शब्दकल्पद्रुमः/सागरः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/३२४

सागरः, पुं, (सगरस्य राज्ञोऽयमिति । सगर +

अण् ।) समुद्रः । इत्यमरः । १ । १० । १ ॥
सगरेणावतारितत्वात् तस्यायमिति ष्णे सागरो
दन्त्यादिः । क्षीरोदादिष्वप्युपमया सागरव्यप-
देशः इति भट्टाः । इति भरतः ॥ स तु सप्त-
विधः । यथा, --
“लवणः क्षीरसंज्ञश्च घृतोदो दधिसंज्ञकः ।
सुरोदेक्षुरसोदौ च स्वादूदः सप्तमो भवेत् ॥
चत्वारः सागराः ख्याताः पुष्करिण्यश्च ताः
स्मृताः ॥”
इत्याद्य वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
(सगरस्यापत्यं पुमानिति । सगर + अण् ।
सगरपुत्त्रः । यथा, महाभारते । ३ । १०७ । ७ ।
“वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः ।
ब्रह्माणं शरणं जग्मुः सहिताः सर्व्वदैवतैः ॥”)
मृगविशेषः । इति शब्दचन्द्रिका ॥ दशपद्म-
संख्या । यथा, --
“विन्दः खर्व्वो निखर्व्वश्च शङ्खपद्मौ च सागरः ॥”
इति ब्रह्माण्डपुराणम् ॥
(सागरस्येदमिति । सागरसम्बन्धिनि, त्रि ।
यथा, हरिवंशे । ५३ । ३८ ।
“आधत्स्व सरितां नाथ त्यक्त्वेमां सागरीं
तनुम् ॥”)

सागरगामिनी, स्त्री, (सागरं गच्छतीति । गम +

णिनिः । ङीप् ।) नदी । इति त्रिकाण्डशेषः ॥
(वाच्यलिङ्गेऽपि दृश्यते । यथा, रघुः । ६ । ५२ ।
“नृपं तमावर्त्तमनोज्ञनाभिः
सा व्यत्यगादन्यबधूर्भवित्री ।
महीधरं मार्गवशादुपेतं
स्रोतोवहा सागरगामिनीव ॥”)
सूक्ष्मैला । इति राजनिर्घण्टः ॥

सागरनेमिः, स्त्री, (सागरः नेमिरिव यस्याः ।)

पृथिवी । इति हेमचन्द्रः ॥

सागरमेखला, स्त्री, (सागरः मेखलेव यस्याः ।)

पृथिवी । इति हेमचन्द्रः ॥ (वाच्यलिङ्गेऽपि
दृश्यते । यथा, महाभारते । ३ । १०७ । ६४ ।
“अंशुमानपि धर्म्मात्मा महीं सागरमेखलाम् ।
प्रशशास महाराज ! यथैवास्य पितामहः ॥”)

सागराम्बरा, स्त्री, (सागरः अम्बरं वस्त्रमिव

यस्याः ।) पृथिवी । इति हेमचन्द्रः ॥ (यथा,
रघुः । ३ । ९ ।
“निघानगर्भामिव सागराम्बरां
शमीमिवाभ्यन्तरलीनपावकाम् ।
नदीमिवान्तःसलिलां सरस्वतीं
नृपः ससत्त्वां महिषीममन्यत ॥”)

सागरालयः, पुं, (सागरः आलयो यस्य ।)

वरुणः । इति शब्दमाला ॥

सागरोत्थं, क्ली, (सागरादुत्तिष्ठतीति । उत् + स्था

+ कः ।) समुद्रलवणम् । इति राजनिर्घण्टः ॥

साङ्कलं, त्रि, (सङ्कल + “सङ्कलादिभ्यश्च ।” ४ ।

२ । ७५ । इति अञ् ।) सङ्कलेन निर्वृत्तम् ।
सङ्कलनाज्जातम् । इति सिद्धान्तकौमुदी ॥

साङ्कृतिः, पुं, मुनिविशेषः । स तु वैयाघ्रपद्यगोत्रस्य

प्रवरः । यथा, --
“वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च ।
अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥”
इति तिथ्यादितत्त्वम् ॥

साङ्क्षेपिकः, त्रि, (सङ्क्षेपाय हितः । सङ्क्षेप + ठञ् ।)

संक्षिप्तः । इति सिद्धान्तकौमुदी ॥ (यथा,
मनुटीकायां कुल्लूकः । १२ । ३४ ।
“इदं वक्ष्यमाणं साङ्क्षेपिकं क्रमेण लक्षणं ज्ञात-
व्यम् ॥”) संक्षेपकारकः । संक्षेपशब्दात् ष्णिक-
प्रत्ययनिष्पन्नः ॥

साङ्ख्यः, पुं, कपिलमुनिकृतदर्शनशास्त्रविशेषः ।

तत्पर्य्यायः । कापिलः २ । इति हेमचन्द्रः ॥
तथा च ।
“साङ्ख्यं कपिलमुनिना प्रोक्तं
संसारविमुक्तिकारणं हि ।
यत्रैताः सप्ततिरार्य्या
भाष्यं चात्र गौडपादकृतम् ॥
एतत् पवित्रमग्र्यं
मुनिरासुरयेऽनुकम्पया प्रददौ ।
आसुरिरपि पञ्चशिखाय
तेन च बहुघा कृतं तन्त्रम् ॥
शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्य्याभिः ।
संक्षिप्तमार्य्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥
सप्तत्यां किल येऽर्था-
स्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
आख्यायिका विरहिताः
परवादविवर्ज्जिताश्चापि ॥”
इति साङ्ख्यप्रवचनभाष्यम् ॥

साङ्ख्ययोगः, पुं, (साङ्ख्योक्तो योगः ।) ज्ञानयोगः ।

स च ब्रह्मविद्या । यथा, --
“द्वितीये शोकसन्तप्तमर्ज्जुनं ब्रह्मविद्यया ।
प्रतिबोध्य हरिश्चक्रे स्थितप्रज्ञस्य लक्षणम् ॥”
इति गीताटीकायां श्रीधरस्वामी । २ । १ ॥
तद्योगो यथा, --
श्रीभगवानुवाच ।
“अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्व्वे वयमतः परम् ॥
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥
मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तां तितिक्षस्व भारत ॥
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।
अविनाशि तु तद्विद्धि येन सर्व्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित् कर्त्तुमर्हति ॥
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्मात् पुद्धस्व भारत ॥
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ ! कं घातयति हन्ति कम् ॥
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्व्वगतः स्थाणुरचलोऽयं सनातनः ॥
अव्यक्तोऽयमचिन्त्योऽयमविकार्य्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो ! नैनं शोचितुमर्हसि ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥”
इत्यादि श्रीभगवद्गीतायां साङ्ख्ययोगे । २ ।
११ -- ३० ॥ * ॥

साङ्गमः, पुं, (सङ्गम एव । स्वार्थे अण् ।) सङ्गमः ।

इत्यमरटीकायां भरतः । ३ । २ । १९ ॥

साङ्ग्रामिकः, पुं, (संग्रामे साधुः । संग्राम +

“गुडादिभ्यष्ठञ् ।” ४ । ४ । १०३ । इति
ठञ् ।) सेनापतिः । सङ्ग्रामकुशले, त्रि । इति
सिद्धान्तकौमुदी ॥ (सङ्ग्रामसम्बन्धिनि च त्रि ।
यथा, महाभारते । १ । २ । २३२ ।
“ते तस्य वचनं श्रुत्वा मन्त्रयित्वा च यद्धितम् ।
साङ्ग्रामिकं ततः सर्व्वं सज्जं चक्रुः परन्तपाः ॥”)

साङ्मुखी, स्त्री, (सङ्मुखाय हिता सङ्मुख +

अण् । ङीप् ।) सायाह्रव्यापिनी तिथिः ।
यथा, --
“पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।
प्रतिपन्नवमी चैव कर्त्तव्या साङ्मुखी तिथिः ॥
इति पैठीनसिवचनस्य तु ।
‘साङ्मुख्यं नाम सायाह्रव्यापिनी दृश्यते यदा ।’
इति स्कन्दपुराणेन सायाह्रव्यापितिथेः साङ्मुख्य-
विधानेन पूजादावनवकाशादुपवासपरत्वम् ।
सायाह्रव्यापित्वमपि मुहूर्त्तान्यूनत्वेन ज्ञेयम् ।”
इति तिथ्यादितत्त्वम् ॥

साचि, व्य, (सच + इण् ।) तिर्य्यगर्थः । तत्पर्य्यायः ।

तिरः २ । इत्यमरः । ३ । ४ । ६ ॥ (यथा,
किराते । १० । ५७ ।
“सविनयमपराभिसृत्य साचि
स्मितसुभगैकलसत्कपोललक्ष्मीः ॥”)

साचिव्यं, क्ली, (सचिव + ष्यञ् ।) सचिवस्य भावः ।

सचिवशब्दात् भावे ष्ण्यप्रत्ययेन निष्पन्नम् ॥
(यथा, रामायणे । ५ । ५ । १ ।
पृष्ठ ५/३२५
“चन्द्रोऽपि साचिव्यमिवास्य कुर्व्वं-
स्तारागणैर्मध्यगतो विराजन् ।
ज्योत्स्नावितानेन निपत्य लोका-
नुत्तिष्ठतेऽनेकसहस्ररश्मिः ॥”)

साचिवाटिका, स्त्री, (साचि यथा तथा वटति

वेष्टयतीति । वट वेष्टने + ण्वुल् । टापि अत
इत्वम् ।) श्वेतपुनर्नवा । इति रत्नमाला ॥

साचीकृतं, त्रि, (असाचि साचि कृतम् । अभूत-

तद्भावे च्विः ।) वक्रीकृतम् । इति सिद्धान्त-
कौमुदी ॥ (यथा, रघुः । ६ । १४ ।
“प्रालम्बमुत्कृष्य यथावकाशं
निनाय साचीकृतचारुवक्त्रः ॥”)

साञ्जनः, पुं, (अञ्जनेन तद्वच्छरीरेण सह वर्त्त-

मानः ।) कृकलासः । इति शब्दचन्द्रिका ॥
(अञ्जनविशिष्टे, त्रि ॥)

साट, त् क प्रकाशने । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) द्वितीय-
स्वरयुक्तसकारादिरयम् । अससाटत् । इति
दुर्गादासः ॥

सात्, क्ली, (सात सुखे + क्विप् ।) ब्रह्म । इति

केचित् ॥

सात, क सुखे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) दन्त्यादिः । सातयः ।
सौत्रधातुरयम् । इति दुर्गादासः ॥

सातं, क्ली, (सात सुखे + अच् ।) सुखम् । इत्य-

मरटीकायां भरतः ॥ दत्तम् । नष्टम् । षण-
धातोः षोधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥

सातयः, त्रि, (सातयतीति । सात सुखे + “अनुप-

सर्गात् लिम्पविन्देति ।” ३ । १ । १३८ । इति
शः ।) सुखजनकः । सात क सुखे इत्यस्मात्
ञौ शप्रत्ययेन निष्पन्नः । इति मुग्धबोध-
टीकायां दुर्गादासः ॥

सातला, स्त्री, (सातं सर्पविषादिनाशं लातीति ।

ला + कः ।) चर्म्मकषा । इत्यमरः । २ । ४ । १४३ ॥
क्षुपविशेषः । स तु सेहुण्डभेदः । तत्पर्य्यायः ।
सप्तला २ सारी ३ बिन्दुला ४ विमला ५
अमला ६ बहुफेना ७ चर्म्मकषा ८ फेना ९
दीप्ता १० विषाणिका ११ स्वर्णपुष्पी १२
पत्रघना १३ । अस्या गुणाः । कफपित्तघ्नत्वम् ।
लघुत्वम् । तिक्तत्वम् । कषायत्वम् । विसर्पविष-
विस्फोटव्रणशोफनाशित्वञ्च । इति राजनि-
र्घण्टः ॥

सातवाहनः, पुं, (सातः वाहनो यस्य ।) शालि-

वाहनराजः । इति हेमचन्द्रः ॥ (सातनाम-
केन गुह्यकेनोढत्वादस्य तथा नाम । यथा,
कथासरित्सागरे । ६ । १०७ -- १०८ ।
“इत्युक्त्वान्तर्हिते तस्मिन् सातनामनि गुह्यके ।
स राजा तं समादाय बालं प्रत्याययौ गृहम् ॥
सातेन यस्मादूढोऽभूत्तस्मात्तं सातवाहनम् ।
नाम्ना चकार कालेन राज्ये चैनं न्यवेशयत् ॥”)

सातिः, स्त्री, (सन + क्तिन् । “जनसनखनामिति ।”

६ । ४ । ४२ । इति आत्वम् । यद्वा, सनु दाने +
क्तिन् । “ऊति-यूति-जूति-सातीति ।” ३ । ३ । ९७ ।
इति इत्वाभावो निपात्यते ।) अवसानम् ।
दानम् । तीव्रवेदना । इत्यमरभरतौ ॥ (संभज-
नम् । इति ऋग्भाष्ये सायणः ॥ यथा, ऋग्वेदे ।
१० । १४३ । ५ ।
“यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥”)

सातिसारः, त्रि, (अतिसारेण सह वर्त्तमानः ।)

अतिसाररोगयुक्तः । तत्पर्य्यायः । अति-
सारकी २ । इत्यमरः । २ । ४ । ५९ ॥

सातीलकः, पुं, (सतीलक एव । स्वार्थे अण् ।)

सतीलकः । इत्यमरटीकायां रायमुकुटः । २ ।
९ । १६ ॥

सात्त्व(त्व)तः, पुं, (सात्त्वतस्यापत्यं पुमानिति । सात्त्वत

+ अञ् ।) बलदेवः । इति हेमचन्द्रः ॥ (कृष्णः ।
यथा, महाभारते । १ । २१९ । १२ ।
“ततस्तत्र महाबाहुः शयानः शयने शुभे ।
आपगानां वनानाञ्च कथयामास सात्त्वते ॥”
यादवमात्रे । यथा, तत्रैव । १ । २२२ । ३ ।
“अर्थलुब्धान् न वः पार्थो मन्यते सात्त्वतान्
सदा ।
स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ॥” * ॥
सत्त्वमेव सात्त्वं तत् तनोतीति । तन + डः ।)
विष्णुः । इति त्रिकाण्डशेषः ॥ (सच्छब्देन
सत्त्वमूर्त्तिर्भगवान् । स उपास्यतया विद्यते
ऽस्येति । मतुप् । ततः स्वार्थे अण् ।) विष्णु-
भक्तविशेषः । यथा, --
“सत्त्वं सत्त्वाश्रयं सत्त्वगुणं सेवेत केशवम् ।
योऽनन्यत्वेन मनसा सात्त्वतः समुदाहृतः ॥
विहाय काम्यकर्म्मादीन् भजेदेकाकिनं हरिम् ।
सत्यं सत्त्वगुणोपेतो भक्त्या तं सात्त्वतं विदुः ॥
मुकुन्दपादसेवायां तन्नामश्रवणेऽपि च ।
कीर्त्तने च रतो भक्तो नाम्नः स्यात् स्मरणे
हरेः ॥
वन्दनार्च्चनयोर्भक्तिरनिशं दास्यसख्ययोः ।
रतिरात्मार्पणे यस्य दृढानन्तस्य सात्त्वतः ॥”
इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥
यदुवंशीयसत्त्वतराजपुत्त्रः । यथा, --
“अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य तु रिक्-
थभाक् ।
अथांशोः सत्त्वतो नाम विष्णुभक्तः प्रतापवान् ॥
महात्मा दाननिरतो धनुर्व्वेदविदां वरः ।
स नारदस्य वचनाद्वासुदेवार्च्चनान्वितः ॥
शास्त्रं प्रवर्त्तयामास कुण्डगोलादिभिः श्रुतम् ।
तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ॥
प्रवर्त्तते महाशास्त्रं कुण्डादीनां हितावहम् ।
सात्त्वतस्तस्य पुत्त्रोऽभूत् सर्व्वशास्त्रविशारदः ॥
पुण्यश्लोको महाराजस्तेन चैतत् प्रकीर्त्तितम् ।
सात्त्वतः सत्त्वसम्पन्नः कौशल्यान् सुषुवे सुतात् ॥
अन्धकं वैमहं भोजं विष्णुं देवावृधं नृपम् ॥”
इति कौर्म्मे पूर्व्वभागे यदुवंशानुकीर्त्तने । २४ ।
३१ -- ३६ ॥ (सङ्करजातिविशेषः । यथा, मनुः ।
१० । २३ ।
“वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य्य एवच ।
कारूषश्च विजन्मा च मैत्रः सात्त्वत एवच ॥”)

सात्त्व(त्व)ताः, पुं, भूम्नि, देशभेदः । यथा, --

“यदवस्तु दशार्हाः स्युः सात्त्वताः कुकुराश्च ते ।”
इति त्रिकाण्डशेषः ॥

सात्त्व(त्व)ती, स्त्री, नाटकवृत्तिविशेषः । यथा, --

“अभिनेयप्रकाराः स्युर्भाषाः षट् संस्कृता-
दिकाः ।
भारती सात्त्वती कैशिक्यारभट्यौ च वृत्तयः ॥”
इति हेमचन्द्रः ॥
(यथा, शृङ्गारतिलके । ३ । ४२ -- ४३ ।
“हर्षप्रधानाधिकसत्त्ववृत्ति-
स्त्यागोत्तरोदारवचोमनोज्ञा ।
आश्चर्य्यसम्पत्सुभगा च या स्या-
त्सा सात्त्वती नाम मतात्र वृत्तिः ॥
नातिगूढार्थसम्पत्तिः श्रव्यशब्दमनोरमा ।
वीरे रौद्रेऽद्भुते शान्ते वृत्तिरेषा मता यथा ॥
लक्ष्म्यास्त्वं जनको निधिश्च पयसां निःशेष-
रत्नाकरो
मर्यादानिरतस्त्वमेव जलधे ! ब्रूतेऽत्र कोऽन्या-
दृशम् ।
किं त्वेकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णया
क्लान्तस्योदरपूरणेऽपि न सहो यत्तन्मनाङ्मध्य-
मम् ॥
स्फारितोत्कटकठोरतारका-
कीर्णवह्निकणसंततिः क्रुधा ।
दुर्निमित्ततडिदाकृतिर्बभौ
दृष्टिरिष्टसमरांशुमालिनः ॥
अत्यद्भुतं नराधिप तव कीर्तिर्धवलयन्त्यऽपि
जगन्ति ।
रक्तान् करोति सुहृदो मलिनयति च वैरि-
वदनानि ॥
निवृत्तविषयासङ्गमधुना सुचिराय मे ।
आत्मन्येव समाधानं मनः केवलमिच्छति ॥” * ॥
सात्त्वतस्यापत्यं स्त्री । सात्त्वत + अञ् । ङीप् ।)
शिशुपालमाता । इति केचित् ॥ (यथा, महा-
भारते । २ । ४५ । ६ ।
“एष नः शत्रुरत्यन्तं पार्थिवाः सात्त्वतीसुतः ।
सात्त्वतानां नृशंशात्मा न हितोऽनपकारि-
णाम् ॥”
सुभद्रा । यथा, महाभारते । १ । २२२ । ६६ ॥
“स सात्त्वत्यामधिरथः सम्बभूव धनञ्जयात् ।
मखे निर्मथनेनेव शमीगर्भाद्धुताशनः ॥”)

सात्त्विकः, पुं, (सत्त्वात् सत्त्वगुणप्रधाणात् विष्णो-

र्भूतः । सत्त्व + ठञ् ।) ब्रह्मा । (सात्त्वं सत्त्व-
गुणोऽस्यास्तीति । ठन् । विष्णुः । इति महा-
भारतम् । १३ । १४९ । १०६ ॥) त्रिविध-
भावान्तर्गतभावविशेषः । इति हेमचन्द्रः ॥
तस्य लक्षणं यथा, --
“सत्त्वोत्कटे मनसि ये प्रभवन्ति भावा-
स्ते सात्त्विका इति विदुर्म्मुनिपुङ्गवास्ते ।”
इति सर्व्वानन्दः ॥
पृष्ठ ५/३२६
ते च यथा, --
“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्णमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥”
प्रलयो मूर्च्छा । इति भरतः ॥

सात्त्विकः, त्रि, (सत्त्वेन निर्वृत्तः । तेन निर्वृत्त-

मिति ठञ् ।) सत्त्वगुणनिष्पादितः । इत्यमरः ।
१ । ७ । १६ ॥ सत्त्वं मनोगुण आशयो वा तेन
निष्पादितः सात्त्विकः स्वेदादिः । सत्त्वशब्दात्
ढघे कादिति ष्णिकः । इति भरतः ॥ * ॥ सत्त्व-
गुणयुक्तः । तद्विवरणं यथा, गीतायाम् । १७ । ४ ।
“यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥”
सात्त्विकयज्ञो यथा, गीतायाम् । १७ । ११ ।
“अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥”
सात्त्विकतपो यथा, तत्रैव । १७ । १७ ।
“श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥”
सात्त्विकदानं यथा, तत्रैव । १७ । २० ।
“दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥”
सात्त्विकयोगो यथा, तत्रैव । १८ । ९ ।
“कार्य्यमित्येव यत् कर्म्म नियतं क्रियतेऽर्ज्जुन ।
सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥”
सात्त्विकज्ञानं यथा, तत्रैव । १८ । २० ।
“सर्व्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्वि-
कम् ॥”
सात्त्विककर्म्म यथा, तत्रैव । १८ । २३ ।
“नियतं सङ्गरहितमरागद्बेषतः कृतम् ।
अफलप्रेय्सुना कर्म्म यत्तत् सात्त्विकमुच्यते ॥”
सात्त्विकबुद्धिर्यथा, तत्रैव । १८ । ३० ।
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये ।
बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥”
सात्त्विकी धृतिर्यथा, तत्रैव । १८ । ३३ ।
“धृत्या यया घारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ !
सात्त्विकी ॥”
सात्त्विकसुखं यथा, तत्रैव । १८ । ३७ ।
“यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥”
सात्त्विकपुराणानि यथा, --
“वैष्णवं नारदीयञ्च तथा भागवतं शुभम् ।
गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने ।
सात्त्विकानि पुराणानि विज्ञेयानि शुभानि वै ॥”
सात्त्विकस्मृतयो यथा, --
“वाशिष्ठञ्चैव हारीतं व्यासं पाराशरं तथा ।
भारद्वाजं काश्यपञ्च सात्त्विका मुक्तिदाः
शुभाः ॥”
इति पाद्मोत्तरखण्डे ४३ अध्यायः ॥
सात्त्विकप्रियाहारा यथा, --
“आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः
सात्त्विकप्रियाः ॥”
इति श्रीभगवद्गीतायाम् । १७ । ८ ॥
सात्त्विककर्त्ता कर्त्तृशब्दे सात्त्विकाहार आहार-
शब्दे च द्रष्टव्यः ॥

सात्त्विकी, स्त्री, (सात्त्वं सत्त्वगुणोऽस्त्यस्या इति ।

सात्त्व + ठन् । ङीप् ।) दुर्गा । इति शब्दरत्ना-
वली ॥ पूजाविशेषः । यथा, --
“शारदी चण्डिकापूजा त्रिविधा परिगीयते ।
सात्त्विकी राजसी चैव तामसी चेति तत्
शृणु ॥”
सात्त्विकी जपयज्ञाद्यैर्नैवेद्यैश्च निरामिषैः ।
महात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् ।
पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनास्तथा ॥”
इति दुर्गोत्सवतत्त्वम् ॥

सात्म्यं, त्रि, सुखजनकम् । आत्मनो हितं कर्म्म

आत्म्यं आत्म्येन सह वर्त्तमानं सात्म्यम् । इति
भैषज्यरत्नावली ॥ (यथा, सुश्रुते । १ । ४५ ।
“सर्व्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहो-
च्यते ॥”
“सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुप-
शेते । तत्र ये धृतक्षीरतैलमांसरससात्म्याः सर्व्व-
रससात्म्याश्च ते बलवन्तः क्लेशसहाः चिर-
जीविनश्च भवन्ति । रूक्षनित्याः पुनरेक-
रससात्म्याश्च ये ते प्रायेणाल्पबलाश्चाक्लेशा-
सहाः अल्पायुषोऽल्पसाधनाश्च ।” इति चरके
विमानस्थानेऽष्टमेऽध्याये ॥
“यो रसः कल्पते यस्य सुखायैव निषेवितः ।
व्यायामजातमन्यद्वा तत्सात्म्यमिति निर्द्दिशेत् ॥”
इति सुश्रुते सूत्रस्थाने ३६ अध्याये ॥
क्ली, देवत्वम् । यथा, भागवते । ६ । १८ । २०
“इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु
कृतं हि तैः ॥”
सारूप्यम् । यथा, तत्रैव । ७ । १० । ४० ।
“नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥”)

सात्यकिः, पुं, (सत्यकस्यापत्यं पुमानिति । इञ् ।)

वृष्णिवंशीयसत्यकपुत्त्रः । स तु श्रीकृष्णस्य
सारथिः । तत्पर्य्यायः । शैनेयः २ शिनेर्नप्ता ३
युयुधानः ४ । इति त्रिकाण्डशेषः ॥ योधः ५ ।
इति जटाधरः ॥ (अयं हि अर्ज्जुनस्य शिष्य
आसीत् भारतयुद्धे युधिष्ठिरपक्षमाश्रित्य तुमुलं
युद्धं विधाय च हतेऽपि निखिलबले वासुदेवेन
पाण्डवैश्च सह जीवित आसीत् । तथाहि महा-
भारते अश्वत्थामवाक्ये । १० । ९ । ४७ ।
“सप्त पाण्डवतः शेषा धार्त्तराष्ट्रास्त्रयो वयम् ।
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः ।
अहञ्च कृतवर्म्मा च कृपः शारद्बतस्तथा ॥”)

