शब्दकल्पद्रुमः/वलयः

विकिस्रोतः तः
पृष्ठ ४/२९९

वलयः, पुं, (वलयवदाकृतिरस्त्यस्येति । अर्श

आदित्वात् अच् ।) अष्टादशगलरोगान्तर्गत-
गलरोगविशेषः । यथा, --
“वलास एवायतमुन्नतञ्च
शोथं करोत्पन्नगतिं निवार्य्य ।
तं सर्व्वथैवाप्रतिवार्य्य वीर्य्यं
विवर्ज्जनीयं वलयं वदन्ति ॥” * ॥
अथ गलरोगाणां चिकित्सा ।
“कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्म्मभिः ।
चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् ॥
क्वाथं दद्याच्च दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् ।
हरीतकीकषायो वा हितो माक्षिकसंयुतः ॥
कटुकातिविषादारुपाठामुस्ताकलिङ्गकाः ।
गोमूत्रकथिताः पीताः कण्ठरोगविनाशनाः ॥
मृद्वीका कटुका व्योषा दार्व्वी त्वक् त्रिफला
घनम् ।
पाठा रसाञ्जनं दूर्व्वा तेजोह्वेति सुचूर्णितम् ॥
क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम् ।
योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः ॥
जवाग्रजं तेजवतीं सपाठां
रसाञ्जनं दारु निशां सकृष्णाम् ।
क्षौद्रेण कुर्य्यात् गुटिकां मुखेन
तां धारयेत् सर्व्वगलामयेषु ॥”
इति भावप्रकाशः ॥ * ॥
वेला । कङ्कणम् । इति जटाधरः ॥ (दण्डव्यूह-
विशेषः । यथा, कामन्दकीये नीतिसारे ।
१९ । ४५ ।
“सुखाख्यो वलयश्चैव दण्डभेदाः सुदुर्ज्जयः ॥”)

वलयितं, त्रि, (वलयवत् कृतमिति । वलय +

तत्करोतीति णिच् ततः क्तः । यद्बा, वलयं
तदाकृतिर्जातमस्येति । वलय + इतच् ।) वेष्टि-
तम् । इत्यमरः ॥ (यथा, गीतगोविन्दे । ११ । २६ ।
“नीलनलिनमिव पीतपरागपटलभरवलयित-
मूलम् ॥”
यथा च वैरागिमङ्गले ।
“इन्धनमालावलयितबाहुः
परधनहरणे साक्षाद्राहुः ।
रण्डायौवनभञ्जनवीरः
कीर्त्तनपतने मल्लशरीरः ॥”)

वलिरः, त्रि, (वलते संवृणोति चक्षुस्तारामिति ।

वल + बाहुलकात् किरच् ।) केकरः । इत्य-
मरः ॥

व(ब)लिशं, क्ली, (वलिना गन्धवद्द्रव्याद्युपहारेण

श्यति हिनस्ति मत्सानिति । शो + कः ।) वडि-
शम् । इति शब्दरत्नावली ॥

व(ब)लिशिः, स्त्री, (वलिना आहारोपहारेण

मत्सादीन् श्यति विनाशवतीति । शो + बाहु
लकात् किः ।) वडिशम् । इति शब्दरत्ना
वली ॥

व(ब)लिशी, स्त्री, (वलिशि + कृदिकारादिति

ङीष् ।) वडिशम् । इति शब्दरत्नावली ॥

व(ब)लूकं, क्ली, (वलते इति । वल संवरणे + “वले-

रूकः ।” उणा० ४ । ४० । इति उकः ।) पद्म-
मूलम् । पक्षिविशेषे, पुं, । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः उणादिकोषश्च ॥

व(ब)लूलः, त्रि, बलवान् । वलशब्दात् गोतृणेत्या-

दिना ऊलप्रत्ययेन निष्पन्नः । इति मुग्धबोधव्याक-
रणम् ॥ अस्य पवर्गीयवकारादित्वेऽपि तत्रा-
लिखितत्वादत्र लिखनम् ॥

वल्क, क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, वल्कयति । भाषणं
कथनम् । इति दुर्गादासः ॥

व(ब)ल्कं, क्ली, (वलते इति । वल संवरणे + “शूक-

वल्कोल्काः ।” उणा० ३ । ४२ । इति कप्रत्य-
यान्तो निपातितः ।) वल्कलः । (यथा, रघौ ।
८ । ११ ।
“गुणवत् सुतरोपितश्रियः
परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां
प्रयताः संयमिनां प्रपेदिरे ॥”)
शल्कः । इति मेदिनीशब्दरत्नावल्यौ ॥ खण्डम् ।
इति विश्वः ॥

