शब्दकल्पद्रुमः/सूर्य्यलता

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/४०२

सूर्य्यलता, स्त्री, (सूर्य्यप्रिया लता ।)

आदित्यभक्ता । इति राजनिर्घण्टः ॥

सूर्य्यलोकः, पुं, (सूर्य्यस्य लोकः ।) सौरभुवनम् ।

यथा, --
“विनौषधैर्विना वैद्यैर्विना पथ्यपरिग्रहैः ।
कालेन निधनं प्राप्य सूर्य्य लोके महीयते ॥”
इति काशीखण्डे सूर्य्यार्घ्य दानफलम् ॥
अपि च ।
“सौरं लोकमथावाप्य क्षणेन स विमानगः ।
यथा कदम्बकुसुमं किञ्जल्कैः सर्व्वतोवृतम् ॥
देदीप्यमानं हि तथा समन्ताद्भानुभानुभिः ।
दूराद्रविं स विज्ञाय धृततामरसद्वयम् ॥
नवभिर्य्योजनानाञ्च सहस्रैः सम्मितेन च ।
विचित्रेणैकचक्रे ण सप्तसप्तियुतेन च ॥
अनूरुणाधिष्ठितेन सर्व्वतो धृतरश्मिना ।
अप्सरोमुनिगन्धर्व्वसर्पग्रामणिनैरृतैः ॥
स्यन्दनेनातिजविना प्रणनाम कृताञ्जलिः ।
तस्य प्रणामं देवोऽपि भ्रूभङ्गेनानुमन्य च ।
अतिदूरं नभोवर्त्म प्रतिचक्राम स क्षणात् ॥
प्रक्रान्ते द्युमणौ दूरं शिवशर्म्मातिशर्म्मवान् ।
प्रोवाच भगवद्भृत्यौ कथं लभ्यं रवेः पदम् ॥”
इति स्कन्दपुराणे काशीखण्डे सूर्य्यलोकवर्णनं
नाम ९ अध्यायः ॥

सूर्य्यवंशः, पुं, (सूर्य्यस्य वंशः ।) सूर्य्यस्य सन्तानः ।

तद्विवरणं यथा । परमेश्वरात् ब्रह्मा जातः ।
तस्य पुत्त्रो मरीचिः । तस्य कश्यपः । तस्य
सूर्य्यः । तस्य वैवस्वतो मनुः । सत्ययुगे मनु-
रेव राजासीत् । त्रेतायुगे तस्य पुत्त्रः इक्ष्वाकुः
अयोध्यायां राजासीत् । अस्मिन् युगे अति-
दीर्घायुषो राजानो बहुकालं राज्यं कृतवन्तः ।
त्रेताद्वापरयोः सन्धौ श्रीरामचन्द्रो दशरथसुत-
रूपेण अवतीर्णः । द्वापरयुगस्य प्रथमे तस्य
पुत्त्रः कुशो जातः । तद्वंशः सुमित्रान्तः कलेः
सहस्रवर्षपर्य्यन्तं राज्यं कृतवन्तः एतत्पर्य्यन्तं
सूर्य्यवंशविश्रान्तिः । पुनः सत्ययुगे मरुः नष्टं
सूर्य्यवशं भावयिष्यति । यः योगसिद्धः सन्
कलापग्रामे आस्ते । इति श्रीभागवतमतम् ॥
वंशवर्णनविस्तारस्तु मत्स्यपुराणे ११ अध्या-
यादौ गरुडपुराणे १४३ अध्याये च द्रष्टव्यः ॥

सूर्य्यवल्ली, स्त्री, (सूर्य्यप्रिया वल्ली ।) अर्कपुष्पि-

कावृक्षः । इति रत्नमाला ॥

सूर्य्यसंज्ञं, क्ली, (सूर्य्यस्य संज्ञा संज्ञा यस्य ।)

कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ (पुं, अर्कवृक्षः ।
इत्यमरे अर्काह्व इति दर्शनात् । २ । ४ । ८० ।)

सूर्य्यसारथिः, पुं, (सूर्य्यस्य सारथिः ।) अरुणः । इति

शब्दरत्नावली ॥ (यदुक्तं महाभारते । १ । १६ । २३ ।
“अरुणो दृश्यते ब्रह्मन् प्रभातसमये सदा ।
आदित्यरथमध्यास्ते सारथ्यं समकल्पयत् ॥”)

सूर्य्यहृदयं, क्ली, (सूर्य्यस्य हृदयमिव ।) सूर्य्यस्य

स्तवविशेषः । यथा, --
“अथोपतिष्ठे दादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः सौरैरृग्यजुःसामसम्भवैः ॥
उपस्थाय महायोगं देवदेवं दिवाकरम् ।
कुर्व्वीत प्रणति भूमौ मूर्ध्ना नित्यञ्च मन्त्रतः ॥
ॐ खं खसोल्काय शान्ताय कारणत्रयहेतवे ।
निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥
क्वचित् पुस्तके खखोल्कायेति च पाठः ।
नमस्ते घृणिने तुभ्यं सूर्य्याय ब्रह्मरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥
भूर्भुवः स्वस्त्वमोङ्कारः सर्व्वे रुद्राः सनातनाः ।
पुरुषः सम्महोऽतस्त्वां प्रणमामि कपर्द्दिनम् ॥
त्वमेव विश्वं बहुधा जातं वै जायते च न ।
नमो रुद्राय सूर्य्याय त्वामहं शरणं गतः ॥
प्रचेतसे नमस्तुभ्यमुमायाः पतये नमः ।
नमो नमस्ते रुद्राय त्वामहं शरणं गतः ॥
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः ।
अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥
नमस्ते नीलकण्ठाय नमस्तुभ्यं पिनाकिने ।
विलोहिताय भर्गाय सहस्राक्षाय ते नमः ॥
नमो हंसाय ते नित्यं आदित्याय नमोऽस्तु ते ।
प्रपद्ये त्वां विरूपाक्ष महतं परमेश्वरम् ॥
हिरण्मये गृहे गुप्तमात्मानं सर्व्वदेहिनाम् ।
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परामृतम् ॥
विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ।
नमः सूर्य्याय रुद्राय भास्वते परमेष्ठिने ॥
उग्राय सर्व्वभक्षाय त्वां प्रपद्ये सदैव हि ॥
एतद्बै सूर्य्यहृदयं जप्त्वा स्तवमनुत्तमम् ।
प्रातःकालेऽथ मध्याह्ने नमस्कुर्य्याद्दिवाकरम् ॥
इदं पुत्त्राय शिष्याय धार्म्मिकाय द्विजातये ।
प्रदेयं सूर्य्य हृदयं ब्रह्मणा तु प्रदर्शितम् ॥
सर्व्वपापप्रशमनं वेदसारं समुद्धृतम् ।
ब्राह्मणानां हितं पुण्यं ऋषिसङ्घैर्निषेवितम् ॥
यस्तु नित्यं पठेद्धीमान् प्रेक्षन्नादित्यमण्डलम् ।
महापातकयुक्तोऽपि पूयते नात्र संशयः ॥
क्षयापस्मारकुष्ठाद्यै र्व्याधिभिः पीडितोऽपि सन्
जप्त्वा शतगुणं स्तोत्रं स श्लाघ्यो भवति द्रुतम् ॥
भूतग्रहपिशाचातिबीजव्यसनकर्षिभिः ।
स्तुवन् ध्यात्वा हरिं विप्रो मुच्यते महतो भयात् ॥
इति कूर्म्मपुराणे उपविभागे १७ अध्यायः ॥
गारुडे ५० अध्याये चैतद्द्रष्टव्यम् ॥ (भविष्यो-
त्तरोक्तसूर्य्यहृदयन्तु बहुभिः समाद्रियते पठ्यते
च अतस्तत् सप्रक्रियमुच्यते । अथ आदित्यहृदय-
प्रारम्भः । आचम्य देशकालौ संकीर्त्य ममा-
रोग्यावाप्तये श्रीसवितासूर्य्यनारायणप्रीत्यर्थं
द्वादशनमस्काराख्यं कर्म्म करिष्ये । अथ ध्यानम्
“ध्येयः सदा सवितृमण्डलमध्यवर्त्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृ तशङ्खचक्रः ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥”
मित्राय नमः । रवये नमः । सूर्याय नमः ।
भानवे नमः । खगाय नमः । पूष्णे नमः ।
हिरण्यगर्भाय नमः । मरीचये नमः आदि-
त्याय नमः । सवित्रे नमः । अर्काय नमः ।
भास्कराय नमः ।
“नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे
विरिञ्चिनारायणशङ्करात्मने ॥
नमोऽस्तु सूर्य्याय सहस्ररश्मये
सहस्रशाखान्वितसम्भवात्मने ।
सहस्रयोगोद्भवभावभागिने
सहस्रसङ्ख्यायुगधारिणे नमः ॥
आदित्यस्य नमस्कारं ये कुर्व्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपर्जायते ॥
इति नमस्काराः ॥
शतानिक उवाच ।
“कथमादित्यमुद्यन्तमुपतिष्ठे द्द्विजोत्तमः ।
एतन्मे ब्रूहि विप्रे न्द्र प्रपद्ये शरणं तव ॥
सुमन्तुरुवाच ।
इदमेव पुरा पृष्टः शंखचक्रगदाधरः ।
प्रणम्य शिरसा देवमर्ज्जुनेन महात्मना ॥
कुरुक्षेत्रे महाराज निवृत्ते भारते रणे ।
कृष्णनाथं समासाद्य प्रार्थयित्वाब्रवीदिदम् ॥
अर्ज्जुन उवाच ।
ज्ञानञ्च धर्म्मशास्त्राणां गुह्माद्गुह्यतरं तथा ।
मया कृष्ण परिज्ञातं वाङ्मयं सचरावरम् ॥
सूर्य्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव ।
भक्त्या पृच्छामि देवेश कथयस्व प्रसादतः ॥
सूर्य्यभक्तिं करिष्यामि कथं सूर्य्यं प्रपूजयेत् ॥
तदहं श्रोतुमिच्छामि त्वत्प्रसादेन यादव ॥
श्रीभगवानुवाच ।
रुद्रादिदैवतैः सर्वैः पृष्टेन कथितं मया ।
वक्ष्येऽहं सूर्य्यविन्यासं शृणु पाण्डव यत्नतः ॥
अस्माकं यत्त्वया पृष्टमेकचित्तो भवार्ज्जुन ।
तदहं सम्प्रवक्ष्यामि आदिमध्यावसानकम् ॥
अर्ज्जुन उवाच ।
नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशाः ।
कथमादित्यमुद्यन्तमुपतिष्ठेत् सनातनम् ॥
श्रीभगवानुवाच ।
साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव ।
यन्मां पृच्छस्युपस्थानं तत् पवित्रं विभावसोः ॥
सर्व्वमङ्गलमाङ्गल्यं सर्व्वपापप्रणाशनम् ।
सर्व्वरोगप्रशमनमायुर्व्वर्द्धनमुत्तमम् ॥
अमित्रदमनं पार्थ संग्रामे जयवर्द्धनम् ।
वर्द्धनं धनपुत्त्राणामादित्यहृदयं शृणु ॥
यच्छ्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः ।
त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥
देवदेवं नमस्कृत्य प्रातरुत्थाय चार्ज्जुन ।
विघ्नान्यनेकरूपाणि नश्यन्ति स्मरणादपि ॥
तस्मात् सर्व्वप्रयत्ने न सूर्य्य मावाहयेत् सदा ।
आदित्यहृदयं नित्यं जाप्यं तच्छृणु पाण्डव ॥
यज्जपान्मुच्यते जन्तुर्दारिद्र्यादाशु दुस्तरात् ।
लभते च महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥
अस्मिन् मन्त्रे ऋषिच्छन्दोदेवताशक्तिरेव च ।
सर्व्वमेव महावाहो कथयामि तवाग्रतः ॥
मया ते गोपितं न्यासं सर्व्वशास्त्रप्रबोधितम् ।
पृष्ठ ५/४०३
अथ ते कथयिष्यामि उत्तमं मन्त्रमेव च ॥”
ॐअस्य आदित्यहृदयस्तोत्रमन्त्रस्य । श्रीकृष्ण
ऋषिः श्रीसूर्य्यात्मा त्रिभुवनेश्वरो देवता ।
अनुष्टुप् छन्दः । हरितहयरथं दिवाकरं
घृणिरिति बीजम् । ॐ नमो भगवते जित-
वैश्वानरजातवेदसे इति शक्तिः । ॐ नमो
भगवते आदित्याय नम इति कीलकम् ॥
ॐ अग्निगर्भदेवता इति मन्त्रः ॥ ॐ नमो
भगवते तुभ्यमादित्याय नमो नमः । श्रीसूर्य्य-
नारायणप्रीत्यर्थ जपे विनियोगः । अथ न्यासः ।
ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्ज्जनीभ्यां
नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैंअना-
मिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । ॐ ह्रां
हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐह्रूं
शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐह्रौं
नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् ।
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । इति दिग्बन्धः ॥
अथ ध्यानम् ।
“भास्वद्रत्नाढ्यमौलिं स्फुरदधररुचा रञ्जितं
चारुकेशं
भास्वन्तं दिव्यतेजः करकमलयुतं स्वर्णवर्ण-
प्रभाभिः ।
विश्वाकाशावकाशग्रहपतिशिखरे भाति
यश्चोदयाद्रौ
सर्व्वानन्दप्रदाता हरिहरनमितः पातु मां
विश्वचक्षुः ॥
पूर्व्वमष्टदलं पद्मं प्रणवादिप्रतिष्ठितम् ।
मायाबीजं दलाष्टाग्रे यन्त्रमुद्धारयेदिति ॥
आदित्यं भास्करं भानुं रविं सूर्य्यं दिवाकरम् ।
मार्त्तण्डं तपनं चेति दलेष्वष्टसु योजयेत् ॥
दीप्ता सूक्ष्मा जया भद्रा विभूतिर्व्विमला तथा ।
अमोघा विद्युता चेति मध्ये श्रीः सर्व्वतोमुस्ती ॥
सर्व्वज्ञः सर्व्वगश्चैव सर्व्वकारणदेवता ।
सर्व्वेशं सर्व्वहृदयं नमामि सर्व्वसाक्षिणम् ॥
सर्व्वात्मा सर्व्वकर्त्ता च सृष्टिजीवनपालकः ।
हितः स्वर्गापवर्गश्च भास्करेश नमोऽस्तु ते ॥”
इति प्रार्थना ॥
“नमो नमस्तेऽस्तु सदा विभावसो
सर्व्वात्मने सप्तहयाय भानवे ।
अनन्तशक्तिर्मणिभूषणेन
ददस्व भुक्तिं मम मुक्तिमव्ययाम् ॥
अर्कन्तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् ।
विन्यसेन्नेत्रयोः सूर्य्यं कर्णयोश्च दिवाकरम् ॥
नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् ।
पर्ज्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वान्तरं न्यसेत् ॥
सुवर्णरेतसं कण्ठे स्कन्धयोस्तिग्मतेजसम् ।
बाह्वोस्तु पूषणश्चै व मित्रं वै पृष्ठतो न्यसेत् ॥
वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे ।
हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥
उदरे तु यमं विन्द्यादादित्यं नाभिमण्डले ।
कठ्यां तु विन्यसेद्ध्वंसं रुद्रमूर्व्वोस्तु विन्यसेत् ॥
जान्वोस्तु गोपतिं न्यस्य सवितारन्तु जङ्घयोः ।
पादयोश्च विवस्वन्तं गुल्फयोश्च दिवाकरम् ॥
बाह्यतस्तु तमोध्वंसं भगमभ्यन्तरे न्यसेत् ।
सर्व्वाङ्गेषु सहस्रांशु दिग्विदिक्षु भगं न्यसेत् ॥”
इति दिग्बन्धः ॥
“एष आदित्यविन्यासो देवानामपि दुर्लभः ।
द्वमं भक्त्या न्यसेत् पार्थ स याति परमां गतिम्
कामक्रोधकृतात् पापात् मुच्यते नात्र संशयः ।
सर्पादपि भयं नैव संग्रामेषु पथिष्वपि ॥
रिपुसंघट्टकालेषु तथा चोरसमागमे ।
त्रिसन्ध्यं जपतो न्यासं महापातकनाशनम् ॥
विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् ।
शिरोरोगं नेत्ररोगं सर्व्वव्याधिविनाशनम् ॥
कुष्ठव्याधिस्तथा दद्रुरोगाश्च विविधाश्च ये ।
जपमानस्य नश्यन्ति शृणु भक्त्या तदर्जुन ॥
आदित्यो गन्त्रसंयुक्त आदित्यो भुवनेश्वरः ॥
आदित्यान्नापरो देवो ह्यादित्यः परमेश्वरः ॥
आदित्यमर्च्चयेद् ब्रह्मा शिव आदित्यमर्च्चयेत् ।
यदादित्यमयं तेजो मम तेजस्तदर्जुन ॥
आदित्यं मन्त्रसंयुक्तमादित्यं भुवनेश्वरम् ।
आदित्यं ये प्रपश्यन्ति मां पश्यन्ति न संशयः ॥
त्रिसन्ध्यमर्च्चयेत् सूर्य्यं स्मरेद्भक्त्या तु यो नरः
न स पश्यति दारिद्र्यं जन्मजन्मनि चार्जुन ॥
एतत्ते कथितं पार्थ आदित्यहृदयं मया ॥
शृण्वन्मुक्त्वा च पापेभ्यः सूर्य्यलोके महीयते ।
ॐनमो भगवते तुभ्यमादित्याय नमो नमः ।
आदित्यः सविता सूर्य्यः खगः पुषा गभस्तिमान्
सुवर्णः स्फटिको भानुः स्फुरितो विश्वतापनः ।
रविर्व्विश्वो महातेजाः सुवर्णः सुप्रबोधकः ॥
हिरण्यगर्भस्त्रिशिरास्तपनो भास्करो रविः ।
मार्त्त ण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रतापवान्
तमिस्रहा भगो हंसो नासत्यश्च तमोनुदः ।
शुद्धो विरोचनः केशो सहस्रांशुर्महाप्रभुः ॥
विवस्वान् पूषणो मृत्युर्मिहिरो जामदग्न्यजित्
धर्म्मरश्मिः पतङ्गश्च शरण्योऽमित्रहा तपः ॥
दुर्व्विज्ञेयगतिः शूरस्तेजो राशिर्म्महायशाः ।
शम्भुश्चित्राङ्गदः सौम्यो हव्यकव्यप्रदायकः ॥
अंशुमानुत्तमो देव ऋग्यजुः साम एव च ।
हरिदश्वस्तमोदारः सप्तसप्तिर्मरीचिमान् ॥
अग्निगर्भोऽदितेः पुत्त्रः शम्भुस्तिमिरनाशनः ।
पूषा विश्वम्भरो मित्रः सुवर्णः सुप्रतापवान् ॥
आतपी मण्डली भास्वान् तपनः सर्व्वतापनः ।
कृतविश्वो महातेजाः सर्व्वरत्नमयोद्भवः ॥
अक्षरश्च क्षरश्चैव प्रभाकरविभाकरौ ।
चन्द्रश्चन्द्राङ्गदः सौम्यो हव्यकव्य प्रदायकः ॥
अङ्गारकोऽङ्गदोऽगस्तो रक्ताङ्गश्चाङ्गवर्द्धनः ।
बुद्वो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्द्धनः ॥
बूहद्भानुर्बृहद्भासो बृहद्भामा बृहस्पतिः ।
शुक्लस्त्वं शुक्लरेतास्त्वं शुक्लाङ्गः शुक्लभूषणः ॥
शनिमान् शनिरूपस्त्वं शनैर्गच्छसि सर्व्वदा ।
अनादिरादिरादित्यस्ते जोराशिर्म्महातपाः ॥
अनादिरादिरूपस्त्वमादित्यो दिक्पतिर्य्यमः ।
भानुमान् भानुरूपस्त्वं स्वर्भानुर्भानुदीप्तिमान् ॥
धूमकेतुर्म्महाकेतुः सर्व्वकेतुरनुत्तमः ।
तिमिरावरणः शम्भुः स्रष्टा मार्त्तण्ड एव त ॥
नमः पूर्व्वाय गिरये पश्चिमाय नमो नमः ।
नमोत्तराय गिरये दक्षिणाय नमो नमः ॥
नमो नमः सहस्रांशो ह्यादित्याय नमो नमः ।
नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने ॥
नमो विश्वप्रबोधाय नमो भ्राजिष्णुजिष्णवे ।
ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नमः ॥
प्रदीप्ताय प्रगल्भाय युगान्ताय नमो नमः ।
नमस्ते होतृपतये पृथिवीपतये नमः ॥
नमोङ्कार वषट्कार सर्व्वयज्ञ नमोऽस्तु ते ।
ऋगवेदादि यजुर्वेद सामवेद नमोऽस्तु ते ॥
नमो हाटकवर्णाय भास्कराय नमो नमः ।
जयाय जयभद्राय हरिदश्वाय ते नमः ॥
दिव्याय दिव्यरूपाय ग्रहाणां पतये नमः ।
नमस्ते शुचये नित्यं नमः कुरु कुलात्मने ॥
नमस्त्रैलोक्यनाथाय भूतानां पतये नमः ।
नमः कैवल्यनाथाय नमस्ते दिव्यचक्षुषे ॥
त्वं ज्योतिस्त्वं द्युतिर्ब्रह्मा त्वंविष्णुस्त्व प्रजापतिः
त्वमेव रुद्रो रुद्रात्मा वायुरग्निस्त्वमेव च ॥
योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ।
एकेन निमिषार्द्धेन क्रममाण नमोऽस्तु ते ॥
नवयोजनलक्षाणि सहस्रद्विशतानि च ।
यावद्घटौप्रमाणेन क्रममाण नमोऽस्तु ते ॥
अग्रतश्च नमस्तुभ्यं पृष्ठतश्च सदा नमः ।
पार्श्वतश्च नमस्तुभ्यं नमस्ते चास्तु सर्व्वदा ॥
नमः सुरारिहन्त्रे च सोमसूर्य्याग्निचक्षुषे ।
नमो दिव्याय व्योमाय सर्व्वतन्त्रमयाय च ॥
नमो वेदान्तवेद्याय सर्व्वकर्म्मादिसाक्षिणे ।
नमो हरितवर्णाय सुवर्णाय नमो नमः ॥
अरुणो माघमासे तु सूर्य्यो वै फाल्गुने तथा ।
चैत्रमासे तु वेदाङ्गो भानुर्वैशाखतापनः ॥
ज्यैष्ठमासे तपेदिन्द्र आषाढे तपते रविः ॥
गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा ॥
इषे सुवर्णरेताश्च कार्त्तिके च दिवाकरः ॥
मार्गशीर्षे तपेन्मित्रः पौषे विष्णुः सनातनः ॥
पुरुषस्त्वधिके मासे मासाधिक्ये तु कल्पयेत् ।
इत्येते द्वादशादित्याः काश्यपेयाः प्रकीर्त्तिताः ॥
उग्ररूपा महात्मानस्तपन्ते विष्णुरूपिणः ।
धर्म्मार्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥
सर्व्वपापहरश्चैवमादित्यं संप्रपूजयेत् ।
रुकधा दशधा चैव शतधा च सहस्रधा ॥
तपन्ते विश्वरूपेण सृजन्ति संहरन्ति च ।
एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः ॥
महेन्द्रश्चैव कालश्च यमो वरुण एव च ।
नक्षत्रग्रहताराणामधिपो विश्वतापनः ॥
वायुरग्निर्धनाध्यक्षो भूतकर्त्ता स्वयं प्रभुः ।
एष देवो हि देवानां सर्व्वमाप्यायते जगत् ॥
एष कर्त्ता हि भूतानां संहर्त्ता रक्षकस्तथा ।
एष लोकानुलोकश्च सप्तद्वीपाश्च सागराः ॥
एष पातालम्नप्तस्थो दैत्यदानवराक्षसाः ।
पृष्ठ ५/४०४
एष धाता विधाता च बीजं क्षेवं प्रजापतिः ॥
एष एव प्रजा नित्यं संवर्द्धयति रश्मिभिः ।
एष यज्ञः स्वधा स्वाहा ह्रीः श्रीश्च पुरुषोत्तमः
एष भूतात्मको देवः सूक्ष्मो व्यक्तः सनातनः ।
ईश्वरः सर्व्वभूतानां परमेष्ठी प्रजापतिः ॥
कालात्मा सर्व्वभूतात्मा वेदात्मा विश्वतोमुखः
जन्ममृत्युजराव्याधिसंसारभयनाशनः ॥
दारिद्र्यव्यसनध्वंसी श्रीमान् देवो दिवाकरः ।
विकत्तनो विवस्वांश्च मार्त्तण्डो भास्करो रविः
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ।
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ।
गभस्तिहस्तो ब्रह्मण्यः सर्व्वदेवनमम्कृतः ॥
आयुरारोग्यमैश्वर्यं नरा नार्य्यश्च मन्दिरे ।
यस्य प्रसादात् सन्तुष्टिरादित्यहृदयं जपेत् ॥
इत्येतैर्नामभिः पार्थ आदित्यं स्तौति नित्यशः ।
प्रातरुत्थाय कौन्तेय तस्य रोगभयं न हि ॥
पातकान्मुच्यते पार्थ व्याधिभ्यश्च न संशयः ।
एकसन्ध्यं द्विसन्ध्यं वा सर्व्वपापैः प्रमुच्यते ॥
त्रिसन्ध्यं जपमानस्तु पश्येच्च परमं पदम् ॥
यदहः कुरुते पापं तदहः प्रतिमुच्यते ॥
यद्रात्र्याः कुरुते पापं तद्रात्र्याः प्रतिमुच्यते ।
दद्रुस्फोटककुष्ठानि मण्डलानि विषूचिका ॥
सर्व्वव्याधिमहारोगभूतवाधास्तथैव च ॥
डाकिनी शाकिनी चैव महारोगभयं कुतः ॥
ये चान्ये दुष्टरोगाश्च ज्वरातीसारकादयः ।
जपमानस्य नश्यन्ति जीवेच्च शरदां शतम् ॥
संवत्सरेण मरणं यदा तस्य ध्रुवं भवेत् ।
आशीर्षां पश्यति छायामहोरात्रं धनञ्जय ॥
यस्त्विदं पठते भक्त्या भानुवारे महात्मनः ।
प्रातःस्नाने कृते पार्थ एकाग्रकृतमानसः ॥
सुवर्णचक्षुर्भवति न चान्धस्तु प्रजायते ।
पुत्त्रवान् धनसम्पन्नो जायते चारुजः सुखी ॥
सर्व्वसिद्धिमवाप्नोति सर्व्वत्र विजयी भवेत् ।
आदित्यहृदयं पुण्यं सूर्य्यनामविभूषितम् ॥
श्रुत्वा च निखिलं पार्थ सर्व्वपापैः प्रमुच्यते ।
अतःपरतरं नास्ति सिद्धिकामस्य पाण्डव ॥
एतज्जपस्व कौन्तेय येन श्रेयो ह्यवाप्स्यसि ।
आदित्यहृदयं नित्यं यः पठेत् सुसमाहितः ॥
भ्रूणहा मुच्यते पापात् कृतघ्नं ब्रह्मघातकः ।
गाघ्नः सुरापो दुर्भोगी दुष्प्रतिग्रहकारकः ॥
पातकानि च सर्व्वाणि दहत्यव न संशयः ।
य इदं शृणुयान्नित्यं जपेद्वापि समाहितः ॥
सर्व्वपापविशुद्धात्मा सूर्य्यलोके महीयते ।
अपुत्त्रा लभते पुत्त्रान् निर्धनो धनमाप्नुयात् ॥
कुरोगी मुच्यते रोगाद्भक्त्या यः पठते सदा ।
यस्त्वादित्यदिने पार्थ नाभिमात्रजले स्थितः ॥
उदयाचलमारूढं भाम्करं प्रणतः स्थितः ।
जपते मानवा भक्त्या शृणुयाद्वापि भक्तितः ॥
स याति परमं स्थानं यत्र देवो दिवाकरः ।
अमित्रदमनं पार्थं यदा कर्त्तुं समारभेत् ॥
तदा प्रतिकृतिं कृत्वा शत्रोश्च रणपांशुभिः ।
आक्रम्य वामपादेन आदित्यहृदयं जपेत् ॥
एतन्मन्त्रं समाहूय सर्व्वसिद्धिकरं परम् ॥”
ॐ ह्रों हिमालीढं स्वाहा । ॐ ह्रों निलीढं
स्वाहा । ॐ ह्रीं मालीढं स्वाहा । इति मन्त्रः ।
“त्रिभिश्च रोगी भवति ज्वरी भवति पञ्चभिः ।
जपैस्तु सप्तभिः पार्थ राक्षसीं तनुमाविशेत् ॥
राक्षसेनाभिभूतस्य विकारान् शृणु पाण्डव ।
गीयते नृत्यते नग्न आस्फोटयति धावति ॥
शिवारुतञ्च कुरुते हसते क्रन्दते पुनः ।
एवं संपीड्यते पार्थ यद्यपि स्यान्महेश्वरः ॥
किं पुनर्मानुषः कश्चिच्छौचाचारविवर्जितः ।
पीडितस्य न संदेहो ज्वरो भवति दारुणः ॥
यदा चानुग्रहं तस्य कत्तुमिच्छेच्छुभङ्करम् ।
तदा सलिलमादाय जपेन्पन्त्रमिमम्बु धः ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ।
जयाय जयभद्राय हरिदश्वाय ते नमः ॥
स्नापयेत्तेन मन्त्रेण शुभं भवति नान्यथा ॥
अन्यथा च भवेद्दोषो नश्यते नात्र संशयः ॥
अतस्ते निखिलः प्रोक्तः पूजाञ्चैव निबोध मे ।
उपलिप्ते शुचौ देशे नियता वाग्यतः शुचिः ॥
वृत्तं वा चतुरस्रं वा लिप्तभूमौ लिखेच्छुचिः ।
त्रिधा तत्र लिखेत् पद्ममष्टपत्रं सकर्णिक्रम् ॥
अष्टपत्रं लिखेत् पद्मं लिप्तगोमयमण्डले ।
पूर्व्वपत्रे लिखेत् सूर्य्यमाग्नेय्यान्तु रविं न्यसेत्
याम्यायाञ्च विवस्वन्तं नैरृ त्यान्तु भगं न्यसेत् ।
प्रतीच्यां वरुणं विन्द्याद्वायव्यां मित्रमेव च ॥
आदित्यमुत्तरे पत्रे ईशान्यां विष्णुमेव च ।
मध्ये तु भास्करं विन्द्यात् क्रमेणैव समर्च्चयेत् ॥
अतः परतरं नास्ति सिद्धिकामस्य पाण्डव ।
महातेजःसमुद्यन्तं प्रणमेत् सकृताञ्जलिः ॥
सकेसराणि पद्मानि करवीराणि चार्ज्जुन ।
तिलतण्डुलसंयुक्तं कुशगन्धोदकेन च ॥
रक्तचन्दनमिश्राणि कृत्वा वै ताम्रभाजने ।
धृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं स्पृशेत् ॥
मन्त्रपूतं गुडाकेशं चार्घ्यं दद्याद्गभस्तये ।
सायुधं सरथञ्चव सूर्य्यमावाहयाम्यहम् ॥”
स्वागतो भव । सुप्रतिष्ठो भव । सन्निधो भव ।
सन्निहितो भव । सम्मुखो भव । इति पञ्चमुद्राः
स्फुटयित्वाह्वयेत् सूर्य्यं भुक्तिं मुक्तिं लभेन्नरः ॥
ॐ श्रीं विद्यां किलिकिलि कटकेष्टसर्व्ढार्थसा-
धनाय स्वाहा । ॐ श्रीं ह्रां ह्रीं ह्रः हंसः सूर्य्याय
नमः स्वाहा । ॐ श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
सूर्य्यमूर्त्तये स्वाहा । ॐ श्रीं ह्रीं खं खः लोकाय
सर्व्वमूत्तये स्वाहा । ॐ ह्रूं मात्तण्डाय स्वाहा ।
“नमोऽस्तु सूर्य्याय सहस्रभानवे
नमोऽस्तु वैश्वानर जातवेदसे ।
त्वमव चाघ्यं प्रतिगृह्ण देव
देवाधिदेवाय नमो नमस्ते ॥
नमो भगंवते तुभ्यं नमस्त जातवेदसे ।
दत्तमर्ध्यं मया भानो त्वं गृहाण नमोऽस्तु ते
एहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते ।
अनकम्पय मां देव गृहाणार्ध्यं नमोऽस्तु ते ॥
नमो भगवते तुभ्यं नमस्ते जातवेदसे ॥
ममेदमर्घ्यं गृह्ण त्वं देवदेव नमोऽस्तु ते ॥
सर्व्वदेवाय देवाय आधिव्याधिविनाशिने ।
इदं गृहाण मे देव सर्व्वव्याधिर्विनश्यतु ॥
नमः सूर्य्याय शान्ताय सर्व्वरोगविनाशिने ।
ममेप्सितं फलं दत्त्वा प्रसीद परमेश्वर ॥”
ॐ नमो भगवते सूर्य्याय स्वाहा । ॐ शिवाय
स्वाहा । ॐ सर्व्वात्मने सूर्य्याय नमः खाहा ।
ॐ अक्षय्यतेजसे नमः स्वाहा ।
“सर्व्वसंकष्टदारिद्रं शत्रुं नाशय नाशय ।
सर्व्वलोकेषु विश्वात्मा सर्व्वात्मा सर्व्वदर्शकः ॥
नमो भगवते सूर्य्य कुष्ठरोगान् विखण्डय ।
आयुरारोग्यमैश्वर्य्यं देहि देव नमोऽस्तु ते ॥
नमो भगवते तुभ्यमादित्याय नमो नमः ॥”
ॐ अक्षय्यतेजसे नमः । ॐ सूर्य्याय नमः ।
ॐ विश्वमूर्त्तये नमः ।
“आदित्यञ्च शिवं विन्द्याच्छिवमादित्यरूपिणम्
उभयोरन्तरं नास्ति आदित्यस्य शिवस्य च ॥
एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः ।
उदये ब्रह्मणो रूपं मध्याह्ने तु महेश्वरः ॥
अस्तमाने स्वयं विष्णुस्त्रिमूर्त्तिश्च दिवाकरः ।
नमो भगवते तुभ्यं विष्णवे प्रभविष्णवे ॥
ममेदमर्घ्यं प्रतिगृह्ण देव
देवाधिदेवाय नमो नमस्ते ॥”
श्रीसूर्य्याय साङ्गाय मपरिवाराय श्रीसूर्य्य-
नारायणायेदमर्घ्यम् ।
“हिमघ्नाय तमोघ्नाय रक्षोघ्नाय च ते नमः ।
कृतघ्नघ्नाय सत्याय तस्मै सत्यात्मने नमः ॥
जयो जयश्च विजयो जितप्राणो जितश्रमः ।
मनोजवो जितक्रोधो वाजिनः सप्त कीर्त्तिताः ॥
हरितहयरथं दिवाकरं
कनकमयाम्बुजरेणुपिञ्जरम् ।
प्रतिदिनमुदयं नवं नवं
शरणमुपेमि हिरण्यरेतसम् ॥
न तं व्यालाः प्रवाधन्ते न व्याधिभ्यो भयं भवेत्
न नागेभ्यो भयञ्चैव न च भूतभयं क्वचित् ॥
अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्तथैव च ।
दुर्गतिं तरते घोरां प्रजाञ्च लभते पशून् ॥
सिद्धिकामो लभेत् सिद्धिं कन्याकामस्तु
कन्यकाम् ।
एतत्पठेत्स कौन्तेय भक्तियुक्तेन चेतसा ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् ॥
इदमादित्यहृदयं योऽधीते सततं नरः ।
सर्व्वपापविशुद्धात्मा सूर्य्यलोके महीयते ॥
नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः
प्रत्यक्षो भगवान् विष्णुर्येन विश्वं प्रतिष्ठितम् ॥
नवतिर्योजनं लक्षं सहस्राणि शतानि च ।
यावद्घटीप्रमाणेन तावच्चरति भास्करः ॥
गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम् ।
तत् फलं लभते विद्वान् शान्तात्मा स्तौति यो
रविम् ॥
पृष्ठ ५/४०५
योऽधीते सूर्य्यहृदयं सकलं सफलं भवेत् ।
अष्टानां ब्राह्यणानाञ्च लेखयित्वा समर्पयेत् ॥
ब्रह्मलोकऋषीणाञ्च जायते मानुषोऽपि वा ।
जातिस्मरत्वमाप्नोति शुद्धात्मा नात्र संशयः ॥
अजाय लोकत्रयपावनाय
भूतात्मने गोपतये वृषाय ।
सूर्य्याय सर्व्वप्रलयान्तकाय
नमो महाकारुणिकोत्तमाय ॥
विवस्वते ज्ञानभृतान्तरात्मने
जगत्प्रदीपाय जगद्बितैषिणे ।
स्वयम्भुवे दीप्तसहस्रचक्षुषे
सुरोत्तमायामिततेजसे नमः ॥
सुरैरनेकैः परिसेविताय
हिरण्यगर्भाय हिरण्मयाय ।
महात्मने मोक्षपदाय नित्यं
नमोऽस्तु ते वासरकारणाय ॥
आदित्यश्चार्चितो देव आदित्यः परमं पदम् ।
आदित्यो मातृको भूत्वा आदित्यो वाङ्मयं जगत्
आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः ।
नादित्यं पश्यते भक्त्या न स पश्यति मां नरः ॥
त्रिगुणञ्च त्रितत्त्वञ्च त्रयो वेदास्त्रयोऽग्नयः ।
त्रयाणाञ्च त्रिमूर्त्तिस्त्वं तुरीयस्त्वं नमोऽस्तु ते ॥
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे
विरिञ्चिनारायणशङ्करात्मने ॥
यस्योदये नेह जगत्प्रबुद्ध्यते
प्रवर्त्तते चाखिलकर्म्मसिद्धये ।
ब्रह्मेन्द्रनारायणरुद्रवन्दितः
स नः सदा यच्छतु मङ्गलं रविः ॥
नमोऽस्तु सूर्य्याय सहस्ररश्मये
सहस्रशाखान्वितसम्भवात्मने ।
सहस्रयोगोद्भवभावभागिने
सहस्रसंख्यायुगधारिणे नमः ॥
यन्मण्डलं दीप्तिकरं विशालं
रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणञ्च
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं देवगणैः सुपूजितं
विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्य्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं ज्ञानघनं त्वगम्यं
त्रै लोक्यपूज्यं त्रिगुणात्सरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं गूढमतिप्रबोधं
धर्म्मस्य वृद्धिं कुरुते जनानाम् ।
तत् सर्व्वपापक्षयकारणञ्च
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं व्याधिविनाशदक्षं
ऋग्यजुःसामसु सम्प्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं वेदविदो वदन्ति
गायन्ति यच्चारणसिद्धसङ्घाः ।
यद्योगिनो योगजुषाञ्च सङ्घाः
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं सर्व्वजनेषु पूजितं
ज्योतिश्च कुर्य्यादिह मर्त्यलोके ।
यत्कालकालादिमनादिरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यम्मण्डलं विष्णुचतुर्मुखाख्यं
यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणञ्च
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं विश्वसृजं प्रसिद्ध-
मुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत् संहरतेऽखिलञ्च
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं सर्व्वगतस्य विष्णो-
रात्मा परं धाम विशुद्धतत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं ब्रह्मविदो वदन्ति
गायन्ति यच्चारणसिद्धसङ्घाः ।
यन्मण्डलं वेदविदः स्मरन्ति
पुनातु मां तत्सवितुर्वरेण्यम् ॥
यन्मण्डलं वेदविदोपगीतं
यद्योगिनां योगपथानुगम्यम् ।
तत् सर्व्ववेदं प्रणमामि सूर्य्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥
मङ्गलाष्टमिदं पुण्यं यः पठेत् सततं नरः ।
सर्व्वपापविशुद्धात्मा सूर्य्यलोके महीयते ॥
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरिटी
हारी हिरण्मयवपुर्धृ तशङ्खचक्रः ॥
सशङ्खचक्रं रविमण्डले स्थितं
कुशेशयाक्रान्तमनन्तमच्युतम् ॥
भजामि बुद्ध्या तपनीयमूर्त्तिं
सुरोत्तमं चित्रविभूषणोज्ज्वलम् ॥
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः ।
कीर्त्तयन्ति सुरश्रेष्ठं देवं नारायणं विभुम् ।
वेदवेदाङ्गशारीरं दिव्यदीप्तिकरं परम् ।
रक्षोघ्नं रक्तवर्णञ्च सृष्टिसंहारकारकम् ॥
एकचक्रो रथो यस्य दिव्यः कनकभूषितः ।
स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥
आदित्यः प्रथमं नाम द्वितीयन्तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थन्तु प्रभाकरः ॥
पञ्चमन्तु सहस्रांशुः षष्ठञ्चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमञ्च विभावसुः ॥
नवमं दिनकृत् प्रोक्तं दशमं द्बादशात्मकः ।
एकादशं त्रयीमूर्त्ति र्द्वादशं सूर्य्य एव च ॥
द्वादशादित्यनामानि प्रातःकाले पठैन्नरः ।
दुःस्वप्ननाशनञ्चैव सर्व्वदुःखञ्च नश्यति ॥
दद्रुकुष्ठहरञ्चैव दारिद्र्यं हरते ध्रुवम् ।
सर्व्वतीर्थप्रदञ्चैव सर्व्वकामप्रवर्द्धनम् ॥
यः पठेत् प्रातरुत्थाय भक्त्या नित्यमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥
अग्निमीले नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे ।
अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषां पते ।
शन्नोदेवी नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते ।
पञ्चमायोपवेदाय नमस्तुभ्यं नमो नमः ॥
पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वरथसंयुक्तो द्विभुजः स्यात् सदा रविः ॥
आदित्यस्य नमस्कारं ये कुर्व्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥
उदयगिरिमुपेतं भास्करं पद्महस्तं
निखिलभुवननेत्रं भक्तरत्नोपमेयम् ।
तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां
सुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम् ॥”
इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्ज्जुनसंवादे
आदित्यहृदयस्तीत्रं संपूर्णम् ॥ * ॥)