सात्यवतः, पुं, (सत्यवत्यां भवः । अण् ।) वेदव्यासः ।

इति त्रिकाण्डशेषः ॥

सात्यवतेयः, पुं, (सत्यवत्या अपत्यं पुमान् । सत्य-

वती + ढक् ।) सत्यवतीसुतः । वेदव्यासः । इति
हलायुघः ॥

सादः, पुं, (सद + घञ् ।) विषादः । (यथ,

रघुः । ३ । २ ।
“शरीरसादादसमग्रभूषणा
मुखेनं सालक्ष्यत लोध्रपाण्डुना ॥”)
शरणम् । गतिः । (यथा, बृहत्संहितायाम् ।
४६ । ६० ।
“यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहन-
युतम् ।
राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च ॥”)

सादनं, क्ली, (सद् + स्वार्थे णिच् + ल्युट् ।)

सदनम् । इत्यमरटीकायां भरतः ॥ (यथा,
महाभारते । १ । १५४ । २८ ।
“अहमेको नयिष्यामि त्वामद्य यमसादनम् ॥”)

सादनी, स्त्री, (साद्यन्ते रोगा अनया । सद +

णिच् + करणे ल्युट् । ङीप् ।) कटुकी । इति
राजनिर्घण्टः ॥

सादिः, पुं, (सद गतौ + “वसिवपियजीति ।”

उणा० ४ । १२४ । इति इञ् ।) सारथिः ।
इति हेमचन्द्रः ॥ योद्धा । इत्युणादिकोषः ॥
अवसन्नः । वायुः । इति संक्षिप्तसारोणादि-
वृत्तिः ॥

सादितः, त्रि, (सद + णिच् + क्तः ।) विषादितः ।

(यथा, रघुः । ७ । ४४ ।
“यैः सादिता लक्षितपूर्ब्बकेतून्
तानेव सामर्षतया निजघ्नुः ॥”)
शरणप्रापितः । गमितः । इति ञ्यन्तसदधातोः
क्तप्रत्ययेन निष्पन्नः ॥

सादी, [न्] पुं, (सद गतौ + णिनिः ।) अश्वारूटः ।

इत्यमरः । २ । ८ । ६० ॥ (यथा, रघुः । ७ । ४७ ।
“पूर्व्वं प्रहर्त्ता न जघान भूयः
प्रतिप्रहाराक्षममश्वसादी ॥”)
गजारोहः । रथारोहः । इति मेदिनी ॥

सादृश्यं, क्ली, (सदृशस्य भावः । सदृश + ष्यञ् ।)

सदृशत्वम् । तद्भिन्नत्वे सति तद्गतभूयोधर्म्मवत्त्वम् ।
यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादि-
मत्त्वं मुखे चन्द्रसादृश्यम् । इति सिद्धान्तमुक्ता-
वली ॥ * ॥ अथ सादृश्यानि । वेण्याः सर्पः १
भ्रमरश्रेणिः २ । केशपाशस्य चामरः १ मयूर-
पुच्छः २ । धम्मिल्लस्य विधुन्तुदः १ अन्धकारः २ ।
सीमन्तस्य मेघः १ पन्थाः २ दण्डः ३ । लला-
टस्य अष्टमीचन्द्रः १ फलकम् २ । कपोलस्य
चन्द्रः १ मुकुरस्थलम् २ । भ्रुवोः खड्गः १
धनुर्यष्टिः २ रेखा ३ पल्लवः ४ वल्लिः ५ । दृशोः
चकोरचक्षुः १ हरिणचक्षुः २ मदिरा ३
खञ्जनः ४ अञ्जनम् ५ कुमुदम् ६ नीलपद्मम् ७
प्रोष्ठीमत्स्यः ८ । कर्णस्य दोला १ पाशः २ ।
नासायाः वंशः १ केतकीपुष्यकण्टकः २ अधो-
मुखतूणीरः ३ चञ्चुः ४ तिलपुष्पम् ५ दण्डः ६ ।
अधरस्य नवपल्लवम् १ विम्बफलम् २ प्रबालः ३ ।
दन्तानाम् मुक्ताश्रेणिः १ कुन्दपुष्पम् २ दाडिम-
बीजम् ३ हीरकम् ४ । स्मितस्य ज्योत्स्ना १
पुष्पम् २ पीयूषम् ३ । श्वासस्य पद्मगन्धः १
पृष्ठ ५/३२७
मुक्ताशीतलम् २ । जिह्वायाः जवापुष्पम् १
चञ्चलवस्तु २ । वाण्याः कोकिलशब्दः १
भ्रमरगुञ्जनम् २ सुधा ३ मधु ४ बीणावाद्यम् ५ ।
मुखस्य चन्द्रः १ पद्मम् २ दर्पणम् ३ । कण्ठस्य
शङ्खः १ । चिवुकस्य दर्पणवृन्तम् १ । अंसस्य
कुम्भः १ । बाह्वोः वल्लरी १ मृणालम् २ तरङ्गः ३
शाखा ४ पाशः ५ । हस्तस्य मृणालादयः १ ।
अङ्गुल्याः पल्लवम् १ पद्मदलम् २ चम्पकपुष्पम् ३
नवदलम् ४ दीपः ५ । नखानां रत्नम् १ ताराः २
पुष्पम् ३ चन्द्रः ४ । स्तनयोः पद्ममुकुलम् १ घटः २
हस्तिकुम्भः ३ गिरिः ४ चक्रवाकः ५ विल्व-
युग्मम् ६ । मध्यस्य वरटकमध्यम् १ सिंहमध्यम् २
वज्रमध्यम् ३ क्षीणद्रव्यम् ४ । लोमश्रेण्याः रेखा १
नीलकान्तमणिशिखा २ शैवाललता ३ धूम-
लता ४ हस्तिशुण्डः ५ । नाभेः आवर्त्तः १ पद्मम् २
ह्रदः ३ विवरम् ४ कूपः ५ । त्रिवल्याः तरङ्गः १
सोपानम् २ निश्रेणी ३ । जघनस्य पुलिनम् १
पीठः २ फलकम् ३ । नितम्बस्य स्थलम् १ पर्व्वतः २
पृथिवी ३ स्थूलोपलम् ४ महद्बस्तु ५ । ऊर्व्वोः
कदलीकाण्डः १ करिकरः २ । जङ्घयोः स्तम्भः
१ । पादस्य पद्मम् १ नवपल्लवम् २ । गतेः हंस-
गमनम् १ हस्तिगमनम् २ खञ्जनगमनम् ३ ॥
पुरुषस्त्रियोरौचित्येन सादृश्यं वर्णनीयम् ।
पुरुषरूपे कोऽपि कुत्रचिद् विशेषो लिख्यते ।
स्कन्धस्य वृषस्कन्धः १ वज्रम् २ अश्वस्कन्धः ३ ।
बाह्वोः बृहत्सर्पः १ हस्तिशुण्डः २ स्तम्भः ३
अर्गलदण्डः । वक्षसः शिला १ कवाटम् २ ।
गतेः प्रमत्तानुडुद्गतिः १ । यशसः चन्द्रकुन्द-
यूथिकाप्रभृतिशुक्लवर्णपदार्थाः १ । प्रतापस्य
अग्निः १ बाडवाग्निः २ रविः ३ रविकिर-
णादिः ४ जवापद्मप्रभृतिरक्तवर्णपदार्थाः ५ ।
पुण्यस्य संस्कारः १ गौः २ वृक्षबीजम् ३
अङ्कुरः ४ शुक्लवर्णपदार्थाः ५ । सामर्थ्यस्य
महद्वस्तु १ सिंहविक्रमादिः २ । नीतेः साध्वी
स्त्री १ प्रदीपज्वाला २ लतादिः ३ । आज्ञायाः
वेदवाक्यम् १ गुरूपदेशः २ उत्कटेच्छादिः ३ ।
शासनस्य प्रारब्धकर्म्म १ स्थिरवस्तूनि २ ।
पापस्य कर्द्दमः १ कलङ्कः २ अकीर्त्तिः ३
कृष्णवर्णकेशमसीप्रभृतिवस्तूनि ४ अन्धकारः ५ ।
अकीर्त्तेः मालिन्यम् १ कृष्णवर्णवस्तूनि २ अन्ध-
कारः ३ । कस्तूरिकायाः मेघः १ भ्रमरः २
नीलकान्तमणिः ३ कज्जलम् ४ सुगन्धिद्रव्यदाह-
जन्यधूमः ५ कृष्णवर्णपुष्पप्रभृतिः ६ स्थलविशेषे
कन्दर्पायशः ७ कामुकायशः ८ कामिन्ययशश्च ९ ।
कज्जलस्य पूर्व्वोक्तमेघादीनि ९ । कर्पूरस्य चन्द्रः १
चन्द्रकिरणः २ कुन्दयूथिकादिपुष्पम् ३ हिण्डीर-
पिण्डः ४ विरहिगण्डप्रभृतिः ५ । मनोरथस्य
फलपुष्पादियुक्तवृक्षः १ कविबुद्धिरचना २ ।
आनन्दस्य सुधासमुद्रः १ ब्रह्मसाक्षात्कारादिः २ ।
कामिन्यवलोकनस्य नित्यसुखसाक्षात्कारः १
अमृतरसः २ पूर्णचन्द्रादिसाक्षात्कारः ३ अति-
प्रियतमवस्तुप्राप्तिः ४ ब्रह्मसाक्षात्कारः ५ ।
अमृतस्य कामिन्यधरादिः १ सत्काव्यम् २ ब्रह्म-
साक्षात्कारः ३ । विषस्य साध्वीस्त्रीविरहः १
पापम् २ मलिनवस्तु ३ दुःखदवस्तु ४ ग्रीष्माग्निः ५
शीतकालीनशीतोदकम् ६ व्यभिचारिणी भार्य्या ७ ।
विरहस्य अग्निः १ आधिः २ यातना ३ समुद्रः
४ तप्तवस्तु ५ दुःखदवस्तूनि ६ । पुष्पाणां
चन्द्रादिः १ कामिनी २ कर्पूरम् ३ यशः ४ ।
चन्द्रस्य प्रमदामुखम् १ अतिशुभ्रवस्तु २ यशः-
पुण्यादिः ३ । सूर्य्यस्य शिवनेत्राग्निः १ जवा-
पुष्पम् २ वसन्तकालीनपलाशवृक्षः ३ काञ्चन-
वृक्षः ४ वाडवाग्निः ५ । पद्मस्य पाटलपुष्पम् १
कामिनीमुखादिः २ रक्तवर्णद्रव्यम् ३ । इन्दी-
वरस्य नीलकान्तमणिः १ कस्तूरी २ कामिनी-
नेत्रम् ३ । कैरवस्य चन्द्रः १ कुन्दादिशुक्ल-
वर्णवस्तु २ । राज्ञः इन्द्रः १ कुबेरः २ चन्द्रः ३
सूर्य्यः ४ मान्धातृभगीरथप्रभृतिप्रसिद्धचक्रवर्त्तिनः
५ । मेघस्य कृष्णः १ काली २ नीलपद्मसमूहः ३
भ्रमरश्रेणिः ४ इन्दीवरवनम् ५ दातृव्यक्तिः ६
कृष्णवर्णवस्तु ७ । शरन्मेघस्य चन्द्रप्रभृतिशुक्ल-
वर्णपदार्थाः १ । कन्दर्पस्य चन्द्रः १ पुरूरवाः २
अश्विनीकुमारः ३ नलः ४ । प्रदीपस्य चम्पक-
पुष्पम् १ प्रतापः २ शास्त्रम् ३ ऋषिः ४ । वायोः
शीघ्रगपदार्थः १ । अश्वस्य वायुः १ हरिणः २
मनः ३ । हस्तिनः पर्व्वतः १ मेघः १ तमाल-
वृक्षः ३ अन्धकारः ४ । सौधस्य कैलासः १
ऐरावतः २ उच्चैःश्रवाः ३ चन्द्रः ४ । शिवस्य
पूर्व्वोक्तानि ४ । श्रीकृष्णस्य सजलजलदः १ तमाल-
वृक्षः २ नीलमणिः ३ भ्रमरश्रेणिः ४ इन्दीवरम् ५
नीलपद्मम् ६ आकाशः ७ । श्रीरामस्य पूर्व्व-
कथिताः पदार्थाः ७ दूर्व्वादलम् ८ वृक्षपल्प-
वम् ९ । लक्ष्म्याः पार्व्वती १ चन्द्रकान्तिः २
रतिः ३ सीता ४ द्रौपदी ५ पद्मकान्तिः ६ ।
सरस्वत्याः चन्द्रकला १ कैलासकान्तिः २ शुक्ल-
वर्णपदार्थः ३ । विपणेः समुद्रः १ पण्डित-
मनः २ नारायणोदरम् ३ ब्रह्माण्डम् ४ । समु-
द्रस्य मेघादिकृष्णवर्णवस्तु १ विदूरभूमिः २
महाभारतम् ३ अपस्मारी ४ । पुरस्य स्वर्गः १
कैलासः २ मनोरमबृहद्वस्तु ३ । रथस्य पुष्प-
कम् १ वैकुण्ठः २ पुरी ३ पोतः ४ पृथ्वी ५ ।
कामिनीमुखस्य चन्द्रः १ पद्मम् २ दर्पणः ३ ।
कामिन्याः तडित् १ तारा २ स्वर्णलता ३
स्वर्णवर्णा केतकी ४ । नायकस्य चन्द्रः १ कन्दर्पः
२ ऐलः ३ अश्विनीकुमारः ४ । सभायाः सूर्य्य-
मण्डलम् १ सुधर्म्मा २ गण्डकीपर्व्वतः ३ सुमेरुः ४
गङ्गा ५ । पण्डितस्य बृहस्पतिः १ शुक्रः २
ऋषिः ३ सरस्वती ४ । विरहिणः श्रीरामः १
श्रीशिवः २ अजः ३ दुःखिव्यक्तिः ४ उन्मत्त-
व्यक्तिः ५ चन्दनतरुः ६ शिवशिरश्चन्द्रः ७
वाडवाग्नियुक्तसमुद्रः ८ वल्मीकः ९ चन्द्रशेखर-
पर्व्वतः १० । दातुः कर्णः १ उषीनरः २ कल्प-
वृक्षः ३ कामधेनुः ४ रोहणः ५ समुद्रः ६ मेघः ७
बलिः ८ जैमिनिः ९ युधिष्ठिरः १० । वसन्त-
ऋतोः मलयवायुः १ मद्यम् २ उन्मादरोगः ३ ।
विरहिणं प्रति यमः १ अग्निः २ विषम् ३ सर्पः ४ ।
ग्रीष्मऋतोः अग्निः १ विरहः २ विरहिणी-
निश्वासः ३ सर्पनिश्वासः ४ । वर्षाऋतोः रात्रिः १
समुद्रः २ गगनम् ३ नारायणः ४ । शरदृतोः
काशपुष्पादिरूपचामरैरावतगजाः १ चन्द्रः २ ।
शीतऋतोः अपस्मारिव्यक्तिः १ राज्यशून्यराजा
२ । शिशिरऋतोः राजागमनकालः १ ।
गुणिनः समुद्रः १ पर्व्वतः २ पृथिवी ३ मदनः ४
अश्विनौ ५ । सचिवस्य बृहस्पतिः १ । वाक्यस्य
कोकिलशब्दः १ भ्रमरगुञ्जनम् २ वीणा-
वाद्यम् ३ । इति कविकल्पलतायाम् ४ स्तवके ४
कुसुमम् ॥

साध, य न औ सिद्धौ । इति कविकल्पद्रुमः ॥

(दिवा०-स्वा० च-पर०-अक०-निष्पादने सक०-
अनिट् ।) य, साध्यति । न, साध्नोति । औ,
सिषात्सति । सिद्धिर्निष्पत्तिः । साध्यति घटो
निष्पन्नः स्यादित्यर्थः । सिद्धिर्निष्पादनेति गोविन्द-
भट्टः । साध्नोति साध्यति घटं कुलालः निष्पा-
दयतीत्यर्थः । इति दुर्गादासः ॥

साधकः, पुं, (साध्यति निष्पादयति कार्य्यमिति ।

साध + ण्वुल् ।) साधनकर्त्ता । निष्पादकः ।
तस्य लक्षणं यथा, --
“अतः परं प्रवक्ष्यामि साधकानान्तु लक्षणम् ।
धर्म्मशीलास्तपोयुक्ताः सत्यवादिजितेन्द्रियाः ।
मात्स्यर्य्येण परित्यक्ताः सर्व्वसत्त्वहिते रताः ॥
कर्म्मशीलास्तथोत्साहा मर्त्त्यलोकेऽजुगुप्सकाः ।
परस्परसुसन्तुष्टानुकूलाः साधकस्य तु ।
ईदृशैः साधनं कुर्य्यात् सुसहायैः सहैव तु ॥”
इति देवीपुराणे नन्दामाहात्म्यसमाप्ताध्यायः ॥
अपि च ।
“चतुर्धा साधको ज्ञेयो मृदुर्मध्याधिमात्रकः ।
अधिमात्रतमः श्रेष्ठो भवाब्धौ लङ्घनक्षमः ॥
मन्दोत्साही सुसंमूढो व्याधिस्थो गुरुदूषकः ।
लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः ॥
चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः ।
मन्दाचारो मन्दवीर्य्यो ज्ञातव्यो मृदुना नरः ॥
द्वादशाब्दे भवेत् सिद्धिरेतस्य यत्नतः परम् ।
मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम् ॥ १
समबुद्धिः क्षमायुक्तः पुण्यकाङ्क्षी प्रियंवदः ।
मध्यस्थः सर्व्वकार्य्येषु सामान्यः स्यान्न संशयः ।
एतज्ज्ञात्वैव गुरुभिर्दीयते युक्तितो लयः ॥ २ ॥
स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्य्यवानपि ।
महाशयो दयायुक्तः क्षमावान् वीर्य्यवानपि ॥
शूरो लयश्च श्रद्धावान् गुरुपादाब्जपूजकः ।
योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः ॥
एतस्य सिद्धिः षड्वर्षैर्भवेदभ्यासयोगतः ।
एतस्मै दीयते धीरैर्हठयोगस्य साधकः ॥ ३ ॥
महावीर्य्यान्वितोत्साही मनोज्ञः शौर्य्यवानपि ।
शास्त्रज्ञोऽभ्यासशीलश्च निर्म्ममश्च निराकुलः ॥
नवयौवनसम्पन्नो मिताहारी जितेन्द्रियः ।
निर्भयश्च शुचिर्दक्षो दाता सर्व्वजनाश्रयः ॥
पृष्ठ ५/३२८
अधिकारी स्थिरो धीमान् यथेच्छावस्थितः
क्षमी ।
सुशीलो धर्म्मचारी च गुप्तचेष्टः प्रियंवदः ॥
शास्त्रविश्वाससम्पन्नो देवतागुरुपूजकः ।
जनसङ्गविरक्तश्च महाव्याधिविवर्ज्जितः ॥
अणिमाव्रतयोग्यश्च सर्व्वयोगस्य साधकः ।
त्रिभिः संवत्सरैः सिद्धिरेतस्य स्यान्न संशयः ।
सर्व्वयोगाधिकारी च नात्र कार्य्या विचा-
रणा ॥” ४ ॥
इति शिवसंहिता ॥

साधका, स्त्री, दुर्गा । यथा, --

“साधनात् सिद्धिरित्युक्ता साधका वाथ ईश्वरी ।
स्वामित्वाद्दानसिद्धित्वात् सिद्धीश्वर्य्या प्रकी-
र्त्तिता ॥”
इति देवीपुराणे ४५ देवीनिरुक्ताध्यायः ॥

साधनं, क्ली, (साध + ल्युट् ।) करणकारक-

विशेषः । तत्र तृतीया स्यात् । इति व्याकर-
रणम् ॥ साध्यते कर्म्म निष्पाद्यतेऽनेनेति साध-
नम् । इति दुर्गादासः ॥ (कारणम् । हेतुः ।
यथा, मनुः । ११ । २३८ ।
“औषधान्यगदो विद्या दैवी च विविधा
स्थितिः ।
तपसव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥”)
मारणम् । (यथा, किराते । १४ । १७ ।
“अथो शरस्तेन मदर्थमुज्झितः
फलञ्च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात् कृतेः
कृतार्थता नन्वधिका चमूपतेः ॥”)
मृतसंस्कारः । अग्निदानम् । गतिः । गमनम् ।
द्रव्यम् । धनम् । अर्थदापनम् । अर्थस्य धन-
भूम्यादेर्द्दापनम् । निर्व्वर्त्तनम् । निष्पादनम् ।
(यथा, रघुः । ४ । १६ ।
“वार्षिकं सञ्जहारेन्द्रः धनुर्जैत्रं रघुर्दधौ ।
प्रजार्थसाधने तौ हि पर्य्यायोद्यतकार्म्मुकौ ॥”)
उपकरणम् । सामग्री । यथा युद्धोपकरणं
हस्त्यश्वादिः । (यथा, ऋतुसंहारे । ६ । ३४ ।
“रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलुस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि शीधुपानं
सर्व्वं हि साधनमिदं कुसुमायुधस्य ॥”)
अनुव्रज्या । अनुगमनम् । इत्यमरभरतौ । ३ ।
३ । ११९ ॥ सैन्यम् । सिद्धौषधिः । उपायः ।
इति मेदिनी ॥ यथा, --
“तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ।
दुर्भगत्वं वृथा लोको वहते सति साधने ॥”
इति तिथ्यादितत्त्वधृतमत्स्यपुराणवचनम् ॥
मेढ्रः । इति च मेदिनी ॥ मैत्रम् । उधः ।
सिद्धिः । इति धरणिः ॥ कारकः । प्रमाणम् ।
इति हेमचन्द्रः ॥ व्याप्यम् । यथा, --
“अनुमा त्वनुमानं स्यात् व्याप्यं लिङ्गञ्च
साधनम् ।”
इति त्रिकाण्डशेषः ॥
मोहनम् । जवः । इत्यजयः ॥ साधना । साधा
इति भाषा । यथा, --
ब्रह्मोवाच ।
“शशाप पार्व्वती रुष्टा स्त्रीस्वभावाच्च चापलात् ।
सर्व्वेषां साधनेनैव क्षन्तुमर्हन्ति साधवः ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे । १२ । ५१ ॥
मन्त्रसिद्धिकरणम् । यथा, --
“मत्स्यं मांसञ्च मद्यञ्च मुद्रा मैथुनमेव च ।
दिव्यानाञ्चैव वीराणां साधनं भवसाधनम् ॥”
इति मुण्डमालातन्त्रम् ॥
ब्रह्मज्ञानसाधनन्तु नित्यानित्यवस्तुविवेकेहामुत्र-
फलभोगविरागशमदमादिसम्पन्मुमुक्षुत्वम् । इति
वेदान्तसारः ॥

साधना, स्त्री, (साध + णिच् + युच् + टाप् ।)

सिद्धिः । निष्पादना । इति साधधात्वर्थदर्श-
नात् ॥ आराधना । ञ्यन्तसाधधातोरनप्रत्यय-
निष्पन्ना ॥

साधन्तः, त्रि, (साध्यति भिक्षामिति । साध +

“तॄभूवहिवसिभासिसाधीति । “उणा० ३ । १२८ ।
इति झच् । सच षित् ।) भिक्षुकः । इत्युणादि-
कोषः ॥

साधयन्ती, स्त्री, (साधयतीति । साध + णिच् +

शतृ । ङीप् ।) उपासनाकर्त्री । यथा, --
“सखि मत्प्राणनाथन्तु साधयन्ती निरन्तरम् ।
अतिश्रान्तासि सद्भावस्नेहयोरियमौचिती ॥”
इति काव्यचन्द्रिका ॥

साधारणः, त्रि, (आधारणं अविशेषेण कार्य्यादि-

भारधारणं तेन सह वर्त्तते इति ।) समानः ।
सदृशः । इत्यमरः । २ । १० । ३७ ॥ (यथा,
कुमारे । १ । ४२ ।
“कण्ठस्य तस्याः स्तनबन्धुरस्य
मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननात् बभूव
साधारणो भूषणभूष्यभावः ॥”)
सामान्यम् । अनेकसम्बन्ध्येकवस्तु । इति चामरः ।
३ । १ । ८२ ॥ यथा, --
“साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् ।
शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥”
इति दायभागः ॥
तद्वैदिकपर्य्यायः । स्वः १ पृश्निः २ नाकः ३
गौः ४ विष्टप् ५ नभः ६ । इति षट् साधा-
रणनामानि । इति वेदनिघण्टौ । १ । ४ ॥ * ॥
पुं, न्यायमते हेत्वाभासविशेषः । यथा, --
“अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
कालात्ययापदिष्टश्च हेत्वाभासस्तु पञ्चधा ॥
आद्यः साधारणस्तु स्यात् स्यादसाधारणो-
ऽपरः ।
तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥
यः सपक्षे विपक्षे च स तु साधारणो मतः ।
यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥
तथैवानुपसंहारी केवलान्वयिपक्षकः ॥”
इति भाषापरिच्छेदः ॥
(देशविशेषः । क्ली, उदकविशेषश्च । यथा, --
“मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः ।
तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
“उभयगुणसमेतं नातिरुक्षं न स्निग्धं
न च खरबहुलञ्च स्नेहनं कण्टकाढ्यम् ।
भवति च जलमल्पं नातिशीतं नचोष्णं
समप्रकृतिसमेतं विद्धि साधारणञ्च ॥”
इति हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥
“जाङ्गलं वातभूयिष्ठमनूपन्तु कफोल्वणम् ।
साधारणं सममलं त्रिधा भूदेशमादिशेत् ॥”
इति वाभटे सूत्रस्थाने प्रथमेऽध्याये ॥)