व(ब)ल्कः, पुं, (वल संवरणे + कः निपातितश्च ।)

पट्टिकालोघ्रः । इति राजनिर्घण्टः ॥

वल्कतरुः, पुं, (वल्कप्रधानस्तरुरिति मध्यलोपी

समासः ।) पूगवृक्षः । इति राजनिर्घण्टः ॥

वल्कदुमः, पुं, (वल्कप्रधानो द्रुमः ।) भूर्ज्जवृक्षः ।

इति राजनिर्घण्टः ॥ (विवरणमस्य भूर्ज्जशब्दे
ज्ञातव्यम् ॥)

व(ब)ल्कलं, क्ली, (वलते संवृणोतीति । वल +

बाहुलकात् कलन् ।) त्वचम् । इति राज-
निर्घण्टः ॥ डालचिनि इति भाषा ॥

व(व)ल्कलः, पुं क्ली, (वलते संवृणोतीति । वल +

बाहुलकात् कलन् ।) वृक्षत्वक् । वाकल इति
भाषा । तत्पर्य्यायः । त्वक् २ बल्कम् ३ । इत्य-
मरः ॥ त्वचा ४ त्वचम् ५ चोचम् ६ चोलकम्
७ शल्कम् ८ छल्लकम् ९ छल्लिः १० छल्ली ११
चोतकम् १२ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । १ । १५६ । २ ।
“तौ तु पूर्ब्बेण कालेन तपोयुक्तौ बभूवतुः ।
क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ ॥”)

वल्कला, स्त्री, (वल्कल + टाप् ।) शिलावल्का ।

इति राजनिर्घण्टः ॥

वल्कलोध्रः, पुं, (वल्कप्रधानो लोध्रः ।) पट्टिका-

लोध्रः । इति राजनिर्घण्टः ॥

वल्कवान् [त्] पुं, (वल्कः शल्कोऽस्त्यस्वेति ।

वल्क + मतुप् । मस्य वः ।) मत्स्यः । इति
त्रिकाण्डशेषः ॥ वल्कयुक्ते, त्रि ॥

वल्किलः, पुं, (वल्कोऽस्यास्तीति । वल्क + इलच् ।)

कण्टकः । इति शब्दरत्नावली ॥

वल्कुतं, क्ली, वल्कलः । इति शब्दचन्द्रिका ॥

वल्ग, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) वल्गति । अयं प्लुतगताविति
भट्टमल्लः । इति दुर्गादासः ॥

वल्गनं, क्ली, (वल्ग + ल्युट् ।) प्लुतगमनम् ।

बहुभाषणम् । वल्गधातोर्भावेऽनट्प्रत्ययेन
निष्यन्नम् ॥

वल्गा, स्त्री, (वल्ग्यतेऽश्वोऽनयेति । वल्ग +

करणे घञ् । टाप् ।) दन्तालिका । लागाम्
इति भाषा । तत्पर्य्यायः । अवक्षेपणी २
रश्मिः ३ कुशा ४ । इति हेमचन्द्रः ॥ (यथा,
राजतरङ्गिण्याम् । ५ । ३४७ ।
“वल्गन्मध्येऽश्ववाराणां नृत्यते वाग्रवाजिना ।
वल्गाङ्केनोद्वहल्लम्बं शिरस्त्रं वामपाणिना ॥”)

वल्गितं, क्ली, (वल्ग् + भावे क्तः ।) अश्वस्य

विशेषगमनम् । तत्तु वेगेन विक्षिप्तोपरिचरणम् ।
इत्यमरभरतौ ॥ प्लुतगमनम् । (यथा, शिशुपाल-
वधे । २ । २७ ।
“अनिर्लोडितकार्य्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥”)
बहुभाषणञ्च ॥

व(ब)ल्गुः, पुं, (वलते इति । वल प्राणने + “वलेर्गु-

कच् ।” उणा० १ । २० । इति उप्रत्ययः ।
गुगागमश्च धातोः ।) छागः । सुन्दरे, त्रि ।
इति मेदिनी । गे, २५ ॥ (यथा, रघौ । ५ । ६८ ।
“तद्द्वल्गुना युगपदुन्मिषितेन तावत्
सद्यः परस्परतुलामधिरोहतां द्वे ।
पस्पन्दमानपरुषेतरतारमन्तः
चक्षुस्तव प्रचलितभ्रमरञ्च पद्मम् ॥”)

व(ब)ल्गुकं, क्ली, (वल्गु + संज्ञायां स्वार्थे वा

कन् ।) चन्दनम् । विपिनम् । पणम् । रुचिरे,
त्रि । इत्यजयः ॥ तत्र पवर्गीयवकारादौ लिखि-
तोऽयं शब्दः । अस्माभिस्तु तत्रालिखितत्वादत्र
लिखितः ॥

