नाने द्विवासस एवाधिकारः प्रती-
यते ॥ * ॥ एकवस्त्रस्नाने दोषमाह समुद्र-
करकृतभाष्ये गोतमः ।
“एकवस्त्रेण यत् स्नानं सूच्या विद्धेन चैव हि ।
स्नातस्तु न भवेत् शुद्धः श्रिया च परिहीयते ॥”
अतएव ।
“स्नानं तर्पणपर्य्यन्तं कुर्य्यादेकेन वाससा ।”
इति ॥
यदि समूलं तदा प्रेततर्पणपरमिति । अत्रैक-
वस्त्रा ज्ञातय इत्यादिना एकवस्त्रत्वविधानात् ।
एकेन एकजातीयेन इति वाचस्पतिमिश्रः ॥
येन वाससा स्नानं कृतं जलस्थस्य तेनैव
तर्पणम् । इति कृत्यतत्त्वार्णवः ॥ न च ।
“स्नानशाट्यान्तु दातव्या मृदस्तिस्रो विशुद्धये ।
जलमध्ये तु यः कश्चित् द्विजातिर्ज्ञानदुर्बलः ।
निष्पीडयति तद्वस्त्रं स्नानं तस्य वृथा भवेत् ॥”
स्नानशाठ्यामिति तद्वस्त्रमिति एकवचन-
निर्देशेन च स्नानेऽप्येकवस्त्रत्वमिति वाच्यं अत्र
विशुद्धये इत्यभिधानेनाधोधृतवस्त्रस्यै व मृत्रयेण
प्रक्षालनं न तूत्तरीयस्य एतदर्थमेकवचनम् ।
अत एव मृत्त्रयेणाधरीयवस्त्रं प्रक्षाल्य इत्या-
ह्निकचिन्तामणिः ॥ वशिष्ठवचनस्यैकवाक्यतया
स्नातो नाङ्गानि निर्मज्यात् स्नानशाट्या न
पाणिना । इति विष्णुपुराणीयेनाधरीयवस्त्रणैव
गात्रमार्जनं निषिध्यते । एतेन निष्पीड्य स्नान-
वस्त्रमिति कात्यायनवचने एकत्वमविवक्षित-
मिति निरस्तम् । अतएव सर्व्वत्रैकत्वनिर्देशः ।
शिष्टानामाचारोऽपि तथेति ॥ * ॥ नाजस्र-
मिति पुनः पुनः स्नाननिषेधः रागप्राप्तस्नान-
विषयो दृष्टार्थकत्वात् । एवञ्चैकस्मिन् दिने
नानातीर्थादिनिमित्तप्राप्तस्नानावृत्तिर्भवत्येव
वैधत्वात् । अत्रापि तन्त्रप्रसङ्गयोः सत्त्वे सकृदे-
वेति ॥ * ॥ आतुरं प्रति जावालः ।
“अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु
कर्म्मिणाम् ।
आर्द्रेण वाससा वापि दैहिकं मार्जनं स्मृतम् ॥”
कर्म्मिणाम् ।
“शिरस्नातस्तु कुर्ब्वीत दैवं पैत्रमथापि वा ।”
इति मार्कण्डेयपुराणोक्तकर्म्मचिकीर्षूणां मार्जन-
मिह प्रोञ्छनम् । योगियाज्ञवल्क्यः ।
“असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया ।
मन्त्रस्नानादितः सप्त केचिदिच्छन्ति सूरयः ॥
मान्त्रं भौमं तथाग्नेयं वायव्यं दिव्यमेव च ।
वारुणं मानसञ्चैव सुप्तस्नानं प्रकीर्त्तितम् ॥
आपोहिष्ठेति वै मान्त्रं मृदालम्भस्तु पार्थिवम्
आग्नेयं भस्मना स्नानं वायव्यं गोरजः स्मृतम् ॥
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ।
वारुणञ्चावगाह्यञ्च मानसं विष्णुचिन्तनम् ॥
समस्तं स्नानमुद्दिष्टं मन्त्रस्नानक्रमेण तु ।
कालदोषादसामर्थ्यात् सर्व्वं तस्य फलं स्मृतम् ॥”
आपोहिष्ठेति आपोहिष्ठादि ऋक्त्रयमत्र विव-
क्षितम् । एवञ्च ।
कालदोषादसामर्थ्यात् न शक्नोति यदाम्भसि ।
तदा ज्ञात्वा तु ऋषिभिर्मन्त्रैर्जुष्टन्तु मार्जनम् ॥
शन्न आपस्तु द्रुपदा आपोहिष्ठाघमर्षणम् ।
एभिश्चतुर्भिरृङ्मात्रैर्मन्त्रस्नानमुदाहृतम् ॥”
इति योगियाज्ञवल्क्यीयं यन्मन्त्रस्नानान्तरं तत्
प्राधान्यख्यापनाय अतएव पितृदयितायां
सन्ध्यातः पूर्व्वं तल्लिखितम् । मृदालम्बस्तु
गङ्गादिमृत्तिकातिलकरूपः । भस्मना संस्कृत-
भस्मना इति छन्दोगाह्निकः । अवगाह्यं
मन्त्राद्यङ्गशून्यावगाहनमात्रं विवक्षितं अतो
मुख्यावगाहनरूपस्नानानुकल्पत्वमप्युक्तम् ।
कालदोषोऽतिवृष्ट्यादिः । असामर्थ्यं शरीरा-
पाटवहेतुः । जलस्य स्वल्पत्वे न सम्पूर्णवारुण-
स्नानविधिकालायोग्यत्वं वेति । एतन्मूलकं
गेहे चेत्तदमन्त्रवदिति छन्दोगपरिशिष्टीयं
पूर्व्वोक्तं अन्यथा मूलभूतश्रुत्यन्तरकल्पनापत्तेः ॥
सामर्थ्ये तूद्धुतजलेनापि ससन्त्रकस्नानमाह
पराशरभाष्ये व्यासः ।
“शीतास्त्वपो निषेव्योष्णा मन्त्रसम्भारसंस्कृताः
गेहेऽपि शस्यते स्नानं तद्धीनमफलं स्मृतम् ॥”
पद्मपुराणम् ।
“नैर्मल्यं भावशुद्धिश्च विना स्नानं न जायते ।
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते ।
अनुद्धृतैरुद्धृतैर्व्वा जलैः स्नानं सदाचरेत् ।
तीर्थं प्रकल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित् ॥
नमो नारायणायेति मूलमन्त्र उदाहृतः ।
दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः ॥
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः ।
प्रकल्प्यावाहयेद्गङ्गां एभिर्मन्त्रैर्विचक्षणः ॥
विष्णोः पादप्रसूतासि वैष्णवी विष्णुपूजिता ।
पाहि नस्त्वे नसस्तस्मादाजन्ममरणान्तिकात् ॥
तिस्नः कोट्योऽर्द्धकोटी च तीर्थानां वायुरब्रवीत्
दिवि भुव्यन्तरीक्षे च तानि ते सन्ति जाह्नवि ॥
नन्दिनीत्येव ते नाम देवेषु नलिनीति च ।
वृन्दा पृथ्वी च सुभगा विश्वकायांशिवा सिता ॥
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी ।
क्षमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत् ।
भवेत् सन्निहिता तत्र गङ्गा त्रिपथगामिनी ॥
सप्तवाराभिजप्ते न करसंपुटयोजितम् ।
मूर्द्ध्नि दद्यात् जलं भूयस्त्रिश्चतुः पञ्च सप्त वा ।
स्नानं कुर्य्यान्मृदा तद्वत् आमन्त्र्यच विचक्षणः ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
मृत्तिके हर मे पापं यम्मया दुष्कृतं कृतम् ॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना ॥
आरुह्य मम गात्राणि सर्व्वं पापं प्रमोचय ।
नमस्ते सर्व्वभूतानां प्रभवारिणि सुव्रते ॥” * ॥
नमो नारायणाय इत्यष्टाक्षररूपमूलमन्त्रेण
चतुरस्रं चतुष्कोणरूपं समन्ततः सर्व्वदिक्षु
चतुर्हस्तं जलं प्रतिदिक्षु हस्तमात्रेण व्यवच्छिद्य
तीर्थंप्रकल्पयेत् । वितते नद्यादिजले स्नानस्थानं
परिच्छिन्द्यात् । तत्र विष्णोः पाद इत्यादिना
पृष्ठ ५/४५४
शान्तिप्रदायिनीत्यन्तेन मन्त्रेण गङ्गामावाद्वयेत्
सप्तवाराभिजप्तेनेति सप्तवाराभिजप्तेन नमो
नारायणायेति मन्त्रेणाभिमन्त्र्येति शेषः । एक-
वचननिर्देशात् तस्य मूलमन्त्रतोक्त्या च अत्रापि
विनियोगोऽवगम्यते । ततश्च सप्तवारपठितनारा-
यणमन्त्रेण जलमभिमन्त्र्य करयुगेन त्रिवारादि
मूर्द्ध्निक्षिपेत् । ततश्चाश्वक्रान्त इति मन्त्राभ्यां
तद्वदिति जप्ताभ्याम् ।
“मृत्तिकाः सप्त न ग्राह्या वल्मीके मूषिकोत्करे
अन्तर्जले श्मशाने च वृक्षमूले सुरालये ।
परस्नानावशिष्टे च श्रेयस्कामैः सदा नरैः ॥”
इति दक्षप्रतिषिद्धेतरां मृदमामन्त्र्य तया मृदा
शिरःप्रभृत्यालभ्यानुद्धृतैर्व्वा जलैः शिरः प्रभृत्यङ्ग-
क्षालनमवगाहनरूपप्रधानं वारुणस्नानं समा-
चरेदिति पूर्व्वोक्तेनान्वयः । मृद्ग्रलणमन्त्रे प्रभ
वारिणि इति प्रभवमुत्पत्तिमर्त्तुं प्रापयितुं
शीलमस्यास्तत्सम्बोधनमिदम् । अवगाहनन्तु
चक्षुःकर्णनासिकामङ्गुलीभिराच्छाद्य कुर्य्यात् ।
“अङ्गुलीभिः पिधायैवं श्रोत्रदृङ्नासिकामुखम्
निमज्जेत प्रतिस्रोतस्त्रिः पठेदघमर्षणम् ॥”
इति समुद्रकरधृतात् ।
अत्रानुद्धृते वारत्रयमेवावगाहनं प्रागुक्तवामन-
पुराणात् । एष विधिः पौराणिकत्वात् सर्व्व-
शाखिसाधारणः । वेदमन्त्ररहितत्वादनधीत-
वेदानामपि सर्व्वथादरणीयः ॥ * ॥ मत्स्यपुरा-
णम् ।
“नद्यां प्रत्येकशः स्नाने भवेद्गोदानजं जलम् ।
गोप्रदानैश्च दशभिस्तासां पुण्यन्तु प्तङ्गमे ॥”
वशिष्ठः ।
“योऽनेन विधिना स्नाति यत्र तत्राम्भसि द्विज ।
स तीर्थफलमाप्नोति तीर्थे तु द्विगुणं फलम् ॥”
अनेन तीर्थावाहनादिना । अतो गङ्गायामप्या-
वाहनं कुर्व्वन्ति शिष्टाः । अत्र च । माघसप्तम्या-
दिनिमित्तकतीर्थविशेषनिमित्तकमन्त्रपाठस्तु-
मृदालम्भनानन्तरं कार्य्यः । आगन्तुकानामन्ते
ऽभिनिवेश इति न्यायात् । एवं गङ्गायां विशेष-
मन्त्रानन्तरमेव दशहरादिमन्त्राः पाठ्याः । तत्र
गङ्गायां विशेषमन्त्रौ विद्याकरधृतौ ।
“विष्णुपादार्घ्य सम्भूते गङ्गे त्रिपथगामिनि ।
धर्म्मद्रवीति विख्याते पापं मे हर जाह्रवि ॥
श्रद्धया भक्तिसम्पन्ने श्रीमातर्द्देदि जाह्नवि ।
अमृतेनाम्बुना देवि भागीरथिपुनीहि माम् ॥”
गोविन्दद्वादश्यां स्नाने गङ्गायां पद्मपुराणीयो
मन्त्रः ।
“महापातकमंज्ञानि यानि पापानि सन्ति मे ।
गोविन्दद्वादशीं प्राप्य तानि मे हर जाह्नवि ॥”
गङ्गासागरसङ्गमे मन्त्रः ।
“त्वं देव सरितां नाथ त्वं देवि सरितांवरे ।
उभयोः सङ्गमे स्नात्वा मुञ्चामि दुरितानि वै ॥”
लौहित्यस्नाने तु मन्त्रः ।
“ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ।
अमोघागर्भसंभूत प्राप्तं लौहित्य मे हर ॥” * ॥
करतोयास्नानमन्त्रः ॥
“करतोये सदानीरे सरित्श्रेष्ठे सुविश्रुते ।
पौण्ड्रान् प्लावयसे नित्यं पापं हर करोद्भवे ॥” * ॥
विष्णुः । स्नातः शिरो नावधुनेत् नाङ्गेभ्यस्तोय-
मुद्धरेत् । न तैलं वा संस्पृशेत् नाप्रोक्षितं पूर्व्व-
धृतं वासो विभृयात् । स्नात एव सोष्णीषो धौते
वाससी विभृयात् न म्लेच्छान्त्यजपतितैः सह
सम्भाषणं कुर्य्यात् इति । नाङ्गेभ्यस्तोयमुद्धरे-
दिति स्नानशाटीपाटिभ्यां पूरणीयम् ।
“स्नातो नाङ्गानि निर्मृज्यात् स्नानशाढ्या न
पाणिना ॥”
इति विष्णुवचनात् ।
अत्र वासोऽन्तरधारणात् प्राक्कृततैलस्पर्श-
निषेधः प्रतीयते ।
“शिरःस्नातस्तु तैलेन नाङ्गं किञ्चिदुपस्पृशेत् ॥”
इति मनुवचनमेतत्परम् ॥ * ॥
याज्ञवल्क्यः ।
“ब्रह्मक्षत्त्रविशामेव मन्त्रवत् स्नानमिष्यते ।
तूष्णीमेव हि शूद्रस्य सनमस्कारकं मतम् ॥
अगम्यागमनात् स्तेयात् पापिभ्यश्च प्रतिग्रहात्
रहस्याचरितात् पापात् मुच्यते स्नानमाचरन् ॥
प्रकर्त्तुमसमर्थश्चेत् जुहोति यजति क्रियाः ।
स्नानध्यानजपैर्दानैरात्मानं शोधयेद्बुधः ॥”
ब्रह्मपुराणम् ।
“नद्यां प्रत्येकशः स्नाने भवेत् गोदानजं फलम्
गोप्रदानैस्तु दशभिस्तासां पुण्यन्तु सङ्गमे ॥” *
मनुः ।
“न स्नानमाचरेत् भुक्त्वा नातुरो न महानिशि ।
न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥”
न स्नानमाचरेद्भुक्त्वेति रागप्राप्तस्नाननिषेधः ।
नित्यस्याप्राप्तत्वात् । नैमित्तिकस्य च निषेद्धुम-
शक्यत्वात् । आतुरः स्नानसम्बर्द्धकरोगवान् ।
“महानिशा तु विज्ञेया मध्यमं प्रहरंद्वयम् ।
तस्यां स्नानं न कत्तव्यं काम्यनैमित्तिकादृते ॥”
न वासोभिः सह इत्यनेन बहुवासोनिषेधात्
स्नाने द्विवासस्त्वं प्रतीयते । अजस्रं पुनः पुनः ।
तेन वारुण्यादिसंक्रान्त्यादि-निमित्तभेद-प्राप्त-
मेकदा नानास्नानं निषिध्यते । किन्तु तन्त्रेण
प्रसङ्गेन चैकं स्नानम् । तथा च निगमः ।
“नावर्त्तयेत् पुनः कर्म्म तर्पणादिकमन्वहम् ।
काम्यनैमित्तिके हित्वा एकं ह्येकत्र वासरे ॥
विषुवद्दिशसे प्राप्ते पञ्चतीर्थो विधांनतः ।
स्नात्वा सङ्कर्षणं कृष्णं दृष्ट्वा भद्राञ्च भो द्विजाः ।
नरः समस्तयज्ञानां फलं प्राप्नोति दुर्लभम् ॥”
इति ब्रह्मपुराणोक्तमार्कण्डेयह्रदे प्रद्युम्नसरोवरे
समुद्ररूपादितीर्थादौ तन्त्रप्रसङ्गयोरभावात् पुनः
पुनरेकदिनेऽपि नानास्नानमिति ॥ * ॥
“परकीयनिपानेषु स्नायान्नैव कदाचन ।
निपानकर्त्तुः स्नात्वा हि दुष्कृतांशेन लिप्यते ॥”
निपानं जलाधारमात्रम् । तथा च याज्ञवल्क्यः ।
“पञ्च पिण्डाननुद्धृत्य न स्नायात् परवारिणि ॥”
योगियाज्ञवल्क्यः ।
“अनुद्धृत्य तु यः स्नायात् परकीयजलाशये ।
वृथा तस्य भवेत् स्नानं कर्त्तुः पापेन लिप्यते ॥
स्नानं दानं तपो ध्यानं पितृदेवार्च्चनं तथा ।
पावनानि मनुष्याणां दुष्कृतस्येह कर्म्मणः ॥”
छन्दोगपरिशिष्टम् ।
“यव्यद्वयं श्रावणादि सर्व्वा नद्यो रजस्वलाः ।
तासु स्नानं प्रकुर्व्वीत वर्ज्जयित्वा समुद्रगाः ॥
उपाकर्म्मणि चोत्सर्गे प्रेतस्नाने तथैव च ।
चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ॥”
निगमः । न दुष्येत्तीरवासिनाम् । व्याघ्रपादः ।
अभावे कूपवापीनामन्येनापि समुद्धृते ।
रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति ॥”
अन्येन कुम्भादिना ।
“अन्त्यैरपि कृते कूपे सेतौ वाप्यादिके तथा ।
तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं समाचरेत् ॥”
तथा ।
“प्रभूते विद्यमाने तु उदके सूमनोहरे ।
नाल्पोदके द्विजः स्नायात् नदीञ्चोत्सृज्य
कृत्रिमे ॥”
इति बहुभिर्धृतम् ॥
ब्रह्मपुराणे ।
“नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमिष्यते ।
तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम् ॥
श्मश्रुकर्म्माश्रुपातञ्च मैथुनं छर्दनं तथा ।
अस्पृश्यस्पर्शनं कृत्वा स्नायाद्वर्ज्या जलक्रिया ॥”
यत्र तु रोगादिना स्नानं न कृतं ततापि
गात्रमार्जनादिनाशौचमुत्पाद्य पितृयज्ञसिद्धये
तर्पयेत् । तदाह शातातपः ।
“तर्पणन्तु शुचिः कुर्य्यात् प्रत्यहं स्नातको द्विजः ।
देवेभ्यश्च ऋषिभ्यश्च पिभ्यतृश्च यथाक्रमम् ॥ * ॥
पुष्ये वा जन्मनक्षत्रे व्यतीपाते च वैधृतौ ।
अमावास्यां नदीस्नानं दहत्याजन्मदुष्कतम् ॥”
वराहपुराणम् ।
“दक्षिणावर्त्तशङ्खे च पात्रेऽप्यौड्म्बरे स्थितम् ।
उदकं यः प्रतीच्छेत शिरसा हृष्टमानसः ।
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ॥
अच्छिन्नपद्म पत्रेण सर्व्वरत्नोदकेन च ।
स्रोतसा वै नरः स्नात्वा सर्व्वपापैः प्रमुच्यते ॥”
विष्णु धर्मोत्तरे ।
“तथा दर्भोदकैः स्नानं सर्व्वपापप्रणाशनम् ।
गोमूत्रेण च यत् स्नानं सर्व्वाघविनिसूदनम् ॥
तथा पुष्पोदकस्नानं भवेदारोम्यकारकम् ।
केवलैर्व्वा तिलैः स्नानं अथवा गौरसर्षपैः ।
स्नानं प्रियङ्गुणा प्रोक्तं तथा सौभाग्यवर्द्धनम् ॥
आयुष्यञ्च यशस्यञ्च धर्म्मं मेधाविवर्द्धनम् ।
स्नानं पवित्रं माङ्गल्यं तथा काञ्चनवारिणा ॥”
शङ्खः ।
“स्नातस्य वह्नितोयेन तथा च परवारिणा ।
कायशुद्धिं विजानीयात् न तु स्नानफलं लभेत्”
स्नानफलं वैधम् । आयुर्वेदीयन्तु भवत्येव यमः
“नित्यं नैमित्तिकञ्चैव क्रियाङ्गमलकर्षणम् ।
तीर्थाभावे च कर्त्तव्यमुष्णोदकपरोदकैः ॥”
पृष्ठ ५/४५५
विष्णुपुराणम् ।
“स्नानार्द्रां धरणीञ्चैव दूरतः परिवर्जयेत् ।”
इत्याह्निकतत्त्वम् ॥ * ॥
तान्त्रिकस्नानविधिर्यथा । तत्र नद्यादौ वैदिक-
स्नानं कृत्वा तान्त्रिकस्नानमाचरेत् । तथा च
गौतमीये ।
“अथ स्नानं तथा कुर्य्यात् यथाशास्त्र-
विधानवित् ।
मलप्रक्षालनं स्नानं स्वशाखोक्तं समाचरन् ।
मन्त्रस्नानं ततः कुर्य्यात् कर्म्मणां सिद्धिहेतवे ॥”
तद्यथा । अद्येत्यादि अमुकदेवताप्रीतये मन्त्र-
स्नानमहं करिष्ये इति सङ्कल्पं कुर्य्यात् ।
तथा च कुलचूडामणौ ।
“ताम्रपात्रं सदूर्व्वञ्च सतिलं सजलं ततः ।
गृहीत्वामुकदेवस्य प्रीतये स्नानमाचरेत् ॥”
ततः षडङ्गन्यासप्राणायामौ कृत्वा गङ्गेच इत्यने-
नाङ्कुशमुद्रया सूर्य्यमण्डलात्तीर्थमावाह्य वमिति
धेनुमुद्रयामृतीकृत्य कवचेनावगुण्ठ्यास्त्रेण
संरक्ष्य मूलेन एकादशधाभिमन्त्र्य सूर्य्याभि-
मुखं द्वादशधारा विनिःक्षिप्य तस्मिन्निष्टदेव-
ताचरणारविन्दनिःसृतजले निमज्य देवतां
ध्यायन् मूलमन्त्रं ययाशक्ति जपन् उन्मज्य उद-
केन त्रिवारजप्तेन कलसमुद्रया त्रिवारमात्मा-
नमभिषिच्य वैदिकसन्ध्यादिकं कृत्वा सूय्यार्घ्यं
दत्त्वा तान्त्रिकाघमर्षणादिवारिधारान्तं कर्म्म
कुर्य्यात् । इति तन्त्रसारः ॥ * ॥ अन्यच्च ।
“जन्मान्तरसहस्रेण यत् पापं कुरुते नरः ।
मुच्यते सर्व्वपापेभ्यः स्नात्वा क्षारार्णवे सकृत् ॥
याम्यं हि यातनादुःखं नित्यस्नायी न पश्यति
स्नानं मध्यं दिने कुर्य्यात् जीर्णेऽन्नेतु निरामयः
नद्यामस्तमिते स्नानं न कुर्व्वीत सदा बुधः ।
नद्यां स्नात्वा नदीं चान्यां न प्रशंसेत पण्डितः ॥
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ।
स्नानं दानं तपः श्राद्धमनन्तं राहुदर्शने ।
आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्ज्जयेत् ।
नदीदेवनिखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन्नित्यं गत्तप्रस्रवणेषु च ॥
निपातनादुद्धृतं पुण्यं ततः प्रस्रवणादिकम् ।
ततोऽपि सारसं पुण्यं ततो नादेयमुच्यते ।
तीर्थतोयं ततः पुण्यं गङ्गातोयं ततोऽधिकम् ॥”
इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥
किञ्च ।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम्
क्रियाम्नानं तथा षष्ठं षोढास्नानं प्रकीर्त्तितम् ॥
अस्नातस्तु पुमान्नार्हो जप्यादिहवनादिषु ।
प्रातःस्नानं तदर्थन्तु नित्यस्नानं प्रकीर्त्तितम् ॥
चाण्डालशवविष्ठादेः पृष्ट्वा स्नानं रजस्वलाम् ।
स्नानार्हश्च यदा स्नाति स्नानं नैमित्तिकं हि
तत् ॥
पुष्पस्नानादिकं स्नानं दैवज्ञविधिचोदितम् ।
तद्धि काम्यं समुद्दिष्टं नाकामस्तत् प्रयोजयेत्
जप्तुकामः पवित्राणि अर्च्चिष्यन् देवतांतिथीन् ।
स्नानं समाचरेद्यस्तु क्रियाङ्गं तत् प्रकीर्त्तितम्
मलापकर्षणं नाम्ना स्नानमभ्यङ्गपूर्व्वकम् ।
मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा ॥
सर्व्वेषु देवखातेषु तीर्थेषु च नदीषु च ।
स्नानमेव क्रिया यस्मात् क्रियास्नानमतः स्मृतम्
इति गारुडे १०५ अध्यायः ॥ * ॥
कुशहस्तस्य वैष्णवविशेषस्य स्नानादिनिषेधो
मानसस्नानप्रशंसा च यथा, --
“सर्व्वकर्म्मफलत्यागी हरेः संकल्पवर्ज्जितः ।
नो द्विजः कुशहस्तः स्यात् स्नानपूजाजपादिषु ॥
कदाचिद्दर्भस्तो न त्यक्तकामस्तु वैष्णवः ।
स्नानादिषु च कृत्येषु गोविन्दस्यार्च्चनादिषु ॥
मृदासनः कुशकरो वैष्णवो न भवेद्द्विज ।
हरेः कुर्य्यात् प्रयत्नेन सर्व्वसेवाजपादिषु ॥
अस्नातो न जपेन्मन्त्रं गोविन्दस्य महात्मनः ।
कदाचिदशुचिर्भूत्वाप्यस्नातोऽपि च मानवः ॥
मानसस्नातको लोको मुकुन्दस्यार्च्चनादिषु ।
पूतात्मा यदि मन्त्रस्य शुद्धो भवति जापकः ॥
भवेत्तु मानसस्नायी यो बाह्याभ्यन्तरः शुचिः ।
जपाधिकारी स भवेत् कृष्णमन्त्रस्य मानवः ॥
ऐन्द्रस्नानाद्वरं काम्यं काम्यादाग्ने यमेव च ।
आग्नेयादाशुचं श्रेष्ठं वारुणञ्चाशुचादपि ॥
अवगाहं वारुणात्तु वैदिकञ्चावगाहनात् ।
वैदिकादपि नैमित्तं तस्माद्वै मार्ज्जनं वरम् ॥
मार्ज्जनान्मान्त्रिकं श्रेष्ठं भौमं स्यान्मान्त्रिका-
धिकम् ।
भौमस्नानाद्वरं ब्राह्म्यं ब्राह्म्यतः पौण्यमेव च ॥
पौण्यतो नैर्मलं स्नानं वायव्यञ्च ततोऽधिकम् ।
वायव्यान्मानसञ्चेह सर्व्वस्नानात् परं वरम् ॥
मर्त्त्यश्चेत् मानसस्नातः सर्व्वत्र विजयी भवेत् ।
गोविन्दसर्व्वसेवासु चार्हतामेति धारणा ॥
स जापको वैष्णवः स्यात् हरेर्भजनतत्त्ववित् ।
मानसस्नानवान् यो वा भक्तश्चात्र सदा सुखी ॥”
इति पाद्मोत्तरखण्डे १०८ अध्यायः ॥ * ॥
अन्यच्च ।
“मानसं वैदिकं चैव मान्त्रिकं मार्ज्जनं तथा ।
अवगाहनञ्च नैमित्तमाशुचं पुण्यमेव च ॥
नैर्म्मलं वारुणं ब्राह्म्यं मैत्रं काम्यञ्च नारद ।
वायव्यं भौममाग्नेयं षोडशस्नानमीरितम् ॥
गोविन्दमन्त्रग्रहणं दीक्षया तु गुरोर्नृणाम् ।
यदाभिषिक्तं चित्तं स्यात्तत्स्नानं मानसं शुभम्
मर्त्त्यस्य नामग्रहणं यदा कार्ष्णाध्वरे गुरोः ।
स्नानदेहेन्द्रियमनस्तत् स्नानं मानसं भवेत् ॥
नामसंकीर्त्तनं विष्णोर्नरः कुर्य्यादकैतवात् ।
सदैव चेन्महास्नानं शरीरसुखकारणम् ॥
कया कस्त्वा स्वस्ति नश्चेत् यदि वेदैश्च वैदिकम्
दर्भशान्त्युदकैः स्नानं यज्ञान्ते अभिषेचनम् ॥
सहस्रशीर्षा तद्विष्णोरिति मन्त्रादिभिर्द्विज ।
चेत् पयोऽभ्युक्षणं स्नानं मान्त्रिकं समुदाहृतम्
ॐ शन्न आपोहिष्ठेति ऋतञ्चेत्यादिभिर्यदि ।
पाठे कुर्य्यात् कुशस्नानं मार्ज्जनं द्विज ईरितम्
जलेषु मज्जतां नॄणां मज्जनन्तु यदा शिरः ।
तदा सर्व्ववपुश्च स्यादवगाहनमुच्यते ।
गोविन्दद्वादशीमाघीवारुण्यर्द्धोदयादिषु ।
स्नानं यत्तच्च नैमित्तं ग्रहणे चन्द्रसूर्य्ययोः ॥
मैथुने वमने रेतःस्खलने मृतके तथा ।
विण्मूत्रादिशवस्पर्शे शवानुगमनेऽपि च ॥
निद्रान्ते जातकेनृणामस्पृश्यस्पर्शनादिषु ।
रजस्वलाचतुर्थाहे यत् स्नानं स्यात्तदाशुचम् ॥
गङ्गादिसर्व्वतीर्थेषु विष्णुपादोदकैस्तथा ।
यत् स्नानमभिषेकञ्च पुण्यं तत् परिकीर्त्तितम्
हेलया श्रद्धया नॄणां भक्त्या यत्नेन नारद ।
गङ्गाम्भोयष्टिवत्स्नानं महापापादिनाशनम् ॥
गङ्गास्नानं मनुष्याणां सर्व्वकल्मषनाशनम् ।
स्तम्बवच्चापि काष्ठस्य भवेन्मूषलवत् यदि ॥
स्नानं स्यात् सर्व्वतीर्थेषु नानायज्ञफलप्रदम् ।
शालग्रामशिलावारि योऽभिषेकं समाचरेत् ॥
अकालमृत्युहरणं सर्व्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयेद्यदि
यदि सर्व्वमनुष्याणां बाह्यान्तर्मलशोधनम् ।
तदेव नैर्मलस्नानं शरीराणां भवेत् ध्रुवम् ॥
स्वेदाश्रुमज्जाविण्मूत्रचिकुराः क्षतजा वसा ।
दूषिका कर्णविट् श्लेष्मा नॄणां बाह्यमलाः स्मृताः
मलैस्तु मलिनो देहो नवच्छिद्रैश्च छिद्रितः ।
स्रवत्यविरतं पूर्णो दिवारात्रौ मलानतः ॥
अद्भिश्च गोमयैश्चापि मलानामपमार्जनम् ।
सर्व्वत्र क्षालनं कृत्वा सर्व्वात्मप्रयतो मुनिः ॥
अष्टाङ्गयोगाभ्यासैश्च देहप्रक्षालनं ततः ।
नरोऽम्बुमज्जनं कुर्व्वन् स्नानं भवति नैर्म्मलम् ॥”
इति पाद्मे उत्तरखण्डै ११३ अध्यायः ॥ * ॥
किञ्च ।
“तुलामकरमेषेषु प्रातःस्नानं विधीयते ।
हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥
अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् ।
न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत्
करेण मार्ज्ज येद्गात्रं स्नानवस्त्रेण वा यदि ।
शुनास्पृष्टं भवेद्गात्रं पुनः स्नानेन शुध्यति ॥
अप्रक्षाल्य तु पादौ यः स्नात्वा गच्छति मन्दिरम्
संवत्सरकृतं पुण्यं तत्क्षणादेव नश्यति ॥
स्नानं रजकतीर्थेषु भोजनं गणिकालये ।
शयनं पूर्व्वपादे च ब्रह्महत्या दिने दिने ॥”
इति कर्म्मलोचनः ॥
अन्यत् मत्स्यसूक्ततन्त्रे ३९ पटले द्रष्टव्यम् ॥