सूर्य्या, स्त्री, (सूर्य्यस्य भार्य्या । टाप् ।) सूर्य्यभार्य्या

संज्ञा । इति शब्दरत्नावली ॥ इन्द्रवारुणी ।
इति राजनिर्घण्टः । नवोढा । इति शब्दरत्ना-
वली ॥ यथा, श्रीभागवते । १० । १ । २९ ।
“तस्यां हि कर्हिचिच्छौरिर्व्वसुदेवः कृतोद्वहः ।
देवक्या सूर्य्यया सार्द्धं प्रयाणे रथमारुहत् ॥”
(वाक् । इति निघण्टुः । १ । ११ । “सर्त्ते-
र्गत्यर्थात् सुवतेर्व्वा प्रेरणार्थात् राजसूय-
सूर्य्येत्यादिना निपातनात् क्यपि सर्त्तेरूत्वं
सुवतेर्व्वा रुडागमः । सरति गच्छति स्तोतॄन्
प्रति, कर्णशष्कुलिं वा सुवति प्रे रयति चोदना-
रूपा पुरुषादीनिदं कुर्व्विति । यद्वा, सुपूर्व्वा-
दीरतेः कृत्यल्युटो बहुलम् । इति कर्म्मणि क्यपि
निपातनाद्रूपसिद्धिः । सुष्ठु ईर्य्यते उच्चार्य्यते इति
सूर्य्या । यद्वा, षु प्रेरणेसुसूधीगृधिभ्यः क्रनिति
क्रन्-प्रत्ययः । प्रेर्य्यते उच्चारणकाले प्राणेन सूरा
छन्दसि स्वाथ इति यत्प्रत्ययः सूर्य्या । यद्वा,
सूरयो मेधाविनः तानर्हति छन्दसि च, इति यत्
प्रत्ययः । यद्वा, सूरिषु साधुः । तत्र साधुः इति
यत् ।” इति तट्टीकायां देवराजयज्वा ॥)

सूर्य्यार्घ्यं, क्ली, (सूर्य्याय देयमर्घ्यम् ।) सूर्य्यसम्प्र-

दानकार्घ्यम् । शक्तिपूजायां अच्छिद्रावधार-
णार्थं सूर्य्यार्घ्यदानम् । यथा, --
“ततो भास्करबीजेन सहितेनामुना पुनः ।
मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥
नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्म्मदायिने ॥
ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् ।
एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥
यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम ।
सर्व्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः ॥”
इति कालिकापुराणे ५६ अध्यायः ॥ * ॥
पृष्ठ ५/४०६
रोगादिशान्त्यर्थं सूर्य्य स्य हंसादिसप्ततिनामभिः
सप्ततिधार्घ्यप्रदानप्रमाणं यथा, --
“हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः ।
विकर्त्तनो विवस्वांश्च विश्वकर्म्मा विभावसुः ॥
विश्वरूपो विश्वकर्त्ता मार्त्त ण्डो मिहिरोऽंशु-
मान् ।
आदित्यश्चोष्णगुः सूर्य्योऽर्य्यमा व्रध्रो दिवा-
करः ॥
द्वादशात्मा सप्तहयो भास्करोऽहस्करः खगः ।
सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥
त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः
शुचिः ।
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥
द्युमणिर्हरिदश्वोऽर्को भानुमान् भयनाशनः ।
छन्दोऽश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः ॥
एकच रिथो मित्रो मन्देहारिस्तमिस्रहा ।
दैत्यह पापहर्त्ता च धर्म्माधर्म्मप्रकाशकः ॥
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ।
दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ॥
धर्म्मरश्मिर्दु र्निरीक्षश्चण्डांशुः कश्यपात्मजः ।
एभिः सप्ततिसंख्याकैः पुण्यैः सूर्य्यस्य नामभिः ॥
प्रणवादिचतुर्थ्यन्तैर्न्न मस्कारसमन्वितैः ।
प्रत्येकमुच्चरन्नाम दृष्ट्वा दृष्ट्रा दिवाकरम् ॥
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्म्मलम् ।
जानुभ्यामवनीं गत्वा परिपूर्य्यं जलेन च ॥
करवीरादिकुसुमै रक्तचन्द्रनमिश्रितैः ।
दूर्व्वाङ्कुरैरक्षतैश्च निःक्षिप्तैः पात्रमध्यतः ॥
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्व्वकम् ।
उपमौलिसमानीय तत्पात्रं नान्यदृङ्मनाः ॥
प्रतिमन्त्रं नमस्कुर्य्यादुदयास्तमये रविम् ।
अनया नाम सप्तत्या महामन्त्ररहस्यया ॥ ॥
एवं कुर्व्वन्नरो जातु न दरिद्रो न दुःखभाक् ।
व्याधिभिर्म्मुच्यते धोरैरपि जन्मान्तरार्ज्जितैः ॥
विनौषधैर्व्विना वैद्यैर्व्विना पथ्यपरिग्रहैः ।
कालेन निधनं प्राप्य सूर्य्य लोके महीयते ॥”
इति स्कन्दपुराणै काशीखण्डे ९ अध्यायः ॥

सूर्य्यालोकः, पुं, (सूर्य्यस्य आलोकः ।) आतपः ।

इति राजनिर्घण्टः ॥

सूर्य्यावर्त्तः, पुं, (सूर्य्य इव आवर्त्तते इति । आ +

वृत् + अच् ।) क्षुपविशेषः । हुडहुडिया इति
भाषा । अस्य गुणः । सूर्य्यावर्त्तो विबन्धघ्नः ।
इति राजवल्लभः ॥ शाकविशेषः । सुलचिया
इति भाषा । तत्पर्य्यायः ।
“पार्व्वतेयश्च करभो वशिरः कपिपिप्पली ।
जामातासौ क्वचित् प्रोक्तः सूर्य्यावर्त्तः सितो-
ऽपरः ॥”
इति रत्नमाला ॥
“वराहकाली कथितः सूर्य्यावर्त्तस्तु शाब्दिकैः ॥”
इति हारावली ॥

सूर्य्यावर्त्ता, स्त्री, (सूर्य्य इव आवर्त्तते या । आ +

वृत् + अच् । टाप् ।) आदित्यभक्ता । इति
राजनिर्घण्टः ॥

सूर्य्याश्मा, [न्] पुं, (सूर्य्यप्रियोऽश्मा प्रस्तरः ।)

सूर्य्यकान्तमणिः । इति हेमचन्द्रः ॥

सूर्य्याश्वः, पुं, (सूर्य्यस्य अश्वः ।) सूर्य्यघोटकः ।

तत्पर्य्यायः । वाताटः २ हरितः ३ । इति
त्रिकाण्डशेषः ॥

सूर्य्यास्तं, क्ली, (सूर्य्यस्य अस्तम् ।) सूर्य्यस्यास्ता-

चलगमनम् । यथा, --
“निशीथादध इत्यनेन अर्द्धरात्रपूर्व्वकालत्वेन
सूर्य्यास्तमयकालस्यापि लाभात् ॥” इति
तिथ्यादितत्त्वम् ॥

सूर्य्याह्वं, क्ली, (सूर्य्यस्य आह्वा आह्वा यस्य ।)

ताम्रम् । इति त्रिकाण्डशेषः ॥ सूर्य्य नामके,
त्रि ॥

सूर्य्याह्वः, पुं, (सूर्य्यस्य आह्वा आह्वा यस्य ।)

अर्कवृक्षः । इति राजनिर्घण्टः ॥

सूर्य्येन्दुसङ्गमः, पुं, (सूर्य्येण सह इन्दोः सङ्गम

एकराश्यवस्थानरूपमेलनं यत्र ।) अमावास्या ।
इत्यमरः । १ । ४ । ८ ॥ सूर्य्यचन्द्रमेलनञ्च ॥

सूर्य्योढः, पुं, (सूर्य्य ऊढोऽस्तगतो यत्र ।) सूर्य्या-

स्तकालप्राप्तोऽतिथिः । यथा, --
“सूर्य्योढस्तु स सम्प्राप्तो यः सूर्य्येऽस्तं गते-
ऽतिथिः ॥”
इति हेमचन्द्रः ॥
यथा, विष्णुपुराणम् ।
“दिवातिथौ तु विमुखे गते यत् पातकं भवेत्
तदेवाष्टगुणं विद्यात् सूर्य्योढे विमुखे गते ॥”
इत्याह्निकाचारतत्त्वम् ॥

सूर्य्योदयः, पुं, (सूर्य्यस्य उदयः ।) सूर्य्यस्य प्रकाशः ।

यथा, विष्णुधर्म्मोत्तरे ।
“सावने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः
आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः ॥”
इति मलमासतत्त्वम् ॥
तत्र शयननिषेधो यथा, --
“सूर्य्योदये चास्तमिते च शायिनं
विमुञ्चति श्रीरपि चक्रपाणिनम् ॥”
इति लक्ष्मीचरितम् ॥ * ॥
तत्काले स्नानादेः कत्त व्यता यथा, --
“सूर्य्योदयं विना नैव स्नानदानादिकाः क्रियाः
इति प्रायश्चित्ततत्त्वम् ॥

सूष, प्रसवे । इति कविकल्पद्रुमः ॥ (भ्वा० पर०-

सक०-सेट् ।) षष्ठस्वरी । सूषति । इति दुर्गा-
दासः ॥

सृ, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर-

सक०-अनिट् ।) सरति । नालानं करिणा
सस्रे इति रघौ कर्म्मकर्त्तृत्वादिति रमानाथः ।
तच्चिन्त्यं कर्त्तृस्थभावधातूनां तन्निषेधात् ।
वस्तुतस्तु गणकृतानित्यत्वादात्मनेपदम् । ना-
लानैरिति वा पाट्यं तंत्र कर्म्माविक्षायां भावे
प्रत्ययः । इति दुर्गादासः ॥

सृ, क गतौ । स्तृतौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) क, सारयति ।
इति दुर्गादासः ॥

सृ, र लि गतौ । इति कविकल्पद्रुमः ॥ (ह्वा०-

पर०-सक०-अनिट् ।) र, वैदिकः । लि,
ससर्त्ति । इति दुर्गादासः ॥

सृक्, [ज्] पुं, (सृजतीति । सृज् + क्विप् ।)

सृष्टिकर्त्ता । तस्य रूपान्तराणि । सृग् । सृट् ।
सृड् । इति सिद्धान्तकौमुदी ॥

सृकः, पुं, (सरतीति । सृ गतौ + “सृवृभूशुषि-

मुषिभ्यः कक् ।” उणा० ३ । ४१ । इति कक् ।
कैरवः । बाणः । इत्युनादिकोषः ॥ पद्मम् ।
वायुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(वज्रः । इति निधण्टुः । २ । २० ॥ सरणशीले,
त्रि । यथा, ऋग्वेदे । १० । १८० । २ ।
“सृकं संशाय पविमिन्द्रतिग्मम् ॥”
“सृकं सरणशीलम् ।” इति तद्भाष्यम् ॥)

सृकण्डुः, स्त्री, कण्डूरोगः । इति शब्दरत्नावली ॥

सृकालः, पुं, सृगालः । इति शब्दचन्द्रिका ॥

सृक्क, [न्] क्ली, (सृजति लालादीनिति । सृज् +

बाहुलकात् कनिन् ।) सृक्कणी । इति सुभूतिः ॥
इत्यमरटीकायां भरतः ॥ (यथा, महाभारते ।
३ । १२५ । २ ।
“भयात्संस्तम्भितभुजः सृक्वणी लेलिहन्मुहुः ॥”)

सृक्कं, क्ली, सृक्वणी । इत्यमरटीकायां भरतः ॥

(यथा, सुश्रुते । २ । १६ ।
“जन्तवश्चात्र मूर्च्छन्ति सृक्कस्योभयतोमुखात् ॥”)

सृक्कणी, स्त्री, ओष्ठयोः प्रान्तभावः । इति

पाणिनिः । इत्यमरटीकायां भरतः ॥ (यथा,
सुश्रुते । ६ । ६० ।
“भूमौ यः प्रसरति सर्पवत् कदाचित्
सृक्कण्यौ विलिहति जिह्वया प्रसक्तम् ॥”)

सृक्कि, क्ली, सृक्कणी । इत्यरुणः । इत्यमरटीकायां

भरतः ॥

सृक्व, [न्] क्ली, (सृजति लालादीनिति । सृज +

वनिप् ।) ओष्ठप्रान्तभागः । यथा, --
“ -- प्रान्तावोष्ठस्य सृक्वणी ।”
इत्यमरः ॥
“ओष्ठयोर्व्वामदक्षिणौ प्रान्तौ सृक्वणी उच्येते
ओष्ठस्येति जातावेकत्वम् । सृजतो लालादि
सृक्वणी त्रासुसिति क्वनिप् निपातनात् कङ् ।
सृक्वणा कणेतिप्रयोगात् वसंयोगः । अन्यथा
टायां सदानोऽल्लोप इत्यल्लोपः स्यात् ।
‘महासृक्काय शोभितो नृसिंहनखराग्रवत् ।’
इति श्लेषात् ककारद्वयसंयोगोऽपि । सृक्व नान्तं
क्लीवं सृक्वणी क्लीवे इति सुभूतिः । प्रान्तावोष्ठस्य
सृक्वणी क्लीवकाण्डे ऽमरदत्तश्च । ईबन्तापि
सृक्वणी । सृक्वण्यौ विलिहति जिह्वया तथैवेति
रुग्विनिश्चयः ।
‘स सृक्वणीप्रान्तमसृक्प्रदिग्धं
प्रलेलिहानो हरिणा विरुच्चैः ।”
इति पाणिनिः ॥
सृक्वि क्लीवमिदन्तञ्च सक्थ्यस्थिनी दधि ससृक्विं
तथा वारिः स्यादित्यरुणः । सृक्वं क्लीवमदन्तञ्च
‘सृक्वे द्वे चैव विज्ञेये चत्वारिंशच्च वक्त्रजाः ।”
पृष्ठ ५/४०७
इत्युक्तेः । वामं लिहन् सृक्वमरण्यघूर्ण इति
वसन्तराजप्रयोगाच्च ।” इति भरतः ॥

सृक्वं, क्ली, ओष्ठप्रान्तभागः । इति वसन्तराज-

प्रयोगः । इत्यमरटीकायां भरतः ॥

सृक्वणी, स्त्री, ओष्ठप्रान्तभागः । कस इति भासा ।

इति पाणिनिः । इत्यमरटीकायां भरतः । २ ।
६ । ९१ ॥

सृक्वि, क्ली, ओष्ठयोः प्रान्तभागः । इत्यरुणः ।

इत्यमरटीकायां भरतः । २ । ६ । ९१ ॥

सृक्विणी, स्त्री, ओष्ठयोरन्तरम् । इति राज-

निर्घण्टः ॥

सृगः, पुं, (सरतीति । सृ + बाहुलकात् गक् ।)

भिन्दिपालः । इत्यमरः । २ । ८ । ९१ ॥

सृगालः, पुं, (सृजति मायामिति । सृज् + बाहु-

लकात् कालन् । न्यङ्क्वादित्वात् कुत्वम् ।) जम्बुकः ।
इति शब्दरत्नावली ॥ दैत्यविशेषः । इति केचित् ॥

सृङ्का, स्त्री, शब्दवती रत्नमयी माला । यथा, --

“तमब्रवीत् प्रीयमाणो महात्मा
वरं तवेहाद्य ददामि भूयः ।
तवैव नाम्ना भवितायमग्निः
सृङ्कां चेमामनेकरूपां गृहाण ॥”
इति कठोपनिषदि प्रथमा वल्ली ॥
“सृङ्कां शब्दवतीं रत्नमयीं मालां इमामनेक-
रूपां विचित्रां गृहाण स्वीकुरु । सृङ्कां वाकुत्-
सितां गतिं कर्म्ममयीं गृहाण । अन्यदपि
कर्म्मविज्ञानमनेकहेतुत्वात् स्वीकुर्व्वित्यर्थः ।”
इत्यादिशाङ्करभाष्यम् ॥

सृज, औ श विसर्गे । इति कविकल्पद्रुमः ॥ (तुद०

पर०-सक०-अनिट् ।) औ, अस्राक्षीत् । श,
सृजति । इति दुर्गादासः ॥

सृज, य ङ औ विसर्गे । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-सक०-अनिट् ।) य ङ, सृज्यते ।
औ, स्रष्टा । सरीसृज्यते । विसर्गस्त्यागः ।
त्यागो व्युद्भ्यां पर एव अन्यत्र करोतीत्यर्थः ।
यथा । उपासनामेत्य पितुः स्म सृज्यते इति
नैषधम् ॥ संपूर्व्वोऽयमकर्म्मकः । यथा । संसृ-
ज्यते सरसिजैररुणांशुभिन्नैः निशापरिणाम-
वायुरिति रघुः । इति दुर्गादासः ॥

सृजकाक्षारः, पुं, सर्ज्जिकाक्षारः । इत्यमर-

टीकायां रमानाथः ॥

सृणिः, पुं, (सरतीति । सृ + “सृविषिभ्यां कित् ।”

उणा ० ४ । ४९ । इति निः । सच कित् ।
णत्वञ्च ।) शत्रुः । इति शब्दमाला ॥

सृणिः, स्त्री, (सृ + निः । णत्वञ्च ।) अङ्कुशः ।

इत्यमरः । २ । ८ । ४१ ॥ (सृणिद्वयोरित्यणादि-
वृत्तौ उज्ज्वलदत्तः ॥ तथा च शिशुपालवधे ।
५ । ५ ।
“आरक्षमग्नमवमत्य सृणिं सिताग्र-
मेकः पलायत जवेन कृतार्त्तनादः ॥”)

सृणिका, स्त्री, लाला । इत्यमरः । २ । ६ । ६७ ॥

सृणी, स्त्री, (सृणि + कृदिकारादिति ङीष् ।)

अङ्कुशः । इत्यमरः । २ । ८ । ४१ ॥

सृणीका, स्त्री, लाला । इत्यमरटीकायां रामा-

श्रमः । २ । ६ । ६७ ॥

सृतः, त्रि, (सृ + क्तः ।) गतः । (यथा, महा-

भारते । ९ । २३ । २९ ।
“गान्धारराजस्तु पुनर्वाक्यमाह तता बली ।
निवर्त्तध्वमधर्म्मज्ञा युध्यध्वं किं सृतेन वः ॥”)

सृतिः, स्त्री, (सृ + क्तिन् ।) गमनम् । मार्गः ।

इति मेदिनी ॥ (यथा, गीतायाम् । ८ । २७ ।
“नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्व्वेषु कालेषु योगयुक्तो भवार्ज्जुन ॥” *
जन्म । इति स्वामी ॥ यथा, भागवते । १० ।
६० । ४३ ।
“स्यान्मे तवाङ्घ्रिवरणं सृतिभिर्भ्रमन्त्या
यो वै भजन्तमुपयात्यनृतापवर्गः ॥”
निर्म्माणम् । यथा, भागवते । ३ । २ । १३ ।
“कार्त्स्न्येन चाद्येह गतं विधातु-
रर्व्वाक्सृतौ कौशलमित्यमन्यत ॥”
“अर्व्वाक्सृतौ अर्व्वाचीनसंसारनिर्म्माणे मनुष्य-
निर्म्माणे वा ।” इति तट्टीका ॥)

सृत्वरः, त्रि, (सरति तच्छीलः । सृ गतौ + “इन्-

नश्जिसर्त्तिभ्यः करप् ।” ३ । २ । १६३ । इति
क्वरप् ।) गमनकर्त्ता । सृधातोः क्ष्वरप्प्रत्यये
तनागमेन निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

सृत्वरी, स्त्री, (सृ + क्वरप् । सृ + क्वनिप् । ङीप् ।)

माता । इति संक्षिप्तसारोणादिवृत्तिः ॥ गमन-
कर्त्त्री । इति सुग्धबोधव्याकरणम् ॥

सृत्वा, [न्] पुं, (सृ गतौ + “शीङ्क्रुशीरुहीति ।”

उणा० ४ । ११३ । इति क्वनिप् ।) विसर्पः ।
वृद्धिः । प्रजापतिः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥

सृदरः, पुं, (दॄ विदारणे + “कृदरादयश्च ।”

उणा० ५ । ४१ । इति अच्प्रत्ययेन निपा-
तनात् साधुः ।) सर्पः । इति सिद्धास्तकौमुद्या-
मुणादिवृत्तिः ॥

सृदाकुः, पुं, (सरतीति । सृ + “सर्त्तेर्दुक् च ।”

उणा० ३ । ७८ । इति काकुर्दुगागमश्च ।)
वायुः । वज्रम् । अग्निः । प्रतिसूर्य्यकः । इति
मेदिनी ॥ मृगः । इति संक्षिप्तसारोणादिवृत्तिः ॥

सृदाकुः, स्त्री, (सरतीति । सृ गतौ + काकुर्दुगा-

गमश्च ।) नदी । इत्युणादिकोषः ॥

सृप, सृ औ गत्याम् । इति कविकल्पद्रुमः ॥ (म्वा०-

पर०-सक०-अनिट् ।) ऌ, असृपत् । अस्य ऌ-
दित्वेऽपि कृषमृशस्पृश इति विशेषविधानात्
पक्षे ट्यां सिः तेन असार्प्सीत् अस्राप्सीत्
इत्यपि । औ, सर्प्ता । इति दुर्गादासः ॥

सृपाटः, पुं, सृपाटी । इति स्त्रीपुंलिङ्गसंग्रह-

टीकायां भरतः । ३ । ५ । ३८ ॥

सृपाटिका, स्त्री, चञ्चुः । इति हेमचन्द्रः ॥

सृपाटी, स्त्री, (सृपाट + गौरादित्वात् ङीष् ।)

परिमाणभेदः । इति स्त्रीपुंलिङ्गसंग्रहटीकायां
भरतः । ३ । ५ । ३८ ॥ रक्तधारा । इति तत्रैव
गोवर्द्धनः ॥

सृप्रः, पुं, (सृप गतौ + “स्फायितञ्चिवञ्चीति ।”

उणा ० २ । १३ । इति रक् ।) चन्द्रः । इत्य-
णादिकोषः ॥

सृफ, उ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर-

सक०-सेट् । क्वावेट् ।) सप्तमस्वरी । उ,
सर्भित्वा सृब्ध्वा । इति दुर्गादासः ॥

सृमरः, पुं, (सरति तच्छीलः । सृ गतौ + “सृच-

स्यदः क्मरच् ।” ३ । २ । १६० । इति क्मरच् ।)
पशुविशेषः । इत्यमरः । २ । ५ । ११ ॥ बाल-
मृगः । इति केचित् ॥ (यथा, रामायणे । ३ ।
१०३ । ४२ ।
“वराहमृगसिंहाश्च महिषाः सृमरास्तथा ।
व्याघ्रगोकर्णगवया वित्रेसुः पृषतैः सह ॥”

सृष्टं, त्रि, (सृज् + क्तः ।) निर्म्मितम् । युक्तम् ।

निश्चितम् । बहुलम् । इति मेदिनी ॥ भूषितम् ।
इत्यजयः ॥ त्यक्तम् । (यथा, रामायणे । २ ।
३५ । १५ ।
“महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः ।
धिक्वाग्दण्डा न हिंसन्ति रामप्रव्राजने
स्थिताम् ॥”)