साधारणदेशः, पुं, (साधारणो देशः ।) जाङ्ग-

लानूपलक्षणसम्पन्नस्थानम् । तद्वारिगुणाः ।
वृष्यत्वम् । दीपनत्वम् । मधुरत्वम् । लघुत्वञ्च ।
इति राजवल्लभः ॥

साधारणधर्म्मः, पुं, (साधारणो धर्म्मः ।) चतुर्वर्ण-

कर्त्तव्यकर्म्म । यथा, मानवे ९ अध्याये ।
“प्रजनार्थं स्त्रियः सृष्टाः सन्तानार्थञ्च मानवाः ।
तस्मात्साधारणो धर्म्मः श्रुतौ पत्न्या सहोदितः ॥”
अपि च ।
“अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः ।
दमः क्षमार्ज्जवं दानं सर्व्वेषां धर्म्मसाधनम् ॥”
इति गारुडे । ९६ । ३० ॥

साधारणस्त्री, स्त्री, (साधारणा सामान्या अनेक-

सम्बन्धिनी स्त्री ।) वेश्या । इति हेमचन्द्रः ॥

साधारणी, स्त्री, (साधारणस्येयमिति । अण् ।

स्त्रियां ङीष् ।) कुञ्चिका । इति हेमचन्द्रः ॥

साधारण्यं, क्ली, (साधारस्येदमिति । ष्यञ् ।)

कुञ्चिका । इति हेमचन्द्रः ॥ साधारणस्य
भावश्च ॥ (यथा, साहित्यदर्पणे १ परिच्छेदे ।
“कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः ॥”)

साधिका, स्त्री, (साधयतीति । साध + णिच् +

ण्वुल् । टापि अत इत्वम् ।) सुषुप्तिः । इति
हेमचन्द्रः ॥ साधनकर्त्री । अधिकेन सह वर्त्त-
माने, त्रि ॥ (यथा, भागवते । ३ । ११ । २४ ।
“स्वं स्वं कामं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ॥”
यथा च तत्रैव । ५ । २१ । १० ।
“सार्द्धद्वादशलक्षाणि साधिकानि चोपयाति ॥”)

साधितः, त्रि, (साध + णिच् + क्तः ।) दापितः ।

इत्यमरः । ३ । १ । ४० ॥ द्वे धनादिकं दापिते
धुती इति ख्यातं यस्मै दत्तं तत्रेति रमानाथः ।
दण्डिते इति विद्याविनोदः । शोधितद्रव्ये इति
नयनानन्दः । ददातेर्ञ्यन्तात् क्तः ह्री व्ली रीति
पन् दैपो रूपमिति नयनानन्दः । दायित इति
पाठ इति कलिङ्गपुरुषोत्तमौ । तत्र ञि दय ङ
ग्रहणे गतौ वधे दाने इत्यस्मात् ञ्यन्तात् क्तः ।
साधेर्ञ्यन्तात् क्ते साधितः । इति भरतः ॥
“दायितो दापितोऽपि स्यात् साधितः शोधितो-
ऽपि च ।”
इति शब्दरत्नावली ॥
पृष्ठ ५/३२९

साधिष्ठ, त्रि, (अयमेषामतिशयेन वाढः । वाढ +

“अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ ।
इति इष्ठन् । “अन्तिकवाढयोर्नेदसाधौ ।”
५ । ३ । ६३ । इति साधादेशः ।) अतिशय-
वाढः । दृढतमः । इत्यमरः । ३ । १ । ११२ ॥
न्याय्यः । इति हेमचन्द्रः ॥ अत्यार्य्यः । इति
मेदिनी ॥ (यथा, छान्द्योग्ये । ४ । ९ । ३ ।
“श्रुतं ह्येव मे भगवद्द्वशेभ्य आचार्य्याद्धैव
विद्या विदिता साधिष्ठं प्रापतीति ॥”)

साधीयान् [स्] त्रि, (अयमनयोरतिशयेन वाढः ।

इति । वाढ + “द्विवचनविभज्योपपदे तरबी-
यसुनी ।” ५ । ३ । ५७ । इति ईयसुन् । “अन्ति-
कवाढयोरिति ।” ५ । ३ । ६० । इति साधा-
देशः ।) अतिशयवाढः । अतिशयसाधुः । इत्य-
मरः । ३ । ३ । २३४ ॥ (यथा, साहित्यदर्पणे १
परिच्छेदे ।
“कटुकौषधोपशमनीयस्य रोगस्य सितश र्करो-
पशमनीयत्वे कस्य वा रोगिणः सितशर्करा-
प्रवृत्तिः साधीयसी न स्यादिति ॥”)

साधुः, पुं, (साध्यति निष्पादयति धर्म्मादिकार्य्य

मिति । साध + “कृवापाजीति ।” उणा० १
१ । इति उण् ।) उत्तमकुलोद्भवः । तत्पर्य्यायः ॥
महाकुलः २ कुलीनः ३ आर्य्यः ४ सभ्यः ५
सज्जनः ६ । इत्यमरः । २ । ७ । ३ ॥ कुलजः ७
साधुजः ८ कुलकः ९ कुलिकः १० । इति शब्द-
रत्नावली ॥ कुल्यः ११ कौलेयकः १२ इति
भरतः ॥ जिनः । मुनिः । इति हेमचन्द्रः ॥ * ॥
साधुलक्षणं यथा, --
“यथालब्धोऽरिसन्तुष्टः समचित्तो जितेन्द्रियः ।
हरिपादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ १ ॥
निर्वैरः सदयः शान्तो दन्भाहङ्कारवर्ज्जितः ।
निरपेक्षो मुनिर्व्वीतरागः साधुरिहोच्यते ॥ २ ॥
लोभमोहमदक्रोधकामादिरहितः सुखो ।
कृष्णाङ्घ्रिशरणः साधुः सहिष्णुः समदर्शनः ॥ ३ ॥
समचित्तो मुनिः पूतो गोविन्दचरणाश्रयः ।
सर्व्वभूतदयः कार्ष्णो विवेकी साधुरुत्तमः ॥ ४ ॥
कृष्णार्पितप्राणशरीरबुद्धिः
शान्तेन्द्रियस्त्रीसुतसम्पदादिः ।
आसक्तचित्तः श्रवणादिभक्ति-
र्यस्येह साधुः सततं हरेर्यः ॥ ५ ॥
कृष्णाश्रयः कृष्णकथानुरक्तः
कृष्णेष्टमन्त्रस्मृतिपूजनीयः ।
कृष्णानिशं ध्यानमनास्त्वनन्यो
यो वै स साधुर्म्मुनिवर्य्यकार्ष्णः ॥” ६ ॥
इति पाद्मोत्तरखण्डे ९९ अध्यायः ॥ * ॥
अन्यच्च ।
“न प्रहृष्यति सम्माने नावमानेन कुप्यति ।
न क्नुद्धः परुषं ब्रूयादेतत् साधोस्तु लक्षणम् ॥”
इति गारुडे । ११३ । ४२ ॥ * ॥
तस्य स्वभावो यथा, --
“त्यक्तात्मसुखभोगेच्छाः सर्व्वसत्त्वसुखैषिणः ।
भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥
परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि ।
नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः ॥
परार्थमुद्यताः सन्तः सन्तः किं किं न कुर्व्वते ।
तादृगप्यम्बुधेर्व्वारि जलदैस्तत् प्रपीयते ॥
एक एव सतां मार्गो यदङ्गीकृतपालनम् ।
दहन्तमकरोत् क्रोडे पावकं यदपां पतिः ॥
आत्मानं पीडयित्वापि साधुः सुखयते परम् ।
ह्लादयन्नाश्रितान् वृक्षोदुःखञ्च सहते स्वयम् ॥”
इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥
(तथा, महानिर्व्वाणतन्त्रे । १ । २२ ।
“देवायतनगा मर्त्त्या देवकल्पा दृढव्रताः ।
सत्यधर्म्मपराः सर्व्वे साधवः सत्यवादिनः ॥”)
तस्य प्रशंसा यथा, --
यत्पूजायां भवेत् पूज्यो दृष्ट्या न यमदर्शनम् ।
पापसंघः स्पर्शनाच्च किमहो साधुसङ्गमः ॥
साधूनां हृदयं धर्म्मो वाचो वो नः सनातनाः ।
कर्म्मक्षयाणि कर्म्माणि यतः साधुर्हरिः स्वयम् ॥”
इति कल्किपुराणे ३० अध्यायः ॥ * ॥
(एतदाचारस्तु चतुर्व्विधधर्म्मप्रमाणान्यतमः ।
यथा, मनुः । २ । ६ ।
“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्विदाम्
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥”)
कलिशूद्रस्त्रीणां साधुत्वं तत्कारणञ्च यथा ।
“कलिः साध्विति यत् प्रोक्तं शूद्रः साध्विति
योषितः ।
यच्चाह भगवान् साधुर्धन्याश्चेति पुनः पुनः ॥
तत् सर्व्वं श्रोतुमिच्छामो न चेत् गुह्यं महामुने
इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ॥
श्रूयतां भो मुनिगणा यदुक्तं साधु साध्विति
यत् कृते दशभिर्व्वर्षैस्त्रेतायां हायनेन तत् ॥
द्वापरे तच्च मासेन अहोरात्रेण तत् कलौ ।
तपसो ब्रह्मचर्य्यस्य जपादेश्च फलं द्विजाः ॥
प्राप्नोति पुरुषस्तेन कलिः साध्विति भाषितम्
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् ॥
यदाप्नोति तदाप्नोति कलौ संकीर्त्त्य केशवम् ।
धर्म्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ॥
स्वल्पायासेन धर्म्मज्ञास्तेन तुष्टोऽस्म्यहं कलेः ॥ *
व्रतचर्य्यापरैर्ग्राह्या वेदाः पूर्व्वं द्विजातिभिः ।
ततस्तु धर्म्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥
वृथाकथा वृथाभोज्यं वृथेज्या च द्विजन्मनाम् ।
पतनाय तथा भाव्यं तैस्तु संयमिभिः सदा ॥
असम्यक्करणे दोषास्तेषां सर्व्वेषु वस्तुषु ।
भक्ष्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥
पारतन्त्रं समस्तेषु तेषां कार्य्येषु वै यतः ।
जयन्ति ते निजान् लोकान् क्लेशेन महता
द्विजाः ॥
द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।
निजं जयति वै लोकं शुद्धो धन्यतरस्ततः ॥
भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वा यतः ।
नियमो मुनिशार्द्दूलास्ते नासौ साध्वितीरितम् ॥
स्वधर्म्मस्याविरोधेन नरैर्लब्धं धनं सदा ।
प्रतिपाद्यञ्च पात्रेषु यष्टव्यञ्च यथाविधि ॥
तस्यार्जने महान् क्लेशः पालने च द्विजोत्तमाः ।
तथा सद्विनियोगाय विज्ञेथं गहनं नृणाम् ॥
एभिरन्यै स्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
निजान् जयन्ति वै लोकान् प्राजापत्यादिकान्
क्रमात् ॥
योषित्शुश्रूषणं भर्त्तुः कर्म्मणा मनसा गिरा ।
कुर्व्वती समवाप्नोति तत्सालोक्यं ततो द्विजाः ॥
नातिक्ले शेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषिताम् ॥”
इति विष्णुपुराणे । ६ । २ । १२ -- २९ ॥

साधुः, त्रि, (साध्यति कार्य्यमिति । साध + उण् ।)

वार्द्धुषिकः । चारुः । (यथा, महाभारते । १ ।
१०७ । ८ ।
“न किञ्चिद्वचनं राजन्नब्रवीत् साध्वसाधु वा ॥”)
सज्जनः । इति मेदिनी ॥

साधुजः, त्रि, (साधौ सत्कुले जायते इति ।

जन + डः ।) उत्तमकुलोद्भवः । इति शब्द-
रत्नावली ॥

साधुधीः, स्त्री, (साधुर्धीर्यस्याः ।) श्वश्रूः । इति

हारावली । २०१ ॥ (साधुर्धी ।) सुन्दरबुद्धिः ।
तद्युक्ते, त्रि ॥

साधुपुष्पं, क्ली, (साधु चारु पुष्पं यस्य ।) स्थल-

पद्मम् । इति शब्दमाला ॥ उत्तमकुसुमञ्च ॥

साधुवाहः, पुं, (साधुरुत्तमो वाहः ।) विनीताश्वः ।

इति हेमचन्द्रः ॥ सुन्दरवाहनश्च ॥

साधुवाही, [न्] पुं, (साधु उत्तमं वहतीति ।

वह + णिनिः ।) शोभनवहनशीलघोटकः ।
सुशिक्षिताश्वः । तत्पर्य्यायः । विनीतः २ ।
इत्यमरः । २ । ८ । ४४ ॥ सुष्ठुवाहनशीलकः ३ ।
इति शब्दरत्नावली ॥ सुन्दरघोटकविशिष्टे,
त्रि ॥ (साधुवहनशीले, त्रि । यथा, महा-
भारते । ६ । ४६ । ३६ ।
“तस्य क्रु द्धः स नागेन्द्रो वहतः साधुवाहिनः ।
पदा युगमधिष्ठाय जघान चतुरो हयान् ॥”)

साधुवृक्षः, पुं, (साधुर्वृक्षः ।) कदम्बतरुः । इति

शब्दचन्द्रिका ॥ वरुणवृक्षः । इति राज-
निर्घण्टः ॥ शोभनतरुश्च ॥

साधुवृत्तिः, स्त्री, उत्तमजीविका । सद्विवरणम् ।

सुन्दरवर्त्तनम् । साध्वी चासौ वृत्तिश्चेति कर्म्म-
धारयसमासनिष्पन्ना । साधोर्वृत्तिरिति षष्ठी-
तद्पुरुषसमासनिष्पन्ना वा ॥

साधृतं, क्ली, मयूरसमूहः । पण्यवीथी । आत-

पत्रम् । इत्यजयपालः ॥

साध्यः, पुं, (साध्यमस्त्यस्येति । अर्शआदित्वादच् ।)

गणदेवताविशेषः । इत्यमरः । १ । १ । १० ॥
स तु द्वादशसंख्यकः । यथा, भरतः ।
“साध्या द्वादशविख्याता रुद्राश्चैकादश स्मृताः ॥”
तेषां नामानि यथा, --
“मनो मन्ता तथा प्राणो नरोऽपानश्च वीर्य्यवान् ।
विनिर्भयो नयश्चैव दसो नारायणो वृषः ।
प्रभुश्चेति समाख्याताः साध्या द्वादश पौर्व्विकाः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
पृष्ठ ५/३३०
देवः । विष्कम्भादिसप्तविंशतियोगान्तर्गतैकविंश-
योगः । इति मेदिनी ॥ तत्र जातफलम् ।
“असाध्यसाध्यः किल साध्यजातः
शूरोऽतिधीरो विजितारिपक्षः ।
बुद्ध्या ह्युपायैः परिसाधितार्थः
परं कृतार्थः सुतरां विनीतः ॥”
इति कोष्ठीप्रदीपः ॥

साध्यः, त्रि, (साध + ण्यत् ।) साधनीयः । इति

मेदिनी ॥ यथा, --
“ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्यधिके चार्थे प्रोक्ते साध्यं न सिध्यति ॥”
इति मिताक्षराधृतकात्यायनवचनम् ॥
साधनार्हाभिमतः । स तु पक्षः । यथा, --
“प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥”
साध्यं साधनार्हाभिमतं पक्षं विदुः । यद्यप्यन्नत्र
साध्यं ज्ञाप्यं तद्विशिष्टधर्म्मी पक्ष इति भेद-
स्तथाप्यत्र वाक्प्रत्याय्यर्णादिधर्म्मविशेषविशि-
ष्टस्य पक्षतया धर्म्मिणोऽधमर्णपदैरेव साध्यत्वात्
साध्यपक्षयोरभेदाभिधानम् । इति व्यवहार-
तत्त्वम् ॥ * ॥ अनुमितिविधेयः । यथा । साध्यता-
वच्छेदकमिति अनुमितिविधेयतावच्छेदक-
मित्यर्थः । इति सिद्धान्तलक्षणजागदीशीटीका ॥
मन्त्रविशेषः । यथा, --
“नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ॥
पुनः कोष्ठगकोष्ठेषु सव्यतो नाम्न आदितः ।
सिद्धः साध्यः सुसिद्धोऽरिः क्रमाज्ज्ञेया मनी-
षिभिः ॥
सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः ।
सुसिद्धो ग्रहणमात्रेण अरिर्मूलं निकृन्तति ॥”
इति तन्त्रसारः ॥

साध्यतावच्छेदकं, क्ली, (साध्यतामवच्छिनत्तीति ।

अव + छिद + ण्वुल् ।) अनुमितिविधेयांशे
भासमानो धर्म्मः । यथा साध्यतावच्छेदकमिति
अनुमितिविधेयतावच्छेदकमित्यर्थः । तथा
चोक्तव्याप्तिज्ञानाद्दण्ड्यंशे दण्डत्वप्रकारिकादण्ड-
त्ववत्त्वानित्येकानुमितिर्न तु दण्डिमान् इत्या-
कारा दण्डप्रकारिकापि तस्य व्यापकतावच्छे-
दकत्वेनाग्रहात् कारणवाधेन तदसम्भवादिति
भावः । इति । सिद्धान्तलक्षणस्य जागदीशी
टीका ॥

साध्यसिद्धिपादः, पुं, (साध्यस्य सिद्धिर्यत्र । तादृशः

पादः ।) व्यवहारस्य चतुर्थपादः । स च निर्णय-
पादः । यथा । प्रत्यर्थिनोऽग्रतो लेख्यमिति
भाषापादः प्रथमः । श्रुतार्थस्योत्तरं लेख्यमित्यु-
त्तरपादो द्वितोयः । ततोऽर्थो लेखयेत् सद्य इति
क्रियापादस्तृतीयः । तत्सिद्धौ सिद्धिमाप्नोति
इति साध्यसिद्धिपादश्चतुर्थः । यथा, --
“भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।
आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥”
इति मिताक्षरा ॥

साध्वसं, क्ली, (साधूनस्यतीति । साधु + अस +

अक् ।) भयम् । इत्यमरः । १ । ७ । २१ ॥
(यथा, भागवते । २ । १ । १५ ।
“अन्तकालेऽपि पुरुष आगते गतसाध्वसः ।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥”
स्यति नाशयतीति । सो + “स्यतेर्धुक् ।” इति
असच् धुक् च । प्रतिभा । इत्युणादिटीकायां
उज्ज्वतः । ३ । ११७ ॥ भाणिकाङ्कविशेषः ।
इति साहित्यदर्पणम् । ६ । ५५६ ॥)

साध्वी, स्त्री, (साधु + ङीष् ।) मेदा । इति राज-

निर्घण्टः ॥ पतिव्रता । इत्यमरः । २ । ६ । ६ ॥
तल्लक्षणमाह हारीतः ।
“आर्त्तार्त्ते मुदिता हृष्टे प्रोषिता मलिना कृशा
मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥”
(“सा स्त्री ज्ञेया पतिव्रता ।” इत्यपि क्वचित्
पाठः ॥ * ॥) तद्धर्म्मा यथा । अङ्गिराः ।
“साध्वीनामेव नारीणामग्निप्रपतनादृते ।
नान्यो धर्म्मो हि विज्ञेयो मृते भर्त्तरि कर्हि-
चित् ॥”
इति शुद्धितत्त्वम् ॥
तत्प्रशंसा यथा, --
“साध्वी स्त्री मातृतुल्या च सर्व्वथा हित-
कारिणी ।
असाध्वी वैरतुल्या च शश्वत् सन्तापदायिका ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । २ । २५ ॥ * ॥
साध्वीस्त्रीणां पतिः प्रेम्णा शतपुत्त्राधिकः ।
यथा, --
“शतपुत्राधिकः प्रेम्णा सतीनाञ्च पतिर्नृप ! ।
निरूपितो भगवता वेदेषु हरिणा स्वयम् ॥”
इति तत्रैव । ३४ । ६२ ॥ * ॥
“कामिनीं कुलजाताञ्च रहस्ये कामिनीं
सतीम् ।
न पृच्छति कुले जात एवमेव श्रुतौ श्रुतम् ॥
श्रुतौ पुराणे यासाञ्च चरित्रमनिरूपितम् ।
तासु को विश्वसेत् प्राज्ञो अप्रज्ञाञ्च दुराशयाम्
तासां को वा रिपुर्म्मित्रं प्रार्थयन्ती नवं नवम्
दृष्ट्वा सुवेशं पुरुषमिच्छन्ति हृदये सदा ॥
वाह्ये स्वात्मसतीत्वञ्च प्रापयन्ती प्रयत्नतः ।
सत्त्वप्रधानं यद्रुपं तत् शुद्धञ्च स्वभावतः ।
तदुत्तमञ्च विश्वेषु साध्वीरूपं प्रशंसितम् ॥
स्थानाभावावात् क्षणभावात् मध्यवृत्तेरभावतः
देहक्लेशेन रोगेण सत्संसर्गेण सुन्दरि ! ॥
बहुगोष्ठीवृतेनैव रिपुराजभयेन च ।
रजोरूपस्य साध्वीत्वमेतेनैव प्रजायते ॥”
इति ब्रह्यवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः ॥ * ॥
अन्यच्च ।
“सुते स्तनान्धे यः स्ने हो याकाङ्क्षान्वेतिक्षोभिते
पतिस्ने हस्य साध्वीनां कलां नार्हन्ति षोडशीम्
स्तनान्धे स्तनदानान्तं मिष्टान्ने भोजनावधि ।
कान्ते चित्तं सतीनाञ्च स्वप्ने ज्ञाने च सन्ततम् ॥
नान्ने तृष्णा जले तृष्णा साध्वीनां स्वामिना
विना ।
यथा जारे पुंश्चलीनां साध्वीनान्तु तथा प्रिये ।
शोकं निमग्नमन्येषां कालेन पानभोजनात् ।
विपरीतं कान्तशोको वर्द्धते भक्षणादहो ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । १७ ।
८७, ९०, ९७ ॥ * ॥ किञ्च ।
“आकाशोऽसौ दिशः सर्व्वा यदिनश्यन्ति वायवः
तथापि साध्वीशापस्तु न नश्यति कदाचन ॥”
इति तत्रैव । ४२ । ३४ ॥

सानन्दः, पुं, (आनन्देन सह वर्त्तते इति ।)

षोडशध्रुवकान्तर्गतध्रुवकभेदः । यथा, --
“अष्टादशाक्षरैर्युक्तो यशोहर्षप्रदो ध्रुवः ।
कहस्कसंज्ञके ताले सानन्दो वीरके रसे ॥”
इति सङ्गीतदामोदरः ॥
गुच्छकरञ्जः । इति राजनिर्घण्टः ॥ आह्लाद-
युक्ते, त्रि । यथा, --
“रामं नमयति सानन्दं धर्म्मानभिनिविश्य सन् ॥”
इति मुग्धबोधव्याकरणम् ॥