स्नानतृणं, क्ली, (स्नानाय तृणम् ।) कुशः । इति

शब्दमाला ॥

स्नानयात्रा, स्त्री, (स्नानस्य यात्रा उत्सवः ।)

ज्यैष्ठपौर्णमास्यां श्रीविष्णोर्म्महास्नानरूपोत्सवः
यथा, ब्रह्मपुराणम् ।
“मासि ज्यैष्ठे तु संप्राप्ते नक्षत्रे शक्रदैवते ।
पौर्णमास्यां तदा स्नानं सर्व्वपापं हरेद्द्विजाः ॥
तस्मिन् काले तु ये मर्त्त्याः पश्यन्ति पुरुषोत्तमम्
बलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम् ॥”
स्कन्दपुराणविष्णुधर्म्मोत्तरयोः ।
“ज्यैष्ठ्यामहञ्चावतीर्णस्तत्पुण्यं जन्मवासरम्
पृष्ठ ५/४५६
तस्यां मे स्नापनं कुर्य्यान्महास्नानविधानतः ॥
ज्यैष्ठ्यां प्रातःस्नानकाले ब्रह्मणा सहितञ्च माम्
रामं सुभद्रां संसाप्य मम लोकमवाप्नुयात् ॥”
इति तिथ्यादितत्त्वम् ॥
अन्यत् यात्राशब्दे द्रष्टव्यम् ॥

स्नानीयं, त्रि, (स्नात्यनेनेति । स्ना + करणे अनी-

यर् । यद्वा, स्नानाय हितम् । स्नान + छः ।)
स्नानयोग्यम् । स्नानसम्पादकद्रव्यम् । यथा, --
“गङ्गादीनाञ्च तीर्थानां वारि कुम्भप्रपूरितम् ।
स्नानीयं ते प्रयच्छामि स्नानं कुरु त्रिलोचने ॥”
इति दुर्गोत्सवपद्धतिः ॥