सृष्टिः स्त्री, (सृज् + क्तिन् ।) निर्म्मितिः । स्वभावः ।

इति मेदिनी ॥ निर्गुणः इति शब्दरत्रावली ॥ *
ब्रह्माण्डसृष्टिर्यथा । सृष्टेः पूर्व्वं मनश्चक्षुराद्य-
गोचरो भगवान् एक एवासीत् । यदा स
स्वेच्छया द्रष्टा सन् दृश्यं नापश्यत् तदा
त्रिगुणमयीं मायां प्रकाशयामास । ततो भग-
वान् स्वांशेन पुरुषरूपं कृत्वा तस्यां मायायां
स्ववीर्य्यं चैतन्यं आधत्त । सा समष्टिजीवरूपं
महत्तत्त्वं जनयमास । तस्यात् त्रिविधोऽह-
ङ्कारो जातः तत्र सात्त्विकाहङ्कारात् मनैन्द्रि-
याधिष्ठातृदेवताश्च जाताः । राजसाहङ्कारात्
दशेन्द्रियाणि जातानि । तामसाहङ्कारात् पञ्च
महाभूतानि तेषां पञ्च गुणाश्च जाताः । एवं
प्रकृत्यादिभिरैतैश्चतुर्विंशतितत्त्वैर्ब्रह्माण्डंनिर्म्माय
भगवान् तस्मिन्नेकेनांशेन प्रविश्य गर्भोदकसंज्ञकं
जलं ससर्ज । तज्जलमध्ये योगनिद्रया सहस्र-
युगमितं कालं स्थितवान् । तदन्ते उत्थाय स्वय-
मंशेन ब्रह्मा भूत्वा सर्व्वान् सृष्ट्वा नानावता-
रान् कृत्वा पालयति । कल्पान्ते रुद्ररूपेण
संहरति च । इति श्रीभागवतमते संक्षेप-
सृष्टिः ॥ * ॥ अपि च ।
“स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मंश्चतु-
र्व्विधाः ।
ब्रह्मणः कुर्व्वतः सृष्टिं जज्ञिरे मानसीस्तु ताः ॥
ततो देवासुरपितॄऋन् मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर्जवनात् पूर्व्वममुरा जज्ञिरे ततः ॥
उत्मसर्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् ।
सा तु त्यक्ता तनुस्तेन मैत्रे याभूद्विभावरी ॥
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः ।
सत्त्वोद्रिक्ताः समुद्भूता मुखतो प्रह्मणो द्विज ॥
पृष्ठ ५/४०८
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा ॥
मत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥
उत्ससर्ज्ज ततस्तान्तु पितॄन् सृष्ट्वापि स प्रभुः ।
सा चोत्सृष्टाभवत् सन्ध्यादिननक्तान्तरस्थितिः ॥
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः ।
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥
तामप्याशु स तत्याज तनुमाद्यः प्रजापतिः ।
ज्योत्स्ना समभवत् सापि प्राक्सन्ध्या याभिधी-
यते ॥
ज्योस्नोद्गमे तु बलिनो मनुष्याः पितरस्तथा ।
मैत्रैय सन्ध्यासमये तस्मादेते भवन्ति वै ॥
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्य्येतानि वै
प्रभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥
रजोमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद्ब्रह्मणो जाता जज्ञे कोपस्तया ततः ॥
क्षुत्क्षामानन्धकारेऽथ सोऽसृजद्भगवांस्ततः ।
विरूपाः श्मश्रुला जातास्तेऽभ्यधावन्त तं
प्रभुम् ॥
मैवं भो रक्षतामेष यैरुक्तं राक्षसास्तु ते ।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु यक्षणात ॥
अप्रियेणाथ तान् दृष्ट्वा केशाः शीर्य्यन्त वेधसः ।
हीनाश्च शिरसो भूयः समारोहन्त ते शिरः ॥
सर्पणात्त्व भवन् सर्पा हीनत्वादहयः स्मृताः ।
ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मानो विनिर्म्ममे ॥
वर्णेन कपिशेनोग्राः भूतास्ते पिशिताशनाः ।
धयन्तो गां समुत्पन्ना गन्धर्व्वास्तस्य तत्क्षणात्
पिबन्तो जज्ञिरे वाचं गन्धर्व्वास्तेन ते द्विज ।
एतानि सृष्ट्वा भगवान् ब्रह्मा तच्छक्तिचोदितः ॥
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत्
अवयो वक्षसश्चक्रे मुखतोऽजाः स सृष्टवान् ॥
सृष्टवानुदराद्गाश्च पार्श्वाभ्याञ्च प्रजापतिः ।
पद्भ्यां चाश्वान् समातङ्गान् रासभान् गवयान्
मृगान् ॥
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्च जातयः ।
ओषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम ।
सृष्ट्या पश्वौषधीः सम्यक् युयोज स तदाध्वरे ॥
गौरजो पौरुषो मेषो अश्वाश्वतरगर्द्दभाः ।
एतान् ग्राम्यपशूनाहुरारण्यांश्च निबोध मे ॥
श्वापदो द्विखुरो हस्ती वानरः पक्षिपञ्चमः ।
औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥
गायत्त्रञ्च ऋचश्चैव त्रिवृत्सामरथन्तरम् ।
अग्निष्टोमञ्च यज्ञानां निर्म्ममे प्रथमान्मुखात् ॥
यजूंपि त्रैष्णुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थञ्च दक्षिणादसृजन्मुखात् ॥
सामानि जगती च्छन्दः स्तोमं सप्तदशं तथा ।
वेरूपमतिरात्रञ्च पश्चिमादसृजन्मुखात् ॥
एकविंशमथर्व्वाणमाप्तोयामाणमेव च ।
अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥
उच्चावचानि भूतानि गात्रे भ्यस्तस्य जज्ञिरे ।
देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः ॥
ततः पुनः ससर्ज्जादौ सङ्कल्पात् स पितामहः ।
यक्षान् पिशाचान् गन्धर्व्वान् तथैवाप्सरसां
गणान् ॥
नरकिन्नररक्षांसि वयःपशुमृगोरगान् ।
अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् ।
तत् ससर्ज तदा ब्रह्मा भगवानादिकृत् प्रभुः ॥
तेषां ये यानि कर्म्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगञ्च धातैव व्यसृजत् स्वयम् ॥
नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै ।
तथा नियोगयोग्यानि अन्येषामपि सोऽकरोत् ॥
यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्य्यये ।
दृश्यन्ते तानि तान्ये व तथा भावा युगादिषु ॥
करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ॥”
इति विष्णुपुराणे । १ । ५ । २७ -- ६५ ॥

सृष्टिप्रदा, स्त्री, (सृष्टिं तद्धेतुभूतगर्भं प्रददातीति

प्र + दा + कः ।) गर्भदात्रीक्षुपः । इति राज-
निर्घण्टः ॥

सॄ, गि हिंसे । इति कविकल्पद्रुमः ॥ (क्र्या०-

पर०-सक०-अनिट् ।) दन्त्यादिर्वकारोपधः
तद्रहितोऽपीति केचित् । गि, सॄणाति । सीर्णः
सीर्णिः । इति दुर्गादासः ॥

सेक, ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ऋ, असिसेकत् ।
ङ, सेकते । इति दुर्गादासः ॥

सेकः, पुं, (सिच् + घञ् ।) सेत्तनम् । तत्-

पर्य्यायः । घारः २ । इति हेमचन्द्रः ॥ (यथा,
रघुः । १ । ५१ ।
“सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्ष-
कम् ।
विश्वासाय विहङ्गानामालबालाम्बुपायिनाम् ॥
तथास्य गुणाः ।
“सेकः श्रमघ्नोऽनिलहृद्भग्नसन्धिप्रसाधकः ।
क्षताग्निदग्धाभिहतविघृष्टानां रुजापहः ॥
जलसिक्तस्य वर्द्धन्ते यथा मूलेऽङ्कु रास्तरो
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते ॥”
इति सुश्रुते चिकित्सास्थाने २४ अध्याये ॥)

सेकपात्रं, क्ली, (सेकाय पात्रम्) जलसेचना-

धारः । सिँउनी इति भाषा । तत्पर्य्यायः ।
सेचनम् ३ । इत्यमरः । १ । १० । १३ ॥

सेकिमं, क्ली, (सेकेन निर्वृत्तमिति । सेक + “भाव

प्रत्ययान्तादिमप् वक्तव्यः ।” ४ । ४ । २० । इत्यस्य
वार्त्तिकोक्त्या इमप् ।) मूलकम् । इति हेम-
चन्द्रः ॥ (सेकनिर्वृत्ते, त्रि ॥)

सेक्ता, [ऋ] पुं, (सिञ्चति रेतः । सिच् + तृच् ।)

भर्त्ता । इति हेमचन्द्रः ॥ सेचनकर्त्तरि, त्रि ॥
(यथा, ऋग्वेदे । ३ । ३२ । १५ ।
“सेक्तेव कोशं सिसिचे पिबध्यै ॥”)

सेक्त्रं, क्ली, (सिञ्चत्यनेनेति । सिच् + “दाम्नीशसयु

युजेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् ।)
सेकपात्रम् । इति सिद्धान्तकौमुदी ॥

सेचकः, पुं, (सिञ्चतीति । सिच् + ण्वुल् ।) मेघः ।

सेककर्त्तरि, त्रि । इति मेदिनी ॥

सेचनं, क्ली, (सिच क्षरणे + ल्युट् ।) क्षरणम् ।

सेकः । (यथा, मार्कण्डेये । ३१ । १३ ।
“भुक्त्वा चाचामतां यच्च जलं यच्चाङ्घिसेचने ।
ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयान्ति वै ॥”)
नौकायाः सेकभाजनम् । इति मेदिनी ॥
(अभिषेकः । यथा, महानिर्व्वाणे । २ । ११५ ।
“तद्दशांशेन हवनं तर्पणं तद्दशांशतः ।
सेचनं तद्दशांशेन तद्दशांशेन सुन्दरि ! ॥”)

सेटुः, पुं, फलविशेषः । तरमुज् इति भाषा । तत्-

पर्य्यायः । चेलानः २ चित्रफलम् ३ सुखाशः ४
राजतेमिषः ५ लतापनसः ६ नाटाम्रः ७ ।
इति त्रिकाण्डशेषः जटाधरश्च ॥

सेतिका, स्त्री, अयोध्या । इति भूतशुद्धितन्त्रम् ॥

सेतुः, पुं, (सिनोति बध्नाति जलमिति । सि ञ

बन्धने + “सितनिगमिमसीति ।” उणा ० १ ।
७० । इति तुन् । क्षेत्रादेरालिः । इत्यमरः ।
२ । १ । १४ ॥ तत्पर्य्यायः । आली २ । इति
भरतः ॥ पूरणः ३ पिण्डलः ४ । इति हारा-
वली ॥ पङ्कारः ५ जङ्गालः ६ सञ्चरः ७ । इति
जटाधरः ॥ पिण्डिलः ८ । इति शब्दरत्नावली ॥
धरणः ९ । इति त्रिकाण्डशेषः ॥ * ॥ तद्दानादि-
फलं यथा, --
“सेतुप्रदानादिन्द्रस्य लोकमाप्नोति मानवः ।
प्रपाप्रदानाद्वरुणलो कमाप्नोत्यसंशयम् ॥
संक्रमाणान्तु यः कर्त्ता स स्वर्गं तरते नरः ।
खर्गलोके च निवसेदिष्टकासेतुकृत् सदा ॥”
इति मठादिप्रतिष्ठातत्त्वम् ॥ * ॥
वरुणवृक्षः । इति मेदिनी राजनिर्घण्टश्च ॥
(अस्य पर्य्यायो गुणाश्च यथा, --
“वरुणो वराणः सेतुस्तिक्तशाकोऽग्निदीपनः ।
वरुणः पित्तलो भेदो श्लेष्मकृच्छ्राश्ममारुतान् ॥
निहन्ति गुल्भवातास्रक्रिमींश्चोष्णोऽग्निदीपनः ।
कषायो मधुरस्तिक्तः कटुको रूक्षको लघुः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
प्रणवः । इति तन्त्रसारः ॥ अपि च ।
“मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः ।
स्रवत्यनोंकृतं पूर्व्वं परस्ताच्च विशीर्य्यते ॥
नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः ।
द्विजातीनामयं मन्त्रः शूद्राणां सर्व्वकर्म्मणि ॥
अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः ।
वेदत्रयात् समुद्धृत्य प्रणवं निर्म्ममे पुरा ॥
स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः ।
स्वरितश्चोरुजातानां मनसापि तथा स्मरेत् ॥
पृष्ठ ५/४०९
चतुर्द्दशस्वरो योऽसी सेतुरौकारसंज्ञकः ।
स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥
निःसेतुञ्च यथा तोयं क्षणान्निम्नं प्रसर्पति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥
तस्मात् सर्व्वेषु मन्त्रेषु चतुर्व्वर्णा द्विजादयः ।
पार्श्वयोः सेतुमादाय जपकर्म्म समारभेत् ॥
शूद्राणामादिसेतुर्व्वा द्विसेतुर्व्वा यथेच्छतः ।
द्वे सेतू वः समाख्याताः सर्व्वदैव द्विजातयः ॥”
इति कालिकापुराणे ५५ अध्यायः ॥

सेतुकः, पुं, (सेतुरेव । स्वार्थे कन् ।) वरुणवृक्षः ।

इति शब्दरत्नावली ॥

सेतुबन्धः, पुं, (सेतोर्बन्धः ।) लङ्कागमनार्थश्रीराम-

कृतसमुद्रबन्धनसेतुः । तत्पर्य्यायः । समुद्रारुः २ ।
इति जटाधरः ॥ तद्विवरणं यथा, --
“ततोऽब्रवीद्रघुश्रेष्ठं सागरो विनयान्वितः ।
नलः सेतुं करोत्वस्मिन् जले मे विश्वकर्म्मणः ॥
सुतो धीमान् समर्थोऽस्मिन् कार्य्ये लब्धवरो
हरिः ।
कीर्त्तिं गायन्तु ते लोकाः सर्व्वलोकमलापहाम् ॥
इत्युक्त्वा राघवं नत्वा ययौ सिन्धुरदृश्यताम् ।
ततोरामस्तु सुग्रीवलक्ष्मणाभ्यां समन्वितः ।
नलमाज्ञापयच्छीघ्रं वानरैः सेतुबन्धने ॥
ततोऽतिहृष्टः प्लवगेन्द्रयूथपै-
र्महानगेन्द्रप्रतिमैर्युतो नलः ।
बबन्ध सेतुं शतयोजनायतं
सुविस्तरं पर्व्वतपादपैर्दृढम् ॥”
इति श्रीमदध्यात्मरामायणे लङ्काकाण्डे ३ अः ॥
“सेतुमारभ्यमाणस्तु तत्र रामेश्वरं शिवम् ।
सङ्कल्पनियतो गत्वा पुरीं वाराणसीं नरः ॥
आनीय गङ्गासलिलं रामेशमभिषिष्य च ।
क्षिप्त्वा समुद्रे तद्वारि ब्रह्म प्राप्नोत्यसंशयः ॥
कृतानि प्रथमेनाह्रा योजननां चतुर्द्दश ।
द्वितीयेन तथा चाह्रा योजनानाञ्च विंशतिः ॥
तृतीयेन तथा चाह्रा योजनान्ये कविंशतिः ।
चतुथन तथा चाह्रा द्वाविंशति तथा कृतम् ॥
पञ्चमेन त्रयोविंशयोजननां समन्ततः ।
बबन्ध सागरे सेतुं नलो वानरसत्तमः ॥
तेनैव जम्मुः कपयो योजनानां शतं द्रुतम् ।
असंख्याताः सुवेलाद्रिं रुरुहुः प्लवगोत्तमाः ॥
आरुह्य मारुतिं रामो लक्ष्मणाऽप्यङ्गदं तथा ।
दिदृक्षू राघवो लङ्कां नानाचित्रध्वजाकुलाम् ॥”
इति तत्रैव ४ अध्यायः ॥
(क्षेत्रादेरालिबन्धनम् । यथा, महाभारते ।
७ । ८४ । २ ।
“गतोदके सेतुबन्धो यादृक् तादृगयं तव ।
विलापो निष्फलो राजन् मा शुची भरतर्षभ ॥”

सेतुभेदी, [न्] पुं, (सेतुं भिनत्तोति । भिद् +

णिनिः ।) दन्तीवृक्षः । इति शब्दचन्द्रिका ॥

सेतुवृक्षः, पुं, (सेतुनामको वृक्षः ।) वरुणवृक्षः ।

इति शब्दमाला राजनिर्घण्टश्च ॥ (अस्य
पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।
“वरुणस्तिक्तशाकश्च सेतुवृक्षोऽम्भसां प्रतिः ॥”)

सेत्रं, क्ली, (सीयतेऽनेनेति । षिज् बन्धने +

“दाम्नीशसयुयुजेति ।” ३ । २ । १८२ । इति
ष्ट्रन् ।) निगडः । इति सिद्धान्तकौमुदी ॥ वेडी
इति भाषा ॥

सेना, स्त्री, चतुर्व्विंशतिवृत्तार्हन्मातॄणां तृतीया

माता । इति हेमचन्द्रः ॥ इनेन प्रभुणा सह
वर्त्तते या । (यद्वा, सिनोति शत्रुमिति । षिञ्
बन्धने + “कॄवृजॄषीति ।” उणा० ३ । १० ।
इति नः । स च नित् । टाप् ।) चतुरङ्गबलम् ।
फौज इति पारस्यभाषा । (यथा, रघुः । १ । १९ ।
“सेनापरिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी घनुषि चातता ॥”)
तत्पर्य्यायः । ध्वजिनी २ वाहिनी ३ पृतना ४
अनीकिनी ५ चमूः ६ वरूथिनी ७ बलम् ८
सैन्यम् ९ चक्रम् १० अनीकम् ११ । इत्य-
मरः । २ । ८ । ७८ ॥ वाहना १२ पूतना १३
गुल्मिनी १४ वरचक्षुः १५ । इति शब्दरत्नावली ॥
केचित्तु ध्वजिन्यादि सप्तकं सेनायाम् । बलादि
चतुष्कं सेनाङ्गे इत्याहुः । अतएव ध्वजिन्यादि
सप्तकंसामान्येन सेनायाम् । बलादि चतुष्कन्तु
सामान्ये न सेनायां सेनाङ्गे च इति मतम् ॥
इति भरतः ॥

सेनाङ्गं, क्ली, (सेनाया अङ्गम् ।) हस्त्यश्वरथ-

पदातीनां समूहः । यथा, --
“हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चचष्टयम् ॥”
इत्यमरः । २ । ८ । ३३ ॥
(यथा, बृहत्संहितायाम् । ११ । ४२ ।
“सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि
देशानाम् ॥”)

सेनाचरः, त्रि, (सेनायां चरतीति । चर +

“भिक्षासेनादायेषु ।” ३ । २ । १७ । इति टः ।)
सैन्यानुगामी । सेनया सह गन्ता । इति
केक्षित् ॥ (यथा, महाभारते । १ । १३० । १४ ।
“मृगयाञ्चरतो राज्ञः शान्तनोश्च यदृच्छया ।
कश्चित् स्रेनाचरोऽरण्ये मिथुनं तदपश्यत ॥”)

सेनानीः, पुं, (सेनां नयतीति । नी + “सत्सूद्वि-

षेति ।” ३ । २ । ६१ । इति क्विप् ।) कार्त्ति-
केयः । इत्यमरः । १ । १ । ४२ ॥ (यथा, रघुः । २ । ३७ ।
“अथैनमद्रे स्तनया शुशोच
सेनान्यमालीढमिवासुरास्त्रैः ॥”)
वाहिनीपतिः । इति चामरः । २ । ८ । ६२ ॥
(यथा, महाभारते । ४ । २ । ६ ।
“स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै ।
प्रहसन्निव सेनानीरिदं वचनमब्रबीत् ॥”)

सेनापतिः, पुं, (सेनायाः पतिः ।) कार्त्तिकेयः ।

(क्वचित् वाच्यलिङ्गेऽपि दृश्यते । यथा, महा-
निर्व्वाणतन्त्रे १ । १४ ।
“किमुच्यते महाप्राज्ञे कथ्यतां प्राणवल्लभे ।
यदकथ्यं गणेशेऽपि स्कन्दे सेनापतावपि ॥”)
अनीकाधिपतिः । इति मेदिनी ॥ अस्य
पर्य्यायः । सेनानीः २ वाहिनीपतिः ३ । इत्य-
मरः । २ । ८ । ६२ ॥ सेनापतिलक्षणं यथा, --
“कुलीनः शीलसम्पन्नो धनुर्व्वेदविशारदः ।
हस्तिशिक्षाश्वशिक्षासु कुशलः श्लक्ष्णभाषणः ॥
निमित्ते शकुनज्ञाने वेत्ता चैव चिकित्सिते ।
कृतज्ञः कर्म्मणां शूरस्तथा क्लेशसहो ऋजुः ॥
व्यूहतत्त्वविधानज्ञः फल्गुसारविशेषवित् ।
राज्ञा सेनापपिः कार्य्यो ब्राह्मणः क्षत्त्रियो-
ऽथवा ॥”
इति मात्स्ये राजधर्म्मे । २१५ । ८ -- १० ॥
सेनापतौ वर्णनीयानि यथा, --
“सेनापतिर्ज्जितावासः स्वामिभक्तः सुधीरभीः ।
अभ्यासी वाहने शस्त्रे शास्त्रे च विजयी रणे ॥”
इति कविकल्पलतायाम् १ स्तवके वर्ण्यस्थिति-
र्नाम ३ कुसुमम् ॥

सेनामुखं, क्ली, (सेनाया मुखम् ।) पत्तित्रयः । स तु

सेनासङ्ख्याविशेषः । तद्यथा । हस्ती ३ रथः ३
अश्वः ९ पदातिः १५ समुदायेन त्रिंशत् ३० ।
इत्यमरः । २ । ८ । ८१ ॥ (यथा च महा-
भारते । १ । २ । १९ ।
“एको रथो गजश्चैको नराः पञ्च पदातयः ।
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥
पत्तिन्तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ॥”)
पुरद्वारसंमुखवृत्तिपथः । इति केचित् ॥

सेनारक्षः, पुं, (सेनां रक्षतीति । रक्ष + अण् ।)

सेनारक्षकप्रहरिकादिः । तत्पर्य्यायः । मैनिकः २
इत्यमरः । २ । ८ । ६१ ॥

सेफः, पुं, शेफः । इति जटाधरः ॥

सेमन्ती, स्त्री, पुष्पविशेषः । से उती इति भाषा ।

यथा, नारसिंहे ५२ अध्याये ।
“चम्पकानां पुष्पशतादशोकं पुष्पमुत्तमम् ।
अशोकानां सहस्राद्धि सेमन्ती पुष्पमुत्तमम् ॥”

सेराहः, पुं, पीयूषवर्णाश्वः । स तु दुग्धवच्छ्रेतवर्णः

इति हेमचन्द्रः ॥

सेरुः, त्रि, (षि ञ् बन्धने + “दाधेट्सिशदसदो

रुः ।” ३ । २ । १५९ । इति रुः ।) बन्धन-
कर्त्ता । इति मुग्धबोधव्याकरणम् ॥

सेल, ऋ चालगत्योः । इति कविकल्पद्रुमः ॥ (भ्वा ०

पर०-सक० सेट् ।) ऋ, असिसेलत् । इति
दुर्गादासः ॥

सेलुः पुं, शेलुवृक्षः । स तु श्लेष्मातकः । इति

भरतद्विरूपकोषः ॥

सेव, ञ ङ ऋ सेवने । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-आत्म०-च-सक०-सेट् ।) ञ, सेवति
सेवते । ङ, सेवते । ऋ, असिसेवत् । सेवनं
आराधनं उपभोगः आश्रयणञ्च । विष्णुं सेवते ।
सुखं सेवते । तीर्थं सेवते साधुः । अन्ये त्वस्मात्
परस्मैपदममन्यमानाः । नीचं समृद्धमपि सेवति
नीच एव । स्वाधीने विभवेऽप्यहो नरपतिं
सेवन्ति किं मानिनः ॥ इत्यादौ गणकृतानित्य-
त्वमाहुः । इति दुर्गादासः ॥

सेवं, क्ली, (सेव्यते यदिति । सेव + घञ् ।) सेवि-

फलम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो
गुणाश्च यथा --
पृष्ठ ५/४१०
“मुष्टिप्रमाणं वदरं सेवं सिवितिकाफलम् ।
सेवं समीरपित्तघ्नं वृंहणं कफकृद्गुरुः ।
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सेवकः, पुं, (सेवते इति । सेव + ण्वुल् ।) प्रसे-

वकः । इति मेदिनी ॥

सेवकः, त्रि, (सेवते इति । सेवृ सेवने + ण्वुल् ।)

अनुजीवी । भृत्यः । इति मेदिनी शब्दरत्नावल्यौ ॥
(यथा, बृहत्संहितायाम् । ५ । ३४ ।
“पूर्व्वेण सलिलपूर्णां करोति वसुधां समागतो
दैत्यः ।
पश्चात् कर्षकसेवकबीजविनाशाय निर्द्दिष्टः ॥”)
तस्य प्रभुसन्निधौ प्रश्नकरणक्षमत्वं यथा, --
“किङ्करः किङ्करी वापि सर्व्वथा प्रष्टुमीश्वरः ।
यो यस्य सेवानिरतः स कं पृच्छति तं विना ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥
(आश्रयिता । यथा, भागवते । ४ । १६ । १६ ।
“दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।
शरण्यः सर्व्वभूतानां मानदो दीनवत्सलः ॥”)

सेवकालुः, पुं, निशाभङ्गावृक्षः । दुग्धपेया इति

ख्यातः । इति शब्दचन्द्रिका ॥

सेवती, स्त्री, पुष्यविशेषः । सेँउती इति भाषा ।

तत्पर्य्यायगुणाः ।
“शतपत्री तरुण्युक्ता कर्णिका चारुकेसरा ।
महाकुमारी गन्धाढ्या लक्षपुष्पातिमञ्जुला ॥
शतपत्री हिमा हृद्या ग्राहिणी शुक्रला लघुः ।
दोषत्रयास्रजिद्वर्ण्या तिक्ता कट्वी च पाचनी ॥”
इति भावप्रकाशः ॥

सेवधिः, पुं, (सेवः सेवनं धीयतेऽस्मिन्निति । सेवां

विना निधिलाभाभावादित्यर्थः । धा + किः ।)
निधिः । इत्यमरटीकायां भरतः ॥ तालव्य-
शकारादिरप्ययम् ॥

सेवनं, क्ली, (सिव तन्तुसन्ताने + ल्युट् ।) सूच्या-

दिना वस्त्रादिसीवनम् । सेलाइ इति सेयासी
इति च भाषा । तत्पर्य्यायः । सीवनम् २ सूतिः
३ । इत्यमरः । ३ । २ । ५ ॥ ऊतिः ४ व्यूतिः ५ ।
इति शब्दरत्नावली ॥ (यथा, सुश्रुते । १ । ८ ।
“सूच्यः सेवने । इत्यष्टविधे कर्म्मण्युपयोगः
शस्त्राणां व्याख्यातः ॥” * ॥ सेवृ सेवने + ल्युट् ।)
उपास्तिः । उपासना । इति मेदिनी ॥ (यथा,
भागवते । ४ । १९ । १६ ।
“तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः ॥”
आथयः । यथा, भागवते । ७ । १२ । २० ।
“सत्यानृतञ्च बाणिज्यं श्ववृत्तिर्नीचसेवनम् ।
वर्ज्जयेत् तां मदा विप्रो राजन्यश्च जुगुप्सिताम् ॥”
उपभोगः । यथा, मनुः । ११ । १७९ ।
“यत् करोत्येकरात्रेण वृषलीसेवनात् द्विजः ।
तद्भ क्ष्यभुग्जपन्नित्यं त्रिभिर्व्वर्षैर्व्यपोहति ॥”)

सेवनी, स्त्री, (सीव्यत्यनयेति । सिव + ल्युट् ।

ङोप् ।) सूची । इति हेमचन्द्रः ॥ शरीरा-
वयवमयोगविशेषः । यथा, --
“मेषन्यः सप्त तासान्तु भवेयुः पञ्च मस्तके ।
एका शेफसि जिह्रायामेको विद्धेन्न ताः क्वचित् ॥”
इति भावप्रकाशः ॥
(यथा च माधवकरसंगृहीतरुग्विनिश्चयेऽश्वर्य्य-
धिकारे ।
“सामान्यलिङ्गं रुङ्नाभिसेवनीवस्तिमूर्द्धमु ॥”)