सानन्दूरः, पुं, तीर्थविशेषः । यथा, --

धरण्युवाच ।
“द्वारकातः परं श्रेष्ठं अस्ति गुह्मं परं क्वचित्
ततो महीवचः श्रुत्वा विष्णुः कमललोचनः ।
वाराहरूपी भगवान् प्रत्युवाच वसुन्धराम् ॥
वराह उवाच ।
सानन्दूरेति विख्यातं भूमे ! गुह्यं परं मम ।
उत्तरे तु समुद्रस्य मलयस्य च दक्षिणे ।
तत्र तिष्ठामि वसुधे उदीचीदिशमाश्रितः ॥
प्रतिमा वै मदीयास्ति नात्युच्चा नातिनीचका ।
आयसीं तां वदन्त्येके अन्येताम्रसयीं तथा ॥
कांस्यीं रीतिमयीमन्ये केवित् सीसकनिर्मिताम्
शिलामयीमित्यपरे महदाश्चर्य्यरूपिणीम् ।
तत्र स्थानानि मे भूमे कथ्यमानं मया शृणु ॥
मनुजा यत्र मुच्यन्ते गताः संसारसागरम् ।
तत्राश्चर्य्यं प्रवक्ष्यामि सानन्दूरे यशस्विनि ! ॥
सौवर्णं दृश्यते पद्मं मध्याह्ने तु दिवाकरे ।
यत्र रामगृहं नाम मम गुह्यं यशस्विनि ॥
तत्रापि शृणु चाश्चर्य्यं यच्चापि परिवर्त्तते ।
एवं तत्र लता वृक्षमुच्चस्थूलमहाद्रुमम् ।
समुद्रमध्ये तिष्ठन्तं सोऽपि तत्र न पश्यति ॥ * ॥
अन्यच्च ते प्रवक्ष्यामि महाश्चर्य्यं शृणुष्व मे ।
मम भक्तांश्च पश्यन्ति तिष्ठन्तो हि स्वकर्म्मणा ॥
बहुमत्स्यसहस्राणि कोट्यो ह्यर्व्वुदमेव च ।
क्षिप्तः पिण्डश्च तन्मध्ये येन केन विकर्म्मिणा ॥
एकस्तत्र स्थूलमत्स्यो भूमिचक्रेण चाङ्कितः ।
तावत् कश्चिन्न गृह्णाति यावत्तेन न भक्षितः ॥
तत्र रामसरं नाम तस्मिन् क्षेत्रे परं मम ।
अगाधञ्चाप्यपारञ्च रक्तपद्मविभूषितम् ॥
तत्र स्नानन्तु कुर्व्वीत एकरात्रोषितो नरः ।
बुधस्य भवनं गत्वा मोदते नात्र संशयः ॥
अथ प्राणान् प्रमुच्येत रम्ये रामसरे तथा ।
बुधस्य भवनं त्यक्त्वा मम लोकञ्च गच्छति ॥
तत्र रामसरे भूमे महाश्चर्य्यं शृणुष्व मे ।
मनुजास्तत्र पश्यन्ति मम कर्म्मपरायणाः ॥
पृष्ठ ५/३३१
सत्सरः क्रोशविस्तारं बहुगुल्मलताकुलम् ।
मनोज्ञं रमणीयञ्च जलजैश्चापि संवृतम् ॥
तत्र मूढालिपद्मानि द्योतयन्ति दिशो दश ।
एकन्तु दृश्यते श्वेतमेकं रुक्ममयं तथा ॥
तत्र ब्रह्मसरं नाम गुह्यं क्षेत्रे परं मम ।
उत्तरेण तु पार्श्वेन मम क्षेत्रस्य सुन्दरि ॥
तत्र कुण्डं महाभागे पर्व्वते च समाश्रितम् ।
धारा यत्र पतेच्चैव स्थूला मुषलसन्निभा ॥
तत्र स्नानञ्च कुर्व्वीत षष्ठकालोषितो नरः ।
ब्रह्मलोकं समासाद्य मोदते नात्र संशयः ॥
अथ प्राणान् प्रमुच्येत तत्र ब्रह्मसरे मम ।
ब्रह्मणा समनुज्ञातो मम लोकञ्च गच्छति ॥
तत्राश्चर्य्यं महाभागे रम्ये ब्रह्मसरे शृणु ।
मद्भक्ता यानि पश्यन्ति घोरं संसारमोक्षणम् ॥
चतुर्व्विंशतिद्वादश्यां सा धारा पृथलेक्षणे ।
मध्याह्ने पतते भूमे यावत् सूर्य्यः स तिष्ठति ॥
परावृत्ते तु मध्याह्ने सा धारा न पतेद्भुवि ।
एवं तत्र महाश्चर्य्यं पुण्ये ब्रह्मसरे मम ॥”
इति वाराहे सानन्दूरमाहात्म्यनामाध्यायः ॥

सानसिः, पुं, (सन्यते दीयते दक्षिणाद्यर्थमिति ।

षणु दाने + “सानसिवर्णसीति ।” उणा० ४ ।
१०७ । इति असिप्रत्ययेन साधुः ।) सुवर्णः ।
इत्युणादिकोषः ॥ (संभजनीये, त्रि । यथा,
ऋग्वेदे । १० । १४० । ४ ।
“पृणक्षि सानसिं क्रतुम् ॥”
“सानसिं संभजनीयं क्रतुं कर्म्म पृणक्षि
अस्माभिः संपर्चयसि फलेन वा संयोजयसि ॥”
इति तद्भाष्ये सायणः ॥)

सानिका, स्त्री, (सनति सुस्वरमिति । षणुदाने +

ण्वुल् । टापि अत इत्वम् ।) वंशी । इति शब्द-
रत्नावली ॥

सानुः, पुं, क्ली, (सन्यते सेव्यते मुनिप्रभृतिभिरिति

सन सेवायाम् + “दॄसनिजनीति ।” उणा० १ ।
३ । इति ञुण् ।) पर्व्वतसमभूभागः । तत्पर्प्यायः ।
स्नुः २ प्रस्थः ३ । इत्यमरः । २ । ३ । ५ ॥ (यथा,
रामायणे । २ । ३१ । २७ ।
“भवास्तु सह वैदेह्या गिरिसानुषु रंस्यते ।
अहं सर्व्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥”)
वनम् । वात्या । मार्गः । अप्रम् । कोविदः ।
इति मेदिनी ॥ अर्कः । पल्लवः । इति जटाधरः ॥

सानुजं, क्ली, (सानौ जायते इति । जन् + डः ।)

प्रपौण्डरीकम् । इति राजनिर्घण्टः ॥

सानुजः, पुं, (सानौ पर्व्वतप्रस्थे जायते इति ।

जन + डः ।) तुम्बुरुवृक्षः । इति राजनिर्घण्टः ॥
अनुजेन सह वत्तमाने सानुजाते च त्रि ॥

सानुमान्, [त्] पुं, (सानुर्विद्यतेऽस्येति । सानु +

मतुप् ।) पव्वतः । इत्रि हेमचन्द्रः ॥ (यथा,
रघुः । ८ । ९० ।
“न पृथग्जनवच्छुचो वशं
वशिनामुत्तम ! गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं
यदि वायौ द्वितयेऽपि ते चलाः ॥”
वाच्यलिङ्गेऽपि दृश्यते । यथा, रामायणे । २ ।
४८ । १० ।
“आपगाश्च महानूपाः सानुमन्तश्च पर्व्वताः ॥”)

सानेयिका, स्त्री, (सानेयी + स्वार्थे कन् ।) वंशी ।

इति शब्दरत्नावली ॥

सानेयी, स्त्री, वंशी । इति शब्दरत्नावली ॥

सान्तपनं, क्ली, (सन्तपतीति । सम् + तप + ल्युः ।

ततः स्वार्थे अण् ।) व्रतविशेषः । इत्यमरः । २ ।
७ । ५२ ॥ यथा, --
“गोमूत्रं गोमयं क्षिरं दधि सर्पिः कुशोदकम् ॥
एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥”
इति मानवे ११ अध्यायः ॥
गोमूत्रामति । गोमूत्रादि एकीकृत्य एकस्मिन्न-
हनि भक्षयेत् नान्यत् किञ्चिदद्यात् अपरदिने
चोपवासः । इत्येतत् सान्तपनं कृच्छ्रं स्मृतम् ।
यदा तु गोमूत्रादिषट् प्रत्येकं षड्दिनान्युप-
भुज्यते सप्तमे दिने चोपवासः तदा महासान्त-
पनं भवति । तथा च याज्ञवल्क्यः ।
“कुशोदकञ्च गोक्षीरं दधि मूत्रं शकृद् घृतम्
जग्ध्वा परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन् ॥
पृथक्सान्तपनद्रव्यैः षडहःसोपवासिकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनं स्मृतम् ॥”
इति कुल्लूकभट्टः ॥
गारुडे १०५ अध्यायेऽप्येवम् ॥ (सन्तापके,
त्रि ॥ यथा, ऋग्वेदे । ७ । ५९ । ९ ।
“सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन ॥”
“सान्तपनाः शत्रूणां संतापका हे मरुतः ॥”
इति तद्भाष्ये सायणः ॥ सन्तपनस्य सूर्य्यस्येद-
मिति । अण् । सूर्य्यसम्बन्धिनि च त्रि । यथा,
वाजसनेयसंहितायाम् । १७ । ८५ ।
“स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च ।”
‘सन्तपनः सूर्य्यस्ततसम्बन्धी सान्तपनः ।’ इति
तद्भाष्यम् ॥)

सान्तरं, त्रि, विरलम् । इति जटाधरः ॥ (यथा,

बृहत्संहितायाभ् । २२ । ३ ।
“यदि ताः स्युरेकरूपाः
शुभास्ततः सान्तरास्तु न शिवाय ॥”)
अन्तरेण सह वर्त्तमानञ्च ॥ (सावकाशम् ।
यथा, महाभारते । ७ । ११ । १८ ।
“तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽथ तत्त्व-
वित् ।
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥”)

सान्त्व, क सामयोगे । इति कविकल्पद्रुमः ॥ (चुरा०

पर०-सक०-सेट् ।) क, सान्त्वयति शीतार्त्तं
दयालुः । इति दुर्गादासः ॥

सान्त्व, त् क सान्त्वने । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) दन्त्यादि-
स्तमध्यः वकारोपधः । सान्त्वनं प्रियकरणम् ।
सान्त्वयति सान्त्वापयति । इति दुर्गादासः ॥

सान्त्वं, क्ली, (सान्त्व सान्त्वने + घञ् ।) अत्यर्थ-

मधुरम् । तत्तु कर्णमनःप्रीतिजनकं वाक्यम् ।
(यथा, महाभारते । ५ । १४० । २ ।
“कानि सान्त्वानि गोविन्दः सूतपुत्त्रे प्रयुक्त-
वान् ॥”)
साम । तच्च प्रियवादार्थप्रदानसम्बन्धादिभिः
क्रोधोपशमनम् । इत्यमरभरतौ ॥ (यथा,
माघे । २ । ५४ ।
“चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥”
दाक्षिण्यम् । इति मेदिनी ॥

सान्त्वनं, क्ली, (सान्त्व + ल्युट् ।) सामोपायः ।

इति हेमचन्द्रः ॥ प्रियकरणम् । इति सान्त्व-
धातुटीकायां दुर्गादासः ॥ (यथा, महाभा-
रते । २ । ३८ । ६ ।
“नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम् ।
लोकवृद्धतमे कृष्णे योऽर्हनां नाभिमन्यते ॥”)

सान्त्वना, स्त्री, क्ली, सान्त्व + युच् । टाप् । क्लीपक्षे

ल्युट् ।) सान्त्वनम् । प्रणयः । यथा । “प्रणयः
सान्त्वना न ना ।” इति जटाधरः ॥

सान्त्ववादः, त्रि, (सान्त्वस्य सामस्य वादः

कथनम् ।) सान्त्वनावाक्यम् । इति केचित् ॥

सान्दीपनिः, पुं, (सन्दीपनस्यापत्यमिति । सन्दी-

पन + इञ् ।) मुनिविशेषः । यथा, ब्रह्मवैवर्त्ते
श्रीकृष्णजन्मखण्डे । ९९ । ३० ।
“विश्वामित्रः सतानन्दो जाजलिस्तैतिलिस्तथा
सान्दीपनिश्च ब्रह्मांशो योगिनां ज्ञानिनां गुरुः ॥”
अपि च ।
“विदिताखिलविज्ञानौ तत्त्वज्ञानमयावपि ।
शिष्याचार्य्यक्रमं वीरौ ख्यातयन्तौ यदूत्तमौ ॥
ततः सान्दीपनिं काश्यमवन्तिपुरवासिनम् ।
अस्त्रार्थं जग्मतुर्व्वीरौ बलदेवजनार्द्दनौ ॥”
काश्यं काश्यां जातम् ।
“तस्य शिष्यत्वमभ्ये त्य गुरुवृत्तिपरौ हि तौ ।
दर्शयाञ्चक्रतुर्व्वीरावाचारमखिले जने ॥
सरहस्यं धनुर्व्वेदं ससंग्रहमधीयताम् ।
अहोरात्रै श्चतुःषष्ट्या तदद्भुतमभूद्द्विज ॥
सान्दीपनिरसंभाव्यं तयोः कर्म्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥
अस्त्रग्राममशेषञ्च प्रोक्तमात्रमवाप्य तौ ।
ऊचतुर्ब्रियतां या ते दातव्या गुरुदक्षिणा ॥
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म्म महामातिः
अयाचत मृतं पुत्त्रं प्रभाते लवणार्णवे ॥”
अतीन्द्रियं अन्यत्रादृष्टपूर्व्वम् ।
“गृहीतास्त्रौ ततस्तौ तु सार्घपात्रो महोदधिः
उवाच न मया पुत्त्रो हृतः सान्दीपनेरिति ॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह सोऽस्ति सलिले ममैवारिनिसूदन ॥
इत्युक्तेऽन्तर्जलं गत्वा हत्वा पञ्चजनञ्च तम् ।
कृष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥
तं पाञ्चजन्यमापूर्य्य गत्वा यमपुरीं हरिः ।
बलदेवश्च बलवान् जित्वा वैवस्वतं यमम् ॥
तं बालं यातनासंस्थं यथापूर्व्वशरीरिणम् ।
पित्रे प्रदत्तवान् कृष्णो बलश्च बलिवां वरः ॥”
इति विष्णुपुराणे । ५ । २१ । १८ । ३० ।
पृष्ठ ५/३३२

सान्दृष्टिकं, क्ली, (सन्दृष्टौ प्रत्यक्षे भवम् । सन्दृष्टि

+ ठञ् ।) सद्यःफलम् । इत्यमरः । २ । ८ । २९ ॥
दृष्टपरिकल्पनान्यायः । यथा पितामहदौहि-
त्राभावे प्रपितामहप्रपितामह्योः क्रमेणाधि-
कारः प्रपितामहपिण्डस्य धनिभोग्यत्वात्
पूर्व्वोक्तसांदृष्टिकन्यायसिद्धत्वाच्च । इति दाय-
क्रमसंग्रहः ॥

सान्द्रं, क्ली, (अदि बन्धने + बाहुलकात् रक् ।

अन्द्रेण सह वर्त्तते इति ।) वनम् । इति मेदिनी ॥

सान्द्रः, त्रि, (अन्द्रेण निविडबन्धनेन सह वर्त्तते

इति ।) घनः । इत्यमरः । ३ । १ । ६६ ॥ (यथा,
माधे । ४ । २८ ।
“उच्चैर्महारजतराजिविराजितासौ
दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ॥”)
मृदुः । इति मेदिनी ॥ स्निग्धः । मनोज्ञः ।
इति शब्दरत्नावली ॥

सान्द्रपुष्पः, (सान्द्रं पुष्पमस्य ।) विभीतक-

वृक्षः । इति शब्दचन्द्रिका ॥

सान्द्रस्निग्धः, त्रि, (सान्द्रः स्निग्धश्च ।) निविड-

स्निग्धः । तत्पर्य्यायः । मेदुरः २ । इति शब्द-
रत्नावली ॥

सान्धिकः, पुं, (सन्धा मद्यसज्जीकरणं शिल्पमस्य

सन्धा + ठक् ।) शौण्डिकः । इति शब्दमाला ॥
(सन्धिं करोतीति । ठक् ।) सन्धिकर्त्ता च ॥

सान्धिवेलं, त्रि, (सन्धिवेला + “सन्धिवेलाद्यृतु-

नक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ।)
सन्धिवेलायां भवम् । इति सिद्धान्तकौमुदी ॥

सान्ध्यः, त्रि, (सन्ध्यायां भवः । सन्ध्या + सन्धिवेला-

दित्वात् अण् ।) सन्ध्यासम्बन्धीयः । (यथा,
रघुः । २ । २३ ।
“गुरोः सदारस्य निपीड्य पादौ
समाप्य सान्ध्यञ्च विधिं दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं
भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥”

सान्ध्यकुसुमा, स्त्री, सान्ध्यं सन्धिकालोद्भवं कुसुमं

यस्याः ।) त्रिसन्धिपुष्पवृक्षः । इति राज-
निघण्टः ॥

सान्नहनिकः, त्रि, (सन्नहनं प्रयोजनमस्येति ।

सन्नहन + तदस्य प्रयोजनमिति ठक् ।) सन्नाह-
विशिष्टः । इति सिद्धान्तकौमुदी ॥

सान्नाय्यं, क्ली, (सम्यक् नीयते होमार्थमिति ।

सं + नो + “पाय्यसान्नाय्येति ।” ३ । १ । १२९ ।
इतिण्यतायादेशः समो दीर्घत्वञ्चनिपात्यते
हविः । इत्यमरः । ३ । ७ । २७ ॥

सान्निध्यं, क्ली, (सन्निधिरेव । सन्निधि + “चातु-

र्व्वर्ण्यादीनां स्वार्थ उपसंख्यानम् ।” ५ । १ ।
१२४ । इत्यस्य वार्त्तिकोक्त्या स्वार्थे व्यञ् ।)
निकटम् । यथा, --
“अच्चेकस्य तपोयोगात् अर्च्चनस्यातिशायनात् ।
आभिरूप्याच्च विम्बानां देवः सान्निध्य-
मृच्छति ॥”
इति तिथ्यादितत्त्वम् ॥

सान्निपातिकः, त्रि, (सन्निपातस्य शमनं कोपनं

वा । “सन्निपाताच्च ।” ५ । १ । ३८ । इत्यस्य
वार्त्तिकोक्त्या स्वार्थे ष्यञ् ।) सन्निपातजरोगः ।
इति राजनिर्घण्डः ॥ यथा, कुमारे । २ । ४८ ।
“तस्मिन्नुपायाः सर्व्वे नः क्रूरे प्रतिहतक्रियाः ।
वीर्य्यवन्त्यौषधानीव विकारे सान्निपातिके ॥”)
तद्विवरणं सन्निपातशब्दे द्रष्टव्यम् ॥

सान्न्यासिकः, पुं, (संन्यासः प्रयोजनमस्येति ।

ठक् ।) सन्न्यासी । तत्पर्य्यायः । भिक्षुः २ यतिः ३
कर्म्मन्दी ४ रक्तवसनः ५ परिव्राजकः ६ तापसः
७ पाराशरी ८ पारिकाङ्क्षी ९ मस्करी १०
पारिरक्षकः ११ । इति हेमचन्द्रः ॥

सापत्न्यः, पुं, (सपन्त एव । स्वार्थे ष्यञ्) शत्रुः ।

इत्यमरटीकायां रमानाथः । २ । ८ । १० ॥
(सपत्न्या अपत्यमिति । सपन्ती + ष्यञ् ।)
सपत्नीपुत्त्रः । यथा, बहस्पतिः ।
“पित्रा सह विभक्ता ये सापत्न्या वा सहोदराः
जघन्यजाश्च ये तेषां पितृभागहरास्तु ते ॥”
इति दायतत्त्वम् ॥
(सपत्न्या भावः । सपन्ती + ब्राह्मणादित्वात्
व्यञ् ।) सपत्नीभावे, क्ली ॥ (यथा, माघे ।
८ । १५ ।
“गित्याया निजवसतेर्निरासिरे य-
द्रागेण श्रियमरविन्दतः कराग्रैः ।
व्यक्तव्यं नियतमनेन निन्युरस्याः
सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥”)

सापिण्ड्यं, क्ली, (सपिण्डस्य भावः । सपिण्ड +

ष्यञ् ।) सपिण्डतां । सा तु पुं सां सप्तमपुरुष-
पर्य्यन्तं अनूढकन्यानां त्रिपुरुषपर्य्यन्तञ्च स्था-
यिनी । यथा, --
“लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्
इति मत्स्यपुराणम् ॥
अप्रत्तानां त्रिपौरुषम् । इति वशिष्ठः ॥ अपि च
“पित्रादिषड्भिः सापिण्ड्यं तत्तत्सन्ततिसप्तकैः
गोत्रैक्ये सति तत्तु स्यात् षड्भिः पुत्त्रादिभि-
स्तथा ।
अप्रत्तानान्तु कन्यानां त्रिभिः पित्रादिभिः
स्मृतम् ॥”
इति कारिका ॥
अन्यत् सपिण्डशब्दे द्रष्टव्यम् ॥

साप्तपदीनं, क्ली, (सप्तभिः पदैरवाप्यते इति ।

“साप्तपदीनं सख्यम् ।” ५ । २ । २२ । इति
खञ् प्रत्ययेन साधुः ।) सख्यम् । इत्यमरः । २ ।
८ । १२ ॥ (यथा, कुमारे । ५ । ३९ ।
“प्रयुक्तसत्कारविशेषमात्मना
न मां परं सम्प्रतिपत्तुमहसि ।
यतः सतां सन्नतगात्रि ! सङ्गतं
मनीषिभिः साप्तपदीनमुच्यते ॥”)
सप्तपदसम्बन्धिनि, त्रि ॥

साफल्यं, क्ली, (सफलस्य भावः । सफल + ष्यञ् ।)

सफलता । (यथा, मुकुन्दमालायाम् । २९ ।
“जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्म-
साफल्यमन्त्रम् ॥”)

साब्दी, स्त्री, द्राक्षाविशेषः । इति केचित् ॥

साम, क सान्त्वे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) दन्त्यादिर्द्वितीयस्वरी । सान्त्वः
प्रियकरणम् । क, सामयति दीनं दानेन दाता ।
इति दुर्गादासः ॥

साम, त् क सान्त्वने । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।) सान्त्वनं प्रिय-
करणम् । अससामत् दीनं दानेन दाता ।
इति दुर्गादासः ॥

साम, [न्] क्ली, (स्यति छिनति दुःखं गेय-

त्वात् स्यति दुःखयति दुरध्ये यत्वादिति वा । सो
+ “सातिभ्यां मनिन्मनिणौ ।” उणा० ४ । १५२ ।
इति मनिन् ।) वेदविशेषः । इत्यमरः । १ । ६ । ३ ॥
स्यति पापं साम षो य नाशे त्रासुसिति मन् ।
इति भरतः ॥ तल्लक्षणमाह जैमिनिः । गीतेषु
सामाख्या इति । गीयमानेषु मन्त्रेषु सामसंज्ञे-
त्यर्थः । इति तिथ्यादितत्त्वम् ॥ तत्तु चतुर्व्वेदान्त-
र्गततृतीयवेदः । तस्य सहस्रशाखा तस्वोपनिषत्
छान्दोग्यादिः । विवरणन्तु वेदशब्दे द्रष्टव्यम् ॥ *
सामध्वनिश्रवणानन्तरं वेदपाठनिषेधस्तदधि-
ष्ठातृदेवताकथनञ्च यथा, --
“सामध्वनावृग्यजुषी नाधीयीत कदाचन ।
वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥
ऋग्वेदो देवदैवत्यो यजुर्व्वेदस्तु मानुषः ।
सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ॥”
इति मानवे । ४ । १२३ ॥ * ॥
(वेदोऽयं गजोत्पत्तिकारणम् । तथा च रघुवंश-
टीकायां मल्लिनाथधृतपालकाव्ये । १६ । ३ ।
“सूर्य्यास्याण्डकपाले द्वे समानीय प्रजापतिः ।
हस्ताभ्यां परिगृह्याथ सप्तसामान्यगायत ।
गायतो ब्रह्मणस्तस्मात् समुत्पेतुर्मतङ्गजाः ॥”)
शत्रुवशीकरणोपायविशेषः । इत्यमरः । २ । ८ । २० ॥
प्रियवादार्थप्रदानसम्बन्धादिभिः क्रोधोपशमनं
साम । स्यति विरोधमिति षोऽन्तकर्म्मणीत्यस्मत्
त्रासुसिति मन् । सान्त्व साम त् क सान्त्वने
इत्यस्मात् नाम्नीति अन् वा । साम दन्त्यादि ।
शमयति विरोधमिति शाम नान्तं तालष्यादि
इति केचित् । इति भरतः ॥ * ॥ अपि च ।
मनुरुवाच ।
“उपायांस्त्वं समाचक्ष्व सामपूर्व्वान्महाद्युते ।
लक्षणञ्च तथा तेषां प्रयोगञ्च सुरोत्तम ॥
मत्स्य उवाच ।
सामभेदस्तथा दानं दण्डश्च मनुजोत्तम ।
उपेक्षा च तथा माया इन्द्रजालश्च पार्थिव ॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु ।
द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥
तत्राप्यतथ्यं साधूनां आक्रोशायैव जायते ।
तथ्यं साधुप्रियञ्चैव सामसाध्या नरा मताः ॥
महाकुलीना ऋजवो धर्म्मनिष्ठा जितेन्दियाः ।
सामसाध्या नरास्तथ्यं तेषु साम प्रयोजयेत् ॥
पृष्ठ ५/३३३
तथ्यञ्च साम कर्त्तव्यं कुलशीलादिवर्त्तिना ।
तथा सदुपचाराणां कृतानाञ्चानुवर्णनम् ॥
अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् ।
एवं सान्त्वेन कर्त्तव्या वशगा धर्म्मतत्पराः ॥
साम्ना यद्यपि रक्षांसि गृह्लन्तीति परा श्रुतिः ।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ।
अतिशान्तिकमित्येवं पुरुषं सामवादिनम् ।
असाधवोऽवजानन्ति तस्मात् तेषु विवर्ज्जयेत् ॥
ये शुद्धवंशा ऋजवः प्रतीता
धर्म्मे स्थिताः सत्यपरा विनीताः ।
ते साम साध्याः पुरुषाः प्रदिष्टा
मानोन्नता ये सततञ्च राजन् ॥”
इति मात्स्ये राजधर्म्मे सामविधिः । २२२ । १-१० ॥
(प्रियवाक्यादिना सान्त्वनम् । यथा, देवीभाग-
वते । १ । १७ । ३१ ।
“सामपूर्व्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् ।
गच्छतां यत्र ते कार्य्यं यथेष्टं द्विजसत्तम ! ॥”)

सामकं, क्ली, (सममेव सामम् । अण् । ततः

स्वार्थे कन् ।) मूलमृणम् । (यथा, मिता-
क्षरायाम् । २ । ६४ ।
“वृद्धिमात्रापाकरणार्थन्तु बन्धकं सामकं दत्त्वा-
प्नुयादृणी समं मूल्यं सममेव सामकम् ॥”)

सामकः, पुं, (समतीति । सम अवैकल्ये +

ण्वुल् ।) तर्कुशाणः । इति त्रिकाण्डशेषः ॥
(साम अधीते वेद वा । सामन् + “क्रमादिभ्यो
वुन् ।” ४ । २६१ । इति वुन् । सामाभिज्ञे, त्रि ॥)