स्नायी, [न्] त्रि, (स्नातीति । स्ना + णिनिः ।)

स्नानकर्त्ता । यथा, तिथ्यादितत्त्वे ।
“प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुणौ ॥”

स्नायुः, स्त्री, (सा + बाहुलकात् उण् । “आतो-

युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।
इत्युणादिवृत्तौ उज्ज्वलः । १ । १ ।) वायुवाहिनी
नाडी । महुर इति ख्याता । इति भरतः ॥
तत्पर्य्यायः । वस्नसा २ इत्यमरः । २ । ६ । ६६ ॥
स्नसा ३ नसा ४ । इति राजनिर्घण्टः ॥ स तु
गर्भस्थस्य सप्तभिर्मासैर्भवति । इति मुग्धबोधः ॥
(यथा, याज्ञवल्क्यः । ३ । १०० ।
“शिराः शतानि सप्तैव नवस्नायुशतानि च ॥”
“नवस्नायुशतानि तासां शाखासु षट्शतानि ।
द्वे शते त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्धं सप्ततिः ॥
एकैकस्यान्तु पादाङ्गुल्यां षट्निचितास्तास्त्रिंशत्
तावत्य एव तलकूर्च्चगुल्फेषु । तावत्य एव
जङ्घायाम् । दशजानुनि । चत्वारिंशदूरौ ।
दश वङ्क्षणे । शतमध्यर्द्ध्वमेवमेकस्मिन् सक्थ्नि
भवन्ति । एतेनेतरसक्थि बाहू च व्याख्यातौ ।
षष्टिः कट्याम् । अशीतिः पृष्ठे । पार्श्वयोः
षष्टिः । उरसि त्रिंशत् ॥ षट्त्रिंशद्ग्रीवायाम्
मूर्द्ध्नि चतुस्त्रिंशत् । एवं नव स्नायुशतानि
व्याख्यातानि । भवन्ति चात्र ।
स्नायुश्चतुर्व्विधा विद्यात्तास्तु सर्व्वा निबोध मे ।
प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च सुषिरास्तथा ॥
प्रतानवत्यः शाखासु सर्व्वसन्धिषु चाप्यथ ।
वृत्तास्तु कण्डराः सर्व्वा विज्ञेया कुशलैरिह ॥
आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु ।
पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥
नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता ।
भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ।
एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ॥
स्नायुभिर्व्वहुभिर्बद्धास्तेनभारसहा नराः
नह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः ॥
व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ।
यः स्नायुः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा
गूढं स शल्यमाहर्त्तुं देहाच्छक्नोति देहिनाम् ॥”
इति सुश्रुते शरीरस्थाने पञ्चमेऽध्याये ॥)

स्नाय्वर्म, [न्] क्ली, नेत्ररोगप्रभेदः । तस्य लक्षणं यथा

“स्थिरं प्रस्तारि मांसाढ्यं शुष्कं स्नाय्वर्मपञ्चमम् ॥”
इतिमाधवकरः ॥ अन्यत् नेत्ररोगशब्दे द्रष्टव्यम्

स्नावा, [न्] पुं, (स्ना + “स्नामदिपदीति ।” उणा ०

४ । ११२ । इति वनिप् ।) स्नायुः । इति
केचित् ॥ (यथा, वाजसनेयसंहितायाम् ३९ । १०
“मांसेभ्यः स्वाहा स्नावभ्यः स्वाहा ॥”
“स्नवभ्यः स्नावानः स्नायवो नसाः ।” इति
तद्भाष्यम् ॥ * ॥ त्रि, रसिकः । इत्युणादिवृत्तौ
उज्ज्वलदत्तः ॥)

स्निग्धं, क्ली, (स्निह + क्तः ।) शिक्थकम् । इति

राजनिर्घण्टः ॥

स्निग्धः, पुं, (स्निह्यति स्मेति । स्निह + अकर्म्मक-

त्वात् कर्त्तरि क्तः ।) वयस्यः । इत्यमरः । २ ।
८ । १२ ॥ रक्तैरण्डः । सरलवृक्षः । इति राज-
निर्घण्टः ॥

स्निग्धः, त्रि, (स्निह + क्तः ।) स्नेहयुक्तः । अरूक्षः ।

(यथा, महाभारते । १ । १५३ । ९ ।
“अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः
देहेषु मज्जषिष्यामि स्निग्धेषु पिशितेषु च ॥”)
तत्पर्य्यायः । चिक्कणम् २ मसृणम् ३ । इत्य-
मरः । २ । ९ । ४६ ॥ आमृष्टम् ४ चिक्वम् ५
चक्वणम् ६ । इति वैश्यवर्गे शब्दरत्नावली ॥
“स्निग्धन्तु वत्सलो वत्सः स्नेहयुक्तजने भवेत् ।”
इति च विशेष्यनिघ्नवर्गे शब्दरत्नावली ॥

स्निग्धतण्डुलः, पुं, (स्निग्धस्तण्डुलः ।) षष्टिशालिः ।

इति राजनिर्घण्टः ॥

स्निग्धता, स्त्री, (स्निग्धस्य भावः । तल् ।) प्रियता ।

यथा, --
“हार्दं प्रियत्वं प्रियता स्निग्धतायां निगद्यते ।”
इति शब्दरत्नावली ॥
स्नेहः । इति राजनिर्घण्टः ॥

स्निग्धदारुः, पुं, (स्निग्धं चिक्कणं दारु काष्ठं यस्य ।)

सरलवृक्षः । इति जटाधरः । देवदारुः । इति
राजनिर्घण्टः ॥

स्निग्धपत्रकः, पुं, (स्निग्धानि पत्रानि यस्य ।

कप् ।) गजरतृणम् । घृतकरञ्जः । गुच्छकरञ्जः ।
इति राजनिर्घण्टः ॥

स्निग्धपत्रा, स्त्री, पुं, (स्निग्धं पत्रं यस्याः ।) बदरी ॥

इति जटाधरः ॥ पालक्यम् । काश्मरी । इति
राजनिर्घण्टः ॥

स्निग्धपिण्डीतकः, पुं, (स्निग्धः पिण्डीतकः ।)

मदनवृक्षविशेषः । यथा, --
“वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान्
स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥
अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ ।
छर्द्दनौ कफहृद्रोगपक्वामाशयशोधनौ ॥”
इति राजनिर्घण्टः ॥

स्निग्धफला, स्त्री, (स्निग्धं फलं यस्याः । नाकुली ।

इति राजनिर्घण्टः ॥

स्निग्धा, स्त्री, (स्निग्ध + टाप् ।) मेदा । इति

राजनिर्घण्टः ॥

स्निट, क स्नेहे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, स्नेटयति । इति दुर्गा-
दासः ॥

स्नुः, पुं, (स्नुप्रस्रवणे + मितद्र्वादित्वात् डुः ।)

सानुः । पर्व्वतस्य समभूभागः । इत्यमरः । २ ।
३ । ५ ॥

स्नुः, स्त्री, (स्नु + डुः ।) स्नायुः । यथा, --

“त्रिष्टुप् मांसात् स्नुतोऽनुष्टुप् जगत्यस्नः प्रजा-
पतेः ।
तस्योष्णिगासील्लोमभ्यो गायत्त्री च त्वचोविभोः ॥”
इति श्रीभागवते । ३ ॥ १२ । २९ ॥

स्नुक्, [ह्] स्त्री, (स्नुह + क्विप् ।) स्नुहीवृक्षः ।

इत्यमरः । २ । ४ । ५ ॥

स्नुक्छदः, पुं, क्षीरकञ्चुकीवृक्षः । इति रत्नमाला ॥

स्नुतः, त्रि, (स्नु + क्तः ।) क्षरितजलादिः । इत्य-

मरः । ३ । १ । ९२ ॥ (सिक्तः । यथा, भाग-
वते । १ । ११ । ३० ।
“ताः पुत्त्रमङ्कमारोस्य स्नेहस्नुतपयोधराः ।
हर्षविह्वलितात्मानः सिसिचुर्नेत्रजैर्जलैः ॥”)

स्नुषा, स्त्री, (स्नौति मनो यस्यामिति । स्नु प्रस्र-

वने + “स्नुव्रश्चिकृञ्षिभ्यः कित् ।” उणा० ३ ।
६६ । इति सः । स च कित् ।) पुत्त्रबधूः ।
इत्यमरः । २ । ६ । ९ ॥ (यथा, रघुः । ८ । १४ ॥
“स किलाश्रमन्त्यमाश्रितो
निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्त्रभोग्यया
स्नुषयेवाविकृतेन्द्रियः श्रिया ॥”)
श्वश्र्वा सह तस्या विरोधकारणं श्वश्रूशब्दे
द्रष्टव्यम् ॥ स्नुहीवृक्षः । इति शब्दचन्द्रिका ॥

स्नुहा, स्त्री, (स्नुह + भागुरिमते टाप् । स्नुही-

वृक्षः इत्यमरटीकायां भरतः । २ । ४ । १०५ ॥

स्नुहिः, स्त्री, (स्नुह + इन् ।) स्नुही । इत्यमर-

टीका । २ । ४ । १०५ ॥

स्नुही, स्त्री, (स्नुहि + कृदिकारादिति ङीष् ।)

वृक्षविशेषः । मनसासिज इति भाषा । तत्-
पर्य्यायः । सीहुण्डः २ व्रजद्रुः ३ स्नुक् ४ गुडा ५
समन्तदुग्धा ६ । इत्यमरः । २ । ४ । १०५ ॥ सिहुण्डः
७ शीहुण्डः ८ वज्रः ९ स्नुहा १० स्नुहिः ११
गुडी १२ गुडः १३ । इति तट्टीका ॥ वज्री १४ ।
इति शब्दरत्नावली ॥ सुधा १५ वज्रकण्टकः १६
कृष्णसारः १७ । इति जटाधरः ॥ अस्या दुग्ध-
गुणाः ।
“बहुदोषे प्रयोक्तव्यमग्नितुल्यं सुधापयः ।”
इति राजवल्लभः ॥
राजनिर्घण्टोक्तपर्य्यायगुणौ सेहुण्डशब्दे द्रष्टव्यौ ॥
तत्र मनसा पूज्या । यथा,
“सुप्ते जनार्द्दने कृष्णे पञ्चम्यां भवनाङ्वने ।
पूजयेन्मनसादेवीं स्नुहीविटपसंस्थिताम् ॥
पद्मनाभे गते शय्यां देवैः सर्व्वैरनन्तरम् ।
पञ्चभ्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥”
इति तिथ्यादितत्त्वे देवीपुराणम् ॥

स्नेहः, पुं, (स्निह + घञ् ।) प्रेम । इत्यमरः । १ ।

७ । २७ ॥ (तल्लक्षणं यथा, --
“दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥”)
पृष्ठ ५/४५७
स्नेहस्य दुःखमूलत्वम् । यथा --
“यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् ।
स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते महत् सुखम् ॥”
इति गारुडे । ११३ । ५९ ॥
तैलादिरसभेदः । इति मेदिनी ॥ (यथा, माघः ।
२ । ८५ ।
“मृदुव्यवहितं तेजो भोक्तुमर्थान् प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥”
यथा च मनुः । ५ । २४ ।
“यत्किञ्चित् स्नेहसंयुक्तं भोक्ष्यं भोज्यमगर्हितम् ।
तत् पर्य्युषितमप्याद्यं हविःशेषञ्च यद्भवेत् ॥”)
न्यायमते गुणविशेषः । जलीयपरभाणावयं
नित्यः । अन्यत्र त्वनित्यः । तैलादावस्य प्रकर्षो
वर्त्तते अतस्तेषां दाहो भवति यथा, --
“स्नेहो जलेऽणौ नित्योऽयमनित्योऽवयविन्यसौ ।
तैलान्तरे तत्प्रकर्षात् दहनस्यानुकूलता ॥”
इति भाषापरिच्छेदः ॥

स्नेहनं, क्ली, (स्निह्यत्यनेनेति । स्निह + ल्युट् ।)

तैलमर्द्दनम् । तत्पर्य्यायः । स्नेहः २ स्निग्धता ३
म्रक्षणम् ४ म्रक्षः ५ अभ्यङ्गः ६ अभ्यञ्जनम् ७ ।
इति राजनिर्घण्टः ॥ (स्नेहयतीति । स्निह +
णिच् + ल्युः । स्निग्धकारिणि, त्रि । यथा,
सुश्रुते । १ । ४५ ।
“घृतं सौम्यं शीतवीर्य्यं मृदुमधुरमल्पाभिष्यन्दि
स्नेहनमिति ॥”)

स्नेहप्रियः, पुं, (स्नेहः प्रियो यस्य ।) प्रदीपः ।

इति हेमचन्द्रः ॥ तैलादिप्रिये, त्रि ॥

स्नेहबीजः, पुं, (स्नेहयुक्तानि बीजानि यस्य ।)

पियालवृक्षः । इति राजनिर्घण्टः ॥ स्मेह-
कारणे, क्ली ॥

स्नेहभूः, पुं, (स्नेहात् भूरुत्पत्तिर्यस्य ।) श्लेष्मा ।

इति हेमचन्द्रः ॥ (स्नेहा भूरिति ।) स्निग्धभूमौ,
स्त्री ॥ (स्नेहान्विता भूर्यस्येति स्निग्धभूमि-
विशिष्टे, त्रि ॥)

स्नेहरङ्गः, पुं, (स्नेहेनं रज्यते इति । रञ्ज + घञ् ।)

तिलः । इति शब्दरत्नावली ॥

स्नेहवती, स्त्री, (स्नेहोऽस्या अस्तीति । स्नेह +

मतुप् । मस्य वः । ङीप् ।) मेदा । इति राज-
निर्घण्टः ॥ (तैलादिरसविशिष्टे प्रीतिविशिष्टे
च त्रि । यथा, मार्कण्डेये । २३ । ७७ ।
“एवमुक्तौ ततस्तेन पित्रा स्नेहवता तु तौ ।
गत्वा तस्य पुरं सख्यू रेमाते तेन धीमता ॥”)

स्नेहवस्तिः, स्त्री, (स्नेहस्य वस्तिः ।) अनुवासन-

विस्तः । तैलपिच्किरी इति भाषा । यथा, --
“वस्तिर्द्विवानुवासाख्यो निरूहश्च ततः परः ।
यः स्नेहैर्दीयते स स्यादनुवासननामकः ॥”
इति भावप्रकाशः ॥
एतद्विवरणं वस्तिशब्दे द्रष्टव्यम् ॥

स्नेहविद्धं, क्ली, (स्नेहेन विद्धम् ।) देवदारु ।

इति जटाधरः ॥

स्नेहा, [न्] पुं, (स्निह्यतीति । स्निह + “श्वन्नुक्षन्

पूषन्निति ।” उणा० १ । १५८ । इति कनिन्-
प्रत्ययेन साधुः ।) रोगविशेषः । इत्युणादि-
कोषः ॥ बन्धुः । चन्द्रः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

स्नेहाशः, पुं, (स्नेहमश्नातीति । अश भोजने +

अण् ।) प्रदीपः । इति त्रिकाण्डशेषः ॥

स्नेहितः, पुं, (स्नेहोऽस्य जातः । स्नेह + इतच् ।)

बन्धुः । स्नेहयुक्ते, त्रि ॥

स्नेही, [न्] पुं, (स्नेहोऽस्यास्तीति । इनिः ।)

वयस्यः । इति त्रिकाण्डशेषः ॥ चित्रकरः । इति
केचित् ॥ स्नेहयुक्ते, त्रि ॥

स्नेहुः, पुं, (स्निह्यतीति । स्निह + “शॄस्वृस्निहीति ।”

उणा० १ । ११ । इति उः ।) रोगभेदः ।
इत्युणादिकोषः ॥ चन्द्रः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

स्पद, इ ङ ईषत्कम्पे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) इ, स्पन्द्यवे ।
ङ, स्पन्दते चक्षुः । पस्पन्दे । काशे स्पन्द कुशे
स्पन्द स्पन्दत्वं शत्रुमस्तके । इत्यादौ गणकृता-
नित्यत्वमिति रमानाथः । वस्तुतस्तु स्पन्दते
स्पन्दः पचादित्वादन् ततः स्पन्द इवाचरति
इति क्वौ सिद्धिः । इति दुर्गादासः ॥