सेवा, स्त्री, (सेवृ सेवने + “गुरोश्च हलः ।” ३ ।

३ । १०३ । इत्यः । टाप् ।) सेवनम् । तत्प-
र्य्यायः । श्ववृत्तिः २ । इत्यमरः । २ । ९ । २ ॥
(यथा, मनुः । ४ । ६ ।
“सत्यानृतञ्च बाणिज्यं तेन चैवापि जीव्यते ।
सेवाश्ववृत्तिराख्याता तस्मात् तां परिवर्ज्जयेत् ॥”)
आराधना । उपभोगः । आश्रयणम् ॥ इति
सेवधात्वर्थदर्शनात् ॥ (यथा, मनुः । १२ । ८७ ।
“वेधाभ्यासस्तपो ज्ञानमिन्द्रियाणाञ्च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥”)
अथ माघादिद्वादशमासेषु विष्णुसेवाविधिस्तत्-
फलञ्च । यथा, --
व्यास उवाच ।
“विप्र द्वादशमासेषु माघादिषु सनातनः ।
पूजितव्यो विधानैश्च शृणु तानि वदाम्यहम् ॥
माघे मासि समायाते सर्व्वमासोत्तमे शुभे ।
आमिषं मैथुनञ्चैव वर्ज्जयेद्वैष्णवो जनः ॥
प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्ज्जयेत् ।
द्विर्भोजनं परान्नञ्च माघे मासि परित्यजेत् ॥
प्रातः शुक्लाम्बरधरः कृतपञ्चमहाध्वरः ।
सपर्य्यामारभेद्विष्णोः स्थिरवृत्तो हि वैष्णवः ॥
ईषदुष्णजलैर्द्दिव्यैः स्नापयेद्विष्णुमव्ययम् ।
अतिश्लक्ष्णै श्चन्दनैश्च विष्णोरङ्गञ्च लेपयेत् ॥
पूजायै जगदीशस्य देवदेवस्य चक्रिणः ।
प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ॥
स्नापयित्वा जगन्नाथमीषदुष्णजलैस्ततः ।
प्रोञ्छितव्य तच्छरीरं दिव्यवस्त्रेण यत्नतः ॥
सलिलैरीषदुष्णैश्च यः स्नापयति केशवम् ।
माघे मासि द्विजश्रेष्ठ फलं तस्य मयोच्यते ॥
विमुक्तः पातकैः सर्व्वैर्ज्जन्मजन्मान्तरार्ज्जितैः ।
इह भुक्त्वा सुखं सर्व्वं शेषे याति हरेर्गृ हम् ॥
यत्नात् प्रक्षाल्य पात्राणि कृत्वा हीनानि
वारिभिः ।
यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय ॥
इह भुक्त्वा वरान् भोगान् रोगशोकविवर्ज्जितः ।
अन्ते युगसहस्राणि तिष्ठेत् केशवमन्दिरे ॥
प्रभातेऽपि च सन्ध्यायां पुरतश्चक्रपाणिनः ।
ज्वलन्तं स्थापयेद्वह्निं निर्धूमं वैष्णवो जनः ॥
शीतस्यावरणार्थाय प्रातः सायञ्च यो जनः ।
माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलं शृणु ॥
इह भुक्त्वाखिलान् भोगान् पुत्त्रपौत्त्रसमन्वितः ।
अन्ते विष्णुपुरं याति दैवतैरपि दुर्लभम् ॥
यथैवात्मा तथा विष्णुः सन्देहो नात्र विद्यते ।
तस्मादात्मानुमानेन विष्णुसेवा विधीयते ॥
प्रभाते रौद्रदेशे च पवित्रे स्थापयेद्धरिम् ।
न भुनक्ति द्विजश्रेष्ठ यावत् शीतं सुदुःसहम् ॥
स्वपन्तं देवदेवेशं पर्य्यङ्कोपरि केशवम् ।
स्थापयेन्निशि निर्व्वाते देशे च वैष्णवो जनः ॥
न प्राप्नोति यथा शीतं देवदेवो जगदगुरुः ।
शुक्लैः पवित्रैर्द्दिव्यैस्तं वस्त्रे राच्छादयेद्ब धः ॥
आत्मनः कुरुते मर्त्यो यथा शीतनिबारणम् ।
तथा शीतक्षयं कुर्य्याद्दे वदेवस्य चक्रिणः ॥
क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्द्धनम् ।
तस्मै देवोत्तमो विष्णुः सन्तुष्टो न ददाति किम् ॥
यः पूजयेत् सकृन्माघे स्नापयित्वा जनार्द्दनम् ।
नारिकेलोदकैर्द्दुग्धैः फलं तस्य वदाम्यहम् ॥
नरकाब्धौ मज्जमानान् दुस्तरे स्वेन कर्म्मणा ।
उद्धृत्य कोटिपुरुषान् मन्दिरं याति चक्रिणः ॥
माघे मासि च शुक्लायां पञ्चम्यां द्विजसत्तम ।
एकादश्याञ्च सप्तम्यां हरिः पूज्यो विशेषतः ॥
दातव्यो देवदेवाय सपद्माय मुरारये ।
पायसोऽपूपसहितो माघे मासि दिने दिने ॥
अपूपं पायसं यस्तु माघे यच्छति चक्रिणे ।
तस्य पुण्यमहं वच्मि शृणु वेष्णव जैमिने ॥
अन्ते विष्णुपुरं गत्वा मन्वन्तरचतुष्टयम् ।
भुङ्क्ते मनोरथान् भोगान् प्रसादाच्चक्रयाणिनः ॥
पुनरागत्य धरणीं चक्रवर्त्ती नृपो भबेत् ।
भुङ्क्ते भोगञ्च सुचिरं मृतो याति हरेगृहम् ॥
पञ्चम्याञ्चैव सप्तम्यामेकादश्याञ्च जैमिने ।
अशक्त्या वैष्णवो दद्यात् परमान्नं मुरारये ॥
कृष्णपक्षाद्ध्विजश्रेष्ठ शुक्लपक्षो विशिष्यते ।
शुक्लपक्षं तिथिष्वासु दद्यादन्नं मुरारये ॥
एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे ।
सापूपं पायसं दद्यान्न तस्य दुर्ल्लभो हरिः ॥
यत्किञ्चित् विष्णुतृप्त्यर्थं माघे मासि प्रदीयते ।
तदक्षय भवेत् सर्व्वं कोऽपि नास्त्यत्र संशयः ॥
माघे मासि कृतं कर्म्म शुभं वाशुभमेव च ।
तस्य नास्ति क्षयं विप्र मन्वन्तरशतैरपि ॥
माघे चम्पकपुष्पेण योऽर्च्चयेत् कमलापतिम् ।
स गच्छेत् परमं धाम विमुक्तः सर्व्वपातकैः ॥
यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये ।
तावत् युगसहस्राणि स्थीयते विष्णुमन्दिरे ॥
मेरुतुल्यसुवर्णानि दत्त्वा भवति यत् फलम् ।
एकेन स्वणपुष्पेण दत्त्वा भवति तत् फलम् ॥
सुवर्णपुष्पं विप्रेन्द्र सर्व्वंदा केशवप्रियम् ।
माघं मासि विशेषेण पवित्रे केशवोपमे ॥
सुवर्णकुसुमैर्द्दिव्यैर्येन नाराधितो हरिः ।
रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ॥”
इति पाद्मे क्रियायोगसारे ९ । १० अध्यायौ ॥ * ॥
व्यास उवाच ।
“फाल्गुने ब्राह्मणश्रेष्ठ श्रीकृष्णं सुरवन्दितम् ।
पूजयेद्भक्तिभावेन प्रत्यहं वैष्णवो जनः ॥
फाल्गुने स्नापयेद्यस्तु सर्पिषा देवकौसुतम् ।
फलं तस्य प्रवक्ष्यामि मत्तः सम्यक् निशामय ॥
सर्व्वयज्ञफलं प्राप्य सर्व्वदानफलं तथा ।
अन्ते याति हरेः स्थानं सर्व्वपापविवर्ज्जितः ॥
युगकोटिसहस्राणि भुक्त्वा भोगं हरेर्गृहे ।
तत्रैव मोक्षमाप्नोति संप्राप्य ज्ञानमुत्तमम् ॥
यस्तु यच्छति कृष्णाय शिशिरे गोपमूर्त्तये ।
पृष्ठ ५/४११
तिलानां मोदकं दिव्यं स गच्छेद्धरिमन्दिरम् ॥
यो दुग्धलड्डुकं दद्यात् केशवाय महात्मने ।
स पिबेदमृतं स्नात्वा मन्वन्तरशतावधि ॥
हरये ललितं खण्डं यस्तु यच्छति जैमिने ।
तस्य विष्णुः प्रसन्नात्मा छिन्नत्ति भवबन्धनम् ॥
विचित्रफाणितं यस्तु दद्याद्भगवते द्विज ।
अन्ते शक्रपुरं गत्वा स भवेत् सुरवन्दितः ॥
निर्म्मलां शर्करां यच्छेद्यस्तु कृष्णाय भक्तिमान्
स किं न लभये विप्र वासुदेवप्रसादतः ॥
सुपक्वं फाल्गुने मासि मधुरं बरदीफलम् ।
यस्तु यच्छति कृष्णाय फलं तस्य मयोच्यते ॥
इह भुङ्क्ते सुखं सव्वं पुत्त्रपौत्त्रसमन्वितः ।
अन्ते हरेर्गृहं याति रथमारुहा शोभनम् ॥
न दद्याद्गुडसंयुक्तं हरये बदरीफलम् ।
अज्ञानाद्ब्राह्मणश्रेष्ठ दद्याच्चेन्नारकी भवेत् ॥
फाल्गुने मासि यो दद्याद्धरये दाडिमीफलम् ।
सुपक्वं तत्फलंविप्र वदतो मे निशामय ॥
तत्र यावन्ति बीजानि तिष्ठन्ति दाडिमीफले ।
तावन्मन्वन्तरं विष्णोर्गृहे तिष्ठति वैष्णवः ॥
फाल्गुने मासि यो दद्याद्धरये गुडपिष्टकम् ।
सविज्ञेयो द्विजश्रेष्ठ वाजिमेधसहस्रकृत् ॥ * ॥
चैत्रे मासि द्विजश्रेष्ठ मधुना मधुसूदनम् ।
स्नापयेल्लभते मर्त्यस्तद्विष्णोः परमं पदम् ॥
मधुना स्नापयेत् यस्तु नारायणमनामयम् ।
न चर्च्चा क्रियते तस्य कदाचिद्रविसूनुना ॥
चैत्रे किंशुकपुष्पेण योऽर्च्चयेत् कमलापतिम् ।
तन्नाम चित्रगुप्तेन पञ्जिकायां न लिख्यते ॥
चैत्रिके जगतामीशं कृष्णं तिलकपुष्पकैः ।
यजतो नास्ति वै जन्म पुनरस्मिन् महीतले ॥
कृष्णं वञ्जुलपुष्पेण सर्व्वदेवशिरोमणिम् ।
पूजयेन्मनुजो विप्र लभते नापदं क्वचित् ॥
वासन्तीभिः सुगन्धाभिर्व्वसन्ते यस्तु पूजयेत् ।
भगवन्तं परात्मानं स देवैरपि पूज्यते ॥
जयाकिशलयैर्द्दिव्यैरखण्डैर्योऽर्च्चयेद्धरिम् ।
तं वदन्ते समुत्थाय स्वयं पीठाद्यमोऽपि च ॥
धात्रीपत्रैर्नवीनैश्च कोमलैर्हरिमर्च्चयन् ।
अचिरेणैव लभते सकलं वाच्छितं जनः ॥
शाण्डिल्याखण्डपत्रैश्च धुस्तूरैश्चार्कपुष्पकैः ।
योऽर्च्चयेद्धिष्णुमीशञ्च स संसाराब्धिपारगः ॥
यो दद्याद्विष्णवे विप्र कदलीफलमुत्तमम् ।
शक्राद्यास्त्रिदशाः सर्व्वे वदन्ते तमहर्न्निशम् ।
यो दद्याच्चैत्रिके मासि भक्त्या गोपालरूपिणे ।
गोधूमपिष्टकं विप्र सर्व्वपापैः प्रमुच्यते ॥ * ॥
आयाते माधवे मासि पवित्रे माधवप्रिये ।
आमिषं मैथुनं तैलं विष्णुभक्तः परित्यजेत् ॥
प्रातः समाचरेत् स्नानं माधवे मासि वैष्णवः ।
परित्यजेत् परान्नञ्च न च कुर्य्यात् द्विभोजनम् ॥
प्रभाते पूजयेद्विष्णुं पूर्व्वोक्तविधिना द्बिजः ।
वैशाखे स्नापयेद्विष्णुं पुष्पवासितवारिणा ॥
स्नापयेत् शीततोयेन सन्ध्यापर्य्यन्तमच्युतम् ।
त्रिसन्ध्यं पूजयेद्भक्त्या नैविद्यैर्व्विविधैः प्रभुम् ॥
वैशाखे चामलस्रग्भिर्लक्ष्मीपतिरलङ्कृतः ।
न किं ददातिःविप्रर्षे प्रसन्नः परमेश्वरः ॥
वैशाखे मासि यो दद्यात् यवान्नं चक्रपाणये ।
तस्य पुण्यानि संख्यातुं कः समर्थोऽस्ति पण्डितः
यत्किञ्चिन्माधवे मासि माधवप्रीतिहेतवे ।
दीयते मानवैर्व्विप्र तत् सर्व्वमक्षयं भवेत् ।
यदन्यत् सुकृतं कर्म्म क्रियते मासि माधवे ।
माधवप्रीतये विप्र क्षयं तस्य न विद्यते ॥
वैशाखो दुर्ल्ल भो मासः सर्व्वकामफलप्रदः ।
पूजितव्यो हरिस्तत्र हित्वा कार्य्यशतान्यपि ॥
एकाहमपि यः पूजां वैशाखे कुरुते हरेः ।
शतवर्षं हरिं यष्ट्वा यत् फलं लभते स तत् ॥
वैशाखे मासि यः कुर्य्यात् प्रपां माधवतुष्टये ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥
वैशाखे सिञ्चयेन्नित्यं विष्णुमश्वत्थरूपिणम् ।
चतुर्व्वर्गफलावाप्तिहेतवे वैष्णवो जनः ॥
गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम् ।
सोऽपि याति परं स्थानं विमुक्तः पाप-
कोटिभिः ॥
व्यास उवाच ।
साक्षाद्देवः स्वयं विष्णुरश्वत्थोऽखिलविश्वराट् ।
तद्भक्तिं कुर्व्वतः पुंसो विद्यते नाशुभं क्वचित् ॥
अश्वत्थं सेवते यस्तु विष्णुबुद्ध्या नरोत्तमः ।
तस्य प्रसन्नो भगवान् ददाति परमं पदम् ॥”
इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥ * ॥
व्यास उवाच ।
“ज्यैष्ठे मासि द्विजश्रेष्ठ भगवन्तं जनार्द्दनम् ।
पूजयेद्भक्तिभावेन जलैः संस्थाप्य शीतलैः ॥
उद्वर्त्तनञ्च दातव्यं सुगन्धामलकीं तथा ।
तैलं सुगन्धं हरये ग्रीष्मकाले दिने दिने ॥
सुवासिते शीतले च मन्दिरेऽतिमनाहरे ।
प्रत्यहं कमलाकान्तं स्थापयेत् जलमण्डपे ॥
न रौद्रदेशे विप्रे न्द्र सधूमे रन्धनालये ।
न सूतिकागृहे चैव स्थापयेत् कमलापतिम् ॥
चामरैर्वीजितः श्वेतैः सुदीर्घैः कमलापतिः ।
ज्यैष्ठे मासि द्विजश्रेष्ठ सुप्रीतः किं न यच्छति ॥
मयूरपुच्छव्यजनैर्निदाघे पूजितो हरिः ।
ददात्यभिमतं सर्व्वं अचिरेणैव सत्तम ॥
तालवृन्तकवातेन पवित्राम्बरवायुना ।
यैर्ग्रीष्मे वीज्यते विष्णु स्ते सर्व्वे स्वर्गगामिनः ॥
यो गात्रलेपनं कुर्य्यात् सुवन्धैर्यक्षकर्द्दमैः ।
ग्रीष्मे हरेश्चन्दनेश्च स विशेन्माधवों तनुम् ॥
गन्धैर्म्मृगमदाद्यैश्च यो लिम्पेन्माधवों तनुम् ।
उष्मागमे द्बिजश्रे ष्ठ स मुक्तो नात्र संशयः ॥
प्रफुल्लकुमुदोद्याने तुलसीकानने तथा ।
सन्ध्यायां स्थापयेद्विष्णुं देशे धीरसमीरणे ॥
स्रग्भिः पाटलिपुष्पाणां येन विष्णु रलङ्कृतः ।
ज्यैष्ठे मासि स विज्ञेयो वाजिमेधसहस्रकृत् ॥
यस्तु मुक्तावलीं दद्यात् ग्रीष्मे श्रीपतये जनः ।
भूपालत्वं हरिस्तस्मै यच्छेज्जन्मनि जन्मनि ॥
यस्तु मण्डयति ग्रीष्मे श्रीकृष्णं मणिमालया ।
तस्य पुण्यफलं विप्र वदतो मे निशामय ॥
यावद्ब्रह्मा सृजत्येतत् जैमिने सकलं जगत् ।
तावद्विष्णुपुरे तिष्ठे न्मणिमालाविभूषितः ॥
सुवर्णाभरणैर्यस्तु रजताभरणेस्तथा ।
कृष्णं मण्डयति ग्रीष्मे सोऽपि तत्फलमाप्नुयात्
विचित्रं यस्तु पर्य्यङ्कं सगण्डूकं प्रयच्छति ।
हरये देवदेवाय न स्याद्दुःखी कदापि सः ॥
ग्रीष्मकाले न देयानि गुरूणि वसनानि च ।
हरये ब्राह्मणश्रेष्ठ देयं तन्वंशूकं शूचि ॥
यस्तु चूतफलैर्दिव्यैः सुपक्वैः पूजयेद्धरिम् ।
अन्ते शक्रपुरं गत्वा स पिबेदमृतं मुदा ॥
पियालानां फलैः पक्कैर्योऽर्च्चयेत् कमलापतिम्
सोऽपि तत्फलमाप्नोति किमन्यैर्ब्बहुभाषितैः ॥
निदाघे हरये दद्याद्यवागूमतिशीतलाम् ।
नानाव्यञ्जनसंयुक्तां श्रद्धया वैष्णवो जनः ॥ * ॥
आषाढे मासि विप्रेन्द्र देवदेवं जगत्पतिम् ।
दधिभिः स्नापयित्वा तु पूजयेद्भक्तितो बुधः ॥
दधिभिः स्नापयेद्यस्तु भगवन्तं जनार्द्दनम् ।
मातुः पयोधरपयः पुनस्तेन न पीयते ॥
घनागमे घनश्यामं कदम्बकुसुमैर्हरिम् ।
आराध्य यान्ति विप्रर्षे पापिनोऽपि परां
गतिम् ॥
कदम्बपुष्पमालाभिर्म्मण्डयत्यब्जलोचनम् ।
यस्तस्य ब्राह्मणश्रेष्ठ पुण्यं वच्मि निशामय ॥
तस्यां यावन्ति मालायां तिष्ठन्ति कुसुमानि वै ।
प्रतिपुष्पे द्विजश्रेष्ठ वाजिमेधफलं लभेत् ॥
सुगन्धैः केतकीपुष्पैः पूजितः कमलेक्षणः ।
सर्व्वं दुःखं हरत्येष मानवानां द्विजोत्तम ॥
पनसानां फलैर्दिव्यैः सुपक्वैर्घृतमिश्रितैः ।
पूजितो भगवान् विष्णुर्द्द दात्यैश्वर्य्यमुत्तमम् ॥
आषाढे मासि दध्यन्नं हरये प्रतिवासरम् ।
श्रद्धया वैष्णवो दद्यान्मुक्तिमिच्छुर्द्विजोत्तम ॥
कृष्णाय नवनीतं यो ददाति वैष्णवो जनः ।
तस्य पुण्यं न संख्यातुं शक्नोम्यब्दशतैरपि ॥
हैयङ्गवीनं यो दद्याद्गोपालाय महात्मने ।
आमिक्षां सगुडाञ्चैव स महात्मा हरेः प्रियः ॥
सशर्कराणि दुग्धानि कृष्णाय यस्तु यच्छति ।
तस्य प्रसन्नो भगवान् ददात्यभिमतं फलम् ॥ * ॥
श्रावणे मासि विप्रेन्द्र दैवकीनन्दनं प्रभुम् ।
स्नापयेन्निर्म्मलैस्तोयैः शुद्धैः कलुषवर्ज्जितैः ॥
मल्लिकाकुसुमैर्विष्णुं योऽर्च्चयेद् वैष्णवो जनः ।
विमुक्तः सकलैः पापैर्ब्रह्मलोकं स गच्छति ॥
शेफालिकाप्रसूनैश्च यूथिकाकुसुमैस्तथा ।
अर्च्चयन् कमलाकान्तं मनुजो नावसीदति ॥
सुगन्धैस्तगरैः पुष्पैः सप्तलाकुसुमैस्तथा ।
योऽर्च्चयेत् कमलाकान्तं तस्य वश्यं जगत्त्रयम् ॥
प्रफुल्लैर्म्मालतीपुष्पैः सुगन्धैर्योऽर्च्चयेद्धरिम् ।
तत्पुण्यं नास्ति तत्तुल्यो येन स्याद्भुवि
मानवः ॥
कुन्दपुष्पै श्च बन्धूकैर्ज्जगद्बन्धुं जनार्द्दनम् ।
अर्च्चयन् सकलं काममाप्नोति भुवि मानवः ॥
महासहाप्रसूनैश्च तथा कुरुवकैर्हरिम् ।
कुरुण्टकैः पूजयेद्यस्तस्य तुष्टः सदा हरिः ॥
शैरीषकुसुमैर्विष्णुं प्रस्थपुष्पैश्च योऽर्च्चयेत् ।
पृष्ठ ५/४१२
करवीरप्रसूनैश्च स याति हरिसन्निधिम् ॥
श्रावणे मासि यो दद्यात् लाजान् घृतसम-
न्वितान् ।
हरये तस्य विप्रर्षे न विपत्तिर्गृहे भवेत् ॥
श्रावणे पिष्टकं यस्तु हरये मुद्गपूरकम् ।
ददाति तस्य विप्रर्षे गृहे श्रीर्निश्चला भवेत् ॥ * ॥
भाद्रे मासि द्विजश्रेष्ठ नारायणमनामयम् ।
श्रद्धया पूजयेत् प्राज्ञश्चतुर्व्वर्गफलप्रदम् ॥
निवीडे नूतनागारे सर्व्वोपद्रववर्ज्जिते ।
स्थापयेत् पुण्डरीकाक्षं भगवन्तं जनार्द्दनम् ॥
दंशैश्च मसकैश्चैव प्रकीर्णैर्म्मक्षिकादिभिः ।
हरिं पुरातनागारे स्थापयेन्न हि भक्तिमान् ॥
सकर्दमे पतद्वारि गलद्भित्तौ गृहे तथा ।
हरिं न स्थापयेत् प्राज्ञो वर्षासु परमेश्वरम् ॥
विष्ण्वालये द्विजश्रेष्ठ बध्नीयाद्यस्तु भानवः ।
चन्द्रातपं विचित्रञ्च चन्द्रलोकं स गच्छति ॥,
रात्रौ नानाविधैर्धूपैर्म्मन्दिरे जगतीपतेः ।
दंशांश्च मशकांश्चैव वर्षाकाले निवारयेत् ॥
मसारिकाभिः प्रावृत्य मञ्चशायिनमच्युतम् ।
प्रावृषि स्थापयेद्विष्णुं निशायां दिव्यमन्दिरे ॥
कह्लारपत्रर्देवेशं सुगन्धैर्नूतनैस्तथा ।
मुमुक्षुः पूजयेन्मर्त्यो भाद्रेमासि दिने दिने ॥
न भाद्रे केतकीपुष्पैः पूजितव्यो जनार्दनः ।
यतो भाद्रपदे मासि केतकी स्यात् सुरासमा ॥
पक्वस्तालफलैर्द्दिव्यैर्योऽर्च्चयेद्यदुनन्दनम् ।
गर्भवाममहादुःखं स भूयो लभते न हि ॥
संयुक्तं घृतदुग्धाभ्यां पक्वतालं मुरारये ।
या दद्यात् श्रद्धया मर्त्यः स गच्छेन्मन्दिरं हरेः ॥
भाद्रे मासि द्विजश्रे ष्ठ हरये तालपिष्टकम् ।
सघृतं वैष्णवो दद्यात् कैवल्यप्राप्तिहेतवे ॥
मासि भाद्रपदे विप्र न कुर्य्याच्छाकभक्षणम् ।
न रात्रौ भोजनं कुर्य्यान्मुमुक्षुर्वैष्णवो जनः ॥ * ॥
आश्विने मासि विप्रेन्द्र केशवं क्लेशनाशनम् ।
पूजयेद्भक्तिभावेन पूर्व्वोक्तविधिना जनः ॥
पूर्व्वाह्णे पूजयेद्यस्तु भक्त्या लक्ष्मौपतिं हरिम् ।
विष्णुपूजाफलं विप्र सम्पूर्णं तेन लभ्यते ॥
यत्तोयं दीयते विप्र पूर्व्वाह्णे हरये जनैः ।
पीयूषमिव तत्तोयं गृह्णाति कमलापतिः ॥
मध्याह्ने दीयते यच्च सलिलं चक्रपाणये ।
तोयं तोयमिव स्वामी तद्गृह्णाति द्विजोत्तम ॥
अपराह्णे तु यत्तोयं गोविन्दाय प्रदीयते ।
ततोयं रक्ततुल्यं स्यान्न गृह्णाति यतो हरिः ॥
अतएव द्विजश्रेष्ठ पूर्व्वाह्णे हरिमर्च्चयेत् ।
मकलं लभते कामं केशवस्यानुकम्पया ॥
एकवस्त्रेण विप्रेन्द्र न कुर्य्यात् पूजनं हरेः ।
कुर्य्याद्वापि तदा पूजां तां न गृह्णाति केशवः ॥
अधौतेन च वस्त्रेण या पूजा कमलापतेः ।
विफला मा च पूजा स्यान्न च विष्णः प्रसोदति
यस्त्ववद्वशिखः पूजां चक्रिणः कुरुते जनः ।
पूजाफलं न चाप्नोति अनिर्ग्राह्या च सा भवेत् ॥
असंस्कृतगृहे पूजा क्रियते या जगत्पतेः ।
सा पूजा ब्राह्मणश्रेष्ठ अनिर्ग्राह्या भवेत् खलु ॥
स्नानं देवार्च्चनञ्चैव दानञ्च पितृतर्पणम् ।
तिलकेन विना विप्र न च कुर्य्याद्विचक्षणः ॥
तिलकान्न गृहोत्वा यत् पुण्यकर्म्म विधीयते ।
भस्मीभवति तत् सर्व्वं कर्त्ता च नारकी भवेत्
शङ्खचक्रगदापद्मेरङ्कितं यस्य दृश्यते ।
शरीरं ब्राह्मणश्रेष्ठ विज्ञेयः सोऽच्य तः स्वयम् ॥”
इत्यादि ॥
“त्रिपत्रीकृतदूर्व्वाभिराश्विने योऽर्च्चयेद्धरिम् ।
दूर्व्वेव सन्ततिस्तस्य अविच्छिन्ना प्रवर्त्तते ॥
आश्विने मासि यो दद्याद्धरये कर्क्कटीफलम् ।
शोको न जायते तस्य कदाचिद्धृदये द्विज ॥ * ॥
कार्त्तिके तु समायाते सर्व्वमासोत्तमे शुभे ।
दामोदरं देवदेवं भक्त्या प्राज्ञः प्रपूजयेत् ॥
कार्त्तिके मासि विप्रेन्द्र विष्णुप्रीणनहेतवे ।
यथोक्तविधिना प्राज्ञः प्रातःस्नानं समाचरेत् ॥
आमिषं मैथुनञ्चैव कार्त्तिके मासि यस्त्यजेत् ।
जन्मान्तरार्ज्जितैः पापैर्म्मुक्तो याति परां गतिम् ॥
तुलाराशिगते सूर्य्ये प्रातःस्नानं द्विजोत्तम ।
हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥
आमिषं मैथुनञ्चैव कार्त्तिके यस्तु न त्यजेत् ।
जन्मजन्मनि विप्रेन्द्र स भवेत् ग्राम्यशूकरः ॥
द्विर्भोजनं परान्नञ्च तैलञ्च वैष्णवो जनः ।
आयाते कार्त्तिके मासि यत्नादपि परित्यजेत् ॥
दामोदराय नभसि प्रदीपं यस्तु यच्छति ।
फलं तस्य प्रवक्ष्यामि समासेन शृणु द्विज ॥
ब्रह्महत्यादिभिः पापैर्व्विमुक्तः क्लेशदायकैः ।
दामोदरपुरं गत्वा तिष्ठेत् कोटियुगावधि ॥
दीपं ज्वलन्तं नभसि त्रिदशा वासवादयः ।
विलोक्य हर्षिताः सर्व्वे वदन्तीति परस्परम् ॥
असौ पुण्यात्मनां श्रेष्ठः केशवार्च्चनतत्परः ।
प्रदीपं कार्त्तिके मासि यतो यच्छति चक्रिणे ॥
आगमिष्यति पुण्यात्मा कदायं त्रिदिवं प्रति ।
करिष्यामि कदा सख्यमनेन हरिसेविना ॥
मुहूर्त्तमपि यो दद्याद्दीपं नभसि चक्रिणे ।
कात्तिके मासि विप्रे न्द्र तस्य तुष्टः सदा हरिः ॥
दद्यादक्षयदीपं यः कार्त्तिके हरिमन्दिरे ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥
तुलसीदललक्षैर्यः कार्त्तिके पूजयेद्धरिम् ।
लक्षैकवाजिमेधस्य मानवो लभते फलम् ॥
विल्वच्छदनलक्षेण योऽर्च्चयेत् विष्णुमव्ययम
कार्त्तिके शङ्करं वापि लभते सोऽपि तत् फलम्
कार्त्तिके वकपुष्पेण हरिपूजनकृन्नरः ।
परम मोक्षमाप्नोति प्रसादाज्जगतीपतेः ॥
यत्किञ्चित् कार्त्तिके मासि विष्णुमुद्दिश्य दीयते
तदक्षयं भवेत् सर्व्वं सत्यमेतन्मयोच्यते ॥
घृताक्तं शूरणान्नं यः कार्त्तिके विष्णवे नरः ।
दद्याद्दिने दिने विप्र तस्य विष्णुपुरे स्थितिः ॥
प्रफुल्लपद्मपुष्पेण सितेनाप्यसितेन वा ।
योऽर्श्चयेत् कमलाकान्तंतस्य किं भुवि दुर्लभम्
कमलैः कार्त्तिके मासि सितैर्व्वा लोहितैस्तथा ।
संपूज्य पद्मिनं मर्त्यो लभते परमं पदम् ॥
प्रदत्तं कार्त्तिके मासि हरये येन पङ्कजम् ।
न दत्तं तेन किं विप्र विष्णवे दैत्यजिष्णवे ॥
एकमेवाम्बुजं यस्तु ददाति कैटभारये ।
तस्मै किं भगवान् विष्णुर्न ददाति श्रियः पतिः ॥
कमलैः कार्त्तिके मासि येन नाराधितो हरिः ।
जन्मजन्मनि तद्गेहे कमला न हि तिष्ठति ॥
पद्यबीजानि यो दद्यात् केशवाय महात्मने ।
स जायते विप्रकुले शुद्धे च प्रतिजन्मनि ॥
ब्राह्मणस्य कुले जातः स चतुर्व्वेदविद्भवेत् ।
धनवान् बहुपुत्त्रश्च कुटुम्बानाञ्च पोषकः ॥
नास्ति पद्मसमं पुष्पं जैमिने सत्यमुच्यते ।
येन संपूज्य गोविन्दं पापात्मापि च मोक्षभाक् ॥
सत्यं सत्यं पुनः सत्यं सत्यमेव मयोच्यते ।
कमलैर्हरिमभ्यर्च्च्य लभते परमं पदम् ॥
एकमेवारविन्दं यः प्रददाति मुरारये ।
तस्य नास्ति पुनजन्म ससारेऽस्मिन् सुभैरवे ॥”
इति पाद्मे क्रियायोगसारे १२ अध्यायः ॥ * ॥
व्यास उवाच ।
“मार्गशीर्षे द्विजश्रे ष्ठ महालक्ष्म्या समन्वितम्
पूजयेदव्ययं विष्णं भक्तिभावेन वैष्णवः ॥
उच्छिष्टदेशे विप्रेन्द्र तथेव पतितालये ।
दुर्गन्धैश्च परिव्याप्ते स्थाने विष्णुं न पूजयेत् ॥
पाषण्डानां समीपे तु महापातकिनां तथा ।
असत्यभाषिणाञ्चैव न कुर्य्याद्विष्णुपूजनम् ॥
तस्मादेकमना भूत्वा भक्तिश्रद्धासमन्वितः ।
पूजयेत् कमलाकान्तं चतुर्व्वर्गफलाप्तये ॥
शाल्यन्नं सघृतञ्चैव मुद्गपूपसमन्वितम् ।
सवास्तूकादिशाकञ्च दद्यात् सदधि विष्णवे ॥
नागरङ्गफलं दिव्यं सुपक्वं यस्तु यच्छति ।
केशवाय द्विजश्रे ष्ठ सोऽस्माभिरपि पूज्यते ॥
यद्यन्यं नूतनं वस्तु प्रियं भगवतो हरेः ।
तदेवाग्रहायणे मासि भक्त्या दद्यान्मुरारये ॥ * ॥
पौषे मासि समायाते श्रीकृष्णं वरदं प्रभुम् ।
नित्यमिक्षुरसैर्द्दिव्यैः स्नापयेद्वैष्णवो जनः ॥
यः स्नापयति विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् ।
इह भुङ्क्ते सुखं सर्व्वं मृतो यातीक्षुसागरम् ॥
यो दद्यादिक्षुनैवेद्यं देवदेवाय विष्णवे ।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ॥
सदुग्धं पृथुकं पौषे दधिभिर्व्वा समन्वितम् ।
दत्त्वा मुरारये मर्त्त्यः सर्व्वान् कामानवाप्नु यात्
सव्वं पुरातनं वस्त्रं दूरीकृत्य मुरारये ।
शीतस्य वारणार्थाय दद्याद्वस्त्रञ्च नूतनम् ॥
पौषे संक्रमणे विप्र सलक्ष्मीकाय विष्णवे ।
दद्यान्मुमुक्षुर्म्मनुजो दशवर्णञ्च पिष्टकम् ॥
यस्तु शङ्खध्वनिं कुर्य्यात् संपूज्य कमलापतिम् ।
तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः ॥
अगम्यागमनाच्चैव विमुक्तः सर्व्वपातकैः ।
शेषे विष्णुपुरं गत्वा विष्णुना सह मोदते ॥
वैनतेयाञ्चितां घण्टां यस्तु वादयते हरेः ।
पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम् ॥
अभक्षभक्षणाच्चैव मुक्तः पापैः सुदारुणैः ।
प्रयाति मन्दिरं विष्णो रथमारुह्य शोभनम् ॥
तत्र भुक्त्वाखिलं भोगं कल्पकोटिशतावधि ।
पृष्ठ ५/४१३
पुनरागत्य धरणीं चतुर्व्वेदी द्विजो भवेत् ॥
तत्र भुक्त्वा सुखं सर्व्वं शोकदुःखविवर्ज्जितः ।
पुनर्व्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमम् ॥
बीणां वादयते यस्तु पूजाकाले जगत्पतेः ।
पण्डितानामग्रणीः स्यात् प्रतिजन्मनि जन्मनि ॥
मृदङ्गवाद्यकृद्यस्तु पूजायां कैटभद्विषः ।
तस्य प्रसन्नो देवेशो ददात्यभिमतं फलम् ॥
डमुरुं डिण्डिमञ्चव झर्झरीं मधुरीं तथा ।
पटहं दुन्दुभिञ्चैव काहलं सिन्धुवादनम् ॥
कांस्यञ्च करतालञ्च वेणुं वादयते च यः ।
पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय ॥
स्तेयाद्यैः पातकैर्म्मुक्तो मन्दिरं याति चक्रिणः ।
परमं स्थानमासाद्य तत्रैव परिमुच्यते ॥
करशब्दञ्च यः कुर्य्यात् पूजाकाले जगद्गुरोः ।
मुखवाद्यञ्च विप्रेन्द्र तस्य पुण्यं मयोच्यते ॥
कोटिकोटिकुलैर्युक्तः प्रयाति हरिमन्दिरम् ।
ज्ञानमासाद्य तत्रैव मोक्षमक्षयमाप्नुयात् ॥
विष्णोरायतने यस्तु भक्तियुक्तः प्रनृत्यति ।
स याति ब्राह्मणश्रे ष्ठ तद्विष्णोः परमं पदम् ॥
यस्तु गायति गीतानि भक्त्या नारायणाग्रतः ।
स नर्त्तकत्वमाप्नोति गन्धर्व्वाणां पुरेषु च ॥
स्तौति स्तोत्रं जगन्नाथं यो भक्त्या वैष्णवो जनः ।
तस्य प्रसन्नो भगवान् सर्व्वान् कामान् प्रयच्छति
मासे मासे हरिं यस्तु विधिनानेन पूजयेत् ।
अचिरेणैव विप्रर्षे प्रसादयति सोऽच्युतम् ॥
जगदुदधिमिमं ये तर्त्तुमिच्छन्ति मर्त्याः
प्रचुरतरगभीरं सर्व्वदुःखप्रदञ्च ।
परमपुरुपपादाम्भोजयुग्मं मनोज्ञं
त्रिदशनिवहसेव्यं ते तु सर्व्वे यजन्तु ॥”
इति पाद्मे क्रियायोगसारे १३ अध्यायः ॥ * ॥
अथ द्वात्रिंशत् सेवापराधाः । भगवद्भक्तानां
क्षत्त्रियसिद्धान्नभोजनम् १ अनिषिद्धदिने दन्त-
धावनमकृत्वा विष्णोरुपसर्पणम् २ मैथुनं
कृत्वास्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरं
स्पृष्ट्वास्नात्वा विष्णुकर्म्मकरणम् ४ रजस्वलां
स्पृष्ट्वा विष्णुगृहप्रवेशनम् ५ मानवं शवं स्पृष्ट्वा-
स्नात्वा विष्णुंसन्निधावस्थानम् ६ विष्णुं स्पृशतः
पायुवायुप्रयोगः ७ विष्णोः कर्म्म कुर्व्वतः पुरीष-
त्यागः ८ विष्णुशास्त्रमनादृत्य शास्त्रान्तर-
प्रशंसा ९ अतिमलिनं वासः परिधाय विष्णु-
कर्म्माचरणम् १० अविधानेनाचम्य विष्णोरुप-
सपणम् ११ विष्णोरपराधं कृत्वा विष्णोरुप्र-
सर्पणम् १२ क्रुद्धस्य विष्ण्वस्पर्शनम् १३ निषिद्ध-
पुष्पेण विष्ण्वर्च्चनम् १४ रक्तं वासः परिधाय
विष्णोरुपसर्पणम् १५ अन्धकारे दीपेन विना
विष्णोश्च स्पर्शनम् १६ कृष्णवस्त्रं परिधाय विष्णोः
कर्म्माचरणम् १७ वायसोद्धृतवासः परिधाय
विष्णोः कर्म्माचरणम् १८ विष्णवे कुक्कुरोच्छिष्ट-
दानम् १९ वराहमांसं भुक्त्वा विष्णोरुप-
सर्पणम् २० हंसजालपदसरारिमांसं भुक्त्वा
विष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तमप्रक्षाल्य
विष्णोः स्पर्शनं कर्म्मकरणं वा २२ श्मशानं
गत्वास्नात्वा विष्णूपसर्पणम् २३ पिण्याकं भुक्त्वा
विष्णोरुपसर्पणम् २४ विष्णवे वराहमांस-
निवेदनम् २५ मद्यमादाय पीत्वा वा स्पृष्ट्वा
विष्णुगृहप्रवेशनम् २६ परकीयेणाशुचिना
वस्त्रेण परिहितेन विष्णुकर्म्माचरणम् २७
विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्ध-
पुष्पेऽप्रदाय धूपदीपदानम् २९ उपानहावारुह्य
विष्णुस्थानप्रवेशनम् ३० भेरीशब्देन विना विष्णु-
प्रबोधनम् ३१ अजीर्णे सति विष्णुस्पर्शनम् ३२ ।
एतदुपलक्षणम् । इत्याह्निकाचारतत्त्वम् ॥ * ॥
अपि च ।
धरण्युवाच ।
“तवापराधात् देवेश वर्ज्यान् यान् वैष्णवेन च ।
निरापराधो मनुजः सापराधश्च जायते ॥
कर्म्मणाचरणे येन करणेन जुगुप्सितम् ।
तच्च पूजाफलं सर्व्वं जायते तद्वदस्व मे ॥
वराह उवाच ।
कर्म्मणा मनसा वाचा ये पापरुचयो जनाः ।
भक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम् ॥
मैथुनं शवसंस्पर्शं पुरीषोत्सगमेव च ।
सूतक्युदक्याः क्षपणं स्पर्शनं मेहनं तथा ॥
अभाष्यभाषणं कोपं पिण्याकस्य च भक्षणम् ।
रक्तपारक्यमलिनं वस्त्रधारित्वनीलिजम् ॥
गुरोश्चालीकनिर्ब्बन्धं पतितान्नस्य भक्षणम् ।
अभक्ष्यभक्षणञ्चैव तण्डुलीयविभीतकम् ॥
अदानं तु वरान्नस्य जालपादवराकयोः ।
भक्षणं देवतागारे सोपानत्कोपसर्पणम् ॥
तथैव देवपूजाजां निषिद्धकुसुमार्च्चनम् ।
अनुत्तार्य्य च निर्म्माल्यं पूजा जीर्णान्धकारयोः ॥
पानं सुराया देवस्य अन्धकारे प्रबोधनम् ।
वातकर्म्मार्च्चने विष्णोरनमस्करणं तथा ॥
अपराधास्त्रयस्त्रिंशत् समाख्याता मया धरे ।
एभिर्युक्तस्तु पुरुषो विष्णुं नैव प्रपश्यति ॥
दूरस्थो न नमस्कारं कुर्य्यात् पूजा तु राक्षसी ॥”
तत्प्रायश्चित्तं यथा, --
“एकरात्रं द्विरात्रं वा त्रिरात्रं स्नानमेव च ।
स्रवासाः पञ्चगव्याशी मलवस्त्रान्तिकं क्रमात् ॥
नीलीरङ्गापनोदार्थं गोमयेन प्रघर्षणम् ।
प्राजापत्येन शुद्धिः स्यात् नीलीवस्त्रस्य धार-
णात् ।
चान्द्रायणद्वयं कुर्य्यात् गुरोः क्षमितमुत्तमम् ।
चान्द्रायणं पराकञ्च पतितान्नस्य भक्षणात् ॥
चान्द्रायणं पराकञ्च प्राजापत्यं तथैव च ।
गोप्रदानञ्च भोज्यञ्च अभक्ष्यस्य च भक्षणे ॥
उपवासस्तु पञ्चाहं पञ्चगव्येन शुध्यति ।
सोपानत्कश्चरेत् पादं कृच्छ्रस्य द्विरभोजनम् ॥
पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शञ्च कारयेत् ।
अनिर्म्माल्ये नमस्कारं स्नानं पञ्चामृतेन तु ॥
सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम् ।
तथैव द्वादशाष्टौ तु प्राजापत्यत्रयं चरेत् ॥
ब्रह्मकूर्च्चेन शुद्धिः स्यात् गोप्रदानत्रयेण च ।
त्रयाणामेकरात्रेण पञ्चामृतनिषेवणात् ॥
मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन् ।
एतत्ते कथितं गुह्यं किमन्यत् श्रोतमिच्छमि ॥
धरण्युवाच ।
अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यमि ।
पूजितः सफलश्चासि अपराधविशोधनः ॥
वराह उवाच ।
संवत्सरस्य मध्ये तु तीर्थे सौकरवे मम ।
कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नु यात् ।
मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ॥
अनयोस्तीर्थयोरेव यः सेवेत सकृन्नरः ।
सहस्रजन्मजनि तानपराधान् जहाति सः ।
स्नानात् पानात् तथा ध्यानात् कीर्त्तनाद्धा
रणात्तथा ।
श्रवणान्मननाच्चैव दर्शनाद् याति पातकम् ॥
इति वाराहपुराणे अपराधप्रायश्चित्तनामा-
ध्यायः ॥

