शब्दकल्पद्रुमः/शव

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ५/०३६

शव, विकारे । गतौ । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) शवति चित्तं कामः ।
इति दुर्गादासः ॥

शवं, क्ली, (शवति गच्छतीति । शव + अच् ।)

जलम् । इति मेदिनी ॥

शवः, पुं, क्ली, (शवति दर्शनेन चित्तं विकरो-

तीति । शव विकारे + अच् ।) मृतशरीरम् ।
तत्पर्य्यायः । कुणपः २ । इत्यमरः ॥ क्षिति-
वर्द्धनः ३ । इति शब्दरत्नावली ॥ मृतकम् ४ ।
इति वराहपुराणम् ॥ * ॥ तद्दाहविधिर्यथा, --
“नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् ।
महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥
घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ।
तेजो व्यपकरं चास्य तत् सर्व्वं परिकल्प्य च ॥
दक्षिणायां शिरः कृत्वा सलिले तं निधाय च ।
तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलो-
च्चयाः ।
कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्वरा ॥
कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनो ।
गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥
वनानि नव वाराहं तीर्थं पिण्डारकं तथा ।
पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ॥
सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् ।
प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः ॥
तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा ।
देवानग्निमुखान् ध्यात्वा गृह्यहस्ते हुताशनम् ॥
प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदीरयेत् ।
कृत्वा सुदुष्करं कर्म्म जानता वाप्यजानता ॥
मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः ।
धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः ॥
दह एतस्य गात्राणि देवलोकाय गच्छतु ।
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् ॥
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ।
चातुर्व्वर्णेषु संस्कारमेवं भवति पुत्त्रक ।
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥
मृतनाम ततोद्दिश्य दद्यात् पिण्डं महीतले ।
तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥”
इति वाराहे श्राद्धोत्पत्तिनामाध्यायः ॥
अन्यत् दाहशब्दे द्रष्टव्यम् ॥ * ॥ तस्य स्पर्शे
दोषो यथा, --
वाराह उवाच ।
“स्पृष्ट्वा तु मृतकं भद्रे नरं पञ्चत्वमागतम् ।
मम शास्त्रं बहिः कृत्वा यः श्मशानं प्रपद्यते ॥
पितरस्तस्य सुश्रोणि आत्मानञ्च पितामहाः ।
श्मशाने जम्बुका भूत्वा भक्षयन्तः शवांस्तथा ॥
ततो हरेर्व्वचः श्रुत्वा कर्म्मकामा वसुन्धरा ।
उवाच मधुरं वाक्यं सर्व्वलोकहिताय वै ॥
धरण्युवाच ।
तव नाथ प्रपन्नानां क्व पापं विद्यते प्रभो ।
प्रायश्चित्तञ्च मे ब्रूहि येन मुच्यति किल्वि-
षात् ॥
वाराह उवाच ।
शृणु सुन्दरि ! तत्त्वेन यन्मां त्वं परिपृच्छसि ।
कथयिष्यामि ते हीदं शोभनं पापनाशनम् ॥
एकाहारं दिनान् सप्त त्रिदिनं चाप्युपोषितः ।
पञ्चगव्यं ततः पीत्वा शीघ्रं मुच्यति किल्वि-
षात् ॥
शवे स्पृष्टेऽपराधस्य एष ते कथितो विधिः ।
सर्व्वथा वर्जनीयो वै सर्व्वभागवतेन तु ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।
विमुक्तः सर्व्वपापेभ्यः अपराधो न विद्यते ॥”
अपि च ।
वराह उवाच ।
“स्पृष्ट्वा तु मृतकं देवि ! यो मत्क्षेत्रेषु तिष्ठति ।
शतं वर्षसहस्राणि गर्भेषु परिवर्त्तते ॥
दश वर्षसहस्राणि चण्डालश्चैव जायते ।
अन्धः सप्तसहस्राणि मण्डूकश्च शतं समाः ॥
मक्षिका त्रीणि वर्षाणि टिट्टिभैकादशं समाः ।
दश वै सप्त चान्यानि कृकलासो भवेत् समाः ॥
हस्ती वर्षशतञ्चैव खरो द्वात्रिंशको भवेत् ।
मार्ज्जारो नव वर्षाणि वानरो दश पञ्च च ॥
एवं स चात्मदोषेण मम कर्म्मपरायणः ।
प्राप्नोति सुमहद्दुःखं देवि ! एवं न संशयः ॥
ततो हरेर्व्वचः श्रुत्वा दुःखेन परिपृच्छति ।
सर्व्वसंसारमोक्षाय प्रत्युवाच वसुन्धरा ॥
किमिदं भाषसे देव मानुषाणां दुरासदम् ।
वाक्यं भीषणकञ्चैव मम कर्म्मप्रतोदकम् ॥
आचाराच्च परिभ्रष्टस्तव कर्म्मपरायणः ।
तरन्ति येन दुर्गाणि प्रायश्चित्तं तथा वद ॥
श्रुत्वा पृथ्व्यास्ततो वाक्यं लोकनाथो जनार्द्दनः ।
धर्म्मसंरक्षणार्थाय प्रत्युवाच वसुन्धराम् ॥
वराह उवाच ।
स्पृष्ट्वा तु मृतकं भूमे मम कर्म्मपरायणः ।
एकाहारं ततस्तिष्ठेत् दिनानि दश पञ्च च ॥
तत एवं विधिं कृत्वा पञ्चगव्यं तु प्राशयेत् ।
शुद्धभावं विशुद्धात्मा कर्म्मणा च न लिप्यते ॥
एतत्ते कथितं देवि स्पृष्ट्वा मृतकमेव च ।
दोषञ्चैव विबुध्याथ यत्त्वया पूर्व्वपृच्छतम् ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।
अपराधविनिर्मुक्तो मम लोकं स गच्छति ॥”
इति वाराहे मृतदर्शनस्पर्शनप्रायश्चित्तनामा-
ध्यायः ॥ * ॥ शवानुगमनाशौचं यथा । कूर्म्म-
पुराणम् ।
“प्रेतीभूतं द्विजं विप्रो योऽनुगच्छति कामतः ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥
एकाहात् क्षत्त्रिये शुद्धिर्वैश्ये च स्यात् द्ब्यहेन
तु ।
शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥”
एतच्च घृतप्राशनं शुद्धिहेतुत्वान्नियमपरम् ।
न तु प्रायश्चित्तवद्भोजनाभावपरम् । तत्र तप-
स्त्वात्तथा । अनुः सहार्थः । यत्तु याज्ञवल्क-
वचनम् ।
“ब्राह्मणेनानुगन्तव्यो न तु शूद्रः कथञ्चन ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक्
शुचिः ॥”
तत्प्रमादादनुगमने कथञ्चनेत्यभिधानात् ।
अम्भसि न तूद्धृतोदके ॥ * ॥ शूद्रस्य ब्राह्मण-
शववहने दोषो यथा, --
“मृतब्राह्मणदेहांश्च दैवात् शूद्रा वहन्ति चेत् ।
पदप्रमाणवर्षञ्च तेषाञ्च नरके स्थितिः ॥
ततस्तेषाञ्च साहाय्यं करोति हरिरूपिणी ।
ददाति मुक्तिं तेभ्योऽपि क्रमेण च कृपामयी ॥
जन्म पुण्यवतां गेहे कारयित्वा च भारते ।
स्थानं ददाति वैकुण्ठे निश्चितं जन्मभिस्त्रिभिः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४४ अध्यायः
शवदषितगृहजलाशयादीनां शुद्धिर्यथा, --
ब्रह्मपुराणम् ।
“येषामभक्ष्यं मांसञ्च तच्छरीरैर्युतञ्च यत् ।
वापीकूपतडागेषु जलं सर्व्वञ्च दुष्यति ॥”
तच्छरीरैर्मृतशरीरैः । उत्तरवचने कुणपग्रह-
णात् । यथा, --
“सकुणपं सकर्द्दमं तेभ्यस्तोयमपास्य तत् ।
प्रक्षिपेत् पञ्चगव्यञ्च समन्त्रं सर्व्वशुद्धिकृत् ॥
अपास्य कुणपं तेभ्यो बहुतोयेभ्य एव वा ।
शतं षष्ट्यथवा त्रिंशत् तोयकुम्भान् समुद्धरेत् ॥”
वापी ससोपाना । निःसोपानः कूपः । तडागः
पद्माकरः । शतादिजलाल्पत्वाद्यपेक्षया अत्य-
ल्पस्य सर्व्वोद्धारणाभिधानात् । एवं मरण-
समये गृहान्निःसार्य्यते अन्यथा गृहस्य दुष्टता
स्यात् ॥ यथा, बृहन्मनुः ।
“श्वशूद्रपतिताश्चान्त्या मृताश्चेद्द्विजमन्दिरे ।
शौचं तत्र प्रवक्ष्यामि मनुना भाषितं यथा ॥
दशरात्राच्छुनि प्रेते मासाच्छूद्रे भवेच्छुचिः ।
द्वाभ्यान्तु पतिते गेहे अन्त्ये मासचतुष्टयात् ।
अत्यन्त्ये वर्ज्जयेद्गेहमित्येवं मनुरब्रवीत् ॥”
द्बाभ्यां मासाभ्यां माससन्दंशपाठात् । अन्त्यो
म्लेच्छः । अत्यन्त्यः श्वपाकः । इति वाचस्पति-
मिश्राः ॥ यमः ।
“द्बिजस्य मरणे वेश्म विशुध्यति दिनत्रयात् ।
दिनैकेन बहिर्भूमिरग्निप्रोक्षणलेपनैः ॥” * ॥
यथोक्तकालानन्तरकर्त्तव्यमाह सम्बर्त्तः ।
“गृहशुद्धिं प्रवक्ष्यामि अन्तस्थशवदूषिते ॥
प्रोत्सृज्य मृण्मयं पात्रं सिद्धमन्नं तथैव च ।
गृहादपास्य तत् सर्व्वं गोमयेनोपलेपयेत् ।
गोमयेनोपलिप्पाथ छागेनाघ्रापयेद्बुधः ॥
ब्राह्मणैर्मन्त्रपूतैश्च हिरण्यकुशवारिभिः ।
सर्व्वमभ्युक्षयेद्बेश्म ततः शुध्यत्यसंशयः ॥”
अत्र मन्त्रानादेशे गायत्त्री । देवलः ।
“पञ्चधा वा चतुर्धा वा भूरमेध्या विशुध्यति ।
दुष्टा द्विधा त्रिधा वापि शुध्यते मलिनैकधा ॥
दहनं खननं भूमेरुपलेपनवापने ।
पर्य्यण्यवर्षणञ्चापि शौचं पञ्चविधं स्मृतम् ॥
प्रसूते गर्भिणी यत्र म्रियते यत्र मानुषः ।
चाण्डालैरूषितं यत्र यत्र विन्यस्यते शवः ॥
विण्मूत्रोपहतं यच्च कुणपो यत्र दृश्यते ।
पृष्ठ ५/०३७
एवं कश्मलभूयिष्ठा भूरमेध्याति कथ्यते ॥
कृमिकीटपदक्षेपैर्दूषिता यत्र मेदिनी ।
एप्सया कर्षणैः क्षिप्ता वान्तैर्व्वा दुष्टतां व्रजेत् ॥
नखदन्ततनूजत्वक्तुषपांशुरजोमलैः ।
भस्मपङ्कतृणैर्व्वापि प्रच्छन्ना मलिना भवेत् ॥”
वापनं मृदन्तरेण पूरणम् । ऊषितं वासः ।
एप्सा घनीभूतश्लेष्मादि । चतुर्द्धादौ पञ्चानां मध्ये
यथासम्भवं ग्रहणम् । अङ्गिराः ।
“शौचं सहस्ररोमाणां वाय्वग्न्यर्केन्दुरश्मिभिः ।
रेतस्पृष्टं शवस्पृष्टमाविकं नैव दुष्यति ॥”
सहस्ररोमाणां कम्बलानाम् । इति शुद्धि-
तत्त्वम् ।

शवकाम्यः, पुं, (शवः काम्यो यस्य ।) कुक्कुरः ।

इति शब्दरत्नावली ॥

शवयानं, क्ली, (शवस्य यानम् ।) शववहनार्थ-

खट्टा । मडार खाट इति भाषा । तत्पर्य्यायः ।
काष्ठमल्लः २ । इति हारावली ॥ खोटः ३
खाटी ४ खाटिका ५ शवरथः ६ । इति शब्द-
रत्नावली ॥

शवरः, पुं, (शव + बाहुलकादरः । यद्वा, शवं

राति गृह्णातीति । रा + कः ।) म्लेच्छजाति-
विशेषः । इत्यमरः ॥ मयूरपुच्छपरिधानो म्लेच्छः
किरातः । पत्रपरिधानः शवरः । इति तट्टी-
कायां भरतः ॥ पानीयम् । शिवः । इति
मेदिनी ॥ शास्त्रविशेषः । हस्तः । इत्युणादि-
कोषः ॥

शवरथः, पुं, (शवस्य रथः ।) शवयानम् । इति

शब्दरत्नावली ॥

शवरलोध्रः, पुं, श्वेतलोध्रः । इति रत्नमाला ॥

शवरालयः, पुं, (शवरस्यालयः ।) शवरगृहम् ।

तत्पर्य्यायः । पक्वणः २ । इत्यमरः ॥ पक्कणः ३ ।
इति शब्दरत्नावली ॥ शवरावासः ४ । इति
हेमचन्द्रः ॥

शवरावासः, पुं, (शवरस्यावासः ।) शवरालयः ।

इति हेमचन्द्रः ॥

श(ब)वलः, पुं, (शप आक्रोशे + “शपेर्ब्बश्च ।”

उणा० १ । १०७ । इति कलः बश्चान्तादेशः ।)
कर्व्वुरवर्णः । तद्वति, त्रि । इत्यमरः ॥ (यथा,
भागवते । ३ । २३ । २४ ।
“अङ्गञ्च मलपङ्केन संछन्नं शवलस्तनम् ॥”)

शवला, स्त्री, (शवल + स्त्रियां टाप् ।) शवलवर्णा

गौः । इत्यमरभरतौ ॥

शवली, स्त्री, (शवलयोगादन्यतो ङीष् ।) शवल-

वर्णा गौः । इत्यमरभरतौ ॥

शवसानः, पुं, पथिकः । इति सिद्धान्तकौमुदी ॥

वैदिकपदोऽयम् । शवधातोरौणादिकसानच्-
प्रत्ययेन निष्पन्नमेतत् ॥

शश, प्लवने । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) शशी शशिशुशीः शशन्निति
किरातयमकात् । शशति भेकः प्लवेन गच्छ
तीत्यर्थः । तृ फल भज इत्यत्र वर्ज्जनमस्यैव ।
दन्त्यान्तोऽयमपीत्येके । इति दुर्गादासः ॥

शशः, पुं, (शशति प्लवेन गच्छतीति । शश +

अच् ।) मृगविशेषः । इत्यमरः ॥ शशारु इति
खरगोश इति च भाषा ॥ (यथा, मनौ । २ । २७० ।
“शशकूर्म्मयोस्तु मांसेन मासानेकादशैव तु ॥”)
अस्य मांसगुणाः । स्वादुत्वम् । कषायत्वम् ।
मलबद्धकारित्वम् । शीतत्वम् । लघुत्वम् ।
शोथातीसारपित्तरक्तनाशत्वम् । रूक्षत्वञ्च ।
इति राजवल्लभः । अपि च ।
“शशमांसं त्रिदोषघ्नं दीपनं श्वासकासनुत् ॥”
इति राजनिर्घण्टः ॥
अन्यच्च ।
“शशः शूली लोमकर्णो विलेशयः प्रकीर्त्तितः ।
शशः शीतो लधुर्ग्राही रूक्षः स्वादुः सदा
हितः ॥
वह्निकृत् कफपित्तघ्नो वातसाधारणः स्मृतः ।
ज्वरातीसारशोषास्रश्वासामयहरश्च सः ॥”
इति भावप्रकाशः ॥
श्राद्धेऽस्य मांसस्य दानफलं यथा, --
“हविष्यान्नेन वै मासं पायसेन च वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनिच्छागपार्षतैः ॥
ऐणरौरववाराहशाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥”
इति श्राद्धतत्त्वम् ॥
विष्णवे एतन्मांसस्य देयत्वं यथा, --
“मार्गं मांसं तथा च्छागं शाशं समनुयुज्यते ।
एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥”
इत्येकादशीतत्त्वम् ॥
चन्द्रलाञ्छनः । इति धरणिः ॥ वोलः । लोध्रः ।
मनुष्यविशेषः । इति मेदिनी ॥ स तु चतुर्व्विध-
पुरुषान्तर्गतपुरुषविशेषः । तस्य लक्षणं यथा, --
“मृदुवचनसुशीलः कोमलाङ्गः सुकेशः
सकलगुणनिधानः सत्यवादी शशोऽयम् ॥”
इति रतिमञ्जरी ॥

शशकः, पुं, (शश + स्वार्थे कन् ।) शशः । यथा,

“शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः ।
भक्ष्याः पञ्चनखेष्वेते न भक्ष्याश्चान्यजातयः ॥”
इति स्मृतिः ॥

शशधरः, पुं, (शशस्य धरः ।) चन्द्रः । (यथा,

साहित्यदर्पणे । १० ।
“इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः ॥”)
कर्पूरः । इत्यमरः ॥

शशप्लुतकं, क्ली, नखाघातः । इति शब्दमाला ॥

शशबिन्दुः, पुं, विष्णुः । राजविशेषः । इति मेदिनी ॥

(यथा, महाभारते । १ । १ । २२५ ।
“रामं दाशरथिञ्चैव शशबिन्दुं भगीरथम् ॥”)
स तु चित्ररथपुत्त्रः । इति पुराणम् ॥

शशभृत्, पुं, (शशं बिभर्त्तीति । भृ + क्विप् ।)

चन्द्रः । इति हेमचन्द्रः ॥ (यथा, कथासरित्-
सागरे । ७३ । २५९ ।
“गृहीतो राजशशभृत् वैद्यासाध्येन यक्ष्मणा ॥”)

शशभृद्भृत्, पुं, (शशभृतं चन्द्रं बिभर्त्तीति । भृ +

क्विप् ।) शिवः । यथा, --
“आत्मानं योगनिद्राञ्च चिन्तयित्वा मन-
स्विनी ।
दक्षिणे स्वशरीरस्य भागार्द्धं शशभृद्भृतः ॥”
इति कालिकापुराणे ४४ अध्यायः ॥

शशलोम, [न्] क्ली, (शशस्य लोम ।) शशकस्य

रोम । तत्पर्य्यायः । शशोर्णम् २ । इत्यमरः ॥
(पुं, तन्नामकराजः । यथा, महाभारते ।
१५ । २० । १४ ।
“शशलोमा स राजासीत् राजन् परम-
धार्म्मिकः ॥”)

शशशिम्बिका, स्त्री, जीवन्ती । इति राजनिर्घण्टः ॥

शशस्थली, स्त्री, अन्तर्व्वेदी । इति त्रिकाण्डशेषः ॥

सा च गङ्गायमुनयोर्मध्यदेशः । अधुना दोयाव
इति नाम्ना ख्यातः ॥

शशाङ्कः, पुं, (शशोऽङ्क श्चिह्नं अङ्के क्रोडे वा यस्य ।)

चन्द्रः । इति हलायुधः ॥ (यथा, कथासरित्-
सागरे । १८ । ३९५ ॥
“स जनैर्द्ददृशे तत्र शिखरे ज्वलितौषधौ ।
शशाङ्कैव पूर्व्वाद्रेरुदयस्थो विदूषकः ॥”)
कर्पूरः । इति राजनिर्घण्टः ॥

शशाण्डुलिः, स्त्री, कर्कटीभेदः । तत्पर्य्यायः । बहु-

फला २ तण्डुली ३ क्षेत्रसम्भवा ४ क्षुद्राम्ला ५
लोमशफला ६ धूम्रा ७ वृत्तफला ८ । अस्या
गुणाः ।
“शशाण्डुलि स्तिक्तकटुश्च कोमला
कट्वम्लयुक्ता मधुरा कफापहा ।
पाके तु साम्ला मधुरा विदाहकृत्
कफे तु शुष्का रुचिकृच्च दीपनी ॥”
इति राजनिर्घण्टः ॥

शशादः, पुं, (शशमत्तीति । अद + अच् ।) श्येन-

पक्षी । इति राजनिर्घण्टः ॥ (इक्षाकुपुत्त्रः ।
यथा, महाभारते । ३ । २२१ । १ ।
“इक्षाकौ संस्थिते राजन् शशादः पृथिवी-
मिमाम् ।
प्राप्तः परमधर्म्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥”
अस्य विकुक्षिरिति नाम आसीत् । अयं हि
पित्रनुज्ञातः श्राद्दार्थं मांसमानेतुं वनं गतः
मृगान् व्यापादयामास । ततोऽतिश्रान्तः क्षुत्-
परीत एकं शशमभक्षत् अतोऽस्य शशाद इति
नाम अजायत । एतद्बिवरणं भागवते । ९ । ६
अध्याये तथा विष्णुपुराणे ४ । २ अध्याये च
द्रष्टव्यम् ॥)

शशादनः, पुं, (शशमत्तीति । अद + ल्युः ।)

श्येनपक्षी । इत्यमरः ॥

शशिकला, स्त्री, पञ्चदशाक्षरपादच्छन्दोविशेषः ।

यथा, --
“गुरुनिधनमनु लघुरिह शशिकला ।
मलयजतिलकसमुदितशशिकला
व्रजयुवतिलसदलिकगगनगता ।
सरसिजनयनहृदयसलिलनिधिं
व्यतनुत विततरभसपरितरलम् ॥”
इति छन्दोमञ्जरी ॥
पृष्ठ ५/०३८
(शशिनः कला । चन्द्रकला । यथा, --
“कमलिनी मलिनी दिवसात्यये
शशिकला विकला क्षणदाक्षये ।
इति विधिर्व्विदधे प्रमदामुखम्
भवति विज्ञतमः क्रमशो जनः ॥”
इत्युद्भटः ॥)

शशिकान्तं, क्ली, (शशी कान्तो यस्य ।) कुमुदम् ।

इति राजनिर्घण्टः ॥

शशिकान्तः, पुं, (शशी कान्तो यस्य ।) चन्द्रकान्त-

मणिः । इति राजनिर्घण्टः ॥ यथा, बृहत्-
सहितायाम् । ८० । ४ ।
“वैदूर्य्यविपुलकविमलक-
राजमणिस्फटिकशशिकान्ताः ॥”)

शशिध्वजः, पुं, (शशी ध्वजे यस्य ।) भल्लाटपुर-

राजः । यथा, --
“ततः शशिध्वजो राजा युद्धादाहूय पुत्त्रकान् ।
सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् स कल्कये ॥
विशाखयूपभूपाश्च रुचिराश्वश्च संयुगम् ।
शय्याकर्णनृपेणापि भल्लाटं पुरमाययुः ॥”
इति कल्किपुराणे २५ अध्यायः ॥

शशिप्रभं, क्ली, (शशिनः प्रभेव प्रभा यस्य ।)

कुमुदम् । इति शब्दमाला ॥ मुक्ता । इति
राजनिर्घण्टः ॥ चन्द्रप्रभायुक्ते, त्रि ॥ (चन्द्रप्रभा-
सदृशे च, त्रि । यथा महामारते । १ । ९६ । ४ ।
“तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥”)

शशिप्रभा, स्त्री, (शशिनः प्रभा ।) ज्योत्स्ना ।

इति जटाधरः ॥

शशिभूषणः, पुं, (शशी भूषणं यस्य ।) शिवः ।

इति शशिशेखरशब्ददर्शनात् ॥

शशिलेखा, स्त्री, चन्द्रकला । गुडूची । बृत्तभेदः ।

इति मेदिनी ॥ तद्वृत्तस्य लक्षणादि यथा, --
“म्रौ मो यौ चेत् भवेतां सप्ताष्टकैश्चन्द्रलेखा ।
विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी
म्लानच्छायं दुकूलं न भ्राजते बिभ्रती सा ।
राधाम्भोदस्य मध्ये लीला यथा चन्द्रलेखा
किञ्चार्त्ता त्वां स्मरन्ती धत्ते ध्रुवं जीवयोगम् ॥”
इति छन्दोमञ्जरी ॥

शशिवाटिका, स्त्री, पुनर्नवा । इति राज-

निर्घण्टः ॥

शशिशेखरः, पुं, (शशी शेखरे यस्य ।) शिवः ।

इति हलायुधः ॥ (यथा, कथासरित्सागरे ।
१ । २२ ।
“तस्याः स्तुतिवचो हृष्टस्तामङ्कमधिरोप्य सः ।
किन्ते प्रियं कारोमीति बभाषे शशिशेखरः ॥”)
बुद्धभेदः । तत्पर्य्यायः । हेरम्बः २ हेरुकः ३
चक्रसम्बरः ४ देवः ५ वज्रकपाली ६ निशुम्भी ७
वज्रटीकः ८ । इति त्रिकाण्डशेषः ॥

शशी, [न्] पुं, (शशोऽस्यास्तीति । शश + इनिः ।)

चन्द्रः । यथा, --
‘हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः ॥’
भरतधृतशब्दार्णवः ॥
(यथा च हितोपदेशे ।
“शशिनस्तुल्यवंशोऽपि निर्द्धनः परिभूयते ॥”)
अर्हद्ध्वजाविशेषः । इति हेमचन्द्रः ॥

शशोर्णं, क्ली, (शशस्य उर्णा । अभिधानात् क्ली-

वत्वम् ।) शशस्य लोम । इत्यमरः ॥

शश्वत्, व्य, (शश + बाहुलकाद्बत् ।) पुनःपुनः ।

इत्यमरः ॥ (यथा, गीतायाम् । ६ । ३१ ।
“क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं निय-
छति ॥”)

शष, वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) शषति । इति दुर्गादासः ॥

शष्कुलः, पुं, छित्तिः । इति शब्दचन्द्रिका ॥ डर-

करम्चा इति भाषा ॥

शष्कुली, स्त्री, (शष्कुल + गौरादित्वात् ङीष् ।)

तिलतण्डुलमाषमिश्रितयवागुः । इति शब्द-
चन्द्रिका ॥ कर्णरन्ध्रम् । इति शब्दरत्नावली ॥
मत्स्यभेदः । सौरी । इति हिन्दी भाषा । अस्या
गुणाः ।
“शष्कुली ग्राहिणी हृद्या मधुरा तुवरा
स्मृता ।”
इति भावप्रकाशः ॥
(पिष्टकविशेषः । यथा, महाभारते । १२ ।
२२८ । ६२ ।
“पायसं कृसरं मांसमपूपानथ शष्कुलीः ॥”)

शष्पं, क्ली, (शष हिंसायाम् + “खष्पशिल्पशष्प-

वाष्परूपपर्पतल्पाः ।” उणा० ३ । २९ । इति
षत्वं निपात्यते ।) बालतृणम् । इत्यमरः ॥
(यथा, रघुवंशे । २ । २६ ।
“गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरोर्गह्वरमाविवेश ॥”)

शस, उ वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् । क्त्वावेट् ।) उ, शसित्वा शस्त्वा ।
इति दुर्गादासः ॥

शस, इ ङ आशिषि । आङ्पूर्व्वकोऽयम् । इति

कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-सेट् ।)
इ, आशंस्यते । ङ, आशंसते । आशीरिष्टार्थ-
शंसनम् । इच्छायामित्यन्ये । इति दुर्गादासः ॥

शसनं, क्ली, (शस + ल्युट् ।) यज्ञार्थपशुहननम् ।

इति शसनशब्दटीकायां रामाश्रमः ॥ (शस्यते
हन्यतेऽत्र इत्यधिकरणे ल्युटि हत्यास्थानम् ।
यथा, ऋग्वेदे । १० । ८९ । १४ ।
“मित्रक्रुवो यच्छसनेन गावः ।”
“शसने विशसनस्थाने ।” इति तद्भाष्ये सायणः ॥)

शस्कुली, स्त्री, पिष्टकविशेषः । पुली पिटा इति

भाषा । (यथा, महाभारते । ७ । ६२ । ७ ।
“मोदकान् पूरिकापूपान् धानाधमक-
शस्कुलीः ॥”)
अस्या गुणाः ।
“पर्पटा लघवो रूक्षाः शस्कुल्यः कफपित्तलाः ॥”
काञ्जिकयुक्ततिलशस्कुली त्याज्या यथा, --
“मांसैरिक्षुविकारांश्च काञ्जिकैस्तिलशस्कुलीम् ।
मूलकं माषसूपेन मधुना च न भक्षयेत् ॥”
इति राजवल्लभः ॥ * ॥
वृथा तद्भक्षणप्रायश्चित्तं यथा । वृथा
पायसपूपशस्कुलीकृशरसंयावशिग्रुलोहितवृक्ष-
निर्य्यासामेध्यप्रभवाणां भक्षणे कामतस्त्र्यहोप-
वासः । अकामतस्तदर्द्धम् । क्षत्त्रियादीनां पाद-
पादहानिः । इति प्रायश्चित्तविवेकः ॥

शस्त, इ र लु स्वप्ने । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक-सेट् ।) इ, शंस्त्यते । नमध्य-
पाठेऽपि नस्य उपधात्वाभावात् लोपाभावे
इदनुबन्धो वेदेषूच्चारणभेदार्थः । लु, शंस्ति । र,
वैदिकः । इति दुर्गादासः ॥

शस्तं, क्ली, (शस् + क्तः ।) कल्याणम् । इत्यमरः ॥

(यथा, महाभारते । १३ । १० । ४२ ।
“लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ॥”)
शरीरम् । इति त्रिकाण्डशेषः ॥

शस्तः, त्रि, कल्याणयुक्तः । स्तुतः । इत्यमरः ॥

प्रशस्तः । इति मेदिनी ॥ (यथा, भागवते ।
३ । २९ । १५ ।
“क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥”
निहतः । यथा, महाभारते । ३ । ४० । ३ ।
“शक्राभिषेके सुमहद्धनुर्ज्जलदनिस्वनम् ।
प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥”)