स्पन्दः, पुं, (स्पन्द + घञ् ।) प्रस्फुरणम् । ईषत्-

कम्पनम् । यथा, --
“चक्षुःस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनम् ।
शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ।
अश्वत्थरूपो भगवान् प्रीयतां मे जनार्द्दनः ॥”
इति मलमासतत्त्वम् ॥ * ॥
अङ्गविस्फुरणे शुभाशुभफलं यथा, --
मनुरुवाच ।
“ब्रूहि मे त्वं निमित्तानि अशुभानि शुभानि च ।
सर्व्वधर्म्मभृतां श्रेष्ठ ! त्वं हि धर्म्मविदुच्यसे ॥
मत्स्य उवाच ।
अङ्गदक्षिणभागे तु शस्तं प्रस्फुरणं भवेत् ।
अप्रशस्तं यथा वामे पृष्ठस्य हृदयस्य च ॥
मनुरुवाच ।
अङ्गानां स्पन्दनञ्चैव शुभाशुभविचेष्टितम् ।
तन्मे विस्तरतो ब्रूहि येन स्युस्तद्विदो भुवि ॥
मत्स्य उवाच ।
पृथ्वीलाभो भवेत् मूर्द्ध्नि ललाटे रविनन्दन ! ।
स्थानं विवृद्धिमायाति भ्रूनसोः प्रियसङ्गमः ॥
भृत्यलब्धिश्चाक्षिदेशे दृगुपान्ते धनागमः ।
उत्कण्ठोपगमो मध्ये दृष्टं राजन् ! विचक्षणैः ॥
दृग्बन्धने सङ्गरे च जयं शीघ्रमवाप्नुयात् ।
योषिल्लाभोऽपाङ्गदेशे श्रवणान्ते प्रिया श्रुतिः ॥
नासिकायां प्रीतिसौख्यं प्रियाप्तिरधरोष्ठयोः ।
कण्ठे तु भोगलाभः स्यात् भोगवृद्धिरथांसयोः ॥
सुहृत्स्नेहश्च बाहुभ्यां हस्ते चैव धनरगमः ।
पृष्ठे पराजयो योधे जयो वक्षःस्थले भवेत् ॥
कुक्षिभ्यां प्रीतिरुद्दिष्टा स्त्रियाः प्रजननं स्तने ।
स्थानभ्रंशो नाभिदेशे अन्त्रे चैव धनागमः ॥
जानुसन्धौ परैः सन्धिर्बलवद्भिर्भवेन्नृप ! ।
दिशैकदेशनाशोऽथ जङ्घाभ्यां रविनन्दन ! ॥
उत्तमं स्थानमाप्नोति पद्भ्यां प्रस्फुरणान्नृप ! ।
सलाभञ्चाध्वगमनं भवेत् पदतले नृप ! ॥
लाञ्छनं पिटकञ्चैव ज्ञेयं प्रस्फुरणं तथा ।
विपर्य्ययेन विहितं सर्वं स्त्रीणां विपर्य्ययम् ॥
दक्षिणेऽपि प्रशस्तेऽङ्गे प्रशस्तं स्याद्विशेषतः ।
अप्रशस्त तथा वामे त्वप्रशस्तं विशेषतः ॥
अतोऽन्यथासिद्धिरजल्पनात्तु
फलस्य शस्तस्य च निन्दितस्य ।
अनिष्टचिह्नीपगमे द्विजानां
कार्य्यं सुवर्णेन च तर्पणं स्यात् ॥”
इति मात्स्ये यात्रानिमित्तदेहस्पन्दनं नाम
२४१ । ३ -- १४ ॥

स्पन्दनं, क्ली, (स्पन्द + ल्युट् ।) प्रस्फुरणम् । ईषत्

कम्पनम् । (यथा, याज्ञवल्क्यः । १ । ११ ।
“गर्भाधानमृतौ पुंसःसवनं स्पन्दनात् पुरा ।
षष्ठेऽष्टमे वा सौमन्तो मास्यते जातकर्म्म च ॥”)

स्परिता, [ऋ] त्रि, दुःखकारणम् । तच्च शत्रु-

दुर्जनरोगादि । इति केचित् ॥

स्परिशः, पुं, स्पर्शः । इति केचित् ॥

स्पर्द्ध, ङ संहर्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) संहर्षः परिभवेच्छा ।
इति वोपदेवः ॥ ङ, स्पर्द्धते बलिनं बली ।
पस्पर्द्धे । इति दुर्गादासः ॥

स्पर्द्धा, स्त्री, (स्पर्द्ध + भिदादित्वादङ् । टाप् ।)

संहर्षः । (यथा, महाभारते । १ । २१ । १७ ।
“महानदीभिर्बह्वीभिः स्पर्द्धयेव सहस्रशः ।
अभिसार्य्यमाणमनिशं ददृशाते महार्णवम् ॥”)
क्रमसमुन्नतिः । साम्यम् । इति मेदिनी ॥

स्पर्श, क ङ ग्रहणे । श्लेषे । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-सेट् ।) क ङ, स्पर्शयते ।
इति दुर्गादासः ॥

स्पर्शः, पुं, (स्पृश स्पर्शने, स्पर्श ग्रहणे वा + घञ् ।)

रुजा । दानम् । स्पर्शनम् । (यथा, उत्तर-
रामचरिते । १ अङ्के ।
“विनिश्चेतुं शक्यो न सुखमिति वा दुःख-
मिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च संमीलयति च ॥”)
स्पर्शकः । सम्परायः । प्रणिधिः । इति मेदिनी ॥
उपतप्ता । इत्यमरः । ३ । २ । १४ ॥ वर्गाक्षरम् ।
इति हेमचन्द्रः ॥ (यथा, भागवते । २ । ९ । ६ ।
“स चिन्तयन् द्व्यक्षरमेकदाम्भ-
स्युपाशृणोत् द्विर्गदितं वचो विभुः ।
स्पर्शेषु यत् षोडशमेकविंशं
निष्किञ्चनानां नृप ! यद्धनं विदुः ॥”)
वायुः । इति केचित् ॥ कामिनां बन्धभेदः । इति
शब्दरत्नावली ॥ कादिवर्गपञ्चकम् । यथा, --
“स्पर्शस्तस्याभवज्जीवः स्वरो देह उदाहृतः ॥”
इति श्रीभागवते ३ स्कन्धे १२ अध्यायः ॥
स्पर्शः कादिवर्गपञ्चकम् । इति तट्टीकायां
श्रीधरस्यामी ॥ न्यायमते त्वगिन्द्रियग्राह्मगुण-
पृष्ठ ५/४५८
विशेषः । त्वगुपकारकः । स च त्रिविधः ।
उष्णः । शीतः । अनुष्णाशीतः । पृथिव्याः
स्पर्शः काठिन्यादिः पाकजः । जलपरमाणुस्पर्शः
नित्यः । अन्यत्रानित्यः । वैशेषिकमते पार्थिव-
परमाणुमात्रस्य पाकजस्पर्शः । नैयायिकमते तु
द्व्यणुकादिस्पर्शोऽपि पाकजः । यथा, --
“स्पर्शस्त्वगिन्द्रियग्राह्यस्त्वचः स्यादुपकारकः ।
अनुष्णाशीतशीतोष्णभेदात् स त्रिविधो मतः ॥
काठिन्यादिः क्षितावेव नित्यतादि च पूर्ब्बवत् ।
एतेषां पाकजत्वन्तु क्षितौ नान्यत्र कुत्रचित् ॥
तत्रापि परमाणौ स्यात् पाको वैशेषिके नये ।
नैयायिकानान्तु नये द्व्यणुकादावपीष्यति ॥”
इति भाषापरिच्छेदः ॥
स्पर्शं निरूपयति । स्पर्श इति । उपकारक इति
स्पर्शनप्रत्यक्षे स्पर्शः कारणमित्यर्थः । अनु-
ष्णाशीतेति । पृथिव्या वायोः स्पर्शोऽनुष्णा-
शीतः जलस्य शीतः । तेजस उष्णः । काठि-
न्येति । कठिनसुकुमारस्पर्शः पृथिव्या एव
इत्यर्थः । कठिनत्वादिकन्तु न संयोगनिष्ठो
जातिविशेषः चक्षुर्ग्राह्यतापत्तेः । पूर्व्ववत् जल-
तेजोवायुपरमाणुस्पर्शा नित्याः इत्यर्थः । तद्भिन्नाः
स्पार्शास्त्वनित्या इत्यर्थः । एतेषां रूपरसगन्ध-
स्पर्शानाम् । नान्यत्रेति । पृथिव्या हि रूपरस-
गन्धस्पर्शपरावृत्तिः पाकरससंयोगादुपलभ्यते ।
न हि शतधापि ध्मायमाने जलादौ रूपादिकं
परावर्त्तते नीरे सौकरमौष्णञ्च नयव्यतिरेका-
भ्यामुपाधेरेवेति निलीयते पवनपृथिव्योः शीत-
स्पर्शादिवत् पृथिवीष्वपि मध्ये परमाणावेव
रूपादीनां पाकः इति वैशेषिका वदन्ति ।
नैयायिकानामिति नैयायिकानां मते द्व्यणु-
कादौ अवयविन्यपि पाको भवति । इति
सिद्धान्तमुक्तावली ॥ * ॥
पुराणमते एकादशविधस्पर्शो यथा । उष्णः १
शीतः २ सुखः ३ दुःखः ४ स्निग्धः ५ विशदः ६
खरः ७ मृदुः ८ श्लक्ष्णः ९ लघुः १० गुरुः ११ ।
इति महाभारते मोक्षधर्म्मः ॥ कठिनः । इति
तत्रैव आश्वमेधिकपर्व्व ॥ आचमनाङ्गस्पर्शनं
आचमनशब्दे द्रष्टव्यम् ॥ * ॥ उच्छिष्टस्य स्पर्श-
निषेधो यथा, --
“न स्पृशेत् पाणिनोच्छिष्टो विप्रगोब्राह्मणा-
नलान् ।
न चानलं पदा वापि न देवप्रतिमां स्पृशेत् ॥”
इति कौर्म्मे उपविभागे । १६ । ३५ ॥
अथ उच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् ।
आपस्तम्बः ।
“भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वपचेन वा ।
प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशीधनम् ॥
गायत्त्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत् ।
त्रिरात्रोप्रोषिता भूत्वा पञ्चगव्येन शुध्यति ॥
भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् ।
अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने
तथा ॥”
प्राजापत्यं ज्ञाने । अर्द्धोच्छिष्टो येन आद्यग्रासः
आस्ये निःक्षिप्तः न तु निगीर्णः । दक्षः ।
“पाने मैथुनसंसर्गे तथा मूत्रपुरीषयोः ।
स्पर्शनं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह ॥
दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।
दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम् ॥”
काश्यपः ।
“श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः ।
यद्युच्छिष्टः स्पृशेत् तत्र कृच्छ्रं सान्तपनं चरेत् ॥”
एतज्ज्ञानाभ्यासे । सान्तपने धेनुद्वयम् । ब्रह्म-
पुराणे ।
“उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः ।
उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥
उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः ।
उभौ स्नानं प्रकुरुतः सद्य एव समाहितौ ॥”
अनुच्छिष्टब्राह्मणस्य नक्तमिति प्रायश्चित्त-
विवेकः ॥ * ॥ अथ रजस्वलास्पर्शप्रायश्चित्तम् ।
काश्यपः ।
“रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
रजस्वला तु संस्पृष्टा राजन्या ब्राह्मणी तु या ।
त्रिरात्रेण विशुद्धिः स्यात् व्याघ्रस्य वचनं यथा ॥
रजस्वला तु संस्पृष्टा वैश्यया ब्राह्मणी च या ।
पञ्चरात्रनिराहारा पञ्चगव्येन शुध्यति ॥
रजस्वला तु संस्पृष्टा शूद्रया ब्राह्मणी यदि ।
षड्रात्रेण विशुध्येत्तु ब्राह्मणी कामचारतः ॥
अकामतश्चरेदर्द्धं ब्राह्मणी सर्व्वजातिषु ॥”
एतेन रजस्वलाया ब्राह्मण्याः सवर्णरजस्वला-
स्पर्शे एकरात्रोपवासः पञ्चगव्यपानं कामतः ।
अकामतस्त्वदर्द्धं नक्तव्रतम् । असवर्णरजस्वला-
स्पर्शे त्रिरात्रपञ्चरात्रषड्रात्रोपवासाः । अका-
मतस्त्वदर्द्धं एतच्चतुर्थाहानन्तरं कर्त्तव्यम् ।
“चाण्डालेन श्वपाकेन संस्पृष्टा चेद्रजस्वला ।
अतिक्रम्य तान्यहानि प्रायश्चित्तं समाचरेत् ॥
त्रिरात्रमुपवासः स्यात् पञ्चगव्येन शुध्यति ।
तां निशान्तु व्यतिक्रम्य स्वजात्युक्तन्तु कारयेत् ॥”
इति वचनान्तरदर्शनात् ॥
एतत् कामतः । अत्र दिनभेदोऽपि नास्ति ।
अज्ञाने बृहस्पतिः ।
“पतितान्त्यश्वपाकैस्तु संस्पृष्टा स्त्री रजस्वला ।
तान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥
प्रथमेऽह्नि त्रिरात्रन्तु द्वितीये द्व्यहमाचरेत् ।
अहोरात्रं तृतीयेऽह्नि चतुर्थे नक्तमाचरेत् ॥”
चतुर्थेऽह्नीति शुद्धिस्नानात् पूर्ब्बम् । व्याघ्रः ।
“रजस्वला यदा स्पृष्टा श्वजम्बुकखरैः क्वचित् ।
निराहारा भवेत्तावत् यावत् स्नानेन शुध्यति ॥”
अत्रापि बृहस्पत्युक्तदिनभेदव्यवस्था । वृद्ध-
शातातपः ।
“रजस्वले तु ये नार्य्यावन्योऽन्यं स्पृशतो यदि ।
सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतः परम् ॥”
पञ्चगव्यपानं व्रतरूतं तेनोपवासः । ब्रह्मकूर्च्च-
माह जाबालः ।
“अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः ।
पञ्चगव्यं पिबेत् प्रातः ब्रह्मकूर्च्चविधिः स्मृतः ॥”
तदशक्तौ पुराणैकं दातव्यम् । उच्छिष्टशूद्रादि-
स्पर्शे बृहस्पतिः ।
“शुना चोच्छिष्टया शूद्र्या संस्पृष्टा द्ब्यहमाच-
रेत् ।
अहोरात्रं तृतीयेऽह्नि परतो नक्तमाचरेत् ॥”
परतश्चतुर्थदिने स्नानात् पूर्वमिति ज्ञेयम् ।
इति प्रायश्चित्ततत्त्वम् ॥ मत्स्यसूक्तोक्तास्पृश्य-
स्पर्शनप्रायश्चित्तं स्नानशब्दे द्रष्टव्यम् ॥ (त्रि,
स्पर्शकः । आनन्दजनकः । यथा, मागवबे ।
३ । २१ । ९ ।
“श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥”)

स्पर्शकः, त्रि, (स्पृशतीति । स्पृश + ण्वुल् ।) स्पर्शन-

कर्त्ता । स्पृशधातोः कर्त्तरि णकप्रत्ययेन
निष्पन्नः ॥

स्पर्शनं, क्ली, (स्पृश + ल्युट् ।) दानम् । स्पर्शः ।

इति मेदिनी ॥ (यथा, भागवते । १ । १० । १२ ।
“तस्मिन्नस्तधियः पार्थाः सहेरन् विरहं कथम् ।
दर्शनस्पर्शनालापशयनासनभोजनैः ॥”
सम्बन्धः । इति मल्लिनाथः ॥ यथा, रघुवंशे ।
२ । ५० ।
“तद्रक्ष कल्याणपरम्पराणां
भोक्तारमूर्जस्वलमात्मदेहम् ।
महीतलस्पर्शनमात्रभिन्न-
मृद्धं हि राज्यं पदमैन्द्रमाहुः ॥”)

स्पर्शनः, पुं, (स्पृशतीति । स्पृश + ल्युः ।) वायुः ।

इत्यमरः । १ । १ । ६४ ॥

स्पर्शमणिः, पुं, (स्पर्शप्रधानो मणिः । स्पर्शेन

स्वर्णोत्पादकत्वात् तथात्वम् ।) स्पर्शमात्रेण
स्वर्णजनकप्रस्तरविशेषः । परशपातर इति
भाषा । इति वक्ष्यमाणशब्ददर्शनात् ॥

स्पर्शमणिप्रभवं, क्ली, (स्पर्शमणिः प्रभवो यस्य ।)

स्वर्णम् । इति शब्दरत्नावली ॥

स्पर्शलज्जा, स्त्री, (स्पर्शात् लज्जा संकोचनरूप-

त्रपा यस्याः ।) लज्जालुवृक्षः । इति शब्द-
चन्द्रिका ॥

स्पर्शशुद्धा, स्त्री, (स्पर्शे शुद्धा ।) शतमूली । इति

शब्दचन्द्रिका ॥

स्पर्शस्यन्दः, पुं, (स्पर्शेन स्यन्दते मूत्रयतीति ।

स्यन्द + अच् ।) भेकः । इति केचित् ॥

स्पर्शा, स्त्री, (स्पृशति परपुरुषमिति । स्पृश +

अच् । टाप् ।) कुलटा । इति धरणिः ॥

स्पर्शानन्दाः, स्त्री, (स्पर्शेन आनन्दो यासाम् ।)

अप्सरसः । इति त्रिकाण्डशेषः ॥

स्पर्ष्टा, [ऋ] त्रि, (स्पृशतीति । स्पृश + तृच् ।)

उपतापकमात्रम् । रोगः । इत्येके । इत्यमर-
टीकायां भरतः । ३ । २ । १४ ॥

स्पश, ञ ग्रन्थवाधयोः । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-सक०-सेट् ।) ञ, स्पशति स्पशते ।
पस्पाश । ग्रन्थस्थाने स्पर्शनं पठन्ति केचित् ।
इति दुर्गादासः ॥
पृष्ठ ५/४५९