सेवि, क्ली, (सेव्यते लोकैरिति । सेव + इन् ।)

फलविशेषः । सेओ इति हिन्दी भाषा । तत्प-
र्य्यायः । वदरम् २ सिञ्चितिकाफलम् ३ मुष्टि-
प्रमाणम् ४ सेवितम् ५ सेवम् ६ । अस्य
गुणाः । वातपित्तहरत्वम् । गुरुत्वम् । बृंह-
णत्वम् । कफकरत्वम् । वृष्यत्वम् । पाके स्वादु-
रसत्वम् । हितत्यञ्च । इति राजनिर्घण्टः ॥

सेविका, स्त्री, मिष्टान्नविशेषः । सेओयाञि इति

भाषा । यथा, --
“समितावर्त्तिकाः कृत्वा सुसूक्ष्मा यवसन्निभाः ।
शुष्काः क्षीरेण संसाध्या भोज्या घृतसिता-
न्विताः ॥”
अस्या गुणाः ।
“सेविका तर्पणी बल्या गुर्व्वी पित्तानिलापहा
ग्राहिणी सन्धिकृद्रुच्या तां खादेन्नातिमात्रयया”
इति भावप्रकाशः ॥
(दासी । भुजिष्या । इति केचित् ॥)

सेवितः, त्रि, (सेव + क्तः ।) समुपासितगुर्व्वादिः ।

तत्पर्य्यायः । वरिवसितः २ वरिवस्यितः ३
उपासितः ४ उपचरितः ५ । इति शब्दरत्ना-
वली ॥ आराधितः । उपभुक्तः । आश्रितः ।
इति सेवधात्वर्थदर्शनात् ॥ (यथा, महाभारते ।
१ । १७ । ६ ।
“काञ्चनाभरणं चित्रं देवगन्धर्व्वसेवितम् ॥”)

सेविफले, क्ली, । इति राजनिर्घण्टः ॥

सेव्यं, क्ली, (सेव्यते इति । सेव + ण्यत् ।) वीरण-

मूलम् । इत्यमरः । २ । ४ । १६४ ॥ (अस्य
पर्य्यायो यथा, --
“वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् ।
अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥”
इति भावप्रकाशे पूर्व्वखण्डे १ भागे ॥
लामज्जकम् । उशीरवत्पीतच्छवितृणविशेषः ।
तत्पर्य्यायो यथा, --
“लामज्जकं सुनालं स्यादमृणालं लयं लघुः ।
इष्टकापथकं सेव्यं नलदञावदातकम् ॥
इति च भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
पृष्ठ ५/४१४
“स्यादुशोरं मृणालञ्च सेव्यं लामज्जकन्तथा ।”
इति गारुडे २०८ अध्यायः ॥)

सेव्यः, पुं, (सेव्यते इति । सेव + ण्यत् ।) अश्वत्थ-

वृक्षः । इति राजनिर्घण्टः ॥ हिज्जलवृक्षः ।
इति शब्दरत्नावली ॥

सेव्यः, त्रि, (सेवृ सेवने + ण्यत् ।) सेवार्ह्यः ।

इति मेदिनी ॥ (यथा, कथासरित्सागरे । ५२ ।
१३७ ।
“अहं तं सेव्यमन्येषां करिष्यामीश्वरं क्षणात् ।
तत्तं वृणीष्व भर्त्तारं यदि ते पुत्त्रि रोचते ॥”)

सेव्या, स्त्री, (सेव + ण्यत् । टाप् ।) वन्दावृक्षः ।

इति शब्दरत्नावली ॥

सै, क्षित्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०-पर-

अक०-अनिट् ।) सायति । क्षितिः क्षयः । इति
दुर्गादासः ॥

सेंहः, त्रि, (सिंहस्यायमिति । सिंह + अण् ।)

सिंहसम्बन्धी । सिंहतुल्यः । इति सिद्धान्त-
कौमुदी ॥ (स्त्रियां ङीप् । यथा, माघे । १ । ४७ ।
“सटाच्छटाभिन्नघनेन विभ्रता
नृसिंह सैंहौमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरै-
रुरोविदारं प्रतिचस्करे नखैः ॥

सैंहली, स्त्री, (सिंहले देशे भवा । सिंहल +

अण् । ङीप् ।) सिंहपिप्पली । तत्पर्य्यायः । सर्प-
दण्डा २ सर्पाङ्गी ३ ब्रह्मभूमिजा ४ पार्व्वती ५
शैलजा ६ ताम्रा ७ लम्बबीजा ८ उत्कटा ९
अद्रिजा १० सिंहलस्था ११ लम्बदन्ता १२
जीवला १३ जीवाला १४ जीवनेत्री १५
कुरुम्बी १६ । अस्या गुणाः । कटुत्वम् । उष्ण-
त्वम् । जन्तुनाशित्वम् । दीपनत्वम् । कफश्वास-
समीरात्तिशमनत्वम् । कोष्ठशोधनत्वञ्च ।
इति राजनिर्घण्टः ॥ सिंहलद्वीपभवे, त्रि ॥

सेंहिकः, पुं, (सिंहिकायां भवः । अण् ।) राहुः ।

इति शब्दरत्नावली ॥

सहिकेयः, पुं, (सिंहिकाया अपत्यं पुमानिति ।

सिंहिका + ढक् ।) राहुः । इत्यमरः ॥ (यथा,
माघे । २ । ३५ ।
“ध्नियते यावदेवकोऽपि रिपुस्तावत् कुतः सुखम्
पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुर-
द्विषाम् ॥”)

सेकतं, क्ली, (सिकताः सन्त्यत्रेति । अण् ।)

वालुकामयतटम् । इत्यमरः । १ । ३ । २६ ॥
(यथा, कुमारे । १ । २९ ।
“मन्दाकिनीसैकतवेदिकाभिः
सा कन्दुकैः कृत्रिमपुत्त्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां
क्रीडारसं निर्विशतीव बाल्ये ॥”

सैकतः, त्रि, (सिकताः सन्त्यत्रेति । सिकता +

“सिकताशर्कराभ्याञ्च ।” ५ । २ । १०४ । इति
अण् ।) सिकतामयः । इत्यमरः । १ । १० । ९ ॥
तत्पर्य्यायः । सिकतिलः २ सिकतावान् ३ । इति
राजनिर्घण्टः ॥ (यथा, भागवते । ११ । २८ । १२ ।
“शैली दारुमयी लौही लेप्या लेख्या च
सैकती ।
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥”)

सैकतिकं, क्ली, मातृयात्रा । मङ्गलसूत्रकम् ।

इति मेदिनी ॥

सैकतिकः, पुं, (सैकतं पुलिनं प्रियत्वेनास्त्यस्येति ।

सैकय + ठन् ।) संन्यस्तः । क्षपणकः । सन्देह-
जीविनि, त्रि । इति मेदिनी ॥

सैकतेष्टं, क्ली, (सैकतं स्थानमिष्टमस्य ।) आर्द्रकम् ।

इति राजनिर्घण्टः ॥ वालुकामयप्रिये, त्रि ॥

सैतवाहिनी, स्त्री, बाहुदानदी । इत्यमरः । १ ।

१० । ३३ ।

सैद्धान्तिकः, त्रि, (सिद्धान्तं वेत्तीति । सिद्धान्त +

ठक् ।) सिद्धान्तज्ञः । इति हेमचन्द्रः कौमुदी
च ॥

सैनापत्यं, क्ली, (सेनापतेर्भावः कर्म्म वा । सेनापति

+ “पत्यन्तपुरोहितादिभ्यो यक् ।” ५ । १ । १२८ ।
इति यक् ।) सेनापतेर्भावः । तत्कर्म्म च ।
इति सिद्धान्तकौमुदी ॥ (यथा, मनुः । १२ । १०० ।
“सैनापत्यश्च राज्यञ्च दण्डनेतृत्वमेव च ।
सर्व्वलोकाधिपत्यञ्च वेदशास्त्रविदर्हति ॥”
सेनापतेरिदमिति । “दित्यदित्यादित्येति ।” ४ ।
१ । ८५ । इति ण्यः ।) सेनापतिसम्बन्धिनि,
त्रि ॥

सैनिकः, पुं, (सेनां समवैतीति । सेना + “सेनाया

वा ।” ४ । ४ । ४५ । इति पक्षे ठक् ।) सेनायां
समवेतः । इत्यमरः । २ । ९ । ६१ ॥ मिलित-
हंस्त्यश्वरथपादातं सेना तत्र ये समवेताः एक-
देशीभूतास्ते सैन्याः सैनिकाश्च । इति भरतः ॥
(यथा, रघुः । ३ । ६१ ।
“निमेषमात्रादवधूय तद्व्यथां
सहोत्थितः सैनिकहर्षनिस्वनैः ॥”)
सैन्यरक्षकः । इति मेदिनी अमरश्च ॥ प्राणि-
वधनियुक्तः । यथा, श्रीभागवते पञ्चमस्कन्ध-
गद्यम् । ये त्विह वै पुरुषाः पुरुषमेधेन यजन्ते
याश्च स्त्रियो नृपशून् खादन्ति तांश्च ताश्च ते
पशव इह निहता यमसदने यातयन्तो रक्षो-
गणाः सैनिका इव स्वधितिना अवदायासृक्
पिबन्तीति । सैनिकाः प्राणिवधनियुक्ताः । इति
तिथ्यादितत्त्वम् ॥ सेनासम्बन्धिनि, त्रि ॥ (यथा,
महाभारते । ७ । १९० । ४१ ।
“एवं तं निहतं संख्ये ददृशे सैनिको जनः ॥”)

सैन्धवं, क्ली, पुं, (सिन्दौ समुद्रतीरे सिन्धुदेशे वा

भवम् । सिन्धु + “अणञौ च ।” ४ । ३ । ३३ । इति
अण् ।) लवणविशेषः । स तु सिन्धुनद्युपलक्षित-
देशोद्भवः । तत्पर्य्यायः । शीतशिवम् २ माणि-
मन्थम् ३ सिन्धुजम् ४ । इत्यमरः । २ । ९ । ४२ ॥
वशिरम् ५ सिन्धुदेशजम् ६ माणिबन्धम् ७ ।
इति जटाधरः ॥ शितशिवम् ८ । इति शब्द-
रत्रावली ॥ नादेयम् ९ शिवम् १० सिद्धम् ११
शिवात्मजम् १२ पथ्यम् १३ । अस्य गुणाः ।
“सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि ।
पूतं स्वादु त्रिदोषघ्नं व्रणदोषविबन्धजित् ॥
सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् ॥
रसवीर्य्यविपाकेषु गुणाढ्यं कथितं सितम् ॥”
इति राजनिर्घण्टः ॥
अपि च ।
“सैन्धवं लवणं स्वादु दीपनं पाचनं तघु ।
स्निग्धं रुच्यं हिमं वृष्यं सूक्ष्मनेत्रं त्रिदोषहृत् ॥”
इति भावप्रकाशः ॥
किञ्च ।
“सैन्धवं दोषजिद्वृष्यं चक्षुष्यमविदाहि च ।
अग्निसन्दीपनं स्निग्धं रोचनं मधुरं लघु ॥”
इति राजवल्लभः ॥
तत्तु हविष्यान्नम् । यथा, स्मृतिः ।
“लवणे सेन्धवसामुद्रे गव्ये च दधिसर्पिषी ।”
इति हविष्यान्नगणने तिथ्यादितत्त्वम् ॥

सैन्धवः, पुं, (सिन्धुरभिजनोऽस्येति । सिन्धु +

“सिन्धुतक्षशिलादिभ्योऽणञौ ।” ४ । ३ । ९३ । इति
अण् ।) घोटकः । स तु सिन्धोरदूरभवः ।
विकारसंघेति अदूरभवार्थे ष्णः । इत्यमर-
भरतौ । २ । ८ । ४४ । (यथा, भागवते । ९ । १ । २३ ।
“स एकदा महाराज ! विचरन् मृगयां वने ।
वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥”
सिन्धुदेशाधिपतिः । जयद्रथः । यथा, महा-
भारते । १ । १ । १९६ ।
“यदा द्रोणः कृतवर्म्मा कृपश्च
कर्णो द्रौणिर्भद्रराजश्च शूरः ।
अमर्षयन् सैन्धवं वध्यमानं
तदा नाशंसे विजयाय सञ्जय ॥”
सिन्धुदेशोत्पन्नमात्रे । यथा, तत्रैव । ३ । ५१ ।
२४
“हारहूनांश्च चीनांश्च तुखारान् सैन्धवांस्तथा ॥”)

सैन्धी, स्त्री, तालादिरसनिर्य्यासः । तत्पर्य्यायः ।

हाला २ । अस्या गुणाः । शीतत्वम् । कषाय-
त्वम् । अम्लत्वम् । पित्तदाहनाशित्वम् । वात-
दत्वञ्च । इति राजनिर्घण्टः ॥

सैन्यं, क्ली, (सेना एव । चतुवर्णादित्वात् ष्यञ् ।)

सेना इत्यमरः । २ । ८ । ७८ ॥ (यथा,
मार्कण्डेये । ८७ । २१ ।
“हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् ।
मुण्डञ्च सुमहावीर्य्यं दिशो भेजे भयातुरम् ॥”)

सैन्यः, पुं, (सेनां समवैतीति । सेना + “सेनाया

वा ।” ४ । ४ । ४५ । इति ण्यः ।) सेनासमवेतः ।
इत्यमरः । २ । ८ । ६१ । “मिलितहत्स्यश्वरथ-
पादातं सेना तत्र ये समवेता एकदेशीभूतास्ते
सैन्याः सैनिकाश्च ।” इति भरतः ॥ किञ्च ।
“सैन्यं क्लीवं बलेऽंशे ना समवेते तु वाच्यवत् ॥”
इति मेदिनी ॥

सैन्यपृष्ठं, क्ली, (सैन्यस्य पृष्ठम् ।) सैन्यस्य पश्चा-

द्भागः । यत्र स्थिते राजा स्वसैन्यं प्रतिगृह्णाति ।
तत्पर्य्यायः । प्रतिग्रहः २ । इत्यमरः ॥ परि-
ग्रहः ३ । इति भरतः ॥ पतद्ग्रहः ४ । इति
टीकान्तरम् ॥
पृष्ठ ५/४१५

सैमन्तिकं, क्ली, सिन्दूरम् । इति केचित् ॥ सीमन्त-

शब्दात् ष्णिकप्रत्ययेन निष्पन्नम् ॥

सैरन्ध्री, स्त्री, (स्वैरं स्वाच्छन्द्यं धरतीति । धृ +

मूलविभुजादित्वात् कः । पृषोदरादित्वात्
साधुः ।) अन्यवेश्मस्था स्वतन्त्रा शिल्पजीविनी ।
इत्यमरः । २ । ६ । १८ । (यथा, महाभारते ।
३ । ६५ । ५१ ।
“सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् ।
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् ॥”)
द्रौपदी । इति हेमचन्द्रः ॥ (वर्णसङ्करसम्भूत-
स्त्री । यथा, महाभारते । १३ । ४८ । १९ ।
“अगम्यागमनाच्चैव जायते वर्णसङ्करः ।
बाह्यानामनुजायन्ते सैरन्ध्र्यां मागधेषु च ।
प्रसाधनोपचारज्ञमदासन्दासजीवनम् ॥”)

सैरिकः, पुं, (सीर + ठक् ।) सीरेण लाङ्गलेन

खनति यः । कृषान् इति भाषा ॥ (सीरं वह-
तीति । सीर + “हलसीरात् ठक् ।” ४ । ४ ।
८१ । इति ठक् ।) सीरस्य वोढा । हेलेगरु-
इति भाषा ॥ (सीरस्येदमिति । “हलसीरात्
ठक् ।” ४ । ३ । १२४ । इति ठक् ।) सीर-
सम्बन्धिनि, त्रि । तेषां पर्य्यायः । हालिकः २
लाङ्गलिकः ३ । इत्यमरः । २ । ९ । ६४ ॥

सैरिन्ध्री, स्त्री, (स्वैरं स्वातन्त्र्यं धरतीति । धृ +

मूलविभुजादित्वात् कः । पृषोदरादित्वात्
साधुः । गौरादित्वात् ङीष् ।) परवेश्मस्था
स्ववशा शिल्पकारिका । इत्यमरः । २ । ६ ।
१८ ॥ तत्पर्य्यायः । सैरन्ध्री २ सैरिन्ध्रिः ३ । इति
तट्टीका ॥ (यथा, महाभारते । ४ । ८ । २ ।
“वासश्च परिधायैकं कृष्णं सुमलिनं महत् ।
कृत्वा वेशं हि सैरिन्ध्य्राः कृष्णा च व्यचरत्
तदा ॥”)
वर्णसङ्करसम्भूतस्त्री । महल्लिका । इति मेदिनी ।
द्रौपदी । इति धरणिः ॥ (यथा, महाभारते ।
४ । २३ । ५ ।
“यथा सैरिन्ध्रीदोषेण न ते राजन्निदं पुरम् ।
विनाशमेति वै क्षिप्रं तथा नीतिर्विधीयताम् ॥”

सैरिभः, पुं, (सीरे लाङ्गलवहने इभ इव । शक-

न्धादित्वात् साधुः । ततः स्वार्थे अण् ।) महिषः ।
इत्यमरः । २ । ५ । ४ ॥ स्वर्गः । इति त्रिकाण्ड-
शेषः ॥

सैरीयः, पुं, (सीरे भवः । अण् । सैरः कर्षस्तत्र

भवः । वृद्धात् छः ।) झिण्टी । इति शब्द-
रत्नावली ॥

सैरीयकः, पुं, (सैरीय एव । स्वार्थे संज्ञायां वा

कन् ।) झिण्टी । इत्यमरः । २ । ४ । ७५ ॥
अस्य गुणः । कफवातनाशित्वम् । इति राज-
वल्लभः ॥

सैरेयः, पुं, (सैरे कर्षे भवः । सैर + “नद्यादिभ्यो

ढक् ।” ४ । २ । ९७ । इति ढक् ।) झिण्टी । इति
शब्दमाला भरतश्च ॥ (अस्य पर्य्यायो यथा, --
“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।
सहाचरः सहचरः स च भिन्द्यपि कथ्यते ॥”
अथास्य गुणाः ।
“सैरेयः कुष्ठवातास्रकफकण्डूविषापहः ।
तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

सैरेयकः, पुं, (सैरेय एव । स्वार्थे कन् ।) झिण्टी ।

इति राजनिर्घण्टो भरतश्च ॥ (अस्य पर्य्यायो
यथा, भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ।
“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।
सहाचरः सहचरः स च भिन्द्यपि कथ्यते ॥”)

सैवालं, क्ली, शैवालम् । यथा, --

“या पांशुपाण्डरवपुर्व्विरसा पुरासीत्
सैवालकाङ्कुरलतामधुना विभर्त्ति ।
वक्रं प्रसर्पति तनोर्वितनोति लक्ष्मीं
प्रायः पयोधरसमुन्नतिरत्र हेतुः ॥”
इति प्रसिद्धश्लेषकाव्यम् ॥

सोः, स्त्री, पार्व्वती । इति केचित् ॥ षोधातोः

क्विप्प्रत्ययेन निष्पन्ना ॥

सोढः, त्रि, (सह मर्षणे + क्तः । “सहिवहोरोद-

वर्णस्य ।” ६ । ३ । ११२ । इति अवर्णस्य
ओत् ।) क्षान्तः । इत्यमरः । ३ । १ । ९७ ॥
दुःखादिसहनशीलः । इति तट्टीकायां नील-
कण्टः ॥

सोढा, [ऋ] त्रि, (सहते इति । सह + तृच् ।)

क्षमायुक्तः । शक्तः । इति मेदिनी ॥ (यथा,
महाभारते । ७ । २६ । ६ ।
“सोढा शस्त्रनिपातानामग्निस्पशस्य चानघ ।
स पाण्डवबलं सर्व्वमद्येको नाशयिष्यति ॥”)

सोत्कण्टः, त्रि, (उत्कण्टया सह वर्त्तमानः ।)

उत्कण्टायुक्तः । तत्पर्य्यायः । उत्कः २ उन्मनाः
३ । इति जटाधरः ॥ (यथा, कथासरित्-
सागरे । ३१ । ४५ ।
“तत्रोद्यानगत सा तं वत्सेशं सख्युदीरितम् ।
ददर्श दूरात् सोत्कण्ठा चकीरीवामृतत्वि-
षम् ॥”)

सोत्प्रासं, क्ली, (उत्प्रासेन सह वर्त्तमानम् ।)

प्रियावाक्यम् । यथा, शब्दरत्नावल्याम् ।
“सोल्लुण्टनन्तु सोत्प्रासं चटु चाटु प्रियोदितम् ॥”

सोत्प्रासः, पुं, (उत्प्रासेन आधिक्येन सह वर्त्त-

मानः ।) सशब्दहास्यम् । यथा, --
“सोत्प्रास आच्छुरितकमवच्छुरितकं तथा ।
अट्टहासो महाहासो हासः प्रहास इत्यपि ॥”
इति शब्दरत्नावली ॥

सोदयं, त्रि, उदयेन सह वर्त्तमानम् । वृद्धियुक्तम् ।

सुद् समेत् इति भाषा । यथा, --
“दत्तां कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम्
मृतायां वर आदद्यात् परिशोध्योभयव्ययम् ॥”
इत्युद्वाहतत्त्वधृतयाज्ञवल्क्यवचनम् ॥

सोदरः, पुं, (सह समानं उदरं यस्य । सहस्य

सः ।) सहोदरः । इति शब्दरत्नावली ॥
(यथा, मनुः । ८ । २९९ ।
“भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास्ताड्याः स्यूरज्वा वेणुदलेन वा ॥”)

सोदरा, स्त्री, सहोदरा भगिनी । इति सोदर-

शब्दादाप्प्रत्ययेन निष्पन्ना ॥

सोदर्य्यः, पुं, (समानोदरे शयितः । सोदर +

“सोदरात् यः ।” ४ । ४ । १०९ । इति यः ।) सहो-
दरः । इत्यमरः । २ । ६ । ३४ ॥ (यथा, रघुः । १५ । २६ ।
“स हत्वा लवणं वीरस्तदा मेने महौजसम् ।
भ्रातुः सोदर्य्यमात्मानमिन्द्रजिद्वधशोभिनः ॥”)

सोनहः, पुं, लसुनम् । इति शब्दरत्नावली ॥

सोन्मादः, त्रि, (उन्मादेन सह वर्त्तमानः ।)

उन्मदः । उन्मदिष्णुः । तस्य रूपान्तराणि
यथा ! उन्मादः । सून्मादः । सून्मदः । इत्य-
मरटीकायां भरतः । ३ । १ । २३ ॥

सोपकरणं, त्रि, उपकरणेन सह वर्त्तमानम् ।

उपकरणविशिष्टम् । यथा, --
“एवञ्च अमुककाम इति सोपकरणं वत्सतरी-
चतुष्टययुक्तं वृषमिति चाभिलप्य उत्सर्गः सङ्ग-
च्छते ।” इति वृषोत्सर्गतत्त्वम् ॥ इदं सोप-
करणमामान्ननैवेद्यममुकदेवतायै नमः । इति
च पूजापद्धतिः ॥

सोपकारः, त्रि, उपकारविशिष्टः । उपकारेण

सह वर्त्तमान इति बहुव्रीहिसमासे कृते सह-
शब्दस्य सादेशेन निष्पन्नः ॥

सोपधं, त्रि, (उपधया सह वर्त्तमानमिति ।)

सच्छद्मदानादि । यथा हारीतः । अथासद्द्रव्य-
दानमस्वर्ग्यं यच्च दत्त्वा परितप्यते । तह्यदान-
मफलं यच्चोपकारिणे ददाति तन्मात्रं परि-
क्लिष्टं यच्च सोपधं ददाति अन्यश्रावितमल्पं
यच्चापात्राय ददाति अनिष्टदानं स्रवति यच्च
दत्त्वा प्रकीर्त्ताते स्मयदानं यच्चाश्रद्धया ददाति
क्रोधाद्राक्षसं यच्चाक्रुश्य ददाति दत्त्वा वाक्रो-
शति असत्कृतं पैशाचं यच्चावज्ञातं ददाति
दत्त्वा वावजानीते मुमूर्षोस्तामसं यच्चाप्रकृतो
ददाति । एते दानोपसर्गा यैरुपसृष्टं दान-
मप्रसिद्धमस्वर्ग्य मयशस्यमध्रुवफलं भवत्यल्पफलं
वेति । तर्हि त्यागानन्तरकाले हस्तार्पणसम्भवे-
ऽपि अदानमसमर्पणम् । उपकारिणे व्यसनो-
पकारिणे । तन्मात्रं यथोक्तोपकरणरहितम् ।
सोपधं सच्छद्म । अन्यश्रावितं लोकसम्भाव-
नार्थं प्रकाशितम् । अनिष्टदानं शत्रवे दानम् ।
स्मयो मानभङ्गः । अप्रकृतो भयादिमान् । इति
शुद्धितत्त्वम् ॥

सोपप्लवः, पुं, (उपप्लवेन सह वत्तमानः ।) राहु-

ग्रस्तः चन्द्रः सूर्य्यश्च । इत्यमरः । १ । ४ । १० ॥

सोपवासः, त्रि, (उपवासेन सह वर्त्तमानः ।)

उपवासविशिष्टः । यथा, --
“मत्स्यांस्तु कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥”
इति तिथ्यादितत्त्वे याज्ञवल्क्यवचनम् ॥

सोपाकः, पुं, श्वपाकः । इति केचित् ॥ (चण्डालात्

पुक्कस्यां समुत्पन्नोऽन्त्यजजातिविशेषः । यथा,
मनुः । १० । ३८ ।
“चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥”)
पृष्ठ ५/४१६

सोपाधिः, त्रि, (उपाधिना सद्व वर्त्तमानः ।)

उपाधियुक्तः । प्रतिलाभेच्छादिना दानादिः ।
यथा नारदः ।
“अदत्तन्तु भयक्रोधकामशोकरुगन्वितैः ।
बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितैः ॥
कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥”
प्रतिलाभेच्छया सोपाधिदत्तमुपाध्यसिद्धावसिद्ध-
मिति विवादचिन्तामणिः । इति शुद्धितत्त्वम् ॥

सोपानं, क्ली, (उपानमुपरिगमनं तेन सह विद्य-

मानम् ।) आरोहणम् । इत्यमरः । २ । २ । १८ ॥
इष्टंकादिरचिते पयिठा इति ख्याते । देशान्तरे
खडखडीति यत् प्रसिद्धम् । आरुह्यते अनेन
आरोहणं अनट् । उपपूर्व्वादनितेर्भावे अल्
अनेकार्थत्वादुपानं ऊर्द्धगमनं तेन सह वर्त्तते
सोपानम् । सोपानसिद्धसाध्याः संवाधसमूढ-
सत्राणीति दन्त्यादावुष्मविवेकः । इति भरतः ॥
किञ्च ।
“आरोहणश्च सोपानं पैठा इति समाह्वये ।
सोपाने काष्ठघटिते निःश्रेणिस्त्वधिरोहिणी ॥
निःश्रेणी स्यान्निःश्रयणी तथा निःश्रेयिणी-
त्यपि ॥”
इति शब्दरत्नावली ॥
(यथा, कुमारे । १ । २९ ।
“मध्ये न सा वेदिविलग्नमध्वा
बलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन
कामस्य सोपानमिव प्रयुक्तम् ॥”