सामगः, पुं, (साम गायतीति । गै शब्दे + टक् ।

सामवेदी ब्राह्मणः । इति जटाधरः ॥ (विष्णुः ।
इति महाभारतम् । १३ । १४९ । ७५ ॥ * ॥
सामवेदज्ञे, त्रि । यथा, भागवते । १ । ४ । २१ ।
“तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।
वैशम्पायन एवैको निष्णातो यजुषामुत ॥”)

सामगर्भः, पुं, (साम गर्भे यस्य ।) विष्णुः । इति

शब्दरत्नावली ॥

सामगी, स्त्री, (साम गायतीति । गै + टक् ।

ङीप् ।) सामगब्राह्मणपत्नी । इति केचित् ॥

सामग्री, स्त्री, (समग्रस्य भावः ष्यञ् । अभि-

धानात् स्त्रीत्वम् । ङीष् । यलोपः) कारण-
समूहः । यथा, --
“सामग्री चेन्न फलविरहो व्याप्तिरेवेति तत्त्वम्”
इति पदाङ्कदूतः ॥
द्रव्यम् । यथा, --
“एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।
अभावे पाकपात्राणां तदहः समुपोषणम् ॥”
इति लघुहारीतवचनात् पाकपात्राभावः पाक-
सामग्र्यभावोपलक्षणम् । इति श्राद्धतत्त्वम् ॥

सामग्र्यं, क्ली, (समग्रस्य भावः । समग्र + व्यञ् ।)

समुदायत्वम् । (यथा, कुमारे । ३ । २८ ।
“वर्णप्रकर्षे सति कर्णिकारं
दुनोति निर्गन्धतया स्म चेतः ।
प्रायेण सामग्र्यविधौ गुणानां
पराड्मुखी विश्वसृजः प्रवृत्तिः ॥”)

सामजः, पुं, (साम्नो वेदभेदात् जायते इति ।

जन + डः ।) हस्ती । सासोत्थे, त्रि । इति
मेदिनी ॥ (उभयार्थे प्रमाणम् । यथा, माघे ।
१२ । ११ ।
“नानाविधाविष्कृतसामजस्वरः
सहस्रवर्त्मा चपलैर्दुरध्ययः ।
गान्धर्व्वभूयिष्ठतया समानतां
स सामवेदस्य दधौ बलोदधिः ॥”)

सामञ्जस्यं, क्ली, (समञ्जसस्य भावः । समञ्जस +

ष्यञ् ।) औचित्यम् ॥

सामनी, स्त्री, पशुबन्धनरज्जुः । इति दामशब्द-

टीकायां सारसुन्दरी ॥

सामन्तः, पुं, (समन्तायाः संलग्नैकदेशाया भूमे-

रयमिति । समन्ता + तस्येदमिति अन् । सम-
न्तात् भवः । तत्र भव इति अण् वा ।) स्ववि-
षयानन्तरराजा । सम् संलग्नोऽन्त एकदेशो
यस्याः सा समन्ता स्वविषयानन्तरा भूमिः तस्या
ईश्वरा इति ष्णे सामन्ताः । इत्यमरटीकायां
भरतः ॥ (यथा, रघुः । ५ । २८ ।
“सामन्तसम्भवनयैव धीरः
कैलासनाथं तरसा जिगीषुः ॥”
सीमान्तरभवे, त्रि । यथा, मनुः । ८ । २५८ ।
“साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः
सीमाविनिर्णयं कुर्य्युः प्रयता राजसन्निधौ ॥”
“ग्रामसामन्ताः सीमान्तरवासिनः प्रष्टव्याः ।”
इति मेधातिथिः ॥ “समन्तभवाः सामन्तास्त-
द्वासिनश्चत्वारो ग्रामवासिनः ।” इति तट्टी-
कायां कुल्लू कः ॥)

सामन्यः, पुं, (सामसु साधुः । सामन् + “तत्र

साधुः ।” ४ । ४ । ९८ । इति यत् ।) सामसेदज्ञ-
ब्राह्मणः । (यथा, भट्टिः । ४ । ९ ।
“ऋग्यजुषमधीयानान् सामन्यांश्च समर्च्चयन् ।
बुभुजे देवसात्कृत्वा शूल्यमुख्यञ्च होमवान् ।”

सामयिकः, त्रि, (समयः प्राप्तोऽस्य । समय +

“समयस्तदस्य प्राप्तम् ।” ५ । १ । १०४ । इति ठञ्)
समयोचितः । (यथा, याज्ञवल्क्ये । २ । १८९ ।
“निजधर्म्माविरोधेन यस्तु सामयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्म्मो राजकृतश्च यः ॥”

सामयोनिः, पुं, (साम्नः योनिः कारणम् ।) ब्रह्मा

(साम वेदभेदः योनिः कारणं यस्य ।) हस्ती ।
सामोत्थवस्तुनि, त्रि । इति मेदिनी ॥ (यथा,
रघुः । १६ । ३ ।
“चतुर्भुजांशप्रभवः स तेषां
दानप्रवृत्तेरनुपारतानाम् ।
सुरद्विपानामिव सामयोनि-
र्भिन्नोऽष्टधा विप्रससार वंशः ॥”)

सामर्थ्यं, क्ली, (समर्थस्य भावः । समर्थ + व्यञ् ।)

योग्यता । (यथा, रामायणे । २ । ४३ । २० ।
“न हि मे जीविते किञ्चित् सामर्थ्यमिह कल्पते
अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणञ्च महाबलम् ॥”)
शक्तिः । इति मेदिनी ॥ (यथा, गीतायाम् ।
२ । ३६ ।
“अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥”)

सामवायिकः, पुं, (समवायान् समवैति । सम-

वाय + “समवायान् समवैति ।” ४ । ४ । ४३ ।
इति ठक् ।) मन्त्री । इति हेमचन्द्रः ॥ सम-
वायसम्बन्धिनि, त्रि ॥

सामाजिकः, पुं, (समाजं समवतीति । समाज +

“समवायान् समवेति ।” ४ । ४ । ४३ । इति ठक् ।
यद्वा, समाजं रक्षतीति । “रक्षति ।” ४ । ४ ।
३३ । इति ठक् ।) सभ्यः । इत्यमरः । २ । ७ ।
१६ ॥ (यथा, साहित्यदर्पणे । ३ । २२९ ।
“सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥”)
समाजसम्बन्धिनि सभासम्बन्धिनि च त्रि ॥ (यथा,
साहित्यदर्पणे । ३ । ३९ ।
“ननु कथं रामादिरत्याद्युद्बोधकारणैः सीता-
दिभिः सामाजिकरत्याद्युद्बोध इत्युच्यते ॥”)

सामान्यं, क्ली, (समान एव । स्वार्थे ष्यञ् ।)

जातिः । यथा, --
“जातिर्जातञ्च सामान्यं व्यक्तिस्तु पृथगात्मिका”
इत्यमरः । १ । ४ । ३० ॥
तद्द्विविधं यथा, भाषापरिच्छेदे ।
“सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च ।
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥
परभिन्ना च या जातिः सैवापरतयोच्यते ।
व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥”
तल्लक्षणं यथा । नित्यत्वे सत्यनेकसमवेतत्वम ।
अनेकसमवेतत्वं संयोगादीनामप्यस्ति अतः
सत्यन्तं नित्यत्वे सति समवेतत्वंगगनपरिमाणा
दीनामप्यस्ति अत उक्तं अनेकेति नित्यत्वे सति
अनेकवृत्तित्वमत्यन्ताभावस्याप्यस्ति अतोवृत्ति-
सामान्यमुपेक्ष्य समवेतत्वमुक्तम् । एकव्यक्ति-
वृत्तिस्तु न जातिः । तथा चोक्तम् ।
“व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिवाधकसंग्रहः ॥”
एकव्यक्तिकत्वात् आकाशत्वं न जातिः । तुल्य-
वृत्तिकत्वात् घटत्वं कलसत्वं न जातिद्वयम् ।
संकीर्णत्वात् भूतत्वं मूर्त्तत्वं न जातिः । अन-
वस्थाभयात् सामान्यत्वं न जातिः । विशेषस्य
व्यावृत्तस्वभावस्य रूपहानिः स्यादतो विशेषत्वं
न जातिः । समवायसम्बन्धाभावात् समवायो
न जातिः । द्रव्यादित्रिकवृत्तिरिति परत्वं
अधिकदेशवृत्तित्वं अपरत्वमल्पदेशवृत्तित्वम् ।
सकलजात्यपेक्षया अधिकदेशवृत्तित्वात् सत्तायाः
परत्वम् । एतद्बोधनाय द्रव्यादीति । तदपेक्षया
चान्यासां जातीनां अपरत्वम् । परभिन्ना सत्ता-
भिन्ना । व्यापकत्वात् परापि स्यात् व्याप्यत्वाद-
परापि च । पृथिवीत्वाद्यपेक्षया व्यापकत्वात्
अधिकदेशवृत्तित्वात् द्रव्यत्वस्य परत्वम् । सत्तापे
क्षया अल्पदेशवृत्तित्वाद्द्रव्यत्वस्य अपरत्वञ्च ।
तथा च धर्म्मद्वयसमावेशात् उभयमविरुद्धम् ।
इति सिद्धान्तमुक्तावली ॥ (सादृश्यम् । समा-
पृष्ठ ५/३३४
नत्वम् । यथा, महाभारते । १२ । २२८ । ४ ।
“सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः ।
ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः ।
विचचार यथाकामं त्रिषु लोकेषु नारदः ॥”)

सामान्यं, त्रि, (समानस्य भावः । समान +

ष्यञ् ।) अनेकसम्बन्ध्ये कवस्तु । साधारणम् ।
इत्यमरः । ३ । १ । ८२ ॥ यथा, देवलः ।
“सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः ।
अप्रजायां हरेद्भर्त्ता माता भ्राता पितापि वा ॥”
इति दायतत्त्वम् ॥
(यथा च कुमारे । ७ । ४४ ।
“एकैव मूर्त्तिर्बिभिदे त्रिधा सा
सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचित्
वेधास्तयोस्तावपि धातुराद्यौ ॥”)

सामान्यलक्षणा, स्त्री, (सामान्यं साधारणधर्म्मः

लक्षणं यस्याः ।) अलौकिकसन्निकर्षविशेषः ।
स तु आश्रयज्ञापकसामान्यज्ञानम् । यथा ।
एकघटदर्शने सकलघटज्ञानं भवति ईदृशघट-
त्वादिज्ञानम् । तत्समाणं यथा, भाषापरि-
च्छेदे ।
“अलौकिकः सन्निकर्षस्त्रिविधः परिकीर्त्तितः ।
सामान्यलक्षणा ज्ञानलक्षणा योगजस्तथा ॥
आसर्त्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते ।
तदिन्द्रियजतद्धर्म्मबोधसामग्र्यपेक्षते ॥”

सामान्यशासनं, क्ली, (सामान्यं शासनम् ।)

सामान्याधिकारः । यथा, --
“मञ्चेन्द्रकोषौ स्याद्ब्रह्मशासनं धर्म्मकीलकः ।
सामान्यशासनं सौरं मुकुतिः शूद्रशासनम् ॥”
इति पुरवर्गे शब्दरत्नावली ॥

सामान्या, स्त्री, (सामान्य + टाप् ।) साधारणी

नायिका । अस्या लक्षणम् । धनमात्रलाभार्थ-
सकलपुरुषाभिलासा ॥ सा त्रिधा । अन्यसम्भोग-
दुःखिता । वक्रोक्तिगर्व्विता । मानवती ।
वक्रोक्तिगर्व्वितापि द्विविधा । प्रेमगर्व्विता
सौन्दर्य्यगर्व्विता च । एता नायिका अवस्थाभेदेन
प्रत्येकं अष्टप्रकारा भवन्ति । यथा ! प्रोषित-
भर्त्तृका १ खण्डिता २ कलहान्तरिता ३ विप्र-
लब्धा ४ उत्कण्ठिता ५ वासकसज्जा ६ स्वाधीन-
पतिका ७ अभिसारिका ८ । इति रस-
मञ्जरी ॥ (यथा च साहित्यदर्षणे । ३ ।
१११ -- ११२ ।
“धीरा कलाप्रगल्भा स्याद्वेश्या सामान्य-
नायिका ।
निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद् बहिः ॥
काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निष्क्रामयेदेषा पुनः सन्धानकाङ्क्षया ॥
तस्कराः पण्ड्रका मूर्खाः सुखप्राप्तधनास्तथा ।
लिङ्गिनश्छन्नकामाद्या आसां प्रायेण वल्लभाः ॥
एषापि मदनासक्ता क्वापि सत्यानुरागिणी ।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥”
पण्ड्र को वातरोगपण्ड्रादिः । छन्नं प्रच्छन्नं ये
कामयन्ते ते छन्नकामाः । तत्र रागहीना यथा
नटकमेलकादौ मदनमञ्जर्य्यादिः । रक्ता यथा
मृच्छकटिकादौ वसन्तसेनादिः । पुनश्च ।
“अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ॥
स्वाधीनभर्त्तृका तद्वत् खण्डिताथाभिसारिका
कलहान्तरिता विप्रलब्धा प्रोषितभर्त्तृका ।
अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता
तथा ॥”
एतासां लक्षणाणि तु तत्तच्छ्यब्दे विशेषतो
द्रष्टव्यानि ॥)

सामि, व्य, अर्द्धम् । निन्दा । इत्यमरः । ३ । ३ । २४८ ॥

सामिकृतः, त्रि, अर्द्धीकृतः । सामिशब्दात् कृधातोः

क्तप्रत्ययेन निष्पन्नः ॥

सामिधेनी, स्त्री, (समिधां आधानी । समिध् +

“सामिधामाधाने षेण्यण् ।” ४ । ३ । १२० ।
इत्यस्य वार्त्तिकोक्त्या षेण्यण् । षित्वात् ङीष् ।)
अग्निसमिन्धना ऋक् । अग्नेर्ज्वालने या ऋक्
पठ्यते । तत्पर्य्यायः । धाय्या २ । इत्यमरः । २ ।
७ । २२ ॥ (यथा, महाभारते । ३ । १३४ । १६ ।
“नवैवोक्ताः सामधेन्यः पितॄणां
तथा प्राहुर्नवयोगं विसर्गम् ॥”
समित् । इति मेदिनी ॥

सामिपीतः, त्रि, अर्द्धपानकृतः । सामिशब्दात्

पाधातोः क्तप्रत्ययेन निष्पन्नः ॥

सामिभुक्तः, त्रि, अर्द्धभुक्तः । सामिशब्दात् भुज-

धातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, रघुः ।
१९ । १६ ।
“वल्लभाभिरुपसृत्य चक्रिरे
सामिभुक्तविषया समागमाः ॥”)

सामीची, स्त्री, वन्दना । इति हारावली ॥

सामीप्यं, क्ली, (समीपस्य भावः । समीप् + चतु-

र्वर्णादित्वात् ष्यञ् ।) समीपत्वम् । नैकट्यम् ।
यथा, --
“वः कसामीप्यसादृश्यसाकल्यानुक्रमर्द्धिषु ॥”
इति मुग्धबोधव्याकरणम् ॥
अधिकरणविशेषः । आधारभेदः । यथा, --
“सामीप्याश्लेषविषयैर्व्याप्त्याधारश्चतुर्व्विधः ।”
इति कारके मुग्धबोधव्याकरणम् ॥

सामुद्रं, क्ली, (समुद्रे भवम् । अण् ।) समुद्र-

लवणम् । इति हेमचन्द्रः ॥ करकच् इति
भाषा । तत्पर्य्यायः ।
“सामुद्रं यत्तु लवणं त्रिकुटं कडकञ्च तत् ॥”
इति रत्नमाला ॥
अस्य गुणाः ।
“सामुद्रं लवणं पाके नात्युष्णमविदाहि च ।
भेदनं मधुरं स्निग्धं शूलघ्नं नातिपित्तलम् ॥”
इति राजवल्लभः ॥
अन्यत् समुद्रलवणशब्दे द्रष्टव्यम् ॥ * ॥
समुद्रफेनम् । इति राजनिर्घण्टः ॥ (समुद्रेण
ऋषिणा प्रोक्तमिति । अण् ।) देहचिह्नम् ।
इति मेदिनी ॥ (तल्लक्षणान्वितग्रन्थविशेषः ।
इति केचित् ॥) समुद्रजाते, त्रि । इति च
मेदिनी ॥ (पुं, समुद्रगामी बणिक् । यथा,
याज्ञवल्क्ये । २ । ३८ ।
“कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।
दद्युर्व्वा स्वकृतां वृद्धिं सर्व्वे सर्व्वासु जातिषु ॥”
मशकविशेषः । यथा, सुश्रुते । ५ । ८ ।
“मशकाः सामुद्रः परिमण्डलो हस्तिमशकः
कृष्णः पार्व्वतीय इति पञ्च तैर्दष्टस्य तीव्रकण्डू-
र्दंशः शोफश्च । पार्व्वतीयस्तु कीटैः प्राणहरै-
स्तुल्यलक्षणः ॥” * ॥ देशविशेषः । यथा, मार्क-
ण्डेये । ५८ । १३ ।
“प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषा-
दंकाः ।
  • * * *
वर्द्धमानाः कोशलाश्च मुखे कूर्म्मस्य संस्थिताः ॥”)