शस्तकं, क्ली, अङ्गुलित्राणम् । यथा, --

“अङ्गुलित्रं शस्तकञ्च तथा चाङ्गुष्ठरक्षकम् ॥”
इति शब्दरत्नावली ॥

शस्तकेशकः, त्रि, (शस्ताः केशा यस्य कन् ।

प्रशस्तकेशयुक्तः । इति शब्दरत्नावली ॥

शस्त्रं, क्ली, (शस्यते हिंस्यते अनेन । “अमिचि-

मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति
क्त्रः । यद्बा, “दाम्नीशसुयुयुजेति ।” ३ । २ । १८२ ।
इति ष्ट्रन् ।) लोहम् । अस्त्रम् । इत्यमरः ॥
शस्त्रास्त्रैर्बहुधा मुक्तैरित्यादिदर्शनात् शस्त्रा-
स्त्रयोः कश्चिद्भेदमाह । येन करधृतेन हन्यते
तत् शस्त्रं खड्गादि । येन क्षिप्तेन हन्यते
तदस्त्रं काण्डादि । इति तट्टीकायां भरतः ॥
तत्पर्य्यायः ।
“अस्त्रे शस्त्रं प्रहरणमुद्घातो हेतिरायुधः ।”
इति शब्दरत्नावली ॥
“एकैकमस्त्रं शस्त्रञ्च देवैर्मुक्तं सहस्रधा ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥”
इति विष्णुपुराणे ५ अंशे ३० अध्यायः ॥
अस्त्रं मन्त्राभिमन्त्रितम् । शस्त्रं तदितरत् । इति
तट्टीका ॥ * ॥ राज्ञां अस्त्राचार्य्यो यथा, --
“यन्त्रयुक्ते पाणियुक्ते अयुक्ते युक्तधारिते ।
अस्त्राचार्य्यो निरुद्बेगः कुशलश्च विशिष्यते ॥”
तदगारनियुक्तस्य लक्षणं यथा, --
“स्थापनाजातितत्त्वज्ञः सततं प्रतिजागृता ।
राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः ॥”
इति मात्स्ये १८९ अध्यायः ॥
अस्त्रचिकित्सा यथा । अथातोऽग्रोपहरणीय-
मध्यायं व्याख्यास्यामः । त्रिविधं कर्म्म । पूर्ब्ब-
कर्म्म प्रधानकर्म्म पश्चात्कर्म्मेति । तद्व्याधि
प्रत्युपदेक्ष्यामः । अस्मिन् शास्त्रे शस्त्र कर्म्म
पृष्ठ ५/०३९
प्राधान्यात् शस्त्रकर्म्मैव तावत् पूर्ब्बमुपदेक्ष्याम-
स्तत्सम्भारांश्च । तच्च शस्त्रकर्म्माष्टविधम् ।
तद्यथा । छेद्यं भेद्यं लेख्यं वेध्यमेष्यमाहार्य्यं
विश्राव्यं सीव्यमिति ॥ * ॥ अतोऽन्यतमं कर्म्म
चिकीर्षता वैद्येन पूर्व्वमेवोपकल्पयितव्यानि ।
तद्यथा । यन्त्रशस्त्रक्षाराग्निशलाकाशृङ्गतुम्ब-
जलौकालावूजाम्बवोष्ठपिचुप्लोत-सूत्रपत्रपट्टमधु-
घृतवसापयस्तैलतर्पणकाषायालेपनकल्कव्यजन-
शीतोष्णोदककटाहादीनि परिकर्म्मिणश्च
स्निग्धाः स्थिरा वलवन्तः । ततः प्रशस्तेषु तिथि-
करणमुहूर्त्तनक्षत्रेषु दध्यक्षतान्नपानरत्नैरग्निं
विप्रान् भिषजश्चार्च्चयित्वा कृतवलिमङ्गलस्वस्ति-
वाचनं लघु भुक्तवन्तं प्राङ्मुखमातुरमुपवेश्य
यन्त्रयित्वा प्रत्यङ्मुखो वैद्यो मर्म्मशिरास्नायु-
सन्ध्यस्थिधमनीः परिहरन्ननुलोमं शस्त्रं निद-
ध्यादापूयदर्शनात् सकृदेवापहरेच्छस्त्रमाशु च ।
महत्स्वपि च पाकेषु द्ब्यङ्गुलं त्र्यङ्गुलं बा शस्त्र-
पदमुक्तम् । तत्रायतो विशालः समः सुविभक्त
इति ब्रणगुणाः । भवतश्चात्र ।
“आयतश्च विशालश्च सुविभक्तो निराश्रयः ।
प्राप्तकालकृतश्चापि व्रणः कर्म्मणि शस्यते ॥
शौर्य्यमाशु क्रिया शस्त्रतैक्ष्ण्यकस्वेदवेपथू ।
असंमोहश्च वैद्यस्य शस्त्रकर्म्मणि शस्यते ॥”
एकेन वा व्रणेनाशुष्यमाणेनान्तराबुद्ध्यावेक्ष्य
अपरान् व्रणान् कुर्य्यात् । भवन्ति चात्र ।
“यतो यतो गतिं विद्यादुत्सङ्गो यत्र यत्र च ।
तत्र तत्र व्रणं कुर्य्याद्यथा दोषो न तिष्ठति ॥”
तत्र भ्रूगण्डशङ्खललाटाक्षिपुटोष्ठदन्तवेष्टकक्षा-
कुक्षिवङ्क्षणेषु तिर्य्यक्छेद उक्तः ॥
“चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् ।
अर्द्धचन्द्राकृतींश्चापि गुदे मेढ्रे च बुद्धिमान् ॥”
अन्यथा तु शिरास्नायुच्छेदनादतिमात्रं वेदना
चिराद्व्रणसंरोहो मांसकन्दी प्रादुर्भावश्चेति ।
मूढगर्भोदरार्शोऽश्मरीभगन्दरमुखरोगेष्वभुक्त-
वतः कर्म्म कूर्व्वीत । ततः शस्त्रमवतार्य्य शीता-
भिरद्भिरातुरमाश्वास्य समन्तात् परिपीड्या-
ङ्गुल्या व्रणमभिमृज्य प्रक्षाल्य कषायेण प्लोते-
नोदकमादाय तिलकल्कमधुसर्पिःप्रगाढामौषध-
युक्तां वर्त्तिं प्रणिदध्यात् । ततः कल्केनाच्छाद्य
नातिस्निग्धां नातिरूक्षां नातिघनां कवलिकां
दत्त्वा वस्त्रपट्टेन बध्नीयाद्वेदनारक्षोघ्नैर्धूपैर्धूपये-
द्रक्षाघ्नैश्च मन्त्रै रक्षां कुर्व्वीत । ततो गुग्गुल्व-
गुरुसर्ज्जरसवचागौरसर्षपचूर्णैर्लवणनिम्बपत्रव्या
मिश्रैराज्ययुक्तैधूपैर्धूपयेत् । आज्यशेषेण चास्य
प्राणान् समालभेत । उदकुम्भाच्चापो गृहीत्वा
प्रोक्षयन् रक्षाकर्म्म कुर्य्यात्तद्वक्ष्यामः ॥ * ॥
“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च ।
रक्षाकर्म्म करिष्यामि ब्रह्मा तदनुमन्यताम् ॥
नागाः पिशाचा गन्धर्व्वाः पितरो यक्षराक्षसाः ।
अभिद्रवन्ति ये ये त्वां ब्रह्माद्या घ्नन्तु तान् सदा ॥
पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः ।
दिक्षु वास्तुनिवासाश्च पान्तु त्वां ते नमस्कृताः ।
पान्तु त्वां मुनयो ब्राह्म्या दिव्या राजर्षयस्तथा ।
पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्व्वेऽपि सागराः ॥
अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च ॥
सोमो व्यानमपानं ते पर्य्यण्यः परिरक्षतु ॥
उदानं विद्युतः पान्तु समान स्तनयित्नवः ।
बलमिन्द्रो बलपतिर्मनुर्मन्ये मतिं तथा ॥
कामांस्ते पान्तु गन्धर्व्वाः सत्त्वमिन्द्रोऽभिरक्षतु ।
प्रज्ञां ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥
चक्षुः सूर्य्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः ।
नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव ॥
रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।
आकाशं स्वानि ते पातु देहं तव वसुन्धरा ॥
वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् ।
पौरुषं पुरुषश्रेष्ठो ब्रह्मात्मानं ध्रुवो भ्रुवौ ॥
एता देहे विशेषेण तव नित्या हि देवताः ।
एतास्त्वां सततं पान्तु दीर्घमायुरवाप्नुहि ॥
स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्व्व-
ताम् ।
स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति नारदपर्व्वतौ ॥
स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ।
पितामहकृता रक्षा स्वस्त्यायुर्व्वर्द्धतां तव ।
ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः ॥”
इति स्वाहा ॥
“एतैर्व्वेदात्मकैर्मन्त्रैः कृत्या व्याधिविनाशनैः ।
मयैवं कृतरक्षस्त्वं दीर्घमायुरवाप्नुहि ॥” * ॥
ततः कृतरक्षमातुरमागारं प्रवेश्याचारिक-
मादिशेत् । ततस्तृतीयेऽहनि विमुच्यैवं बध्नी-
याद्बस्त्रपट्टेन । न चैनं त्वरमाणोऽपरेद्युर्मोक्ष-
येत् । द्बितीयदिवसे परिमोक्षणाद्विग्रथितो
व्रणश्चिरादुपसंरोहति तीव्ररुजश्च भवति । अत
ऊर्द्ध्वं दोषकालबलादीनवेक्ष्य कषायालेपनबन्धा-
हाराचारान् विदध्यात् । न चैनं त्वरमाणः
सान्तर्दोषं रोपयेत् स ह्यल्पेनाप्यपचारेणाभ्य-
न्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति । भवन्ति
चात्र ।
“तस्मादन्तर्व्वहिश्चैव सुशुद्धं रोपयेद्व्रणम् ।
रूढेऽप्यजीर्णव्यायामव्यवायादीन् विवर्जयेत् ॥
हर्षं क्रोधं भयञ्चापि यावदास्थैर्य्यसम्भवात् ।
मासान् षट् सप्त वा नॄणां विधिरेषः प्रशस्यते ॥
हेमन्ते शिशिरे चैव वसन्ते चापि मोक्षयेत् ।
त्र्यहात् द्ब्यहाच्छरद्ग्रीष्मवर्षास्वपि च बुद्धि-
मान् ॥
अतिपातेषु रोगेषु नेच्छेद्विधिमिमं भिषक् ।
प्रदीप्तागारवच्छिघ्रं तत्र कुर्य्यात् प्रतिक्रियाम् ॥
या वेदना शस्त्रनिपातजाता
तीव्रा शरीरं प्रदुनोति जन्तोः ।
घृतेन सा शान्तिमुपैति सिक्ता
कोष्णेन यष्टीमधुकान्वितेन ॥”
इति सुश्रुते ५ अध्यायः ॥

शस्त्रः, पुं, (शसत्यनेनेति । शस वधे + “असिचि-

मिदिशसिभ्यः क्त्रः ।” उणा० ४ । १६३ । इति क्त्रः ।
यद्वा, दाम्नीशसयुयुजेति ।” ३ । २ । १८२ ।
इति ष्ट्रन् ।) खड्गः । यथा, --
“रिष्टिः खड्गस्तरवारिः शस्त्रो भद्रात्मजश्च
सः ॥”
इति त्रिकाण्डशेषः ॥

शस्त्रकं, क्ली, (शस्त्रमेव । स्वार्थे कन् ।) लोहम् ।

इत्यमरः ॥

शस्त्रकोशतरुः, पुं, (शस्त्रस्य खड्गस्य कोश इव

तरुः ।) महापिण्डीतरुः । इति राजनिर्घण्टः ॥

शस्त्रजीवी, [न्] (शस्त्रेण जीवतीति । जीव +

णिनिः ।) शस्त्राजीवः । इति हेमचन्द्रः ॥
(यथा, बृहत्संहितायाम् । १७ । २४ ।
“रविजेन सिते विजिते
गणमुख्याः शस्त्रजीविनः क्षत्त्रम् ॥”)

शस्त्रधारणजीवकः, त्रि, (शस्त्रधारणेन जीव-

तीति । जीव + ण्वुल् ।) शस्त्राजीवः । इति
शब्दरत्नावली ॥

शस्त्रपाणिः, त्रि, (शस्त्रं पाणौ यस्य ।) शस्त्र-

हस्तः । यथा, --
“उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च
घातकः ।
केशाकेशिगृहीतश्च युगपत् पारदारिकः ॥”
इति व्यवहारतत्त्वम् ॥
अपि च ।
“अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षडेते आततायिनः ॥”
इति प्रापश्चित्तविवेकः ॥

शस्त्रभृत्, त्रि, शस्त्रधारी । शस्त्रं बिभर्त्तीति ।

भृधातोः क्विप्प्रत्ययेन निष्पन्नमेतत् ॥ (यथा,
रघुः । २ । ४० ।
“शस्त्रेण रक्ष्यं यदशक्यरक्षं
न तद्यशः शस्त्रभृतां क्षिणोति ॥”)

शस्त्रमार्जः, पुं, (शस्त्राणि मार्ष्टीति । मृज + अण् ।)

शस्त्रमार्जनकर्त्ता । सिकल्गर इति भाषा ।
तत्पर्य्यायः । असिधावकः २ । इत्यमरः ॥ अस्त्र-
मार्जः ३ असिधावः ४ । इति शब्दरत्नावली ॥
शाणाजीवः ५ भ्रमासक्तः ६ । इति हेम-
चन्द्रः ॥

शस्त्रहतः, त्रि, (शस्त्रेण हतः ।) शस्त्राघातेन

मृतः । तस्याशौचादि यथा । व्याघ्रः ।
“क्षतेन म्रियते यस्तु तस्याशौचं भवेद्द्विधा ।
आसप्ताहात् त्रिरात्रं स्यात् दशरात्रमतःपरम् ॥
शस्त्राघाते त्र्यहादूर्द्ध्वं यदि कश्चित् प्रमीयते ।
अशौचं प्राकृतं तत्र सर्व्ववर्णेषु नित्यशः ॥”
अत्र शस्त्रघातपदं क्षतेतरशस्त्रघातपरं पारि-
भाषिकशस्त्रघातपरमपि । यथा, देवीपुराणे ।
“पक्षिमत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः ।
पतनानशनप्रायैर्व्वज्राग्निविषवन्धनैः ।
मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः ॥”
अन्यथा क्षतं विना पतनादिभिर्विलम्बमृतानां
दिनग्रहणे अनध्यवसायः स्यात् । न च शास्त्रीय-
व्यवहारेऽन्तरङ्गत्वेन पारिभाषिकस्यैव युक्तत्व-
मिति वाच्यं श्राद्धे पारिभाषिकापारिभाषिक-
पृष्ठ ५/०४०
शस्त्रघातग्रहणवदत्रापि तथायुक्तत्वात् पारि-
भाषिकत्वादेव न प्रकरणनियमः ॥ * ॥
“क्रोधात् प्रायं विषं वह्निं शस्त्रमुद्बन्धनं जलम् ।
गिरिवृक्षप्रपातञ्च ये कुर्व्वन्ति नराधमाः ॥
महापातकिनो ये च पतितास्ते प्रकीर्त्तिताः ।
पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः ॥
न चाश्रुपातः पिण्डो वा कार्य्यं श्राद्धादिकं क्वचित् ।
एतानि पतितानाञ्च यः करोति विमोहितः ।
तप्तकृच्छ्रद्वयेनैव तस्य शुद्धिर्न चान्यथा ॥” * ॥
तदितरत्र मरीचिः ।
“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् ।
चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता ॥”
इति शुद्धितत्त्वम् ॥

शस्त्रहतचतुर्द्दशी, स्त्री, (शस्त्रहतानां चतुर्द्दशी ।

युद्धादिहतानां श्राद्धादिकर्म्मणि प्रशस्ततया-
स्यास्तथात्वम् ।) गौणाश्विनकृष्णचतुर्द्दशी ।
गौणकार्त्तिककृष्णचतुर्द्दशी च । यथा, लिङ्ग-
पुराणम् ।
“दीपमालां तथा कृष्णचतुर्द्दश्यां शिवाग्रतः ।
चतुष्पथे च नद्याञ्च चत्वरेषु गृहेषु च ।
एकविंशकुलोपेतो वसेच्छिवपुरे नरः ॥”
अत्र शस्त्रहतानामुल्कादानं अन्येषान्तु दर्शे ।
इति संवत्सरकौमुदी ॥ * ॥ अन्यच्च । अथ
शस्त्रहतचतुर्द्दशी तत्र विष्णुः । युद्धहतानां
श्राद्धकर्म्मणि चतुर्द्दशी प्रशस्ता । युद्धहताना-
मेवेति न नियमार्थमिदम् । ब्रह्मपुराणे ।
“प्रायोऽनशनशस्त्राग्निविषाद्युद्बन्धिनान्तथा ।
चतुर्द्दश्यान्तु कर्त्तव्यं तृप्त्यर्थमिति निश्चयः ॥”
प्रायो महापथगमनम् । वायुपुराणे ।
“युवानस्तु गृहे यस्य मृषास्तेषान्तु दापयेत् ।
शस्त्रेण तु हता ये वै तेषां दद्याच्चतुर्द्दशीम् ॥”
युवान एव पित्रादयो मृता इत्यर्थः । मरीचिः ।
“विषशस्त्रश्वापदाहितिर्य्यग्ब्राह्मणघातिनाम् ।
चतुर्द्दश्यां क्रिया कार्य्या अन्येषान्तु विगर्हिता ॥”
ब्राह्मणकृतघातोऽस्यास्तीति ब्राह्मणघाती ये च
वै ब्राह्मणैर्हता इति ब्रह्मपुराणवचनात् । न तु
कृतब्राह्मणघातः तस्य पतितत्वात् अन्येषाम-
शस्त्रादिहतानाम् । एतच्च शस्त्रहतश्राद्धं
विष्ण्वादिभिः सामान्यप्रकरणलिखनात् सकल-
कृष्णपक्षसाधारणं पित्रादीनामेव पार्व्वणविधि-
प्रकरणात् पार्व्वणविधिना कार्य्यम् ।
“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।
तत्र तत्र त्रयं कुर्य्याद्बर्ज्जयित्वा मृताहनि ॥”
इति शङ्खवचनाच्च ॥ * ॥
ननु अन्येषान्तु विगहिता इति श्रवणात् । कथं
त्रैपुरुषिकपार्व्वणविधिः । न यस्य पुरुषास्त्रय
एव शस्त्रहतास्तस्य त्रैपुरुषिकविधिरुपपद्यते ।
एवं यस्य द्वौ शस्त्रहतावेको वा तेनापि द्वैपुरु-
षिकैकपुरुषिकं पार्व्वणं कर्त्तव्यम् । यथा, मनुः ।
“पिता यस्य तु वृत्तः स्यात् जीवेच्चापि पिता-
महः ।
पितुः सनामसङ्कीर्त्त्य कीर्त्तयेत् प्रपितामहम् ॥”
तथा हारीतः ।
“पितामहेऽपि जीवे वै पितर्य्येव समापयेत् ॥”
नन्वेकोद्दिष्टमेव श्रूयते । यथा शङ्खः ।
“सपिण्डीकरणादूर्द्ध्वमृते कृष्णचतुर्द्दशीम् ।
प्रतिसंवत्सरादन्यदेकोद्दिष्टं न कारयेत् ॥”
यमः ।
“सपिण्डीकरणादूर्द्ध्वं यत् पितृभ्यः प्रदीयते ।
एकोद्दिष्टविधानेन तत् कार्य्यं शस्त्रघातिने ॥”
भविष्यपुराणे ।
“समत्वमागतस्यापि पितुः शस्त्रहतस्य च ।
चतुर्दश्यान्तु कर्त्तव्यमेकोद्दिष्टं न पार्व्वणम् ॥
चतुर्द्दश्यान्तु यच्छ्राद्धं सपिण्डीकरणे कृते ।
एकोद्दिष्टविधानेन तत्कार्य्यं शस्त्रघातिने ॥” * ॥
उच्यते । एषां वचनानाममूलकत्वात् समूलत्वे-
ऽपि पार्व्वणाशक्तविषयाण्येतानि विष्ण्वादिवच-
नेषु पार्व्वणावगतेः । भ्रात्रादीनान्तु शस्त्रहता-
नामेकोद्दिष्टविधिना कार्य्यम् ।
“अपुत्त्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च
ये ।
तेषामपि च देयं स्यादेकोद्दिष्टं न पार्व्वणम् ॥”
इत्यापस्तम्बवचनेन पार्व्वणनिषेधात् । तच्च न
सकलकृष्णपक्षसाधारणं विष्ण्वादिवचनेषु श्राद्ध-
शब्दस्य पार्व्वणपरत्वोक्तेः । किन्त्वाश्विनमासीय-
कृष्णपक्षविषयम् । ब्रह्मपुराणे प्रायोऽनशने-
त्यादिना सकलकृष्णपक्षसाधारणं श्राद्धमभि-
धाय आश्विने । तर्पणीयाश्चतुर्द्दश्यां लुप्तपिण्डो-
दकक्रिया । इति यत् पुनरभिधानं तच्छस्त्र-
हतभ्रात्रादिविषयं अतएव तत्रैवामावास्यायां
पितरः पूज्या नान्दीमुखा अपीति वृद्धप्रपिता-
महादीनामपि श्राद्धं दर्शितम् । इत्यञ्च चतु-
र्द्दश्यामशस्त्रहतश्राद्धनिन्दा आश्विनमासीय-
पक्षश्राद्धादिकल्पव्यतिरिक्तसामान्यकृष्णपक्षवि-
हितश्राद्धकाम्यश्राद्धविषया प्रकरणभेदेन श्राद्ध-
कर्म्मभेदात् सामान्यविशेषन्यायात् इतरथा चतु-
र्द्दश्यां संक्रान्तिश्राद्धेऽशस्त्रहतनिन्दा स्यात् ।
अतएव कृष्णपक्षे दशम्यादौ वर्ज्जयित्वा चतु
र्द्दशीमिति मनुवचनेऽपि चतुर्द्दशीवर्ज्जनं पक्ष-
श्राद्धादिव्यतिरिक्तश्राद्धविषयम् ॥ * ॥ ननु
शस्त्रादिहतानां श्राद्धनिषेधः श्रुयते । तथा
छागलेयः ।
“शस्त्रविप्रहतानाञ्च शृङ्गिदंष्ट्रिसरीसृपैः ।
आत्मनस्त्यागिनाञ्चैव श्राद्धमेषां न कारयेत् ॥”
सत्यं बुद्धिपूर्व्वहतानामेव । प्रमादमृतानान्तु
श्राद्धादिकमाहाङ्गिराः ।
“अथ कश्चित् प्रमादेन म्रियतेऽग्न्युदकादिभिः ।
अशौचं तस्य कर्त्तव्यं कर्त्तव्या चोदकक्रिया ॥”
अबुद्धिपूर्व्वमपि शृङ्ग्यादिभिः क्रीडां कुर्व्वतां
मृतानां न कर्त्तव्यम् । यथा, ब्रह्मपुराणम् ।
“शृङ्गिदंष्ट्रिनखिव्यालविषवह्निस्त्रिया जलैः ।
आदरात् परिहर्त्तव्यः कुर्व्वन् क्रीडां मृतस्तु यः ॥”
परिहर्त्तव्यः श्राद्धादौ शास्त्रानुमत्या बुद्धिपूर्व्व-
मृतानामपि कर्त्तव्यम् । यथाह वृद्धगार्ग्यः ।
“वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः ।
आत्मानं घातयेद्यस्तु भृग्वग्न्यनशनादिभिः ॥
अस्य त्रिरात्रमशौचं द्बितीये त्वस्थिसञ्चयः ।
तृतोये तूदकं कृत्वा चतुर्थ श्राद्धमिष्यते ॥”
एवं क्रीडाव्यतिरेकेणाबुद्धिपूर्व्वं मृताः शास्त्रानु-
मत्या बुद्धिपूर्व्वकमृता अपि श्राद्धार्हाः कथं
लुप्तपिण्डोदकत्वमिति चेत् गौणमिति ब्रूमः ।
बुद्धिपूर्व्वे पिण्डोदकक्रियालोपादिति । इति
श्राद्धविवेकः ॥

शस्त्रहस्तः, पुं, शस्त्रं हस्ते यस्य सः । इति शस्त्र-

पाणिशब्ददर्शनात् ॥

शस्त्राजीवः, त्रि, (शस्त्रेण आजीवतीति । आ +

जीव + अच् ।) असिजीवी । तत्पर्य्यायः ।
काण्डपृष्ठः २ आयुधीयः ३ आयुधिकः ४ ।
इत्यमरः ॥ काण्डस्पृष्टः ५ । इति तट्टीका ॥
काण्डपृष्टः ६ शस्त्रधारणजीवकः ७ । इति
शब्दरत्नावली ॥

शस्त्राभ्यासः, पुं, (शस्त्राणां अभ्यासः ।) अस्त्र-

शिक्षा । तत्पर्य्यायः । खुरली २ । इति
त्रिकाण्डशेषः ॥

शस्त्रायसं, क्ली, (शस्त्रार्थं यदायसम् ।) लोहम् ।

इति राजनिर्घण्टः ॥

शस्त्री, स्त्री, (शस् + ष्ट्रन् । स्त्रियां ङीप् ।)

छुरिका । इति मेदिनी ॥ (यथा, माघे । ४ । ४४ ।
“शस्त्रीश्यामैरंशुभिराशुद्रुतमम्भ-
श्छायामृच्छति नीली सलिलस्य ॥”)

शस्त्री, [न्] त्रि, शस्त्रविशिष्टः । अस्त्रधारी ।

शस्त्रशब्दादिन्प्रत्ययेन निष्पन्नमेतत् ॥ (यथा,
कामन्दकीयनीतिसारे । ७ । ३७ ।
“आप्तशस्त्र्यनुगतः प्रविशेच्च
सङ्कटेषु गहनेषु न तिष्ठेत् ॥”)

शस्पं, क्ली, बालतृणम् । इत्यमरटीकायां भरतः ॥

प्रतिभाहानिः । इति जटाधरः ॥

शस्यं, क्ली, (शस + “तकिशसिचतियतीति ।”

३ । १ । ९७ । इत्यस्य वार्त्तिकोक्त्या यत् ।) वृक्षादि-
निष्पन्नम् । तत्पर्य्यायः । फलम् २ । इत्यमरः ॥
वृक्षाणां लतादीनाञ्च फलं निष्पन्नत्वमागतं
आम्रादिकं शस्यं सस्यपदवाच्यं इत्यन्वयः ।
फलति निष्पद्यते फलं फलनिष्पत्तौ पचादित्वा-
दन् । सस्ति स्वपिति सस्यं सस लु र स्वप्ने कृद्धो-
रिति यः सस्यं द्बिदन्त्यम् । ग्राम्यकविकथानुबन्ध
इव नीरसस्यमनोहरो देश इति नलदमयन्ती-
श्लेषात् ।
“श्रंसनं सीसकं सस्यं ग्रस्तं सास्ना च साध्व-
सम् ॥”
इत्युष्मविवेकाच्च ॥ तालव्यादिदन्त्यान्तश्च तथा
हि शन्सु हिंसास्तुत्योरित्यस्मात् कृ वृष मृजेति
क्यपि यत् शस्यं तत् क्रियावाच्येऽपि फलेऽपि
दृश्यते । तालव्या अपि दन्त्याश्च शस्यशूकर-
पांशव इत्युष्मभेदः । इति तट्टीकायां भरतः ॥ * ॥
क्षेत्रस्थधान्यादि । यथा, --
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
पृष्ठ ५/०४१
आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतम् ॥”
इति स्मृतिः ॥
ग्राम्यशस्यानि यथा, --
“व्रीहयश्च यवाश्चैव गोधूमाश्चाणवस्तिलाः ।
प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः ॥”
उदाराः दीर्घशालयः ।
“माषा मुद्गा मसूराश्च निष्पावाः सकुलत्यकाः ।
आढक्यश्चणकाश्चैव शाणाः सप्तदश स्मृताः ॥
इत्येता ओषधीनान्तु ग्राम्याणां जातयो मुने ॥”
ग्राम्यारण्यशस्यानि यथा, --
“ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्द्दश ।
व्रीहयश्च यवा माषा गोधूमाश्चाणवस्तिलाः ॥
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ।
श्यामाकास्त्वथ नीवारा जर्त्तिलाः सगवेधुकाः ॥
तथा वेणुयवाः प्रोक्तास्तथा मर्कटका मुने ।
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्द्दश ॥”
इति विष्णुपुराणे १ अंशे ६ अध्यायः ॥ * ॥
नवशस्यसम्भोगनक्षत्राणि यथा, --
“अनुराधा मृगशिरो रेवती चोत्तरात्रयम् ।
हस्ता चित्रा मघा पुष्या श्रवणा च पुनर्व्वसुः ॥
रोहिणी नवशस्यादिनवद्रव्याशनादिषु ।
प्रशस्तं नवपीठादिसम्भोगं ग्रहविद्बदेत् ॥” * ॥
नवशस्यश्राद्धादिकालो यथा, --
“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥”
इत्यनेन शरद्बसन्तविहितनवशस्येष्टेः ।
“श्यामाकैर्व्रीहिभिश्चैव यवैरन्योन्यकालतः ।
प्राग्यज्ञं युज्यतेऽवश्यं न त्वत्राग्रयणात्ययः ॥”
इति कालान्तरदर्शनात् श्राद्धेऽपि तथा ।
आग्रयणं नवशस्येष्टिः ।
“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः ।
अपरे क्रियमाणं हि धनुष्येव कृतं भवेत् ॥
धनुषि यत् कृतं श्राद्धं मृगनेत्रासु रात्रिषु ।
पितरस्तन्न गृह्णन्ति नवान्नामिषकाङ्क्षिणः ॥”
अपरे कृष्णपक्षे ।
“पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः ।
भवेत् जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥
यद्यपि व्रीहिपाके च यवपाके च पार्थिव ।
न तावाद्यौ महाराज विना श्राद्धं कथञ्चन ॥”
इति विष्णुधर्म्मोत्तरवचने श्राद्धं प्रति व्रीहियव-
पाकयोर्निमित्तत्वं प्रतीयते । तथापि नवोदके
नवान्ने च इति शातातपवचने पूर्व्वोक्तबहुषु
वचनेषु च नवान्नस्य श्रुतेर्नवान्नत्वेनैवोभयसाधा-
रणं निमित्तं लाघवात् । अभिलापवाक्ये नवा-
न्नागमनिमित्तमिति नियोज्यम् । न तु यवान्ना-
गमादि । वृश्चिके शुक्लपक्षे च इति तु धनुरादि-
पर्य्युदस्तेतरगौणकालमध्ये वृश्चिकस्य प्राशस्त्य-
मात्रार्थं न तु श्राद्धान्तरार्थमिति । इति मल-
मासतत्त्वम् ॥ अन्यत् नवान्नशब्दे द्रष्टव्यम् ॥

शस्यध्वंसी, [न्] पुं, (शस्यानि ध्वंसयतीति ।

ध्वंस + णिनिः ।) तुन्नवृक्षः । इति शब्दचन्द्रिका ॥
शस्यनाशके, त्रि ॥

शस्यमञ्जरी, स्त्री, (शस्यस्य मञ्जरी ।) अभिनव-

निर्गतधान्यादिशीर्षकम् । शीष इति भाषा ॥
तत्पर्य्यायः । कणिशम् २ । इत्यमरः ॥ कणिशः
३ कणिषः ४ । इति तट्टीका ॥

शस्यशूकं, क्ली, (शस्यस्य शूकम् ।) शस्यस्य

तीक्ष्णाग्रम् । शुङा इति भाषा । तत्पर्य्यायः ।
किंशारुः २ । इत्यमरः ॥

शस्यसम्बरः, पुं, सालवृक्षः । इत्यमरः ॥

शस्यात्, त्रि, शस्यभक्षकः । शस्यं अत्ति इत्यर्थे

अदघातोः कर्त्तरि क्विप्प्रत्ययेन निष्पन्नमेतत् ।
इति मुग्धबोधव्याकरणम् ॥

शस्यारुः, पुं, क्षुद्रशमीवृक्षः । इति शब्दरत्ना-

वली ॥

शांशपः, पुं, शिंशपाया विकारश्चमसः । शिंशपा-

शब्दादण्प्रत्यये इकारस्य आङादेशेन निष्पन्न-
मेतत् । इति सिद्धान्तकौमुदी ॥

शांशपायनः, पुं, मुनिविशेषः । इति पुराणम् ॥

(यथा, विष्णुपुराणे । ३ । ६ । १९ ।
“काश्यपः संहिताकर्त्ता सावर्णिः शांश-
पायनः ॥”)

शाकं, क्ली, पुं, (शक्यते भोक्तुमिति । शक + घञ् ।)

पत्रपुष्पादि । साग इति हिन्दीभाषा । तत्-
पर्य्यायः । हरितकम् २ शिग्रुः ३ । इत्यमरः ॥
सिग्रुः ४ । इति तट्टीका ॥ हारितकम् ५ । इति
शब्दरत्नावली ॥ अथ शाकवर्गः । तत्र शाक-
निरूपणम् ।
“पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥”
अथ शाकानां गुणाः ।
“प्रायः शाकानि सर्व्वाणि विष्टम्भीनि गुरूणि च ।
रूक्षाणि बहुवर्च्चांसि सृष्टविण्मारुतानि च ॥
शाकं भिनत्ति वपुरस्थि निहन्ति नेत्रं
वर्णं विनाशयति रक्तमथापि शुक्रम् ।
प्रज्ञाक्षयञ्च कुरुते पलितञ्च नूनं
हन्ति स्मृतिं गतिमिति प्रवदन्ति तज्ज्ञाः ॥
शाकेषु सर्व्वे निवसन्ति रोगाः
सहेतवो देहविनाशनाय ।
तस्माद्बुधः शाकविवर्जनञ्च
कुर्य्यात्तथाम्लेषु स एव दोषः ॥”
इति भावप्रकाशः ॥
अपि च ।
“सर्व्वशाकमचाक्षुष्यमलङ्घेयममैथुनम् ।
ऋते पटोलवास्तूककाकमाचीपुनर्नवाः ॥”
इति राजवल्लभः ॥

शाकः, पुं, वृक्षविशेषः । सेगोन् इति भाषा ।

तत्पर्य्यायः । शाकवृक्षः २ शाकाख्यः ३ खर-
पत्रः ४ अर्जुनोपमः ५ । इति रत्नमाला ॥
क्रकचपत्रः ६ शरपत्रः ७ अतिपत्रः ८ अही-
रुहः ९ श्रेष्ठकाष्ठः १० स्थिरसारः ११ गृह-
द्रुमः १२ । अस्य गुणाः । सारकत्वम् । पित्त-
दाहश्रमापहत्वञ्च । अस्य वल्कलगुणाः । कफ-
नाशित्वम् । मधुरत्वम् । रूक्षत्वम् । कषाय-
त्वञ्च । इति राजनिर्घण्टः ॥ * ॥ शक्तिः । इति
मेदिनी ॥ शिरीषवृक्षः । इति शब्दरत्नावली ॥
नृपभेदः । इति विश्वः ॥ द्बीपविशेषः । तस्य
विवरणं यथा, --
सूत उवाच ।
“शाकद्बीपस्य वक्ष्यामि यथावदिह निश्चयम् ।
कथ्यमानं निबोधध्वं शाकद्बीपं द्विजोत्तमाः ॥
जम्बुद्वीपस्य विस्तराद्द्विगुणस्तस्य विस्तरः ।
विस्ताराद्द्विगुणश्चापि परिणाहः समन्ततः ॥
तेनावृतः समुद्रोऽयं द्वीपेन लवणोदधिः ।
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ॥
कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह ।
तत्रापि पर्व्वताः शुभ्राः सप्तैव मणिभूषिताः ॥
शाकद्वीपादिद्वीपेषु सप्त सप्त नगास्त्रिषु ।
ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्व्वताः ॥
रत्नाकराद्रिनामानः शोभावन्तो महाचिताः ।
समाचिताः प्रतिदिशं द्वीपविस्तरमानतः ॥
उभयत्रावगाढाश्च लवणक्षीरसागरौ ।
शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान् महाचलान् ॥
देवर्षिगन्धर्व्वयुतः प्रथमो मेरुरुच्यते ।
प्रागायतः स सौवर्ण उदयो नाम पर्व्वतः ॥
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्ति च यान्ति च ।
तस्यापरेण सुमहान् जलधारो महागिरिः ॥
सैव चन्द्रः समाख्यातः सर्व्वौषधिसमन्वितः ।
तस्मान्नित्यमुपादत्ते वासवः परमं जलम् ॥
नारदो नाम सैवोक्तो दुर्गशैलो महाचितः ।
तत्राचले समुत्पन्नौ पूर्ब्बं नारदपर्व्वतौ ॥
तस्यापरेण सुमहान् श्यामो नाम महागिरिः
यत्र श्यामत्वमापन्नाः प्रजाः पूर्व्वमिमाः किल ॥
स एव दुन्दुभिर्नाम श्यामः पर्व्वतसत्तमः ।
शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ॥
वज्रज्वालान्तरमयः शाल्मलश्चान्तरालकृत् ।
तस्यापरेण रजतो महानम्भो गिरिः स्मृतः ॥
सैव सोमक इत्युक्तो देवैर्यत्रामृतं पुरा ।
सम्भृतञ्च हृतञ्चैव मातुरर्थे गरुत्मता ॥
तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः ।
हिरण्याक्षो वराहेण तस्मिन् शैले निसूदितः ॥
आम्बिकेयात् परो रम्यः सर्व्वौषधिसमन्वितः ।
विभ्राजस्तु समाख्यातः स्फाटिकः स महा-
गिरिः ॥
यस्माद्विभाजते नित्यं विभ्राजस्तन स स्मृतः ।
सैवेह केशवेत्युक्तो यतो वायुः प्रवायति ॥
तेषां वर्षाणि वक्ष्यामि पर्व्वतानां द्बिजोत्तमाः ।
शृणुध्वं नामतस्तानि यथावदनुपूर्ब्बशः ॥
द्विनामान्येव वर्षाणि यथैव गिरयस्तथा ।
उदयस्योदयं वर्षं जलघारेति विश्रुतम् ॥
नाम्ना सान्तभयन्नाम वर्षं तत् प्रथमं स्मृतम् ॥
द्बितीये जलधारस्य सुकुमारमिति स्मृतम् ।
तदेव शैशिरं नाम वर्षं संपरिकीर्त्तितम् ॥
रैवतस्य तु कौमारं तथैव च सुखोदयम् ।
श्यामपर्व्वतवर्षन्तु मणीचकमिति स्मृतम् ॥
आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् ।
पृष्ठ ५/०४२
सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्तरम् ॥
तदेव शिवमित्युक्तं वर्षं सोमकसंज्ञितम् ।
आम्बिकेयस्य मेदाकिं क्षेमकञ्चैव तत् स्मृतम् ॥
सेतुपर्व्वतकस्यापि महाद्रुममिति स्मृतम् ।
तदेव ध्रुवमित्युक्तं वर्षं बिभ्राजसंज्ञितम् ॥
द्वीपस्य परिणाहञ्च ह्रस्वदीर्घत्वमेव च ।
जम्वुद्वीपेन संख्यातस्तस्य मध्ये वनस्पतिः ॥
शाको नाम महावृक्षस्तस्य प्रजा महानुगाः ।
एतेषु देवगन्धर्व्वाः सिद्धाश्च सह चारणैः ॥
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ।
तत्र पुण्या जनपदाश्चातुर्व्वर्ण्यसमन्विताः ॥
तेषु नद्यस्तु वै सप्त प्रतिवर्षे समुद्रगाः ।
द्बिनाम्नश्चैव ताः सर्व्वा गङ्गाः सप्तविधाः स्मृताः ॥
प्रथमा सुकुमारीति गङ्गा शिवजला शुभा ।
अनुतप्ता च नाम्नैषा नदी संपरिकीर्त्तिता ॥
सुकुमारी तपःसिद्धा द्वितीया नामतः सती ।
नन्दा च पावनी चैव तृतीया परिकीर्त्तिता ॥
शिवलोका चतुर्थी स्यात् त्रिविधा च पुनः
स्मृता ।
इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कसू ॥
धेनुका च मृता चैव षष्ठी संपरिकीर्त्तिता ।
सुकृता च गभस्ती च सप्तमी परिकीर्त्तिता ॥
एताः सप्त महाभागा प्रतिवर्षं शिवोदकाः ।
पावयन्ति जनं सर्व्वं शाकद्वीपनिवासिनम् ॥
अभिगच्छन्ति ताश्चान्या नदीर्नद्यः सरांसि च ।
बहूदकपरिस्रावा यतो वर्षति वासवः ॥
आसान्तु नामधेयानि परिमाणं तथैव च ।
न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥
ताः पिबन्ति महाहृष्टा नदीर्जनपदास्तु ते ।
ये ते शान्ततया प्रोक्ताः प्रमोदाश्चेति वै
शिवाः ॥
आनन्दाश्रुमुखाश्चैव क्षेमकैश्च ध्रुवैः सह ।
बर्णाश्रमाचारयुक्ता देशास्ते सप्त विश्रुताः ॥
अरोगा बलिनश्चैव सर्व्वे मरणवर्ज्जिताः ।
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः ॥
न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् ।
त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते ॥
शाकद्बीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्व्वशः ।
देशस्य तु विचारेण कालः खाभाविकः स्मृतः ॥
न तेषु शङ्करः कश्चिद्बर्णाश्रमकृतः क्वचित् ।
धर्म्मस्याव्यभिचारेण एकान्तसुखिताः प्रजाः ॥
न तेषु माया लोभो वा ईर्ष्यासूया भयं तथा ।
विपर्य्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् ॥
कालो न चव तेष्वस्ति न दण्डो न च दाण्डिकः ।
स्वधर्म्मेण च धर्म्मज्ञास्ते रक्षन्ति परस्परम् ॥”
इति मात्स्ये १०२ अध्यायः ॥ * ॥
अपि च । एवं परस्तात् क्षीरोदात् परित
उपवेशितः शाकद्वोपो द्वात्रिंशल्लक्षयोजनायामः
समानेन दधिमण्डोदेन परीतः । यस्मिन् हि
शाको नाम महीरुहः स्वक्षेत्रव्यपदेशकः ।
यस्य हि महासुरभिगन्धस्तद्बीपमनुवायति ।
तस्यापि प्रैयव्रत एवाधिपतिनाम्ना मेधातिथिः ।
सोऽपि विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषु
स्वात्मजान् पुरोजवमनोजववेपमानधूम्रानीक-
चित्ररेफबहुरूपविश्वाधारसंज्ञान् निधाप्याधि-
पतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं
प्रविवेश । एतेषां वर्षमर्य्यादागिरयो नद्यश्च
सप्त सप्तैव । ईशान उरुशृङ्गो बलभद्रः शत-
केशरः सहस्रस्रोता देवपालो महानस इति ।
अनघा आयूर्दा उभयस्पृष्टिरपराजिता पञ्चपदी
सहस्रश्रुतिर्निजधृतिरिति । तद्वर्षपुरुषा ऋत-
व्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वा-
त्मकं प्राणायामविधूतरजस्तमसः परमसमा-
धिना यजन्ते । इति श्रीभागवते ५ स्कन्धे २०
अध्यायः ॥ * ॥ युधिष्ठिरविक्रमादित्यशालि-
वाहनादिशकनरपतीनामतीताब्दः । तस्य
प्रमाणं दिनपञ्जिकायां द्रष्टव्यम् ॥ (शक्तिः ।
कर्म्म । यथा, ऋग्वेदे । ६ । २४ । ४ ।
“शचीवतस्ते पुरुशाक शाका
गवामिव श्रुतयः सञ्चरणीः ॥”
“हे पुरुशाक बहुकर्म्मन्निन्द्र शचीवतः प्रज्ञा-
वतस्ते त्वदीयाः शाकाः शक्तयः कर्म्माणि वा ।”
इति तद्भाष्ये सायणः ॥ * ॥ समर्थे, त्रि । यथा,
ऋग्वेदे । ५ । ३० । १० ।
“सन्ता इन्द्रो असृजदस्य शाकै-
र्यदीं सोमासः सुषुता अमन्दन् ॥”
“शाकैः शक्तैर्म्मरुद्भिः सह ।” इति तद्भाष्ये
सायणः ॥)