सोभाञ्जनः, पुं, शोभाञ्जनः । इत्यमरटीकायां

भरतः । २ । ४ । २१ ॥

सोमं, क्ली, (सुप्रसवैश्वर्य्ययोः + मन् ।) काञ्जिकम् ।

स्वर्गः । इति केचित् ॥

सोमः, पुं, (सौति अमृतमिति । सु प्रसवे +

“अर्त्तिस्तुसुहुस्रिति ।” उणा० १ । १३९ । इति
मन् ।) चन्द्रः । इत्यमरः । १ । ३ । १४ ॥ (यथा,
हरिवंशे । ४ । २ ।
“द्विजानां वीरुधाञ्चैव नक्षत्रग्रहयोस्तथा ।
यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत् ॥”)
कर्पूरः । इति चामरः । २ । ६ । १३० ॥ वानरः ।
कुबेरः । यमः । वायुः । वसुभेदः । (यथा,
मात्स्ये । ५ । २१ ।
“आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥”)
जलम् । सोमलतौषविः । इति मेदिनी ॥ (अस्य
विवरणं यथा, --
“ब्रह्मादयोऽसृजन् पूर्व्वममृतं सोमसंज्ञितम् ।
जरामृत्युविनाशाय विधानं तस्य वक्ष्यते ॥
एक एव खलु भगवान् सोमः स्थाननामाकृति-
वीर्य्यविशेषैश्चतुर्व्विंशतिधा भिद्यते । तद्यथा,
अंशुमान् भूञ्जवांश्चैव चन्द्रमा रजतप्रभः ।
दूर्व्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः ॥
प्रतानवांस्तालवृन्तः करवीरोऽंशवानपि ।
स्वयम्प्रभो महासोमो यश्चापि गरुडाहृतः ॥
गायत्र्यस्त्रैष्टुभः पाङ्क्तो जागतः शाङ्करस्तथा ।
अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ॥
गायत्र्या त्रिपदा युक्तो यश्चोडु पतिरुच्यते ।
एते सोमाः समाख्याता वेदोक्तैर्नामभिः शुमैः ॥
सर्व्वेषामव चैतेषामेको विधिरुपासने ।
सर्व्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते ॥
अतोऽन्यतमं सोममुपयुयुक्षुः सर्व्वोपकरणपरि-
चारकोपेतः प्रशस्तदेशे त्रिवृतमागा कार-
यित्वा हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु
तिथिकरणमुहूर्त्तनक्षत्रेषु अंशुमन्तमादाय-
ध्वरकल्पेनाहृतमभियुतमभिहुतं चान्तरागारे
कृतमङ्गलः सोमकन्दं सुवर्णसूच्या विदार्य्य पयो
गृह्णीयात् सौवर्णे पात्रेऽञ्जलिमात्रं ततः सकृ-
देवोपयुञ्जीत नास्वादयंस्तत उपस्पृश्य शेषम-
प्स्ववसाद्य यमनियमाभ्यामात्मानं संयोज्य वाग्-
यतोऽभ्यन्तरतः सुहृद्भिरुपास्यमानो विहरेत् ॥
रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः ।
आसीत तिष्ठेत् क्रामेच्च न कथञ्चन संविशेत् ॥
सायं वा भुक्तवान् श्रुतशान्तिः कुशशय्यायां
कृष्णाजिनोत्तरायां सुहृद्भिरुपास्यमानः शयीत
तृषितो वा शीतोदकमात्रां पिबेत्ततः प्रात-
रुत्थायोपश्रुतशान्तिः कृतमङ्गलो गां स्पृष्ट्वा
तथैवासीत । तस्य जीर्णे सोमे छर्दिरुपपद्यते
ततः शोणिताक्तं कृमिव्यामिश्रं छर्द्दितवतः सायं
शृतशीतं क्षीरं वितरेत् । ततस्तृतीयेऽहनि
कृमिव्यामिश्रमतिसार्य्यते स तेनानिष्टप्रतिग्रह-
भुक्तप्रभृतिभिर्विशेषैर्मुक्तः शुद्धतनुर्भवति ततः
सायं स्नातस्य पूर्व्ववदेव क्षीरं वितरेत् । क्षौम-
वस्त्रास्तृतायां चैनं शय्यायां शाययेत ततश्चतुर्थ-
ऽहनि तस्य श्वयथुरुत्पद्यते । ततः सर्व्वाङ्गेभ्यः
कृमयो निष्क्रामन्ति तदहश्च शय्यायां पांशुभिर-
वकीर्य्यमाणः शयीत । ततः सायं पूर्व्ववदेव
क्षीरं वितरेत् । एवं पञ्चमषष्ठयोर्दिवसयो-
र्वर्त्तेत केवलसुभयकालमस्मै क्षीरं वितरेत्ततः
सप्तमेऽहनि निर्म्मांसस्त्वगस्थिभूतः केवलं सोम-
परिग्रहादेवोच्छसिति । तदहश्च क्षीरेण सुखो
ष्णेन परिषिच्य तिलमधुकचन्दनानुलिप्तदेहं
पयः पाययेत् । ततोऽष्टमेऽहनि प्रातरेव क्षीर-
परिषिक्तं चन्दप्रदिग्धगात्रं पयः पाययित्वा
पांशुशय्यां समुत्सृज्य क्षौमास्तृतायां शायये-
त्ततो मांसमाप्याय्यते त्वक्चावदलति । दन्त-
नखरोमाणि चास्य पतन्ति । तस्य नवमदिव-
सात् प्रभृत्यणुतैलाभ्यङ्गः सोमवल्ककषायपरि-
षेकः । ततो दशमेऽहन्येतदेव वितरेत्ततोऽस्य
त्वक्स्थिरतामुपैति । एवमेकादसद्वाशयोर्व-
र्त्तेत । तत्र त्रयोदशात् प्रभृति सोमवल्ककषाय-
परिषेकः । एवमाषोडशाद्वर्त्तेत ततः सप्तदशा-
ष्टादशयोर्द्दिवसयोर्द्दशना जायन्ते शिखरिणः
स्निग्धवज्रवैदूर्य्यस्फटिकनिकाशाः समाः स्थिराः
सहिष्णवः । तदा प्रभृति चानवैः शालितण्डुलैः
क्षीरयवागूमुपसेवेत यावत् पञ्चविंशतिरिति ।
ततोऽस्मै दद्याच्छाल्योदनं मृदूभयकालं पयसा
ततोऽस्य नखा जायन्ते विद्रुमेन्द्रगोपकतरुणा-
दित्यप्रकाशाः स्थिराः स्निग्धा लक्षणसम्पन्नाः
केशाश्च जायन्ते त्वक् च नीलोत्पलातसीपुष्पवै-
दूर्य्यप्रकाशा । ऊर्द्घञ्च सामान् केशान् वाप-
येत् वापयित्वा चोशीरचन्दनकृष्णतिलकल्कैः
शिरः प्रदिह्यात् पयसा वा स्नापयेत् ॥
ततोऽस्यानन्तरं सप्तरात्रात् केशा जायन्ते
भ्रमराञ्जननिभाः कुञ्चिताः स्निग्धास्ततस्त्रिरा-
त्रात् प्रथमपरिसरान्निष्क्रम्य मुहूर्त्तं स्थित्वा पुन-
रेवान्तः प्रविशेत्ं । ततोऽस्य षलातैलमभ्यङ्गा-
र्थेऽवचार्य्यम् । यवपिष्टमुद्वर्त्तनार्थे । सुखोष्णञ्च
पयः परिषेकार्थे । अजकर्णकषायमुत्मादंनार्थे ।
सोशीरं कूपोदकं स्नानार्थे । चन्दनमनुलेपनार्थे ।
आमलकरस-विमिश्राश्चास्य यूषसूपविकल्पाः ।
क्षीरमधुकसिद्धञ्च कृष्णतिलमवचारणार्थे । एवं
दशरात्रं ततोऽन्यद्दशरात्रं द्वितीये परिसरे
वर्त्तेत । ततस्तृतीये परिसरे स्थिरीकुर्व्वन्नात्मान-
मन्यदशरात्रमासीत । किञ्चिदातपपवनान् वा
सेवेत पुनश्चान्तः प्रविशेत् । न चात्मानमादर्शेषु
वा निरीक्षेत रूपशालित्वात् ततोऽन्यद्दशरात्रं
क्रोधादीन् परिहरेदेवं सर्व्वेषामुपयोगः ।
विशेषतस्तु वल्लीप्रतानक्षुपादयः सोमा भक्ष-
यितव्याः । तेषान्तु प्रमाणमर्द्धचतुर्थमुष्टयः ।
अंशवन्तं सौवर्णे पात्रेऽभिषुणुयात् । चन्द्र-
मसं राजते चोपज्याष्टगुणमैश्वर्य्यमवाप्येशा-
नन्देवमनुप्रविशति । शेषांस्तु ताम्रमये मृण्मये
वा रोहिते वा चर्म्मणि वितते शूद्रवर्ज्जं त्रिभि-
र्वर्णैः सोमा उपयोक्तव्याः । ततश्चतुर्थे मासे
पौर्णमास्यां शुचौ देशे ब्राह्मणानर्च्चयित्वा कृत-
मङ्गलो निःक्रम्य यथोक्तं व्रजेदिति ॥
ओषधीनाम्पतिं सोममुपयुज्य विचक्षणः ।
दशवर्षसहस्राणि नवान् धारयते तनुम् ॥
नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च ।
तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि ॥
भद्राणां षष्टिवर्षाणां प्रसुतानामनेकधा ।
कुञ्जराणां सहस्रस्य बलं समधिगच्छति ॥
क्षौरोदं शक्रसदनमुत्तरांश्च कुरूनपि ।
यत्रेच्छति स गन्तुं वा तत्राप्रतिहता गतिः ॥
कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः ।
प्रह्वादयति भूतानां मनांसि स महाद्युतिः ॥
साङ्गोपाङ्गांश्च निखिलान् वेदान्बिन्दति तत्त्वतः
चरत्यमोघसङ्कल्पो देववच्चाखिलं जगत् ॥
सर्व्वेषामेव सोमानां पत्राणि दश पञ्च च ।
तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च ॥
एकैकं जायते पत्रं सोमस्याहरहस्तदा ।
शुक्लस्य पौर्णमास्यान्तु भवेत् पञ्चदशच्छदः ॥
शीर्य्यते पत्रमेकैकं दिवसे दिवसे पुनः ।
कृष्णपक्षक्षये चापि लता भवति केवला ॥
अंशुमानाज्यगन्धस्तु कन्दवानजतप्रभः ।
कदल्याकारकन्दस्तु मुञ्जवांल्लशुनच्छदः ॥
चन्द्रमाः कनकाभासो जले चरति सर्व्वदा ।
गरुडाहृतनामा च श्वेताक्षश्चापि पाण्डुरौ ॥
पृष्ठ ५/४१७
सर्पनिर्म्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ ।
तथान्यैर्मण्डलैश्चित्रैश्चित्रिता इव भान्ति ते ॥
सर्व्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः ।
क्षीरकन्दलतावन्तं पत्रै र्नानाविधैः स्मृताः ॥
हिमवत्यर्व्वुदे सह्ये महेन्द्रे मलये तथा ।
श्रीपर्व्वते देवगिरौ गिरौ देवसहे तथा ॥
पारिपात्रे च विन्ध्ये च देवसुन्दे ह्रदे तथा ।
उत्तरेण वितस्तायाः प्रवृद्धा ये महीधराः ॥
पञ्च तेषामधो मध्ये सिन्धुनामा महानदः ।
हठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः ॥
तस्योद्देशेषु वाप्यस्ति मुञ्जवानंशुमानपि ।
काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम् ॥
गायत्र्यस्त्रैष्टुभः पाङ्क्ती जागतः शाङ्करस्तथा ।
अत्र सन्त्यपरे चापि सोमाः सोमसमप्रभाः ॥
न तान् पश्यन्त्यधर्म्मिष्ठाः कृतघ्नाश्चापि मानवाः
भेषजद्वेषिणश्चापि ब्राह्नणद्वेषिणस्तथा ॥”
इति सुश्रुते चिकित्सितस्थाने एकोनत्रिं शत्तमो-
ऽध्यायः ॥ * ॥ “सोमनामौषधिराजः पञ्चदश-
पर्णः स सोम इव हीयते वर्द्धते च ।” इति
चरके चिकित्सास्थाने प्रथमेऽध्याये ॥ * ॥ * ॥)
शिवः । दीधितिः । इत्युणादिकोषः । दिव्यौषधिः ।
सोमलतारसः । इति हेमचन्द्रः ॥ (यथा, मनुः ।
३ । २५७ ।
“मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
अक्षारलवणञ्चैव प्रकृत्या हविरुच्यते ॥”)
अमृतम् । पर्व्वतविशेषः । इति केचित् ॥ * ॥
चन्द्रस्य विवरणं तथा । स च वायुकोणस्त्री-
वैश्यजातिसत्त्वगुणलवणरसमृगशिरोनक्षत्रसमु
द्राणामधिपतिः । इति बृहज्जातकादयः ॥
एकहस्तप्रमाणशरीरः । श्वेतवस्त्रपरिधानः ।
शुक्लवर्णः । दक्षिणहस्तवरदः । गदायुक्तवाम-
हस्तः । दशाश्वः । श्वेतपद्मस्थः । उमाधि-
दैवतः । जलप्रत्यधिदैवतः । सूर्य्याभिमुखः ।
यथा, --
“सामुद्रं वैश्यमात्रेयं हस्तमात्रं सिताम्बरम् ।
श्वेतं द्बिबाहुं वरदं दक्षिणं सगदेतरम् ॥
दशाश्वं श्वेतपद्मस्थं विचिन्त्योमाधिदैवतम् ।
जलप्रत्यधिदैवञ्च सूर्य्यास्यमाह्वयेत्तथा ॥”
इति ग्रहयागतत्त्वम् ॥ * ॥
तस्योत्पत्त्यादिर्यथा, --
ऋषय ऊचुः ।
“सोमः पितॄणामधिपः कथं शास्त्रविशारद ।
तद्वंशे के तु राजानो बभूवुः कीर्त्तिवर्द्धनाः ॥
सूत उवाच ।
आदिष्टो ब्रह्मणा पूर्व्वमत्रिः सर्गविधौ पुरा ।
अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान् प्रभुः ॥
सदानन्दकरं ब्रह्म जगतः क्लेशनाशनम् ।
ब्रह्मविष्ण्वर्करुद्राणामभ्यन्तरमतीन्द्रियम् ॥
शान्तिकृच्छान्तमनसस्तदन्तर्नयने स्थितम् ।
माहात्म्यात्तपसो विप्राः परमानन्दकारकम् ॥
यस्मादुमापतिः सार्द्धमुमया तमधिष्ठितः ।
तद्दृष्ट्वा अष्टमांशेन तस्मात् सोमोऽभवद्विधुः ॥
अथ सुस्राव नेत्राभ्यां धाम तच्चाक्षुषं क्षये ।
दीपयन् विश्वमखिलं ज्योत्स्नया सचराचरम् ॥
तद्दिशो जगृहुर्द्धाम स्त्रीरूपेण सुतेच्छया ।
गर्भो भूत्वोदरे तासामास्थितोऽब्दशतत्रयम् ॥
तास्तमूचुर्व्वयं गर्भमशक्ता धारणे ततः ।
समादायाथ तद्गर्भमेकीकृत्य चतुर्म्मुखः ॥
युवानमकरोद्ध्रह्मा सर्व्वायुधधरं वरम् ।
स्यन्दनेऽथ सहस्राश्वे वेदशक्तिमये प्रभुः ॥
आरोप्य लोकमनयदात्मीयं स पितामहः ।
ततो ब्रह्मर्षिभिः प्रोक्तमस्मत्स्वामी भवत्वयम् ॥
ऋषिभिर्देवगन्धर्व्वैरोषधीभिस्तथैव च ।
तुष्टुबुः सोमदैवत्यैर्ब्रह्माद्या मन्त्रसंग्रहैः ॥
स्तूयमानस्य तस्याभूदधिको महसाञ्च यः ।
तेजोवितानादभवद्भुवि दिव्यौषधीगणः ॥
तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्व्वदा ।
तेनौषधीशः सोमोऽभूत् द्विजेशश्चाभिगद्यते ॥
वेदधामा रसश्चापि यदिदं चन्द्रमण्डलम् ।
क्षीयते वर्द्धते चैव शुक्ले कृष्णे च सर्व्वदा ॥
ततो विंशत्तथा सप्त दक्षः प्राचेतसो ददौ ।
रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्च्चसः ॥”
इति मात्स्ये । २३ । १ -- १५ ॥ * ॥
अपि च ।
महातपा उवाच ।
“ब्रह्मणो मानसः पुत्त्रः अत्रिर्नाम महातपाः ।
तस्य पुत्त्रोऽभवत् सोमो दक्षजामातृतां गतः ॥
सप्तविंशतिर्याः कन्या दाक्षायण्यः प्रकीर्त्तिताः ।
सोमपत्न्योऽपि मान्यास्तास्तासां श्रेष्ठा तु
रोहिणी ॥
तामेव रमते सोमः नेतरा इति शुश्रुम ।
इतराः प्रोचुरागत्य चन्द्रस्यासमतां पितुः ॥
दक्षोऽप्यसकृदागत्य तमुवाच स नाकरोत् ।
समतां सोऽपि तं दक्षः शशापान्तर्हितो भव ॥
एवमुक्तः क्षयं सोमो अगमद्दक्षशापतः ॥
देवा मनुष्याः पशवो नष्टे सोमे सवीरुधः ।
क्षीणाभवंस्तदा सर्व्वा ओषध्यश्च विशेषतः ॥
क्षयं गच्छद्भिरत्यर्थमोषधीभिः सुरर्षभाः ।
मूलेषु वीरुधां सोमः स्थित इत्यूचुरातुराः ॥
तेषां चिन्ताभवत्तीव्रा विष्णुञ्च शरणं ययुः ।
भगवानाह तान् सर्व्वान् ब्रूत किं क्रियते मया
ते चाहुर्देव दक्षेण शप्तः सोमो विनाशितः ।
तानुवाच तदा देवो मथ्यतां कलसोदधिः ॥
ओषध्यः सर्व्वतो देवाः प्रक्षिप्याम्बुषु संयतैः ।
एवमुक्त्वा ततो देवान् दध्यौ रुद्रं हरिः स्वयम् ॥
ब्रह्माणञ्च तथा दध्यौ वासुकिं नेत्रकारणात् ।
ते सर्व्वे तत्र सहिता ममन्थुर्वरुणालयम् ॥
तस्मिंस्तु मथिते जातः पुनः सोमो महीपते ।
योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन् पुरुषः परः ॥
स एव सोमो मन्तव्यो देहिनां जीवसंज्ञकः ।
परेच्छया स मूर्त्तिन्तु पृथक् सौम्यां प्रपेदिवान्
तमेव देवमनुजाः षोडशेमाश्च देवताः ॥
उपजीवन्ति वृक्षाश्च तथैवौषधयः प्रभुम् ॥
रुद्रस्तमेव सकलं दधार शिरसा तदा ।
तदात्मिका भवन्त्यापो विश्वमूर्त्तिरसौ स्मुतः ॥
तस्य ब्रह्मा ददौ प्रीतः पीर्णमासीतिथिं प्रभुः ।
तस्यामुपोषयेद्राजन् तमर्थं प्रतिपादयेत् ॥
स चान्नाहारश्च भवेत् तस्य ज्ञानं प्रयच्छति ।
कान्तिं पुष्टिञ्च राजेन्द्र धनं धान्यञ्च केवलम् ॥”
इति वाराहे सोमोत्पत्तिरहस्यनामाध्यायः ॥ * ॥
तस्य क्षयवृद्धिकारणं यथा, --
ब्रह्मोवाच ।
“राका चानुमती चैव द्विविधा पूर्णिमा मता ।
सिनीवाली कुहूश्चैव अमावास्या द्विधैव तु ॥
अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठिता ।
यस्मात् सोमो वसत्यस्याममावासी ततः स्मृता ॥
पूर्व्वोदितकलाभिन्नपौर्णमास्या निशाकरे ।
पूर्णिमानुमती ज्ञेया पश्चात् स्तमितभास्करे ॥
यस्मात्तामतुमन्यन्ते देवताः पितृभिः सह ।
तस्मादनुमती नाम पूर्णिमा प्रथमा स्मृता ॥
यदा चास्तमिते सूर्य्ये पूर्णचन्द्रस्य चोद्गमः ।
युगपत् सोत्तरारागस्तदानुमतिपूर्णिमा ॥
राकां तामनुमन्यन्ते देवताः पितृभिः सह ।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रूवन् ॥
सिनीवाली प्रमाणन्तु क्षीणशेषो निशाकरः ।
अमावास्यां विशत्यर्कं सिनीवाली ततः स्मृता ॥
कुहेति कोकिलेनोक्तो यः कालस्तु समाप्यते ।
तत्कालसंज्ञा त्वेषा वै अमावस्या कुहूः स्मृता ॥
अनुमत्याः सराकायाः सिनीवाल्याः कुहूंविना
एतासां विरलः कालः कुमात्रेति कुहूः स्मृता ॥”
विरलस्थाने द्विलवेति च पाठः ।
“कलाः षोडश सोमस्य शुक्ले वर्द्धयते रविः ।
अमृतेनामृतं कृष्णे पीयते दैवतैः क्रमात् ॥
प्रथमां पिबते वह्निर्द्वितीयां पवनः कलाम् ।
विश्वेदेवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः ॥
पञ्चमीं वरुणश्चापि षष्ठीं पिबति वासवः ।
सप्तमीमृषयो दिव्या वसवोऽष्टौ तथाष्टमीम् ॥
नवमीं कृष्णपक्षस्य पिबतीन्द्रः कलामपि ।
दशमीं मरुतश्चापि रुद्रा एकादशीं कलाम् ॥
द्वादशीन्तु कलां विष्णुर्धनदश्च त्नयोदशीम् ।
चतुर्द्दशों पशुपतिः कलां पिबति नित्यशः ॥
ततः पञ्चदशीञ्चैव पिबन्ति पितरः कलाम् ।
कलावशिष्टो निष्पीतः प्रविष्टः सूर्य्यमण्डलम् ॥
अमायां विशते रश्मौ अमावासी ततः स्मृता ॥
पूर्व्वाह्णे विशते चार्कं मध्याज्ञे तु वनस्पतिम् ।
अपराह्णे विशत्यप्सु स्वयोनिं वारिसम्भवः ॥
आपः प्रविष्टः सोमश्च शेषया कलयैकया ।
तृणगुल्मलतावृक्षान्निष्पादयति चौषधीः ॥
तमोषधिं स्थितं गावश्चरन्त्यापः पिबन्ति च ।
तदङ्गानुगतं गोभ्यः क्षीरत्वमुपगच्छति ॥
तत् क्षीरममृतं भूत्वा मन्त्रभूतं द्विजातयः ।
स्वाहाकारवषट्कारैर्जुह्वत्याहुतयः क्रमात् ।
हुतमम्निषु देवाय पुनः सोमं विवर्द्धयेत् ॥
एवं संक्षीयते सोमः क्षीणश्चाप्याय्यते पुनः ।
तस्मात् सूर्य्यः शशाङ्कस्य क्षयवृद्धिविधेर्विभुः ॥”
इत्याद्ये देवीपुराणे चन्द्रक्षयवृद्धिनामाध्यायः ॥ *
पृष्ठ ५/४१८
तस्य राहुग्रासकारणं यथा, --
ब्रह्मोवाच ।
“यदयं वदते लीको वालिशत्वान्महामते ।
तदहं संप्रवक्ष्यामि चन्द्रसूर्य्योपरागिकम् ॥
यदि सत्यमयं ग्रस्तस्तेजोराशिर्द्दिवाकरः ।
तत् कथं नोदरस्थेन राहुर्न भस्मसात् कृतः ॥
अथवा राहुणाक्रम्य शत्रुवक्त्रं प्रवेशितः ।
तत् कथं दशनैस्तीक्ष्णैः शतधा न विखण्डितः ॥
विभुक्तश्च पुनर्द्द ष्टस्तथवाखण्डमण्डलः ।
न चास्यापहृतं तेजो न स्थानादपसारितः ॥
यदि वा ह्येष निष्पीतः कथं दीप्ततरोऽभवत् ।
तस्मान्न तेजसां राशी राहोर्व्वक्त्रं गमिष्यति ॥
भक्ष्यार्थं सर्व्वदेवानां सोमः सृष्टः स्वयम्भुवा ।
तत्रस्थममृतञ्चापि सम्भूतं सूर्य्यतेजसा ॥
पिबन्त्यम्बुमयं देवाः पितरश्च स्वधामृतम् ।
त्रयञ्च त्रिंशतञ्चैव त्रयत्रिंशत्तथैव च ।
त्रयश्च त्रिसहस्राश्च देवाः सोमं पिबन्ति ये ॥
राहोरप्यमृतं भागं पुरा सृष्टं स्वयम्भुवा ।
तस्मात्तद्राहुरागत्य पातुमिच्छति पर्व्वसु ॥
उद्धृत्य पार्थिवों छायामभ्राकारां तमोमयः ।
पातुमिच्छन् ततश्चे न्द्रमाच्छादयति छायया ॥
शुक्ले च चन्द्रमभ्येति कृष्णे पर्व्वणि भास्करम् ।
सूर्य्यमण्डलसंस्थस्तु चन्द्रमेव जिघांसति ॥
तस्मात् पिबति तं राहुस्तनुमस्याविनाशयन् ।
अविहिंसन् यथा पद्मं पिबति भ्रमरो मधु ।
चन्दस्थममृतं तद्वदभेदाद्राहुरश्नुते ॥
चन्द्रकान्तो मणिर्यद्वत्तुहिनं क्षरते क्षणात् ।
क्षरन्नपि न हीयेत तेजसा नैव मुच्यते ॥
यथा सूर्य्यमणिः सूर्य्यादुत्पाट्य पावकं शुभम् ।
न भवत्यङ्गहीनोऽपि तेजसा नैव मुच्यते ॥
एवं चन्द्रश्च सूर्य्यश्च छादितावपि राहुणा ।
स्वतेजसा न मुच्येते नाङ्गहीनौ बभूवतुः ॥
पर्व्वस्वथ च चन्द्रस्य माणिक्यकनकाकृतिः ।
सोमो दैवतसंयोगात् छायायोगाच्च पार्थिवात्
राहोश्च वरलब्धाद्वै प्रक्षरेदमृतं शशी ॥
स्वदीहकाले सम्प्राप्ते वत्सं दृष्ट्वा च गौर्यथा ।
स्वाङ्गादेव क्षरेत् क्षीरं तथेन्दोः क्षरतेऽमृतम् ॥
पितेव सूर्य्यो देवानां सोमो मातेव लक्ष्यते ।
यथा मातुः स्तनं पीत्वा जीवन्ते सर्व्वजन्तवः ।
पीत्वामृतं तथा सोमात् तृप्यन्ते सर्व्वदेवताः ॥
सम्भृतं सर्व्वयागेषु तथा यं क्षरते शशी ।
तं क्षरन्तं यथामागमुपजीवन्ति देवताः ॥
तस्मिन् काले समभ्येति राहुरप्यवकर्षति ।
सर्व्वमर्द्धं त्रिभागञ्च पादं पादार्द्धमेव च ॥
आक्रम्य पार्थिवीच्छायां यावन्तं चन्द्रमण्डलम्
स्मृतः स भागो राहोस्तु देवभागास्तु शेषकाः ॥
तृप्तिं विधाय देवानां राहोः पर्व्वगतस्य च ।
चन्द्रो न क्षयमायाति तेजसा नैव मुच्यते ॥
तिथिभागाश्च यावन्तः पुनन्त्यर्कं प्रमाणतः ।
सर्व्वच्छायास्थितः कालस्तावानेव प्रकीर्त्तितः ॥
अतो राहुभुजः सोमः सोमाद्वृद्धिं दिवाकरः ।
पर्व्वकाले स्थितिस्त्वेवं विपरीता पुनः पुनः ॥
अतश्छादयते राहुरभ्रवच्छशिभास्करौ ।
राहुरभ्रकसंस्थानः सोममाच्छाद्य तिष्ठति ॥
उद्धूत्य पार्थिवीं छायां धूममेघ इवोत्थितः ।
चन्द्रस्य यदवष्टब्धं राहुणा भास्करस्य च ॥
तन्नावखण्डितं तस्य केवलं श्यामलीकृतम् ।
कर्द्दमेन यथा वस्त्रं शुक्लमप्युपहन्यते ॥
एकदेशेऽथ सर्व्वं वा राहुणा चन्द्रमास्तथा ।
प्रक्षालितं तदेवेह पुनः शुक्लतरं भवेत् ॥
राहुयुक्तं भवेत्तद्वत् निर्म्मलं चन्द्रमण्डलम् ।
राहुणाच्छादितौ वापि दृष्ट्वा चन्द्रदिवाकरौ ॥
विप्राः शान्तिपरा भूत्वा पुनराप्याययन्ति तम् ।
एवं न गृह्यते सूर्य्यश्चन्द्रमास्तत्र गृह्यते ॥
अबुधास्तं न पश्यन्ति मानुषा मांसचक्षुषः ।
जगत्सम्मोहनञ्चैतत् ग्रहणं चन्द्रसूर्य्ययोः ॥”
इति देवीपुराणे ग्रहणविवेकनामाध्यायः ॥

सोमक्षयः, पुं, (सोमस्य चन्द्रस्य क्षयो यत्र ।)

अमावस्या । इति महाभारते दानधर्म्मः ॥

सोमगर्भः, पुं, (सोमः अमृतं तद्वद्मोक्षो गर्भे

यस्य ।) विष्णुः । इति त्रिकाण्डशेषः ॥

सोमजं, क्ली, (सोमवत् जायते इति । जन + डः ।)

दुग्धम् । इति हेमचन्द्रः ॥ चन्द्रजाते, त्रि ॥

सोमतीर्थं, क्ली, (सोमेन कृतं तीर्थम् ।) प्रभास-

तीर्थम् । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते । ३ । ८३ । १९ ।
“ततो जयन्त्यां राजेन्द्र सोमतीर्थं समाविशेत् ।
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ॥”)
तस्य विवरणं यथा, --
“यत्र तप्तं तपस्तेन सोमेन सुमहात्मना ।
पञ्चवर्षसहस्राणि एकपादेन तिष्ठति ॥
पञ्चवर्षसहस्राणि तथैवोर्द्धमुखः स्थितः ।
एवम्भूतः पुनः पञ्चपञ्चमौनब्रतस्तथा ॥
तथैवैकेन पादेन दश पञ्च च तिष्ठति ।
एवमुग्रं तपः कृत्वा कान्तिमानभवच्च सः ॥
ममापराधान्मुक्तश्च ब्राह्मणानां पतिस्तथा ।
प्राप्नोति यन्महाभागे सोमतोर्थे कृतोदकः ॥
त्रिंशद्वर्षसहस्राणि त्रिंशद्वर्षशतानि च ।
जायते ब्राह्मणः सुभ्रु वेदवेदान्तपारगः ॥
द्रव्यवान् गुणवांश्चैव संविभागी यशस्विनि ।
मद्भक्तश्चैव जायेत अपराधविवर्जितः ॥
स एष ब्राह्मणो भूत्वा संसाराद्विप्रमुच्यते ।
तस्य किञ्चित् प्रवक्ष्यामि सोमतीर्थस्य सुन्दरि ॥
तत्तीर्थं येन विज्ञेयं मम मार्गानुसारिणा ।
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादशीम् ॥
प्रवृत्ते चान्धकारे तु यत्र कश्चिन्न दृश्यते ।
सोमेन च विना भूमे दृश्यते चन्द्रमःप्रभा ॥
आलोकश्चैव दृश्येते सोमस्तत्र न दृश्यते ।
एवं त्वां वच्मि हे भद्रे एष वै विस्मयः पुरः ॥
एतच्चित्रं महाभागे पुण्ये सौकरवे मम ।
सोमतीर्थं विशालाक्षि येन मुच्यन्ति जन्तवः ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृष्णुष्व वसुन्धरे ।
प्रभावमस्य क्षेत्रस्य विस्मयं परमं महत् ॥
अकामा तु मृता तीर्थे आत्मनः कर्म्मनिश्चयात्
मम क्षेत्रप्रभावेण शृगाली मानुषी भवेत् ।
रूपवती गुणवती चतुःषष्टिकलान्विता ॥”
इति वाराहे सौकरवतीर्थमाहात्म्यनामाध्यायः ॥

सोमधारा, स्त्री, (सोमस्य धारेव ।) आकाशम् ।

इति त्रिकाण्डशेषः ॥

सोमपः, पुं, (सोमं पिबतीति । पा + कः ।) यागे

पीतसोमलतारसः । तत्पर्य्यायः । सोमपीती २ ।
इत्यमरः । २ । ७ । ८ ॥ सोमपाः ३ । इति
तट्टीका ॥ (यथा, गीतायाम् । ९ । २० ।
“त्रैविद्या मां सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ॥”)

सोमपत्रः, पुं, (सोमस्य पत्रमिव पत्रमस्यं ।)

तृणविशेषः । उलु खड इति भाषा । यथा, --
“दर्भः पुरश्छदः शप्तः सोमपत्रः परात्प्रियः ॥”
इति शब्दचन्द्रिका ॥
दर्भशब्देऽस्य गुणादयो ज्ञातव्याः ॥