स्पशः, पुं, (स्पशतीति । स्पश + पचाद्यच् ।)

चरः । (यथा, महाभारते । १ । १४७ । २५ ।
“वयन्तु यदि दाहस्य बिभ्यतः पद्रवेमहि ।
स्पशैर्नो घातयेत् सर्व्वान् राज्यलुब्धः सुयोधनः ॥”)
अभिसरः । इत्यमरः । ३ । ३ । २१३ ॥ चरो
गूढपुरुषः । अभिसरो युद्धम् । प्राणनिरपेक्षो
यो द्रव्यार्थं व्याडं हस्तिनं वा योधयति सोऽभि-
सरः । इत्येके । इमौ द्वौ स्पशौ । इति भरतः ॥

स्पष्टं, त्रि, स्पश्यते स्मेति । स्पश + णिच् + क्तः ।

“वा दान्तशान्तेति ।” ७ । २ । २७ । इति
साधुः ।) व्यक्तम् । तत्पर्य्यायः । स्फुटम् २
प्रव्यक्तम् ३ उल्वणम् ४ । इत्यमरः । ७ । १ । ८१ ॥
उद्रिक्तम् ५ प्रकटम् ६ । इति जटाधरः ॥
(यथा, श्रीमद्भागवते । ४ । १५ । २२ ।
“भोः सूत हे मागध सौम्य वन्दिन्
लोकेऽधुना स्पष्टगुणस्य मे स्यात् ।
किमाश्रयो मे स्तव एष योज्यतां
मा मय्यभूवन् वितथा गिरो वः ॥”)

स्पष्टीकृतं, त्रि, व्यक्तीकृतम् । कृधातौ परे स्पष्ट-

शब्दादभूततद्भावे च्विप्रत्ययेन निष्पन्नम् ॥

स्पृ, न प्रीतिरक्षापालने । इति कविकल्पद्रुमः ॥

(स्वा०-पर०-सक०-सेट् ।) न, स्पृणोति । इति
दुर्गादासः ॥

स्पृक्का, स्त्री, पृक्का । स्पृश्यते सौगन्ध्यात् स्पृश संस्पर्शे

बाहुल्यात् कः पृषोदरादित्वात् शस्य कः स्पृक्का
दन्त्यादिरिति केचित् । इत्यमरटीकायां भरतः ।
२ । ४ । १३३ ॥ (यथा, बृहत्संहितायाम् । ७७ । ५ ।
“त्वक्कुष्ठरेणुनलिका-
स्पृक्कारसतगरबालकैस्तुल्यैः ।
केसरपत्रविमिश्रै-
र्नरपतियोग्यं शिरःस्नानम् ॥”)

स्पृश, श औ स्पृशि । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-सक०-अनिट् ।) श, स्पृशति । औ,
अस्पार्क्षीत् अस्पृक्षत् । हस्तेन पस्पर्श तदङ्ग-
मिन्द्रः । इति कुमारः । इति दुर्गादासः ॥

स्पृशा, स्त्री, (स्पृशतीति । स्पृश + कः । टाप् ।)

भुजङ्गघातिनीवृक्षः । कङ्कालिका इति ख्याता ।
इति शब्दचन्द्रिका ॥

स्पृशी, स्त्री, कण्टकारी । इत्यमरः । २ । ४ । ९३ ॥

स्पृष्टः, त्रि, (स्पृश + क्तः ।) कृतस्पर्शः । यथा,

प्रायश्चित्ततत्त्वधृतब्रह्मपुराणवचनम् ।
“उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः ।
उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥”

स्पृष्टास्पृष्टं, क्ली, (स्पृष्टेन आ सम्यक् स्पृष्टम् ।)

परस्परस्पर्शनम् । यथा, --
“अथ जातिगुणान् वक्ष्ये स्पृष्टास्पृष्टं महेश्वरि ! ।
अधमैः शिष्टसंस्पर्शे प्रायश्चित्तं यथाविधि ॥
ब्राह्मणरय शवाङ्गञ्च क्षत्त्रियाद्यैः कदाचन ।
स्पृष्ट्वाचम्य हरिं स्मृत्वा उपवासेन क्षत्त्रियः ॥
व्रतस्थशूद्रस्पर्शेऽपि हरिसंस्मरणे शुचिः ।
सेवयोपस्पृशेद् यस्तु प्रायश्चित्तं न विद्यते ॥
ब्राह्मणो यस्तु शूद्रस्य सेवयोपस्पृशेत् क्वचित् ।
स्नात्वाचम्य हरिं स्मृत्वा प्राणायामेन शुध्यति ॥
शूद्रस्तु त्रिविधो ज्ञेयो व्रतस्थश्चोत्तमः स्मृतः ।
कायस्थः पावको मध्यो भिन्नाचारोऽधमो मतः ॥
उत्तमैर्ब्राह्मणः स्पृष्ट उपस्पृश्य द्विजः शुचिः ।
अधमः सूर्य्यगामग्निं स्पृष्टः शुध्यति ब्राह्मणः ॥”
इति मत्स्यसूक्ते ३९ पटलः ॥

स्पृष्टास्पृष्टि, व्य, (स्पृष्टेन स्पृष्टेन यत् भवति । “इच्

कर्म्मव्यतिहारे ।” ५ । ४ । १२७ । इति इच् ।
“अन्येषामपि दृश्यते ।” ६ । ४ । १३७ । इति
दीर्घः ।) परस्परस्पर्शनम् । छोयाछुँयि इति
भाषा । यथा, रत्नाकरे बृहस्पतिः ।
“तीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे ।
नगरग्रामदाहे च स्पृष्टास्पृष्टि न दुष्यति ॥
आपद्यपि च कष्टायां रुग्भये पीडिते तथा ।
मातामित्रोर्गुरोश्चैव निदेशे वर्त्तनात्तथा ॥”
स्पृष्टास्पृष्टि इत्यव्ययं क्रियाव्यतीहारे । तथेति
न दुष्यतीत्यर्थः । इति प्रायश्चित्ततत्त्वम् ॥ मत्स्य-
सक्ते ३८ पटलेऽप्यन्यत् द्रष्टव्यम् ॥

स्पृष्टिः, स्त्री, (पृश + क्तिन् ।) स्पर्शः । तत्प-

र्य्यायः । पृक्तिः २ । इत्यमरः । ३ । २ । ९ ॥
स्पर्शनम् ३ । इति शब्दरत्नावली ॥

स्पृह, त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त

चुरा०-पर०-सक०-सेट् ।) ईप्स आप्तुमिच्छा ।
स्पृहयति । इति दुर्गादासः ।

स्पृहणीयं, त्रि, (स्पृह + अनीयर् ।) वाञ्छनीयम् ।

यथा, ऋतुसंहारे । १ । १ ।
“प्रचण्डसूर्य्यः स्पृहणीयचन्द्रमाः
सदापगाहक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मथो
निदाघकालः समुपागतः प्रिये ॥”

स्पृहयालुः, त्रि, (स्पृहयति तच्छीलः । स्पृह +

“स्पृहिगृहिपतीति । ३ । २ । १५८ । इति
आलुच् ।) स्पृहाशीलः । लोभी । इति मुग्ध-
बोधव्याकरणम् ॥ (यथा, रघुः । १४ । ४५ ।
“प्रजावती दोहदशंसिनी ते
तपोवनेषु स्पृहयालुरेव ॥”)

स्पृहा, स्त्री, (स्पृह + अङ् । टाप् ।) इच्छा ।

इत्यमरः । १ । ७ । २७ ॥ तस्याः निन्दाप्रशंसे
यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे । ३५ । ७३ -- ७५;
८४ -- ८५ ।
“तपो धनं ब्राह्मणानां तपः कल्पतरुस्तथा ।
तपस्या कामधेनुश्च सन्ततं तपसि स्पृहा ॥
ऐश्वर्य्ये क्षत्त्रियाणाञ्च बाणिज्ये च तथा विशाम् ।
शूद्राणां विप्रसेवायां स्पृहा वेदेष्वनिन्दिता ॥
क्षत्त्रियाणाञ्च तपसि स्पृहातीवप्रशंसिता ।
ब्राह्मणानां विवादेषु स्पृहातीव विनिन्दिता ॥
क्षत्त्रियाणां रणो धर्म्मो रणे मृत्युर्न गर्हितः ।
रणे स्पृहा ब्राह्मणानां लोके वेदे विडम्बना ॥
तपोधनानां विप्राणां वाग्बलानां युगे युगे ।
शान्तिस्वस्त्ययनं कर्म्म विप्रधर्म्मो न सङ्गरः ॥”

स्पृह्यः, पुं, (स्पृह्यते इति । स्पृह + यत् ।) मातु-

लुङ्गकः । इति शब्दचन्द्रिका ॥ वाञ्छनीये, त्रि ॥

स्प्रष्टा, [ऋ] त्रि, (स्पृशतीति । स्पृश + तृच् ।)

उपतापकमात्रम् । इत्यमरः । ३ । २ । १४ ॥
रोगः । इत्येके । इति भरतः ॥ (स्पर्शकः ।
यथा, महाभारते । १४ । २० । २१ ।
“घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च सप्तैते भवन्ति परमर्त्विजः ॥”)

स्फट इ शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) द्वावाद्यस्वरिणा-
वोष्ठ्यवर्गद्वितीययुक्तौ । पञ्चमस्वरिणाविति भ्रमो
हेयः । तथात्वे सजातीयतया स्फुटक् भिदीत्या-
दीनां सन्निधावेवापठिष्यत् । एवं संख्यापि न
संमच्छते । स्फुटिर्विशरणे इत्यनेनैवेष्टसिद्धे
शेषधातोश्च वैयर्थ्यं स्यात् । अतएव रमा-
नाथोऽपि स्फुटिर्विशरणे इत्यत्र उकारशून्यः
स्फट इति केचित् पठन्ति । पचादित्वादनि
स्फटा फणा इति सुभूतिरित्यन्तमाह । इ,
स्फण्ट्यते । स्फटति गात्रे बाणः । पस्फट पस्फाट
स्फटिकम् । इति दुर्गादासः ॥

स्फट शीर्णौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) द्वावाद्यस्वरिणा-
वोष्ठ्यवर्गद्वितीययुक्तौ । पञ्चमस्वरिणाविति भ्रमो
हेयः । तथात्वे सजातीयतया स्फुटक् भिदीत्या-
दीनां सन्निधावेवापठिष्यत् । एवं संख्यापि न
संमच्छते । स्फुटिर्विशरणे इत्यनेनैवेष्टसिद्धे
शेषधातोश्च वैयर्थ्यं स्यात् । अतएव रमा-
नाथोऽपि स्फुटिर्विशरणे इत्यत्र उकारशून्यः
स्फट इति केचित् पठन्ति । पचादित्वादनि
स्फटा फणा इति सुभूतिरित्यन्तमाह । इ,
स्फण्ट्यते । स्फटति गात्रे बाणः । पस्फट पस्फाट
स्फटिकम् । इति दुर्गादासः ॥

स्फटः, पुं, (स्फटतीति । स्फट + अच् ।) फणा ।

इत्यमरः । १ । ८ । ९ ॥

स्फटा, स्त्री, (स्फट + अच् । टाप् ।) फणा ।

इत्यमरः । १ । ८ । ९ ॥

स्फटिकः, पुं, (स्फट शीर्णौ + बाहुलकात् इकन् ।)

सूर्य्यकान्तमणिः । इति हलायुधः ॥ स्वनाम-
ख्यातमणिः । फटिक् इति भाषा । तत्पर्य्यायः ।
स्फाटिकम् २ स्फाटकम् ३ । इति शब्दरत्ना-
वली ॥ भासुरः ४ स्फाटिकोपलः ५ शालि-
पिष्टम् ६ धौतशिलम् ७ । इति त्रिकाण्डशेषः ॥
सितोपलः ८ विमलमणिः ९ निर्म्मलोपलः १०
स्वच्छः ११ स्वच्छमणिः १२ अमररत्नम् १३
निस्तुषरत्नम् १४ शिवप्रियः १५ । अस्य गुणादि
यथा, --
“स्फटिकः समवीर्य्यश्च पित्तदाहार्त्तिदोषनुत् ।
तस्याक्षमालां जपता दत्ते कोटिगुणं फलम् ॥”
तत्परीक्षा यथा, --
“यद्गङ्गातोयविन्दुच्छविविमलतमं निस्तुषं नेत्र-
हृद्यं
स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्त-
दाहास्रहारि ।
पाषाणे यन्निघृष्टं स्फुटितमपि निजां स्वच्छतां
नैव जह्यात
तज्जात्यं जातु लभ्यं शुभमुपचिनुते शैवरत्नञ्च
रत्नम् ॥”
बिन्दुस्थाने विद्युदिति च पाठः । इति राज-
निर्घण्टः ॥ अपि च ।
“मुक्ताविद्रुमवज्रेन्द्रवैदूर्य्यस्फटिकादिकम् ।
मणिरत्नं सरं शीतं कषायं स्वादुलेखनम् ।
चक्षुष्यं धारणात्तच्च पापालक्ष्मीविनाशनम् ॥”
इति राजवल्लभः ॥ * ॥
तस्य उत्पत्तिपरीक्षे यथा, --
“कावेरबिन्ध्ययवनचीननेपालभूमिषु ।
लाङ्गली व्यकिरन्मेदो दानवस्य प्रयत्नतः ॥
पृष्ठ ५/४६०
आकाशशुद्धं तैलाख्यमुत्पन्नं स्फटिकं ततः ।
मृणालशङ्खधवलं किञ्चिद्वर्णान्तरान्वितम् ॥
न तत्तुल्यं हि रत्नानामथवा पापनाशनम् ।
संस्कृतं शिल्पिना सद्यो मूल्यं किञ्चिल्लभेत्ततः ॥”
इति गारुडे पूर्ब्बविभागे । ७९ । १ -- ३ ॥ * ॥
तथा ।
“हिमालये सिंहले च बिन्ध्याटवितटे तथा ।
स्फटिकं जायते चैव नानारूपं समप्रभम् ॥
हिमाद्रौ चन्द्रसङ्काशं स्फटिकं तत् द्विधा भवेत् ।
सूर्य्यकान्तञ्च तत्रैकं चन्द्रकान्तं तथा परम् ॥
सूर्य्यांशुस्पर्शमात्रेण वह्निं वमति यत् क्षणात् ।
सूर्य्यकान्तं तदाख्यातं स्फटिकं रत्नवेदिभिः ॥
पूर्णेन्दुकरसंस्पर्शादमृतं स्रवति क्षणात् ।
चन्द्रकान्तं तदाख्यातं दुर्ल्लभं तत् कली युगे ॥
अशोकपल्लवच्छायं दाडिमीतीजसन्निभम् ।
बिन्ध्याटवितटे देशे जायते मन्दकान्तिकम् ॥
सिंहले जायते कृष्णमाकरे गन्धनीलके ।
पद्मरागभवे स्थाने विविधं स्फटिकं भवेत् ॥
अत्यन्तनिर्म्मलं स्वच्छं स्रवतीव जलं शुचि ।
ज्योतिर्ज्ज्वलनमाश्लिष्टं मुक्ताज्योतीरसं द्विज ॥
तदेव लोहिताकारं राजावर्त्तमुदाहृतम् ।
आनीलं तत्तु पाषाणं प्रोक्तं राजमयं शुभम् ॥
ब्रह्मसूत्रमयं यत्तु प्रोक्तं ब्रह्ममयं द्विज ॥”
इति स्फटिकपरीक्षा । इति भोजराजकृतयुक्ति-
कल्पतरुः ॥

स्फटिका, स्त्री, स्फटिकारिः । इति भावप्रकाशः ॥

स्फटिकाचलः, पुं, (स्फटिकवत् शुभ्रोऽचलः ।

स्फटिकस्य अचलो वा ।) कैलासपर्व्वतः । इति
हेमचन्द्रः ॥

स्फटिकात्मा, [न्] पुं, (स्फटिक एव आत्मा

स्वरूपं यस्य ।) स्फटिकः । इति शब्दरत्नावली ॥

स्फटिकाद्रिभिदः, पुं, (स्फटिकाद्रिं कलासपर्वत-

मपि भिनन्ति वर्णेनेति । भिद + “इगुपध-
ज्ञेति ।” ३ । १ । १३५ । इति कः ।) कर्पूरः ।
इति केचित् ॥

स्फटिकाभ्रः, पुं, (स्फटिकवत् शुभ्रो यो अभ्रः स

इव शुक्लत्वात् ।) कर्पूरः । इति राजनिर्घण्टः ॥

स्फटिकारिः, स्त्री, (स्फटिकस्य अरिः ।) श्वेत-

वर्णवणिग्द्रव्यविशेषः । फट्किरी इति भाषा ॥
यथा, --
“नवसारयवक्षारस्फटिकारित एव काचवक-
यन्त्रैः ।
बहुशः पात्यं सत्वं तद्धि महाद्रावकं नाम ॥”
इति रत्नावली ॥
तद्रूपान्तराणि । स्फटिकारी । स्फटिकारिका ।
फट्करी । इति महाद्रावकप्रकरणे भैषज्य-
रत्नावली ॥

स्फटी, स्त्री, (स्फटतीति । स्फट + अच् । ङीष् ।)