शाकचुक्रिका, स्त्री, चिञ्चा । इति राजनिर्घण्टः ॥

शाकटं, त्रि, (शकट + अण् ।) शकटस्येदम् ।

शकटवोढा । इति मेदिनी ॥

शाकटः, पुं, श्लेष्मान्तकवृक्षः । इति राजनिर्घण्टः ॥

(शकटं वहतीति । शकट + “शकटादण् ।”
४ । ४ । ८० । इत्यण् ।) युगादिवोढा । तत्-
पर्य्यायः । युग्यः २ प्रासङ्ग्यः ३ । इत्यमरः ॥

शाकटाख्यः, पुं, (शाकट इति आख्या यस्य ।)

धववृक्षः । इति रत्नमाला ॥

शाकटायनः, पुं, (शकटस्यापत्यं पुमान् । शकट +

“नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।) अष्ट-
शाब्दिकान्तर्गतशाब्दिकविशेषः । यथा, --
“इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटा-
यनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥”
इति कविकल्पद्रुमः ॥
(अयन्तु नाममात्रं धातुनिष्पन्नमाह । यथा,
कातन्त्रे कृत्सु उणादयो भूतेऽपि इत्यत्र
त्रिलोचनः ।
“नाम च धातुजमाह निरुक्ते
व्याकरणे शकटस्य च तोकः ।
यन्न पदार्थविशेषसमुत्थं
प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥”)

शाकटिकः, त्रि, शकटगामी । शकटेन गच्छती-

त्यर्थे ठक्प्रत्ययेन निष्पन्नमेतत् । इति सिद्धान्त-
कौमुदी ॥ (यथा, बृहत्संहितायाम् । १० । ४ ।
“रोहिण्यां कोशलमद्र-
काशिपाञ्चालशाकटिकाः ॥”)

शाकटीनः, पुं, विंशतितुलापरिमाणम् । तत्-

पर्य्यायः । भारः २ आचितः ३ शकटः ४
शलाटः ५ । इति हेमचन्द्रः ॥

शाकतरुः, पुं, (शाकाख्यस्तरुः ।) शाकवृक्षः ।

इति शब्दमाला ॥ सागौन इति हिन्दी भाषा ॥

शाकपत्रः, पुं, शिग्रुः । इति राजनिर्घण्टः ॥

शाकवालेयः, पुं, ब्रह्मयष्टिः । इति शब्दरत्नावली ॥

शाकम्भरी, स्त्री, (शाकेन बिभर्त्ति । भृ + खश् ।

ङीष् ।) दुर्गा । यथा, --
“ततोऽहमखिलं लोकमात्मदेहसमुद्भवेः ।
भरिष्यामि सुराः शाकैरावृष्टैः प्राणधारकैः ॥
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥”
इति मार्कण्डेयपुराणे नारायणीस्तुतिः ॥
अपि च ।
“भूयः सुरास्तिष्ययुगे निराशना-
न्निरीक्ष्य मारीचगृहे समाश्रिता ।
लोकान् भरिष्यामि तनूजशाकै-
स्तदा भविष्यामि शाकम्भरीति ॥”
इति वामने ५३ अध्यायः ॥
नगरविशेषः । शाम्भरीति ख्यातः । इति केचित् ॥

शाकम्भरीयं, क्ली, आजमेराख्यदेशान्तर्गतशाम्भर-

नगरीयजलाशयविशेषोद्भवलवणम् । शाम्भरि
इति ख्यातम् । तत्पर्य्यायगुणा यथा, --
“शाकम्भरीयं कथितं गडाख्यं रोमकं तथा ।
गडाख्यं लघु वातघ्नमत्युष्णं भेदि पित्तलम् ।
तीक्ष्णं व्यवायि सूक्ष्मञ्चाभिष्यन्दि कटुपाकि
च ॥”
इति भावप्रकाशः ॥

शाकयोग्यः, पुं, (शाकस्य योग्यः ।) धान्यकम् ।

इति राजनिर्घण्टः ॥

शाकराजः, पुं, (शाकानां राजा निर्दोषत्वात् ।

“राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
वास्तूकम् । इति राजनिर्घण्टः ॥

शाकलः, पुं, शकलेन प्रोक्तमधीयते शाक-

लास्तेषां सङ्घोऽङ्को घोषो वा ।
“शाकलाद्वा ।” ४ । ३ । १२८ । इति अण् ।
परम्परासम्बन्धोऽङ्कः । इति सिद्धान्तकौमुदी ॥
(द्बीपविशेषः । यथा, महाभारते । २ । २६ । ६ ।
“शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः ।
अर्ज्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमुलोऽभवत् ॥”)

शाकलकः, पुं, शकलेन प्रोक्तमधीयते शाक-

लास्तेषां सङ्घोऽङ्को घोषो वा ।
“शाकलाद्वा ।” ४ । ३ । १२८ । इति अण् ।
परम्परासम्बन्धोऽङ्कः । इति सिद्धान्तकौमुदी ॥
(द्बीपविशेषः । यथा, महाभारते । २ । २६ । ६ ।
“शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः ।
अर्ज्जुनस्य च सैन्यैस्तैर्विग्रहस्तुमुलोऽभवत् ॥”)

शाकलिकः, त्रि, शकलसम्बन्धी । “शकलकर्द्द-

माभ्यामुपसंख्यानम् ।” ४ । २ । २ । इत्यस्य
वार्त्तिकोक्त्या शाकलिकः कार्द्दमिकः । आभ्या-
मणपीति वृत्तिकारः । शाकलः । कार्द्दमः ।
इति सिद्धान्तकौमुदी ॥

शाकविल्वः, पुं, (शाके विल्व इव ।) वार्त्ताकुः ।

इति जटाधरः ॥

शाकविल्वकः, पुं, (शाकविल्व + स्वार्थे कन् ।)

वार्त्ताकुः । इति त्रिकाण्डशेषः ॥
पृष्ठ ५/०४३

शाकवीरः, पुं, (शाकेषु वीरः ।) वास्तूकशाकः ।

इति त्रिकाण्डशेषः ॥ जीवशाकः । इति राज-
निर्घण्टः ॥

शाकवृक्षः, पुं, (शाकाख्यो वृक्षः ।) तरुविशेषः ।

इति रत्नमाला ॥ सेगोन इति भाषा । अस्य
पर्य्यायगुणौ शाकशब्दे द्रष्टव्यौ ॥

शाकशाकटं, क्ली, (शाकानां भवनं क्षेत्रम् ।

शाक + “भवने क्षेत्रे शाकटशाकिनौ ।” इति
शाकटः ।) शाकक्षेत्रम् । इति हेमचन्द्रः ॥

शाकशाकिनं, क्ली, (शाकानां भवनं क्षेत्रम् । शाक

+ शाकिनः ।) शाकक्षेत्रम् । इति हेमचन्द्रः ॥

शाकश्रेष्ठः, पुं, (शाकेषु श्रेष्ठः ।) वास्तूकशाकम् ।

इति शब्दरत्नावली ॥

शाकश्रेष्ठा, स्त्री, (शाकेषु श्रेष्ठा ।) जीवन्ती ।

डोडीक्षुपः । वार्त्ताकुः । इति राजनिर्घण्टः ॥

शाका, स्त्री, हरीतकी । इति केचित् ॥

शाकाख्यं, क्ली, (शाक इति आख्या यस्य ।)

पत्रपुष्पादि । इत्यमरः ॥
“व्यञ्जनयोग्यं पत्रपुष्पादि शाकपदवाच्यम् ।
आदिना फलमूलादिग्रहः । यदुक्तम् ।
‘मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् ।
त्वक् पुष्पं करकञ्चैव शाकं दशविधं स्मृतम् ॥’
तत्र मूलं मूलकादेः । पत्रं पटोलादेः । करीरं
वंशाङ्कुरादि । अग्रं वेत्रादेः । फलं कुष्माण्डादेः ।
काण्डं उत्पलादिनाडी । अधिरूढं तालास्थि-
मज्जा । अधिरूढोऽङ्कुर इति केचित् । त्वक्
मातुलुङ्गादेः । पुष्पं कोविदारादेः । करकं
छत्रिका । शक्यते भोक्तुमनेनेति शाकम् । श्यति
सामर्थ्यं तनूकरोति शो तनूकरणे बाहुल्यात्
कः शाकमित्यन्ये ।” इति तट्टीकायां भरतः ॥

शाकाख्यः, पुं, (शाक इति आख्या यस्य ।) शाक-

वृक्षः । इति रत्नमाला ॥ अस्य पर्य्यायगुणौ
शाकशब्दे द्रष्टव्यौ ॥

शाकाङ्गं, क्ली, (शाकस्य अङ्गमिव ।) मरिचम् ।

इति राजनिर्घण्टः ॥

शाकाम्लं, क्ली, (शाके अम्लो यस्य ।) वृक्षाम्लम् ।

इति राजनिर्घण्टः ॥

शाकाम्लभेदनं, क्ली, (शाकाम्लं भेदनञ्च ।) चुक्रम् ।

इति राजनिर्घण्टः ॥

शाकालावुः, स्त्री, राजालावुः । इति राज-

निर्घण्टः ॥

शाकाष्टका, स्त्री, (शाका अष्टौ प्रदेया यत्र ।)

शाकोपकरणकश्राद्धार्हाष्टमी । सा च गौण-
फाल्गुनकृष्णाष्टमी । तद्बिवरणं मांसाष्टकाशब्दे
द्रष्टव्यम् ॥

शाकिनी, स्त्री, (शाकोऽस्त्यत्रेति । शाक + इनिः ।)

शाकयुक्ता भूमिः । यथा, --
“शकटः शाकिनी गावो जालमस्पन्दनं वनम् ।
अनूपं पर्व्वतो राजा दुर्भिक्षे नव वृत्तयः ॥”
शकटा धान्यादिवहनद्बारेणोपजीव्यः ।
“पत्रं पुष्पं फलं कन्दं नालं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्यात् यथोत्तरम् ॥”
इति वैद्योक्तशाकयोगात् शाकिनीगृहवाटिका-
शाकाद्याहरणेन । गावो दुग्धादिना । जालं
मत्स्याद्याहरणेन । अस्पन्दनं स्वस्थानादत्यागः
ऋणादिलाभेन । व्ययाधिक्यनिवृत्त्या च । वनं
फलपुष्पाद्याहरणेन । अनूपं बहूदकदेशः
समृणालशालूकाद्याहरणेन । पर्व्वतो गैरिक-
मृदाद्याहरणेन । राजा भैक्षादिना । इत्या-
ह्रिकतत्त्वम् ॥ * ॥ दुर्गाया अनुचरीविशेषः ।
यथा, --
“डाकिनी योगिनी चैवखेचरी शाकिनी तथा ।
दिक्षु पूज्या इमा देव्यः सुसिद्धाः फलदायिकाः ॥”
इति कात्यायनीकल्पः ॥
“ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
ततः परशिवो देवि षट्शिवाः परिकीर्त्तिताः ॥
मूलाधारे तु ब्रह्माणं डाकिनीसहितं न्यसेत् ॥
सर्व्वत्रं त्र्यक्षरीमुक्त्वा वादिसान्तं सबिन्दुकम् ॥
स्वाधिष्ठानाख्यचक्रे तु सविष्णुं राकिणीं
तथा ।
वादिलान्तं प्रविन्यस्य नाभौ तु मणिपूरके ॥
डादिफान्तार्णसहितं रुद्रञ्च लाकिनीं तथा ।
अनाहते कादिठान्तं ईश्वरं काकिनीं तथा ॥
विशुद्धाख्ये महाचक्रे षोडशस्वरसंयुतम् ।
सदाशिवं शाकिनीन्तु विन्यसेत् पूर्व्ववत्ततः ॥
आज्ञाचक्रे तु देवेशि ह-क्ष-वर्णसमन्वितम् ।
परं शिवं ब्रह्मरूपं हाकिनीसहितं न्यसेत् ॥”
इति तारान्यासभेदः । इति तन्त्रसारः ॥

शाकुणः, त्रि, परोत्तापी । इति शब्दमाला ॥

शाकुनः, पुं, (शकुनमधिकृत्य कृतो ग्रन्थः । शकुन

+ अण् ।) पशुपक्ष्यादिरूपशकुनद्वारा मनुष्य-
शुभाशुभनिश्चायकग्रन्थः । तस्येमौ श्लोकौ ।
“शुभाशुभज्ञानविनिर्णयाय
हेतुर्नृणां यः शकुनः स उक्तः ।
गतिः स्वरालोकनभावचेष्टां
संकीर्त्तयामो द्बिपदादिकानाम् ॥
लोकोऽमुना शाकुनसंज्ञकेन
ज्ञानेन विज्ञातसमस्तकार्य्यः ।
नापायकूपे पतति प्रसर्पन्
शास्त्रं हि दिव्या दृगतीन्द्रियेषु ॥”
इति वसन्तराजशाकुने १ सर्गः ॥
(शकुनस्यायमिति । शकुन + “तस्येदम् ।” ४ ।
३ । १२० । इति अण् । पक्षिसम्बन्धी । यथा,
मनुः । ३ । २६८ ।
“द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥”)

शाकुनिकह्, पुं, (शाकुनान् हन्तीति । शकुन +

“पक्षिमत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ ।
इति ठक् ।) पक्षिहन्ता । पाखिमारा इति
चिडिमार इति च भाषा । तत्पर्य्यायः ।
जीवान्तकः २ । इत्यमरः ॥ (यथा, मनुः ।
८ । २६० ।
“व्याधान् शाकुनिकान् गोपान् कैवर्त्तान्
मूलखानकान् ॥”)

शाकुनेयः, पुं, (शकुनेरपत्यम् । शकुनि + “शुभ्रादि-

भ्यश्च ।” ४ । १ । १२३ । इति ढक् ।) डुण्डुल-
पक्षी । इति राजनिर्घण्टः ॥ (शकुनिपुत्त्रो
वृकासुरः । यथा, भागवते । १० । ८८ । २९ ।
“शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरमागतः ।
क्षणं विश्राम्यतां पुंस आत्मायं सर्व्वकामधुक् ॥”)
शकुनसम्बन्धिनि, त्रि ॥

शाकुन्तलेयः, पुं, (शकुन्तलाया अपत्यमिति ।

शकुन्तला + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० ।
इति ढक् ।) भरतराजः । इति जटाधरः ॥
शकुन्तलासम्बन्धिनि, त्रि ॥

शाकुलिकः, त्रि, शकुलान् हन्ति यः । शकुल-

शब्दात् “पक्षिमांसमृगान् हन्ति ।” ४ । ४ ।
३५ । इति ठक्प्रत्ययेन निष्पन्नमेतत् । इति
सिद्धान्तकौमुदी ॥

शाक्करः, पुं, (शक्कर एव । स्वार्थे अण् ।) अन-

ड्वान् । इति हेमचन्द्रः ॥

शाक्तः, त्रि, शक्तिर्देवता अस्य । (शक्ति + “सास्य

देवता ।” ४ । २ । २४ । इत्यण् ।) शक्त्युपासकः ।
अस्य प्रशंसा यथा, --
“स्वर्गे मर्त्ये च पाताले नास्ति शाक्तात् परः
प्रियः ।
सौराणां गाणपत्यानां वैष्णवानां तथैव च ॥
तदन्ते चैव शाक्ताः स्युः क्रमशः क्रमशः प्रिये ।
शृणु देवि वरारोहे नास्ति शाक्तात् परो जनः ॥
शाक्तोऽपि शङ्करः साक्षात् परं ब्रह्मस्वरूप-
भाक् ।
आराधिता येन काली तारा त्रिभुवनेश्वरी ॥
षोडशी चैव मातङ्गी छिन्ना च गलवामुखी ।
आराधिता महेशानि स शिवो नात्र संशयः ॥
अतिगोप्यं महेशानि शाक्तानां परमं पदम् ।
यो जानाति महीमध्ये स शिवो नात्र संशयः ॥
ब्रह्माद्यर्च्चितपादाब्जं यो भजेत् सततं मुदा ।
स यात्यचिरकालेन मुक्तिमन्दिरमेव हि ।
पार्व्वतीचरणद्वन्द्वभजनाकिङ्करो भवेत् ।
स्वर्गभोगश्च मोक्षश्च शाक्तानां न भवेत् किमु ॥
शाक्तानाञ्चैव निन्दां ये कुर्व्वन्ति हि नराधमाः ।
तेषां लोहितपानं वै कुर्व्वन्ति भैरवीगणाः ॥
भैरवाश्चैव भैरव्यः सदा हिंसन्ति पामरान् ।
शाक्तान् हिंसन्ति गर्जन्ति निन्दन्ति बहु-
जल्पकाः ॥
छिनत्ति तेषां देवेशि शिरांसि हरवल्लभा ।
शाक्तेभ्य उत्तमो नास्ति स्वर्गे मर्त्ये रसातले ॥
शाक्तस्तु शङ्करो ज्ञेयस्त्रिनेत्रश्चन्द्रशेखरः ।
स्वयं गङ्गाधरो भूत्वा विहरेत् क्षितिमण्डले ॥”
देवीं प्रति शिववाक्यम् ।
“मदंशाश्चैव ये भूतास्ते शैवा नात्र संशयः ।
त्वदंशाश्चैव शाक्ताश्च सत्यं वै गिरिनन्दिनि ।
बहुवर्षसहस्रान्ते शैवाः शक्तिपरायणाः ।
शाक्ता वै शङ्करा देवि यस्य कस्य कुलोद्भवाः ॥
चाण्डाला ब्राह्मणाः शूद्राः क्षत्त्रिया वैश्य-
सम्भवाः ।
पृष्ठ ५/०४४
एते शाक्ता जगद्धात्रि न मनुष्याः कदाचन ॥
पश्यन्ति मानुषान् लोके केवलं कर्म्मचक्षुषा ।
ब्राह्मणैः क्षत्त्रियैर्व्वैश्यैः शूद्रैरेव च जातिभिः ॥
वाममार्गप्रभावेण कर्त्तव्यं जपपूजनम् ।
ये शाक्ता ब्राह्मणा देवि क्षत्त्रिया ब्राह्मणाः
स्मृताः ॥
वैश्याश्च ब्राह्मणा देवि सर्व्वे शूद्राश्च ब्राह्मणाः ।
ब्राह्मणाः शङ्कराश्चण्डि त्रिनेत्राश्चन्द्रशेखराः ॥”
इति मुण्डमालातन्त्रे २ । ३ । ४ । ७ पटलाः ॥ * ॥
“शाक्ता एव द्बिजाः सर्व्वे न शैवा न च
वैष्णवाः ।
उपासन्ते यतो देवीं गायत्त्रीं परमाक्षरीम् ॥”
इति निर्व्वाणतन्त्रे ३ पटलः ॥
शक्त्युपासनानन्तरमन्योपासननिषेधो यथा, --
“अस्याश्चाराधनं कृत्वा नान्यस्याराधनं चरेत् ।
अन्यस्य स्मरणाद्देवि योगिनीशापमालभेत् ॥”
इति गन्धर्व्वतन्त्रे २ पटलः ॥ * ॥
तस्य आभ्यन्तरस्नानं यथा, --
“शाक्तमाभ्यन्तरस्नानमुक्तं श्रीपञ्चमीमते ।
स्नानप्रकारो द्विविधो बाह्याभ्यन्तरभेदतः ॥
आन्तरं आनमत्यन्तं रहस्यमपि सादरात् ।
कथयामि भयध्वस्त्यै चतुर्व्वर्गफलाप्तये ॥
सम्बित्त्रयमनुसृत्य चरणत्रयमध्यतः ।
स्रवस्कं सच्चिदानन्दप्रभावं भावगोचरम् ॥
विमुक्तिसाधनं पुंसां स्मरणादेव योगिनाम् ।
तेन प्लावितमात्मानं भावयेत् भयशान्तये ॥”
इति विश्वसारतन्त्रे २ पटलः ॥ * ॥
तस्य कुशविशेषो यथा, --
“तर्ज्जन्या रजतं धार्य्यं स्वर्णं धार्य्यमनामया ।
एष एव कुशः शाक्ते न दर्भो वनसम्भवः ॥”
इति श्यामारहस्यम् ॥
(शक्तिमान् । यथा, ऋग्वेदे । ७ । १०३ । ५ ।
“वाचं शाक्तस्येव वदति शिक्षमाणः ॥”
“शिक्षमाणः शिक्ष्यमाणः शिष्यः शाक्तस्येव
शक्तिमतः शिक्षकस्य वाचं यथा अनुवदति
तद्वत् ।” इति तद्भाष्ये सायणः ॥)

शाक्तीकः, पुं, (शक्तिः प्रहरणमस्य । शक्ति +

“शक्तियष्ट्योरीकक् ।” ४ । ४ । ५९ । इति ईकक् ।)
शक्तिधारकः । तत्पर्य्यायः । शक्तिहेतिकः २ ।
इत्यमरः ॥

शाक्त्यः, त्रि, शक्त्युपासकः । इति शक्तिशब्दात्

ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥

शाक्यः, पुं, (शकोऽभिधानमस्येति । शक +

“शण्डिकादिभ्यो ञ्यः ।” ४ । ३ । ९२ । इति ञ्यः ।)
बुद्धः । इति हलायुधः ॥

शाक्यमुनिः, पुं, शाक्यवंशावतीर्णबुद्धमुनिविशेषः ।

इत्यमरः ॥ अस्य सप्त पर्य्याया गोतमशब्दे
द्रष्टव्याः । पर्य्यायान्तरं यथा । खजित् २ श्वेत-
केतुः ३ धर्म्मकेतुः ४ महामुनिः ५ पञ्च-
ज्ञानः ६ सर्व्वदर्शी ७ महाबोधिः ८ महाबलः ९
बहुक्षमः १० त्रिमूर्त्तिः ११ सिद्धार्थः १२
शकः १३ । इति शब्दरत्नावली ॥ शाक्यवंश-
त्वात् शाक्यः शाक्यश्चासौ मुनिश्चेति शाक्य-
मुनिः । तथा हि शाको वृक्षविशेषः तत्र भवा
विद्यमानाः शाक्याः । पितुः शापेन केचिदिक्ष्वा-
कुवंश्या गौतमवंशजकपिलमुनेराश्रमे शाक-
वृक्षे कृतवासाश्च शाक्या उच्यन्ते । तदुक्तम् ।
“शाकवृक्षप्रतिच्छन्नं वासं यस्मात् प्रचक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इतिश्रुताः ॥”
इत्यमरटीकायां भरतः ॥

शाक्यसिंहः, पुं, (शाक्यः सिंह इव ।) शाक्य-

मुनिः । इत्यमरः ॥

शाक्री, स्त्री, दुर्गा । यथा, --

“इन्द्राणी इन्द्रजननी शाक्री शक्रपराक्रमा ।
वज्राङ्कुशकरा देवी वज्रा तेनोपगीयते ॥”
इति देवीपुराणे देवीनिरुक्ताध्यायः ॥
शक्रपत्नी च ॥

शाख, ऋ व्याप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अशशाखत् । इति
दुर्गादासः ॥

शाखः, पुं, कृत्तिकापुत्त्रः । यथा, --

“अवाप चानिलात् पुत्त्रमग्नितुल्यगुणं पुनः ।
अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत ॥
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ।
अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥”
इति मात्स्ये ५ अध्यायः ॥
छित्तिः । इति शब्दचन्द्रिका ॥

शाखा, स्त्री, (शाखति गगनं व्याप्नोतीति । शाख

+ अच् । टाप् ।) वृक्षाङ्गविशेषः । डाल इति
भाषा । (यथा, दुर्गापूजापद्धतौ ।
“शाखाच्छेदोद्भवं दुःखं न च कार्य्यं त्वया
प्रभो ! ॥”)
तत्पर्य्यायः । लता २ । इत्यमरः ॥ लङ्का ३ ।
इति जटाधरः । शिखा ४ । इति भरतधृत-
मेदिनी ॥ पक्षान्तरम् । बाहुः । वेदभागः ।
इति मेदिनी ॥ (यथा, मनौ । ३ । १४५ ।
“यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्य्युं छन्दोगन्तु समाप्तिकम् ॥”)
ग्रन्थभेदः । इति धरणिः ॥ अन्तिकः । इति
विश्वः ॥ (प्रकारः । यथा, गीतायाम् । २ । ४१ ।
“बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवशायिनाम् ॥”)

शाखाकण्टः, पुं, (शाखायां कण्टो यस्य ।) स्नुही-

वृक्षः । इति राजनिर्घण्टः ॥

शाखानगरं, क्ली, (शाखेव नगरम् ।) मूलनग-

रादन्यत् पुरम् । इत्यमरः ॥ (यथा, महा-
भारते । १२ । ८७ । ८ ।
“शाखानगरमर्हस्तु सहस्रपतिरुत्तमः ॥”)
मूलनगरेऽसम्मितस्य जनौघस्य स्थानाय मूल-
नगरस्य समीपेऽङ्के वा यदन्यत् पुरं नगरान्तरं
क्रियते तत् शाखानगरं मूलनगरस्य तरुस्थानी-
यस्य शाखेव । अभिष्यन्दि रमणमप्यत्र ।
स्यादभिष्यन्दि रमणं शाखानगरमित्यपि । इति
त्रिकाण्डशेषः । इति तट्टीकायां भरतः ॥
अपि च । यथा, शब्दरत्नावल्याम् ।
“आरभ्य मूलनगरादपरं नगरं हि यत् ।
तदभिष्यन्दि रमणं शाखानगरमित्यपि ॥”

शाखापित्तः, पुं, पाणिपादांशमूलदाहः । इति

राजनिर्घण्टः ॥

शाखापुरं, क्ली, (पुरस्य शाखा अभिधानात् पूर्व्व-

निपातः । शाखेव पुरमिति वा ।) शाखानग-
रम् । तत्पर्य्यायः । उपपुरम् २ । इति हेमचन्द्रः ॥

शाखाम्ला, स्त्री, (शाखायामम्लो यस्याः ।)

वृक्षाम्ला । इति राजनिर्घण्टः ॥

शाखामृगः, पुं, (शाखाया मृगः ।) वानरः ।

इत्यमरः ॥ (यथा, --
“मुक्ताफलाय करिणं हरिणं पंलाय
सिंहं निहन्ति भुजविक्रमसूचनाय ।
का नीतिरीतिरियती रघुवंशवीर !
शाखामृगे जरति यस्तव वाणमोक्षः ॥”
इत्युद्भटः ॥

शाखारण्डः, पुं, स्वशाखां परित्यज्य शाखान्तरा-

ध्ययनकर्त्ता । तत्पर्य्यायः । अन्यशाखकः २ ।
इति हेमचन्द्रः ॥

शाखारथ्या, स्त्री, षोडशहस्तप्रस्थपथः । यथा, --

“धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ।
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षकाः ॥”
इति देवीपुराणे गोपुरद्बारलक्षणनामाध्यायः ॥

शाखालः, पुं, (शाखां लाति आश्रयतीति । ला +

कः ।) वानीरवृक्षः । इति राजनिर्घण्टः ॥

शाखाशिफा, स्त्री, (शाखायाः शिफा ।) वटा-

दीनां शाखासम्बन्धिशिफा । नाम्ना इति
ख्याता । तरोर्मूलादारभ्य अग्रं यावत् गता
लतागुडूच्यादिः । इति भरतः ॥ तत्पर्य्यायः ।
अवरोहः २ । इत्यमरः ॥

शाखी, [न्] पुं, (शाखास्त्यस्येति । शाखा +

इनिः ।) वृक्षः । इत्यमरः ॥ (यथा, --
“सीताया हृदि यच्छिरीषकुसुमप्राये पफालो-
च्चकैः
पौलस्त्यस्य नितान्तकुण्ठकुलिशे वज्राधिके
वक्षसि ।
आपुङ्खं निममज्ज मन्मथशरस्तन्नैव जानीमहे
कः शाखी सखि ! यस्य पुष्पमभवत् पुष्पायुध-
स्यायुधम् ॥”
इत्युद्भटः ॥)
वेदः । तुरुष्काख्यजनः । इति मेदिनी ॥ राज-
भेदः । इति हेमचन्द्रः ॥

शाखोटः, पुं, वृक्षविशेषः । श्याओडा इति

भाषा ॥ तत्पर्य्यायः । पिशाचद्रुः २ पीत-
फलः ३ कर्कशच्छदः ४ । इति त्रिकाण्डशेषः ॥
भूतवृक्षः ५ सकटः ६ अक्षधरः ७ । ति
भूरिप्रयोगः ॥ गवाक्षी ८ घूकावासः ९ रूक्ष-
पत्रः १० पीतः ११ कैशिक्योजः १२ क्षीर-
नाशनः १३ । अस्य गुणाः । तिक्तत्वम् ।
उष्णत्वम् । पित्तकारित्वम् । वातहारित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
“शाखोटः पीतफलको भूतावासः खरच्छदः ।
पृष्ठ ५/०४५
शाखोटो रक्तपित्तार्शोवातश्लेष्मातिसारजित् ॥”
इति भावप्रकाशः ॥

शाख्यः, त्रि, शाखासम्बन्धी । शाखाशब्दात्

ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥

शाङ्करं, क्ली, (शङ्कर + अण् ।) छन्दोभेदः । इति

मेदिनी ॥ अस्य रूपान्तरं शाक्करं शार्करञ्च ॥
(शङ्करो देवतास्य इत्यर्थे अणि आर्द्रानक्षत्रम् ।
यथा, बृहत्संहितायाम् । ७१ । ७ ।
“मृगे तु मूषकाद्भयं व्यसुत्वमेव शाङ्करे ॥”)

शाङ्करः, पुं, (शङ्करस्यायं वाहनत्वात् । शङ्कर +

अण् ।) वलीवर्द्दः । इति मेदिनी ॥ (शङ्कर-
सम्बन्धिनि, त्रि । यथा, कथासरित्सागरे ।
४६ । २०१ ।
“तत्रैषां तद्गुहाद्वारप्राप्तानां शाङ्करा
गणाः ॥”)

शाङ्करिः, पुं, (शङ्करस्यापत्यं पुमान् । शङ्कर +

इञ् ।) कार्त्तिकेयः । गणेशः । इति मेदिनी ॥

शाङ्कुची, स्त्री, शङ्कोचनमत्स्यः । इति शब्द-

रत्नावली ॥

शाङ्खः, त्रि, शङ्खसम्बन्धि । शङ्खशब्दात् ष्णप्रत्ययेन

निष्पन्नमेतत् ॥

शाङ्खिकः, पुं, (शङ्खकरणं शिल्पमस्य इति । शङ्ख

+ ठक् ।) जातिविशेषः । शाँखारि इति
भाषा । तत्पर्य्यायः । काम्बविकः २ । इत्यमरः ॥
शङ्खकारः ३ काम्बजकः ४ । इति शब्दरत्ना-
वली ॥ शङ्खवादकः । तत्पर्य्यायः । शङ्खध्माः २ ।
इति जटाधरः ॥

शाङ्गुष्ठा, स्त्री, गुञ्जा । इति रत्नमाला ॥

शाटः, पुं, वस्त्रभेदः । इत्यमरभरतौ ॥ यथा, --

“दूरतः शोभते मूर्खो लम्बशाटपटावृतः ।
तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते ॥”
इति चाणक्यशतकम् ॥

शाटकः, पुं क्ली, (शाट + स्वार्थे कन् ।) पटः ।

(यथा, कथासरित्सागरे । ५३ । ३८ ।
“स राजवन्दिनामा तद्दत्त्वा शाटकमग्रहीत् ॥”)
नाटकभेदः । इत्यमरभरतौ ॥