सामुद्रकं, क्ली, (सामुद्रमेव । स्वार्थे कन् ।) समुद्र-

लवणम् । इति राजनिर्घण्टः ॥ समुद्रोक्तस्त्रीपुं-
लक्षणग्रन्थः । तद्विवरणं यथा, --
श्रीकृष्ण उवाच ।
“कीदृशः पुरुषो वन्द्योऽवन्द्यो वा कीदृशो भवेत्
कन्या वा कीदृशी शस्या गर्हिता वापि
कीदृशी ॥
महेश उवाच ।
शृणु कृष्ण प्रवक्ष्यामि समुद्रवचनं यथा ।
लक्षणन्तु मनुष्याणां एकैकेन वदाम्यहम् ॥
वामभागे तु नारीणां दक्षिणे पुरुषस्य च ।
निर्द्दिष्टं लक्षणं तेषां समुद्रेण यथोदितम् ॥
पूर्व्वमायुः परीक्षेत पश्चाल्लक्षणमेव च ।
आयुर्हीनं नराणाञ्चेत् लक्षणैः किं प्रयो-
जनम् ॥”
अथ पुरुषलक्षणम् ।
“पञ्चदीर्घं चतुर्ह्रस्वं पञ्चसूक्ष्मं षडुन्नतम् ।
सप्तरक्तं त्रिगम्भीरं त्रिविशालं प्रशस्यते ॥
बाहुनेत्रद्वयं कुक्षी द्वौ तु नासा तथैव च ।
स्तनयोरन्तरञ्चैव पञ्चदीर्घं प्रशस्यते ॥
ग्रीवाथ कर्णौ पृष्ठ ह्रस्वे जङ्घे सुपूजिते ।
चत्वारि यस्य ह्रस्वानि पूजां प्राप्नोति नित्यशः ॥
सूक्ष्माण्यङ्गलिपर्व्वाणि दन्तकेशनखत्वचः ।
पञ्च सूक्ष्माणि येषां हि ते नरा दीर्घजीविनः ॥
नासा नेत्रञ्च दन्ताश्च ललाटञ्च शिरस्तथा ।
हृदयञ्चैव विज्ञेयमुन्नतं षट् प्रशस्यते ॥
पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च ।
तालुकोऽधरजिह्वा च सप्तरक्तं प्रशस्यते ॥
स्वरो बुद्धिश्च नाभिश्च त्रिगम्भीरमुदाहृतम् ।
उरः शिरो ललाटञ्च त्रिविस्तीर्णं प्रशस्यते ॥
कटिर्बिशाला बहुपुत्त्रभागी
विशालहस्तो नरपुङ्गवः स्यात् ।
उरो विशालं धनधान्यभागी
शिरो विशालं नरपूजितः स्यात् ॥
न श्रीस्त्यजति रक्ताङ्गं नार्थः कनकपिङ्गलम् ।
दीर्घबाहुं न चैश्वर्य्यं न मांसोपचितांसकम् ।
कदादिद्दन्तुरो मूर्खः कदाचित् लोमशः सुखी ।
पृष्ठ ५/३३५
कदाचित् तुन्दिलो दुःखी कदाचित् चञ्चला
सती ॥
नेत्रस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ।
हस्तस्नेहेन चैश्वर्य्यं पादस्नेहेन वाहनम् ॥
अकर्म्मकठिनौ हस्तौ पादावध्वनि कोमलौ ।
यस्य पाणितलौ रक्तौ तस्य राज्यं विनिर्द्दिशेत् ॥
दीर्घलिङ्गेन दारिद्रं स्थूललिङ्गेन निर्धनः ।
कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः ॥
रेखाभिर्बहुभिर्दुःखं स्वल्पाभिर्धनहीनता ।
रक्ताभिः श्रियमाप्नोति कृष्णाभिः प्रेष्यतां व्रजेत्
अङ्गुष्ठोदरभध्ये तु यवो यस्य विराजितः ।
उन्नतं भोजनं तस्य शतं जीवति मानवः ॥
अङ्कुशं कुलिशं छत्रं यस्य पाणितले भवेत् ।
तस्यैश्वर्य्यं विनिर्द्दिष्टं अशीत्यायुर्भवेद्ध्रुवम् ॥
धनुर्यस्य भवेत् पाणौ पङ्कजं वाथ तोरणम् ।
तस्यैश्वर्य्यञ्च राज्यञ्च अशीत्यायुर्भवेद्ध्रुवम् ॥
कनिष्ठातर्जनीं यावद्रे खा भवति चाक्षता ।
विंशत्यब्दाधिकशतं नरो जीवत्यनामयः ॥
कनिष्ठामध्यमां यावद्रेखा भवति चाक्षता ।
शताब्दं वाथ वाशीतिं नरो जीवेन्न संशयः ॥
कनिष्ठानामिकायाञ्चेत् रेखा भवति चाक्षता ।
षष्टिं पञ्चाशदब्दं वा नरा जीवन्त्यसंशयम् ॥
रेखया भिद्यते रेखा स्वल्पायुश्च भवेन्नरः ।
कनिष्ठाधःस्थिता रेखाः संख्या यावतिकाः
स्मृताः ।
तावती पुरुषाणान्तु नारी भवति निश्चितम् ॥
करमध्यगता रेखा ध्रुवा ऊर्द्धम्भवेद् यदि ।
नृपो वा नृपतुल्यो वा ख्यातोऽर्थवान् भवेत् ॥
मत्स्यपुच्छप्रकीर्णेन विद्यावित्तसमन्वितः ।
पितामहस्य वा किञ्चिद्धनञ्च लभते ध्रुवम् ॥
मध्यमायां यदि यवा दृश्यन्तेऽत्यन्तशोभनाः ।
तदान्यसञ्चितं वित्तं प्राप्नोत्यङ्गुष्ठके यवे ॥
यस्याथ चक्रमङ्गुष्ठे यवः पूर्णश्च दृश्यते ।
तदा पितामहादीनामर्ज्जितं धनमाप्नुयात् ॥
तर्जन्यामथ चक्रञ्च मित्रद्वारा धनम्भवेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
मध्यमायां स्थिते चक्रे देवद्वारा धनं लभेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
अनामिकायां भवेच्चक्रं सर्व्वद्वारा भवेद्धनम् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
कनिष्ठायां भवेच्चक्रं बाणिज्येन धनं भवेत् ।
तेनैव विपरीतन्तु व्ययो भवति निश्चितम् ॥
ललाटे दृश्यते यस्य चक्ररेखाचतुष्टयम् ।
अशीत्यायुः समाप्नोति पञ्चरेखाः शतं समाः ॥
यस्योन्नतं ललाटञ्च ताम्रवर्णञ्च दृश्यते ।
रेखाहीनश्च कक्षश्च स चोन्मत्तो महीं भ्रमेत् ॥
यस्य जिह्वा भवेद्दीर्घा नासाग्रं लेढि सर्व्वदा ।
योगी भवति निर्व्वाणः पृथ्वीं भ्रमति सर्व्वदा ॥
दन्ताश्च विरला यस्य गण्डे कूपोऽपि जायते ।
परस्त्रीरमणो नित्यं परवित्तेन वित्तवान् ॥
कर्कशैः कठिनैर्लिङ्गैः प्रमाणान्निर्गतैः सदा ।
रमते च सदा दासीं निर्धनो भवति ध्रुवम् ॥
कृशलिङ्गेन सूक्ष्मेण रक्तवर्णेन भूपतिः ।
बहुस्त्रीरमणो नित्यं नारीणां वल्लभो भवेत् ॥
यस्य पादतले पद्मं चक्रं वाप्यथ तोरणम् ।
अङ्कुशं कुलिशं वापि स राजा भवति ध्रवम् ॥
कृशातिलोमशा ये स्यः केकराक्षाः कुचेलकाः ।
कातरं व्यालजिह्वाश्च ते दरिद्रा न संशयः ॥
कपिला मलिनाङ्गाश्च ह्रस्वाश्चैव बृहन्नखाः ।
कृशातिदीर्घा मनुजास्ते दरिद्रा न संशयः ॥
चिवुके श्मश्रुशून्या ये निर्लोमहृदयाश्च ये ।
ते धूर्त्ता नैव सन्देहः समुद्रवचनं यथा ॥
सूचीमुखा भग्नपृष्ठाः कृष्णदन्ता कुचेलकाः ।
वक्रनासा वज्रनासास्ते नरा दुष्टमानसाः ॥
दयालवश्च दातारो रूपवन्तो जितेन्द्रियाः ।
परोपकारिणश्चैव तेऽपूर्व्वा मानवाः स्मृताः ॥”
इति पुरुषलक्षणम् ॥ * ॥
अथ स्त्रीलक्षणम् ।
“यस्याः पादतले रेखा सा भवेत् क्षितिपाङ्गना
भवेदखण्डभोगा च या मध्याङ्गलिसङ्गता ॥
उन्नतो मांसलोऽङ्गुष्ठो वर्त्तुलोऽतुलभोगदः ।
वक्रो ह्रस्वश्च चिविटः सुखसौभाग्यभञ्जकः ॥
दीर्घाङ्गुलीभिः कुलटा कृशाभिरतिनिर्धना ।
ह्रस्वाभिः स्याच्च ह्रस्वायुः भग्नाभिर्भुग्नवर्त्तिनी ॥
चिविटाभिर्भवेद्दासी विरलाभिर्दरिद्रिणी ।
परस्परं समारूढा यदाङ्गुल्यो भवन्ति हि ॥
हत्वा बहूनपि पतीन् परप्रेष्या तदा भवेत् ।
स्निग्धा समुन्नतास्ताम्रा वृत्ताः पादनखाः
शुभाः ॥
राज्ञीत्वसूचकं स्त्रीणां पादपृष्टं समुन्नतम् ।
समपार्ष्णी शुभा नारी पृथुपार्ष्णी सुदुर्भगा ॥
कुलटोन्नतपार्ष्णी स्यात् दीर्घपार्ष्णी च दुःख-
भाक् ।
रोमहीने समे स्निग्धे जङ्घे च क्रमवर्त्तुले ॥
सा राजपत्नी भवति विशिरे सुमनोहरे ।
वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते ॥
निर्म्मांसं स्वैरचारिण्या दरिद्रायाश्च विश्लथम् ।
विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः ।
सुवृत्तै रोमरहितैभवेयुर्भूपवल्लभाः ॥
चतुर्भिरङ्गु लैः शस्ता कटिर्विं शतिसंयुतैः ।
समुन्नतनितम्बाढ्या चतुरस्रा मृगीदृशाम् ॥
नितम्बविम्बो नारीणां उन्नतो मांसलः पृथुः ।
महाभोगाय संप्रोक्तः तदन्योऽशर्म्मणाय च ॥
गम्भीरा दक्षिणावर्त्ता नाभिः स्यात् सुखसम्पदे
वामावर्त्ता समुत्ताना व्यक्तग्रन्थी न शोभना ॥
उदरेणाभितुच्छेन विशिरेण मृदुत्वचा ।
योषित् भवति भोगाढ्या नित्यमिष्टान्नसेविनी ॥
कुम्भाकारं दरिद्राया जठरञ्च मृदङ्गवत् ।
कुष्माण्डाभं यवाभञ्च दुष्पूरं जायते स्त्रियाः ॥
निर्लोम हृदयं यस्याः समं निम्नत्ववर्जितम् ।
ऐश्वर्य्यं चाप्यवैधव्यं प्रियप्रेमा च सा भवेत् ।
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ ।
स्थूलाग्रौ विरलौ सूक्ष्मौ वामोरूणां न शर्म्मदौ ॥
दक्षिणोन्नतवक्षोजा पुत्त्रिणीष्वग्रणीर्मता ।
वामोन्नतकुचा सूते कन्यां सौभाग्यसुन्दरीम् ॥
मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ ।
सुखदौ बाल्यकाले तु पश्चादत्यन्तदुःखदौ ॥
अम्भोजमुकुलाकारमङ्गुष्ठाङ्गुलिसम्मुखम् ।
हस्तद्वयं मृगाक्षीणां बहुभोगाय जायते ॥
मृदुमध्योन्नतं रक्तं तलं पाण्योररन्ध्रकम् ।
प्रशस्तं शस्तरेखाढ्यमल्परेखं शुभप्रदम् ॥
विधवा बहुरेखेण विरेखेण दरिद्रिणी ।
भिक्षुकी सुशिराढ्येन नारी करतलेन वै ॥
मत्स्येन सुभगा नारी स्वस्तिकेन च सुप्रजा ।
पद्मेन भूपतेः पत्नी जनयेत् भूपतिं सुतम् ॥
चक्रवर्त्तिस्त्रियाः पाणौ नन्द्यावर्त्तप्रदक्षिणः ।
शङ्खातपत्रकमठा राजमातृत्वसूचकाः ॥
कृशीबलस्य पत्नी स्याच्छकटेन युगेन वा ।
चामराङ्कु शकोदण्डैः राजपत्नी भवेद् ध्रुवम् ॥
अङ्गुष्ठमूलान्निर्गत्य रेखा याति कनिष्ठिकाम् ।
यदि स्यात् पतिहन्त्री सा दूरतस्तां त्यजेत्
सुधीः ॥
त्रिशूलासिगदाशक्तिदुन्दुभ्याकृतिरेखया ।
नितम्बिनी कीर्त्तिमती करेण पृथिवीतले ॥
पाटलो वर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः ।
सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत् ॥
श्यामः स्थूलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः ।
मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥
पीताः श्यामाश्च दशनाः स्थूला दीर्घा द्विपङ्
क्तयः ।
शुक्त्याकाराश्च विरला दुःखदौर्भाग्यकारणम् ।
अधस्तादधिकैर्दन्तै मातरं भक्षयेत् स्फुटम् ॥
पतिहीना च विकटैः कुलटा विरलैर्भवेत् ।
समवृत्तपुटा नासा लघुच्छिद्रा शुभावहा ॥
स्थूलाग्रा मध्यनम्रा च न प्रशस्ता समुन्नता ।
ललना लोचने शस्ते रक्तान्ते कृष्णतारके ॥
गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मिणी ।
उन्नताक्षी न दीर्घायुः वृत्ताक्षी कुलटा भवेत् ॥
मेषाक्षी महिषाक्षी च केकराक्षी न शोभना ।
कामगृहीता नितरां गोपिङ्गाक्षी सुदुर्म्मदा ॥
पारावताक्षी दु शीला रक्ताक्षी भर्त्तृघातिनी ।
कोटरानयना दुष्टा गजनेत्रा न शोभना ॥
पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका ।
मधुपिङ्गाक्षी रमणी धनधान्यसमृद्धिभाक् ।
प्रलम्बमलिकं यस्या देवरं हन्ति सा ध्रुवम् ॥
रोमशेन शिरालेन प्रांशुना रोगिणी मता ॥
स्थूलमूर्द्धा च विधवा दीर्घशीर्षा च बन्धकी ।
विशालेनापि शिरसा भवेद्दौर्भाग्यभाजनम् ॥
केशा अलिकुलच्छायाः स्निग्धाः सूक्ष्माः सुको-
मलाः ।
किञ्चिदाकुञ्चिताग्राश्च कुटिलाश्चातिशोभनाः ॥
भ्रु वोरन्तो ललाटे वा मशको राज्यसूचकः ।
वामे कपोले मशकः शोणो मिष्टान्नदः शुभः ॥
तिलकं लाञ्छनं वापि हृदि सौभाग्यकारणम् ।
यस्या दक्षिणवक्षोजे भवेत् तिलकलाञ्छनम् ॥
कन्याचतुष्टयं सूते सूते सा च सुतद्वयम् ।
पृष्ठ ५/३३६
तिलकं लाञ्छनं शोणं यस्या वामकुचे भवेत् ॥
एकं पुत्त्रं प्रसूयादौ अन्ते च विधवा भवेत् ।
गुह्यस्य दक्षिणे भागे तिलकं यदि योषितः ॥
तदा क्षितिपतेः पत्नी सूते च क्षितिपं सुतम् ।
नासाग्रे मशकः शोणो महिष्या एव जायते ॥
कृष्णः स एव भर्त्तृघ्न्याः पुंश्चल्या वा प्रकी-
र्त्तितः ।
नाभेरधस्तात् तिलकं मशको लाञ्छनं शुभम् ॥
मशकस्तिलकं चिह्नं गुल्फदेशे दरिद्रकृत् ॥
सुलक्षणापि दुःशीला कुलक्षणशिरोमणिः ॥
कुलक्षणापि या साध्वी सर्व्वलक्षणभूस्तु सा ।
कृष्णा कपिलकेशी च मिलितभ्रूकुटिस्तथा ।
गमनं सत्वरञ्चैव त्यक्तव्या स्यात् सदा बुधैः ॥
यस्या गमनमात्रेण भूमौ कम्पः प्रजायते ।
बह्वाशिनीं प्रलोभाञ्च तां नारीं परिवर्जयेत् ॥
विरला दशना यस्याः कृष्णोष्ठी कृष्णजिह्विका
भर्त्तारं प्रथमं हन्ति द्वितीयञ्चैव विन्दति ॥
अङ्गुली विरला यस्याः सलीमा गात्रकर्कशा ।
भेका भेकस्तनी क्षुद्रा दूरतः परिवर्जयेत् ॥
त्रीणि यस्याः प्रलम्बानि ललाटं उदरं भगम् ।
त्रीणि सा भक्षयेन्नारी श्वशुरं देवरं पतिम् ॥
ललाटे श्वशुरं हन्यात् जठरे देवरं तथा ।
भगञ्च हन्याद्भर्त्तारं महादोषास्त्रयः स्मृताः ॥
यस्या अत्युत्कटं नार्य्या वक्षश्च विस्तृतं भवेत् ।
उत्तरोष्ठे च लोमानि शीघ्रं सा भक्षयेत्
पतिम् ॥
चरणानामिका यस्याः क्षितिं न स्पृ शते यदि ।
द्वितीया वा तृतीया वा सा कन्या सुख-
वर्ज्जिता ॥
नासाग्रे दृश्यते यस्याः तिलकं मशकोऽपि च ।
कृष्णदन्ता कृष्णजिह्वा दशाहेन पतिं हरेत् ॥
सूक्ष्मकेशा तु या कन्या गीरवर्णा च या भवेत्
अष्टौ जनयते पुत्त्रान् प्राप्नोति विपुलं सुखम् ॥”
इति सामुद्रके स्त्रीलक्षणं समाप्तम् ॥
(समुद्रसम्बन्धिनि, त्रि । यथा, महाभारते ।
५ । ३५ । ४४ ।
“सामुद्रकं बाणिजकञ्च चौरं
शलाकवृत्तिञ्च चिकित्सकञ्च ।
अरिञ्च मित्रञ्च कुशीलवञ्च
नैतान् साक्ष्ये त्वधीकुर्व्वीत सप्त ॥”)

सामुद्रिकः, त्रि, (समुद्रेण प्रोक्तं शास्त्रमधीते

वेत्तीति वा । ठञ् ।) स्त्रीपंसचिह्नवेत्ता । इति
हारावली ॥ समुद्रसम्बन्धी च ॥ (यथा, महा-
भारते । १२ । १६९ । २ ।
“सामुद्रिकान् स बणिजस्ततोऽपश्यत् स्थितान्
पथि ।
स तेन सह सार्थेन प्रययौ सागरं प्रति ॥”)

साम्नी, स्त्री, वैदिकच्छन्दोविशेषः । इति केचित् ॥

साम्परायिकं, क्ली, (संपरायाय विपदे प्रभव-

तीति । संपराय + “तस्मै प्रभवति सन्तापा-
दिभ्यः ।” ५ । १ । १०१ । इति ठञ् ।) युद्धम् ।
इत्यमरः । २ । ८ । १०४ ॥ (सम्पराय उत्तर-
काले हितम् । सम्पराय + ठक् ।) पार-
लौकिके, त्रि । यथा, --
“प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते ।
न साम्परायिकं तस्य दुर्म्मतेर्व्विद्यते फलम् ॥”
इति मनुः । ११ । ३० ।
(सम्परायं युद्धमर्हतीति । तदर्हतीति ठक् ।
युद्धार्हे, त्रि । यथा, रघुः । १७ । ६२ ।
“पित्रा संवर्द्धितो नित्यं कृतास्त्रः साम्परायिकः
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ॥”)

साम्प्रतं, व्य, (सम् च प्रति च द्वयोः समाहारः ।

ततः प्रज्ञाद्यण् ।) युक्तम् । (यथा, कुमारे ।
२ । ५५ ।
“इतः स दैत्यः प्राप्नश्रीर्नेत एवाहति क्षयम् ।
विषवृक्षोऽपि संवर्द्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥”)
इदानीम् । इत्यमरः । ३ । ४ । ११ । २३ ॥
(यथा, ऋतुसंहारे । १ । ७ ।
“समुद्गतस्वे दचिताङ्गसन्धयो
विमुच्य वासांसि गुरूणि साम्प्रतम् ।
स्तनेषु तन्वं शुकमुन्नतस्तना
निवेशयन्ते प्रमदाः सयौवनाः ॥” * ॥
सम्प्रति भवं साम्प्रतम् । अण् । इदानीन्तने,
त्रि । यथा, हरिवंशे । ६ । १६ ।
“वैवस्वतेऽन्तरे चास्मिन् साम्प्रते समुपस्थिते ।
वैण्यात् प्रभृति राजेन्द्र सर्व्वस्यैतस्य सम्भवः ॥”
तथाच तत्रैव । ७ । ३७ ।
“मनोर्वैवस्वतस्यैते वर्त्तन्ते साम्प्रतेऽन्तरे ।
इक्षाकुप्रमुखाश्चैव दशपुत्त्रा महात्मनः ॥”
तथाच तत्रैव । ८ । ४३ ।
“तस्य ते कीर्त्तयिष्यामि मनोर्वैवस्वतस्य ह ।
विसर्गं भरतश्रेष्ठ साम्प्रतस्य महाद्युतेः ॥”)

साम्ब, क सम्बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०

पर०-सक०-सेट् ।) ओष्ठ्यवर्गशेषोपधः ।
द्वितीयस्वरी । क, साम्बयति धनं लोकः संब-
ध्नाति इत्यर्थः । इति दुर्गादासः ॥

साम्बरं, क्ली, (सम्बरदेशे भवम् । अण् । गड-

लवणम् । यथा, --
“गडादिलवणं शुभ्रं पृथ्वीजं गडदेजम् ।
गडोथ्यञ्च महारम्भं साम्बरं सम्बरोद्भवम् ॥”
इति राजनिर्घण्टः ॥

साम्बरी, स्त्री, (सम्बरेण कृता । सम्बर + अण् +

ङीष् ।) माया । यथा, --
“शाम्बरी साम्बरी माया मायाकृद्भिक्षुके नटे”
इति शब्दरत्नावली ॥

साम्भवी, स्त्री, रक्तलोध्रः । इति शब्दचन्द्रिका ॥

साम्मातुरः, पुं, (सम्मातुरपत्यं पुमान् । सम्मातृ +

“मातुरुत्संख्यासंभद्रपूर्व्वायाः ।” ४ । १ । ११५ । इति
अण् । उकारश्च ।) सतीतनयः । तत्पर्य्यायः ।
भाद्रमातुरः २ । इति हेमचन्द्रः । ३ । २२० ॥

साम्यं, क्ली, (समस्य भावः । सम + ष्यञ् ।)

समता । तुल्यत्वम् । यथा, --
“चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रति-
गृह्य च ।
पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥”
इति प्रायश्चित्ततत्त्वम् ॥
साम्यन्त्वेकस्थानत्वम् । इति मुग्धबोधव्याक-
रणम् ॥ (साम्यावस्थापन्ने, त्रि । यथा, भाग-
वते । ८ । ३ । १२ ।
“नमः शान्ताय घोराय मूढाय गुणधर्म्मिणे ।
निर्व्विशेषाय साम्याय नमो ज्ञानघनाय च ॥”

साम्राज्यं, क्ली, (सम्राजो भावः । ष्यञ् ।)

समस्तराज्यम् । (यथा, रघुः । ४ । ५ ।
“छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदौक्षितम् ॥”
दशलक्षाधिपत्यम् । यथा, --
“लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दश-
लक्षके ।
शतलक्षे महेशानि महासाम्राज्यमुच्यते ॥”
इति वरदातन्त्रे २ पटलः ॥

साम्राणिकर्द्दमं, क्ली, जवादिनामकगन्ध-

द्रव्यम् । इति राजनिर्घण्टः ॥

साम्राणिजं, क्ली, महापारेवतम् । इति राज-

निर्घण्टः ॥

सायं, व्य, (स्यति समापयति दिनमिति । सो +

बाहुलकात् णम् । युगागमाश्च ।) सायाह्नः ।
इत्यमरः । ३ । ४ । १९ । सन्ध्या । इति राज-
निर्घण्टः ॥ तथा, --
“दिनान्ते पुंसि सायः स्यात् सायाह्ने साय-
मव्ययम् ।”
इति शब्दार्णवः ॥
(यथा, रघुः । १ । ४८ ।
“सदुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥”)

सायंकालः, पुं, (सायं सायाह्नः कालः ।)

सायाह्नः । सायंसन्ध्यासमयः । यथा, स्मृ ति-
सागरधृतमत्स्यसूक्तम् ।
“ज्येष्ठा वाप्यथवा षष्ठी सायंकाले न चेद्भवेत् ॥
सायमेव तथापि स्याद्विल्वशाखाभिमन्त्रणम् ॥
इति तिथ्यादितत्त्वम् ॥

सायंसन्ध्या, स्त्री, (सायं सायाह्ने या सन्ध्या ।)

सायंकालोपास्या देवता । सायंकालकर्त्तव्यो-
पासना । सायंसन्ध्योपासनाकालश्च । तत्प्रमाणं
सन्ध्याशब्दे द्रष्टव्यम् । पश्चिमा सन्ध्या । तस्या
उत्पत्तिर्यथा, --
मार्कण्डेय उवाच ।
“नारायणः स्वयं सन्ध्यां पस्पर्शाथाग्रपाणिना ।
ततः पुरोडाशमयं तच्छरीरमभूत् क्षणात् ॥
महामुनेर्म्महायज्ञे तस्मिन् विश्वोपकारिणि ।
नाग्निः क्रव्यादतां यातीत्येतदथ तथा कृतम् ॥
एवं कृत्वा जगन्नाथस्तत्रैवान्तरधीयत ।
सन्ध्याप्यगच्छद्यत्रेजे तत्र मेधातिथिर्मुनिः ॥
अथ विष्णोः प्रसादेन केनाप्यनुपलक्षिता ।
प्रविवेश तदा यज्ञं सन्ध्या मेधातिथेर्मनेः ॥
वशिष्ठे न पुरा या तु वर्णीभूता तु सा सुता ।
उपदिष्टा तपश्चर्त्तुं वचनात् परमेष्ठिनः ॥
पृष्ठ ५/३३७
तमेव कृत्वा मनसि तपश्चर्य्योपदेशकम् ।
पतित्वेन तदा सन्ध्या ब्राह्मणं ब्रह्मचारिणम् ॥
समिद्धेऽग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।
तदा विष्णोः प्रसादेन सा विवेश विधेः सुता ॥
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।
दग्धं पुरोडाशगन्धं व्यस्तारयदलक्षितम् ॥
वह्निस्तस्याः शरीरं तद्दग्ध्वा सूर्य्यस्य मण्डले ।
शुद्धं प्रवेशयामास विष्णोरेवाज्ञया पुनः ॥
सूर्य्यो द्विधा विभज्याथ तत्शरीरं तदा रथे ।
स्वके संस्थापयामास प्रीतये पितृदेवयोः ॥
यदूर्द्धभागं तस्यास्तु शरीरस्य द्विजोत्तमाः ।
प्रातःसन्ध्याभवत् सा तु अहोरात्रादिमध्यगा ॥
यच्छेषभागस्तस्यास्तु अहोरात्रान्तमध्यगा ।
सा सायमभवत् सन्ध्या पितृप्रीतिप्रदा सदा ॥
सूर्य्योदयाच्च प्रथमं यदा स्यादरुणोदयः ।
प्रातःसन्ध्या तदोदेति देवानां प्रीतिकारिणी ॥
अस्तं गते ततः सूर्य्ये शोणपद्मनिभा सदा ।
उदेति सायंसन्ध्या सा पितॄणां मोदकारिणी ॥”
इति श्रीकालिकापुराणे अरुन्धतीजन्मकथने
२२ अध्यायः ॥

सायंसन्ध्यादेवता, स्त्री, (सायंसन्ध्याया देवता ।)

सरस्वती । इति कविकल्पलता ॥

सायः, पुं, (स्यति समापयति दिनमिति । सो +

श्याद्व्यधेति णः । ततो युगागमः ।) दिनान्तः ।
इत्यमरः । १ । ४ । ३ ॥ बाणः । इति मेदिनी ॥
सायोत्मवौ विकालके । इति त्रिकाण्डशेषः ॥

सा(शा)यकः, पुं, (स्यति छिनत्तीति । सो +

ण्वुल् + युक् ।) बाणः । (यथा, रामायणे ।
२ । ३१ । ३० !
“अभेद्ये कवचे दिव्ये तूणौ चाक्षय्यसायकौ ॥”)
खड्गः । इत्यमरः । ३ । ३ । २ ॥ (यथा, महा-
भारते । ४ । ४० । १४ ।
“कस्य पाञ्चनखे कोषे सायको हेमविग्रहः ।
प्रमाणरूपसम्पन्नः पीत आकाशसन्निभः ॥”
पञ्चमसंख्या । यथा, साहित्यदर्पणे । ४ । २६४ ।
“सङ्करेण त्रिरूपेण संसृष्ट्या चैकरूपया ।
वेदखाग्निशराः शुद्धैरिषुबाणाग्निसायकाः ॥”)

सायकपुङ्खा, स्त्री, (सायकस्य पुङ्ख इव पुङ्खो

यस्याः ।) शरपुङ्खा । इति राजनिर्घण्टः ॥
(सायकस्य पुङ्खे, पुं, । यथा, रघुः । २ । ३१ ।
“सक्ताङ्गुलिः सायकपुङ्ख एव
चित्रार्पितारम्भ इवावतस्थे ॥”)

सायन्तनः, त्रि, (सायं भवः । सायम् + “सायं-

चिरंप्राह्लेप्रागव्ययेभ्यष्ट्युढ्युलौ तुट् च ।” ४ । ३ ।
२३ । इति ढ्युल् तुट् च ।) सायंकालभवः ।
यथा, --
“सन्ध्यां सायन्तनीं कुर्य्यात् द्वादश्यादिष्वपि
प्रिये ।
अकुर्व्वन्निरयं याति यतो नित्यागमक्रिया ॥”
इति बृहन्नीलतन्त्रे प्रथमपटलः ॥

सायाह्नः, पुं, (सायमह्नः । “संख्याविसायेति ।”

६ । ३ । ११० । ज्ञापकात् समासः ।) पञ्चधा-
विभक्तदिनपञ्चमांशः । दिवसस्य शेषमूहूर्त्त-
त्रयम् । यथा, --
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।
मध्याह्नस्त्रिमुहूर्त्तं स्यादपराह्लस्ततः परम् ॥
सायाह्नस्त्रिमुहूर्त्तं स्यात् श्राद्धं तत्र न कारयेत्
राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥”
इति तिथ्यादितत्त्वम् ॥
तत्पर्य्यायः ।
“सायो दिनान्तः सायाह्नो विकालः सायमेव च”
इति शब्दरत्नावली ॥

सायिका, स्त्री, क्रमस्थितिः । इति शब्दरत्नावली ॥

सायी, [न्] पुं, (सायति नाशयति गतिक्लेश-

मिति । सै क्षये + णिनिः ।) अश्वारोहः ।
इति केचित् ॥

सायुज्यं, क्ली, (सयुजो सहयोगस्य भावः ।

ब्राह्मणादित्वात् ष्यञ् ।) सहयोगः । एकत्वम् ।
तत्तु पञ्चधामुक्त्यन्तर्गतमुक्तिविशेषः । यथा, --
“सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥”
इति श्रीभागवते । ३ । २९ । १३ ॥
“भक्तानां निष्कामतां कैमुतिकन्यायेनाह ।
सालोक्यं मया सह एकस्मिन् लोके वासम् ।
सार्ष्टिं समानैश्वर्य्यम् । सामीप्यं निकटवर्त्ति-
त्वम् । सारूप्यं समानरूपताम् । एकत्वं
सायुज्यम् । उत अपि दीयमानमपि न गृह्णन्ति
कुतस्तत्कामना इत्यर्थः ।” इति श्रीधरस्वामी ॥
“एकत्वं भगवत्सायुज्यं ब्रह्म सायुज्यञ्च । अनयो-
स्तल्लीलात्मकत्वेन तत्सेवनार्थत्वाभावात् ग्रह-
णावश्यकत्वमेवेति भावः ।” इति क्रमंसन्दर्भः ॥

साये, व्य, दिनान्ते । सायंकाले । इति केचित् ॥

सार, त् क दौर्व्वल्ये । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-अक०-सेट् ।) रेफोपधः ।
अससारत् । इति दुर्गादासः ॥