सोमपाः, पुं, (सोमं पिबतीति । पा + क्विप् ।)

यज्ञे सोमलतारसपानकर्त्ता । इत्यमरटीकायां
रामाश्रमः । २ । ७ । ८ ॥ (सोमरसपानशीले,
त्रि । यथा, भागवते । ३ । ३२ । ३ ।
“तत्श्रद्धयाक्रान्तमतिः पितृदेवव्रतः पुमान् ।
गत्वा चान्द्रमसं लोकं सोमपाः पुनरेष्यति ॥”)

सोमपीती, [न्] पुं, (सोमस्य पीतं पानमस्या-

स्तीति । इनिः ।) सोमपः । इत्यमरः । २ ।
७ । ९ ॥ (वाच्यलिङ्गेऽपि दृश्यते । यथा,
महाभारते । १ । १ । १६४ ।
“सीकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ।
शर्य्यातियज्ञे नासत्यौ कृतवान् सोमपीतिनौ ॥”
तस्य रूपान्तरं सोमपीथी । सोमपीवी । इति
केचित् ॥

सोमबन्धुः, पुं, (सोमो बन्धुर्य्यस्य ।) कुमुदः ।

इति शब्दारत्नावली ॥ सूर्य्यः । बुधः । यथा, --
“मित्राणि सूर्य्याच्छशिभौमजीवाः
सूर्य्येन्दुजौ सूर्य्यशशाङ्कजीवाः ।
आदित्यशुक्रौ रविचन्द्रभौमा
बुधार्कजौ चन्द्रजभार्गवौ च ॥”
इति ज्योतिस्तत्त्वम् ।

सोमभूः, पुं, (सोमात् भूरुत्पत्तिर्यस्य ।) जिन-

राजभेदः । इति हेमचन्द्रः ॥ बुधग्रहः । सोम-
पुत्त्रत्वात् । सोमवंशोद्भवे, त्रि ॥

सोमयागः, पुं, (सोमात्मको यागः ।) सोमलता-

रसपानाङ्गकत्रैवार्षिकयज्ञविशेषः । यथा, --
नारद उवाच ।
“सोमयागविधानञ्च ब्रूहि मां मुनिसत्तम ।
कथं तं कारयामास गुरुश्च किं फलं परम् ॥
नारायण उवाच ।
ब्रह्महत्याप्रशमनं सोमयागफलं मुने ।
वर्षं सोमलतापानं यतमानः करोति च ॥
वर्षमेकं फलं भुङ्क्ते वर्षमेकं जलं मुदा ।
त्रैवार्षिकमिदं यागं सर्व्वपापप्रणाशनम् ॥
यस्य त्रैवार्षिकं धान्यं निहितं भूतिवृद्धये ।
अधिकं वापि विद्येत स सोमं पातुमर्हति ॥
पृष्ठ ५/४१९
महाराजश्च देवो वा यागं कर्त्तुमलं मुने ।
न सर्व्वसाध्यो यज्ञोऽयं बह्वन्नो बहुदक्षिणः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ६० । ५४-५८ ॥

सोमयाजी, [न्] पुं, (सोमेन यजते इति । यज

+ णिनिः ।) सोमयागकर्त्ता ॥

सोमयोनि, क्ली, (सोमो योनिर्यस्य ।) चन्दन-

विशेषः । यथा, --
“सुशीतलं चन्दनं यत् तैलपर्णिकमुच्यते ।
उभौ तु तस्य पर्य्यायौ सोमयोनि शिलोद्भवम् ॥”
इति शब्दचन्द्रिका ॥

सोमराजिका, स्त्री, (सोमराजी एव । स्वार्थे

कन् ।) सोमराजी । इतिशब्दरत्नावली ॥

सोमराजी, [न्] पुं, सोमेनं सोमवद्वा राजते

इति । राज + णिनिः ।) ओषधिविशेषः ।
सोमराज इति हाकुच इति च भाषा । तत्प-
र्य्यायः । अवल्गुजः २ सुवल्लिः ३ सोमवल्लिका
४ कालमेषी ५ कृष्णफला ६ वाकुची ७ पूति-
फली ८ । इत्यमरः । २ । ४ । ९६ ॥ सोमराजी
९ सुवल्ली १० सोमवल्लिः ११ कालमेशी १२ ।
इति भरतः ॥ सोमवल्ली १३ वागुजी १४ वाकुजी
१५ कालमेषिका १६ सोमराजिका १७ ।
इति शब्दरत्नावली ॥ अन्यच्च ।
“वागुजी चन्द्रलेखा स्यात् सोमराजी त्ववल्-
गुजा ।
कृष्णा पूतिफला कुष्ठनाशिनी सा सिता परा ॥”
इति रत्नमाला ॥
अस्य गुणाः । वातकफकुष्ठत्वग्दोषनाशित्वम् ।
इति राजवल्लभः ॥ अपि च ।
“अवलगुजो वाकुची स्यात् सोमराजी सुप-
र्णिका ।
शशिलेख्या कृष्णफला सोमा पूतिफलीति च ॥
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता ।
वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् ।
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु ।
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुहृत् ॥”
इति भावप्रकाशः ॥
राजनिर्घण्टोक्तगुणपर्य्यायौ वाकुचीशब्दे द्रष्टव्यौ

सोमराजी, स्त्री, (सोमेन राजते इति । राज-

दीप्तौ + अच् । गौरादित्वात् ङीष् ।) वाकुची ।
इत्यमरटीकायां भरतः । २ । ४ । ९६ ॥ (यथा,
बृहत्संहितायाम् । ४४ । १० ।
“श्वेतां सपूर्णकोशां
कटम्भरात्रायमाणसहदेवीः ।
नागकुसुमं स्वगुप्तां
शतावरीं सोमराजीञ्च ॥”)
षडक्षरच्छन्दोविशेषः । यथा, --
“हरे सोमराजीसमा ते यशः श्रीः ।
जगन्मण्डलस्य च्छिनत्त्यन्धकारम् ॥
इति छन्दोमञ्जरी ॥
चन्द्रश्रेणी च ॥

सोमरोगः, पुं, स्त्रीरोगविशेषः । यथा, --

अथ सोमरोगाधिकारः ।
तत्र सोमरोगस्य निदानपूर्व्विकां सम्प्राप्तिमाह ।
“स्त्रीणामतिप्रसङ्गेन शोकाच्चापि श्रमादपि ।
अतिसारकयोगाद्वा गरयोगात्तथैव च ॥
आपः सर्व्वशरीरस्थाः क्षुभ्यन्ति प्रस्रवन्ति च ।
तस्यास्ताः प्रच्युताः स्थानान्मूत्रमार्गं व्रजन्ति
हि ॥”
अथ तस्य लक्षणमाह ।
“प्रसन्ना विमला शीता निर्गन्धा नीरुजः सिताः ।
स्रवन्ति चातिमात्रं ताः सा न शक्नोति दुर्ब्बला ॥
वेगं धारयितुं तासां न विन्दति मुखं क्वचित् ।
शिरःशिथिलता तस्या मुखं तालु च शुष्यति ॥
मूर्च्छा जृम्भा प्रलापश्च त्वग्रूक्षा चातिमात्रतः ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च न तृप्तिं लभते सदा ॥
सन्धारणाच्छरीरस्य ता आपः सोमसंज्ञिताः ।
ततः सोमक्षयात् स्त्रीणां सोमरोगे इति स्मृताः”
अथ सोमरोगस्य चिकित्सा ।
“कदलीनां फलं पक्वं धात्रीफलरसं मधु ।
शर्क्करासहितं खादेत् सोमधारणमुत्तमम् ॥ १ ॥
माषचूर्णं समधुकं विदारीं मधुशर्क्कराम् ।
पयसा पाययेत् प्रातः सोमधारणमुत्तमम् ॥ २ ॥ ॥
स एव सरुजः सोमः स्रवेन्मूत्रेण चेन्मुहुः ।
तत्रै लापत्रचूर्णेन पाययेत्तरुणीं सुराम् ॥ ३ ॥
जलेनामलकीबीजकल्कं समधुशर्क्करम् ।
पिबेद्दिनत्रयेणैव श्वेतप्रदरनाशनम् ॥ ४ ॥
तक्रोदनाहाररता संपिबेन्नागकेशरम् ।
त्र्यहं तक्रेण संपिष्टं श्वे तप्रदरनाशनम् ॥” * ॥
तत्रैव मूत्रातीसारस्य लक्षणं चिकित्साञ्चाह ।
“सोमरोगे चिरं जाते यदा मूत्रमतिस्रवेत् ।
मूत्रातिसारं तं प्राहुर्बलविध्वंसनं परम् ॥
तालकन्दञ्च खर्ज्जूरं मधुकञ्च विदारिकाम् ।
सितामधुयुतां खादेत् मूत्रातीसारनाशनम् ॥ १
चक्रमर्द्द कमूलन्तु संपिष्टं तण्डुलाम्बुना ।
प्रभातसमये पीतं जलप्रदरनाशनम् ॥” २ ॥
इति सोमरोगे मूत्रातिसाराधिकारः । इति
भावप्रकाशः ॥ (तथाचास्य चिकित्सोपयोगि-
वटिकौषधं यथा, --
“कर्षं जारितलौहञ्च तदर्द्धं रसगन्धकम् ।
एलापत्रं निशायुग्मं जम्बुवीरणगोक्षुरम् ॥
विडङ्गं जीरकं पाठा धात्रीदाडिमटङ्कणम् ।
चन्दनं गुग्गुलुं लोध्रशालार्ज्जुनरसाञ्जनम् ॥
छागीदुग्धेन वटिकां कारयेद्दशरक्तिकाम् ।
निर्म्मितो नित्यनाथेन सोमनाथरसस्त्वयम् ॥
सोमरोगं बहुविधं प्रदरं हन्ति दुर्ज्जयम् ।
योनिशूलं मेढ्रशूलं सर्व्वजं चिरकालजम् ।
बहुमूत्रं विशेषेण दुर्ज्जयं हन्त्यसंशयः ॥”
इति सोमनाथरसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे सोमरोगाधिकारे ॥)

सोमलता, स्त्री, (सोम एव लता ।) स्वनाम-

ख्याता लता । तत्पर्य्यायगुणाः ।
“सोमवल्ली सोमलता सोमा क्षीरी द्विजप्रिया ।
सोमवल्ली त्रिदोषघ्नी कटुस्तिक्ता रसायनी ॥”
इति भावप्रकाशः ॥
अपि च ।
“सोमवल्ली महागुल्मा यज्ञश्रेष्ठा धनुर्लता ।
सोमार्हा गुल्मवल्ली च यज्ञवल्ली द्विजप्रिया ।
सोमक्षीरा च सोमा च यज्ञाङ्गा रुद्रसंख्यया ॥
सोमवल्ली कटुः शीता मधुरा पित्तदाहहृत् ।
कृष्णा विशोषशमनी पावनी यज्ञसाधनी ॥”
इति राजनिर्घण्टः ॥

सोमलतिका, स्त्री, (सोमलतेव । इवार्थे कन् ।)

गुडूची । इति राजनिर्घण्टः ॥

सोमवंशः, पुं, (सोमस्य वंश उत्पत्तिस्थानत्वेना-

स्त्यस्य ।) युधिष्ठिरराजः । इति धरणिः ॥
(सोमस्य वंशः ।) चन्द्रसन्तानः । तद्विवरणं यथा,
हरिरुवाच ।
“सूर्य्यस्य कथितो वंशः सोमवंशं शृणुष्व मे ।
नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रिसमुद्भवः ॥
अत्रेः सोमस्तस्य भार्य्या तारा सुरगुरोः प्रिया ।
सोमात्तस्यां बुधो जज्ञे बुधपुत्त्रः पुरूरवाः ॥
बुधपुत्त्रादथोर्व्वश्यां षट् पुत्त्रास्तु श्रुतायुषः ।
विश्वावसुः शतायुश्च आयुर्द्धीमानमावसुः ॥
अमावसोरभूद्भीमो भीमपुत्त्रश्च काञ्चनः ।
काञ्चनस्य सुहोत्रोऽभूत् जह्नुश्चाभूत् सुहोत्रतः ॥
जह्नोः सुमन्तुरभवत् सुमन्तो रूपराजकः ।”
रूपराजकस्थाने अपजापकोऽपि पाठः ।
“बलाकाश्वोऽस्य पुत्त्रोऽभूत् बलाकाश्वात् कुशः
स्मृतः ॥
कुशाश्वः कुशनाभश्चामूर्त्तरयो वसुः कुशात् ।
गाधिः कुशाश्वात् संजज्ञे विश्वामित्रस्तदात्मजः
कन्या सत्यवती दत्ता ऋचीकाय द्विजाय सा ।
ऋचीकाद्यमदग्निश्च रामस्तस्याभवत् सुतः ॥
विश्वामित्राद्देवरातमधुच्छन्दादयः सुताः ।
आयुषो नहुषः पुत्त्रस्त्वनेनाराजिरम्भकौ ॥
क्षत्त्रवृद्धः क्षत्त्रवृद्धात् सुहोत्रश्चाभवन्नृपः ।
काश्यकाशगृत्समदाः सुहोत्रादभवंस्त्रयः ॥
गृत्समदाच्छौनकोऽभूत् काश्याद्दीर्घतमस्तथा ।
वैद्यो धन्वन्तरिस्तस्मात् केतुमांश्च तदात्मजः ॥”
वैद्यस्थाने रेभ्य इत्यपि पाठः ।
भीमरथः केतुमतो दिवोदासस्तदात्मजः ।
दिवोदासात् प्रतर्द्दनोऽभूच्छत्रुजित् सोऽत्र
विश्रुतः ॥
ऋतध्वजस्तस्य पुत्त्रो ह्यलर्कश्च ऋतध्वजात् ।
अलर्कात् सन्नतिर्जज्ञे सुनीथः सन्नतेः सुतः ॥
सत्यकेतुः सुनीथस्य स्रत्यकेतोर्व्विभुः सुतः ।
विभोस्तु सुविभुः पुत्त्रः सुविभोः स्वर्गमारकः ॥
स्वर्गमारकस्थाने सुकुमारकोऽपि पाठः ।
“स्वर्गमाराद्धृष्टकेतुर्व्वीतिहोत्रस्तदात्मजः ।
वीतिहोत्रस्य भार्गोऽभूत् भार्गभूमिस्तदात्मजः ॥
भार्गभूमिस्थाने भासभूमिरिति च पाठः ।
“वैष्णवाः सुमहात्मान इत्यनेकाशयो नृपाः ॥”
पञ्चपुत्त्रशतान्यासन्रजेः शक्रेण संहृताः ।
प्रतिक्षत्त्रः क्षत्त्रवृद्धात् सञ्जयश्च तदात्मजः ॥
पृष्ठ ५/४२०
विजयः सञ्जयस्यापि विजयस्य कृतः सुतः ।
कृताद्धर्षवर्द्धनश्च सहदेवस्तदात्मजः ॥”
हर्षवर्द्धनस्थाने वृणहल इति च पाठः ।
“सहदेवाददीनोऽभूत् जयत्सेनोऽप्यदीनतः ॥
जयत्सेनात् संकृतिश्च क्षत्त्रधर्म्मा च संकृतैः ।
यतिर्ययातिः संयातिरायातिर्वियतिः कृतिः ।
नहुषस्य सुताः ख्याता ययातेर्नृपतेस्तथा ।
यदुश्च तुर्व्वसुश्चै व देवयानी व्यजायत ॥
द्रुह्यु ञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी ।
सहस्रजित् क्रोष्टुतमा रघुश्चैव यदोः सुतः ॥
सहस्रजितः शतजित्तस्माद्वेणुहयहैहयौ ।
सुद्यो वेणुहयपुत्त्रो धर्म्मो हैहयतोऽभवत् ॥
धर्म्मस्य धर्म्मनेत्रोऽभूत् कुन्तिर्व्वै धर्म्मनेत्रतः ।
कुन्तेर्बभूव सानृञ्जिर्म्महिष्वांश्च तदात्मजः ॥”
सानृञ्जिस्थाने साहञ्जिरिति च पाठः ।
“भद्रश्रेण्यस्तस्य पुत्त्रो भद्रश्रेण्यस्य दुर्म्मदः ॥”
दुर्म्मदस्थाने दुर्द्द म इति च पाठः ।
“चनको दुर्म्मदाच्चैव कृतवीर्य्यश्च धानकिः ।
कृताग्निः कृतकर्म्मा च कृतभोग्यः सुमहाबलः ॥”
कृतभोग्यस्थाने कृतौजा इति च पाठः ।
“कृतवीर्य्यादज्जुनोऽभूत् अर्ज्जुनाच्छूरसेनकः ।
जयध्वजो मधुः शूरो वृषणः पञ्चसुव्रताः ॥
जयध्वजात्तालजङ्घो भरतस्तालजङ्घतः ।
वृषणस्य मधुः पुत्त्रो मधोर्वृष्ण्यादिवंशकः ॥
क्रोष्टोर्वृ जिनवान् पुत्त्र आहिस्तस्य महात्मनः ।”
प्राहिस्था ने स्नाहिरिति च पाठः ।
“आहेरुशङ्गुः संजज्ञे तस्य चित्ररथः सुतः ॥
शशबिन्दुश्चित्ररथात् पत्न्यो लक्षञ्च तस्य ह ।
दशलक्षञ्च पुत्त्राणां पृथुकीर्त्त्यादयो वराः ॥
पृथुकीर्त्तिः पृथुजयः पृथुदानः पृथुश्रवाः ।
पृथुश्रवसोऽभूत्तम उशना तमसोऽभवत् ॥
तत्पुत्त्रः शितयुर्नाम श्रीरुक्मकवचस्ततः ।”
शितयुर्नामस्थाने श्वेतऊर्णायुरिति च पाठः ।
“रुक्मेषुः पृथुरुक्मश्च ज्यामघः पालितो हरिः ।
श्रीरुक्मकवचस्यैते विदर्भो ज्यामघात्तथा ।
भार्य्यायाञ्चैव सैव्यायां विदर्भात् क्रथकौशिकौ ॥
रोगपादो रोगपादाद्वभ्रु र्व्वभ्रोर्धृतिस्तथा ।
कौशिकस्य चिदिः पुत्त्रस्ततश्चैद्यो नृपः किलः ॥
कुन्तिः किलस्य पुत्त्रोऽभूत् कुन्तेर्वृष्णिः सुतः
स्मृतः ।
वृष्णेश्च निर्वृतिः पुत्त्रो दशार्हो निर्वृतेस्तथा ॥
दशार्हम्य सुतो व्योमो जीमूतश्च तदात्मजः ।”
व्योमस्थाने व्योमा इति च पाठः ।
“जीमूताद्विकृतिर्जज्ञे ततो भीमरथोऽभवत् ।
ततो मधुरतो जज्ञे शकुनिस्तस्य चात्मजः ।
करम्भिः शकुनेः पुत्त्रस्तस्य देवमतः सुतः ॥
देवक्षत्त्रो देवमताद्दे वक्षत्त्रान्मधुः स्मृतः ।
कुरुवंशो मधोः पुत्त्रो ह्यनुश्च कुरुवंशतः ॥
पुरुहोत्रो ह्यनोः पुत्त्रः अंशुश्च पुरुहोत्रतः ।
मत्वश्रुतः सुतञ्चांशोरेते वै सात्वता नृपाः ॥ * ॥
भजिनो भजमानश्च मात्वतादन्धकः सुतः ।
महाभोजो वृष्णिदेष्यामन्यो देवावृधोऽभवत् ॥
निमिवृणी भजमानादश्मभाजित्तथैव च ।”
अश्मभाजित्स्थाने अयुताजित् इति च पाठः ।
“शतजिच्च सहस्राजित् वभ्र र्देवो बृहस्पतिः ॥
महाभोजात्तु भोजोऽभूत् वृष्णेश्चैव सुमित्रकः ।
सुधाजित् संज्ञकस्तस्मादनमित्रशिनी तथा ॥
अनमित्रस्य निम्नोऽभूत् निम्नात् सत्राजितो-
ऽभवत् ।
प्रसेनश्चापरः ख्यातो ह्यनमित्राच्छिनिस्तथा ॥
शिनेस्तु सत्यकः पुत्त्रः सत्यकात् सात्यकिस्तथा
सात्यकेः सञ्जयः पुत्त्रः कुणिश्चैव तदात्मजः ॥
कुणेर्युगन्धरः पुत्त्रस्ते शैनेयाः प्रकीर्त्तिताः ॥”
कुणिस्थाने कुलिरिति च पाठः । * ।
“अनमित्रान्वयो वृष्णिः श्वफल्कश्चित्रकस्तथा ॥”
चित्रकस्थाने चित्रकृत् इति च पाठः ।
“श्वफल्काच्चै व गान्दिन्यामक्रूरो वैष्णवोऽभवत्
उपमद्गुरथाक्रूरान्मृदवाद्यास्ततः स्मृताः ॥
देववानुपदेवश्च अक्रूरस्य सुतौ स्मृतौ ।
पृथुर्विपृथुश्चित्रस्य चान्धकस्य शुचिः स्मृतः ॥
कुकुरो भजमानस्तु तथा कम्बलवर्हिषः ।
धृष्णस्तु कुकुराज्जज्ञे तस्मात् कापोतरोमकः ॥
तदात्मजो विलोमा च विलोम्नस्तुम्बुरुः स्मृतः ।
तस्माच्च द्रुन्दुभिर्ज्जज्ञे पुनर्व्वसुरतः सुतः ॥
तस्याहुकश्चाहुकी च कन्या चैवाहुकस्य च ।
देवकश्चोग्रसेनश्च देवकात् दैवकी त्वभूत् ॥
वृकदेवोपदेवा च सहदेवा सुरक्षिता ।
श्रीदेवी शान्तिदेवी च वसुदेव उवाह ताः ॥
देवश्चानुपदेवश्च सहदेवासुतौ स्मृतौ ।
उग्रसेनस्य कंसोऽभूत् सुनामा च वटादयः ॥
विदूरथो भजमानाच्छूरश्चाभूद्विदूरथात् ।”
शूरस्थाने शिव इति च पाठः ।
“विदूरथसुतस्याथ शूरस्यापि शमी सुतः ॥
प्रतिक्षत्त्रस्तु शमिनः स्वयम्भोजस्तदात्मजः ।
हृदिकश्च स्वयम्भोजात् कृतवर्म्मा तदात्मजः ॥
देवः शतधनुश्चै व शूराद्वै देवमीढुषः ।
दशपुत्त्रा मारिषायां वसुदेवादयोऽभवन् ॥
पृथा च श्रुतदेवी च श्रुतकीर्त्तिः श्रुतश्रवाः ।
राजाधिदेवी शूराच्च पृथां कुन्तेः सुतामदात् ॥
सा दत्ता कुन्तिना पाण्डोस्तस्यां धर्म्मा-
निलेन्द्रकैः ।
युधिष्ठिरो भीमपार्थौ नकुलः सहदेवकः ॥
माद्र्यां नासत्यदस्राभ्यां कुन्त्यां कर्णः पुराभवत् ।
श्रुतदेव्यां दन्तवक्रं जज्ञे वै वृद्धशर्म्मणः ॥
सन्तद्दनादयः पञ्च श्रुतकीर्त्त्याञ्च कैकयात् ।
राजाधिदेव्यां विन्दश्च अनुविन्दश्च जज्ञिरे ॥
श्रुतश्रवा दमघोषात् प्रजज्ञे शिशुपग्लकः ।
पौरवी रोहिणी भार्य्या मदिरानकदुन्दुभेः ॥
देवकीप्रमुखा भद्रा रोहिण्यां बलभद्रकः ।
सारणाढ्याः शठश्चैव रेवत्यां बलभद्रतः ॥
निशठश्चोन्मुको जातो देवक्यां षट्च जज्ञिरे ।
कीर्त्तिमांश्च सुषेणश्च उदार्य्यो भद्रसेनकः ॥
ऋतुदासो भद्रदेवः कंस एवावधीच्च तान् ।
सङ्कर्षणः सप्तमोऽभूदष्टमः कृष्ण एव च ॥
षोडश स्त्रीसहस्राणि भार्य्याणाञ्चाभवन् हरेः ।
रुक्मिणी सत्यभासा च लक्ष्मणा चारुहासिनी ॥
श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरे तान् बहून्
सुतान् ।
प्रद्युम्नश्चारुदेष्णश्च प्रधानाः शाम्ब एव च ॥
प्रद्युम्नादनिरुद्धोऽभून्मनस्विन्यां महाबलः ।”
मनस्विन्यां स्थाने ककुद्मिन्यामिति पाठः ।
“अनिरुद्धात् सुभद्रायां वज्रो नाम सुतोऽभवत् ॥
प्रतिबाहुर्वज्रसुतश्चारुस्तस्य सुतोऽभवत् ।
वह्निश्चारोः सुतो जज्ञे वह्रेर्भार्गोऽभवत् सुतः ॥”
इत्यत्र वह्रिस्तु तुर्व्वसोर्वंशः इत्याद्यपादे पाठः ।
“भर्गाद्भानुरभूत् पुत्रो भानोः पुत्त्रः करन्धमः ।
करन्धमस्य मरुतो द्रुह्योर्व्वंशं निबोध मे ॥ * ॥
द्रुह्योस्तु तनयः सेतुराबद्धश्च तदात्मजः ।
आबद्धस्यैव गान्धारो धर्म्मो गान्धारतोऽभवत् ॥”
आबद्धस्थाने आरब्ध इति आवर इति च पाठः
“घृतस्तु धर्म्मोपुत्त्रोऽभूद्द्वुर्द्दमश्च घृतस्य तु ।
प्रचेता दुर्द्दमस्यैव अनोर्व्वंशं शृणुष्व मे ॥ * ॥
अनोः सभानवः पुत्त्रस्तात् का २ ञ्जयोऽभवत् ।”
सभानवस्थाने स्वभावन इति सुतारण इति च
कालञ्जयस्थाने कालानल इत्यपि पाठः ।
“कालञ्जयात् सृञ्जयोऽभूत् सृञ्जयात्तु पुरञ्जयः
जनमेजयस्ततश्चाभूत् महाशालस्तदात्मजः ।
महामना महाशालादुशीनर इति स्मृतः ॥
उशीनराच्छिविर्जज्ञे वृषदर्भः शिवेः सुतः ।
महामनो जातिभिक्षोः पुत्त्रोऽभूत्तु जयद्रथः ॥
हेमो जयद्रथाज्जज्ञे सुतपा हेमतोऽभवत् ।”
जयद्रथस्थाने रुषद्रथ इति च पाठः ।
“बलिः सुतपसो जज्ञे अङ्गवङ्गकलिङ्गकाः ॥
शुक्षपौण्ड्राश्च बालेया अनपानस्तथाङ्गतः ।
अनपानाद्दिविरथस्तमो धर्म्मरथोऽभवत् ॥
रोमपादो धर्म्मरथाच्चतुरङ्गस्तदात्मजः ।
पृथुलाक्षः सुतस्तस्य चम्पोऽभूत् पृथुलाक्षतः ॥
चम्पपुत्त्रस्तु हर्य्यङ्गस्तस्य भद्ररथः सुतः ।
बृहत्कर्म्मा सुतस्तस्य बृहद्भानुस्ततोऽभवत् ॥
बृहन्मना बृहद्भानोस्तस्य पुत्त्रो जयद्रथः ।
जयद्रथस्य विजयो विजयस्य धृतिः सुतः ॥
धृतेर्धृ तव्रतः पुत्त्रः सत्यकर्म्मा धृतब्रतात् ।
तस्य पुत्त्रस्त्वधिरथः कर्णस्तस्य सुतोऽभवत् ॥
वृषसेनस्तु कर्णस्य पूरुवंशं शृणुष्व मे ॥”
इत्यादि गारुडे १४३ अध्यायः ॥ * ॥
हरिरुवाच ।
“जनमेजयश्च पूरोश्च मनस्युर्जनमेजयात् ।
तस्य पुत्त्रश्चाभयदः सुद्युश्चाभूत्तदात्मजः ॥”
सुद्युस्थाने स्वसूरिति च पाठः ।
“सुद्योर्बहुगतः पुत्त्रः संयातिस्तस्य चात्मजः ।
वत्सजातिश्च संयाते रौद्राश्वश्च तदात्मजः ॥”
वत्सजातिस्थाने वर्गजातिरिति च पाठः ।
“ऋतेयुः स्थण्डिलेयुश्च कक्षेयुश्च कृतेयुकः ।
जलेयुः संहतयुश्च रौद्राश्वस्य सुता वराः ॥
रतिनावः कृतेयोश्च तस्य प्रतिरथः सुतः ।
तस्य मेधातिथिः पुत्त्रस्तुर्वसोरैनिलः सुतः ॥
पृष्ठ ५/४२१
ऐनिलस्य तु दुष्मन्तो भरतस्तस्य चात्मजः ।
शकुन्तलायां संजज्ञे वितथो भरतादभूत् ॥
वितथस्य मन्युः पुत्त्रो मन्योश्चैव नरः सुतः ।
नरस्य संकृतिः पुत्त्रः सुसन्धिः संकृतेः सुतः ॥”
सुसन्धिस्थाने गर्गश्च इति पाठः ।
“गर्गादमन्युपुत्त्रो वै शिनिस्तस्य व्यजायत ।”
अमन्युस्थाने भुमन्युरिति च पाठः ।
“अमन्योश्च महावीर्य्यादुरुक्षयः सुतोऽभवत् ॥
उरुक्षयात् त्रय्यारुणिबृहत्क्षत्त्राच्च मन्युजात्
सुहोत्रस्तस्य हस्ती च अजमीढद्विमीढकौ ॥
हस्तिनः पुरुमीढश्च कण्वोऽभूदजमीढतः ।
कण्वान्मेधातिथिर्जज्ञे यतः काण्वायना द्विजाः ॥
अजमीढाद्वृहदिसुस्तत्पुत्त्रश्च बृहद्धनुः ।
बृहत्कर्म्मा तस्य पुत्त्रस्तस्य पुत्त्रो जयद्रथः ॥
जयद्रथाद्विश्वजिच्च सेनजिच्च तदात्मजः ।
रुचिराश्वः सेनजितः पृथुसेनस्तदात्मजः ॥
पारस्तु पृथुसेनस्य पारान्नीपोऽभवन्नृपः ।
नीपस्य समरः पुत्त्रः सुकृतिस्तु ततोऽभवत् ॥
विभ्राजः सुकृतेः पुत्त्रो विभ्राजादनुहोऽभवत् ।
कृत्यां तस्माद्ब्रह्मदत्तो विश्वक्सेनस्तदात्मजः ॥
यवीनरो द्विमीढस्य धृतिमांश्च यवीनरात् ।
धृतिमतः सत्यधृतिर्दृढनेमिस्तदात्मजः ॥
दृढनेमेः सुपार्श्वोऽभूत् सुपार्श्वात् सन्नतिस्तथा ।
कृतस्तु सन्नतेः पुत्त्रः कृतादुग्रायुधोऽभवत् ॥
उग्रायुधाच्च क्षेम्योऽभूदम्बरीषस्तदात्मजः ।
पुरञ्जयस्त्वम्बरीषात् तस्य पुत्त्रो विदूरथः ॥”
अम्बरीषस्थाने सुवीर इति च पाठः ।
“अजमीढान्नलिन्याञ्च नीलो नाम सुतोऽभवत्
नीलाच्छान्तिरभूत् पुत्त्रः सुशान्तिस्तस्य
चात्मजः ॥
सुशान्तश्च पुरुर्जातो ह्यर्कस्तस्य सुतोऽभवत् ।
अर्कस्य चैव हर्य्यश्वो हर्य्यश्वान्मुद्गलोऽभवत् ॥
यवीनरो बृहदिषुः कम्पिल्यः सृञ्जयस्तथा ।
पाञ्चालान्मुद्गलाज्जज्ञे शरद्वांस्तस्य चात्मजः ॥”
तस्य चात्मजस्थाने वैष्णवो महान इति च पाठः
“दिवोदासो द्वितीयश्च अहल्यायां शरद्धतः ।
शतानन्दोऽभवत् पुत्त्रस्तस्य सत्यधृतिः सुतः ॥
कृपः कृपी सत्यधृतेरुर्व्वश्यां वीर्य्यहानितः ।
द्रोणपत्नी कृपी जज्ञे अश्वत्थामानमुत्तमम् ॥
दिवोदासान्मित्रयुश्च मित्रयोश्च्यवनोऽभवत् ।
सुदासश्च्यवनाज्जज्ञे सौदासस्तस्य चात्मजः ॥
सहदेवस्तस्य पुत्त्रः सहदेवात्तु सोमकः ।
जन्तुस्तु सोमकाज्जज्ञे पृषतश्चापरो महान् ॥
पृषतात् द्रुपदो जज्ञे धृष्टद्युम्नस्ततोऽभवत् ।
धृष्टद्युस्नात् धृष्टकेतुरृ क्षोऽभूदजमीढतः ॥
ऋक्षात् संवरणो जज्ञे कुरुः संवरणादभूत् ।
सुधन्वश्च परिक्षित्तु जह्रुश्चैव कुरोः सुताः ॥
सुधनुषः सुहोत्रोऽभूत् च्यवनोऽभूत सुहोत्रतः ।
च्यवनात् कृतको जज्ञे अथोपरिचरो वसुः ॥
बृहद्रथश्च प्रत्यग्नः सत्याद्याश्च वसोः सुताः ।
बृहद्रथात् कुशाग्रश्च कुशाग्रात् ऋषभोऽभवत् ॥
ऋषभात् पुष्पवांस्तस्माज्जज्ञे सत्यहितो नृपः ।
सत्यहितात् सुधन्वाभूज्जह्रुश्चैव सुधन्वतः ॥”
जह्रुस्थाने जन्तुरिति च पाठः ।
“बृहद्रथाज्जरासन्धः सहदेवस्तदात्मजः
सहदेवाच्च सोमापिः सोमापेः श्रुतवान् सुतः ॥
भीमसेनप्रसेनौ च श्रुतसेनोऽपराजितः ।”
प्रसेनस्थाने उग्रसेन इति च पाठः ।
“जनमेजयश्चान्योऽभूज्जह्रोस्तु सुरथोऽभवत् ।
विदूरथस्तु सुरथात् सार्व्वभौमो विदूरथात् ॥
जयत्सेनः सार्व्वभौमादराधीतस्तदात्मजः ।
अयुतायुस्तस्य पुत्त्रस्तस्य चाक्रोधनः सुतः ॥
अक्रोधनस्यातिथिश्च ऋक्षोऽभूदतिथेः सुतः ।
ऋक्षाच्च भीमसेनोऽभूद्दिलीपो भीमसेनतः ॥
प्रतीपोऽभूद्दिलीपात्तु देवापिस्तु प्रतीपतः ।
शान्तनुश्चैव वाह्लीकस्त्रयस्ते भ्रातरो नृपाः ।
वाह्लीकात् सोमदत्तोऽभूत् भूरिभूरिश्रवास्ततः ॥
शलश्च शान्तनोर्भीष्मो गङ्गायां धार्म्मिको
महान् ।
चित्राङ्गदविचित्रौ तु सत्यवत्यान्तु शान्तनोः ॥
विचित्रवीर्य्यभार्य्ये तु अम्बिकाम्बालिका तयोः
धृतराष्ट्रञ्च पाण्डुञ्च तद्दास्यां विदुरन्तथा ॥
व्यास उत्पादयामास गान्धार्य्यां धृतराष्ट्रतः ।
शतं पुत्त्रं दुर्य्योधनाद्यं पाण्डोः पञ्च प्रजज्ञिरे ॥
प्रतिबिन्ध्यः सुतः सोमः श्रुतकीर्त्तिस्तु चार्ज्जुनात्
शतानीकः श्रुतकर्म्मा द्रौपद्यां पञ्च वै क्रमात् ॥
यौधेयी च हिडिम्बा च काशी चैव शुभद्रिका
विजया वै वेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥
देवको घटत्कचश्च अभिमन्युश्च सर्व्वशः ।
सुहोत्रो निरमित्रश्च परिक्षिदभिमन्युजः ॥”
अत्र अहोत्रो निरपत्रश्चेति तृतीयचरणे पाठः ।
“जनमेजयश्च ततो भविष्यांश्च नृपाञ्छृणु ॥”
इति गारुडे १४४ अध्यायः ॥