शाटिका, स्त्री, शाटी । इत्यमरटीकायां भरतः ॥

शाटी, पुं स्त्री, वस्त्रभेदः । शाडी इति भाषा ।

इत्यमरः ॥ अस्या निर्माल्यत्वं निर्माल्यशब्दे
द्रष्टव्यम् ॥

शाट्यायनं, क्ली, प्रकृतकर्म्मवैगुण्यप्रशमनाथहोमः ।

यथा । यत्तु प्रकृतकर्म्मवैगुण्यप्रशमनाय शाट्या-
यनहोमाभिधानं भवदेवभट्टसम्मतं तन्न प्रामा-
णिकं तस्मादपि महाप्रामाणिकैर्भट्टनारायण-
चरणैर्गोभिलभाष्ये तदप्रमाणीकृतत्वात् ।
छन्दोगपरिशिष्टेऽपि प्रायश्चित्तार्थं प्रकारत्रय-
मात्रमुक्तम् । यथा, --
“यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् ।
चतस्रस्तत्र विज्ञेया स्त्रीपाणिग्रहणे यथा ॥
अपि वाज्ञातमित्येषा प्राजापत्यापि बाहुतिः ।
होतव्या त्रिर्व्विकल्पोऽयं प्रायश्चित्तविधिः
स्मृतः ॥”
त्रिर्व्विकल्प इत्यनेन कल्पान्तरनिषेधात् गोभि-
लीयकर्म्मणि शाट्यायनहोमो न युक्तः । किन्तु
व्यस्तसमस्तमहाव्याहृतिभिश्चतसृभिः प्राय-
श्चित्तहोमो युक्तः । विशारदप्रभृतयोऽप्येवम् ।
शाट्यायनहोमस्य समूलत्वेऽपि शाख्यन्तरीय-
त्वम् । इति तिथ्यादितत्त्वम् ॥

शाट्यायनः, पुं, मुनिविशेषः । इति पुराणम् ॥

शाठ्यं, क्ली, (शठस्य भावः । शठ + ष्यञ् ।)

शठता । (यथा । “शठे शाठ्यं समाचरेत् ॥”)
तत्पर्य्यायः । कपटः २ व्याजः ३ दम्भः ४
उपधिः ५ छद्म ६ कैतवम् ७ कुसृतिः ८
निकृतिः ९ । इत्यमरः ॥ नव अयथार्थ-
व्यवहारे । शठ वधे क्लेशकैतवे तालव्यादिः
अल् तस्य कर्म्म शाठ्यं ष्ण्यः । कपटादि-
षट्कं छद्मनि कुसृत्यादित्रयं चित्तकौटिल्ये
इत्येके । कपटादिषट्कं वञ्चनमात्रफलम् ।
कुसृत्यादित्रिकन्तु हिंसाफलमिति भेदः । इति
सर्व्वानन्दो मधुश्च । नवैवैकार्था इति वहवः ।
इति भरतः ॥ अपि च ।
“अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।
कूटं कल्कं छलं छद्म मिषकैरवकैतवम् ॥
अथ शाठ्यञ्च शठता कुसृतिर्निकृतिश्च सा ।
हिंसाफले चतुष्कं स्यात् शाठ्यपर्य्याय ईरितः ॥
पूर्व्वः कपटपर्य्यायः फले वञ्चनमात्रके ।
उभयोरेकपर्य्याय इति केचित् प्रचक्षते ॥”
इति शब्दरत्नावली ॥

शाड, ऋ ङ श्लाघे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ऋ, अशशाडत् । ङ,
शाडते गुणिनं गुणी । अन्तःस्थतृतीय-
युक्तादिरयमिति कस्यचिद्भ्रमः । इति दुर्गा-
दासः ॥

शाड्वलः, पुं, शाद्वलः । इति केचित् ॥

शाणं, क्ली, (शणेन निर्म्मितमिति । शण + अण् ।)

शणनिर्म्मितवस्त्रम् । यथा । क्षौमं शाणं वा
ब्राह्मणस्य कार्पासं क्षत्त्रियस्य आविकं वैश्यस्य ।
क्षुमा अतसी तस्या इदं क्षौमं तसरादि ।
शाणं शणतन्तुभवं तदुभयं ब्राह्मणस्य । इति
संस्कारतत्त्वम् ॥

शाणः, पुं, (शण्यते ज्ञायते गुणादिरत्रेति ।

शण + घञ् ।) कषपट्टिका । कष्टिपातर इति
भाषा । तत्पर्य्यायः । निकषः ३ कषः ३ । इत्य-
मरः ॥ शानः ४ निकसः ५ कसः ६ । इति
भरतः ॥ आकषः ७ । इति शब्दरत्नावली ॥
माषचतुष्टयम् । चारि माषा इति भाषा ।
तत्पर्य्यायः । निष्कः २ टङ्कः ३ । इति वैद्यक-
परिभाषा ॥ यथा, --
“माषैश्चतुर्भिः शाणः स्यात् वरणः स निगद्यते ।
टङ्कः स एव कथितस्तद्द्बयं कोल उच्यते ॥”
इति भावप्रकाशः ॥
लौहादीनां निकषः । शानपातर इति भाषा ।
इति मेदिनी ॥ करपत्रम् । करात् इति भाषा ।
इति विश्वः ॥

शाणाजीवः, पुं, (शाणेन आजीवतीति । आ +

जीव + अच् ।) अस्त्रमार्जकः । पथा, --
“शाणाजीवः शस्त्रमार्जो भ्रमासक्तोऽसिधा-
वकः ॥”
इति हेमचन्द्रः ॥

शाणिः, पुं, पट्टवृक्षः । यथा, --

“पट्टेराजशणः शाणिश्चिमिः कक्खटपत्रकः ॥”
इति शब्दमाला ॥

शाणितः, त्रि, तीक्ष्णीकृतः । निशितः । कृतशाणः ।

शाणशब्दादितप्रत्ययेन निष्पन्नमेतत् ॥

शाणी, स्त्री, (शणस्य विकारः । शण + अण् ।

टिड्ढेति ङीप् ।) शणसूत्रमयी पट्टिका ।
यथा, --
“शाणीप्रायाणि वस्त्राणि शमीप्राया मही-
रुहाः ।
शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥”
इति विष्णुपुराणे ६ अंशे १ अध्यायः ॥
शाणी शणसूत्रमयी पट्टिका तत्तुल्यानि
वस्त्राणि । इति तट्टीका ॥ (यथा, महाभारते ।
३ । १९४ । १९ ।
“वस्त्राणां प्रवरा शाणी धान्यानां कोर-
दूषकः ॥”)
प्रावरणान्तरम् । ताम्बु इति भाषा । इति
मेदिनी ॥ छिद्रवस्त्रम् । यथा । शाणी गोणी
छिद्रवस्त्रे । इति हेमचन्द्रः ॥ हस्तकटाक्षादि-
सूचणा । इशारा इति पारस्यभाषा । इति
शब्दरत्नावली ॥

शाणीरं, क्ली, शोणनदमध्यस्थतटः । दर्दरीनदी-

तटः । इति विश्वः ॥

शाण्डिल्यः, पुं, विल्ववृक्षः । इत्यमरः ॥ (यथा,

महागणपतिस्तोत्रे । ९ ।
“हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले
श्रिया
बिभ्रत्याम्बुरुहे समं भधुरिपुस्ते शङ्खचक्रे
वहन् ॥”)
वह्निभेदः । (शण्डिलस्य मुनेर्गोत्रापत्यमिति ।
शण्डिल + “गर्गादिभ्यो यञ् ।” ४ । १ । १०५ ।
इति यञ् ।) मुनिविशेषः । इति मेदिनी ॥
स तु गोत्रकारः भक्तिसूत्रकारश्च । तत्सूत्र-
भाष्याद्यश्लोको यथा, --
“प्रपद्य परमं देवं श्रीस्वप्नेश्वरसूरिणा ।
शाण्डिल्यशतसूत्रीयं भाष्यमाभाष्यतेऽधुना ॥”

शातं, क्ली, (शो + क्तः । “शाच्छोरन्यतरस्याम् ।”

७ । ४ । ४१ । इति पक्षे इत्वाभावः ।) सुखम् ।
तद्वति, त्रि । इत्यमरः ॥ (विनाशः । यथा,
मुश्रुते । ४ । १ ।
“पाणिप्राप्तं पाणिदाहं नखशातं करोति च ॥”)

शातः, त्रि, (शो + क्तः ।) दुर्ब्बलः । निशितः ।

इति मेदिनी ॥ धुस्तूरः । इत्यमरः ॥

शातकुम्भं, क्ली, (शतकुम्भे पर्व्वते भवम् । शत-

कुम्भ + अण् ।) काञ्चनम् । (यथा, माघे ।
९ । ९ ।
पृष्ठ ५/०४६
“द्रुतशातकुम्भनिभमंशुमतो
वपुरर्द्धमग्नवपुषः पयसि ॥”)
धुस्तूरः । इत्यमरः ॥

शातकुम्भः, पुं, करवीरवृक्षः । इति मेदिनी ॥

शातकौम्भं, क्ली, स्वर्णम् । इति भतरद्विरूपकोषः ॥

(सुवर्णनिर्म्मिते, त्रि । यथा, रामायणे । २ ।
३ । ११ ।
“शतञ्च शातकौम्भानांकुम्भानामग्निवर्च्चसाम् ॥”)

शातनं, क्ली, कार्श्यम् । विनाशनम् । यथा, --

“वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् ।
मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥”
इति सारमञ्जरी ॥
(छेदके, त्रि । यथा, रघुः । ३ । ४२ ।
“स पूर्व्वतः पर्व्वतपक्षशातनं
दशर्श देवं नरदेवसम्भवः ॥”)

शातपत्रकः, पुं, (शातपत्रं पद्ममिव । कन् ।)

चन्द्रप्रकाशः । यथा, --
“चन्द्रिका कौमुदी ज्योत्स्ना प्रकाशो द्योत
आतपः ।
अकल्का चन्द्रिकायाञ्च प्रकाशे शातपत्रकः ॥”
इति शब्दचन्द्रिका ॥

शातभीरुः, पुं, मदनमाली । मल्लिकाभेदः ।

यथा, --
“शातभीरुर्भद्रवल्ली भूमिमण्डोऽष्टपादिका ॥”
इति रत्नमाला ॥

शातमानं, त्रि, (शतमान + “शतमानविंशति-

केति ।” ५ । १ । २७ । इति अण् ।) शत-
मानेन क्रीतम् । इति सिद्धान्तकौमुदी ॥

शातला, स्त्री, (शातं छेदं लातीति । ला + कः ।)

सातला । चर्म्मकषा इति ख्याता । इत्यमर-
टीकायां भरतः ॥

शात्रवं, क्ली, (शात्रोर्भावः समूहो वा । शत्रु +

अण् ।) शत्रुभावः । शत्रुसंहतिः । इति
मेदिनी ॥ (शत्रुसम्बन्धिनि, त्रि । यथा, रघुः ।
४ । ४२ ।
“ताम्बूलीनां दलैस्तत्र रचितापानभूमयः ।
नारिकेलासवं योधाः शात्रवञ्च पपुर्यशः ॥”)

शात्रवः, पुं, (शत्रुरेव । स्वार्थे अण् ।) शत्रुः ।

इत्यमरः ॥ (यथा, माघे । १४ । ४४ ।
“तत्र नाभवदसौ महाहवे
शात्रवादिव पराङ्मुखोऽर्थिनः ॥”)

शादः, पुं, (शो तनूकरणे + “शाशपिभ्यां ददनौ ।”

उणा० ४ । ९७ । इति दः ।) कर्दमः । शष्पम् ।
इत्यमरः ॥

शादहरितः, त्रि, (शादैः शष्पैः हरितः ।)

शाद्बलः । इत्यमरः ॥

शाद्वलः, त्रि, (शाद + “नडशादात् ड्वलच् ।” ४ ।

२ । ८८ । इति ड्वलच् ।) नवतृणबहुलदेशः ।
इत्यमरः ॥ शादो नवतृणं विद्यतेऽत्र शाद्बलः ।
शष्पवाचिन एव शादशब्दाद्वलः स्यात् न तु
पङ्कयाचिनोऽनभिधानात् । इति तट्टीकायां
भरतः ॥ (यथा, रामायणे । २ । ३० । १४ ।
“शाद्वलेषु यदा शिष्ये वनान्ते वनगोचरा ।
कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः ॥”)

शान, ञ तेजे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) शानस्तिक्ष्णीकरणम् ।
ञ, शीशांसति शीशांसते खड्गं कर्म्मकारः ।
इति दुर्गादासः ॥

शानः, पुं, शाणः । इत्यमरटीकायां भरतः ॥

शा(ण)नपादः, पुं, पारिपात्रपर्व्वतः । (अस्य

विवरणं हरिवंशे १३१ अध्याये द्रष्टव्यम् ॥)
चन्दनघर्षणपाषाणः । इति महाभारते हरि-
वंशः ॥ चन्दनपिढि इति भाषा ॥

शानी, स्त्री, इन्द्रवारुणी । इति शब्दचन्द्रिका ॥

शान्तः, त्रि, (शम + क्तः । “वा दान्तशान्तेति ।”

७ । २ । २७ । इति निपातितः ।) उपशमं
प्रापितः । प्राप्तोपशमः । इति भरतः ॥ तत्-
पर्य्यायः । शमितः २ । इत्यमरः ॥ श्रान्तः ३
जितेन्द्रियः ४ । इति हेमचन्द्रः ॥ शमान्वितः ५ ।
इति मेदिनी ॥

शान्तः, पुं, अभियुक्तः । रसभेदः । इति मेदिनी ॥

शान्तरसस्य लक्षणादि यथा, --
“शान्तः शमः स्थायिभाव उत्तमप्रकृतिर्मतः ।
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥
अनित्यत्वादिनाशेषवस्तुनिःसारता तु या ।
परमाथस्वरूपं वा तस्यालम्बनमिष्यते ॥
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ।
महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ॥
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ।
निर्व्वेदहर्षस्मरणमतिभूतदयादयः ॥”
यथा, --
“रथ्यान्तश्चरतस्तथा धृतजरत्कन्था नवस्या-
ध्वगैः
सत्रासञ्च सकौतुकञ्च सदयं दृष्टस्य तैर्नागरैः ।
निर्व्वीजीकृतचित्सुधारसमुदा निद्रायमाणस्य
मे
निःशङ्कं करटः कदा करपुटी भिक्षां विलुण्ठि-
ष्यति ॥”
पुष्ठिस्तु महाभारतादौ द्रष्टव्या ।
“निरहङ्काररूपत्वात् दयावीरादिरेष नो ।”
दयावीरादौ हि जीमूतवाहनादौ अन्तरा
मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवर्त्ति-
त्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते ।
शान्तस्तु सर्व्वप्रकारेणाहङ्कारप्रशमैकरूपत्वान्न
तत्रान्तर्भावमर्हति । अतश्च नागानन्दे शान्त-
रसप्रधानत्वमपास्तम् । ननु ।
“न यत्र दुःखं न सुखं न चिन्ता
न द्वेषरागौ न च काचिदिच्छा ।
रसः स शान्तः कथितो मुनीन्द्रैः
सर्व्वेषु भावेषु समप्रभाणः ॥”
इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्म-
स्वरूपापत्तिलक्षणायां प्रादुर्भावात् । तत्र
सञ्चार्य्यादीनामभावात् कथं रसत्वमित्युच्यते
युक्तवियुक्तदशायामवस्थितो यः शमः स एव
यतः रसतामेति तदस्मिन् सञ्चार्य्यादेः स्थितिश्च
न विरुद्धा । यश्चास्मिन् सुखाभावोऽप्युक्तस्तस्य
वैषयिकसुखपरत्वान्न विरोधः । उक्तं हि ।
“यच्च कामसुखं लोके यच्च दिव्यं महासुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
सर्व्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा ॥”
आदिशब्दात् धर्म्मवीरदानवीरदेवताविषय-
रतिप्रभृतयः । तत्र देवताविषया रतिर्यथा, --
“कदा वाराणस्यामिह सुरधुनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥”
इति साहित्यदर्पणे ३ परिच्छेदः ॥

शान्तं, [म्] व्य, वारणम् । इति मेदिनी ॥

शान्तनवः, पुं, (शान्तनोरपत्यं पुमान् । शान्तनु +

अण् ।) शान्तनुराजपुत्त्रः । भीष्मः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । ३६ ।
९० ।
“तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः ।
वसुवीर्य्यात् समभवत् महावीर्य्यो महायशाः ॥”)

शान्तनुः, पुं, द्बापरयुगस्य चन्द्रवंशीयैकविंश-

राजः । स तु गङ्गायां भीष्मं जनयामास । तस्य
पिता प्रतीपः । यथा, --
“जयसेनस्तत्तनयो राधिकोऽतोऽयुताय्वभूत् ।
ततश्चाक्रोधनस्तस्मात् देवातिथिरमुष्य च ॥
ऋक्षस्तस्य दिलीपोऽभूत् प्रतीपस्तस्य चात्मजः ।
देवापिः शान्तनुस्तस्य वाह्लीक इति चात्मजाः ॥
यं यं कराभ्यं स्पृशति जीर्णं यौवनमेष्यति ।
शान्तिमाप्नोति चैवाग्र्यां कर्म्मणा तेन
शान्तनुः ॥
वाह्लीकात् सोमदत्तोऽभूत् भूरिर्भूरिश्रवास्ततः ।
शलश्च शान्तनोरासीत् गङ्गायां भीष्म आत्म-
वान् ॥”
इति श्रीभागवते ९ स्कन्धे २२ अध्यायः ॥
तत्पर्य्यायः । महाभीष्मः २ । इति जटाधरः ॥
प्रातीपः ३ । इति त्रिकाण्डशेषः ॥ प्रतीपः ४
प्रतिपः ५ । इति शब्दरत्नावली ॥ (शन्तनु-
रिति पाठस्तु बहुभिरादृतः ॥) कर्कटी । इति
रत्नमाला ॥

शान्ता, स्त्री, दशरथराजकन्या । दशरथेन कन्यार्थं

लोमपादाय राज्ञे प्रदत्ता । सा च ऋष्यशृङ्ग-
भार्य्या । इति रामायणम् ॥ (यथा, उत्तर-
चरिते १ अङ्के ।
“कन्यां दशरथो राजा शान्तां नाम व्यजी-
जनत् ।
अपत्यकृतिकां राज्ञे लोमपादाय यां ददौ ॥”)
शमीभेदः । तत्पर्य्यायः । शुभा २ भद्रा ३ अप-
राजिता ४ जया ५ विजया ६ । अस्या गुणाः
शमीवत् । इति राजनिर्घण्टः ॥

शान्तिः, स्त्री, (शम + क्तिन् ।) कामक्रोधादि-

प्रशमः । चित्तोपशमः । इति भरतः ॥ विषयेभ्य
पृष्ठ ५/०४७
इन्द्रियोपरमः । इति चण्डीटीकायां नागोजी-
भट्टः ॥ तत्पर्य्यायः । शमथः २ शमः ३ । इत्य-
मरः ॥ प्रशमः ४ उपशमः ५ प्रशान्तिः ६ ।
इति शब्दरत्नावली ॥ तृष्णाक्षयः ७ । इति
हेमचन्द्रः ॥ तल्लक्षणं यथा, --
“यत्किञ्चिद्वस्तु संप्राप्य स्वल्पं वा यदि वा बहु ।
या तुष्टिर्जायते चित्ते शान्तिः सा गद्यते बुधैः ॥”
इति पद्मपुराणे क्रियायोगसारे १५ अध्यायः ॥
भद्रम् । इति हेमचन्द्रः ॥ गोपीविशेषः । यथा,
राधिकोवाच ।
“शान्त्या गोप्या युतस्त्वञ्च दृष्टोऽहं रासमण्डले ।
वसन्तपुष्पशय्यायां माल्यवान् चन्दनोक्षितः ॥
रत्नप्रदीपैर्युक्तश्च रत्ननिर्म्माणमन्दिरे ।
रत्नभूषितभूषाढ्यो रत्नभूषितया सह ॥
तया दत्तञ्च ताम्बूलं भुक्तवांश्च पुरा विभो ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं तया ॥
शान्तिर्देहं परित्यज्य भयाद्दीना त्वयि प्रभो ।
ततस्तस्याः शरीरञ्च गुणश्रेष्ठं बभूव ह ॥
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ।
विश्वे विषयिणे किञ्चित् सत्त्वरूपाय विष्णवे ॥
शुद्धसत्त्वस्वरूपायै महालक्ष्म्यै पुरा विभो ।
त्वन्मन्त्रोपासकेभ्यश्च वैष्णवेभ्यश्च किञ्चन ।
तपस्विभ्यश्च धर्म्माय धर्म्मिष्ठेभ्यश्च किञ्चन ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ९ अध्यायः ॥ * ॥
दुर्गा । यथा, --
“उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता ।
सर्व्वज्ञा सर्व्ववेत्तृत्वाच्छान्तित्वाच्छान्तिरुच्यते ॥”
इति देवीपुराणे देवीनिरुक्ताध्यायः ॥ * ॥
धर्म्मद्बारा ग्रहदौःस्थ्यदुःस्वप्नादिसूचितैहिका-
निष्टहेतुदुरितनिवृत्तिः । यथा, --
“यथा शस्त्रप्रहाराणां कवचं विनिवारकम् ।
तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥”
वालग्रहभूतग्रहनराधिपप्रबलतरशत्रुदुःसह-
रोगाभिभवाद्भुतदुःस्वप्नग्रहदौःस्थ्यादिनिमित्तकं
शान्तिकर्म्मापि मलमासे कर्त्तव्यम् । शुद्धकाल-
प्रतीक्षायामसहत्वेनानन्यगतिकत्वात् । अत-
एवात्मानं सततं गोपायीत इति श्रुतौ सतत-
मत्युक्तम् । इति मलमासतत्त्वम् ॥ * ॥ उप-
सर्गशान्तिगाथा यथा, --
“एषामिन्द्रो महावीर्य्यस्त्रैलोक्यस्येश्वरोऽभवत् ।
शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः ॥
तस्योपसर्गनाशाय नामाक्षरविभूषिता ।
अद्यापि मानवैर्गाथा गीयतेऽत्र महीतले ॥
सशान्तिर्देवराट् शान्तः सुशान्तिं न प्रयच्छति ।
सहितः शिवसत्याद्यैस्तथैव वशवर्त्तिभिः ॥”
इति मार्कण्डेयपुराणे उत्तममन्वन्तरसमाप्ता-
ध्यायः ॥ * ॥
अथाद्भुतशान्तिः । तत्राद्भुतनिरूपणम् । अद्-
भुतसागरे आथर्व्वणाद्भुतवचनम् । प्रकृति-
विरुद्धमद्भुतमापदः प्राक्प्रबोधाय देवाः सृज-
न्तीति । तेनापज्ज्ञानाय भूम्यादीनां पूर्व्वं
स्वभावप्रच्यवो देवकर्त्तृकोऽद्भुत इति । एवञ्च
बुधोदयपर्व्वणि ग्रहादीनां गणितागणितत्वेन
प्रकृतानामपि यदुत्पातत्वं तद्भाक्तम् । तत्कार-
णञ्च गर्गसंहिताबार्हस्पत्ययोः ।
“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः ।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥
ततोऽपचारान्नियतमपवर्ज्जन्ति देवताः ।
ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान् ॥
त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।
विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च ॥”
तांश्च परं न दर्शयेदित्याह विष्णुः । नोत्पातं
दर्शयेदिति । तत्र वेलानक्षत्रमण्डलनिरूपणम् ।
यथा, दीपिकायाम् ।
“प्राग्द्वित्रिचतुर्भागैर्द्यूनिशोरद्भुतेषु सर्व्वेषु ।
अनिलाग्निशक्रवरुणा मण्डलपतयः शुभा-
शुभैश्च ॥”
वेलामण्डलः ।
“अर्य्यम्णादिचतुष्कचन्द्रतुरगादित्येषु वायु-
र्भवेत्
देवेज्याजविशाखयाम्ययुगले पित्र्यद्बये
चानलः ।
विश्वादित्रयधातृमैत्रयुगलेष्विन्द्रो भवेन्मण्डलः
सर्पोपान्त्यशतान्त्यमूलयुगलेशानेष्वपामीश्वरः ॥
पवनदहनौ नेष्टौ योगस्तयोरतिदोषदः ।
सुरपतिवरुणौ शस्तौ योगस्तयोरतिशोभनः ॥
सवरुणमरुन्मिश्रः शक्रस्तथाग्निसमायुतः ।
फलविरहितः सेन्द्रो वायुस्तथाग्नियुतोऽम्बुपः ॥
यन्मण्डलेऽद्भुतं जातं शान्तिस्तद्देवताश्रया ।
तथा शान्तिद्वयं कार्य्यं मण्डलद्वयजाद्भुते ॥” * ॥
विष्णुधर्म्मोत्तरे ।
“ग्रहर्क्षवैकृतं दिव्यं आन्तरीक्षं निबोध मे ।
उल्कापातो दिशां दाहः परिवेशस्तथैव च ॥
गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता तथा ।
एवमादीनि लोकेऽस्मिन् नाभसानि विनिर्द्दि-
शेत् ॥
चरस्थिरभवं भौमं भूकम्पमपि भूमिजम् ।
जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥
भौमं चाल्पफलं ज्ञेयं चिरेण परिपच्यते ।
नाभसं मध्यफलदं मध्यकालफलप्रदम् ।
दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारी तथैव च ॥ * ॥
शीतोष्णताविपर्य्यासः ऋतूतां रिपुजं भयम् ।
पुष्पे फले च विकृते राज्ञो मृत्युं तथा दिशेत् ॥
अकालप्रभवा नार्य्यः कालातीताः प्रजास्तथा ।
विकृताः प्रसवाश्चैव युग्मप्रसवनं तथा ॥
हीनाङ्गाः अधिकाङ्गाश्च जायन्ते यदि वा त्रयः ।
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ॥
विनाशं तस्य देहस्य कुलस्य च विनिर्द्दिशेत् ॥
प्रदोषे कुक्कुटारावो हेमन्ते चापि कोकिलाः ।
अर्कोदयेऽर्काभिमुखः श्वारावो नृभयं दिशेत् ॥
उलूको वसते यत्र निपतेद्वा तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥
गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च ।
चिल्लश्च चर्म्मचिल्लश्च भासः पाण्डर एव च ॥
गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते ।
पक्षान्मासात्तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ।
पत्न्याः पुत्त्रस्य वा मृत्युर्द्रव्यञ्चापि विनश्यति ॥
ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा ।
गृह्णीयाद्यदि रोचेत शान्तिञ्चेमां प्रयोजयेत् ॥”
इमां वक्ष्यमाणाम् ॥ * ॥
“मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः ।
श्वा शृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् ॥
विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ।
चौरेण हन्यते लोकः परचक्रसमागमः ॥
संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ।
अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ॥
अकाले फलपुष्पाणि देशविद्रवकारणम् ॥”
मत्स्यपुराणे ।
“अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतम् ।
अनृतौ तु दिनादूर्द्ध्वं वृष्टिर्ज्ञेया भयाय च ॥
निरभ्रे वाथ रात्रौ वा श्वेतं यस्योत्तरेण तु ।
इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥
दिग्दाहपरिवेशौ च गन्धर्व्वनगरं तथा ।
परचक्रभयं विद्याद्देशोपद्रवमेव च ॥”
भासो वनकुक्कुटः ॥ * ॥ कंसनिधनसूचने हरि-
वंशः ।
“वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः ।
चलत्यपर्व्वणि मही गिरीणां शिखराणि च ॥”
वाणोत्पाते स एव ।
“दक्षिणां दिशमास्थाय धूमकेतुः स्थितोऽभवत् ।
वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः ॥” * ॥
कृत्यचिन्तामणौ ।
“त्यक्ताशौचविवेकतत्त्ववसुधा लोकाः क्षुधा-
पीडिताः
विप्रा वेदहतास्तथा प्रचलिता बह्वाशिनो
दुःखिताः ।
क्षौणीमन्दफला नृपाश्च विकलाः संग्रामघोरा
मही
प्रेताघातदुरन्तपीडिततरा देवेज्यराह्वोर्युतौ ॥
रक्ते शस्त्रोद्योगो मांसास्थिवशादिभिर्मरकः ।
धान्यहिरण्यत्वक्फलकुसुमाद्ये वर्षिते भयं
विद्यात् ।
अङ्गारपांशुवर्षे विनाशमुपयाति तन्नगरम् ॥
उपलं विना जलधरैर्विकृता वा यदा प्राणिनो
वृष्ट्या ।
छिद्रं वाप्यतिवृष्टिं शस्यानामीतिसंजननम् ॥”
बुधकौशिकसंवादे ।
“वल्ल्याः प्रपाते च फलं शरटस्य प्ररोहणे ।
शीर्षे राजश्रियोऽवाप्तिर्भाले चैश्वर्य्यमेव च ॥
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्व्वन्धुदर्शनम् ।
नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनम् ॥
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् ।
धनलाभो बाहुमूले करयोर्धनवृद्धिदः ॥
स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनम् ।
पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनम् ॥
कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः ।
पृष्ठ ५/०४८
जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ॥
उर्व्वोस्तु वाहनावाप्तिर्ज्जानुजङ्घेऽर्थसंक्षयः ।
वामदक्षिणयोः पादे भ्रमणं नियतं भवेत् ॥
वल्ल्याः प्ररोहणे चैव पतने शरटस्य च ।
व्यत्यासाच्च फलञ्चैव तद्वदेव प्रजायते ॥
वल्ल्याः प्ररोहणं रात्रौ शरटस्य प्रपातनम् ।
निधनार्थाय भवति व्याधिपीडा विपर्य्यये ॥
पतनानन्तरं चैवारोहणं यदि जायते ।
पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ॥
आरोहणञ्चोर्द्ध्ववक्त्रे अधोवक्त्रे च पातनम् ॥
भवेदिष्टफलं तस्य तत्काले जायते ध्रुवम् ॥ * ॥
स्पृष्टमात्रे तयोः सद्यः सचेलं जलमाविशेत् ।
पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनम् ॥
वल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् ।
पूजयेद्गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके ॥
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवम् ।
पञ्चवृक्षकषायञ्च निक्षिप्यावाहयेत्ततः ॥
पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा ग्रहान् ।
मृत्युञ्जयेन मन्त्रेण समिद्भिः खदिरैः शुभैः ।
तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम् ॥”
वल्ली गृहगोधिका । मृत्युञ्जयमन्त्रस्त्य्रम्बकमन्त्रः
इति विद्याकरः ॥ * ॥ गर्गसंहिताबार्हस्पत्ययोः ।
“ये तेषु शान्तिं कुर्व्वन्ति न ते यान्ति परा-
भवम् ।
ये तु न प्रतिकुर्व्वन्ति क्रियया श्रद्धयान्विताः ।
दाम्भिक्याद्बा विमोहाद्वा विनश्यन्त्येव तेऽचि-
रात् ॥” * ॥
अत्र निमित्तनिश्चयवतोऽधिकारोऽन्यथा दोष
इत्याह मत्स्यपुराणम् ।
“भिन्नमण्डलवेलायां ये भवन्त्यद्भुताः क्वचित् ।
तत्र शान्तिद्बयं कार्य्यं निमित्त सति नान्यथा ।
निर्निमित्तकृता शान्तिर्निमित्तमुपपादयेत् ॥”
एतच्च तत्तद्विशेषविहितशान्तिविषयम् ।
अन्यथा वेलामण्डलसन्देहे शान्तिर्न स्यात् ॥ * ॥
अतएवोक्तं योगियाज्ञवल्क्येन ।
“यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमो गायत्त्र्या समुदाहृतः ॥
गायत्त्र्या प्रयतः शुद्धः सर्व्वपापैः प्रमुच्यते ।
शान्तिकामश्च जुहुयात् गायत्त्रीमक्षतैः
शुचिः ॥
हन्तुकामश्च नृपतेर्घृतेन जुहुयात् शुचिः ।
सावित्र्या शान्तिहोमांश्च कुर्य्यात् पर्व्वसु
नित्यशः ॥
प्रणवव्याहृतिभ्याञ्च स्वाहान्तो होमकर्म्मणि ।
प्रतिलोमा प्रयोक्तव्या फट्कारान्ताभिचारिके ॥
मार्कण्डेयपुराणम् ।
“दिग्देशजनसामान्यं नृपसामान्यमात्मनि ।
नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ।
परस्पराभिरक्षा च ग्रहदोषेषु जायते ॥”
तथा ।
“तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ।
लोकवादांश्च शान्तीश्च ग्रहपोडासु कारयेत् ॥
भूदोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् ।
कुर्य्यात् होमं तथा दानं श्राद्धं क्रोधविवर्ज्ज-
नम् ॥
अद्रोहं सर्व्वभूतेषु मैत्रीं कुर्व्वन्ति पण्डिताः ।
वर्ज्जयेदुषतीं वाचमतिवादांस्तथैव च ॥
ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः ।
एवं शाम्यन्त्यशेषाणि घोराणि द्बिजसत्तम ।
प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यनेकशः ॥” * ॥
लोकवादाश्च तत्रैवोक्ता यथा, --
“आकाशाद्देवतानाञ्च देव्यादीनाञ्च सौहृदात् ।
पृथिव्यां प्रतिलोके च लोकवादा इति स्मृताः ॥”
ते च सर्व्वभूतडाकिन्याद्यभिभवशान्त्यर्थं लौकि-
कौषधमन्त्रादयः । विषहरीमङ्गलचण्डिका-
गीतादयः । चैत्यवृक्षादौ क्षेत्रपालकुलदेवता-
पूजा च ॥ * ॥ तथा चापस्तम्बः । स्त्रीभ्योऽवर-
वर्णेभ्यो धर्म्मशेषान् प्रतीयादित्येक इति । धर्म्म-
शेषात् श्रुतिस्मृतिसदाचारेष्वप्रसिद्धान् इति
नारायणोपाध्यायाः ॥ भूदोहश्च पात्रं विना
भूमौ गोस्तनं निष्पीड्य दुग्धोत्सर्गः । चैत्यः
पूज्यत्वेन ख्यातो ग्रामप्रधानवृक्षः । तथा च
बाणोत्पाते हरिवंशः ।
“अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्च्चितः सर्व्वकन्याभिर्दानवानां महात्मनाम् ॥”
उषतीं अकल्याणीम् । अतिवादश्च पूज्यमति-
क्रम्य भाषणम् ॥ * ॥ मत्स्यपुराणम् ।
“काकस्यैकरवश्रावः प्रभाते दुःखदायकः ।
काको मैथुनकासक्तः श्वेतो वा यदि दृश्यते ॥
उलूको वसते यत्र निपतेत् वा तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥” * ॥
वराहसंहितायाम् ।
“क्रीडानुरक्तो रतिमांसलुब्धो
भीतो रुजार्त्तः पतितो विहङ्गः ।
नासौ गृहस्थस्य विनाशहेतु-
र्दोषः समुत्पाद्यत आहुरार्य्याः ॥
गृहे पक्षिविकारेषु कुर्य्याच्चामरतर्पणम् ।
देवाः कपोता इति वा जप्तव्यं सप्तभिर्द्विजैः ॥
गावश्च देया विविधा द्बिजानां
सकाञ्चना वस्त्रयुगोत्तरीयाः ।
एवं कृते पापमुपैति शान्तिं
मृगैर्द्विजैर्वापि निवेदितं तत् ॥”
द्विजैः पक्षिभिः । अपिना अन्यैरपि ॥ * ॥
भुजबलभीमे ।
“एको वृषस्त्रयो गावः सप्ताश्वा नव दन्तिनः ।
सिंहप्रसूतिकाश्चैव कथिताः स्वामिघातिकाः ॥”
सिंहप्रसूतिका गावः ॥ * ॥ मत्स्यपुराणे ।
“अङ्गे दक्षिणभागे तु शस्तं विस्फुरणं भवेत् ।
अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥
लाञ्छनं पिटकञ्चैव ज्ञेयं विस्फुर्ज्जितं तथा ।
विपर्य्ययेण विहितं सर्व्वं स्त्रीणां फलं तथा ॥”
“अनिष्टचिह्नोपगमे द्बिजानां कार्य्यं सुवर्णेन च
तर्पणं स्यात् ।” शङ्खः । दुःस्वप्नानिष्टदर्शनादौ घृतं
हिरण्यञ्च दद्यादिति ॥ * ॥ मात्स्ये ।
“नमस्ते सर्व्वलोकेश नमस्ते भृगुनन्दन ।
कवे सर्व्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते
एवं शुक्रोदये कुर्व्वन् यात्रादिषु च भारत ।
सर्व्वान् कामानवाप्नोति विष्णुलोके महीयते
नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथ बृहस्पते ।
क्रूरग्रहैः पीडितानाममृताय नमो नमः ॥
संक्रान्तावपि कौन्तेय यात्रास्वभ्युदयेषु च ।
कुर्व्वन् बृहस्पतेः पूजां सर्व्वान् कामान् सम-
श्नुते ॥ * ॥
वैष्णवामृते व्यासः ।
“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा
द्विज ।
महाशान्तिकरः श्रीमान् तुलस्या पूजितो हरिः
उत्पादान् दारुणान् पुंसां दुर्निमित्ताननेकशः ।
तुलस्या पूजितो भक्त्या महाशान्तिकरो
हरिः ॥”
अत्र ब्रह्मपुराणीयो मन्त्रः ।
“नमस्ते बहुरूपाय विष्णवे परमात्मने
स्वाहेति ॥ * ॥”
छन्दोगपरिशिष्टम् । अथातो रजस्वलाभिगमने
गोऽश्वभार्य्यासु गमने यमजजनने विजातीय-
जनने वा काककङ्कगृध्रवकश्येनभासचिल्लकपोता-
नां गृहप्रवेशे मानुषस्योपरिविश्रामणे एषा-
मेव क्रियमाणे गृहद्वारारोहणे अन्येषु चाद्-
भुतेषु कल्पदृष्टेन विधिनाग्निमुपसमाधाय प्राय-
श्चित्ताज्याहुतीर्ज्जुहोति अद्भुताय अग्नये स्वाहा
सोमाय विष्णवे रुद्राय वांयवे सूर्य्याय मृत्यवे
विश्वेभ्यो देवेभ्यः स्वाहेति स्थालीपाकावृतान्य-
दिति ॥ * ॥ कपोतं विशेषयति शौनकः ।
“रक्तपादः कपोताख्यो अरण्यौकाः शुकच्छविः ।
स चेच्छालां विशेच्छालासमीपञ्च व्रजेद्यदि ।
अन्येषु गृहमध्ये वा वल्मीकस्योद्गमादिषु ॥”
कल्पदृष्टेन विधिना गृह्योक्तेन प्रायश्चित्ताज्या-
हुतीः अद्भुतदोषप्रशमनार्थाः सप्ताज्याहुतीः
अद्भुतायाग्नये स्वाहा इत्यादिमन्त्रैः तत्स्थाली-
पाकेति कर्त्तव्यतया पायसचरुभिरेतेभ्यो देवेभ्यो
जुहुयात् । छन्दोगपरिशिष्टम् । पश्चात् घृत-
पायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा
शान्तिर्भवतीति । गोवरं गोश्रेष्ठम् । दक्षिणां
तां गां कृत्वा दोषशान्तिर्भवतीति । तथा
चोक्तम् ।
“गोर्विशिष्टतमा लोके वेदेष्वपि निगद्यते ।
न ततोऽन्यद्वरं यस्मात् तस्माद्गौर्वरमुच्यते ॥”
छन्दोगपरिशिष्टम् । यस्त्वेषामन्यतममापन्नः प्राय-
श्चित्तं न कुर्य्यात्तस्य गृहपतेर्मरणं सर्व्वस्वनाशो
वा भवति तस्मात् प्रायश्चित्तं कर्त्तव्यं कर्म्माप-
वर्गे वामदेव्यगानं शान्तिः शान्तिरिति । अप-
वर्गे समाप्तौ । वामदेव्यगानं शान्तिः कार्य्या ।
आवृत्तिः प्रकरणसमाप्त्यर्था । बार्हस्पत्ये ।
“शमयन्त्यासप्ताहात् कम्पादिकृतं निमित्त-
माश्वेव ।
अतिवर्षणोपवासव्रतदीक्षाजप्यहवनानि ॥ * ॥”
पृष्ठ ५/०४९
वराहः ।
“ये च न दोषं जनयन्त्युत्पातान् तानृतुस्वभाव-
कृतान् ।
ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेभिः समासोक्तैः ॥”
तथा च मत्स्यपुराणम् ।
“वज्राशनिमहीकम्पसन्ध्यानिर्घातनिस्वनाः ।
परिवेशरजोधूमरक्तार्कास्तमयोदयाः ॥
द्रुमेभ्योऽथ रसस्नेहमधुपुष्पफलोद्गमाः ।
गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ * ॥
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् ।
अनग्निज्वंलनं स्फोटं धूमरेणुनिराकुलम् ॥
रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमम् ।
सरिताञ्चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ * ॥
शक्रायुधपरीवेशौ विद्युच्छुष्कविरोहणम् ।
कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥
नद्युदपानसरसां वृष्ट्यृद्ध्या भवनप्लवाः ।
पतनञ्चाद्रिगेहानां वर्षासु न भयावहम् ॥”
हरिवंशे वर्षावर्णनायाम् ।
“क्वचित् कन्दरहासाढ्यं शिलीन्ध्राभरणं
क्वचित् ।”
इति दर्शनात् वर्षासु शिलीन्ध्रोद्गमो न भयावहः ॥
“दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् ।
ग्रहनक्षत्रताराणां दर्शनञ्च दिवाम्बरे ॥
गीतवादित्रनिर्घोषो वनपर्व्वतसानुषु ।
शस्यवृद्धी रसोत्पत्तिरपापाः शरदि स्मृताः ॥ * ॥
शीतानिलतुषारत्वं नर्द्दनं मृगपक्षिणाम् ।
रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥
दिशो धूमान्धकाराश्च शलभा वनपर्व्वताः ।
उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः ॥ * ॥
हिमपातानिलोत्पपातविरूपाद्भुतदर्शनम् ।
दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम् ॥
चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणाम् ।
पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः ॥ *
ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः ।
ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः ॥ *
उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितञ्च यत् ।
स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
पूर्व्वञ्चरति देवेषु पश्चाद्गच्छति मानुषान् ।
नादेशिता वाग्वदति सत्या ह्येषा सरस्वती ॥”
बृहस्पतिः ।
“ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तु ये नृणाम् ।
श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥”
विनेया दण्डनीयाः । इति ज्योतिस्तत्त्वम् ॥ * ॥
भौमदिव्यान्तरीक्षोत्पातशान्तिर्मात्स्ये २०२
अध्यायावधि २१२ अध्यायपर्य्यन्तं द्रष्टव्या ।
तथा देवीपुराणे महाभ्युदयपादे सर्व्वदैवकी-
सर्व्वोत्पातशान्तिसमाप्ताध्याये चण्डीशब्दे च
द्रष्टव्या । तन्त्रोक्ता शान्तिः षट्कर्म्मशब्दे
द्रष्टव्या ॥ * ॥ अथ शान्तिकपौष्टिककर्म्मदिनम् ।
तत्र वारा रविसोमबुधबृहस्पतिशुक्राणां तत्र
नक्षत्राणि उत्तराषाढा उत्तरफल्गुणी उत्तर-
भाद्रपत् रोहिणी चित्रा अनुराधा मृगशिरः
रेवती पुष्या अश्विनी हस्ता । तत्र चन्द्रः
शोभनः । लग्नं शोभनम् । इति ज्योतिषतत्त्वम् ॥