स्फटिकारिः । तत्पर्य्यायः । स्फटिकी २ श्वेता ३
शुभ्रा ४ रङ्गदा ५ रङ्गदृढा ६ दृढरङ्गा ७
रङ्गाङ्गा ८ । अस्या गुणाः । कटुत्वम् । स्निग्ध-
त्वत्त । कवायत्वम् । प्रदरमेहकृच्छ्रवमिशोष-
दोषनाशित्वम् । दृढरङ्गदातृत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“स्फटिका तु कषायोष्णा वातपित्तकफव्रणान् ।
निहन्ति श्वित्रवोसर्पान् योनिसङ्कोचकारिणी ॥”
इति भावप्रकाशः ॥

स्फड, इ क नर्म्मणि । (चुरा०-पर०-सक०-सेट् ।)

यथा । स्फुडि क नर्म्मणि इत्यत्र नर्म्म इह परो-
हासः । आद्यस्वरीति कातन्त्राद्याः । इति
दुर्गादासः ॥

स्फर, श स्फूर्त्तौ । चले । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-अक०-सेट् ।) श, स्फरती
स्फरन्ती । पस्फार । स्फरणं स्फुरणमित्यमरः ।
इति दुर्गादामः ॥

स्फरणं, क्ली, (स्फर + ल्युट् ।) स्फुरणम् । इत्य-

मरः । ३ । २ । १० ॥

स्फल, श चाले । स्फूर्त्तौ । इति कविकल्पद्रुमः ॥

(तुदा०-पर०-अक०-सेट् ।) श, स्फलती
स्फलन्ती । पस्फाल । सुरद्विपास्फालनकर्कशा-
ङ्गुलाविति रघुः । चालश्चलनम् । इति दुर्गा-
दासः ॥

स्फाटकं, क्ली, स्फटिकम् । इति काचित् शब्द-

रत्नावली ॥ जलविन्दौ, पुं, । इति केचित् ॥

स्फाटिकं, क्ली, (स्फटिकमेव । स्वार्थे अण् ।)

स्फटिकम् । इति शब्दारत्नावली ॥ (यथा,
महाभारते । २ । ५५ । १७ ।
“सहस्रस्तम्भां हेमवैदूर्य्यचित्रां
शतद्वारां तोरणस्फाटिकाख्याम् ।
सभामग्य्रां क्रोशमात्रायतां मे
तद्विस्तारामाशु कुर्व्वन्तु युक्ताः ॥”
स्फटिकस्येदमिति । स्फटिक + अण् । स्फटिक-
सम्बन्धिनि, त्रि । यथा, महाभारते । १ । ६३ । १३ ।
“देवोपभोग्यं दिव्यञ्च आकाशे स्फाटिकं महत् ।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥”)

स्फाटिकोपलः, पुं, (स्फाटिक उपलः) स्फाटि-

कम् । इति त्रिकाण्डशेषः ॥

स्फाटीकं, क्ली, स्फटिकम् । इति शब्दरत्नावली ॥

स्फातः, त्रि, वृद्धियुक्तः । स्फायधातोः क्तप्रत्ययेन

निष्पन्नः । इति व्याकरणम् ॥

स्फातिः, स्त्री, (स्फाय + क्तिन् ।) वृद्धिः । इत्य-

मरः । ३ । २ । ९ ॥

स्फाय, ई ङ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् । निष्ठायामनिट् ।) ई,
स्फीतः स्फातः । ङ, स्फायते पस्फाये । स्फाय-
न्निर्मोकसन्धीति गणकृतानित्यत्वात् । इति
रमानाथः । वस्तुतस्तु स्फायते स्फायः पचादि-
त्वादन् ततः स इवाचरतोति क्वौ शत्रन्तम् ।
इति दुर्गादासः ॥

स्फारं, क्ली, (स्फायते इति । स्फाय + “स्फायि-

क्तञ्चीति ।” उणा ० २ । १२ । इति रक् ।) प्रचु-
रम् । इत्यमरः । ३ । १ । ६३ ॥

स्फारः, पुं, (स्फाय + रक् । यद्वा, स्फुर चलने +

घञ् । “स्फुरतिस्फुलत्योर्घञि ।” ६ । १ । ४७ ।
इति एच आत्वम् ।) विकटः । कनकादेर्व्वद्-
वुदः । इति मेदिनी ॥ विपुले, त्रि । इति हेम-
चन्द्रः ॥ (यथा साहित्यदर्पणे । ३ । १०१ ।
“असकृदसकृत् स्फारस्फारैरपाङ्गविलोकितै-
स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥”)

स्फारणं, क्ली, (स्फर + णिच् + ल्युट् ।) स्फुर-

णम् । इत्यमरटीकायां रमानाथः । २ । ३ । १० ॥

स्फालः, पुं, (स्फल चलने + घञ् । “स्फुरति-

स्फुलत्योर्घञि ।” ६ । १ । ४७ । इति एच
आत्वम् ।) स्फूर्त्तिः ।

स्फिक्, [च्] स्त्री, (स्फाय वृद्धौ + बाहुलकात्

डिच् ।) कटिप्रोथः । इत्यमरः । २ । ६ । ७५ ॥
(यथा, मनुः । ८ । २८१ ।
“सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्व्वास्यः स्फिचं वास्यावकर्त्त-
येत् ॥”)

स्फिक्घातनकः, पुं, (स्फिचं घातयतीति । स्फिच्

+ हन् + णिच् + ल्युः । ततः स्वार्थे कन् ।)
कट्फलः । इति शब्दचन्द्रिका ॥

स्फिट, क वृत्याम् । हिसे । अनादरे । इति कवि-

कल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क,
स्फेटयति । वृतिरन्यैर्न मन्यते । इति दुर्गादासः ॥

स्फिरं, त्रि, (स्फाय वृद्धौ + “अजिरशिशिरशिथि-

लेति ।” उणा ० १ । ५४ । इति किरच्प्रत्ययेन
साधुः ।) प्रचुरम् । इत्यमरः । ३ । १ । ६३ ॥

स्फीतः, त्रि, (स्फाय + क्तः । “स्फायः स्फी निष्ठा-

याम् ।” ६ । १ । २२ । इति धातोः स्फी ।)
वर्द्धितः । यथा, --
“स्फीतान् जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
खेटखर्व्वटवाटीश्च वनान्युपवनानि च ॥”
इति श्रीभागवते । १ । ६ । ११ ॥
“स्फीतान् समृद्धान् देशान् । तत्र तस्यां दिशि ।
पुरग्रामव्रजाकरान् तत्र पुराणि राजधान्यः ।
ग्रामा भृगुप्रोक्ताः ।
‘विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति ते ।
स तु ग्राम इति प्रोक्तः शूद्राणां वास एव चेति ॥’
व्रजा गोकुलानि । आकरा रत्नाद्युत्पत्ति-
स्थानानि । तान् । खेटाः कर्षकग्रामाः ।
खर्व्वठाः गिरितटग्रामाः । भृगुप्रोक्ता वा ।
‘एकतो यत्र तु ग्रामो नगरं चैकतः स्थितम् ।
मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयमिति ॥’
वाट्यः पूगपुष्पवाढ्यस्ताः । वनानि स्वतः सिद्ध-
वृक्षाणां समूहाः । उपवनानि रोपितवृक्षाणां
समूहाः तानि च ।” इति तट्टीकायां श्रीधर-
स्वामी ॥

स्फुट, इ क नर्म्मणि । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) नर्म्मेह परीहासः ।
इ क, स्फुण्टयति सखायं लोकः । अयमन्यैर्न
मन्यते । इति दुर्गादासः ॥

स्फुट, इर् विश(स)रणे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-भेदने सक०-सेट् ।) इर,
अस्फुटत् अस्फोटीत् । विशरणं भेदनम् ।
पृष्ठ ५/४६१
स्फोटयति गात्रं बाणः । विसरण इति दन्त्य-
मध्यपाठे विकसन इत्यर्थः । स्फोटति मल्लिका-
कलिका ॥

स्फुट, क भिदि । इति कविकल्पद्रुमः । (चुरा०-

पर०-सक०-सेट् ।) क, स्फोटयति कण्टकः
पदम् । इति दुर्गादासः ॥

स्फुट, ङ विसरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ङ, स्फोटन्ते नवकुद्म-
लानि कुटजप्रायेषु वृक्षेष्विति हलायुधः । इति
दुर्गादासः ॥

स्फुट, त् क विसरणे । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) विसरणं
विकमनम् । स्फुटयति चम्पककलिका । अपु-
स्फुटत् । इति दुर्गादासः ॥

स्फुट, शि विकासे । इति कविकल्पद्रुमः । (तुदा०-

पर०-अक०-सेट् ।) विकास इति कस ज
गताविति दन्त्यान्तस्य घञि रूपं विपूर्ब्बेणार्था-
न्तरवाचितया विकसनमित्यर्थः । शि, स्फुटति
केतकीकोरकः । अस्फुटीत् पुष्फोट । इति
दुर्गादासः ॥

स्फुट, क हिंसे । आङ्पूर्ब्बोऽयम् । इति कविकल्प-

द्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) आङ् उप-
सर्गः । क, आस्फोटयति । इति दुर्गादासः ॥

स्फुटः, त्रि, (स्फुटति प्रकाशते इति । स्फुट् + कः ।)

व्यक्तः । यथा, रघुः । ३ । ६३ ।
“अवेहि मां प्रीतमृते तुरङ्गमात्
किमिच्छसीति स्फुटमाह वासवः ॥”)
प्रफुल्लः । इति मेदिनी ॥ शुक्लः । इत्यजयः ॥
भिन्नः । इति स्फुटधात्वर्थदर्शनात् ॥ * ॥ स्फुट-
ग्रहा यथा, --
“स्यात् संस्कृतो मध्यफलेन मध्यो
मन्दस्फुटः स्यात् चलकेन्द्रमुक्तम् ।
विधाय शैघ्र्येण चलेन चैवं
खेटस्फुटः स्यादसकृत् फलाभ्याम् ॥”
कुजस्य विशेषमाह ।
“दलीकृताभ्यां प्रथमं फलाभ्यां
ततोऽखिलाभ्यामसकृत् कुजस्तु ।
स्फुटौ रवीन्दू मृदुनैव वेद्यौ
शीघ्राख्यतुङ्गस्य तयोरभावात् ॥”
इति सिद्धान्तशिरोभणिः ॥

स्फुटनं, क्ली, (स्फुट् + ल्युट् । कुटादित्वात् न गुणः ।)

विदरणम् । इत्यमरः । ३ । २ । ५ ॥ विक
सनम् । इति स्फुटधात्वर्थदर्शनात् ॥

स्फुटबन्धनी, स्त्री, (स्फुटं बन्धनं यस्याः । ङीष् ।)

पारावतपदी । नफट्की इति भाषा । इति
रत्नमाला ॥ स्फुटबल्कलीति केचित् ॥

स्फुटा, स्त्री, (स्फुटति विकाशते इति । स्फुट +

कः । टाप् ।) फटा । फणा । इत्यमरटीकायां
रामाश्रमः । ३ । २ । ५ ॥

स्फुटिः, स्त्री, (स्फुटतीति । स्फुट + इन् ।) पाद-

स्फोटरोगः । निर्भिन्नकर्कटीफलम् । इति
भेदिनी ॥

स्फुटितः, त्रि, (स्फुट + क्तः ।) विकसितः । इति

हेमचन्द्रः ॥ भिन्नः । (यथा, मृच्छकटिके
३ अङ्के ।
“असदृशजनसंप्रयोगभीरो-
र्हृदयमिव स्फुटितं महागृहस्य ॥”)
परिहसितः । इति स्फुटधात्वर्थदर्शनात् ।
व्यक्तोकृतः । इति स्फुटशब्दार्थदर्शनात् ॥

स्फुटी, स्त्री, (स्फुटि + कृदिकारादिति ङीष् ।)

पादस्फोटरोगः । कर्कटीफलम् । फुटी इति
भाषा । इति शब्दरत्नावली ॥

स्फुट्ट, क अनादरे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, स्फुट्टयति । इति दुर्गा-
दासः ॥

स्फुड, इ क नर्म्मणि । इति कविकल्पद्रुमः ॥ (चरा०-

पर०-सक०-सेट् ।) नर्म्म इह परीहासः ।
इ क, स्फुण्डयति सखायं लोकः । पुष्फुण्डयिषति ।
आद्यस्वरीति कातन्त्राद्याः । पञ्चमस्वरयुक्तो
नर्म्मे । इति गोविन्दभट्टः । इति दुर्गादासः ॥

स्फुड, इ ङ फुल्ले । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) फुल्लं विकसनम् । इ,
स्फुण्ड्यते । ङ, स्फुण्डते कुन्दकोरकः । पुस्फुण्डे ।
इति दुर्गादासः ॥

स्फुड, शि वृत्याम् । इति कतिकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) शि, स्फुडति । अस्फुडीत् ।
पुष्फोड । वृत्यां वरणे । इति दुर्गादासः ॥

स्फुत्करः, पुं, (करोतीति । कृ + अच् । स्फुदित्य-

व्यक्तशब्दस्य करः ।) अग्निः । इति शब्द-
चन्द्रिका ॥

स्फुत्कारः, पुं, फुत्कारः । स्फुदिति क्रियते

इति स्फुत्शब्दपूर्ब्बकृधातोर्भावे घञ्प्रत्ययेन
निष्पन्नः ॥

स्फुर, शि स्फुर्त्तौ । चले । इति कविकल्पद्रुमः ॥

(तुदा०-चुरा०-पर०-अक०-सेट् ।) स्फुर्त्तिः
प्रकाशः । चलश्चलनम् । शि, स्फुरति चामरम् ।
अस्फुरीत् । पुस्फोर । इति दुर्गादासः ॥

स्फुरः, पुं, (स्फुरतीति । स्फुर + कः ।) फलकम् ।

इति हेमचन्द्रः ॥ (स्फुर + भावे घञ् ।)
स्फुरणम् । इत्यमरटीका । ३ । २ । ९ ॥

स्फुरणं, क्ली, (स्फुर + ल्युट् ।) किञ्चिच्चलनम् ।

इति भरतः ॥ तत्पर्य्यायः । स्फरणम् २ । इत्य-
मरः । ३ । २ । ९ ॥ स्फुलनम् ३ स्फोरणम् ४
स्फुरः ५ स्फुरणा ६ स्फारणम् ७ । इति तट्टीका ॥
स्फूर्त्तिः । इति शब्दरत्नावली ॥ * ॥ अङ्ग-
स्फुरणस्य शुभाशुभफलं यथा, --
“ब्रूमौऽधुनाङ्गस्फुरितस्य सम्यक्
प्रत्येकमव्यक्तफलप्रभावम् ।
सर्व्वत्र यत्रावनते स्वदेहा-
दुत्पद्यते कर्म्मविपाकसंवित् ॥
मूर्द्ध्नि स्फुरत्याशु पृथिव्यवाप्तिः
स्थानप्रवृद्धिश्च ललाटदेशे ।
भ्रूघ्राणमध्ये प्रियसङ्गमः स्यात्
नासाक्षिमध्ये च सहायलाभः ॥
दृगन्तमध्यस्फुरणेऽर्थलाभोत्-
कण्ठौ क्रमाद्विस्फुरिते दृगादौ ।
जयो दृशाधः स्फुरणे रणः स्यात्
प्रियश्रुतिः स्यात् स्फुरिते च कर्णे ॥
योषित्समृद्धिः स्फुरिते च गण्डे
घ्राणे तु सौमुख्यमुदौ भवेताम् ।
भोज्येष्टसङ्गावधरोर्द्ध्वयोश्च
स्कन्धे गले भोगविवृद्धिलाभौ ॥
स्पन्दो भुजस्येष्टसमागमाय
स्पन्दः करस्य द्रविणाप्तहेतुः ।
स्पन्दश्च पृष्ठस्य पराजयाय
स्पन्दो जयायोरसि मानवानाम् ॥
पार्श्वप्रकम्पे विषयस्य लाभः
कटिप्रकम्पे तु बलप्रमोदौ ।
नाभिप्रकम्पे निजदेशलाभः
धनर्द्धिबन्धुश्च भ्रुवि प्रकम्पे ॥
दुःखं धनान्तं हृदयस्य कम्पे
स्फिक्पायुकम्पेऽपि च वाहनाप्तिः ।
वराङ्गकम्पे वरयोषिदाप्ति-
र्मष्के सकम्पे तनयस्य जन्म ॥
वस्तौ सकम्पे युवतिप्रवृत्तिः
दोषश्च कम्पे पुनरूरुपृष्ठे ।
उरः पुनः स्यात् सुसहायलाभः
स्याज्जानुकम्पे त्वचिरेण सिद्धिः ॥
जङ्घाप्रकम्पे निजदेशनाशः
स्थानाप्तिरुष्ट्रश्चरणस्य कम्पे ।
यात्रा सलाभाङ्घ्रितलप्रकम्पे
पुंसां सदा दक्षिणदेहभागे ॥
स्त्रीणाञ्च वामावयवे प्रजातः
स्पन्दः फलानि प्रदिशत्यवश्यम् ॥”
इति वसन्तराजशाकुने नरेङ्गितेऽङ्गस्फुरण-
प्रकरणं चतुर्थम् ॥