सोमवल्कः, पुं, (सोमस्येव वल्को यस्य ।) श्वेत-

खदिरः । इत्यमरः । २ । ४ । ५० ॥ (अस्य पर्य्यायो
यथा, --
“सोमवल्को ब्रह्मशल्यः कदरः खदिरोपमः ॥”
इति वैद्यकरत्नमालायाम् ॥)
कट्फलः । इति मेदिनी ॥ (अस्य पर्य्यायो यथा,
“कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च
श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च ॥”
इति भावप्रकाशे पूर्व्वखण्डे प्रथमे भागे ॥)
करञ्जः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा,
“स चोक्तः पूतिकरञ्जः सोमवल्कश्च स स्मृतः ।”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
रीठाकरञ्जः । इति राजनिर्घण्टः ॥

सोमवल्लरिः, स्त्री, (सोमस्य वल्लरिः । वा

ङीष् ।) सोमलता । तत्पर्य्यायः ।
ब्राह्मी २ मत्स्याक्षी ३ वयःस्था ४ । इत्यमरः ।
२ । ४ । १३७ ॥ चत्वारि सोमलतायाम् ।
ब्राह्मीशाक इति केचित् । अतिपवित्रत्वेन
ब्रह्मणः प्रियत्वात् ब्रह्मणो ब्राह्मणस्य वा इयं
ब्राह्मी ष्णः नञा निर्द्दिष्टं व्यभिचरतीति मन-
वर्ज्जानिति निषेधाभावे नोर्लोपौ ताविति नस्य

सोमवल्लरी, स्त्री, (सोमस्य वल्लरिः । वा

ङीष् ।) सोमलता । तत्पर्य्यायः ।
ब्राह्मी २ मत्स्याक्षी ३ वयःस्था ४ । इत्यमरः ।
२ । ४ । १३७ ॥ चत्वारि सोमलतायाम् ।
ब्राह्मीशाक इति केचित् । अतिपवित्रत्वेन
ब्रह्मणः प्रियत्वात् ब्रह्मणो ब्राह्मणस्य वा इयं
ब्राह्मी ष्णः नञा निर्द्दिष्टं व्यभिचरतीति मन-
वर्ज्जानिति निषेधाभावे नोर्लोपौ ताविति नस्य
लोपः णित्त्वे व्रिरिति वृद्धिः षित्वादीप् अनित-
श्चेत्युक्तेर्णित्त्वाभावविवक्षया वृद्ध्यभावे ब्रह्मी च
“ब्राह्मी वयःस्था मत्स्याक्षी ब्रह्मी च सोम-
वल्लरी ।”
इति वाचस्पतिः ॥
लोपः णित्त्वे व्रिरिति वृद्धिः षित्वादीप् अनित-
श्चेत्युक्तेर्णित्त्वाभावविवक्षया वृद्ध्यभावे ब्रह्मी च
“ब्राह्मी वयःस्था मत्स्याक्षी ब्रह्मी च सोम-
वल्लरी ।”
इति वाचस्पतिः ॥
मत्स्याक्षितुल्यपुष्पत्वात् मत्स्याक्षी । वयो यौवनं
तिष्ठत्यनया वयःस्था भिदादित्वात् ङः मध्य-
विसर्गा मनीषादित्वात् विसर्गलोपे निर्व्विसर्गा
च । सोमेन यागार्थमुपात्तेति सोमवल्लरी अर्थ-
परत्वात् इन्दुवल्लरी चन्द्रवल्लरी इत्याद्यपि ।
वल्लर्य्या लतार्थपरत्वात् सोमवल्ली सोमलता
सोमवल्लिका इत्याद्यपि पाठः । इति भरतः ॥

सोमवल्लिका, स्त्री, (सोमवल्लीव । इवार्थे कन् ।)

सोमराजी । इत्यमरः । २ । ४ । ९५ ॥ (सोमस्य
वल्लिका ।) सोमलता । इति भरतः ॥

सोमवल्ली, स्त्री, (सोमस्य वल्लीव ।) गुडूची ।

इत्यमरः । २ । ४ । ४३ ॥ सोमलता इति तट्टी-
कायां भरतः ॥ सोमराजी । इति शब्दरत्ना-
वली ॥ पातालगरुडी । ब्राह्मी । सुदर्शना ।
इति राजनिर्घण्टः ॥ (यथा, वृहत्संहितायाम् ।
५४ । १०८ ।
“या सोमवल्ल्याश्च समानरूपा
साप्याशु तोयं कुरुतेऽक्षयञ्च ॥”)

सोमवारः, पुं, (सोमस्य वारः ।) सोमस्य भोग्य-

दिनम् । चन्द्रवासरम् । यथा, --
“सोमवारेऽप्यमावास्या आदित्याहे च सप्तमी
चतुर्थी भौमवारे च अक्षयादपि चाक्षया ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
तद्दिवसीयवारवेला यथा, --
“रवौ वर्ज्यं चतुः पञ्च सोमे सप्त द्वयं तथा ।”
इति ज्योतिःसागरसारः ॥
तद्रात्रौ कालवेला यथा, --
“रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् ।
बुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् ।
शनावाद्यं तथा चान्तं रात्रौ कालं विवर्ज्जयेत् ॥”
इति ज्योतिःसारः ॥

सोमवारव्रतं, क्ली, (सोमवारकर्त्तव्यं व्रतम् ।)

प्रतिसोमवारोपवासपूर्व्वकसायंकालकर्त्तव्यशिव-
दुर्गापूजारूपव्रतविशेषः । तद्विवरणं यथा, --
“सोमवारे विशेषेण प्रदोषादिगुणैर्युते ।
केवलं वापि ये कुर्य्युः सोमवारे शिवार्च्चनम् ।
न तेषां विद्यते किञ्चिदिहामुत्र च दुर्लभम् ॥
उपोषितः शुचिर्भूत्वा सोमवारे जितेन्द्रियः ।
वैदिकैर्लौकिकैर्व्वापि विधिवत्पूजयेच्छिवम् ॥
ब्रह्मचारी गृहस्थो वा कन्या वापि सभर्त्तृका ।
विभर्त्तृका वा संपूज्य लभते वरमीप्सितम् ॥ * ॥
तत्राहं कथयिष्यामि कथां श्रोत्रमनोरमाम् ।
श्रुत्वा श्रुतधियः शम्भोर्भक्तिं कुर्व्वन्तु निश्चलाम्
आर्य्यावर्त्ते नृपः कश्चिदासीद्धर्म्मभृतां वरः ।
चित्रवर्म्मेति विख्यातो धर्म्मराजो दुरात्मनाम् ॥
सोऽनुकूलः स्वपत्नीषु पुत्त्रमेकं न लब्धवान् ।
चिरेण प्रार्थितां लेभे कन्यामेकां मनोहराम् ॥
पृष्ठ ५/४२२
स एकदा जातकलक्षणज्ञा-
नाहूय सर्व्वान् द्विजमुख्यवर्गान्
कुतूहलेनापि निविष्टचेताः
पप्रच्छ तस्या जनने विचारम् ॥ * ॥
अथ तं प्रावदत् कोऽपि बहुज्ञो द्विजसत्तमः ।
एका सीमन्तिनी मान्या कन्या तव महीपते ॥
अथान्योऽपि द्विजः प्राह धैर्य्यवानविशङ्कितः ।
एषा चतुर्द्दशे वर्षे वैधव्यं प्रतिपत्स्यति ॥
इत्याकर्ण्य वचस्तस्य वज्रनिर्घातनिष्ठुरम् ।
मुहूर्त्तमभवद्राजा चिन्ताव्याकुलमानसः ॥
सापि सिमन्तिनी बाला क्रमेण गतशैशवा ।
वैधव्यमात्मनो भावि सा शुश्राव सखीमुखात् ॥
परं निर्व्वेदमापन्ना तदाकर्ण्य शुचिस्मिता ।
याज्ञवल्क्यमुनेः पत्नों मैत्रेयीं पर्य्यपृच्छत ॥
मातस्त्वच्चरणाम्भोजं प्रपन्नाहं भयाकुला ।
सौभाग्यवर्द्धनं कर्म्म मम संशितुमर्हसि ॥ * ॥
इति प्रपन्नां नृपतेः कन्यामाह मुनेः सती ।
शरणं व्रज तन्वङ्गि पार्व्वतीं शिवसंयुताम् ॥
सोमवारे शिवं गौरीं पूजयस्व समाहिता ।
उपोषिता वा सुस्नाता विरजाम्बरधारिणी ॥
यतवाङ्निश्चलमतिः पूजां कृत्वा यथोचिताम् ।
ब्राह्मणान् भोजयित्वा च शिवं सम्यक् प्रसादय
पापक्षयोऽभिषेकेण साम्राज्यं पीठपूजनात् ।
सौभाग्यमखिलं सौख्यं गन्धमाल्याक्षतार्च्चनात्
धूपदानेन सौगन्ध्यं कान्तिर्द्वीपप्रदानतः ।
नैवेद्येन महाभोगी लक्ष्मीस्ताम्बूलदानतः ॥
धर्म्मार्थकाममोक्षाणां नमस्कारः प्रसाधनम् ।
अष्टैश्वर्य्यादिसिद्धीनां जप एव हि साधनम् ॥
होमेन सर्व्वकामानां समृद्धिरपि जायते ।
सर्व्वेषामेव देवानां तुष्टिर्ब्राह्मणभोजनात् ॥
इत्थमाराधय शिवं सोमवारे शिवामपि ।
प्राप्ता विपद्भिर्बहुभिर्दुःखैर्व्वा न विहन्यसे ॥
घोरात् घोरं प्रपन्नापि महाक्लेशं भयानकम् ।
शिवपूजाप्रभावेण तरिष्यति महद्भयम् ॥ * ॥
इत्थं सीमन्तिनी सम्यक् तन्निशम्य सतीमुखात्
ययौ सापि वरारोहा राजपुत्त्री तथापि च ॥
इत्यादि स्कन्दपुराणे ब्रह्मोत्तरखण्डे सोमवार-
वतमाहात्म्यम् ८ अध्यायः ॥

सोमविक्रयी, [न्] पुं, (सोमं विक्रीणातीति ।

वि + क्री + णिनिः ।) सोमलतारसविक्रयकर्त्ता ।
यथा, “पापो हि सोमविक्रयी ।” इति मलमास-
तत्त्वे आश्वलायनब्राह्मणम् ॥ (एतत्सम्प्रदाना-
देव दातुः प्रत्यवायो भवति । यथा, मनुः ।
३ । १८० ।
“सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
नष्टं देवलके दत्तमप्रतिष्ठन्तु वार्द्धुषौ ॥”

सोमवृक्षः, पुं, (सोमस्येव वृक्षो यस्य ।) कट्फल-

वृक्षः । इति रत्नमाला ॥ श्वेतखदिरः । इति
राजनिर्घण्टः ॥

सोमशकला, स्त्री, (सोमस्य शकलमिव यत्र ।)

शशाण्डुली । इति राजनिर्घण्टः । चन्द्रखण्ड-
विशिष्टा च ॥

सोमसंज्ञं, क्ली, (सोमस्य चन्द्रस्य संज्ञा सज्ञा

यस्य कर्पूरम् । इति रत्नमाला ॥

सोमसारः, पुं, (सोमस्येव शुक्लः सारो यस्य ।)

श्वेतखदिरः । इति राजनिर्घण्टः ॥

सोमसिद्धान्तः, पुं, बुद्धभेदः । इति जटाधरः ॥

ज्योतिर्ग्रन्थविशेषश्च ॥ कापालिकवेशधारी । यथा,
“ततः प्रविशति कापालिकवेशधारी खड्गहस्तः
सोमसिद्धान्तः ।” इति श्रीकृष्णमिश्रकृतप्रबोध-
चन्दोदयनाटके ३ अङ्कः ॥ सोमसिद्धान्त इति
उमया सह वर्क्षमानः सोमो महादेवस्तद्भाषित-
सिद्धान्त आगमशास्त्रम् । इति श्रीयुक्तहरिहर-
तक्कालङ्कारतनूजश्रीरुद्रविनिर्म्मिततट्टीका ॥

सोमसिद्धान्ती, [न्] पुं, सोमसिद्धान्तवेत्ता । सोम-

सिद्धान्तशब्दादिन्प्रत्ययेन निष्पन्नः ॥

सोमसिन्धुः, पुं, (सोमस्यामृतस्य तद्वत्मोक्षस्य

वा सिन्धुरिव ।) विष्णुः । इति त्रिकाण्ड-
शेषः ॥

सोमसुत्, त्रि, (सोमं सुनोतीति । सोम + सु ञ्

मन्थने + “सोमे सुञः ।” ३ । २ । ९० । इति
क्विप् ।) यागे सोमलतारसक्षेपकर्त्ता । इति
सिद्धान्तकौमुदी ॥ (यथा, रघुः । १८ । २७ ।
“तस्यौरसः सोमसुतः सुतोऽभूत्
नेत्रोत्सवः सोम इव द्वितीयः ॥”)

सोमसुता, स्त्री, (सोमस्य सुता ।) नर्म्मदानदी ।

इति राजनिर्घण्टः ॥ वुधे, पुं, ॥ (यथा मार्क-
ण्डेये । १२३ । ११ ।
“अवैक्षतैनं देवानां गुरुः सोमसुतो बुधः ।
नावैक्षतैनमादित्यो नार्कसुनुर्न भूमिजः ॥”)

सोमसूत्रं, क्ली, (सोमस्य जलस्य सूत्रं निर्गम-

प्रणालीव ।) प्रणालम् । तत्तु शिवलिङ्गस्थ-
गौरीपट्टजलनिर्गमस्थानम् । यथा, --
“शिवप्रदक्षिणे मन्त्री अद्धचन्द्रक्रमेण तु ।
सव्यासव्यक्रमेणंव सीमसूत्रं न लङ्घयेत् ॥”
सोमसूत्रं जलनिःसरणस्थानम् । इति तन्त्रसारे
सामान्यपूजापद्धतिः ॥

सोमाख्यं, क्ली, (सोमं सोमलतां आख्याति वर्णे-

नेति । आ + ख्या + कः ।) रक्तकैरवम् । इति
रत्नमाला ॥

सोमाभा, स्त्री, (सोमस्य आभा इव आभा यस्याः ।)

चन्द्रावली । इति भक्तिरसामृतसिन्धुः ॥

सोमालः, त्रि, (सोमाय अलति पर्य्याप्नोतीति ।

अल् + अच् ।) कोमलः । इति हेमचन्द्रः ॥

सोमाहः, पुं, (सोमस्य अहः । समासे टच् ।)

सोमवारः । इति ज्योतिषम् ॥

सोमेश्वरः, पुं, (सोमस्य ईश्वरः ।) काश्यां सोम-

कर्त्तृकप्रतिष्ठितशिवः । यथा, --
“शिवरूपाधिष्ठितस्तु शिवरूपो गिरिः स्मृतः ।
सोमेन तत्र संस्थाप्य स्वनाम्ना लिङ्गमुत्तमम् ॥
वर्षाणान्तु सहस्रं वै स्वशापस्य निवृत्तये ।
ततः क्षयाद्विनिर्म्मुक्तस्तेजसा च परिप्लुतः ॥
स्वकं तेजोबलंप्राप्य तुष्टाव गिरिजापतिम् ।
सोमेश्वराच्च वरदमाविर्भूतं त्रियम्बकम् ॥”
इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति-
क्षेत्रत्रिवेण्यादिमहिमनामाध्यायः ॥ (पीठ-
स्थानविशेषः । यथा, देवीभागवते । ७ । ३० । ७३ ।
“सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥”)

सोमोद्भवा, स्त्री, (सोमादुद्भवो यस्याः ।) नर्म्मदा-

नदी । इत्यमरः । १ । १० । ३२ ॥ (यथा, रघुः
५ । ५९ ।
तथेत्युपस्पृश्य पयः पवित्र
सोमोद्भवायाः सरितो नृसोमः ।
उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं
जग्राह तस्मान्निगृहीतशापात् ॥”)
सोमजाते, त्रि ॥

सोल्लुण्ठः, पुं, (उल्लुण्ठेन सह वर्त्तमानः ।) सोल्लु-

ण्ठनम् । इति हलायुधः ॥ (वाच्यलिङ्गोऽयमिति
केचित् ॥)

सोल्लुण्ठनं, क्ली, (उल्लुण्ठेन सह वर्त्तमानम् ।)

स्तुतिपूर्व्वकदुर्व्वादः । यथा, --
“दुर्व्वादः स्यादुपालम्भस्तत्र यः स्तुतिपूर्व्वकः ।
सोल्लुण्ठनं सनिन्दस्तु यस्तत्र परिभाषणम् ॥”
इति जटाधरः ॥
(वाच्यलिङ्गेऽप्ययमिति केचित् ॥)

सोल्लुण्ठोक्तिः, स्त्री, (सोल्लुण्ठा उक्तिः ।) सव्यङ्गोक्तिः

यथा । उपनायकमानेतुं प्रेषितां तदुपभोग-
लुप्तचन्दनादीन् वापीस्नानव्याजेन गोपयन्तीं
दूतीं प्रति सोल्लुण्ठोक्तिरियमिति निःशेषच्युत-
चन्दनं इति श्लोकव्याख्याने काव्यप्रकाशटीकायां
महेश्वरन्यायालङ्कारः ॥

सौकरः, त्रि, (सूकरस्यायमिति । सूकर + अण् ।)

सूकरसम्बन्धी । (यथा, किराते । १२ । ५३ ।
“स तमाससाद घननील-
मभिमुखमुपस्थितं मुनेः ।
पोत्रनिकषणविभिन्नभुवं
दनुजं दधानमथ सौकरं वपुः ॥”)

सौकरिकः, पुं, (सूकरं हन्तीति । सूकर + ठञ् ।)

व्याधः । सिकारी इति भाषा । इति केचित् ॥
(यथा, बृहत्संहितायाम् । १५ । २२ ।
“वरुणेशे पाशिकमत्स्यबन्ध-
जलजानि जलचराजीवाः ।
सौकरिकरजकशौण्डिक-
शाकुनिकाश्चापि वर्गेऽस्मिन् ॥”

सौकर्य्यं, क्ली, (सुकरस्य भावः कर्म्म वा । सुकर +

ष्यञ् ।) अनायासः । (यथा, साहित्यदर्पणे ।
१० । ९८ ।
“सौकर्य्येण च कार्य्यस्य विरुद्धं क्रियते यदि ॥” *
सूकरस्य भावः कर्म्म वा । सूकर + व्यञ् ।)
सूकरस्य क्रिया । इति विश्वः ॥

सौक्ष्म्यं, क्ली, सूक्ष्मता । सूक्ष्मस्य भावः इत्यर्थे

ष्ण्य (ष्यञ्) प्रत्ययेन निष्पन्नम् ॥

सौखसुप्तिकः, त्रि, (सुखसुप्तिं सुखेन शयनं पृच्छ-

तीति । सुखसुप्ति + ठञ् ।) वैतालिकः । यथा,
“वैतालिका बोधकरा अर्थिकाः सौखसुप्तिकाः ।”
इति हेमचन्द्रः ॥
पृष्ठ ५/४२३

सौखिकः, त्रि, (सुखेन जीवतीति । सुख + “वेत-

नादिभ्यो जीवति ।” ४ । ४ । १२ । इति ठक् ।)
सुखार्थी । सौखीन इति भाषा ॥ (यथा, महा
भारते । १२ । १८ । २३ ।
“श्रिया विहीनैरधनै त्स्यक्तमित्रैरकिञ्चनैः ।
सौखिकैः सम्भृतानर्थान् यः सन्त्यजति किन्नु
तत् ॥”)

सौख्यं, क्ली, (सुखमेव । स्वार्थे ष्यञ् ।) सुखम् । इति

हेमचन्द्रः ॥ यथा, उत्तररामचरिते २ अङ्के ।
“अकिञ्चिदपि कुर्व्वाणः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं योहि यस्य प्रियो जनः ॥”
सुखस्य भावः कर्म्म वा । सुख + ष्यञ् ।) सुख-
त्वम् । सुखस्यभावः इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ॥

सौगतः, पुं, (सुगत एव । स्वार्थे अण् ।) बुद्ध-

विशेषः । तत्पर्य्यायः । शून्यवादी २ । इति
हेमचन्द्रः ॥ (यथा, माघे । २ । २८ ।
“सर्व्वकार्य्यशरीरेषु मूक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो मही-
भृताम् ॥”
सुगतसम्बन्धिनि, सुगतमताध्यायिनि च त्रि ॥)

सौगतिकः, पुं, (सौगतं मतं वेत्तीति । ठक् ।)

वुद्धविशेषः । इति केचित् ॥

सौगन्धं, क्ली, (सुष्ठु गन्धो यस्य । ततः स्वार्थे

अण् ।) कत्तृणम् । यथा, --
“सौगन्धिकञ्च सौगन्धं रामकर्पूरके तृणे ॥”
इति शब्दरत्नावली ॥
(पुं, सङ्करजातिविशेषः । यथा, महाभारते ।
१३ । ४८ । २२ ।
“चतुरो मागधी सूते क्रूरान्मायोपजीविनः ।
मांसं स्वादुकरं क्षीद्रं सौगन्धमिति विश्रुतम् ॥”
शोभनगन्धयुक्ते, त्रि ॥

सौगन्धिकं, क्ली, (सुगन्धोऽस्त्यस्येति । सुगन्ध +

ठन् । ततः स्वार्थे अण् ।) कत्तृणम् । (अस्य
पर्य्यायो यथा, --
“कत्तृणं रौहिषं देवजग्धं सौगन्धिकन्तथा ।
भूतिकं व्यामपौरञ्च श्यामकं धूमगन्धिकम् ॥”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
कह्वारम् । इत्यमरः । १ । १० । ३६ ॥ पद्म-
रागमणिः । इति मेदिनी ॥ नीलोत्पलम् । इति
राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, --
“इन्दीवरं कुवलयं पद्मं नीलोत्पलं स्मृतम् ।
सौगन्धिकं शतदलमब्जं कमलमुच्यते ॥”
इति गारुडे २०८ अध्यायः ॥
यथा, महाभारते । ३ । १५४ । २ ।
अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् ।
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥”)

सौगन्धिकः, पुं, (सौगन्धोऽस्यास्तीति । ठन् ।)

गन्धकः । इत्यमरः । २ । ९ । १०२ ॥ सुगन्ध-
व्यवहोरी । इति मेदिनी ॥ गन्धीति हिन्दी
भाषा ॥ (श्लेष्मनिमित्तकक्रिमिविशेषः । यथा,
चरके विमानस्थाने ७ अध्याये । “तेषां त्रिवि-
धानां श्लेष्मनिमित्तानां क्रिमीणां नामानि
अन्त्रादा उदरादा हृदयादाश्चुरवो दर्भपुष्पाः
सौगन्धिका महागुदाश्च इति ॥”)

सौगन्ध्यं, क्ली, सुगन्धत्वम् । सुगन्धस्य भाव इत्यर्थे

सुगन्धशब्दात् ष्ण्य (ष्यञ्) प्रत्ययेन निष्पन्नम् ॥
(यथा, महाभारते । १ । ६३ । ७९ ।
“एवमुक्त्वा वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ॥”)

सौचिः, पुं, सौचिकः । इति शब्दरत्नावली ॥

सौचिकः, पुं, (सूच्या जीवतीति । सूची + ठक् ।)

सूचीकर्म्मोपजीवी । दर्जी इति भाषा । तत्-
पर्य्यायः । तुन्नवायः २ । इत्यमरः । २ । १० । ६ ॥
सूचिकः ३ सौचिः ४ सूत्रभित् ५ । इति शब्द-
रत्नावली ॥

सौजन्यं, क्ली, (सुजनस्य भावः कर्म्म वा । सुजन

+ ष्यञ् ।) सुजनता । यथा, --
“सौजन्यं वरवंशजन्म विभवो दीर्धायुरारोग्यता
विज्ञत्वं विनयित्वमिन्द्रियवशः सत्पात्रदाने
रुचिः ।
सन्मन्त्री सुसुतः प्रिया प्रियतमा भक्तिश्च
नारायणे
सत्पुण्येन विना त्रयोदश गुणाः संसारिणां
दुर्लभा ॥”
इट्युद्भटः ॥

सौण्डी, स्त्री, पिप्पली । इति शब्दचन्द्रिका ॥

(पिप्पलीशब्देऽस्या विशेषो विज्ञेयः ॥)

सौत्रः, पुं, (सूत्रं यज्ञसूत्रमर्हतीति । सूत्र +

अण् ।) ब्राह्मणः । इति हेमचन्द्रः ॥ (सूत्रे
पठितः पाणिन्यादिभिः कर्म्मविशेषायेति ।
अण् ।) नियतप्रयोगाभावधातुविशेषः । यथा, --
“धातूनामिह सौत्राणां द्विचत्वारिंशदीरिताः ॥
इति कविकल्पद्रुमः ॥
(सूत्रस्येदमित्यण् ।) सूत्रसम्बन्धिनि, त्रि ॥

सौत्रामणी, स्त्री, (सुत्रामा इन्द्रो देवता अस्याः ।

सुत्रामन् + अण् । बहुलवचनात् न टिलोपः ।
ततः स्त्रियां ङीप् ।) यागविशेषः । यथा ।
अथ सौत्रामणी त्रिभिरध्यायैः प्रक्रियते । स
एतं महाक्रतुमपश्यत् सौत्रामणीमिति श्रुतेः ।
तत्र सुरां सन्धीयते । तत्र मन्त्रः । स्वाद्वीन्त्वा
स्वादुना तीव्रां तीव्रेणामृताममृतेन । मधुमती
मधुमता सृजामि सँ सोमेन सोमोऽस्यश्विभ्यां
पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सूत्राम्णे पच्यस्व ॥
सौत्रामण्याः ऋषिः प्रजापतिः । सुरा देवता ।
अनुष्टुप् छन्दः । इति यजुर्व्वेदस्य काण्व-
शाखायाम् २१ अध्यायः ॥ विस्तारस्तु
तत्रैव २१ । २२ । २३ । अध्यायेषु द्रष्टव्यः ।
योगक्रमस्तु कात्यायनसूत्रभाष्ये द्रष्टव्यः ॥ (अत्र
सुरां पित्वा ब्राह्मणः पतितो न भतति । यदुक्तम्
“सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिबेत्
सुराम् ।
अन्यत्र कामतः पीत्वा पतितस्तु द्विजो भवेत् ॥”

सौदामनी, स्त्री, (सुदामा मेघः पर्व्वतो वा । तेन

“एकदिक् । तेनैकदिक् ।” ४ । ३ । ११२ ॥
इति अण्) विद्युत् । इत्यमरः । ३ । १ । ९ ॥
(सुदामा ऐरावतस्तस्य स्त्री सौदामनी पत्न्या-
मीप् वृद्धिश्च मनीषादित्वात् । श्वेतद्विपः
सुदामा चेति ऐरावतपर्य्याये त्रिकाण्डशेषः ॥
“खेऽभ्रं जगाम काञ्चन-
सरसमसौदामनीलताधामास्तम् ।
कुवलयमयमिव सरजः
सरसमसौदामनीलताधामास्तम् ॥”
इति हरिप्रबोधयमकात् सौदामिनीत्यपपाठ
इति मुकुटः । इति भरतः ॥ * ॥ यथा, महा-
भारते । १ । १७२ । ४२ ।
“ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा ।
सौनामनीव चाब्भ्रेषु तत्रैवान्तरधीयत ॥”)
अप्सरोभेदः । विद्युद्भेदः । इति मेदिनी ।
(यथा, भागवते । १ । ६ । २८ ।
“एवं कष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मनः ।
कालः प्रादुरभूत् कार्लेतडित् सौदामनी यथा ॥”
सुदामा माला तत्र भवा सौदामनी माला-
कारा इत्यर्थः । सुदामा पर्व्वतः तेनैकदिगिति
सूत्रेण्ण अण् स्फटिकमयपर्व्वतप्रान्तभागभवा हि
विद्युदतिस्फुटा भवति । इतितट्टीकायां श्रीधर-
स्वामी ॥)

सौदामिनी, स्त्री, विद्युत् । इत्यमरटीका । १ । ३ । ९

(यथा, ऋतुसंहारे । ३ । १२ ।
“नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्पताका ॥
तडिद्भेदः । (यथा, महाभारते । ३ । ५३ । १२ ।
“तत्र स्म राजते भैमी सर्व्वाभरणभूषिता ।
सखीमध्येऽनवद्याङ्गी विद्युत् सौदामिनी यथा ॥
अप्सरोभेदः । इति हेमचन्द्रः ॥ देशविशेषः ।
इत्यजयः ॥

सौदाम्नी, स्त्री, सौदामनी । इति शब्दरत्नावली ॥

सौदायिकं, त्रि, (सुदायेभ्यः पितृमातृभर्त्तृकुल-

सम्बन्धिभ्य आगतमिति । सुदाय + ठञ् ।) पितृ-
मातृभर्त्तृकुललब्धस्त्रीधनम् । यथा, कात्यायनः ।
“ऊढया कन्यया वापि पत्युः पितृगृहेऽथवा ।
भर्त्तुः सकाशात् पित्रोर्व्वा लब्धं सौदायिकं
स्मृतम् ॥
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्र्यमिष्यते
यस्मात् तदानृशंस्याथं तैर्दत्तं तत्प्रजीवनम् ॥
सौदायिके सदा स्त्रीणां स्वातन्त्र्यं परिकीर्त्तितम्
विक्रये चैव दाने च यथेष्टं स्थावरेष्वपि ॥”
सुदायेभ्यः पितृमातृभर्त्तृकुलसम्बन्धिभ्यो लब्धं
सौदायिकम् । आनृशंस्यमनैष्ठुर्य्यम् । इति
दायतत्त्वम् ॥

सौदासः, पुं, इक्ष्वाकुवंशीयः अयोध्याधिपतिः ।

अस्य नामान्तरम् । कल्माषपादः १ मित्र-
सहः २ । इति पुराणम् ॥ (यथा,
महाभारते । १ । १२२ । २१ ।
“सौदासेन च रम्भोरु नियुक्ता पुत्त्रजन्मनि ।
मदयन्ती जगामर्षिं वशिष्ठमिति नः श्रुतम् ॥”
अस्य विशेषविवरणन्तु कल्माषपादशब्दे द्रष्टव्यम् ॥)