शान्तिः, पुं, वृत्तार्हद्विशेषः । जिनचक्रवर्त्तिविशेषः ।

इति हेमचन्द्रः ॥ दशमन्वन्तरीयेन्द्रः । यथा, --
“धर्म्मपुत्त्रस्य पुत्त्रांस्तु दशमस्य मनोः शृणु ।
सुक्षेत्रश्चोत्तमौजाश्च भूमिश्रेण्यश्च वीर्य्यवान् ॥
शतानीको निरमित्रो वृषसेनो जयद्रथः ।
भूरिद्युम्नः सुवर्च्चाश्च शान्तिरिन्द्रः प्रतापवान् ॥
आपो मूर्त्तिर्हविष्मांश्च स्वकृतिश्चाव्ययस्तथा ।
नाभागोऽप्रतिमश्चैव सौरभा ऋषयस्तथा ॥
प्राणाख्याः शतसंख्याश्च देवतानां गणास्तथा ।
वालिशत्रुस्तं हरिश्च गदया धातयिष्यति ॥”
इति गारुडे ८७ अध्यायः ॥

शान्तिकामः, त्रि, (शान्तिं कामयते इति ।

कम् + णिङ् + अच् ।) शान्त्यभिलाषी । यथा,
“श्रीकामः शान्तिकामो वा ग्रहयज्ञं समा-
चरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥”
इति संस्कारतत्त्वम् ॥

शान्तिगृहं, क्ली, (शान्तेर्गृहम् ।) शान्त्यालयः ।

यज्ञान्ते शान्तिकुम्भजलेन स्नानस्य गृहम् ।
तत्पर्य्यायः । आथर्व्वणम् २ । इति हेमचन्द्रः ॥
(यथा, बृहत्संहितायाम् । ४४ । ५ ।
“कण्ठेषु निबध्नीयात् पुष्ट्यर्थं शान्तिगृहगानाम् ॥”)

शान्त्वं, क्ली, सान्त्वम् । इत्यमरटीकासारसुन्दरी ॥

शान्त्वतिः, स्त्री, ब्राह्मणयष्टिका । इति शब्द-

चन्द्रिका ॥ पुस्तकान्तरे श्वान्नतिरिति च पाठः ॥

शापः, पुं, (शपनमिमि । शप + घञ् ।) आक्रोशः ।

(यथा, रघुः । ५ । ५६ ।
“संमोचितः सत्त्ववता त्वयाहं
शापाच्चिरप्रार्थितदर्शनेन ॥”)
दिव्यम् । इति मेदिनी ॥ आद्यस्य पर्य्यायः ।
अकरणिः २ । इत्यमरः ॥ अजीवनिः ३
अजननिः ४ अवग्रहः ५ निग्रहः ६ । इति
भरतः ॥ अभिसम्पातः ७ । इति ग्रन्थान्तरम् ॥
शेषस्य पर्य्यायः । शपनम् २ शपथः ३ । इत्य-
मरः ॥ मिथ्यानिरसनम् ४ । इति शब्दरत्ना-
वली ॥ (उपद्रवः । यथा, रामायणे । १ । २६ । ३५ ।
“उवास रजनीं तत्र ताडकाया वने सुखम् ।
मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि ।
रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥”
“मुक्तशापं अपगतोपद्रवम् ।” इति तट्टीका ॥
जलम् । यथा, ऋग्वेदे । १० । २८ । ४ ।
“प्रतीपं शापं नद्यो वहन्ति ।”
“नद्यो गङ्गाद्याः सरितः प्रतीपं प्रतिकूलं शापं
उदकं वहन्ति ।” इति तद्भाष्ये सायणः ॥)

शापटिकः, पुं, मयूरः । इति केचित् ॥

शापास्त्रः, पुं, (शाप एव अस्त्रं यस्य ।) मुनिः ।

इति त्रिकाण्डशेषः ॥

शाफरिकः, पुं, (शफरान् हन्तीति । शफर +

“पक्षिमत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति
ठक् ।) मत्स्यघारकः । इति केचित् ॥

शाब्दः, त्रि, (शब्दस्यायमिति । शब्द + अण् ।)

शब्दसम्बन्धी । यथा । एकः शाब्दोऽपरश्चार्थः ।
इति दायभागः ॥ (शब्दमयः । यथा, भाग-
वते । २ । २ । २ ।
“शाब्दस्य हि ब्रह्मण एष पन्था
यन्नामभिर्ध्यायति धीर पार्थैः ॥”)
सरस्वत्यां स्त्री, शाब्दी । इति केचित् ॥

शाब्दबोधः, पुं, (शाब्दः शब्दसम्बन्धी बोधः ।)

शब्दार्थज्ञानम् । न्यायमते पदार्थज्ञानजन्य-
ज्ञानम् । तस्य करणं पदज्ञानम् । तस्य कारणं
पदशक्तिज्ञानम् । कदाचित् लक्षणाज्ञानम् ।
एवं आकाङ्क्षायोग्यतासत्तितात्पर्य्यज्ञानञ्च ।
यथा, --
“पदज्ञानन्तु करणं द्वारं तत्र पदार्थधीः ।
शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥”
इति भाषापरिच्छेदः ॥ * ॥
शाब्दबोधप्रकारं दर्शयति पदज्ञानन्त्विति ।
न तु ज्ञायमानं पदं करणं पदाभावेऽपि मौनि-
श्लोकादौ शाब्दबोधात् । पदार्थधीरिति पद-
जन्यपदार्थस्मरणं व्यापारः । अन्यथा पदज्ञान-
वतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्द-
बोधापत्तेः । तत्रापि वृत्त्या पदजन्यत्वं बोध्यं
अन्यथा घटादिपदात् समवायसम्बन्धेन आकाश-
स्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः ।
वृत्तिः शक्तिलक्षणान्यतरसम्बन्धः । अत्रैव शक्ति-
ज्ञानस्य उपयोगः । पूर्व्वं शक्तिग्रहाभावे
पदज्ञानेऽपि तत्सम्बन्धेन स्मरणानुपपत्तेः ।
पदज्ञानस्य हि सम्बन्धिज्ञानविधेयार्थस्मार-
कत्वम् । * । शक्तिश्च पदेन सह पदार्थस्य
सम्बन्धः । अस्माच्छब्दादयमर्थो बोद्धव्य इती-
श्वरेच्छारूपा आधुनिके नाम्नि शक्तिरस्त्येव
एकादशेऽहनि पिता नाम कुर्य्यादितीश्वरे-
च्छायाः सत्त्वात् आधुनिके तु सङ्केते न शक्ति-
रिति सम्प्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः
किन्त्विच्छैव तेनाधुनिकसङ्केतेऽपि शक्तिरस्तीति
वदन्ति । * । शक्तिग्रहश्च व्याकरणादितः ।
तथा हि ।
“शक्तिग्रहं व्याकरणोपमान-
कोषाप्तवाक्याद्ब्यवहारतश्च ।
वाक्यस्य शेषाद्बिवृतेर्व्वदन्ति
सान्निध्यतः सिद्धपदस्य वृद्धाः ॥”
धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्-
भवति क्वचित्तु सति बाधके त्यज्यतेऽपि । यथा,
वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते ।
चैत्रः पचतीत्यादौ कर्त्रा सह चैत्रस्याभेदान्वय-
स्तत्र गौरवान्न जन्यते किन्तु कृतौ शक्तिग्रहो
लाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते ।
न च कर्त्तुरनभिधानाच्चैत्रादिपदानन्तरं तृतीया
स्यादिति वाच्यं कर्त्तृसंख्यानभिधानस्य तत्र
तन्त्रत्वात् । संख्याभिधानयोग्यश्च कर्म्मत्वाद्यन-
वरुद्धः । प्रथमान्तपदोपस्थाप्यकर्म्मत्वादीत्यस्य
विशेषणत्वतात्पर्य्याविषयत्वमर्थः तेन चैत्र इव
पृष्ठ ५/०५०
गच्छतीत्यादौ न चैत्रे संख्यान्वयः । यत्र
कर्म्मादौ न विशेषणत्वतात्पर्य्यं तद्वारणाय
प्रथमान्तेति । यद्वा धात्वर्थातिरिक्ताविशे-
षणत्वं प्रथमदलार्थः तेन चैत्र इव गच्छ-
तीत्यत्र चैत्रादेर्व्वारणं स्तोकं पचतीत्यादौ
स्तोकादेर्व्वारणाय च द्वितीयदलम् । तस्य
द्वितीयान्तोपस्थाप्यत्वाद्बारणम् । एवं व्यापारे-
ऽपि न शक्तिर्गौरवात् । रथो गच्छति इत्यादौ
तु स्वव्यापारे आश्रयत्वे वा लक्षणा । जानाति
इत्यादौ तु आश्रयत्वे नश्यतीत्यादौ प्रतियोगित्वे
निरूढलक्षणा । उपमानाद्यथा शक्तिग्रह-
स्तथोक्तम् ॥ * ॥ एवं कोषादपि शक्तिग्रहः
सति बाधके क्वचित्त्यज्यते यथा नीलादि-
पदानां नीलरूपादौ नीलादिविशिष्टे च शक्तिः
कोषे व्युत्पादिता तथापि लाघवात् नीलादौ
शक्तिः नीलादिविशिष्टे लक्षणेति ॥ * ॥ एव-
माप्तवाक्यादपि । यथा, कोकिलः पिकपद-
वाच्यः इत्यादिशब्दात् पिकादिशक्तिग्रहः ॥ * ॥
एवं व्यवहारादपि । यथा, प्रयोजकवृद्धेन घट-
मानयेत्युक्तं तत् श्रुत्वा प्रयोज्यवृद्धेन घट आनीत-
स्तदवधार्य्य पार्श्वस्थो बालो घटानयनरूपं
कार्य्यम् । घटमानय इति शब्दप्रयोज्यं अव-
धारयति ततश्च घटमपसारय गामानय इत्यादौ
आवापोद्बापाभ्यां घटादिपदानां कार्य्यान्वित-
घटादौ शक्तिं गृह्णाति ॥ * ॥ एवं वाक्यशेषा-
दपि शक्तिग्रहः । यथा यवमयश्चरुर्भवतीत्यत्र
यवपदस्य दीर्घशूकविशिष्टे आर्य्याणां प्रयोगः
कङ्गौ च म्लेच्छानाम् । तत्र हि यथान्या ओष-
धयो म्लायन्ते तथैते मोदमाना इवोत्तिष्ठन्ति ॥
“वसन्ते सर्व्वशस्यानां जायते पत्रशातनम् ।
मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥”
इति वाक्यशेषात् दीर्घशूके शक्तिर्निर्णीयते
कङ्गौ तु शक्तिभ्रमात् प्रयोगः । नानाशक्ति-
कल्पने गौरवात् । हरिपदादौ तु विनिगमका-
भावान्नानाशक्तिकल्पनम् ॥ * ॥ एवं विवरणा-
दपि शक्तिग्रहः । विवरणन्तु तत्समानार्थ-
पदान्तरेण तदर्थकथनम् । यथा घटोऽस्ति
इत्यस्य कलसोऽस्तीत्यनेन विवरणाद्वटपदस्य
कलसे शक्तिग्रहः । एवं पचति इत्यस्य पाकं
करोति इत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं
कल्प्यते ॥ * ॥ एवं प्रसिद्धपदसान्निध्यादपि
शक्तिग्रहः । यथा । इह सहकारतरौ मधुरं
पिको रौति इत्यादौ पिकपदस्य शक्तिग्रह
इति । तत्र जातावेव शक्तिर्न तु व्यक्तौ व्यभि-
चारादानन्त्याच्च ॥ * ॥ शक्तं पदन्तु क्वचिद्-
यौगिकं क्वचिद्रूढं क्वचिद्योगरूढं क्वचिद्-
यौगिकरूढम् । यत्रावयवार्थ एव बुध्यते तद्-
यौगिकं यथा पाचकादिपदम् । यत्रावयव-
शक्तिनैरपेक्षेण समुदायशक्तिमात्रेण बुध्यते
तद्रूढं यथा गोपदमण्डपादि पदम् । यत्र तु
अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तद्-
योगरूढं यथा पङ्कजादिपदम् । तथा हि
पङ्कजपदमवयवशक्त्या पङ्कजनिकर्त्तृरूपमर्थं
बोधयति समुदायशक्त्या च पद्मत्वेन रूपेण पद्मं
बोधयति । यत्र अवयवार्थरूढ्यर्थयोः स्वात-
न्त्र्येण बोधस्तद्यौगिकरूढं यथोद्भिदादिपदम् ।
तत्र हि ऊर्द्ध्वभेदनकर्त्ता तरुगुल्मादिरपि
बुध्यते । इति सिद्धान्तमुक्तावली ॥

शाब्दिकः, पुं, (शब्दं करोतीति । शब्द + “शब्द-

दर्द्दुरं करोति ।” ४ । ४ । ३४ । इति ठक् ।)
शब्दशास्त्रवेत्ता । वैयाकरणः । आदिशाब्दिका
यथा, --
“इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥”
इति कविकल्पद्रुमः ॥
नव्यशाब्दिका यथा । क्रमदीश्वरः । सर्व्ववर्म्मा ।
पद्मनाभमिश्रः । वोपदेवः । सत्सर्व्वानन्दः ।
भरतमल्लिकप्रभृतयः ॥ शब्दसम्बन्धिनि, त्रि ॥

शाम, [न्] क्ली, साम । इत्यमरटीकासार-

सुन्दरी ॥

शामनं, क्ली, (शमनमेव । स्वार्थे अण् ।) मारणम् ।

शान्तिः । इति केचित् ॥

शामनः, पुं, (शमन एव । प्रज्ञाद्यण् ।) शमनः ।

इति पुराणम् ॥

शामनी, स्त्री, (शमनस्य यमस्येयमिति । शमन +

अण् । ङीप् ।) दक्षिणा दिक् । इति राज-
निर्घण्टः ॥

शामित्रं, क्ली, यज्ञम् । पशुबन्धनम् । यज्ञपात्रम् ।

इति केचित् ॥ (शमितुरिदम् । शमितृ + अण् ।
पशुहिंसनम् । यथा, भागवते । १ । १६ । ८ ।
“इहोपहूतो भगवान् मृत्युः शामित्रकर्म्मणि ।
न कश्चिन्म्रियते तावद् यावदास्ते इहान्तकः ॥”)

शामीलं, क्ली, (शम्याः विकारः । “शम्याष्ट्-

लञ् ।” ४ । ३ । १४२ । इति ट्लञ् ।) भस्म ।
इति सिद्धान्तकौमुदी ॥

शामीली, स्त्री, स्रुक् । इति सिद्धान्तकौमुदी ॥

शाम्बरी, स्त्री, शम्बरदैत्यनिर्म्मितमाया । इन्द्र-

जालादिमाया । इत्यमरभरतौ ॥

शाम्बविकः, पुं, शाङ्खिकः । इति जटाधरः ॥

शाम्बुकः, पुं, शम्बूकः । इति शब्दरत्नावली ॥

शामुक इति भाषा ॥

शाम्बूकः, पुं, शम्बुकः । इत्यमरटीकायां भरतः ॥

शाम्भवं, क्ली, (शम्भोरुपवेशाय इदम् । अण् ।)

देवदारु । इति राजनिर्घण्टः ॥

शाम्भवः, पुं, कर्पूरः । शिवमल्ली । गुग्गुलुः । इति

राजनिर्घण्टः ॥ विषभेदः । इति शब्दचन्द्रिका ॥
शम्भुपुत्त्रः । शम्भुपूजकः । शम्भुसम्बन्धिनि, त्रि ॥
(यथा, कथासरित्सागरे । १२ । १६७ ।
“तत्र च प्रविशन्त्यग्रे बहवः शाम्भवा गणाः ॥”)

शाम्भवी, स्त्री, नीलदूर्व्वा । इति राजनिर्घण्टः ॥

दुर्गा । यथा, --
“शाम्भवी देवमाता च चिन्ता रत्नप्रिया
सदा ॥”
इति तन्त्रसारे दुर्गाशतस्तोत्रम् ॥

शायकः, पुं, (शाययति शत्रून् । शी + णिच् +

ण्वुल् । यद्वा, शेते तूणीरे इति । शी + ण्वुल् ।)
बाणः । इति जटाधरः ॥ (यथा, नैषधचरिते ।
४ । १०१ ।
“प्रियसखीनिवहेन सहाथ सा
व्यरचयद्गिरमर्द्धसमस्यया ।
हृदयमर्म्मणि मन्मथशायकैः
क्षततमा बहु भाषितुमक्षमा ॥”)
खड्गः । इत्यमरटीकायां स्वामी ॥

शार, त् क दौर्ब्बल्ये । इति कविकल्पद्रुमः । (अदन्त

चुरा०-पर०-अक०-सेट् ।) अशशारत् । इति
दुर्गादासः ॥

शारं, त्रि, (शॄ + घञ् ।) कर्व्वुरवर्णः । इत्यमरः ॥

शारः, पुं, (शीर्य्यतेऽनेन शृणाति वा । शॄ +

“शॄ वायुवर्णनिवृत्तेषु ।” ३ । ३ । २१ । इत्यस्य
वार्त्तिकोक्त्या घञ् ।) वायुः । इत्यमरः ॥
अक्षोपकरणम् । इति मेदिनी ॥ हिंसनम् ।
कर्व्वुरवर्णः कुशे, स्त्री । इति केचित् ॥

शारङ्गः, पुं, (शीर्य्यते आतपैः । शॄ + “तरत्या-

दिभ्यश्च ।” उणा० १ । ११९ । इति अङ्गच् ।)
चातकः । (यथा, --
“अष्टौ मासान् जलधर तवापेक्षया शुष्ककण्ठः
शारङ्गोऽहं निरवधिवतव्यानिनायाति कृत्स्नात् ।
आस्तां तावत् सलिलकणिकालाभसम्भावनापि
वर्षारम्भप्रथमसमये दारुणो वज्रपातः ॥”
इत्युद्भटः ॥)
हरिणः । (यथा, शाकुन्तले । १ ।
“एष राजेव दुष्मन्तः शारङ्गेनातिरंहसा ॥”)
हस्ती । भृङ्गः । मयूरः । कर्व्वुरवर्णविशिष्टे,
त्रि । इत्यमरटीकायां मुकुटादयः ॥

शारङ्गी, स्त्री, (शारङ्ग + ङीष् ।) वाद्ययन्त्र-

विशेषः । इति शब्दरत्नावली ॥

शारदं, क्ली, (शरदि भवम् । शरद् + “सन्धिवेला-

द्यृतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ।)
श्वेतकमलम् । इति राजनिर्घण्टः ॥ (यथा,
महाभारते । २ । ६१ । ३४ ।
“शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया ।
शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥”)
शस्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥

शारदः, पुं, (शरद् + अण् ।) कासः । वकुलः ।

हरिन्मुद्गः इति राजनिर्घण्टः ॥ वत्सरः । इति
मेदिनी ॥ पीतमुद्गः । इति हेमचन्द्रः ॥ रोगः ।
इति सिद्धान्तकौमुदी

शारदः, त्रि, (शरदि भवः । शरद् + अण् ।)

शरज्जातः । (यथा, मनौ । ६ । ११ ।
“वासन्तशारदैर्मेघैर्मुन्यन्नैः स्वयमाहृतैः ॥”)
नूतनः । अप्रतिभः । इति मेदिनी ॥ शालीनः ।
इति विश्वः ॥

शारदा, स्त्री, सरस्वती । इति त्रिकाण्डशेषः ॥

(यथा, महिम्नस्तोत्रे ।
“लिखति यदि गृहीत्वा शारदा सर्व्वकालम् ॥”)
दुर्गा । (यथा, भागवते । १० । २ । १२ ॥
पृष्ठ ५/०५१
“माया नारायणीशानी शारदेत्यम्बिकेति
च ॥”)
अस्या व्युत्पत्तिर्यथा, --
“शरत्काले पुरा यस्मात् नवम्यां बोधिता सुरैः ।
शारदा सा समाख्याता पीठे लोके च नामतः ॥”
इति तिथ्यादितत्त्वम् ॥
वीणाविशेषः । इति शब्दरत्नावली ॥ ब्राह्मी ।
सारिवा । इति राजनिर्घण्टः ॥

शारदिकं, क्ली, (शरद् + “श्राद्धे शरदः ।” ४ । ३ ।

१२ । इति ठञ् ।) श्राद्धम् । इति सिद्धान्त-
कौमुदी ॥

शारदिकः, पुं, (शरद् + “विभाषा रोगातपयोः ।”

४ । ३ । १३ । इति ठञ् ।) रोगः । आतपः ।
इति सिद्धान्तकौमुदी ॥

शारदी, स्त्री, (शारद + ङीप् ।) तोयपिप्पली ।

सप्तपर्णः । इति मेदिनी ॥ कोजागरपूर्णिमा ।
इति शब्दरत्नावली ॥ शरत्कालीने, त्रि ।
यथा, स्कान्दभविष्ययोः ।
“शारदीचण्डिकापूजा त्रिविधा परिगीयते ।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥
सात्त्विकी जपयज्ञाद्यैर्नैवेद्यैश्च निरामिषैः ।
माहात्म्यं भगवत्याश्च पुराणादिषु कीर्त्तितम् ॥
पाठस्तस्य जपः प्रोक्तः पठेद्देवीमनाः प्रिये ।
राजसी वलिदानेन नैवेद्यैः सामिषैस्तथा ॥
सुरामांसाद्युपहारैर्जपयज्ञैर्विना तु या ।
विना मन्त्रैस्तामसी स्यात् किरातानाञ्च
सम्मता ॥”
इति तिथ्यादितत्त्वम् ॥
(संवत्सरसम्बन्धिनी । यथा, ऋग्वेदे । १ । १३१ । ४ ।
“यदिन्द्रशारदीरवातिरः सा सहानो अवा-
तिरः ॥”)

शारदीयमहापूजा, स्त्री, (शारदीया महापूजा ।)

शरत्कालीनदुर्गामहापूजा । यथा, --
“शारदीया महापूजा चतुःकर्म्ममयी शुभा ।
तां तिथित्रयमासाद्य कुर्य्यात् भक्त्या विधा-
नतः ॥”
इति तिथ्यादितत्त्वम् ॥
अपि च ।
“हते घोरे महावीरे सुरासुरभयङ्करे ।
देवीमुपासका देवाः प्रभुता राक्षसास्तथा ॥
समेताः सर्व्वदेवास्ते देवीं भक्त्या तुतोषिरे ।
वलिञ्च दद्युर्भूतानां महिषाजामिषेण च ॥
एवं तस्मिन् दिने वत्स प्रेतभूतसमाकुलम् ।
कृतवान् सर्व्वदेवश्च पूजाश्च शाश्वतीर्महान् ॥
जलदान्तेऽश्विने मासि महिषारिनिवर्हिणीम् ।
देवीं संपूजयित्वा तु अष्टमीष्वर्द्धरात्रिषु ॥
ये घातयन्ति सदा भक्त्या ते भवन्ति महाबलाः ।
बलिञ्च ये प्रयच्छन्ति सर्व्वभूतविनाशनम् ॥
तेषान्तु तुष्यते देवी यावत् कल्पन्तु शाङ्करम् ।
क्रीडते विविधैर्भोगैर्देवलोके सुदुर्लभे ॥
यावद्भूर्व्वायुराकाशं जलं वह्निशशिग्रहाः ।
तावच्च चण्डिकापूजा भविष्यति सदा भुवि ॥
प्रावृट्काले विशेषेण आश्विने ह्यष्टमीषु च ।
महाशब्दो नवम्याञ्च लोके ख्यातिं गमिष्यति ॥
इन्द्र उवाच ।
आश्विने घातिते घोरे नवमी प्रतिवत्सरम् ।
श्रोतुमिच्छाम्यहं तात उपवामव्रतादिकम् ॥
महाव्रतं महापुण्यं शङ्कराद्यैरनुष्ठितम् ।
कर्त्तव्यं देवराजेन्द्र देवीभक्तिसमन्वितैः ॥
कन्यासंस्थे रवौ शक्र शुक्लामारभ्य नन्दिकाम् ।
अपाशी त्वथ वैकाशी नक्ताशी वाथ वाय्वदः ॥
प्रातःस्नायी जितद्वन्द्बः त्रिकालं शिवपूजकः ।
जपहोमसमायुक्तः कन्यकां भोजयेत् सदा ॥
अष्टम्यां नवगेहानि दारुजानि शुभानि च ।
एवं वा चित्तभावेन कारयेत् सुरसत्तम ॥
तस्मिन् देवी प्रकर्त्तव्या हैमी वा राजती च वा ।
मृद्वार्क्षी लवनोपेता खड्गे शूलेऽथ पूजयेत् ॥
सर्व्वोपहारसम्पन्नो वस्त्ररत्नफलादिभिः ।
कारयेद्रथदोलादीन् पूजाञ्च वलिदैवकीम् ॥
पुष्पादिद्रोणविल्वाम्रजातीपुन्नागचम्पकैः ।
विचित्रां कारयेत् पूजां अष्टम्यामुपवासयेत् ॥
दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः सुभावितः ।
तदर्द्धयामिनीशेषे विजयार्थे नृपोत्तमैः ॥
पञ्चाब्दं लक्षणोपेतं गन्धधूपस्रगर्च्चितम् ।
विधिवत कालि कालीति जप्त्वा खड्गेन घात-
येत् ॥
तस्योत्थं रुधिरं मांसं गृहीत्वा पूतनादिषु ।
नैरृताय प्रदातव्या महाकौशिकमन्त्रितम् ॥
तस्याग्रतो नृपः स्नायाच्छक्रं कृत्वा तु पिष्टजम् ।
खड्गेन घातयित्वा तु दद्यात् स्कन्दविशा-
खयोः ॥”
ततो देवीं स्नापयेत् प्राज्ञः क्षीरसर्पिर्जला-
दिभिः ।
कुङ्कुमागुरुकर्पूरचन्दनैश्चारुधूपकैः ॥
हैमानि पुष्परत्नानि वासांसि स्वाहतानि च ।
निवेद्यं सुप्रभूतन्तु देयं देव्याः सुभावितैः ॥
अश्वमेधमवाप्नोति भक्तिमान् सुरसत्तम ।
महानवम्यां पूजेयं सर्व्वकामप्रदायिका ॥
सर्व्वेषु सर्व्ववर्णेषु तव भक्त्या प्रकीर्त्तिता ।
कृत्वाप्नोति यशो राज्यं पुत्त्रायुर्धनसम्पदः ॥”
इति देवीपुराणे २९ । ३० अध्यायात् सङ्कलितं
न तु सक्रमकम् ॥

शारिः, पुं, (शॄ हिंसायाम् + इञ् ।) अक्षोप-

करणम् । पाशकादेर्बलम् । गुटिका । इति
मेदिनी ॥ तत्पर्य्यायः । शारः २ खेलनी ३ ।
इति हेमचन्द्रः ॥

शारिः, स्त्री, (शॄ + “श्रः शकुनौ ।” उणा० ४ ।

१२७ । इति इञ् ।) शकुनिकाभेदः । युद्धार्थ-
गजपर्य्याणम् । व्यवहारान्तरम् । इति मेदिनी ॥
कपटः । इति धरणिः ॥