स्फुरणा, स्त्री, (स्फुर + णिच् + युच् । टाप् ।)

स्फुरणम् । इत्यमरटीका । ३ । २ । १० ॥

स्फुरन्, [त्] त्रि, (स्फुर + शतृ ।) कम्पनयुक्तः ।

स्फूर्त्तिविशिष्टः । यथा, --
“गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि-
स्फुर्जत्स्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्-
सम्भ्रमा ।
आनन्दामृतवापिकां विदधती चित्तं गिरीश-
प्रभो-
स्त्वां पायान्नवसङ्गमे भगवती लज्जावती
पार्व्वती ॥”
इति काव्यचन्द्रिका ॥

स्फुरितं, क्ली, (स्फुर + क्तः ।) स्फुरणम् । स्फुरण-

विशिष्टे, त्रि । यथा । ब्रूमोऽधुनाङ्गस्फुरिते च
सम्यक् इति । प्रिया श्रुतिः स्यात् स्फुरिते च ।
कर्णे इति च । वसन्तराजशाकुनम् ॥

स्फुर्च्छ, आ विस्मृतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) क्विपि राछ्वोर्लोपे
स्फूः स्फुरौ स्फुरः । आ स्फूर्च्छितं स्फूर्णं तेन ।
स्फूर्च्छति कथां मद्यपः । इति दुर्गादासः ॥
पृष्ठ ५/४६२

स्फु(स्फू)र्ज, टु ओ आ वज्रनिर्षोषे ॥ (भ्वा०-सर०-

अक०-सेट् ।) टु, स्फुर्जथुः । ओ, स्फूर्णः । आ,
स्फूजितं स्फूणे तेन । वज्रनिर्घोषो वज्रकर्त्तृक-
शब्दः । स्थूर्जति वज्रम् । इति दुर्गादासः ॥

स्फुर्ज्जकः, पुं, (स्फुर्ज्जतीति । स्फुर्ज्ज + ण्वुल् ।)

स्फुर्र्जकवृक्षः । इत्यमरटीकायां रायमुकुटः ॥

स्फुर्जथुः, पुं, (स्फुर्ज्ज + अथुच् ।) वज्रपतनजनित-

शब्दः । इत्यमरटीकायां भरतः ॥

स्फुल, शि स्फूर्त्तौ । चले । चये । इति कविकल्प-

द्रुमः ॥ (तुदा०-कुटा०-पर०-अक०-सेट् ।)
शि, स्फुलति अस्फुलीत् पुस्फौल । स्फूर्त्तिः
प्रकाशः । चलः स्खलनम् । चयः सञ्चयः ।
इति दुर्गादासः ॥

स्फुलं, क्ली, (स्फलतीति । स्फुल स्फुर्त्तौ चले +

कः ।) वस्त्रवेश्म । इति शब्दरत्नावली ॥ ताँवु
इति भाषा ॥

स्फुलनं क्ली, (स्फुल + ल्युट् ।) स्फुरणम् । इत्य-

मरटीकायां नीलकण्ठः ॥

स्फुलिङ्गः, त्रि, (स्फुल + इङ्गच् । यद्वा, स्फुत्-

कारेण लिङ्गतीति । लिङ्ग + अच् ।) अग्नि-
कणः । इत्यमरः । १ । १ । ६० ॥ फिनकी इति
फिन्कुटी इति च भाषा ॥ द्वे अग्निचूर्णे । स्फुत्-
कारेण लिङ्गति गच्छति स्फलिङ्गः । इति तट्टी-
कायां भरतः ॥ (यथा, महाभारते । ५ । ४८ ।
५४ ।
“वलाहकादुच्चरतः सुभीमान्
विद्युत् स्फुलिङ्गानिव घोररूपान् ॥”)

स्फुलिङ्गिनी, स्त्री, (स्फुलिङ्गोऽस्या अस्तीति ।

इनिः । ङीप् ।) अग्निसप्तजिह्वान्तर्गतजिह्वा-
विशेषः । इति जटाधरः ॥ (यथा, मुण्डकोप-
निषदि । १ । २ । ४ ।
“काली कराली च मनोजवा च
सुलोहिता या च सुघूम्रवर्णा ।
स्फुलिङ्गनी विश्वरूपी च देवी
लोलायमाना इति सप्त जिह्वाः ॥”)

स्फूर्जकः, पुं, (स्फूर्जति अग्नौ क्षिप्तः सन्निति ।

स्फूर्ज + ण्वुल् ।) तिन्दुकवृक्षः । इत्यमरः । २ ।
४ । ३८ ॥ स्फूर्जति वह्नौ क्षिप्तः स्फूर्जकः ।
ट्वा स्फूर्जावज्रनिर्घोषे णकः । स्फुर्जेर्वा दोर्घः
सर्व्वत्र इति परवाक्यात् स्फूर्ज्जकः स्फुर्जकश्च
स्फुर्जो वज्रः स इव दृढसारत्वात् स्फुर्जक
इत्यन्ये । इति भरतः ॥

स्फूर्जघुः, पुं, (स्फूर्जतीति । स्फूर्ज वज्रनिर्घोषे +

अथुच् ।) वज्रपातजनितशब्दः । तत्पर्य्यायः ।
वज्रनिप्पेषः २ । इत्यमरः । १ । ३ । १० ॥ स्फुर्जथुः ३
विस्फूर्जथुः ४ विस्फुर्जथुः ५ वज्रनिर्घोषः ६ ।
इति तट्टीका ॥

स्फूर्त्तिः, स्त्री, (स्फूर् + क्तिन् ।) स्फूरणम् । इत्य-

मरटीकायां रमानायः । ३ । २ । १० ॥ (यथा,
पञ्चदश्याम् । ८ । ३२ ।
“ममङ्गत्वविकाराभ्यां विम्बलक्षणहीनता ।
स्फूत्तिरूपत्वमेतस्य विम्बवद् भासनं विदुः ॥”)

स्फूर्त्तिमान्, [त्] त्रि, (स्फुर्त्तिरस्यास्तीति ।

स्फुर्त्ति + मतुप् ।) पाशुपतः । यथा, --
“पाञ्चार्थिकः पाशुपतश्चिद्रूपः स्फूर्त्तिमान्
मतः ॥”
इति त्रिकाण्डशेषः ॥
स्फूर्त्तिविशिष्टे, त्रि ॥

स्फेयान्, [स्] त्रि, (इदमनयोरतिशयेन स्फिरः ।

स्फिर + ईयसुन् । “प्रियस्थिरस्फिरेति ।” ६ ।
४ । १५७ । इति स्फादेशः ।) अतिशयः । इति
व्याकरणम् ॥

स्फेष्ठः, त्रि, (अयमेषातिशयेन स्फिरः । स्फिर +

इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति
स्फादेशः ।) अतिशयः । इत्यमरः । ३ । १ ।
११२ ॥

स्फोटः, पुं, (स्फुटतीति । स्फुट + अच् ।)

स्फोटकः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते ।
१ । १२ ।
“स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च
वर्द्धते ॥” * ॥
स्फुट + भावे घञ् । विदारणम् । यथा, महा-
भारते । ३ । ११ । ५८ ।
“तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।
शब्दः समभवत् घोरो वेणुस्फोटसमो युधि ॥”
स्फुटते व्यज्यते वर्णरिति स्फुटत्यर्थो यस्मादिति
वा । स्फुट विकसने + घञ् । शब्दव्यापार-
विशेषः । तथा चोक्तम् । “वर्णानां वाचकत्वा-
नुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोट इति
वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः
शब्दः स्फोटः ॥” यथा, हरिवंशे भविष्यपर्व्वणि ।
१६ । ५२ ।
“अक्षराणामकारस्त्वं स्फोटस्तं वर्णसंश्रयः ॥”)

स्फोटकः, पुं, (स्फुटतीति । स्फुट + ण्वुल् ।) राग-

विशेषः । फाडा । इति भाषा । तत्पर्य्यायः ।
पिडकः २ गण्डः ३ । इति हेमचन्द्रः ॥ स्फाटः
४ विस्फोटः ५ । इति राजनिघण्टः ॥ अस्य
विवरणं विस्फोटशब्दे द्रष्टव्यम् । भेदकपरी-
हासकयोस्त्रि ॥

स्फोटनं, क्ली, (स्फुट + ल्युट् ।) विदारणम् ।

इत्यमरटीकायां भरतः । ३ । २ । ५ ॥ (यथा, --
सुश्रुते । ६ । ४२ ।
“शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः ।
शूलासक्तस्य लक्ष्यन्ते तस्मात् शूलमिहोच्यते ॥”)
प्रकाशनम् । इति स्फुटधात्वर्थदर्शनात् ॥
(शब्दः । यथा, साहित्यदर्पणे । ३ । २३२ ।
“भ्रूविभङ्गोष्ठनिर्द्दंशबाहुस्फोटनतर्ज्जनाः ॥”
स्फोटयतीति । स्फुट + णिच् + ल्युः । भेदके,
त्रि ॥ यथा, हरिवंशे । २४७ । १२ ।
“शतपर्व्वमहारौद्रं स्फोटनं सर्व्वतोमुखम् ।
प्रगृह्य रुचिरं वज्रं दीप्त रौद्राट्टहासिनम् ।
दैत्यानयोधयत् सर्व्वान् महेन्द्रः पाकशासनः ॥”)

स्फोटनी, स्त्री, मणिशङ्खवेधोपकरणम् । भोङरी

इति ख्याता । यथा, --
आस्फोटनी स्फोटनी च तत्र लास्फोटनी
मता ॥”
इति भरतद्विरूपकोषः ॥
किञ्च ।
“लास्फोटन्यां वेधनी च स्फोटनी वृषदंशिका ।”
इति भरतधृतवाचस्पतिः ॥

स्फोटबीजकः, पुं, (स्फोटकारकं बीजं यस्य ।

ततः कन् ।) भल्लातकः । इति राजनिर्घण्टः ॥

स्फोटा, स्त्री, सर्पफणा । इति केचित् ॥

स्फोटायनः, पुं, (स्फोट एव अयनं परायणं

यस्य ।) मुनिविशेषः । तत्पर्य्यायः । कक्षीवान्
२ । इति हेमचन्द्रः ॥

स्फोटिका, स्त्री, (स्फुटतीति । स्फुट + ण्वुल् ।

टापि अत इत्वम् ।) हापुत्त्रिका । इति
त्रिकाण्डशेषः ॥ ग्रन्थान्तरे फोटिका इति
पाठः ॥

स्फ्यं, क्ली, खङ्गाकारकाष्ठम् । यथा । स्फ्याश्लि-

ष्टेज्याधिकरणञ्च । स्फ्यस्य खङ्गाकारकाष्ठस्य
भक्ताश्लेषनिमित्तकेज्यायामिष्टित्वेन प्रकृतिवद्-
विकृतिरित्यतिदेशेन दर्शात्मकप्रकृतिधर्म्माणां
प्राप्तौ पूर्ब्बदिनप्रातःकालीनं हवनीयदेवता-
वाहनमपि प्राप्तं तच्च तदानीं न विधीयते
नैमित्तिके निमित्तनिश्चय वतोऽधिकारितया
प्रकृते श्वोभाविभक्ताश्लेषरूपनिमित्तसंशयेन
प्रधानानधिकारिणोऽङ्गानधिकारात् तदुत्तर-
दिने च निमित्तनिश्चय तदधिकारसिद्धावपि
नावाहनानुष्ठानं आवाहनस्य पूर्ब्बदिनप्रातः-
कालनैयत्यादितीज्याया आवाहनं विनैवानु-
ष्ठानमिति । इति तिथ्यादितत्त्वम् ॥

स्म, व्य, श्लोकपादपूरणम् । इत्यमरः । ३ । ४ । ५ ।

(यथा, रामायणे । २ । ६४ । २२ ।
“यद्येतदशुभं कर्म्म न स्म मे कथयेः स्वयम् ।
फलेन् मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥”)
तद्योगे अतीतकाले कीविभक्तिर्भवति । यथा,
“हन्ति स्म रावणं रामः ।”
इति मुग्धबोधव्याकरणम् ॥

स्मयः, पुं, (स्मयनमिति । स्मि + अच् ।) अद्भुतः ।

गर्व्वः । इति मेदिनी ॥ (यथा, रघुः । ५ । १९ ॥
“ततो यथावद् विहिताध्वराय
तस्मै स्मयावेशविवर्जिताय ।
वर्णाश्रमाणां गुरवे स वर्णी
विचक्षणः प्रस्तुतमाचचक्षे ॥”)

स्मरः, पुं, (स्मरयति उत्कण्ठयतीति । स्मृ + णिच्

+ अच् । कामदेवः । इत्यमरः । १ । १ । २६ ॥
(यथा, कुमारे । ४ । ८ ।
“स्मरसि स्मर मेखलागुणै-
रुत गोत्रस्खलितेषु बन्धनम् ।
च्युतकेशरदूषितेक्षणा-
न्यवतंसोत्पलताडनानि वा ॥” * ॥
स्मृ + अप् ।) स्मरणञ्च ॥

स्मरकूपकः, पुं, (स्मरस्य कूप इव कन् ।) भगम् ।

इति त्रिकाण्डशेषः ॥
पृष्ठ ५/४६३

स्मरकूपिका, स्त्री, योनिः । स्मरकूपकशब्दादाप्-

पत्ययेन निष्पन्ना ॥

स्मरगुरुः, पुं, (स्मरस्य गुरुः पिता । कृष्णावतारे

प्रद्युम्नजनकत्वात् तथात्वम् ।) विष्णुः । इति
केचित् ॥

स्मरगृहं, क्ली, (स्मरस्य गृहम् ।) योनिः । इति

जटाधरः ॥

स्मरचक्रः, पुं, (स्मरस्य चक्रमिव आकृतिर्यस्य ।)

रतिबन्धविशेषः । यथा, स्मरदीपिकायाम् ।
“धृत्वा वामकरेणोरुं स्वपादस्योपरिस्थितम् ।
दृढञ्च रमते कामी स्मरचक्रप्रकीर्त्तितः ॥”

स्मरच्छत्रं, क्ली, (स्मरस्य च्छत्रमिव ।) योनिः ।

इति केचित् ॥

स्मरणं, क्ली, (स्मृ + ल्युट् ।) स्मृतिः । तत्पर्य्यायः ।

आध्यानम् २ स्मृतिः ३ । इति हेमचन्द्रः ॥
चिन्ता ४ चर्च्चा ५ । इति जटाधरः ॥ (यथा,
कुमारे । ६ । १९ ।
“सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात् तव ॥”
अलङ्कारविशेषः । यथा, साहित्यदर्पणे ।
१० । ६६८ ॥
“सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ।”
यथा, --
“अरबिन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।
स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ॥”
“मयि सकपटमित्यादौ च” स्मृतेः सादृश्यानु-
भवं विनोत्थापितत्वान्नायमलङ्कारः । राघवा-
नन्दमहापात्रास्तु वैसादृश्यात् स्मृतिमपि स्मर-
णालङ्कारमिच्छन्ति । तत्रीदादरणं तेषामेव
यथा, --
“शिरीषमृद्वी गिरिपु प्रपेदे
यदा यदा दुःखशतानि सीता ।
तदा तदास्याः सदनेषु मौख्य-
लक्षाणि दध्यौ गलदश्रु रामः ॥”

स्मरणापत्यतर्पकः, पुं, (स्मरणेन अपत्यं तर्पय-

तीति । तृप + ण्वल् ।) कच्छपः । इति
केचित् ॥

स्मरदशा, स्त्री, (स्मरस्य दशा ।) कामावस्था ।

तद्दशविधा यथा, उज्ज्वलनीलमणिः ।
“नयनप्रीतिः प्रथमं चिन्तासङ्गस्ततोऽथ
सङ्कल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ।
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव
स्युरित्याचक्षते ॥”

स्मरध्वजं, क्ली, (स्मरस्य ध्वजमिव ।) योनिः । इति

शब्दरत्नावली ॥

स्मरध्वजः, पुं, (स्मरस्य ध्वज इव ।) वाद्यम् ।

इति हेमचन्द्रः ॥ लिङ्गम् । इति केचित् ॥

स्मरध्वजा, स्त्री, (स्मरस्य ध्वजो गर्व्वो यया)

ज्योत्स्नारात्रिः । इति केचित् ॥

स्मरप्रिया, स्त्री, (स्मरस्य प्रिया ।) रतिः । इति

जटाधरः ॥

स्मरमन्दिरं, क्ली, (स्मरस्य मन्दिरम् ।) योनिः ।

इति हेमचन्द्रः ॥

स्मरलेखनी, स्त्री, (स्मरस्य लेखनीव ।) शारिका-

पक्षी । इति शब्दरत्नावली ॥

स्मरवल्लभः, पुं, (स्मरस्य प्रद्युम्नस्य वल्लभः ।)

अनिरुद्धः । इति केचित् ॥

स्मरवीथिका, स्त्री, (स्मरस्य वीथिका ।) वेश्या ।

इति राजनिर्घण्टः ॥

स्मरवृद्धिसंज्ञः, पुं, (स्मरस्य वृद्धिर्यस्मात् स स्मर-

वृद्धिः । स एव संज्ञा यस्य ।) कामवृद्धिक्षुपः ।
इति राजनिर्घण्टः ॥

स्मरसखः, पुं, (स्मरस्य सखा । समासे टच् ।)