सारं, क्ली, पुं, (सार त् क दौर्ब्बल्ये + अच् । सृ गतो

+ घञ् इति वा ।) जलम् । धनम् । (यथा,
रघुः । ४ । ७९ ।
“परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमा-
द्रिणा ॥”)
न्याय्यम् । इति मेदिनी ॥ (सरात् जातम् ।
सर + अण् ।) नवनीतम् । इति राजनिर्घण्टः ॥
(यथा, सुश्रुते उत्तरतन्त्रे । २६ ।
“क्षीरशेषञ्च तन्मथ्यं शीतं सारमुपाहरेत् ॥”
अमृतम् । यथा, भागवते । ७ । ६ । २५ ।
“धर्म्मादयः किमगुणेन च काङ्क्षितेन
सारंजुषां चरणयोरुपगायतां नः ॥”)
लौहम् । इति भावप्रकाशः । विपिनम् । इति
शब्दरत्नावली ॥ * ॥ सारवस्तूनि यथा, --
“सारं रसानान्तु घृतं घृतसारं हुतञ्च यत् ।
हुतस्य सारं स्वर्गञ्च स्वर्गात् सारन्तु योषितः ॥
अतो राजन् प्रदेयाः स्युः स्त्रियः स्वर्गमभीप्-
सतः ।
तथैवेह सुखं ताभिः सह राज्यं नृपोत्तम ॥”
इति वह्निपुराणे दासीदानाध्यायः ॥
अपि च ।
“असारे खलु संसारे सारमेतच्चतुष्टयम् ।
काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्बु-
सेवनम् ॥”
इति कवितारत्नाकरधृतपुराणवचनम् ॥

सारः, पुं, (सृ + “सृ स्थिरे ।” ३ । ३ । १७ । इति

घञ् ।) बलम् । (यथा, महाभारते । १ । १५५ ।
२३ ।
“तरस्व भीम मा क्रीड जहि रक्षो विभीषणम् ।
पुरा विकुरुते मायां भुजयोः सारमर्पय ॥”)
स्थिरांशः । इत्यमरः । ३ । ३ । १७० ॥ (यथा,
रघुः । १० । १० ।
“प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा ॥”)
मज्जा । इत्यमरः । २ । ४ । १२ ॥ वज्रक्षारम् ।
इति राजनिर्घण्ठः ॥ वायुः । इति जटाधरः ॥
रोगः । इति धरणिः ॥ पाशकः । इति शब्द-
रत्नावली ॥ दध्युत्तरम् । इति शब्दचन्द्रिका ॥
(अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे ।
१० । ७३१ ।
“उत्तरोत्तरमुत्कर्षो वस्तुनः सार उच्यते ॥”
यथा, --
“राज्ये सारं वसुधा वसुधायामपि पुरं पुरे
सौधम् ।
सौधे तल्पं तल्पे वराङ्गनासर्व्वस्वम् ॥”)

सारः, त्रि, (सृ + घञ् ।) अतिदृढः । इति

शब्दरत्नावली ॥ वरः । श्रेष्ठः । इत्यमरमेदिनी-
करौ ॥ यथा, --
“सर्व्वसारो यथा कृष्णो व्रतानां पुण्यकं तथा ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३ । ३० ॥
अपि च ।
श्रीमार्कण्डेय उवाच ।
“जगत् सर्व्वन्तु निःसारमनित्यं दुःखभाजनम् ।
उत्पद्यते क्षणादेतत् क्षणादेतत् विपद्यते ॥
यथैवोत्पद्यते सारान्निःसारं जगदञ्चसा ।
पुनस्तस्मिन्निलीयन्ते महाप्रलयसङ्गमे ॥
उत्पत्तिप्रलयाभ्यान्तु जगन्निसारतां हरिः ।
शम्भवे दर्शयामास भावेन जगतां पतिः ॥
एकं शिवं शान्तमनन्तमच्युतं
परात्परं ज्ञानमयं विशेषम् ।
अद्वैतमव्यग्रमचिन्त्यरूपं
सारन्त्वेकं नास्ति सारं त्वदन्यत् ॥
यस्मादेतज्जायते विश्वमग्र्यं
यस्माल्लीनं स्यात् तत्पश्चात् स्थितञ्च ।
आकाशवन्मेघजालस्य धृत्या
यद्विश्वं वै ध्रियते तच्च सारम् ॥
अष्टाङ्गयोगैर्यदाप्तु मिच्छन्
योगी युनक्त्यात्मरूपं सदैव ।
निवर्त्तते प्राप्य यन्नेह लोके
तद्वै सारं सारमन्यन्न चास्ति ॥
पृष्ठ ५/३३८
सारो द्वितीयो धर्म्मस्तु यो नित्यप्राप्तये भवेत् ।
यो वै निवर्त्तको नाम तत्रासारः प्रवर्त्तकः ॥
सर्व्वं क्षरति लोकेऽस्मिन् धर्म्मो नैव च्युतो भवेत्
स्वधर्म्माद्यो न चलति स एवाक्षर उच्यते ॥
एतद्वः कथितं सारं निःसारञ्च यथा जगत् ।
यथा स्वयं ददर्शाशु शम्भुर्ज्ञानेन स्वेऽन्तरे ॥
एतद्वै दर्शयामास स विष्णुर्जगतां पतिः ।
स्वयं जग्राह मनसा ध्यानेनात्मनि शङ्करः ॥
सारं तत्त्वं परमं निष्कलं य-
म्मूर्त्त्या दीनं मूर्त्तिमान् धर्म्म एषः ।
सारोऽन्योऽसौ सारहीनं तदन्यत्
ज्ञात्वैवेथ्यं याति नित्यं महाधीः ॥”
इति श्रीकालिकापुराणे २७ अध्यायः ॥

सारकः, पुं, (सारयति मलमिति । सृ + णिच् +

ण्वुल् ।) जयपालः । इति राजनिर्घण्टः ॥ विरे-
चके, त्रि । इति वैद्यकम् ॥

सारखदिरः, पुं, (सारः अतिदृढः खदिरः ।)

दुःखदिरः । इति राजनिर्घण्टः ॥

सारगन्धः, पुं, (सारो गन्धो यस्य ।) चन्दनम् ।

इति शब्दचन्द्रिका ॥

सारग्राही, [न्] त्रि, (सारं गृह्लातीति ।

ग्रह + णिनिः ।) सारग्रहणकर्त्ता ॥

सारघं, क्ली, (सरघाभिर्मधुमक्षिकाभिः कृतमिति

सरघा + अण् ।) मधु । इति जटाधरः ॥
(यथा, भागवते । १० । १६ । ४३ ।
“पीत्वा मुकुन्दमुखसारघमक्षिभृङ्गै-
स्तापं जहुर्विरहजं व्रजयोषितोऽह्नि ॥”)

सारङ्गः, पुं, (सरतीति । सृ गतौ + “सृवृञो-

र्वृद्धिश्च ।” उणा० १ । १२१ । इति अङ्गच् ।
वृद्धिश्च ।) चातकपक्षी । इत्यमरः । २ । ५ । १७ ॥
(यथा, रामायणे । २ । ६३ । १६ ।
“उष्णमन्तर्द्दधे सद्यः स्निग्धा ददृशिरे घनाः ।
ततो जहृषिरे सर्व्वे भेकसारङ्गवर्हिणः ॥”)
हरिणः । (यथा, भट्टिः । ३ । २६ ।
“गोमायुसारङ्गगणाश्च सम्यक्
नायासिषुर्भीममरासिषुश्च ॥”)
मातङ्गजः । इति मेदिनी ॥ पक्षिभेदः । भृङ्गः ।
इति विश्वः ॥ यथा, --
“नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक्
कुशलान्याशु सिध्यन्ति नेतराणि कृतानि यत् ॥”
इति श्रीभागवते । १ । १८ । ७ ॥
“ननु अधर्म्महेतुं कलिं सर्व्वथा किं न हत्वान्
तत्राह नानुद्वेष्टीति । सारङ्गो भ्रमर इव सार-
ग्राही । सारमाह यत् यस्मिन् कुशलानि
पुण्यानि आशु संकल्पमात्रेण फलन्ति इतराणि
पापानि आशु न सिध्यन्ति यतस्तानि कृतान्येव
सिध्यन्ति न तु संकल्पितमात्राणीति ।” इति
श्रीधरस्वामी ॥ * ॥ छत्रम् । राजहंसः । चित्र-
मृगः । (यथा, महाभारते । ७ । २२ । २१ ।
“आक्रीडन्तो वहन्ति स्म सारङ्गशवला हयाः ॥”)
वाद्यभेदः । अंशुकम् । इति शब्दरत्नावली ॥
नानावर्णः । मयूरः । कामदेवः । धनुः । केशः ।
स्वर्णम् । आभरणम् । पद्यम् । शङ्खः । चन्दनम् ।
कर्पूरम् । पुष्पम् । कोकिलः । मेघः । पृथिवी ।
रात्रिः । दीप्तिः । सिंहः । इत्यनेकार्थकोषः ॥ * ॥
सारङ्गहरिणमांसगुणाः ।
“सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यदम् ।”
इति राजनिर्घण्टः ॥

सारङ्गः, त्रि, (सृ + अङ्गच् ।) शवलः । इत्य-

मरः । ३ । ३ । २३ ॥ “शारङ्गश्चातके ख्यातः
शवले हरिणेऽपि च । इति तालव्यादावजयः ।
अतएव सारङ्गो दन्त्यादिस्तालव्यादिश्च ।” इति
भरतः ॥

सारङ्गिकः, पुं, (सारङ्गं हन्तीति । सारङ्ग + “पक्षि-

मत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।)
व्याधः । इति सिद्धान्तकौमुदी ॥

सारङ्गी, स्त्री, वाद्यविशेषः । इति केचित् ॥

सारजं, क्ली, (सारात् जायते इति । जन + डः ।)

नवनीतम् । इति शब्दचन्द्रिका ॥

सारणं, क्ली, (सारयतीति । सृ + णिच् + ल्युः ।)

गन्धभेदः । इति धरणिः ॥

सारणः, पुं, (सृ + णिच् + ल्युः ।) अतीसाररोगः ।

रावणमन्त्री । इति हेमचन्द्रः ॥ भद्रवला । इति
धरणिः ॥ आम्रातकः । इति शब्दचन्द्रिका ॥

सारणिः, स्त्री, (सृ + णिच् + अनिः । इत्युणादि-

वृत्तौ उज्ज्वलः । २ । १०३ ।) क्षुद्रनदी । प्रसा-
रणी । इत्युणादिकोषः ॥

सारणिकः, त्रि, पथिकः । सरणिशब्दात् ष्णिक-

प्रत्ययेन निष्पन्नः ॥ (यथा, महाभरते । १२ ।
९१ । ३६ ।
“यदा सारणिकान् राजा पुत्रवत् परिरक्षति ।
भिनत्ति च न मर्य्यादां स राज्ञो धर्म्म उच्यते ॥”)

सारणिकघ्नः, पुं, (सारणिकान् पथिकान् हन्तीति

हन + टक् ।) दस्युः । इति केचित् ॥

सारणी, स्त्री, (सारणि + वा ङीष् ।) प्रसारणी ।

स्वल्पनदी । इति मेदिनी ॥ (यथा, अनर्घ-
राघवे । २ । २५ ।
“आलवालवलयेषु भूरुहां
मांसलस्तिमितमन्तरान्तरा ।
केरलीचिकुरभङ्गिभङ्गुरं
सारणीषु पुनरम्बु दृश्यते ॥”)

सारण्डः, पुं, सर्पाण्डः । इति जटाधरः ॥

सारतरुः, पुं, (सारं जलं तत्प्रधानस्तरुः ।)

कदलीवृक्षः । इति धनञ्जयः ॥

सारथिः, पुं, (सरत्यश्वानिति । सृ + अन्तर्भावि-

ण्यर्थः + “सर्त्तेर्णिच्च ।” उणा० ४ । ८९ । इति
घथिन् ।) रथादिघोटकनियोगकर्त्ता । तत्-
पर्य्यायः । नियन्ता २ प्राजिता ३ यन्ता ४
सूतः ५ क्षत्ता ६ सव्येष्टा ७ दक्षिणस्थः ८ रथ-
कुटुम्बी ९ । इत्यमरः । २ । ८ । ५९-६० ॥ सादी १०
सव्येष्ठः ११ नियामकः १२ चातुरिकः १३ ।
इति जटाधरः ॥ प्रवेता १४ रथनागरः १५ ।
इति शब्दरत्नावली ॥ सरथस्यापत्यं सारथिः
बाह्वाद्यत इति ष्णिः । सह रथेन वर्त्तते योऽसौ
सरथोऽश्वः तं प्रेरयति ढघे कादिति ष्णिर्व्वा ।
सारयति अश्वान् इति ञ्यन्तात् सृ गतावि-
त्यस्मात् नाम्नीति अथिप्रत्ययो वा । इत्यमर-
टीकायां भरतः ॥ तल्लक्षणं यथा, मात्स्ये ।
२१५ । २० -- २१ ।
“निमित्तशकुनज्ञानो हयशिक्षाविशारदः ।
हयायुर्व्वेदतत्त्वज्ञो भूरिभागविशेषवित् ॥
स्वामिभक्तो महोत्साहः सर्व्वेषाञ्च प्रियंवदः ।
शूरश्च कृतविद्यश्च सारथिः परिकीर्त्तितः ॥”
समुद्रः । इति संक्षिप्तसारोणादिवृत्तिः ॥

सारदा, स्त्री, (सारं ददातीति । दा + कः ।)

सरस्वती । इति शब्दरत्नावली ॥ दुर्गा । यथा ।
शरत्कालबोधनीयत्वेन शारदापदव्युत्पत्ते-
स्तत्पदं तालव्यादि सारं ददातीति व्युत्पत्ति-
स्तुकाल्पनिकी । इति तिथ्यादितत्त्वम् ॥ सार-
दातरि, त्रि ॥

सारद्रुमः, पुं, (सारः अतिदृढः द्रुमः ।) खदिरः

इति राजनिर्घण्टः ॥ (यथा, बृहत्संहितायाम् ।
४३ । ५८ ।
“उत्थापयेत् लक्ष्म सहस्रचक्षुषः
सारद्रुमाभग्नकुमारिकान्वितम् ॥”)

सारपादपः, पुं, (सारः अतिदृढः पादपः ।)

धामनिवृक्षः । इति रत्नमाला ॥

सारभाण्डं, क्ली, (सारस्य भाण्डमिव ।) अकृत्रिम-

पात्रम् । यथा मृगनाभ्यादि ॥ (यथा, याज्ञ-
वल्क्यः । २ । २५० ।
“समुद्रपरिवर्त्तञ्च सारभाण्डञ्च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥”)

सारमितिः, पुं, वेदः । इति हेमचन्द्रः ॥ सारं

यथार्थं मीयते ज्ञायते अनेन सारमितिः ।
सारोपपदात् माधातोर्नाम्नीति तिः ॥

सारमूषिका, स्त्री, (सारे मुषिकेव) देवदाली ।

इति राजनिर्घण्टः ॥

सारमेयः, पुं, (सरमाया अपत्यं पुमानिति । ढक् ।)

कुक्कुरः । इत्यमरः । २ । १० । ३१ ॥ (यथा,
महाभारते । ६ । ९ । ७३ ।
“अन्योन्यस्यावलुम्पन्ति सारर्मेया इवामिषम् ।
राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् ॥”)

सारमेयी, स्त्री, (सरमाया अपत्यं स्त्री । ढक् ।

ङीष् ।) कुक्कुरी । इति शब्दरत्नावली ॥

सारलोहं, क्ली, (सारं श्रेष्ठं लोहम् ।) लोह-

सारः । इति भूरिप्रयोगः ॥ इष्पात इति भाषा ॥

सारवः, त्रि, (सरय्वां भवः । अण् । “दाण्डि-

नायनहास्तिनायनेति ।” ६ । ४ । १७४ । इति
निपातनात् साधुः ।) सरयुनदीसमुत्पन्नः ।
इत्यमरः । १ । १० । ३६ ॥।

सारवर्ज्जितः, त्रि, स्थिरांशरहितः । असारवस्तु ।

सारेण वर्ज्जित इति तृतीयातत्पुरुषसमास-
निष्पन्नः ॥

सारसं, क्ली, (सरसि भवम् । सरस् + अण् ।)

पद्मम् । इत्यमरः । १ । १० । ४० ॥ स्त्रीकट्या-
भरणम् । इति केचित् ॥
पृष्ठ ५/३३९

सारसं, त्रि, (सरसि भवम् । सरस् + अण् ।)

सरोवरोद्भवजलादि । तज्जलगुणाः । तथा, --
“नद्याः शैलवराच्चाम्भो यत्र संस्रुत्य तिष्ठति ।
तत् सरोजजलं छन्नं तदद्भः सारसं स्मृतम् ॥
सारसं सलिलं बल्यं तृष्णाघ्नं मधुरं लघु ।
रोचनं तुवरं रूक्षं बद्धमूत्रमलं सितम् ॥”
इति भावप्रकाशः ॥
(यथा च ।
“क्षारं घनं वातकफानुकारि
त्वग्दोषकृत् तत् कटु दीपनञ्च ।
प्रोक्तं विपाके भ्रमशोषकारि
स्यात् सारसं नो सुखकारि वारि ॥”
इति हारीते प्रथमस्थाने सप्तमेऽध्याये ॥)

सारसः, पुं, चन्द्रः । इति मेदिनी ॥

सारसः, पुं, स्त्री, (सरसि भवः । अण् ।) स्वनाम-

ख्यातपक्षी । तत्पर्य्यायः । पुष्कराह्वः २ ।
इत्यमरः । २ । ५ । २२ ॥ गोनर्द्दः ३ नाङ्कुरः ४
लक्ष्मणः ५ लक्षणः ६ सरसीकः ७ सरोत्सवः ८
इति शब्दरत्नावली ॥ रसिकः ९ कामी १० ।
तन्मांसगुणाः । मधुरत्वम् । अम्लत्वम् । कषाय-
त्वम् । महातिसारपित्तग्रहण्यर्शोनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ तस्य शकुनं यथा, --
“इष्टार्थसिद्धिः सकलासु दिक्षु
स्यात् सारसद्वन्द्वविलोकनेन ।
श्रुत्वास्य पृष्ठे निनदं न गच्छेत्
सिध्यत्यभीष्टं गृह एव यस्मात् ॥
वामेन योषित्कुललाभकारी
शब्दस्तथाग्रे नृपतोऽर्थलब्ध्यै ।
यः सारसाभ्यां युगपद्विरावः
कृतोऽचिरेण क्रमतोऽपि वामः ।
स वेदितव्यः कथितार्थकारी
क्रौञ्चद्वयस्याप्ययमेव वर्गः ॥”
इति वसन्तराजशाकुने सारसवर्गः ॥

सारसनं, क्ली, (सारं सनोति ददातीति । षणु

दाने + अच् ।) काञ्ची । स्त्रीकट्याभरणम् ।
इत्यमरः । २ । ६ । १०९ ॥ अस्य पर्य्यायः काञ्ची
शब्दे द्रष्टव्यः ॥ कञ्चुकदार्ढ्यार्थं मध्यकायनिबद्ध-
पट्टिकादि । तत्पर्य्यायः । अधिकाङ्गम् २ ।
इत्यमरः । २ । ८ । ६३ ॥ द्वे कञ्चुकदार्ढ्यार्थं
मध्यकाये निबद्धे पट्टिकादौ । सकञ्चु काः सस-
न्नाहाः मध्ये दार्ढ्यार्थं यद्वध्नन्ति तत् सारसनं
अधिकाङ्गञ्चोच्यते । इति भरतः ॥ (यथा,
किराते । १८ । ३२ ॥
“तवोत्तरीयं करिचर्म्म साङ्गजं
ज्वलन्मनिः सारसनं महानहिः ।
सगास्यपंक्तिः शवभस्म चन्दनं
कला हिंमाशोश्च समञ्चकासत ॥”)

सारसी, स्त्री, (सारस + जातौ ङीष् ।) सारस-

पत्नी । इति हेमचन्द्रः ॥ (यथा, महाभारते ।
११ । १८ । १४ ।
“हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः ।
सारस्य इव रासन्त्यः पतिताः पश्य माधव ! ॥”)

सारस्वतः, पुं, सरस्वती देवतास्येति । अण् ।)

विल्वदण्डः । (सरस्वत्या अयमिति । तस्येद-
मित्यण् ।) देशविशेषः । स तु हस्तिनापुरस्य
उत्तरपश्चिमभागे प्रसिद्धः । इति हेमचन्द्रः ॥
यथा । कूर्म्माङ्गस्थदेशानाह ।
“मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः
पाञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः ॥”
इति ज्योतिस्तत्त्वम् ॥
सरस्वतीनदीपुत्त्रमुनिविशेषः । सारस्वतदेशो-
द्भवब्राह्मणः । यथा, --
“सारस्वताः कान्यकुब्जा गौडमैथिलकोत्कलाः ।
पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥”
इति पुराणम् ॥
कल्पविशेषः ॥ यथा, --
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्न्नरामराः ।
तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते ॥”
इति मात्स्ये ५० अध्यायः ॥
व्याकरणविशेषः । (नवमद्वापरयुगस्य व्यासः ।
यथा, देवीभागवते । १ । ३ । २८ ।
“सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥”
घृतविशेषे, क्ली । यथा, --
“समूलपत्रामादाय ब्रह्मीं प्रक्षाल्य वारिणा ।
उदूखले क्षोदयित्वा रसं वस्त्रेण गालयेत् ॥
रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् ।
औषधानि तु पेष्याणि तानीमानि प्रदापयेत् ॥
हरिद्रा मालती कुष्ठं त्रिवृती सहरीतकी ।
एतेषां पलिकान्भागान् शेषाणिकार्षिकाणि तु
पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वचा ।
सर्व्वमेतत् समालोड्य शनैर्मृ द्वग्निना पचेत् ॥
एतत्प्राशितमात्रेण वाग्विशुद्धिश्च जायते ।
सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥
अर्द्धमासप्रयोगेण सोमराजीवपुर्भवेत् ।
मासमात्रप्रयोगेन श्रुतमात्रन्तु धारयेत् ॥
हन्त्यष्टादशकुष्ठानि अर्शांसि विविधानि च ।
पञ्चगुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ॥
बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् ।
घृतं सारस्वतं नाम बलवर्णाग्निवर्द्ध नन् ॥”
इति वैद्यकचक्रपाणिसंग्रहे रसायनाधिकारे ॥
इदमेव ब्रह्मीघृतमित्याख्ययापि प्रसिद्धम् ॥ * ॥
त्रि, सरस्वतीसम्बन्धी । (यथा, याज्ञवल्क्ये ।
२ । ८३ ।
“वर्णिनां हि वधो यत्र यत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥”)
सारस्वतदेशसम्बन्धी ॥ (सरस्वतीनदीसम्बन्धी ।
यथा, मेघदूते । ५१ ।
“कृत्वा तासामभिगममपां सौम्य सारस्वतीना-
मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥”)