शारिका, स्त्री, (शारिरेव । स्वार्थे कन् ।) पक्षि-

विशेषः । मयना इति भाषा । तत्पर्य्यायः ।
पीतपादा २ गोराटी ३ गोकिराटिका ४ ।
इति हेमचन्द्रः ॥ सारिका ५ शारी ६ चित्र-
लोचना ७ शारिः ८ । इति शब्दरत्नावली ॥
मदनशारिका ९ शलाका १० । इति जटा-
धरः ॥ वीणादिवादनम् । तत्पर्य्यायः । कोणः
२ । इति हेमचन्द्रः ॥

शारिफलं, क्ली पुं, (शारीणां खेलनीनां कलम् ।)

शारिपट्टः । शारिखेलनाधारः । छक् इति
भाषा । तत्पर्य्यायः । अष्टापदम् २ । इत्यमरः ॥
फलकः ३ । इति शब्दरत्नावली ॥ आकर्षः ४
शारिफलकः ५ बिन्दुतन्त्रः ६ अक्षपीठी ७ ।
इति जटाधरः ॥

शारिफलकः, पुं, क्ली, (शारीणां फलकः ।) शारि-

फलम् । इति जटाधरः ॥

शारिवा, स्त्री, श्यामलता । तत्पर्य्यायः । गोपी २

श्यामा ३ अनन्ता ४ उत्पलशारिवा ५ । इत्य-
मरः ॥ “पञ्च श्यामलतायाम् । नागजिह्वाया-
मिति केचित् । गोप्यादित्रयं श्यामलतायां
अनन्तादिद्बयं अनन्तमूले इति केचित् । गुपू
रक्षणे शोणादित्वादीप् गोपा च ।
‘गोपीश्यामा गोपपत्नी गोपा गोपालिकापि च ।’
इति वाचस्पतिः ।
‘एकं वा शारिवामूलं सर्व्वव्रणविशोधनम् ।’
इति वैद्यकम् ।” इति भरतः ॥
अस्या गुणः । वायुपित्तरक्ततृष्णाच्छर्दिज्वर-
नाशित्वम् । इति राजवल्लभः ॥

शारिशृङ्खला, स्त्री, (शारीणां शृङ्खला यत्र ।)

पाशकविशेषः । यथा, --
“चुञ्चुरी तिन्तिडी द्यूतं पञ्चमी शारिशृङ्खला ।
नयपीठी चाष्टकाक्षो नयः स्याज्जयपुत्त्रकः ।
एते पाशकभेदाः स्युर्जयकोलाहलोऽपि च ॥”
इति शब्दरत्नावली ॥

शारी, स्त्री, (शॄ + इञ् । वा ङीष् ।) कुशा ।

इति केचित् ॥ (शकुनिकाभेदः । यथा, आर्य्या-
सप्तशत्याम् । ६२३ ।
“सा विरहदहनदूना मृत्वा मृत्वापि जीवति
वराकी ।
शारीव कितव भवतानुकूलिता पातिताक्षेण ॥”)