चन्द्रः । इति केचित् ॥ (स्मरस्य उद्दीपके,
त्रि । यथा, रघुः । ९ । ३६ ।
“पतिषु निर्व्वविशुर्मधुमङ्गनाः
स्मरसखं रसखण्डनवर्ज्जितम् ॥”)

स्मरस्तम्भः, पुं, (स्मरस्य स्तम्भ इव ।) उपस्थः ।

इति शब्दरत्नावली ॥

स्मरस्मर्य्यः, पुं, (स्मरः स्मर्य्यो यस्य ।) गर्द्दभः ।

इति त्रिकाण्डशेषः ॥

स्मरहरः, पुं, (स्मरं हरति नाशयतीति । हृ +

हरतेरनुद्यमने अच् ।) शिवः । इत्यमरः ।
१ । १ । ३५ ॥

स्मरागारं, क्ली, (स्मरस्य आगारम् ।) भगम् ।

इति शब्दरत्नावली ॥

स्मराङ्कुशः, पुं, (स्मरस्य अङ्कुश इव ।) नखम् ।

इति शब्दरत्नावली ॥

स्मराम्रः, पुं, (स्मरोद्दीपक आम्रः ।) राजाम्रः ।

इति राजनिर्घण्टः ॥

स्मरासवः, पुं, (स्मरस्य आसवः इव ।) लाला ।

यथा, --
“स्मरासवो मुखसुरं । पारि स्यात् पानभाज-
नम् ।”
इति त्रिकाण्डशेषः ॥
मद्यभेदः । इति केचित् ॥

स्मार्त्तं, क्ली, (स्मृतेरिदम् । स्मृति + अण् ।)

स्मृतिशास्त्रोक्तकर्म्म । यथा, --
“श्रीतं कर्म्म स्वयं कुर्य्यादन्योऽपि स्मार्त्तमाच-
रेत् ।
अशक्तौ श्रौतमप्यन्यः कुर्य्यादाचारमन्ततः ॥”
इति तिथ्यादितत्त्वम् ॥
अपि च ।
“श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी ।
अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता ॥”
इति श्राद्धतत्त्वम् ॥

स्मार्त्तः, त्रि, (स्मृतेरिदमिति । अण् ।) स्मृति-

सम्बन्धीयः । (यथा, मनुः । १ । १०८ ।
“आचारः परमो धर्म्मः श्रुत्युक्तः स्मार्त्त एव च ।
तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान्
द्विजः ॥”)
स्मृतिशास्त्रव्यवसायी । स्मृतिशब्दात् ष्णप्रत्ययेन
निष्पन्नः ॥

स्मि, क ङ अनादरे । इति कविकल्पद्रुमः ॥

(चुरा०-आत्म०-सक०-अनिट् ।) दन्त्यादिः ।
क ङ, स्माययते । इति दुर्गादासः ॥

स्मिट, क अनादरे । स्नेहे । इति कविवल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) ओष्ठ्यावर्गशेष-
युक्तः । क, स्मेटयति । इति दुर्गादासः ॥

स्मितं, क्ली, (स्मि ङ ईषद्धसनम् + क्तः ।) ईष-

द्धास्यम् । इत्यमरः । १ । ७ । ३४ ॥ (यथा,
महाभारते । १ । १५३ । २२ ।
“विलज्जमानेव नता दिव्याभरणभूषिता ।
स्मितपूर्व्वमिदं वाव्यं भीमसेनमथाब्रवीत् ॥”
विकसिते, त्रि । इति त्रिकाण्डशेषः ॥ (यथा,
माघे । ६ । ५४ ।
“स्मितसरोरुहनेत्रसरोजला-
मतिसिताङ्गविहङ्गहसद्दिवम् ॥”)

स्मील, निमेषणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ओष्ठ्यावर्गशेषयुक्तः ।
स्मीलति चक्षुः पक्ष्मभिरावृतं स्यादित्यर्थः ।
इति दुर्गादासः ॥

स्मृ, स्मृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-अनिट् ।) स्मरति । स्मृतिर्ज्ञानविशेषः ।
तथा च ।
“सम्बिद्भगवती द्वेधा स्मृत्यनुभवभेदिका ॥”
इति तार्किकाः ॥
तेन ञौ अञ्यन्तकर्त्तुः कर्म्मत्वम् । गुरुः शिष्यं
शास्त्रं स्मारयति । इति दुर्गादासः ॥

स्मृ, म औत्क्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सक० इति केचित्-अनिट् ।) म,
स्मरयति । उत्कः उत्कण्ठितः तस्य भावः
औक्यमुत्कण्ठा । आध्याने इति प्राञ्चः । आ
समन्तात् ध्यानमाध्यानं इति कश्चित् । उत्-
कण्ठिका इति काशिकावृत्तिवोपदेवौ । उत्-
कण्टापूर्ब्बकं स्मरणमिति वृद्धाः । मुहुरनुस्मर-
यन्तमनुक्षपं त्रिपुरदाहमिति किराते । इति
दुर्गादासः ॥

स्मृतः, त्रि, (स्मृ + क्तः ।) स्मृतिविषयः । कृत-

स्मरणः । यथा, --
“आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः ।
विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥”
इति मलमासतत्त्वम् ॥

स्मृतिः, स्त्री, (स्मृ + क्तिन् ।) अनुभूतविषय-

ज्ञानम् । इति चण्डीटीकायां नागोजीभट्टः ॥
स्वाम्याश्रितक्रियाजन्यसंस्कारजन्यज्ञानम् । इति
रसमञ्जरी ॥ अनुभव-संस्कार-जन्य-ज्ञानम् ।
यथा, --
“सम्बिद्भगवती द्वेधा स्मृत्यनुभवभेदिका ॥”
इति कविकल्पद्रुमटीकायां दुर्गादासः ॥
किञ्च ।
“विभुर्ब्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा
मता ।
अनुभूति स्मृतिश्च स्यादनुभूतिश्चतुर्व्विधा ॥”
इति भाषापरिच्छेदः ॥
पृष्ठ ५/४६४
अन्यच्च ।
“अनुभूतं प्रियादिनामर्थानां चिन्तनं स्मृतिः ।
तत्र कम्पाङ्गवैवश्यबास्पनिश्वसितादयः ॥”
इत्युज्ज्वलनीलमणिः ॥
तत्पर्य्यायः । चिन्ता २ आध्यानम् ३ । इत्य-
मरः । १ । ७ । २९ ॥ चिन्तिया ४ । इति
भरतधृतरभसः ॥ चिन्तः ५ । इति क्षोरस्वामी ॥
आध्या ६ । इति रामाश्रभः ॥ चिन्तितिः ७
ध्यानम् ८ । इति शब्दरत्नावली ॥ स्मरणम् ९
चर्च्चा १० । इति जटाधरः ॥ सा तु गर्भस्थस्य
अष्टभिर्म्मासैर्भवति । इति सुखबोधः ॥ * ॥
स्मृतिकारकौषधं यथा, --
“शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला ।
अभया च गुडूची च अटरूषकवाकुची ॥
एतैरक्षसमैर्भागैर्घृतं प्रस्थं विपाचयेत् ।
कण्टकार्य्या रसं प्रस्थं वृहत्या च समन्वितम् ॥
एतद्ब्राह्मीघृतं नाभ स्मृतिमेधाकरं परम् ॥”
इति गारुडे १९८ अध्यायः ॥ * ॥
मन्वादिमुनिप्रणीतशास्त्रविशेषः । स्मरन्ति वेद-
मनया स्मृतिः । महर्षिभिर्वेदार्थचिन्तनं
स्मृतिः । तद्योगात् ग्रन्थोऽपि स्मृतिरिति
मुकुटः । स्मृतिकर्त्तॄणां नामानि धर्म्मशास्त्र-
शब्दे द्रष्टव्यानि । तत्र मनोः स्मृतेः प्राधा-
न्यम् । यथा, --
“वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः
स्मृतम् ।
मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥”
इतिकुल्लूकभट्टधृतबृहस्पतिवचनम् ॥
तत्पर्य्यायः । धर्म्मसंहिता २ । इत्यमरः । १ ।
६ । ६ ॥ धर्म्मशास्त्रम् ३ । इति जटाधरः ॥
संहिता ४ श्रुतिजीविका ५ । इति शब्द-
रत्नावली ॥ स च सात्त्विकराजसतामसभेदेन
त्रिविधः । यथा, --
“तथैव स्मृतयः प्रोक्ता ऋषिभिस्त्रिगुणान्विताः ।
सात्त्विका राजसाश्चैव तामसाः शुभदर्शने ॥
वाशिष्ठं चैव हारीत्रं व्यासं पाराशरं तथा ।
भारद्वाजं काश्यपञ्च सात्त्विका मुक्तिदाः
शुभाः ॥
आवनं याज्ञवल्क्यञ्च आत्रेयं दाक्षमेव च ।
कात्यायनं वैष्णवञ्च राजसाः स्वर्गदा मताः ॥
गौतभं बार्हस्पत्यञ्च संवर्त्तञ्च यमं स्मृतम् ।
मांख्यं चौशनसं देवि तामसा निरयप्रदाः ॥
किमत्र बहुनोक्तेन पुराणेषु स्मृतिष्वपि ।
तामसा नरकायैव वर्जयेत्तान् विचक्षणः ॥
अतो हि राजमं कर्म्म तामसञ्च वरानने ।
प्राणान्ते नैव कुर्य्याद्वै विवेकी तत्त्वविन्नरः ॥
विना तु सात्त्विकं कर्म्म यत्रासाधारणं हरेः ।
कदाचिद्राजसं कार्य्यं मानमैस्तामसं न तु ॥
श्रुतिस्मृतिपुराणोपुराणेष्वागमेषु च ।
संहितातन्त्रशास्त्रेषु गिरिजे यामलादिषु ।
प्रञ्चरात्रादिष्वपीह मारो यः सात्त्विको सुतः ॥”
इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥

स्मृतिमान्, [त्] त्रि, (स्मृतिर्व्विद्यतेऽस्येति ।

स्मृति + मतुप् ।) स्मृतिविशिष्टः । चिन्तावान् ।
(यथा, मनुः । ७ । ३४ ।
“अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥”)

स्मृतिविरुद्धः, त्रि, (स्मृतेर्व्विरुद्धः ।) धर्म्मशास्त्र-

विपरीतः । यथा, कूर्म्मपुराणे हिमालयं प्रति
देवीवाक्यम् ।
“यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विवि-
धानि च ।
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥
करालभैरवञ्चैव यामलं नाम यत् कृतम् ।
एवमादीनि चान्यानि मोहनार्थानि तानि वै ॥
मया सृष्टानि चान्यानि मोहायैषां भवार्णवे ॥”
इति मलमासतत्त्वम् ॥

स्मृतिशास्त्रं, क्ली, (स्मृतिरेव शास्त्रम् ।) धर्म्म-

संहिता । यथा, एकादशीतत्त्वधृतभविष्य-
पुराणवचनम् ॥
“स्मृतिशास्त्रे विकल्पस्तु आकाङ्क्षापूराणे सति ॥”

स्मृतिहेतुः, पुं, (स्मृतेर्हेतुः ।) स्मरणकारणम् ।

तत्पर्य्यायः । वासना २ संस्कारः ३ भावना ४ ।
इति जटाधरः ॥

स्मृत्यपेतः, त्रि, (स्मृतेरपेतः ।) स्मृतिबिरुद्धः ।

इति केचित् ॥

स्मेरः, त्रि, (स्मि ङ ईषद्धसने + “नमिकम्पि-

स्म्यजसकमहिंसदीपो रः ।” ३ । २ । १६७ ।
इति रः ।) विकशितः । इति हेमचन्द्रः ॥
(यथा, साहित्यदर्पणे । ३ । १०० ।
“कान्तिः काञ्चनचम्पकप्रतिनिधिर्व्वाणी सुधा-
स्पर्द्धिनी ॥
स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा ॥”)
ईषद्धसशनीलः । इति संक्षिप्तसारोणादिवृत्तिः ॥
(यथा, कुमारे । ५ । ७० ।
“इयञ्च तेऽन्या पुरतो विडम्बना
यदूढया वारणराजहार्य्यया ।
शिलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥”)

स्मेरविष्किरः, पुं, (स्मेरः प्रफुल्लः विष्किरः पक्षी ।)

मयूरः । इति केचित् ॥

स्यदः, पुं, (स्यन्द + घञ् । “स्यदो जबे ।” ६ ।

४ । १८ । इति निपातनात् साधुः ।) वेगः ।
इत्यमरः । १ । १ । ६७ ॥

स्यन्द, ऊ ङ व ऌ स्रुतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-आ०-सक०-वेट् ।) अन्तःस्थाद्ययुक्तः ।
ऊ, अस्यन्दिष्ट अस्यन्त । ङ, स्यन्दते । व,
स्यनत्स्यति स्यन्दिष्यति । ऌ, अस्यदत् । लुतिः
क्षरणम् । प्रस्यन्दन्मदगन्धलुब्धमधुपेत्यत्र गण
कृतानित्यत्वमिति रमानाथः । वस्तुतस्तु प्रस्य-
न्दने प्रस्यन्दः पचादित्वादन् ततः प्रस्यन्द
इवाचरतीति क्वौ शत्रन्तम् । इति दुर्गादासः ॥

स्यन्दः, पुं, स्यन्दनम् । स्यन्दधातोर्घञ् प्रत्ययेन्न

निप्पन्नः ॥ (यथा, राजतरङ्गिण्याम् । १ । २४ ।
“तदमन्दमजस्यन्दसुन्दरेयं निपीयताम् ।
श्रोत्रशुक्तिपुटैः स्पष्टसङ्गराजतरङ्गिणी ॥”
रोगविशेषः । यथा, सुश्रुते । २ । ४६ ।
“स्यन्दाग्निसादच्छर्द्द्यादीनामयान् जनयेद्बहून्
स्वेदोद्गमः । इति श्रीधरस्वामी ॥ यथा, भाग-
वते । ५ । ११ । ९ ।
“यत्रोदिते तस्य समानसूत्रनिपाते निम्लोचति
यत्र क्वचन स्यन्देनाभितपतीति ॥”)

स्यन्दनं, क्ली, (स्यन्द + ल्युट् ।) क्षरणम् । (स्यन्दते

इति । स्यन्द + “बहुलमन्यत्रापि ।” उणा ० २ ।
७८ । इति युच् ।) जलम् । इति मेदिनी ॥
गमनञ्च ॥

स्यन्दनः, पुं, (स्यन्दते चलतीति । स्यन्द + युच् ।)

चक्रयुक्तयुद्धप्रयोजनयानम् । रथ इति ख्यातम् ।
(यथा, रघुः । १ । ३६ ।
“स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥”)
तिनिशवृक्षः । इत्यमरः । २ । ४ । २६ ॥ वृत्तार्ह-
द्विशेषः । इति हेमचन्द्रः ॥ वायुः । इति
केचित् ॥ शीघ्रे, त्रि ॥ (स्यन्दके, च त्रि ॥
यथा, कथासरित्सामरे । १०३ । ६२ ।
“ग्रहैः परिवृतं चन्द्रमवतीर्णमिवाम्बरात् ।
रूपोपमानमन्येषाममृतस्यन्दनं दृशोः ॥”)

स्यन्दनद्रुमः, पुं, (स्यन्दन एव दुमः ।) तिनिश-

वृक्षः । इति शब्दरत्नावली ॥

स्यन्दनारोहः, पुं, (स्यन्दनमारोहतीति । आ +

रुह + अण् ।) रथस्थितयोद्धा । रथी । इत्य-
मरः । २ । ८ । ६० ॥

स्यन्दनिः, पुं, तिनिशवृक्षः । इति रत्नमाला ॥

स्यन्दनी, स्त्री, (स्यन्दते इति । स्यन्द + ल्युः ।

ङीप् ।) लाला । इति राजनिर्घण्टः ॥ मूत्र-
नाडीति केचित् ॥

स्यन्दिनी, स्त्री, (स्यन्दते इति । स्यन्द + णिनिः ।

ङीप् ।) लाला । इत्यमरः । २ । ६ । ६७ ॥

स्यन्दी, [न्] त्रि, स्रवति यः । स्रावकः । स्यन्द-

धातोर्णिन्प्रत्ययेन निष्पन्नः । इत्यमरटीकायां
रामाश्रमः ॥ (यथा, उत्तररामचरिते १ अङ्के ।
“जीवयन्निव ससाध्वसश्रम-
स्वेदबिन्दुरधिकण्ठमर्प्यताम् ।
बाहुरैन्दवमयूखचुम्वित-
स्यन्दिचन्द्रमणिहारविभ्रमः ॥”)

स्यन्नः, त्रि, (स्यन्द + क्तः । स्रुतः । इत्यमरः ।

३ । १ । ९२ ॥ (यथा, भट्टिः । ५ । ८३ ।
“अथायास्यन् कषायाक्षः स्वन्नस्वेदकणोल्वणः ।
सन्दर्शितान्तराकूतस्तामवादीद्दशाननः ॥”)

स्यन्नबीणः, त्रि, (स्यन्ना बीणा यत्र ।) स्तुतः ।

इति हेमचन्द्रः ॥