सारस्वतकल्पः, पुं, (सारस्वतः कल्पः ।) सरस्व-

त्युपासनाप्रकरणम् । यथा, --
ब्रह्मोवाच ।
“शृणु ब्रह्मन् परं गुह्यं कल्पं सारस्वतं मम ।
यस्य विज्ञानमात्रेण जाड्यापहरणं भवेत् ॥
सर्व्वशास्त्रप्रकाशश्च सर्व्वज्ञो जायतेऽचिरात् ।
अभ्यासाच्च भवेद्यस्य वाचश्चित्रा भवन्ति हि ॥
अवापुस्त्रिदशा व्याप्तं वागीशत्वं बृहस्पतिः ।
द्वैपायनोऽपि यां ज्ञात्वा वेदव्यासोऽभवन्मुनिः ॥
मन्त्रोद्धारं प्रवक्ष्यामि साङ्गावरणपूजनैः ।
अनन्तं बिन्दुना युक्तं वामगण्डान्तभूषितम् ॥
जपेत् द्वादशलक्षन्तु मूकोऽपि वाक्पतिर्भवेत्
नाभौ शुभ्रारविन्दञ्च ध्यायेद्दशदलं सुधीः ॥
तन्मध्ये भावयेम्मन्त्री मण्डलानां त्रयं चिरम् ।
रत्नसिंहासनं तत्र वर्णज्योत्स्नामयं पुनः ॥
तस्योपरि पुनर्ध्यायेद्देवीं वागीश्वरीं ततः ।
मुक्ताकान्तिनिभां देवीं ज्योत्स्नाजाल-
विकाशिनीम् ॥
मुक्ताहारयुतां शुभ्रां शशिखण्डविमण्डिताम् ।
बिभ्रतीं दक्षहस्ताभ्यां व्याख्यां वर्णस्य मालि-
काम् ॥
अमृतेन तथा पूर्णं घटं दिव्यञ्च पुस्तकम् ।
दधतीं वामहस्ताभ्यां पीनस्तनभरान्विताम् ॥
मध्ये क्षीणां तथा स्वच्छां नानारत्नविभूषिताम्
आत्माभेदेन ध्यात्वैवं ततः संपूजयेत् क्रमात् ॥
आद्येन दीर्घयुक्तेन कुर्य्यादङ्गानि हस्तयोः ।
हृदयादौ तथा कुर्य्याद्वीजेनाङ्गक्रिया पुनः ॥
भ्रुवोर्म्मध्ये तथा नाभौ गुह्ये च देशिकस्तथा ।
न्यसेद्वीजं पुनर्वस्तौ व्यापकं विन्यसेत्ततः ॥
पीठन्यासं तनी कुर्य्यात् देवताभावशुद्धये ।
मांतृकायान्तु यत् प्रोक्तं पीठमभ्यर्च्च्य यत्नतः ॥
बर्णाब्जेनासनं दद्यात् मूर्त्तिं मूलेन कल्पयेत ।
आवाह्य पूजयेत्तस्यां देवीं वागीश्वरीं ततः ॥
अङ्गैः प्रथमा वृत्तिः स्यात् द्वितीया शक्ति-
भिस्ततः ।
दलाग्रेषु समभ्यर्च्च्य ब्रह्माण्याद्या यथाविधि ॥
लोकपाला बहिः पूज्यास्तेषामस्त्राणि तद्ध्वहिः ।
एवं सम्पूजयेन्मन्त्री जपहोमरतस्तदा ॥
कवित्वं लभते वाग्मी लक्षैर्द्वादभिर्ध्रुवम् ।
प्रातर्जप्त्वा सहस्रन्तु पिबेद्ब्राह्मीं वचान्विताम्
न विस्मरति मेधावी श्रुतान् वेदागमानपि ।
कण्ठमात्रोदके स्थित्वा ध्यायेन्मार्त्तण्डमण्डले ॥
ज्योतिःपुञ्जनिभां देवीं परिवारसमन्विताम् ।
वराभययुतां हस्ते मुद्रापुस्तकधारिणीम् ॥
जपन् सहस्रमाणेन षण्मासं विजितेन्द्रियः ।
भीमां सम्प्राप्य वाक्सिद्धिं कवीनामग्रणीर्भवेत्
अथ योगं प्रवक्ष्यामि जाड्यनाशकरं परम् ।
रात्रिशेषे समुत्थाय शुचिर्भूत्वा समाहितः ॥
शुद्धभावेन चात्मानं गुरुञ्च परिकल्पयेत् ।
तत्प्रभापटलव्याप्तं जगत् सर्व्वं विचिन्तयेत् ॥
मूलाधारे स्थितां देवीं कुण्डलीं परदेवताम् ।
सुप्तां प्रोत्थाप्य तां शक्त्या क्रमाच्चक्राणि भेदयेत्
ततः परशिवे नीत्वा सौधीञ्च प्रापयेत्ततः ।
ऊर्द्धग्रन्थिं विनिर्भिद्य जिह्वां दीपस्वरूपिणीम्
बीजरूपस्वशक्त्या तु प्रोल्लसन्तीं परात्मिकाम् ।
शब्दब्रह्मस्वरूपाञ्च निश्चलां चिन्तयेत् पुनः ॥
तत्प्रभापटलव्याप्तं शरीरं चिन्तयेत्ततः ॥
पृष्ठ ५/३४०
नित्यं सहस्रमाणेन जपेत् संबत्सरं यदि ।
ततः संजायते मन्त्री वाचस्पतिरिवापरः ॥
छन्दोऽलङ्कारतर्कादिनानाशास्त्रार्थविद्भवेत् ।
कवित्वं ज्ञानशक्त्या तु पाण्डित्यमधिकं भवेत् ॥ *
अथापरं प्रवक्ष्यामि योगं भुवि सुदुर्ल्लभम् ।
नाभिचक्रस्थितां सौम्यां रक्ताकारां विचि-
न्तयेत् ॥
क्षौमाबद्धनितम्बाञ्च रक्ताभरणभूषिताम् ।
पाशाङ्कुशधरां दिव्यां वराभययुतां पुनः ॥
दृष्ट्या चामृतवर्षिण्या पूरयन्तीं मनोरथान् ।
एवं ध्यात्वा जपेल्लक्षं मनुजो विहितं ततः ॥
होमं कुर्य्यात् त्रिमध्वक्तं रक्तोत्पलयुतैर्द्विजः ।
ततः सन्तर्पयेद्देवीं दुग्धयुक्तेन सर्पिषा ॥
पायसेन बलिं दद्यात् दधिपिष्टमधुप्लुतैः ।
एवं कृत्वा विधानन्तु साक्षाद्वै श्रवणो भवेत् ॥
सिद्धार्थैस्त्रिमधुरोपेतैर्हु त्वा जगद्वशं नयेत् ।
पद्मदानेन महतीं प्राप्नुयात् श्रियमूर्जिताम् ॥
देवीहृदयविद्याया नास्ति किञ्चित् सुदुर्ल्लभम्
स्नेहभावेन सम्प्र्रोक्तं न देयं यस्य कस्यचित् ॥
एतत्ते कथितं दिव्यं विद्योत्पत्तेश्च कारणम् ।
विष्णुना दत्तमस्मभ्यं मया तुभ्यं द्विजोत्तम ॥
सिद्धमन्त्री यदा मन्त्री वालिशस्यापि मूर्द्धनि ।
हस्तं दत्त्वा जपेत् सोऽपि सौधीं वाचमन-
र्गलाम् ॥”
इति स्वायम्भुवमातृकातन्त्रे सारस्वतः पटलः ।
इति तन्त्रसारः ॥

सारस्वतव्रतः, पुं, (सारस्वतः सरस्वतीदेवताकः

व्रतः ।) सरस्वत्या व्रतविशेषः । यथा, --
मनुरुवाच ।
“मधुरा भारती केन व्रतेन मधुसूदन ।
तथैव जनसौभाग्यमतिविद्यासुकौशलम् ॥
अभेदश्चापि दम्पत्योस्तथा बन्धुधनेन च ।
आयुश्च विपुलं पुंसां तन्मे कथय माधव ॥
मत्स्य उवाच ।
सम्यक् पृष्टं त्वया राजन् शृणु सारस्वतं व्रतम्
यस्य सङ्कोर्त्तनादेव तुष्यतीह सरस्वती ॥
यो यद्भक्तः पुमान् कुर्य्यादेतद्व्र तमनुत्तमम् ।
तद्वासरादौ संपूज्य विप्रानेतत् समारभेत् ॥
अथवादित्यवारेण ग्रहताराबलेन वा ।
पायसं भोजयेद्विद्वान् कृत्वा ब्राह्मणवाचनम् ॥
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः ।
गायत्तीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपणैः ॥
यथा न देवो भगवान् ब्रह्मा लोकपितामहः ।
त्वां परित्यज्य सन्तिष्ठे त्तथा भव वरप्रदा ॥
वेदाः शास्त्राणि सर्व्वाणि नृत्यगीतादिकञ्च यत्
न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥
लक्ष्मीर्म्मेधा धरा पुष्टिर्गौरीतुष्टिः प्रभामतिः ।
एताभिः पाहि तनुभिरष्टाभिर्म्मां सरस्वति ॥
एवं सम्पूज्य गायर्त्त्रां वीणाक्षमाल्यधारिणीम् ।
शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलुपुष्पकम् ॥
मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्म्मवित् ।
पञ्चम्यां प्रतिपक्षञ्च पूजयेत् शब्दवासिनाम् ॥
तथैव तण्डुलप्रथ्यं घृतपात्रेण संयुतम् ।
क्षीरं दद्याद्धिरण्यञ्च गायत्त्री प्रीयतामिति ॥
सन्ध्यायाञ्च तथा मौनमेतत् कुर्व्वन् समाचरेत् ।
नान्तराभोजनं कुर्य्यात् यावन्मासास्त्रयोदश ॥
समाप्ते तु व्रते दद्यात् भोजनं शुक्लतण्डुलैः ।
सुवर्णं वस्त्रयुग्मञ्च गाञ्च विप्राय शोभनाम ।
देव्या वितानं घण्टाञ्च सितनेत्रपटावृताम् ।
चन्दनं वस्त्रयुग्मञ्च दध्यन्ने शिखरं पुनः ।
तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम् ॥
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ।
अनेन विधिना यस्तु कुर्य्यात् सारस्वतं व्रतम् ।
विद्यावानर्थयुक्तश्च व्यक्तकण्टश्च जायते ॥
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते ।
नारी वा कुरुते या तु सापि तत्फलभागिनी
ब्रह्मलोके वसेद्राजन् यावत् कल्पायुतत्रयम् ।
सारस्वतं व्रतं यस्तु शृणुयादथवा पठेत् ।
विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम् ॥”
इति मत्स्यपुराणे । ६६ । १ -- २४ ॥

सारस्वताः, पुं, भूम्नि, (सारस्वते भवाः । अण् ।)

सारस्वतदेशजातमनुष्यः । यथा, हेमचन्द्रे ।
“काश्मीरास्तु माधुमताः सारस्वतास्तु विक-
र्णिकाः ॥”

सारस्वतोत्सवः, पुं, (सारस्वतः सरस्वतीसम्बन्धी

उत्सवः ।) सरस्वत्या उत्सवः । इति तिथ्यादि-
तत्त्वम् ॥ अस्य प्रमाणादिकं सरस्वतीशब्दे
द्रष्टव्यम् ॥

सारा, स्त्री, (सारयतीति । सृ + णिच् + अच् ।

टाप् ।) कृष्णत्रिवृता । इति शब्दरत्नावली ॥
दूर्व्वा । इति शब्दचन्द्रिका ॥ (सेहुण्डभेदः ॥
शालता अनेन नाम्ना प्रसिद्धा ॥ यथा, --
“सालता सप्तला सारा विमला विदुला च सा
तथा निगदिता भूरिफेना चर्म्मकषेत्यपि ॥”
इति भावप्रकाशस्य पूर्व्व खण्डे प्रथमे भागे ॥)

सारालः, पुं, (सारेण सरणेन अलति पर्य्याप्तो-

तीति । अल अच् ।) तिलः । इति शब्द-
चन्द्रिका ॥

सारिः, पुं, स्त्री, (सरतीति । सृ + इण् ।)

पाशकः । इति शब्दरत्नावली ॥

सारिका, स्त्री, (सरति गच्छतीति ॥ सृ + ण्वुल्

टाप् ।) पक्षिविशेषः । इत्यमरः । ३ । ५ । ८ ॥
शालिक इति भाषा ॥ (यथा, रामायणे ।
२ । ५३ । २२ ।
“मन्ये प्रीतिविशिष्टा सा मत्तो लक्षण !
सारिका ।
यत्तस्याः श्रूयते वाक्यं शुक पादमरेर्द्दश ॥”)
तत्पर्य्यायः । पीतपादा २ गोराटी ३ गो-
किराटीका ४ । इति हेमचन्द्रः ॥ शारिका ५
सारी ६ शारी ७ चित्रलोचना ८ । इति
शब्दरत्नावलौ ॥ मधुरालापा ९ पूती १० मेधा-
विनी ११ गोराण्टिका १२ गोकिराटी १३
गोरिका १४ कलहप्रिया १५ । इति राज-
निघण्टः ॥

सारिणी, स्त्री, (सरतीति । सृ + णिनि । ङीप् ।)

सहदेवी । कार्पासी । दुरालभा । कपिल-
शिंशपा । प्रसारिणी । रक्तपुनर्णवा । इति
राजनिर्घण्टः ॥

सारिवा, स्त्री, लताविशेषः । अनन्तमूल इति

ख्याता । गोरिया साउ इति हिन्दी भाषा ।
सा तु जम्बु वत्पत्रा दुग्धगर्भा व्रततिर्भवति ।
तत्पर्य्यायः । शारदा २ गोपी ३ गोपकन्या ४
गोपवल्ली ५ प्रतानिका ६ लता ७ आस्फोता ८
काष्ठसारिवा ९ । इति राजनिर्घण्टः ॥ गोपा
१० उत्पलसारिवा ११ अनन्ता १२ शारिवा
१३ श्यामा १४ । इति शब्दरत्नावली ॥ अस्या
गुणाः । मधुरत्वम् । स्निग्धत्वम् । वृष्यत्वम् ।
पित्तप्रणाशित्वञ्च । इति राजनिर्घण्टः ॥ * ॥
कृष्णसारिवा । सा तु इन्द्रजम्बु वत्पत्रा सुगन्धा
कलघण्टेति प्रसिद्धा । करिया साउ इति
हिन्दी भाषा । श्यामालता इति वङ्गभाषा ।
तत्पर्य्यायः । कृष्णमूली २ कृष्णा ३ चन्दन-
सारिवा ४ भद्रा ५ चन्द्रनगोपा ६ चन्दना ७
कृष्णवल्ली ८ । अस्या गुणाः । त्रिदोषशमन-
त्वम् । तिक्तत्वम् । कटुरसत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“सारिवाद्वौ तु मधुरौ हिमौ भूतनिकृन्तनौ ।
कुष्ठकण्डुज्वरहरौ देहदुर्गन्धिनाशनौ ॥”
इति राजनिर्घण्टः ॥
किञ्च ।
“सारिवायुगलं स्वादु स्निग्धं शुक्रकरं गुरु ।
अग्निमाद्यरुचिश्वासकासामविषनाशनम् ।
दोषत्रयाश्रप्रदरज्वरातिसारनाशनम् ॥”
इति भावप्रकाशः ॥

सारि, स्त्री, (सारि + वा ङीष् ।) सारिका-

पक्षिणी । पाशकः । इति शब्दरत्नावली ॥
सप्तला । इति राजनिर्घण्टः ॥ (सप्तलाशब्दे-
ऽस्या गुणादयो ज्ञातव्याः ॥)

सारोष्ट्रिकः, पुं, (सारोष्ट्वे देशे भवः । सारोष्ट्र +

ठञ् ।) विषभेदः । सारोष्ट्रो देशभेदस्तत्र भवः
सारोष्ट्रिक्रः ढघे कादिति ष्णिकः दन्त्यादिः ।
सुराष्ट्रशब्दात् सौराष्ट्रिकः । इति स्वामी ।
इत्यमरभरतौ । १ । ८ । १० ॥

सार्थः, पुं, (सरतीति । सृ + “सर्त्तेर्णिच्च ।” उणा०

२ । ५ । इति थन् । सच णित् ।) जन्तुसंघः ।
इत्यमरः । २ । ६ । ४१ ॥ बणिक्समूहः । (यथा,
रघुः । १७ । ६४ ।
“वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव ।
सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥”)
समूहमात्रम् । इति मेदिनी ॥ (यथा, बृहत्-
संहितायाम् । ८६ । ४९ ।
“पश्चिमे शर्व्वरीभागे नोप्तृकोलूकपिङ्गलाः ।
सर्व्व एव विपर्य्यस्ता ग्राह्याः सार्थेषु योषि-
ताम् ॥”)

सार्थः, त्रि, अर्थेन सह वर्त्तमानः । अर्थयुक्तः ।

इति हेमचन्द्रः ॥ यथा, वनपर्व्वणि ।
पृष्ठ ५/३४१
“सार्थः प्रसवतो मित्रं भार्य्या मित्रं गृहे सतः ।
आतुरस्य भिषङ्मित्र’ दानंमित्रं मरिष्यतः ॥”
इति शुद्धितत्त्वम् ॥

सार्थर्कः, त्रि, (सार्थ + कन् ।) अर्थेन सह वर्त्त-

मानः । यथा, --
“शब्दान्तरमपेक्ष्यैव सार्थकः सार्थबोधकृत् ।
प्रकृतिः प्रत्ययश्चैव निपातश्चेति स त्रिधा ॥”
इति शब्दशक्तिप्रकाशिका ॥
(सफलः । यथा, भागवते । १० । ४१ । ४५ ।
“प्राह नः सार्थकं जन्म पावितञ्च कुलं प्रभो ।
पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम् ॥”

सार्थवाहः, पुं, (सार्थं वहतीति । वह + अण् ।)

वर्णिक् । इत्यमरः । २ । ९ । ७८ ॥ (यथा,
कलाविलासे । १ । ११ ।
“भुक्तोत्तरं सहृदयरास्थानीसंस्थितं कदा-
चित्तम् ।
अभ्येत्य सार्थवाहो दत्तमहार्होपहारमणि-
कनकः ॥”)

सार्द्रं, त्रि, (आर्द्रेण सह वर्त्तमानम् ।) आर्द्रम् ।

इत्यमरः । ३ । १ । १०५ ॥ आर्द्रयुक्ते, त्रि ।
“अङ्गुष्ठमात्रं स्थौल्येन बाहुमात्रः प्रमाणतः ।
सार्द्रश्च सपलाशश्च दण्ड इत्यभिधीयते ॥”
इति प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् ॥

सार्द्धं, व्य, सहितम् । इत्यमरः । ३ । ४ । ४ ॥ (यथा,

महाभारते । ७ । २७ । २ ।
“सुशर्म्मा भ्रातृभिः सार्द्धं युद्धार्थी पृष्ठतोऽन्व-
यात् ॥”)

सार्द्धं, त्रि, अर्द्धेन सह वर्त्तमानम् । अर्द्धयुक्तम् ।

यथा, --
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां
नित्यम् ।
अहनि च तथा तमस्विन्यां सार्द्धप्रहरया-
मान्तः ॥”
इति तिथ्यादितत्त्वम् ॥
अपि च ।
“गतेऽब्दे द्वितये सार्द्धे पङ्कपक्षे दिनद्वये ।
दिवसस्याष्टमे भागे पतत्येकोऽधिमासकः ॥”
इति भलमासतत्त्वम् ॥

सार्पिषः, त्रि, (सर्पिषः अयं सर्पिषा संस्कृतो

वा । सर्पिष् + अण् ।) सर्पिःसम्बन्धी । सर्पिः-
संस्कृतवस्तु । सर्पिःशब्दात् ष्णप्रत्ययेन निष्पन्नः ॥

सार्पिष्कं, त्रि, (सर्पिष् + “तेन संस्कृतम् ॥” इति

ठक् ।) सर्पिषा संस्कृतम् । यथा, --
“सार्पिष्कं दाधिकं सपिर्दधिभ्यां संस्कृतं
क्रमात् ।”
इति हेमचन्द्रः ॥

सार्प्यः, पुं, (सर्पो देवता यस्य । ष्यञ् ।) अश्लेषा-

नक्षत्रम् । इति हेमचन्द्रः ॥ (यथा, रामायणे ।
१ । १८ । १५ ।
“पुष्पे जातस्तु भरतो मीनलग्ने प्रसन्नधीः ।
सार्प्ये जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ
सर्पस्यायमिति ।) सर्पसम्बन्धिनि, त्रि ॥

सार्व्वः, पुं, (सर्व्वस्मै हितः । सर्व्व + “सर्व्वसर्व्व-

पुरुषाभ्यां णढञौ ।” ५ । १ । १० । इति णः ।
बुद्धः । जिनः । इति हेमचन्द्रः ॥ सर्व्वसम्ब-
न्धिनि, त्रि ॥

सार्व्वजनिकः, त्रि, (सर्व्वजनाय हितः । “सर्व्व-

जनात् ठञ्खश्च ।” ५ । १ । ९ । इत्यस्य वार्त्ति-
कोक्त्या ठञ् ।) सकलजनहितः । सर्व्वजन-
शब्दात् ष्णिकप्रत्ययेन निष्पन्नः ॥

सार्व्वजनीनः, त्रि, (सर्व्वजनाय हितः । सर्व्वजन

+ खः ।) सार्व्वजनिकः । सर्व्वजनशब्दात्
णीनप्रत्ययेन निष्पन्नः ॥

सार्व्वभौमः, पुं, (सर्व्वभूमौ विदितः । “तत्र विदितः

इति च ।” ५ । १ । ४३ । इत्यण् ।) उत्तरदिग्-
गजः । इत्यमरः । १ । ३ । ४ ॥ सर्व्वभूमीश्वरः ।
तत्पर्य्यायः । चक्रवर्त्ती २ एकजन्मा ३ नृपा-
ग्रणीः ४ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ३ । ९३ । ९ ।
“भरतस्य च वीरस्य सार्व्वभौमस्य पार्थिव ! ।
ध्रुवं प्राप्स्यति दुष्प्रापान् लोकांस्तीर्थपरि-
प्लु तः ॥”)
विदूरथपुत्त्रः । यथा, --
“परिक्षिरनपत्योऽभूत् सुरथो नाम जाह्नवः ।
ततो विदूरथस्तस्मात् सार्व्वभौमस्ततोऽभवत् ॥”
इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥
(पुरुवंशीयाहंयातिनृपस्य पुत्त्रः । यथा, महा-
भारते । १ । ९५ । १५ -- १६ । “अहंयातिः
खलु कृतवीर्य्यदुहितरमुपयेमे भानुमतीं नाम ।
तस्यामस्य यज्ञे सार्व्वभौमः । सार्व्वभौमः खलु
जित्वा जहार कैकेयीं सुनन्दां नाम तामुप-
येमे ॥” * ॥) सकलभूमिसम्बन्धिनि, त्रि ॥

सार्व्वलौकिकः, त्रि, (सर्व्वलोके विदितः । “लोक-

सर्व्वलोकात् ठञ् ।” ५ । १ । ४४ । इति ठञ् ।)
सर्व्वजनविदितः । यथा, --
“भवन्तं कार्त्तवीर्य्यो यो हीनसन्धिमचीकरत् ।
जिगाय तस्य हन्तारं स रामः सार्व्वलौकिकः ॥”
इति भट्टिकाव्ये ५ सर्गः ॥
सार्व्वलौकिकः सर्व्वलोकविदितः । इति तट्टीका

सार्व्ववेद्यः, पुं, (सर्व्ववेदं वेत्तीति । सर्व्ववेद +

ष्यञ् ।) सकलवेदज्ञब्राह्मणः । सर्व्ववेदशब्दात्
ष्ण्यप्रत्ययेन निष्पन्नः ॥

सार्षपः, त्रि, (सर्षपस्यायमिति । सर्षप + अण् ।)

सर्षपसम्बन्धीयशाकतैलादिः । यथा, --
“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् ।
अदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः ॥”
इति तिथ्यादितत्त्वम् ॥

सालः, पुं, (शल्यते इति । शल गतौ + घञ् ।)

शालमत्स्यः । इत्यमरटीकायां भरतः ॥ वृक्ष-
मात्रम् । प्राकारः । इति मेदिनी ॥ रालः ।
इति राजनिर्घण्टः ॥ (सारोऽस्त्यत्रेति । अच् ।
रस्य लः ।) स्वनामख्यातवृक्षः । इत्यमरः । २ । २ ।
३ ॥ सखुया इति हिन्दी भाषा । तत्पर्य्यायः ।
सर्ज्जः २ सर्ज्जरसः ३ कलः ४ कललजोद्भवः ५
वल्लीवृक्षः ६ चौरपर्णः ७ रालकार्य्यः ८ पुस्तका-
न्तरे रालः कर्य्यश्चेति शब्दद्वयम् । अजकर्णकः
९ वस्तकर्णः १० कषायी ११ ललनः १२ गन्ध-
वृक्षकः १३ वंशः १४ रालनिर्यासः १५ दिव्य-
सारः १६ सुरेष्टकः १७ शूरः १८ अग्निवल्लभः
१९ यक्षधूपः २० सिद्धिकः २१ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । हिमत्वम् ।
स्निग्धत्वम् । अतिसारपित्तास्रदोषकुष्ठकण्डूवि-
स्फोटवातनाशित्वञ्च । इति राजनिर्घण्टः ॥
अपि च ।
“सालस्तु सर्ज्जकार्य्याश्वकर्णकाः शस्यसम्बरः ।
अश्वकर्णः कषायः स्याद्व्रणस्वेदकफक्रिमीन् ॥
व्रध्नविद्रधिवाधिर्य्ययोनिकर्णगदान् हरेत् ॥”
अथ सालप्रभेदाः ।
“सर्ज्जकोऽन्योऽजकर्णः स्याच्छालो मरिचपत्रकः
अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति ।
कफपाण्डश्रतिगदान् मेहकुष्ठविषव्रणान् ॥”
इति भावप्रकाशः ॥

सालङ्गः, पुं, रागस्य प्रकारविशेषः । यो रागो

रागान्तरामिश्रितः सन् रागान्तराभासयुक्तः ।
इति सङ्गीतशास्त्रम् ॥

सालनः, पुं, (सालः कारणत्वेनास्त्यस्येति । पमादि-

त्वात् नः ।) सर्ज्जरसः । इति रत्नमाला ॥

सालनिर्यासः, पुं, (सालस्य निर्य्यासः ।) सर्ज्जरसः ।

इति रत्नमाला ॥

सालपर्णी, स्त्री, (सालस्य पर्णमिव पर्णमस्याः ।

ङीष् ।) शालपर्णी । इत्यमरः । २ । ४ । ११५ ॥
शालपानि इति भाषा । यथा, --
“शालपर्णी सालपर्णी स्थिरा चांशुमती ध्रुवा ॥”
इति शब्दरत्नावली ॥
“अभावे पृश्निपर्ण्याश्च शालपर्णीं नियोजयेत् ।”
इति वैद्यशास्त्रम् ॥

सालपुष्पं, क्ली, सालस्येव पुष्पमस्य ।) स्थलपद्मम् ।

इति शब्दरत्नावली ॥

सालभञ्जिका, स्त्री, (सारं भनक्तीति । भन्ज +

ण्वुल् । टापि अत इत्वम् । रस्य लः ।) पुत्त-
लिका । यथा, --
“पाञ्चालिका तु पाञ्चाली पुत्त्रिका सालभञ्जिका ।”
इति जटाधरः ।
वेश्या । यथा, --
“वेश्या तु गणिका क्षुद्रा वारस्त्री सालभञ्जिका”
इति च जटाधरः ॥

सालरसः, पुं, (सालस्य रसः ।) रालः । इति

राजनिर्घण्टः ॥

सालवाहनः, पुं, (सालः तन्नामा यक्षो वाहन

यस्य ।) शालिवाहनराजः । इति केचित् ॥
(अस्य विवरणं सातवाहनशब्दे द्रष्टव्यम् ॥)

सालवेष्टः, पुं, (सालस्य वेष्टः निर्य्यासः ।) धूनकः ।

इति भूरिप्रयोगः ॥

सालशृङ्गं, क्ली, (सालस्य शृङ्गमिव ।) प्राची-

राग्रम् । इति केचित् ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/सागरः&oldid=44104" इत्यस्माद् प्रतिप्राप्तम्