शारीरं, क्ली, वृषः । (शरीरे भवः । शरीर +

अण् ।) शरीरजाते, त्रि । इति मेदिनी ॥ * ॥
शारीरदण्डो यथा, --
“दिग्दण्डं प्रथमं कुर्य्यात् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डञ्च वधदण्डमतः परमिति ॥”
वधदण्डोऽपि शारीरो ब्राह्मण्यव्यतिरिक्तानाम् ।
इति मिताक्षरायां व्यवहारकाण्डम् ॥ * ॥
शारीरदुःखं यथा, --
“आध्यात्मिको वै द्विविधः शारीरो मानम्ब-
स्तथा ।
शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥
कामक्रोधभयद्बेषलोभमोहविषादजः ।
पृष्ठ ५/०५२
शोकासूयापमानेर्ष्यामात्सर्य्यादिभयस्तथा ॥
मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ।
सुकुमारतनुर्गर्भे जन्तुर्ब्बहुमलावृते ॥
उल्वसंवेष्टितो भुग्नपृष्ठग्रीवातिसंहतिः ।
अत्यम्लकटुतीक्ष्णोष्णलवणैर्मातृभोजनैः ॥
अतितापिभिरत्यर्थं वर्द्धमानातिवेदनः ।
प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ॥
शकृन्मूत्रमहापङ्कशायी सर्व्वत्र पीडितः ।
निरुच्छ्वासः सचैतन्यः स्मरन् जन्मशतान्यथ ॥
आस्ते गर्भेऽतिदुःखेन निजकर्म्मनिबन्धनः ।
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ॥
प्रजापत्येन वातेन पीड्यमानास्थिबन्धनः ।
अधोमुखो वै ह्रियते प्रवलैः सूतिमारुतैः ॥
क्लेशैर्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ।
मूर्च्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ॥
विज्ञानं भ्रंशमाप्नोति जातश्च मुनिसत्तम ।
कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ॥
पूतिव्रणान्निपतितो धरण्यां क्रमिको यथा ।
कण्डूयनेऽपि वाशक्तः परिवर्त्तेऽप्यनीश्वरः ॥
स्नानपानादिकाहारमप्याप्नोति परेच्छया ।
अशुचिः स्रस्तरे सुप्तः कीटदंशादिभिस्तथा ॥
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ।
जन्मदुःखान्यनेकानि जन्मनोऽनन्तराणि च ॥
बालभावे यदाप्नोति आधिभौतादिकानि च ।
अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ॥
न जानाति कुतः कोऽहं क्व वा गन्ता किमा-
त्मकः ॥”
इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥ * ॥
अथातः शरीरसंख्याव्याकरणं शारीरं व्याख्या-
स्यामः । शुक्रशोणितं गर्भाशयस्थमात्मप्रकृति-
विकारसंमूर्च्छितं गर्भ इत्युच्यते । तच्च चेतना-
वस्थितं वायुर्व्विभजति । तेज एनं पचति ।
आपः क्लेदयन्ति । पृथिवी संहन्ति । आकाशं
विवर्द्धयति । एवं विवर्द्धितः स यदा हस्तपाद-
जिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा श-
रीरमिति संज्ञां लभते । तच्च षडङ्गं शाखा-
चतस्नो मध्यं पञ्चमं षष्ठं शिर इति ॥ * ॥ अतः
परं प्रत्यङ्गानि कथ्यन्ते । मस्तकोदरपृष्ठनाभि-
ललाटनासाचिवुकवस्तिग्रीवा इत्येता एकैकाः ।
कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषणपार्श्व-
स्फिक्जानुबाहूरुप्रभृतयो द्वे द्वे । विंशतिरङ्गु-
लयः । स्रोतांसि च वक्ष्यमाणानि । एष प्रत्यङ्ग-
विभाग उक्तः ॥ * ॥ तस्य पुनः संख्यानम् । त्वचः
कला धातवो मला दोषा यकृत्प्लीहानौ फुप्-
फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ
स्रोतांसि कण्डरा जालानि कूर्च्चा रज्जवः सेवन्यः
संघाताः सीमन्ता अस्थीनि सन्धयः स्नायवः
पेश्यो मर्म्माणि सिरा धमन्यो योगवहानि
स्रोतांसि च ॥ * ॥ त्वचः सप्त । कलाः सप्त ।
आशयाः सप्त । धातवः सप्त । सप्त शिरा-
शतानि । पञ्च पेशीशतानि । नव स्नायुशतानि ।
त्रीण्यस्थिशतानि । द्वे दशोत्तरे सन्धिशते । सप्तो-
त्तरं मर्म्मशतम् । चतुर्विंशतिर्धमन्यः । त्रयो
दोषास्त्रयो मलाः । नव स्रोतांसि इति
समासः ॥ * ॥ विस्तारोऽत ऊर्द्ध्वम् । त्वचोऽभि-
हिताः कला धातवो मला दोषा यकृत्प्लीहानौ
फुप्फुस उण्डुको हृदयं वृक्कौ च ॥ * ॥ आश-
यास्तु वाताशयः पित्ताशयः श्लेष्माशयो रक्ता-
शय आमाशयः पक्वाशयो मूत्राशयः स्त्रीणां
गर्भाशयोऽष्टम इति ॥ * ॥ सार्द्धत्रिव्यामान्यन्त्राणि
पुंसां स्त्रीणामर्द्धव्यामहीनानि । श्रवणनयन-
वदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां
बहिर्मुखान्येतान्येव स्त्रीणामपराणि च त्रीणि
द्वेस्तनयोरधस्ताद्रक्तवहञ्च ॥ * ॥ षोडश कण्डराः ।
तासाञ्चतस्रः पादयोस्तावत्यो हस्तग्रीवापृष्ठेषु ।
तत्र हस्तपादगतानां कण्डराणां नखाः प्ररोहाः ।
ग्रीवाहृदयनिबन्धिनीनां अधोभागगतानां मेढ्रं
श्रोणिपृष्ठनिबन्धिनीनां अधोभागगतानां विम्बः ।
मूर्द्धोरुवक्षोऽक्षपिण्डादीनाञ्च मांससिरास्नाय्व-
स्थिजालानि प्रत्येकं चत्वारि चत्वारि । तानि
मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि
परस्परसंश्लिष्टानि परस्परगवाक्षितानि चेति ।
यैर्गवाक्षितमिदं शरीरम् ॥ * ॥ षट् कूर्च्चास्ते
हस्तपादग्रीवामेढ्रेषु । हस्तयोर्द्वौ पादयोर्द्बौ
ग्रीवामेढ्रयोरेकैकः । महत्यो मांसरज्जवश्चतस्रः
पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्ये
आभ्यन्तरे च द्वे ॥ * ॥ सप्त सेवन्यः । शिरसि
विभक्ताः पञ्च जिह्वासेफसोरेकैका ताः परि-
हर्त्तव्याः शस्त्रेण ॥ * ॥ चतुर्द्दशास्थ्नां संघाताः ।
तेषां त्रयो गुल्फजानुवङ्क्षणेषु । एतेनेतरसक्थि-
बाहू च व्याख्यातौ । त्रिकशिरसोरेकैकः ॥ * ॥
चतुर्द्दशैव सीमन्ताः । ते चास्थिसंघातवद्गण-
नीया यतस्तैर्युक्ता अस्थिसंघाताः । ये ह्युक्ताः
संघातास्तु खल्वष्टादशैकेषाम् ॥ * ॥ त्रीणि स
षष्ठान्यस्थिशतानि वेदवादिनो भाषन्ते । शल्य-
तन्त्रे तु त्रीण्येव शतानि । तेषां सविंशमस्थि-
शतं शाखासु । सप्तदशोत्तरं शतं श्रोणिपार्श्व-
पृष्ठोदरोरःसु । ग्रीवां प्रत्यूर्द्ध्वं त्रिषष्टिः । एव-
मस्थ्नां त्रीणि शतानि पूर्य्यन्ते । एकैकस्यान्तु
पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश । तल-
कूर्च्चगुल्फसंश्रितानि दश । पार्ष्ण्यामेकम् ।
जङ्घायां द्बे । जानुन्येकम् । एकमूराविति ।
त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति । एतेनेतर-
सक्थिबाहू च व्याख्यातौ । श्रोण्यां पञ्च तेषां
गुदभगनितम्बेषु चत्वारि । त्रिकसंश्रितमेकम् ।
पार्श्वे षट्त्रिंशदेवमेकस्मिन् द्वितीयेऽप्येवम् ।
पृष्ठे त्रिंशत् । अष्टावुरसि । द्वे अक्षकसंज्ञे ।
ग्रीवायां नवकम् । कण्ठनाड्यां चत्वारि । द्बे
हन्वोः । दन्ता द्बात्रिंशत् । नासायां त्रीणि ।
एकं तालुनि । गण्डकर्णशङ्खेष्वेकैकम् । षट्-
शिरसि । एतानि पञ्चविधानि भवन्ति । तद्-
यथा । कपालरुचकतरुणबलयनलकसंज्ञानि ।
तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपा-
लानि । दशनास्तु रुचकानि । घ्राणकर्ण-
ग्रीवाक्षिकोषेषु तरुणानि । पाणिपादपार्श्व-
पृष्ठोदरोरःसु बलयानि । शेषाणि नलक-
संज्ञानि ॥ * ॥ भवन्ति चात्र ।
“अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः ।
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् ॥
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् ।
अस्थीनि न विनश्यन्ति साराण्येतानि देहि-
नाम् ॥
मांसान्यत्र निबद्धानि शिराभिः स्नायुभिस्तथा ।
अस्थीन्यालम्बनं कृत्वा न शीर्य्यन्ते पतन्ति वा ॥”
सन्धयस्तु द्विविधाश्चेष्टावन्तः स्थिराश्च ।
“शाखासु हन्वोः कट्याञ्च चेष्टावन्तस्तु सन्धयः ।
शेषास्तु सन्धयः सर्व्वे विज्ञेया हि स्थिरा बुधैः ॥”
संख्यातस्तु दशोत्तरे द्वे शते । तेषां शाखा-
स्वष्टषष्टिरेकोनषष्टिः कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वं
त्र्यशीतिः । एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयो
द्वावङ्गुष्ठे ते चतुर्द्दश । जानुगुल्फवङ्क्षणेष्वेकैकः ।
एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति । एते-
नेतरसक्थिबाहू च व्याख्यातौ । त्रयः कटी-
कपालेषु । चतुर्व्विंशतिः पृष्ठवंशे । तावन्त एव
पार्श्वयोः । उरस्यष्टौ । तावन्त एव ग्रीवायाम् ।
त्रयः कण्ठे । नाडीषु हृदयक्लोमनिबद्धास्वष्टा-
दश । दन्तपरिमाणा दन्तमूलेषु । एकः काक-
लके नासायाञ्च । द्वौ वर्त्ममण्डलजौ नेत्राश्रयौ ।
गण्डकर्णशङ्खेष्वेकैकः । द्वौ हनुसन्धी । द्बावु-
परिष्टाद्भ्रुवोः शङ्खयोश्च । पञ्च शिरःकपा-
लेषु । एको मूर्द्ध्नि ॥ * ॥ त एते सन्धयो-
ऽष्टविधाः । कोरोदूखलसामुद्गप्रतरतुन्नसेवनी-
वायसतुण्डमण्डलशङ्खावर्त्ताः । तेषामङ्गुलिमणि-
बन्धगुल्फजानुकूर्परेषु कोराः सन्धयः । कक्षा-
वङ्क्षणदशनेषूदूखलाः । अंसपीठगुदभगनितम्बेषु
सामुद्गाः । ग्रीवापृष्ठवंशयोः प्रतराः । शिरः-
कटीकपालेषु तुन्नसेवनी । हन्वोरुभयतस्तु
वायसतुण्डाः । कण्ठहृदयनेत्रक्लोमनाडीषु
मण्डलाः । श्रोत्रशृङ्गाटकेषु शङ्खावर्त्ताः ।
“तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ।
अस्थ्नान्तु सन्धयो ह्येते केवलाः परिकीर्त्तिताः ।
पेशास्नायुशिराणान्तु सन्धिसंख्या न विद्यते ॥”
नवस्नायुशतानि । तासां शाखासु षट् शतानि ।
द्बे शते त्रिंशच्च कोष्ठे । ग्रीवां प्रत्यूर्द्ध्वं सप्ततिः ।
एकैकस्यान्तु पादाङ्गुल्यां षट् निचितास्ता-
स्त्रिंशत् । तावत्य एव तलकूर्च्चगुल्फेषु । तावत्य
एव जंघायाम् । दशा जानुनि । चत्वारिंश-
दूरौ । दश वङ्क्षणे । शतमध्यर्द्धमेवमेकस्मिन्
सक्थ्नि भवन्ति । एतेनेतरसक्थिबाहू च
व्याख्यातौ । षष्टिः कट्याम् । अशीतिःपृष्ठे ।
पार्श्वयोः षष्टिः । उरसि त्रिंशत् । षट्त्रिंशत्
ग्रीवायाम् । मूर्द्ध्नि चतुस्त्रिंशत् । एवं नव-
स्नायुशतानि व्याख्यातानि ॥ * ॥ भवन्ति चात्र ।
“स्नायुश्चतुर्विधा विद्यात्तास्तु सर्व्वा निबोध मे ।
पृष्ठ ५/०५३
प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ॥
प्रतानवत्यः शाखासु सर्व्वसन्धिषु चाप्यथ ।
वृत्तास्तु कण्डराः सर्व्वा विज्ञेयाः कुशलैरिह ॥
आमपक्वाशयान्तेषु वस्तौ च शुषिराः खलु ।
पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ॥
नौर्यथा फलकास्तीर्णा बन्धनैर्ब्बहुभिर्युता ।
भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ॥
एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः ।
स्नायुभिर्ब्बहुभिर्बद्धास्तेन भारसहा नराः ॥
न ह्यस्थीनि न वा पेश्यो न शिरा न च सन्धयः ।
व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ॥
यः स्नायूः प्रविजानाति वाह्याश्चाभ्यन्तरा-
स्तथा ।
स गूढं शल्यमाहर्त्तुं देहाच्छक्नोति देहि-
नाम् ॥” * ॥
पञ्च पेशीशतानि भवन्ति । तासां चत्वारि
शतानि शाखासु । कोष्ठे षट्षष्टिः । ग्रीवां
प्रत्यूर्द्ध्वञ्चतुस्त्रिंशत् । एकैकस्यान्तु पादाङ्गुल्यां
तिस्रस्तिस्रस्ताः पञ्चदश । दश प्रपदे । पादो-
परि कूर्च्चसन्निविष्टास्तावत्य एव । दश गुल्फ-
तलयोः । गुल्फजान्वन्तरे विंशतिः । पञ्च
जानुनि । विंशतिरूरौ । दश वङ्क्षणे । शतमेव-
मेकस्मिन् सक्थ्नि भवन्ति । एते नेतरसक्थि-
बाहू च व्याख्यातौ । तिस्रः पायौ । एका
मेढ्रे । सेवन्यां चापरा । द्बे वृषणयोः । स्फिचोः
पञ्च पञ्च । द्बे वस्तिशिरसि । पञ्चोदरे ।
नाभ्यामेका । पृष्ठोर्द्ध्वसंनिविष्टाः पञ्च पञ्च
दीर्घाः । षट् पार्श्वयोः । दश वक्षसि । अक्ष-
कांसौ प्रति समन्तात् सप्त । द्वे हृदयामाश-
ययोः । षट् यकृत्प्लीहोण्डुकेषु । ग्रीवाया-
ञ्चतस्रः । अष्टौ हन्वोः । एकैका काकलकगलयोः ।
द्वे तालुनि । एका जिह्वायाम् । ओष्ठयोर्द्वे ।
घोणायां द्बे । द्वे नेत्रयोः । गण्डयोश्चतस्रः ।
कर्णयोर्द्वे । चतस्रो ललाटे । एका शिरसी-
त्येवमेतानि पञ्च पेशीशतानि ॥ * ॥
“सिरास्राय्वस्थिपर्व्वाणि सन्धयश्च शरीरिणाम् ।
पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्वतः ॥”
स्त्रीणान्तु विंशतिरधिका । दश तासां स्तनयो-
रेकैकस्मिन् । पञ्च पञ्च यौवने तासां परिवृद्धिः ।
अपत्यपथे चतस्रस्तासां प्रसृतेऽभ्यन्तरतो द्वे
मुखाश्रिते वाह्ये च प्रवृत्ते द्वे । गर्भच्छिद्र-
संश्रितास्तिस्रः । शुक्रार्त्तवप्रवेशिन्यस्तिस्र एव ।
पित्तपक्वाशयमध्ये गर्भाशयो यत्र गर्भस्तिष्ठति ।
तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिर-
मृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायु-
प्रच्छादका यथादेशं स्वभावतः एव भवन्ति ॥ * ॥
भवति चात्र ।
“पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षण-
मुष्कजाः ।
स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ॥”
मर्म्मसिरा धमनीस्रोतसामन्यत्र प्रविभागः ॥ * ॥
“शङ्खनाभ्याकृतिर्योनिः स्त्र्यावर्त्ता सा प्रकीर्त्तिता ।
तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥
यथा रोहितमत्स्यस्य मुखं भवति रूपतः ।
तत्संस्थानां तथारूपां गर्भशय्यां विदुर्ब्बुधाः ॥
आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः ।
स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ॥
त्वक्पर्य्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः ।
शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ॥
तस्मान्निःसंशयं ज्ञानं हर्त्ता शल्यस्य वाञ्छता ।
शोधयित्वा मृतं सम्यक् द्रष्टव्योऽङ्गविनिश्चयः ॥
प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टञ्च यद्भवेत् ।
समासतस्तदुभयं भूयो ज्ञानविवर्द्धनम् ॥
तस्मात् समस्तगात्रमविषोपहतं अदीर्घव्याधि-
पीडितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुष-
मवहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्ज-
वल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गं अप्र-
काशे देशे कोययेत् । सम्यक्प्रकुथितञ्चोद्धृत्य
ततो देहं सप्तरात्रादुशीरबालवेणुवल्कलकूची-
नामन्यतमेन शनैः शनैरवधर्षयंस्त्वगादीन्
सर्व्वानेव बाह्याभ्यन्तराङ्गप्रत्यङ्गविशेषान् यथो-
क्तान् लक्षयेच्चक्षुषा । श्लोकौ चात्र भवतः ।
“न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः ।
दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ॥
शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः ।
दृष्टश्रुताभ्यां सन्देहमवापो ह्याचरेत् क्रियाः ॥”
षष्ठोऽध्यायः ।
अथातः प्रत्येकमर्म्मनिर्देशं शारीरं व्याख्या-
स्यामः । सप्तोत्तरं मर्म्मशतम् । तानि मर्म्माणि
पञ्चात्मकानि । तद्यथा । मांसमर्म्माणि ।
सिरामर्म्माणि स्नायुमर्म्माणि । अस्थिमर्म्माणि ।
सन्धिमर्म्माणि चेति । न खलु मांससिरा-
स्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्म्माणि
भवन्ति यस्मान्नोपलभ्यन्ते । तत्रेकादश मांस-
मर्म्माणि । एकचत्वारिंशत् शिरामर्म्माणि ।
सप्तविंशतिः स्नायुमर्म्माणि । अष्टावस्थि-
मर्म्माणि । विशतिः सन्धिमर्म्माणि । तदेतत्
सप्तोत्तरं मर्म्मशतम् ॥ * ॥ तेषामेकादशैकस्मिन्
सक्थ्नि भवन्ति । एतेनेतरसक्थिबाहू च
व्याख्यातौ । उदरोरसोर्द्वादश । चतुर्दश पृष्ठे ।
ग्रीवां प्रत्यूर्द्ध्वं सप्तत्रिंशत् । तत्र सक्थिमर्म्माणि
क्षिप्रतलहृदयकूर्च्चकूर्च्चशिरोगुल्फेन्द्रवस्तिजान्वा-
ण्युर्व्वीलोहिताक्षाणि विटपञ्चेति । एतेनेतर-
सक्थि व्याख्यातम् ॥ * ॥ उदरोरसोस्तु । गुद-
वस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्य-
पस्तम्भौ चेति । पृष्ठमर्म्माणि तु कटीकतरुण-
कुकुन्दर-नितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ
चेति । बाहुमर्म्मणि तु क्षिप्रतलहृदयकूर्च्चकूर्च्च-
शिरोमणिबन्धेन्द्रवस्तिकुर्पराण्युर्घीलोहिताक्षाणि
कक्षधरञ्चेति । एतेनेतरो बाहुर्व्याख्यातः ।
जत्रूर्द्ध्वं मर्म्माणि । चतस्रो धमन्योऽष्टौ मातृकाः ।
द्वे कृकाटिके । द्वे विधुरे । द्वौ फणौ । द्बाव-
पाङ्गौ । द्बावावर्त्तौ । द्वावुत्क्षेपौ । द्बौ शङ्खा-
वेका स्थपनी । पञ्च सीमन्ताः । चत्वारि
शृङ्गाटकान्येकोऽधिपतिरिति । तत्र तलहृद-
येन्द्रवस्तिगुदस्तनरोहितानि मांसमर्म्माणि ।
नीलधमनी-मातृकाशृङ्गाटकापाङ्गस्थपनीफण-
स्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिवृ-
हतीलोहिताक्षोर्व्व्यःसिरामर्म्माणि । आणि-
विटपकक्षधरकूर्च्चकूर्च्चशिरोवस्तिक्षिप्रांसविधु-
रोत्क्षेपाः स्नायुमर्म्माणि । कटीकतरुणनित-
म्बांसफलकशङ्खास्त्वस्थिमर्म्माणि । जानुकुर्पर-
सीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्त्तकृका-
टिकाश्चेति सन्धिमर्म्माणि । तान्येतानि पञ्च
विकल्पानि मर्म्माणि भवन्ति । तद्यथा । सद्यः-
प्राणहराणि । कालान्तरप्राणहराणि । विशल्य-
घ्नानि । वैकल्यकराणि । रुजाकराणीति । तत्र
सद्यःप्राणहराण्येकोनविंशतिः । कालान्तर-
प्राणहराणि त्रयस्त्रिंशत् । त्रीणि विशल्य-
घ्नानि । चतुर्श्चत्वारिंशद्बैकल्यकराणि । अष्टौ
रुजाकराणीति ॥ * ॥ भवन्ति चात्र ।
“शृङ्गाटकान्यधिपतिः शङ्खो कण्ठशिरोगुदम् ।
हृदयं वस्तिनाभी च घ्नन्ति सद्योहतानि तु ॥
वक्षोमर्म्माणि सीमन्ततलक्षिप्रेन्द्रवस्तयः ।
कटीकतरुणे सन्धी पार्श्वजौ बृहती च या ॥
नितम्बाविति चैतानि कालान्तरहराणि तु ।
उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्द्दिशेत् ॥
लोहिताक्षाणि जानूर्वी कूर्च्चा विटपकूर्पराः ।
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ॥
अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा ।
वैकल्यकरणान्याहुरावर्त्तौ द्वौ तथैव च ॥
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्च्चशिरांसि च ।
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् ।
क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च ॥”
मर्म्माणि नाम मांसशिरास्नाय्वस्थिसन्धिसन्नि-
पातास्तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति ।
तस्मान्मर्म्मस्वभिहतास्तांस्तान् भावानापद्यन्ते ।
तत्र सद्यःप्राणहराण्याग्नेयान्यग्निगुणेष्वाशु
क्षीणेषु क्षपयन्ति । कालान्तरप्राणहराणि
सौम्याग्नेयान्यग्निगुणेष्वाशु क्षीणेषु क्रमेण च
सोमगुणेषु कालान्तरेण क्षपयन्ति । विशल्य-
प्राणहराणि वायव्यानि शल्यमुंखनिरुद्धो याव-
दन्तर्व्वायुस्तिष्ठति तावज्जीवत्युद्धृतमात्रे तु
शल्ये मर्म्मस्थानाश्रितो वायुर्निष्क्रामति तस्मात्
सशल्यो जीवत्युद्धृतशल्यो म्रियते । वैकल्य-
कराणि सौम्यानि सोमो हि स्थिरत्वाच्छैत्याच्च
प्राणावलम्बनं करोति । रुजाकराण्यग्निवायु-
गुणभूयिष्ठानि विशेषतश्च तौ रुजाकरौ ।
पाञ्चभौतिकीञ्च रुजामाहुरेके । केचिदाहु-
र्म्मांसादीनां पञ्चानामपि समस्तानां विवृद्धा-
नाञ्च समवायात् सद्यःप्राणहराणि । एक-
हीनानामल्पानां वा कालान्तरप्राणहराणि ।
द्बिहीनानां विशल्यप्राणहराणि । त्रिहीनानां
वैकल्यकराणि । एकस्मिन्नेव रुजाकराणीति ।
यतश्चैव मतोऽस्थिमर्म्मस्वप्यभिहतेषु शोणिता
गमनं भवति ॥ * ॥
पृष्ठ ५/०५४
“चतुर्व्विधा यास्तु शिराः शरीरे
प्रायेण ता मर्म्मसु सन्निविष्टाः ।
स्नाय्वस्थिमांसानि तथैव सन्धीन्
सन्तर्प्य देहं प्रतिपालयन्ति ॥
ततः क्षते मर्म्मणि ताः प्रवृद्धः
समन्ततो वायुरभिस्तृणोति ।
विवर्द्धमानस्तु स मातरिश्वा
रुजः सुतीव्राः प्रतनोति काये ॥
रुजाभिभूतन्तु पुनः शरीरं
प्रलीयते नश्यति चास्य संज्ञा ।
अतो हि शल्यं विनिहन्तुमिच्छन्
मर्म्माणि यत्नेन परीक्ष्य कर्षेत् ॥”
एतेन शेषं व्याख्यातम् । तत्र सद्यःप्राणहर-
मन्ते विद्धं कामान्तरेण मारयति । कालान्तर-
प्राणहरमन्ते विद्धं वैकल्यमापादयति । विशल्य-
प्राणहरमन्ते विद्धं कालान्तरेण क्लेशयति
रुजाञ्च करोति । रुजाकरमतीव्रवेदनं भवति ।
तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मार-
यन्ति । कालान्तरप्राणहराणि पक्षान्मासाद्वा ।
तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति ।
विशल्यप्राणहराणि वैकल्यकराणि च कदाचि-
दत्यभिहतानि मारयन्ति ॥ * ॥ अत ऊर्द्ध्वं
प्रत्येकशो मर्म्मस्थानान्यनुव्याख्यास्यामः । तत्र
पादाङ्गुष्ठाङ्गुल्योर्म्मध्ये क्षिप्रं नाम मर्म्म तत्र
विद्धस्याक्षेपकेण मरणम् । मध्यमाङ्गुलीमनु-
पूर्व्वेण मध्ये पादतलस्य तलहृदयं नाम तत्रापि
रुजाभिर्मरणम् । क्षिप्रस्योपरिष्टादुभयतः कूर्च्चो
नाम यत्र पादस्य भ्रमणवेपने भवतः । गुल्फ-
सन्धेरध उभयतः कूर्च्चशिरो नाम तत्र रुजा-
शोफौ । पदजङ्घयोः सन्धाने गुल्फो नाम तत्र
रुजस्तब्धपादता खञ्जता वा । पार्ष्णिं प्रति
जङ्घामध्ये इन्द्रवस्तिर्नाम तत्र शोणितक्षये
मरणम् । जङ्घोर्व्वोः सन्धाने जानु नाम तत्र
खञ्जता जानुन ऊर्द्ध्वमुभयतस्त्र्यङ्गुलमाणिर्नाम
तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च । ऊरु-
मध्ये ऊर्व्वी नाम तत्र शोणितक्षयात् सक्थि-
शोषः । ऊर्व्या उर्द्ध्वमधोवङ्क्षणसन्धेरूरुमूले
जोहिताक्षं नाम तत्र लोहितक्षयेण पक्षा-
घातः । वङ्क्षणवृषणयोरन्तरे विटपं नाम तत्र
वाण्ड्यमल्पशुक्रता वा भवति । एवमेतान्येका-
दशसक्थिमर्म्माणि व्याख्यातानि । एतेनेतर-
सक्थिबाहू च व्याख्यातौ । विशेषतस्तु यानि
सक्थ्नि गुल्फजानुविटपानि तानि बाहौ मणि-
बन्धकूर्परकक्षधराणि । यथा वङ्क्षणवृषणयो-
रन्तरे विटपमेवं वक्षःकक्षयोर्मध्ये कक्षधरं
तस्मिन् विद्धेत एवोपद्रवाः । विशेषतस्तु मणि-
बन्धे कुण्ठता । कुर्पराख्ये कुणिः । कक्षधरे
कक्षाघातः । एवमेतानि चतुश्चत्वारिंशच्छाखासु
मर्म्माणि व्याख्यातानि ॥ * ॥ अत ऊर्द्ध्व-
मुदरोरसोर्मर्म्मस्थानान्यनुव्याख्यास्यामः । तत्र
वातवर्च्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म्म
तत्र सद्योमरणम् । अल्पमांसशोणितोऽभ्यन्तरतः
कट्यां मूत्राशयो वस्तिर्नाम तत्रापि सद्योमरण-
मश्मरीव्रणादृते । तत्राप्युभयतो भिन्ने न जीव-
त्येकतो भिन्ने मूत्रस्रावी व्रणो भवति । स तु
यत्नेनोपक्रान्तो रोहति । पक्वामाशययोर्म्मध्ये
सिराप्रभवा नाभिर्नाम तत्रापि सद्य एव मर-
णम् । स्तनयोर्म्मध्यमधिष्ठायोरस्यामाशयद्वारं
सत्त्वरजस्तमसामधिष्ठानं हृदयं नाम तत्र सद्य
एव मरणम् । स्तनयोरधस्तात् हृदङ्गुलमुभयत-
स्तनमूले नाम मर्म्मणी तत्र कफपूर्णकोष्ठतया
कासश्वासाभ्यां म्रियते । स्तनचूचुकयोरूर्द्ध्वं
द्ब्यङ्गुलमुभयतः स्तनरोहितौ नाम तत्र
लोहितपूर्णकोष्ठतया कासश्वासाभ्याञ्च म्रियते ।
अंशकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ
नाम तत्र रक्तेन पूयभावं गतेन मरणम् ।
उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम
तत्र वातपूर्णकोष्ठतया कासश्वासाभ्याञ्च मर-
णम् । एवमेतान्युदरोरसोर्द्बादश मर्म्माणि
व्याख्यातानि ॥ * ॥ अत ऊर्द्ध्वं पृष्ठमर्म्माण्यनु-
व्याख्यास्यामः । तत्र पृष्ठवंशमुभयतः प्रतिश्रोणी
काण्डमस्थीनि कटीकतरुणे नाम मर्म्मणी तत्र
शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च
म्रियते । पार्श्वजघनवहिर्भागे पृष्ठवंशमुभयतो
नातिनिम्ने कुकुन्दरे नाम मर्म्मणी तत्र स्पर्शा-
ज्ञानमधःकाये चेष्टोपघातश्च । श्रोणीकाण्डयो-
रुपर्य्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ
नितम्बौ नाम तत्राधःकायशोषो दौर्ब्बल्याच्च
मरणम् । अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्व-
मध्ययोस्तिर्य्यगूर्द्ध्वञ्च जघनात् पार्श्वसन्धी नाम
तत्र लोहितपूर्णकोष्ठतया म्रियते । स्तनमूला-
दुभयतः पृष्ठवंशस्य बृहती नाम तत्र शोणि-
तातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते । पृष्ठोपरि
पृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके नाम तत्र
बाह्वोः स्वापः शोषो वा । बाहुमूर्द्ध्वग्रीवामध्ये-
ऽंसपीठस्कन्धनिबन्धनावंसौ नाम तत्र स्तब्ध-
बाहुता । एवमेतानि चतुर्द्दश पृष्ठमर्म्माणि
व्याख्यातानि ॥ * ॥ अत ऊर्द्ध्वं जत्रुगतानि
व्याख्यास्यामः । तत्र कण्ठनाडीमुभयतश्चतस्रो
धमन्यो द्बे नीले द्बे च मन्ये व्यत्यासेन तत्र
मूकता स्वरवैकृतमरसग्राहिता च । ग्रीवाया-
मुभयतश्चतस्रःसिरामातृकास्तत्र सद्योमरणम् ।
शिरोग्रीवयोः सन्धाने कृकाटिके नाम तत्र
चलमूर्द्ध्वता । कर्णपृष्ठतोऽधःसंश्रिते विधुरे नाम
तत्र व्याधिर्य्यम् । घ्राणमार्गमुभयतः स्रोतोमार्ग-
प्रतिबद्धे अभ्यन्तरतः फणे नाम तत्र गन्धा-
ज्ञानम् । भ्रूपुच्छान्तयोरधोऽक्ष्णोर्वाह्यतोऽपाङ्गौ
नाम तत्रान्ध्यं दृष्ट्युपघातो वा । भ्रुवोरुपरि-
निम्नयोरावर्त्तौ नाम तत्रान्ध्यं दृष्ट्युपघातश्च ।
भ्रवोः पुच्छान्तयोरुपरि कर्णललाटयोर्मध्ये शङ्खौ
नाम तत्र सद्योमरणम् । शङ्खयोरुपरि केशान्त
उत्क्षेपौ नाम तत्र सशल्यो जीवति पाकात्
पतितशल्यो वा नोद्धृतशल्यः । भ्रुवोर्मध्ये स्थपनी
नाम तत्रोत्क्षेपवत् । पञ्च सन्धयः शिरसि
विभक्ताः सीमन्ता नाम तत्रोन्मादभयचित्त-
नाशैर्मरणम् । घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां
सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि
तानि चत्वारि मर्म्माणि तत्रापि सद्योमरणम् ।
मस्तकाभ्यन्तरोपरिष्टात् सिरासन्धिसन्निपातो
रोमावर्त्तः अधिपतिस्तत्रापि सद्योमरणम् ।
एवमेतानि सप्तत्रिंशदूर्द्ध्वजत्रुगतानि मर्म्माणि
व्याख्यातानि ॥ * ॥ भवन्ति चात्र ।
“ऊर्व्व्यः शिरांसि विटपे च सकक्षपार्श्वे
एकैकमङ्गुलमिता स्तनपूर्व्वमूलम् ।
विद्ध्यङ्गुलद्बयमितं मणिबन्धगुल्कं
त्रीण्येव जानु सपरं सह कुर्पराभ्याम् ॥
हृद्बस्थिकूर्च्चगुदनाभि वदन्ति मूर्द्ध्नि
चत्वारि पञ्च च गले दश यानि च द्बे ।
तानि स्वपाणितलकुञ्चितसंमितानि
शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्द्धम् ॥
एतत् प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः
शस्त्रेण कर्म्मकरणं परिहृत्य मर्म्म ।
पार्श्वाभिघातितमपीह निहन्ति मर्म्म
तस्माद्धि मर्म्मसदनं परिवर्ज्जनीयम् ॥
छिन्नेषु पाणिचरणेषु शिरा नराणां
सङ्कोचमीयुरसृगल्पमतो निरेति ।
प्राप्यामितव्यसनमुग्रमतो मनुष्याः
संछिन्नशाखतरुवन्निधनं न यान्ति ॥
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं
गच्छत्यतीव पवनश्च रुजं करोति ।
एवं विनाशमुपयान्ति हि तत्र विद्धा
वृक्षा इवायुधविघातनिकृत्तमूलाः ॥
तस्मात्तयोरभिहतस्य तु पाणिपादं
छेत्तव्यमाशु मणिबन्धनगुल्फदेशे ।
मर्म्माणि शल्यविषयार्द्धमुदाहरन्ति
यस्माच्च मर्म्मसु हता न भवन्ति सद्यः ॥
जीवन्ति तत्र यदि वैद्यमुणेन केचित्
ते प्राप्नुवन्ति विकलत्वमसंशयं हि ।
सम्भिन्नजर्ज्जरितकोष्ठशिरःकपाला
जीवन्ति शस्त्रविहतैश्च शरीरदेशैः ।
छिन्नैश्च सक्थिभुजपादकरैरशेषै-
र्येषां न मर्म्मपतिता विविधाः प्रहाराः ॥
सोममारुततेजांसि रजःसत्त्वतमांसि च ।
मर्म्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ॥
मर्म्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः ।
इन्द्रियार्थेष्वसंप्राप्तिर्मनोबुद्धिविपर्य्ययः ॥
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते ।
हते कालान्तरघ्ने तु ध्रुवो धातुक्षयो नृणाम् ॥
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति ।
हते वैकल्यजनने केवलं वैद्यनैपुणात् ॥
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् ।
विशल्यघ्नेषु विज्ञेयं पूर्व्वोक्तं यच्च कारणम् ॥
रुजाकराणि मर्म्माणि क्षतानि विविधा रुजः ।
कुर्व्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ॥
छेदभेदाभिघातेभ्यो दहनाद्दारणादपि ।
उपघातं विजानीयान्मर्म्मणान्तुल्यलक्षणम् ॥
पृष्ठ ५/०५५
मर्म्माभिघातश्च न कश्चिदस्ति
योऽल्पात्ययो वापि निरत्ययो वा ।
प्रायेण मर्म्मस्वभिताडितास्तु
वैकल्यमृच्छन्त्यथवा म्रियन्ते ॥
मर्म्माण्यधिष्ठाय हि ये विकारा
मूर्च्छन्ति काये विविधा नराणाम् ।
प्रायेण ते कृच्छ्रतमा भवन्ति
नरस्य यत्नैरपि साध्यमानाः ॥” * ॥
सप्तमोऽध्यायः ।
अथातः सिरावर्णनविभक्तिनाम शारीरं व्याख्या-
स्यामः । सप्त सिराशतानि भवन्ति । याभिरिदं
शरीरमाराम इव जलहारिणीभिः केदार इव
च कुल्याभिरुपस्निह्यते अनुगृह्यते चाकुञ्चन-
प्रसारणादिभिर्व्विशेषैः । द्रुमपत्रसेवनीनामिव
च तासां प्रतानास्तासां नाभिर्मूलं ततश्च
प्रसरन्त्यूर्द्ध्वमधस्तिर्य्यक् च ॥ * ॥ भवतश्चात्र ।
“यावत्यस्तु सिराः काये सम्भवन्ति शरीरिणाम् ।
नाभ्यां सर्व्वा निबद्धास्ता प्रतन्वन्ति समन्ततः ॥
नाभिस्थाः प्राणिनां प्राणा प्राणान्नाभिर्व्युपा-
श्रिता ।
सिराभिरावृता नाभिश्चक्रनाभिरिवारकैः ॥”
तासां मूलसिराश्चत्वारिंशत् । तासां वात-
वाहिन्यो दश । पित्तवाहिन्यो दश । कफ-
वाहिन्यो दश । दश रक्तवाहिन्यः । तासान्तु
वातवाहिनीनां वातस्थानगतानां पञ्चसप्तति-
शतं भवति । तावत्य एव पित्तवाहिन्यः । पित्त-
स्थाने कफवाहिन्यश्च । कफस्थाने रक्तवाहि-
न्यश्च । यकृत्प्लीह्नोरेवमेतानि सप्तसिराशतानि ।
तत्र वातवाहिन्यः सिरा एकस्मिन् सक्थ्नि पञ्च-
विंशतिः । एतनेतरसक्थिबाहू च व्याख्यातौ ।
विशेषतस्तु कोष्ठे चतुस्त्रिंशत्तासां गुदमेढ्रा-
श्रिताः । श्रोण्यामष्टौ । द्वे द्बे पार्श्वयोः । षट्
पृष्ठे । तावत्य एव चोदरे । दश वक्षसि ।
एकचत्वारिंशज्जत्रुण ऊर्द्ध्वम् । तासां चतुर्दश
ग्रीवायाम् । कर्णयोश्चतस्रः । नव जिह्वायाम् ।
षट् नासिकायाम् । अष्टौ नेत्रयोः । एवमेतत्
पञ्चसप्तत्यधिकशतं वातवहानां सिराणां
व्याख्यातम् । एष एव विभागः शेषाणामपि ।
विशेषतस्तु पित्तवाहिन्यो नेत्रयोर्दश । कर्ण-
योर्द्वे । एवं रक्तवहा कफवहाश्च । एवमेतानि
सप्त सिराशतानि सविभागानि व्याख्यातानि ॥ * ॥
भवन्ति चात्र ।
“क्रियानामप्रतीघातममीहं बुद्धिकर्म्मणाम् ।
करोत्यन्यान् गुणांश्चापि स्वाः सिराः पवनश्चरन् ॥
यदा तु कुपितो वायुः स्वाः सिराः प्रतिपद्यते ।
तदास्य विविधा रोगा जायन्ते वातसम्भवाः ॥
भ्राजिष्णुतामन्नरुचिमग्निदीप्तिमरोगताम् ।
संसर्पत् स्वाः सिराः पित्तं कुर्य्याच्चान्यान् गुणा-
नपि ॥
यदा प्रकुपितं पित्तं सेवते स्ववहाः सिराः ।
तदास्य विविधा रोगा जायन्ते पित्तसम्भवाः ॥
स्नेहमङ्गेषु सन्धीनां स्थैर्य्यं बलमुदीर्णताम् ।
करोत्यन्यान् गुणांश्चापि बलासः स्वाः शिरा-
श्चरन् ॥
यदा तु कुपितः श्लेष्मा स्वाः सिराः प्रतिपद्यते ।
तदास्य विविधा रोगा जायन्ते श्लेष्मसम्भवाः ॥
धातूणां पूरणं वर्णं स्पर्शज्ञानमसंशयम् ।
स्वाः सिराः सञ्चरद्रक्तं कुर्य्याच्चान्यान् गुणानपि ॥
यदा तु कुपितं रक्तं सेवते स्ववहाः सिराः ।
तदास्य विविधा रोगा जायन्ते रक्तसम्भवाः ॥
न हि वातं सिराः काश्चिन्न पित्तं केवलं तथा ।
श्लेष्माणं वा वहन्त्येता अतः सर्व्ववहाः स्मृताः ॥
प्रदुष्टानां हि दोषाणामुच्छ्रितानां प्रधावताम् ।
ध्रुवमुन्मार्गगमनमतः सर्व्ववहाः स्मृताः ॥
तत्रारुणा वातवहाः पूर्य्यन्ते वायुना सिराः ।
पित्ता दुष्टाश्च नीलाश्च शीता गौर्य्यः स्थिराः
कफात् ।
असृग्वहास्तु रोहिण्यः सिरा नात्युष्णशीतलाः ॥
अत ऊर्द्ध्वं प्रवक्ष्यामि न विध्येद्याः सिरा
भिषक् ।
वैकल्यं मरणञ्चापि व्यधात्तासां ध्रुवं भवेत् ॥
सिराशतानि चत्वारि विद्याच्छाखासु बुद्धि-
मान् ।
षट्त्रिंशच्च शतं कोष्ठे चतुःषष्टिञ्च मूर्द्धनि ॥
शाखासु षोडश सिराः कोष्ठे द्वात्रिंशदेव तु ।
पञ्चाशज्जानुनश्चोर्द्ध्वमवेध्याः परिकीर्त्तिताः ॥”
तत्र सिराशतमेकैकस्मिन् सक्थ्नि भवति तासां
जालधरा त्वेका तिस्रश्चाभ्यन्तराः । तत्रोर्व्वी-
संज्ञे द्बे लोहिताक्षसंज्ञा चैकैतास्त्ववेध्याः ।
एतेनेतरसक्थिबाहू च व्याख्यातावेवमशस्त्र-
कृत्याः षोडश शाखासु । द्वात्रिंशत् श्रोण्यां
तासामष्टावशस्त्रकृत्याः । द्बे द्वे विटपयोः कटीक-
तरुणयोश्च । अष्टावष्टावेकैकस्मिन् पार्श्वे
तासामेकैकामूद्ध्वगां परिहरेत् । पार्श्वसन्धिगते
च द्वे । चतस्रो विंशतिश्च पृष्ठवंशमुभयतस्तासा-
मूर्द्ध्वगामिन्यौ द्बे द्वे परिहरेद्वृहती सिरे ।
तावत्य एवोदरे तासां मेढ्रोपरि रोमराजी-
मुभयतो द्वे द्बे परिहरेत् । चत्वारिंशद्वक्षसि
तासां चतुर्दशाशस्त्रकृत्या । हृदये द्वे द्वे ।
द्वे स्तनमूले । स्तनरोहितापलापस्तम्बेषूभयतो
ऽष्टौ । एवं द्बात्रिंशदशस्त्रकृत्याः पृष्ठोदरोरःसु
भवन्ति । चतुःषष्टिशिराशतं जत्रुण ऊर्द्ध्वं भवति
तत्र षट्पञ्चाशच्छिरोधरायां तासामष्टौ चत-
स्रश्च मर्म्मसंज्ञाः परिहरेत् । द्बे कृकाटिकयोः ।
द्वे विधुरयोः । एवं ग्रीवायां शोडशाव्यध्याः ।
हन्वोरुभयतोऽष्टावष्टौ तासान्तु सन्धिधमन्यौ
द्बे द्बे परिहरेत् । षट्त्रिंशज्जिह्वायां तासा-
मधः षोडशाशस्त्रकृत्याः रसवहे द्वे वाग्वहे च
द्वे । द्बिर्द्वादश नासायां तासामौपनासिक्य-
श्चतस्रः परिहरेत् । तासामेव च तालुन्येकां
मृदावद्देशे । अष्टात्रिंशदुभयोर्नेत्रयोस्तासामे-
कैकामपाङ्गयोः परिहरेत् । कर्णयोर्दश तासां
शब्दवाहिनीनामैकैकां परिहरेत् । नासानेत्र-
गतास्तु ललाटे षष्टिस्तासां केशान्तानुगता-
श्चतस्रः । आवर्त्तयोरेकैका स्थपन्याश्चैका परि-
हर्त्तव्या । शङ्खयोर्दश तासां शङ्खसन्धिगता-
मेकैकां परिहरेत् । द्वादश मूर्द्ध्नि तासामुत्-
क्षेपयोर्द्बे परिहरेत् । सीमन्तेष्वेकैकामधिपता-
विति । एवमशस्त्रकृत्याः पञ्चाशज्जत्रुण ऊर्द्ध्व-
मिति । भवति चात्र ।
“व्याप्नुवन्त्यभितो देहं नाभितः प्रसृताः सिराः ।
प्रतानाः पद्मिनीकन्दाद्विसादीनां यथा जलम् ॥”
अष्टमोऽध्यायः ।
अथातः सिराव्यधविधिशारीरंव्याख्यास्यामः ।
बालस्थविररूक्षक्षतक्षीणभीरुपरिश्रान्तस्त्रीम-
द्याध्वकर्षितमत्तवान्तविरिक्तास्थापितानुवासित-
जागरितक्लीवकृशगर्भिणीनां कासश्वासशोषप्र-
वृद्धज्वराक्षेपकपक्षाघातोपवासपिपासामूर्च्छा-
प्रपीडितानाञ्च सिरां न विध्येत् । याश्चाव्यध्या
व्यध्याश्चादृष्टा दृष्टाश्चायन्त्रिता यन्त्रिताश्चानु-
त्थिता इति । शोणितावसेकसाध्याश्च विकाराः
प्रागभिहितास्तेषु चापक्वेष्वन्येषु चानुक्तेषु
यथाभ्यासं यथान्यायञ्च सिरां विध्येत् । प्रति-
षिद्धानामपि च विषोपसर्ग आत्ययिकेषु
सिराव्यधनमप्रतिषिद्धम् । तत्र स्निग्धस्विन्न-
मातुरं यथादोषप्रत्यनीकद्रवप्रायमन्नं भुक्तवन्तं
यवागूं पीतवन्तं वा यथाकालमुपस्थाप्यासीनं
स्थितं वा प्राणानवाधमानो वस्त्रपट्टचर्म्मान्त-
र्व्वल्कललतानामन्यतमेन यन्त्रयित्वा नातिगाढं
नातिशिथिलं शरीरप्रदेशमासाद्य यथोक्तं शस्त्रं
गृहीत्वा सिरां विध्येत् ॥ * ॥
“नैवातिशीते नात्युष्णे न प्रवाते न चाब्भ्रिते ।
सिराणां व्यधनं कार्य्यमरोगे वा कदाचन ॥”
तत्र व्यध्यसिरं पुरुषं प्रत्यादित्यमुखमरत्निमात्रो-
च्छ्रिते उपवेश्यासने सक्थ्नोराकुञ्चितयो-
र्निवेश्य कुर्परसन्धिद्बयस्योपरि हस्तावन्तर्गूढा-
ङ्गुष्ठकृतमुष्टीमन्ययोः स्थापयित्वा यन्त्रणशाटकं
ग्रीवामुष्ट्योरुपरि परिक्षिप्यान्येन पुरुषेण
पश्चात् स्थितेन वामहस्तेनोत्तानेन शाटकान्त-
र्द्वयं ग्राहयित्वा ततो वैद्यो ब्रूयाद्दक्षिणहस्तेन
सिरोत्थापनार्थं नात्यायतशिथिलं यन्त्रमावेष्ट-
यत्यसृक्स्रावणार्थं यन्त्रं पृष्ठमध्ये च पीडयेदिति
कर्म्म पुरुषञ्च वायुपूर्णमुखं स्थापयेदेष उत्त-
माङ्गगतानामन्तर्मुखवर्ज्यानां सिराणां व्यधेन
यन्त्रणविधिः । तत्र पादव्यध्यसिरस्य पादं समे
स्थाने सुस्थिरं स्थापयित्वान्यं पादमीषत्सङ्कु-
चितमुच्चैः कृत्वा व्यध्यपादं जानुसन्धेरधः शाट-
केनावेष्ट्य हस्ताभ्यां प्रपीड्य गुल्फं व्यध्यप्रदेश-
स्योपरि चतुरङ्गुलं प्लोतादीनामन्यतमेन बद्धां
पादसिरां विध्येत् । अथोपरिष्टाद्धस्तौ गूढा-
ङ्गुष्ठकृतमुष्टी सम्यगासने स्थापयित्वा सुखोप-
विष्टस्य पूर्व्ववद्यन्त्रं बद्ध्वा हस्तसिरां विध्येत् ।
गृध्रसीविश्वाच्योः सङ्कुचितजानुकुर्परः स्यात् ।
श्रोणीपृष्ठस्कन्धेषून्नामितपृष्ठस्यावाक्शिरस्कस्य
उपविष्टस्य विस्फूजितपृष्ठस्य विध्येत् । उदरो-
रसोः प्रसारितोरस्कस्योन्नमितशिरस्कस्य
पृष्ठ ५/०५६
विस्फूर्ज्जितदेहस्य बाहुभ्यामवलम्ब्यमानदेहस्य
पार्श्वयोः । अवनामितमेढ्रस्य मेढ्रे । उन्ना-
मितविदष्टजिह्वाग्रस्याधोजिह्वायाम् । अति-
व्यत्ताननस्य तालुनि दन्तमूलेषु च । एवं यन्त्रो-
पायानन्यांश्च सिरोत्थापनहेतून् बुद्ध्यावेक्ष्य
शरीरवशेन व्याधिवशेन च विदध्यात् । मांस-
लेष्ववकाशेषु यवमात्रं शस्त्रं निदध्यादतोऽन्ये-
ष्वर्द्धयवमात्रं व्रीहिमात्रं वा व्रीहिमुखेन ।
अस्थ्नामुपरि कुठारिकया विध्येदर्द्धयवमात्रम् ॥
भवन्ति चात्र ।
“व्यब्भ्रे वर्षासु विध्येत ग्रीष्मकाले तु शीतले ।
हेमन्तकाले मध्याह्ने शस्त्रकालास्त्रयः स्मृताः ॥
सम्यक् शस्त्रनिपातेन धारया या स्रवेदसृक् ।
मुहूर्त्तं रुद्ध्वा तिष्ठेच्च सुबिद्धान्तां विनिर्द्दिशेत् ॥
यथा कुसुम्भपुष्पेभ्यः पूर्व्वं स्रवति पीतिका ।
तथा सिरासु विद्धासु दुष्टमग्रे प्रवर्त्तते ॥
मूर्च्छितस्यातिभीतस्य श्रान्तस्य तृषितस्य च ।
न वहन्ति सिरा विद्धास्तथानुत्थितयन्त्रिताः ॥
क्षीणस्य बहुदोषस्य मूर्च्छया विद्रुतस्य च ।
भूयोऽपराह्णे विस्राव्या सापरेद्युस्त्र्यहेऽपि वा ॥
रक्तं सशेषदोषन्तु कुर्य्यादपि विचक्षणः ।
न चातिप्रस्रुतं कुर्य्याच्छेषं संशमनैर्जयेत् ॥
बलिनो बहुदोषस्य वयःस्थस्य शरीरिणः ।
परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥”
तत्र पाददाहपादहर्षाववाहुकटिप्यविसर्पवात-
शोणितवातकण्टकविचर्च्चिकापाददारीप्रभृतिषु
क्षिप्रमर्म्मण उपरिष्टात् द्ब्यङ्गुले व्रीहिमुखेन
सिरां विध्येत् । श्लीपदें तच्चिकित्सिते यथा
वक्ष्यते । क्रोष्टुकशिरःखञ्जपङ्गुलवातवेदनासु
जङ्घायां गुल्फस्योपरि चतुरङ्गुले । अपच्या-
मिन्द्रवस्तेरधस्ताद्द्व्यङ्गुले । जानुसन्धेरुपर्य्यधो
वा चतुरङ्गुले गृध्रस्याम् । ऊरुमूलसंश्रितान्तु
गलगण्डे । एतेनेतरसक्थिबाहू च व्याख्यातौ ॥
विशेषतस्तु वामबाहौ कुर्परसन्धेरभ्यन्तरतो
बाहुमध्ये प्लीह्नि कनिष्ठिकानामिकयोर्मध्ये वा ।
एवं दक्षिणबाहौ यकृद्दाल्ये कफोदरे चैतामेव
च कासश्वासयोरप्यादिशन्ति । गृध्रस्यामिव
विश्वाच्याम् । श्रोणिप्रति समन्तात् द्व्यङ्गुले
प्रवाहिकायां शूलिन्यां परिकर्त्तिकोपदंशशूक-
दोषशुक्रव्यापत्सु मेढ्रमध्ये । वृषणयोः पार्श्वे
मूत्रवृद्ध्याम् । नाभेरधश्चतुररङ्गुले सेवन्या वाम
पार्श्वे दकोदरे । वामपार्श्वे कक्षास्तनयोरन्तरे-
ऽन्तर्व्विद्रधौ पार्श्वशूले च । बाहुशोषावबाहु-
कयोरप्येके वदन्त्यंशयोरन्तरे । त्रिकसन्धिमध्य-
गतां तृतीयके अधःस्कन्धसन्धिगतामन्यतर-
पार्श्वसंस्थिताञ्चतुर्थके । हनुसन्धिमध्यगतामप-
स्मारे । शङ्खकेशान्तसन्धिगतामुरोऽपाङ्गलला-
टेषु चोन्मादेऽपस्मारे च । जिह्वारोगेष्वधो-
जिह्वायां दन्तव्याधिषु च तालुनि तालव्येषु ।
कर्णयोरुपरि समन्तात् कर्णशूले तद्रोगेषु च ।
गन्धाग्रहणे नासारोगेषु च नासाग्रे तिमिरा-
क्षिपाकप्रभृतिष्वामयेषूपनासिके । लालाट्या-
मपाङ्ग्याञ्चैता एव शिरोरोगाधिमन्थप्रभृतिषु
रोगेष्विति ॥ * ॥ अत ऊर्द्ध्वं दुष्टव्यधनं अनु-
व्याख्यास्यामः । तत्र दुर्व्विद्धातिविद्धा कुञ्चिता
पिच्चिता कुट्टिता प्रस्रुता अत्युदीर्णा अन्तेऽभि-
हता परिशुष्का कूणिता वेपिता अनुत्थितविद्धा
शस्त्रहता तिर्य्यग्विद्धा अविद्धा अव्याध्या विद्रुता
धेनुका पुनः पुनर्विद्धा शिरास्नाय्वग्निसन्धिमर्म्मसु
चेति विंशतिर्दुष्टव्यधाः । तत्र या सूक्ष्मशस्त्र-
विद्धा न व्यक्तमसृक् स्रवति रुजा शोफवती च
सा दुर्व्विद्धा । प्रमाणातिरिक्तविद्धायामन्तः
प्रविशति शोणितं शोणितातिप्रवृत्तिर्व्वा साति-
विद्धा । कुञ्चितायामप्येवम् । कुण्ठशस्त्रप्रम-
थिता पृथुलीभावमापन्ना पिच्चिता । अनासा-
दिता पुनःपुनरन्तयोश्च बहुशः शस्त्राभिहता
कुट्टिता । शीतभयमूर्च्छाभिरप्रवृत्तशोणिता
अप्रस्रुता । तीक्ष्णा महामुखशस्त्रविद्धा अत्यु-
दीर्णा । अल्परक्तस्राविण्यन्ते विद्धा अन्तेऽभि-
हता । क्षीणशोणितस्यानिलपूर्णा परिशुष्का ।
चतुर्भागावसादिता किञ्चित्प्रवृत्तशोणिता
कूणिता । दुःस्थानबन्धनाद्वेपमानायाः शोणित-
सम्मोहो भवति सा वेपिता । अनुत्थितविद्धा-
यामप्येवम् । छिन्नातिप्रवृत्तशोणिता क्रिया-
सङ्गकरी शस्त्रहता । तिर्य्यक् प्रणिहतशस्त्रा
किञ्चिच्छेषा तिर्य्यग्विद्धा । बहुशः क्षता हीन-
शस्त्रप्रणिधानेनाविद्धा । अशस्त्रकृत्या अव्याध्या
अनवस्थितविद्धा विद्रुता । प्रदेशस्य बहुशोऽव-
घट्टनादारोयव्यधा मुहुर्मुहुःशोणितस्रवा
धेनुका । सूक्ष्मशस्त्रव्यधनाद्बहुशो विच्छिन्ना
पुनःपुनर्विद्धा । स्नाय्वस्थिशिरासन्धिमर्म्मसु
विद्धा वा रुजां शोषं वैकल्यं मरणं वापाद-
यति ॥ * ॥ भवन्ति चात्र ।
“सिरासु शिक्षितो नास्ति चला ह्येताः स्वभा-
वतः ।
मत्स्यवत् परि वर्त्तन्ते तस्माद्यत्नेन ताडयेत् ॥
अजानता गृहीते तु शस्त्रे कायनिपातिते ।
भवन्ति व्यापदश्चैता बहवश्चाप्युपद्रवाः ॥
स्नेहादिभिः क्रियायोगैर्न तथा लेपनैरपि ।
यान्त्याशु व्याधयः शान्तिं यथा सम्यक् सिरा-
अधात् ॥
सिराव्यधश्चिकित्सार्द्धं शल्यतन्त्रे प्रकीर्त्तितः ।
यथा प्रणिहितः सम्यक् वस्तिः कायचिकित्-
सिते ॥”
तत्र स्निग्धस्विन्नवान्तावारक्तास्थापतानुवासित-
सिराविद्धैः परिहर्त्तव्यानि । क्रोधायासमैथुन-
दिवास्वप्नवाग् व्यायामयानोत्थानासनचंक्रमण-
शीतवातातपविरुद्धा सात्म्याजीर्णान्यावललाभा-
न्मासमेके मन्यन्ते ॥ * ॥ एतेषां विस्तरमुपरिष्टा-
द्वक्ष्यामः । भवतश्चात्र ।
“सिराविषाणतुम्बैस्तु जलौकाभिः पदस्तथा ।
अवगाढं यथापूर्व्वं निर्हरेद्दुष्टशोणितम् ॥
अवगाढे जलौका स्यात् प्रच्छन्नं पिण्डिते हितम् ।
सिराङ्गव्यापके रक्ते शृङ्गालावुत्वचि स्थिते ॥” * ॥
नवमोऽध्यायः ।
अथातो धमनीव्याकरणं शारीरं व्याख्या-
स्यामः । चतुर्व्विंशतिर्धमन्यो नाभिप्रभवा
अभिहिताः । तत्र केचिदाहुः सिराधमनी-
स्रोतसामविभागः सिराविकारा एव धमन्यः
स्रोतांसि चेति । तत्तु न सम्यक् । अन्या एव हि
धमन्यः स्रोतांसि च सिराभ्यः कस्माद्ध्यञ्जनान्य-
त्वान्मूलसन्नियमात् कर्म्मवैशेष्यादागमाच्च केव-
लन्तु परस्परसन्निकर्षात् सदृशागमकर्म्मत्वात्
सौक्ष्म्याच्च विभक्तकर्म्मणामप्यविभाग इव कर्म्मसु
भवति । तासान्तु नाभिप्रभवाणां धमनीना-
मूर्द्ध्वगा दश दश चाधोगामिन्यश्चतस्रस्तिर्य्य-
ग्गाः । ऊर्द्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वा-
सोच्छ्वासजृ म्भितक्षुद्धसितकथितरुदितादीन्विशे-
षानभिवहन्त्यः शरीरं धारयन्ति । तास्तु हृदय-
मभिप्रपन्नास्त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु
वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश
शब्दरूपरसगन्धानष्टाभिर्गृहीते । द्बाभ्यां भाषते
च द्बाभ्यां घोषं करोति द्बाभ्यां स्वपिति द्बाभ्यां
प्रतिबुध्यते । द्वे चाश्रुवाहिन्यौ । द्वे स्तन्यं स्त्रिया
वहतस्तेन संश्रिते ते एव शुक्रं नरस्य स्तनाभ्या-
मभिवहतः । तास्त्वेतास्त्रिंशत् सविभागा
व्याख्याताः । एताभिरूर्द्ध्वं नाभेरुदरपार्श्व-
पृष्ठोरःस्कन्धग्रीवाबाहवो धार्य्यन्ते याप्यन्ते
च ॥ * ॥ भवति चात्र ।
“ऊर्द्ध्वं गतास्तु कुर्व्वन्ति कर्म्माण्येतानि सर्व्वशः ।
अधोगमास्तु वक्ष्यामि कर्म्म तासां यथायथम् ॥”
अधोगमास्तु वातमूत्रपुरीषशुक्रार्त्तवादीन्यधो
वहन्ति । तास्तु पित्ताशयमभिप्रतिपन्नास्तत्रस्थ-
मेवान्नपानरसं विपक्वमौष्ण्याद्विरेचयन्त्योऽभि-
वहन्त्यः शरीरं तर्पयन्त्यर्पयन्ति चोर्द्ध्वगतानां
तिर्य्यग्गतानां रसस्थानञ्चाभिपूरयन्ति मूत्र-
पुरीषस्वेदांच्च विरेचयन्त्यामपक्वाशयान्तरे च
त्रिधा जायन्ते तास्त्रिंशत् । तासान्तु वातपित्त-
कफशोणितरसान् द्वे द्वे वहतः ता दश द्बे अन्न-
वाहिन्यावन्त्राश्रिते तोयवहे द्वे मूत्रवस्तिमभि-
प्रपन्ने मूत्रवहे द्वे शुक्रवहे द्बे शुक्रप्रादुर्भावाय
द्बे विसर्गाय ते एव रक्तमभिवहतो नारीणा-
मार्त्तवसंज्ञम् । द्बे वर्च्चोनिरसन्यौ स्थूलान्त्र-
प्रतिवद्धे । अष्टावन्यास्तिर्य्यग्गानां धमनीनां
स्वेदमर्पयन्ति । तास्त्वेतास्त्रिंशत् सविभागा
व्याख्याताः । एताभिरधोनाभेः पक्वाशयकटी-
मूत्रपुरीषगुदवस्तिमेढ्रसक्थीनि धार्य्यन्ते याप्यन्ते
च ॥ * ॥ भववि चात्र ।
“अधोगमास्तु कुर्व्वन्ति कर्म्माण्येतानि सर्व्वशः ।
तिर्य्यग्गाः संप्रवक्ष्यामि कर्म्म तासां यथा-
यथम् ॥”
तिर्य्यग्गानान्तु चतसृणां धमनीनामेकैका शतधा
सहस्रधा चोत्तरोत्तरं विभज्यन्ते तास्त्वसंख्ये-
यास्ताभिरिदं शरीरं गवाक्षितं विवद्धमात-
तञ्च । तासां मुखानि रोमकूपप्रतिबद्धानि यैः
स्वेदमभिवहन्ति रसञ्चापि सन्तर्पयन्त्यन्तर्व्वहिश्च
पृष्ठ ५/०५७
तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्य्याण्यन्तः
शरीरमभिपद्यन्ते त्यचि विपक्वानि । तैरेव
स्पर्शसुखमसुखं वा गृह्णाति । तास्त्वेताश्चतस्रो
धमन्यः सर्व्वाङ्गगताः सविभागा व्याख्याताः ।
भवतश्चात्र ।
“यथा स्वभावतः खानि मृणालेषु विसेषु च ।
धमनीनां तथा खानि रसो यैरुपचीयते ॥
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः
पञ्चेन्द्रियं पञ्चसु भावयन्ति ।
पञ्चेन्द्रियं पञ्चसु भावयित्वा
पञ्चत्वमायान्ति विनाशकाले ॥” * ॥
अत ऊर्द्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः ।
तानि तु प्राणान्नोदकरसरक्तमांसमेदोमूत्र-
पुरीषशुक्रार्त्तववहानि येष्वधिकार एतेषां
बहूनि । एतेषां विशेषा बहवः । तत्र प्राण-
वहे द्वे तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः ।
तत्र विद्धस्य क्रोशनविनमनमोहनभ्रमणवेपनानि
मरणं वा भवति । अन्नवहे द्वे तयोर्मूलमामा-
शयोऽन्नवाहिन्यश्च धमन्यस्तत्र विद्धस्याध्मानं
शूलान्नद्वेषौ छर्द्दिः पिपासान्ध्यं मरणं वा ।
उदकवहे द्वे तयोर्मूलं तालुक्लोम च । तत्र
विद्धस्य पिपासा सद्योमरणञ्च । रसवहे द्वे
तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यस्तत्र
विद्धस्य शोषः प्राणवहविद्धवच्च मरणं तल्लि-
ङ्गानि च । रक्तवहे द्बे तयोर्मूलं यकृत्-
प्लीहानौ रक्तवाहिन्यश्च धमन्यस्तत्र विद्धस्य
श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणिताति-
गमनं रक्तनेत्रता चेति । मांसवहे द्वे तयो-
र्मूलं स्नायुत्वचं रक्तवहाश्च धमन्यस्तत्र विद्धस्य
श्वयथुर्मांसशोषः सिराग्रन्थयो मरणम् । मेदो-
वहे द्बे तयोर्मूलं कटीवृक्कौ च तत्र विद्धस्य
स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता
पिपासा च । मूत्रवहे द्वे तयोर्मूलं वस्ति-
र्मेढ्रञ्च तत्र विद्धस्यानद्धवस्तिता मूत्रनिरोधः
स्तब्धमेढ्रता च । पुरीषवहे द्बे तयोर्मूलं पक्वा-
शयो गुदञ्च तत्र विद्धस्यानाहो दुर्गन्धता ग्रथि-
तान्त्रता च । शुक्रवहे द्वे तयोर्म्मूलं स्तनौ
वृषणौ च तत्र विद्धस्य क्लीवता चिरात् प्रसेको
रक्तशुक्रता च । आर्त्तववहे द्वे तयोर्म्मूलं
गर्भाशयः आर्त्तववाहिन्यश्च धमन्यस्तत्र विद्धायां
वन्ध्यात्वं मैथुनासहिष्णुत्वमार्त्तवनाशश्च । सेवनी-
च्छेदाद्रुजाप्रादुर्भावः । वस्तिगुदविद्धलक्षणं
प्रागुक्तमिति । स्रोतोविद्धन्तु प्रत्याख्यायोपचरे-
दुद्धृतशल्यन्तु क्षतविधानेनोपचरेत् ।
“मूलात् खादन्तरं देहे प्रसृतन्त्वभिवाहि यत् ।
स्रोतस्तदिति विज्ञेयं सिराधमनिवर्ज्जितम् ॥” * ॥
दशमोऽध्यायः ।
अथातो गर्भिणीव्याकरणं शारीरं व्याख्या-
स्यामः । गर्भिणी प्रथमदिवसात् प्रभृति नित्यं
प्रहृष्टा शुच्यलङ्कृता शुक्लवसना शान्ति-
मङ्गलदेवताब्राह्मणगुरुपरा च भवेन्मलिन-
विकृतहीनगात्राणि न स्पशेद्दर्गन्धदुर्दर्शनानि
परिहरेदुद्वेजनीयाश्च कथाः शुष्कं पर्य्युषितं
कुथितं क्लिन्नं चान्नं नोपभुञ्जीत । वहि-
र्निष्क्रमणं शून्यागारचैत्यश्मशानवृक्षाश्रयान्
क्रोधभयसङ्करांश्च भारानुच्चैर्भाष्यादिकं परि-
हरेद्यानि च गर्भं व्यापादयन्ति । न चाभीक्ष्णं
तैलाभ्यङ्गोत्सादनादीनि निषेवेत । न चाया-
सयेच्छरीरं पूर्व्वोक्तानि च परिहरेत् । शयना-
सनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसम्बाधं
विदध्यात् । हृद्यं द्रवं मधुरप्रायं स्निग्धं दीप-
नीयसंस्कृतञ्च भोजनं भोजयेत् सामान्यमेतदा-
प्रसवात् ॥ * ॥ विशेषतस्तु गर्भिणी प्रथमद्वितीय-
तृतीयमासेषु मधुरशीतद्रवप्रायमाहारमुपसे-
वेत । विशेषतस्तु तृतीये षष्टिकौदनं पयसा
भोजयेच्चतुर्थे दध्ना पञ्चमे पयसा षष्ठे सर्पिषा
चेत्येके । चतुर्थे पयोनवनीतसंसृष्टमाहारये-
ज्जाङ्गलमांससहितं हृद्यमन्नं भोजयेत् । पञ्चमे
क्षीरसर्पिःसंसृष्टम् । षष्ठे श्वदंष्ट्रासिद्धस्य सर्पिषो
मात्रां पाययेद्यवागूं वा । सप्तमे सर्पिः पृथक्
पर्ण्यादिसिद्धमेवमाप्याय्यते गर्भः । अष्टमे वदरो-
दकेन बलातिबलाशतपुष्पपललपयोदधिमस्तु-
तैललवणमदनफलमधुघृतमिश्रेणास्थापयेत् ।
पुराणपुरीषशुद्ध्यर्थमनुलोमनार्थञ्च वायोः ।
ततः पयोमधुरकषायसिद्धेन तैलेनानुवासयेदनु-
लोमे हि वायौ सुखं प्रसूयते निरुपद्रवा च
भवति । अत ऊर्द्ध्वं स्निग्धाभिर्यवागूभिर्जाङ्गल-
रसैश्चोपक्रमेदाप्रसवकालादेवमुपक्रान्ता स्निग्धा
बलवती सुखमनुपद्रवा प्रसूयते । नवमे मासि
सूतिकागारमेनां प्रवेशयेत् प्रशस्ततिथ्यादौ ।
तत्रारिष्टं ब्राह्मणक्षत्त्रियवैश्यशूद्राणां श्वेतरक्त-
पीतकृष्णेषु भूमिप्रदेशेषु विल्वन्यग्रोधतिन्दुक-
भल्लातकनिर्म्मितं सर्व्वागारं यथासंख्यं तन्मय-
पर्य्यङ्कमुपलिप्तभित्तिं सुविभक्तपरिच्छदं प्राग्-
द्वारमुदग्द्बारं दक्षिणद्वारं वाष्टहस्तायतञ्चतु-
र्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम् ॥ * ॥
“जाते हि शिथिले कुक्षौ मुक्ते हृदयबन्धने ।
सशूले जघने नारी ज्ञेया सा तु प्रजायिनी ॥”
तत्रोपस्थितप्रसवायाः कटीपृष्ठं प्रति समन्ता-
द्बेदना भवत्यभीक्ष्णं पुरीषप्रवृत्तिर्मूत्रं प्रसि-
च्यते योनिमुखात् श्लेष्मा च । प्रजनयिष्यमाणां
कृतमङ्गलस्वस्तिवाचनां कुमारपरिवृतां पुन्नाम-
फलहस्तां स्वभ्यक्तामुष्णोदकपरिषिक्तामथैनां
सघृतां यवागूमाकण्ठात् पाययेत् । ततः कृतोप-
धाने मृदुविस्तीर्णे शयने स्थितामाभुग्नसक्थी-
मुत्तानामशङ्कनीयाश्चतस्रः स्त्रियः परिणत-
वयसः प्रजननकुशलाः कर्त्तितनखाः परिचरेयु-
रिति ॥ * ॥ अथास्या विशिखान्तरमनुलोममनु-
मुखमभ्यज्यात् ब्रूयाच्चैनामेका सुभगे प्रवाह-
स्वेति न चाप्राप्तावी प्रवाहस्व विशिखान्तर-
मपत्यमार्गम् । ततो विमुक्ते गर्भनाडीप्रबन्धे
सशूलेषु श्रोणिवङ्क्षणवस्तिशिरःसु प्रवाहेथाः
शनैः शनैः । ततो गर्मनिर्गमे प्रगाढं ततो गर्भे
योनिमुखं प्रपन्ने गाढतरमाविशल्यभावात् ॥ * ॥
अकालप्रवाहणात् वधिरं मूकं व्यस्तहनु
मूर्द्धाभिघातिनं कासश्वासशोषोपद्रुतं कुब्जं
विकटं वा जनयति । तत्र प्रतिलोममनुलोमयेत् ।
गर्भसङ्गे तु योनिं धूपयेत् कृष्णसर्पनिर्म्मोकेण
पिण्डीतकेन वा । बध्नीयाद्धिरण्यपुष्पीमूलं हस्त-
पादयोर्द्धारयेत् सुवर्च्चलां विशल्यां वा ॥ * ॥
अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्य
घृताक्तं मूर्द्ध्नि पिचुं दद्यात् ततो नाभिनाडी-
मष्टाङ्गुलमायम्य सूत्रेण बद्ध्वा छेदयेत् तत्सूत्रैक-
देशञ्च कुमारस्य ग्रीवायां सम्यग्वध्नीयात् ॥ * ॥
अथ कुमारं शीताभिरद्भिराश्वास्य जातकर्म्मणि
कृते मधुसर्पिरनन्ताब्राह्मीरसेन सुवर्णचूर्ण-
मङ्गुल्यानामिकया लेहयेत्ततो बलातैलेनाभ्यज्य
क्षीरवृक्षकषायेण सर्व्वगन्धोदकेन वा रूप्य-
हेमप्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्र-
कषायेण वा कोष्णेन यथाकालं यथादेशं
यथाविभवं च ।
“धमनीनां हृदिस्थानां विवृतत्वादनन्तरम् ।
चतूरात्रात्त्रिरात्राद्वा स्त्रीणां स्तन्यं प्रवर्त्तते ॥”
तस्मात् प्रथमेऽह्नि मधुसर्पिरनन्तामिश्रं मन्त्र-
पूतं त्रिकालं पाययेद्द्वितीये लक्ष्मणासिद्धं सर्पि-
स्तृतीये च । ततः प्राङ्निवारितस्तन्यं मधु-
सर्पिः स्वपाणितलसम्मितं द्विकलं पाययेत् ॥ * ॥
अथ सूतिकां बलातैलाभ्यक्तां वातहरौषधनिः-
क्वाथेनोपचरेत् सशेषदोषान्तु तदहः पिप्पली-
पिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेरचव्यचूर्णं
गुडोदकेनोष्णेन पाययेत् । एवं द्विरात्रं
त्रिरात्रं वा कुर्य्यादादुष्टशोणितात् । विशुद्धे
ततो विदारिगन्धादिसिद्धां स्नेहयवागूं क्षीर-
यवागूं वा पाययेत् त्रिरात्रम् । ततो यव-
कोलकुलत्थसिद्धेन जाङ्गुलरसेन शाल्योदनं
भोजयेद्बलमग्निबलञ्चावेक्ष्य । अनेन विधिना
अध्यर्द्धमानमुपसंस्कृता विमुक्ताहाराचारा
विगतसूतिकाभिधाना स्यात् । पुनरार्त्तवदर्श-
नादित्येके । धन्वभूमिजातां सूतिकां घृततैलयो-
रन्यतरस्य मात्रां पाययेत् । पिप्पल्यादिकषा-
यानुपाना स्नेहनित्या च स्यात्रिरात्रं पञ्चरात्रं
वा बलवती । अबलां यवागूं पाययेत्त्रिरात्रं
पञ्चरात्रं वा । अत ऊर्द्ध्वं सिग्धेनान्नसंसर्गेणोप-
चरेत् । प्रायशश्चैनां प्रभतेनोष्णोदकेन परि-
षिञ्चेत् । क्रोधायासमैथुनादीन् परिहरेत् ॥ * ॥
भवतश्चात्र ।
“मिथ्याचारात् सूतिकाया यो व्याधिरुप-
जायते ।
स कृच्छ्रसाध्योऽसाध्यो वा भवेदत्ययतर्पणात् ॥
तस्मात्तां देशकालौ च व्याधिसात्स्येन कर्म्मणा ।
परीक्ष्योपचरेदेवं नेयमत्ययमाप्नुयात् ॥” * ॥
अथापरापतन्त्यानाहाध्मानौ कुरुते तस्मात्
कण्ठमस्याः केशवेष्टितयाङ्गुल्या प्रमृजेत् । कटु-
कालाबुकृतवेधनसर्षपसर्प्पनिर्म्मोकैर्वा कटतैल-
विमिश्रैर्योनिमुखं धूपयेत् । लाङ्गलीमूलकल्केन
वास्याः पाणिपादतलमालिम्पेत् । मूर्द्ध्नि वास्या
पृष्ठ ५/०५८
महावृक्षक्षीरमनुषेचयेत् । कुष्ठलाङ्गलीमूल-
कल्कं वा मद्यमूत्रयोरन्यतरेण पाययेत् ।
शालिमूलकल्कं वा पिप्पल्यादिं वा मद्येन
सिद्धार्थककुष्ठलाङ्गलीमहावृक्षक्षीरमिश्रेण सुरा
मण्डेन वा स्थापयेत् । एतैरेव सिद्धेन सिद्धा-
र्थकतैलेनोत्तरवस्त्रिं दद्यात् । स्निग्धेन वा कॢप्त-
नखेन हस्तेनापहरेत् । प्रजातायाश्च नार्य्या
रूक्षशरीरायास्तीक्ष्णैरविशोधितं रक्तं वायुना
तद्देशगेनातिसंरुद्धं नाभेरधःपार्श्वयोर्व्वस्तौ वा
अस्थ्नि वा शिरसि वा ग्रन्थिं करोति । ततश्च
नाभिवस्त्युदरपृष्ठशूलानि भवन्ति । सूचीभिरिव
निस्तुद्यते भिद्यते दीर्य्यत इव च पक्वाशयः ।
समन्तादाध्मानमुदरे मूत्रसङ्गश्च भवतीति
मक्कल्ललक्षणम् । तत्र वीरतर्व्वादिसिद्धं जल-
भूषकादिप्रतीवापं पाययेत् । यवक्षारचूर्णं वा
सर्पिषा सुखोदकेन वा लवणचूर्णं वा पिप्पल्या-
दिक्वाथेन पिप्पल्यादिचूर्णं वा सुरामण्डेन
वरुणादिक्वाथं वा पञ्चकोलैलाप्रतीवापं पृथक्
पर्ण्यादिक्वाथं वा भद्रदारुमरिचसंसृष्टं पुराण-
गुडं वा त्रिकटुकचतुर्जातककुस्तुम्बुरुमिश्रं
खादेदच्छं वा पिबेदरिष्टमिति ॥ * ॥ अथ बालं
क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां
शाययेत् । पीलुवदरीनिम्बपरूषकशाखाभिश्चैनं
वीजयेत् । मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचा-
रयेत् । धूपयेच्चैनं रक्षोघ्नैर्धूपैः । रक्षोघ्नानि
चास्य पाणिपादशिरोग्री वास्ववसृजेत् । तिला-
तसीसर्षपकणांश्चात्र प्रकिरेत् । अधिष्ठाने चाग्निं
प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत । ततो
दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ
स्वस्तिवाचनं कृत्वा नाम कुर्य्यातां यदभिप्रेतं
नक्षत्रनाम वा ॥ * ॥ ततो यथावर्णान्धात्री-
मुपेयान्मध्यमप्रमाणां मध्यमवयसामरोगां शील-
वतीमचपलामलोलुपामकृशामस्थूलां प्रसन्न-
क्षीरां अलम्बौष्ठीमलम्बोर्द्ध्वस्तनीमव्यङ्गामव्यस-
निनीं जीवद्वत्सां दोग्ध्रीं वत्सलामक्षुद्रकर्म्मिणीं
कुले जातामतो भूयिष्ठैश्च गुणैरन्वितां श्यामा-
मारोग्यबलवृद्धये बालस्य । तत्रोर्द्ध्वस्तनी
करालं कुर्य्यात् । लम्बस्तनी नासिकामुखं
छादयित्वा मरणमापादयेत् । ततः प्रशस्तायां
तिथौ शिरःस्नातामहतवाससमुदङ्मुखं शिशु-
मुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं
धौतमीषत्परिसुतमभिमन्त्र्य मन्त्रेणानेन पाय-
येत् ॥ * ॥
“चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः ।
भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥
पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने ।
दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥”
अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याद्व्याधि-
जन्म भवति । अपरिस्रुतेऽप्यतिस्तब्धस्तन्यपूर्णस्तन-
पानादुत्स्नुहितस्रोतसः शिशोः कासश्वासवमी-
प्रादुर्भावः । तस्मादेवं विधानं स्तन्यं न पाययेत् ।
क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्तन्यनाशो
भवति ॥ * ॥ अथास्याः क्षीरजननार्थं सौम-
नस्यमुत्पाद्य यवगोधूमशालिषष्टिकमांसरस-
सुरासौवीरकपिण्याकलशुनमत्स्य-कसेरुकशृङ्गा-
टक-विसविदारिकन्द-मधुक-शतावरी-नालिका-
लावूकालशाकप्रभृतीनि विदध्यात् ॥ * ॥
अथास्याः स्तन्यमप्सु परीक्षेत । तच्चेच्छीतल-
ममलं तनु शङ्खावभासमप्मु न्यस्तमेकीभावं
गच्छत्यफेनिलमतन्तुमन्नोत्प्लवते न सीदति वा
तच्छुद्धमिति विद्यात्तेन कुमारस्यारोग्यं शरीरो-
पचयो बलवृद्धिश्च भवति । न च क्षुधित-
शोकार्त्त-श्रान्तप्रदुष्टधातुगर्भिणीज्वरितातिक्षी-
णातिस्थूल-विदग्ध-भक्षविरुद्धाहार-तर्पितायाः
स्तन्यं पाययेन्नाजीर्णौषधञ्च बालं दोषौषध-
मलानां तीव्रवेगोत्पत्तिभयात् ॥ * ॥ भवन्ति
चात्र ।
“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा ।
दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति ॥
मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः ।
दूषयन्ति पयस्तेन शारीरा व्याधयः शिशोः ॥
भवन्ति कुशलस्तांश्च भिषक् सम्यग्विभावयेत् ।
अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते ॥
मुहुर्मुहुः स्पृशति तं स्पृश्यमाने च रोदिति ।
निमीलिताक्षो मूर्द्धस्थे शिरोरोगे न धारयेत् ॥
वस्तिस्थे मूत्रसङ्गार्त्तो रुजा तृष्यति मूर्च्छति ।
विण्मूत्रसङ्गवैवर्ण्यच्छर्द्याध्मानान्त्रकूजनैः ।
कोष्ठे दोषान् विजानीयात् सर्व्वत्रस्थांश्च
रोदनैः ॥”
तेषु च यथाभिहितं मृदुच्छेदनीयमौषधं
मात्रया क्षीरपस्य जीरसर्पिषा धात्र्याश्च
केवलमेव विदध्यात् । क्षीरान्नादस्यात्मनि
धात्र्याश्चान्नादस्य कषायादीनात्मन्येव न
धात्र्याः । तत्र मासादूर्द्ध्वं क्षीरपायाङ्गुलि-
पर्वद्वयग्रहणसम्मितामौषधमात्रां विदध्यात्
कोलास्थिसम्मितां कल्कमात्रां क्षीरान्नादाय
कोलसम्मितामन्नादायेति ॥ * ॥
“येषां गदानां ये योगाः प्रवक्ष्यन्तेऽगदङ्कराः ।
तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ॥
एकं द्बे त्रीणि चाहानि वातपित्तकफज्वरे ।
स्तन्यपायाहितं सर्पिरितराभ्यां यथार्थतः ॥
न च तृष्णाभयादत्र पाययेत शिशुं स्तनौ ।
विरेकवस्तिवमनान्यृते कुर्य्याच्च नात्ययात् ॥
मस्तुलुङ्गक्षयाद्यस्य वायुस्ताल्वस्थि नामयेत् ।
तस्य तृड्दैन्ययुक्तस्य सर्पिर्मधुरकैः शृतम् ॥
पानाभ्यञ्जनयोर्योज्यं शीताम्बूद्वेजनं तथा ।
वातेनाध्मापितां नाभिं सरुजां तुण्डिसंज्ञिताम् ॥
मारुतघ्नैः प्रशमयेत् स्नेहस्वेदोपनाहनैः ।
गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् ।
रसाञ्जनं विशेषेण पानालेपनयोर्हितम् ॥”
क्षीराहाराय सर्पिः पाययेत् सिद्धार्थकवचा-
मांसी-पयस्यापामार्गशतावरीशारिवाब्राह्मीपि-
प्पलीहरिद्राकुष्टसैन्धवसिद्धम् । क्षीरान्नादाय
मधुकवचापिप्पलीचित्रकत्रिफलासिद्धम् । अन्ना-
दाय द्बिपञ्चमूलीक्षीरतगरभद्रदारुमरिचमधु
विडङ्गद्राक्षाद्बिब्राह्मीसिद्धम् । तेनारोग्यबल
मेधायूंषि शिशोर्भवन्ति ॥ * ॥ बालं पुनर्गात्र
सुखं गृह्णीयान्न चैनं तर्जयेत् सहसा न प्रति-
बोधयेद्बित्रासभयात् । सहसा नापहरेदुत्क्षि-
पेद्वा वातादिविघातभयात् । नोपवेशयेत् कौब्ज्य-
भयान्नित्यं चैनमनुवर्त्तेत प्रियशतैरजिघांसुः ।
एवमनभिहतमनास्त्वभिवर्द्धते नित्यमुदग्रसत्त्व-
सम्पन्नो नीरोगः सुप्रसन्नमनाश्च भवति । वाता-
तपविद्युत्प्रभापादपलतादर्शनदीपावलोकनशून्या-
गारनिम्नस्थानगृहच्छायादिभ्यो दुर्ग्रहोपसर्ग-
तश्च बालं रक्षेत् ॥ * ॥
“नाशुचौ विसृजेद्बालं नाकाशे विषमे न च ।
नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ॥
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा ।
दद्यादास्तन्यपर्य्याप्तेर्बालानां वीक्ष्य मात्रया ॥”
षण्मासञ्चैनमन्नं प्राशयेल्लघु हितञ्च । नित्य-
मवरोधरतश्च स्यात् कृतरक्ष उपसर्गभयात् ।
प्रयत्नतश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ॥
अथ कुमार उद्विजते त्रस्यति रोदिति नष्ट-
संज्ञो भवति नखदशनैर्धात्रीमात्मानञ्च परि-
णुदति दन्तान् खादति कूजति जृम्भते भ्रुवौ
विक्षिपत्यूर्द्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठः
क्रूरो भिन्नामवर्च्चादीनार्त्तस्वरो निशि जागर्त्ति
दुर्ब्बलो म्लानाङ्गो मत्स्यछुच्छुन्दरीमत्कुणगन्धो
यथा पुरा धात्र्याः स्तन्यमभिलषति तथा नाभि-
लषतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं
विस्तरेणोत्तरे वक्ष्यामः ॥ * ॥ शक्तिमन्तञ्चैनं
ज्ञात्वा यथावर्णं विद्यां ग्राहयेत् । अथास्मै
पञ्चविंशतिवर्षाय द्वादशवर्षां पत्नीमावहेक्
पित्र्यधर्म्मार्थकामप्रजाः प्राप्स्यतीति ॥ * ॥
“ऊनषोडशवर्षायामप्राप्तः पञ्चविंशतिम् ।
यद्याधत्ते पुमान् गर्भं कुक्षिस्थः स विपद्यते ॥
जातो वा न चिरं जीवेत् जीवेद्बा दुर्ब्बलेन्द्रियः ।
तस्मादत्यन्तबालायां गर्भाधानं न कारयेत् ॥”
अतिवृद्धायां दीर्घरोगिण्यामन्येन वा विकारे-
णोपसृष्टायां गर्भाधानं नैव कुर्व्वीत । पुरुष-
स्याप्येवंविधस्य त एव दोषाः संभवन्ति । तत्र
पूर्व्वोक्तेः कारणैः पतिष्यति गर्भे गर्भाशयकटी-
वङ्क्षणवस्तिशूलानि रक्तदर्शनञ्च । तत्र शीतैः
परिषेकावगाह-प्रदेहादिभि-रुपचरेज्जीवनीय-
शृतशीतक्षीरपानैश्च । गर्भस्फुरणे मुहुर्मुहु-
स्तत्सन्धारणार्थं क्षीरमुत्पलादिसिद्धं पाययेत् ।
प्रसंसमाने सदाहपार्श्वपृष्ठशूलासृगुदरानाह-
मूत्रसङ्गाः । स्थानात् स्थानञ्चोपक्रामति गर्भे
कोष्ठे संरम्भस्तत्र स्निग्धाः शीताः क्रियाः वेद-
नायां महासहाक्षुद्रसहामधुकश्वदंष्ट्राकण्ट-
कारिकासिद्धं पयः शर्कराक्षौद्रमिश्रं पाययेत् ।
मूत्रसङ्गे दर्भादिसिद्धम् । आनाहे हिङ्गुसौव-
र्च्चललशुनवचासिद्धम् । अत्यर्थं स्रवति रक्ते
कोष्ठागारिकागारमृत्पिण्डसमङ्गाधातकीकुसुम-
नवमालिकागैरिकसर्ज्जरसरसाञ्जनचूर्णं मधुना-
पृष्ठ ५/०५९
वलिह्यात् । यथालाभं न्यग्रोधादित्वक् प्रबाल-
कल्कं वा पयसा पाययेदुत्पलादिकल्कं वा
कशेरुशृङ्गाटकशालूककल्कं वा शृतेन पयसो-
दुम्बरफलौदककन्दक्वाथेन वा शर्करामधुमधुरेण
शालिपिष्टं न्यग्रोधादिस्वरसपरिपीतं वा वस्त्रा-
वयवं योन्यां धारयेत् ॥ * ॥ अथादृष्टशोणित-
वेदनायां मधुकदेवदारुपयस्यासिद्धं पयः पाय-
येत् तदेवाश्मन्तकशतावरीपयस्यासिद्धं विदारि-
गन्धादिसिद्धं वा वृहतीद्वयोत्पलशतावरीसारि-
वापयस्यामधुकसिद्बं पयस्यार्कपुष्पीसिद्धं वा
पयः पाययेदिति । एवं क्षिप्रमुपक्रान्ताया
उपावर्त्तन्ते रुजो गर्भश्चाप्यायते । व्यवस्थिते
च गर्भे गव्येनोडुम्बरशलाटुसिद्धेन पयसा भोज-
येत् । अतीते लवणस्नेहवर्ज्ज्याभिर्यवागूभिरु-
द्दालकादीनां पाचनीयोपसंस्कृताभिरुपक्रमेत
यावन्तो मासा गर्भस्य तावन्त्यहानि । वस्त्यु-
दरशूलेषु पुराणगुडं दीपनीयसंयुक्तं पाययेद-
रिष्टं वा वातोपद्रवगृहीतत्त्वात् । स्रोतसां लीयते
गर्भः सोऽतिकालमवतिष्ठमानो व्यापद्यते तं
मृदुना स्नेहादिक्रमेणोपचरेत् । उत्क्रोशरस-
संसिद्धामनल्पस्नेहां यवागूं पाययेत् । माष-
तिलविल्वशलाटुसिद्धान् वा कुल्माषान्
भक्षयेन्मधुमाध्वीकं चानुपिबेत् सप्तरात्रम् ।
कालातीतस्थायिनि गर्भे विशेषतः सधान्य-
मुदूखलं मुषलेनाभिहन्यात् विषमे वा याना-
सने सेवेत । वाताभिपन्न एव शुष्यति गर्भः ।
स मातुः कुक्षिं न पूरयति मन्दं स्पन्दते च तं
वृंहणीयैः पयोभिर्मांसरसैश्चोपचरेत् । शुक्र-
शोणितं वायुनाभिप्रपन्नमवक्रान्तजीवमाध्मा-
पयत्युदरम् । तत् कदाचित् यदृच्छयोपशान्तं
नैगमेयापहतमिति भाषन्ते । तमेव कदाचित्
प्रलीयमानं नागोदरमित्याहुस्तत्रापि लीनवत्
प्रतीकारः ॥ * ॥ अत ऊर्द्ध्वं मासानुमासिकं
वक्ष्यामः ।
“मधुकं शाकबीजञ्च पयस्या सुरदारु च ।
अश्मन्तकस्तिलाः कृष्णास्ताम्रवल्ली शतावरी ॥
वृक्षादनी पयस्या च लता चोत्पलसारिवा ।
अनन्ता सारिवा रास्ना पद्मा मधुकमेव च ॥
बृहत्यौ काश्मरी चापि क्षीरिशुङ्गास्त्वचो
घृतम् ।
पृश्निपर्णी बला शिग्रु स्वदंष्ट्रा मधुपर्णिका ॥
शृङ्गाटकं विसं द्राक्षा कशेरु मधुकं सिताः ।
वत्सैते सप्त योगाः स्युरर्द्धश्लोकसमापनाः ॥
यथासंख्यं प्रयोक्तव्या गर्भस्रावे पयोयुताः ।
कपित्थबृहतीविल्वपटोलेक्षुनिदिग्धिकाः ॥
मूलानि क्षीरसिद्धानि पाययेद्भिषगष्टमे ।
नवमे मधुकानन्तापयस्यासारिवाः पिबेत् ॥
क्षीरं शुण्ठीपयस्याभ्यां सिद्धं स्याद्दशमे हितम् ।
सक्षीरा वा हिता शुण्ठी मधुकं सुरदारु च ।
एवमाप्याय्यते गर्भस्तीव्रा रुक् चोपशाम्यति ॥”
निवृत्तप्रसवायास्तु पुनः षड्भ्यो वर्षेभ्य ऊर्द्ध्वं
प्रसवमानाया नार्य्याः कुमारोऽल्पायुर्भवति ॥ * ॥
अथ गर्भिणीं व्याध्युत्पत्तावत्यये छर्द्दयेन्मधुरा-
म्लेनान्नोपहितेनानुलोमयेच्च संशमनीयञ्च मृदु
विदध्यादन्नपानयोरश्नीयाच्च मृदुवीर्य्यं मधुर-
प्रायं गर्भाविरुद्धञ्च गर्भाविरुद्धाश्च क्रिया यथा-
योगं विदधीत मृदुप्रायाः ॥ * ॥ भवन्ति चात्र ।
“सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतञ्च वा ।
मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥
अर्कपुष्पी मधु घृतं चूर्णितं कनकं वचा ।
हेमचूर्णानि कैटर्य्यः श्वेता दूर्व्वा घृतं मधु ॥
चत्वारोऽभिहिताः प्राशाः श्लोकार्द्धेषु चतु-
र्ष्वपि ।
कुमाराणां वपुर्मेधाबलबुद्धिविवर्द्धनाः ॥”
इति सुश्रुत आयुर्व्वेदशास्त्रे तृतीयं शारीरस्थानं
समाप्तम् ॥ इङ्गेरेजीभाषायां एनाटोमीत्युक्त-
मेतत् ॥ * ॥ शारीरं तपो यथा, --
“देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् ।
ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥”
इति भगवद्गीतायाम् १७ अध्यायः ॥

शारीरकं, क्ली, (शरीरमेव शारीरं कुत्सितत्वात्

तन्निवासी शारीरको जीवस्तमधिकृत्य कृतो
ग्रन्थः । शारीरक + अण् ।) वेदव्यासकृतवेदान्त-
मीमांसासूत्रम् । यथा । तथा च वयमस्यां
शारीरकमीमांसायां प्रदर्शयिष्यामः । वेदान्त-
मीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं
सूत्रम् । अथातो ब्रह्मजिज्ञासेति । इति शङ्कर-
भाष्यम् ॥ (शरीरमेव शरीरकं तत्र भवम् ।
शरीरक + अण् । शरीरभवे, त्रि । यथा,
भागवते । ३ । ३१ । १९ ।
“पश्यत्ययं धियणया ननु सप्तवध्रिः
शारीरके दमशरीर्य्यपरः स्वदेहे ॥”)

शारीरिकः, त्रि, (शरीर + ठक् ।) शरीर-

सम्बन्धि । तत्पर्य्यायः । कालेवरिकः २ गात्रिकः
३ वापुषिकः ४ सांहननिकः ५ वार्ष्मिकः ६
वैग्रहिकः ७ कायिकः ८ दैहिकः ९ मौर्त्तिकः
१० तानविकः ११ । इति अमरोक्तशरीर-
पर्य्यायशब्दात् ष्णिकप्रत्ययेन निष्पन्नमिदम् ॥

शारुकः, त्रि, (शृणातीति । शॄ + “लषपतपद-

स्थेति ।” ३ । २ । १५४ । इति उकञ् ।)
हिंसकः । शॄस्थाभूकम गमेत्यादिना ञुकप्रत्य-
येन निष्पन्नमिदम् । इति मुग्धबोधव्याक-
रणम् ॥ (यथा, मुग्धबोधे कारकप्रकरणे ।
“दृष्ट्वा दधिं शारुकमेतदर्च्चकान्
उन्नीतवन्तं यतिभिः सुदर्शनम् ॥”)

शार्कः, पुं, शर्करा । इति शब्दरत्नावली ॥

शार्ककः, पुं, दुग्धफेनः । शर्करापिण्डम् । इति

मेदिनी ॥

शार्करः, पुं, दुग्धफेनः । (शर्करास्त्यत्रेति । शर्करा

+ “देशे लुबिलचौ च ।” ५ । २ । १०५ । इति
अण् ।) शर्करान्वितदेशः । इति मेदिनी ॥
शर्करासम्बन्धिनि, त्रि ॥ (शर्करेव । “शर्करा-
दिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् । शर्करा-
सदृशम् ॥ इति काशिका ॥ * ॥ “सिकताशर्क-
राभ्यां च ।” ५ । २ । १०४ । इति अणि शर्करा-
विशिष्टञ्च ॥ यथा, शार्करं मधु ।” इति च
काशिका ॥)

शार्करकः त्रि, शर्कराबहुलदेशः । शर्करा-

शब्दात् कण्प्रत्ययेन ष्णिकप्रत्ययेन
च निष्पन्नः ॥

शार्करिकः त्रि, शर्कराबहुलदेशः । शर्करा-

शब्दात् कण्प्रत्ययेन ष्णिकप्रत्ययेन
च निष्पन्नः ॥

शार्करीयः, त्रि, शर्करायुक्तदेशः । शर्कराशब्दात्

णीयप्रत्ययेन निष्पन्नमिदम् ॥

शार्ङ्गं, क्ली, आर्द्रकम् । इति राजनिर्घण्टः ॥

(शृङ्गस्य विकारः । शृङ्ग + अण् ।) विष्णुधनुः ।
धनुर्मात्रम् । इति मेदिनी । गे, २६ ॥ (यथा,
रघुः । ४ । ६२ ।
“शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥”)
शृङ्गसम्बन्धिनि, त्रि ॥

शार्ङ्गष्टा, स्त्री, महाकरञ्जः । इति राजनिर्घण्टः ॥

पुस्तकान्तरे शाङ्गोष्ठा इति च पाठः ॥

शार्ङ्गी, [न्] पुं, (शार्ङ्गमस्यास्तीति । शार्ङ्ग +

इनिः ।) विष्णुः । इत्यमरः ॥ (यथा, रघुः ।
१२ । ७० ।
“स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥”)
धन्विमात्रम् । इति शार्ङ्गशब्दार्थदर्शनात् ॥

शार्द्दूलः, पुं, (शॄ हिंसायाम् + “खर्ज्जिपिञ्जादिभ्य

ऊरोलचौ ।” उणा० ४ । ९० । इति ऊलच्
प्रत्ययेन साधुः ।) व्याघ्रः । उत्तरपदे श्रेष्ठार्थ-
वाचकः । इत्यमरः ॥ राक्षसः । पशुभेदः । स
तु सरभः । इति मेदिनी ॥ पक्षिविशेषः । इति
धरणिः ॥ चित्रकः । इति राजनिर्घण्टः ॥

शार्द्दूलललितं, क्ली, धृतिवृत्तौ अष्टादशाक्षर-

पादच्छन्दोविशेषः । यथा, --
“मः सो जःस-त-सा दिनेश ऋतुभिः शार्द्दूल-
ललितम् ।
कृत्वा कंसमृगे पराक्रमविधिं शार्द्दूलललितं
यश्चक्रे क्षितिभारकारिषु सुरारातिष्वतिदवम् ।
सन्तोषं परमन्तु देवनिवहे त्रैलोक्यशरणं
श्रेयो वः स तनोत्वपारमहिमा लक्ष्मीप्रिय-
तमः ॥”
इति छन्दोमञ्जरी २ स्तवकः ॥

शार्द्दूलवाहनः, पुं, पञ्चविंशतिपूर्व्वजिनान्तर्गत-

जिनविशेषः । इति त्रिकाण्डशेषः ॥

शार्द्दूलविक्रीडितं, क्ली, अतिधृतिवृत्तौ ऊन-

विंशतिपादच्छन्दोविशेषः । यथा, --
“सूर्य्याश्वैर्म-स-ज-स्त-ताः सगुरवः शार्द्दूलविक्री-
डितम् ।
गोविन्दं प्रणमोत्तमाङ्ग रसने त्वं घोषयाहर्निशं
पाणी पूजयतं मनः स्मर पदे तस्यालयं गच्छ-
तम् ।
एवञ्चेत् कुरुताखिलं मम हितं शर्षादय-
स्तद्ध्रुवं
न प्रेक्ष्ये भवतां कृते भवमहाशार्द्दूलविक्री-
डितम् ।”
इति छन्दोमञ्जरी २ स्तवकः ॥

शार्व्वरं, क्ली, अन्धतमसम् । घातुके, त्रि । इति

मेदिनी ॥ (शर्व्वर्य्या इदम् । शर्व्वरी + अण् ।)
शर्व्वरीसम्बन्धिनि, त्रि ॥

शार्व्वरी, स्त्री, रात्रिः । इत्यमरटाकायां भरत-

धृतवाचस्पतिः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/शव&oldid=44087" इत्यस्माद् प्रतिप्राप्तम्