वल्गुपत्रः, पुं, (वल्गु मनोज्ञं पत्रं यस्य ।)

वनमुद्गः । इति शब्दचन्द्रिका ॥

वल्गुला, स्त्री, (वल्गु लातीति । ला + कः ।

टाप् ।) वाकुची । पक्षिविशेषः । शेषस्य
पर्य्यायः । चक्रविष्ठा २ दिवान्धा ३ निशा-
चरी ४ स्वैरिणी ५ दिवास्वापा ६ मांसेष्टा ७
मातृवाहिणी ८ । इति राजनिर्घण्टः ॥

वल्गुलिका, स्त्री, (वल्गुल + संज्ञायां कन् ।

टापि अत इत्वञ्च ।) तैलपायिका । यथा, --
“वल्गुलिका मुखविष्ठा परोष्णी तैलपायिका ॥”
इति हेमचन्द्रः ॥
(यथा, कथासरित्सागरे । ५५ । ७९ ।
“ततो वल्गुलिकातस्तं कृष्ट्वा पटमदर्शयत् ।
स चित्रकृत्तां चित्रस्थां राज्ञेमदनसुन्दरीम् ॥”)

वल्भ, ङ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) वल्भते अन्नं लोकः ।
इति दुर्गादासः ॥

वल्भणं, क्ली, (वल्भ भक्षणे + भावे ल्युट् ।) भक्ष-

णम् । इति हेमचन्द्रः ॥

वल्मिकः, पुं क्ली, वल्मीकः । इति शब्दरत्नवली ॥

वल्मिकिः, पुं क्ली, वल्मीकः । इत्यमरटीकायां

भरतः ॥

व(ब)ल्मीकः, पुं, क्ली, (वलते इति । वल संवरणे +

“अलीकादयश्च ।” उणा० ४ । २५ । इत्यत्र
वलतेर्म्मुमागमश्चेति उज्ज्वलदत्तोक्त्या काकनन्तो
पृष्ठ ४/३००
निपातः ।) उयीकाकृतमृत्तिकास्तूपः । तत्-
पर्य्यायः । वामलूरः २ नाकुः ३ । इत्य-
मरः ॥ वल्मिकः ४ वाल्मीकः ५ वाल्मीकिः ६
वाल्मिकिः ७ । इति तट्टीकायां भरतः ॥ पुग-
लकः ८ शक्रमूर्द्धा ९ कृमिशैलकः १० । इति
शब्दरत्नावली ॥ * ॥ (यथा, मेघदूते । १५ ।
“वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्ड-
लस्य ॥”)
तन्मृत्तिकया शौचनिषेधो यथा । विष्णुपुरा-
णम् ।
“वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा ।
शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ।
अन्तःप्राण्यवपन्नाञ्च हलोत्खातां न कर्द्द-
माम् ॥”
इत्याह्रिकाचारतत्त्वम् ॥ * ॥
देवप्रतिष्ठायां स्नानात् पूर्व्वं शिल्पिदोषशान्त्यर्थं
तन्मृत्तिकया क्षालनं यथा, --
“वल्मीकमृत्तिकाभिस्तु गोमयेन सुभस्मना ।
क्षालयेत् शिल्पिसंस्पर्शदोषाणामुपशान्तये ॥”
वल्मीकमृदादिस्नाने मन्त्रविशेषानुपादानात्
मन्त्रानादेशे गायत्त्रीति शूलपाणिलिखितात्
गायत्त्र्या तत्तन्मूलमन्त्रेण वा स्नानं कारयि-
तव्यम् । तया स्नानं यथा, --
“स्नापयेत् प्रथमं देवं तोयैः पञ्चविधैरपि ।
पञ्चामृतैः पञ्चगव्यैः पञ्चमृत्पिण्डकैरपि ॥
मृत्तिका करिदन्तस्य पर्व्वताश्वखुरस्य च ।
कुशवल्मीकसम्भूतं मृत्पञ्चकमुदीरितम् ॥”
इति देवप्रतिष्ठातत्त्वम् ॥

वल्मीकः, पुं, (वल्मीक उयीकाकृतमृत्तिकास्तूपः

उत्पत्तिकारणत्वेनास्त्यस्येति । अच् ।) वाल्मीकि-
मुनिः । रोगविशेषः । इति विश्वः ॥ अथ
वल्मीकरोगस्य लक्षणम् ।
“ग्रीवां सकक्षाकरपाददेशे
सन्धौ गले वा त्रिभिरेव दोषैः ।
ग्रन्थिः स वल्मीकवदक्रियाणां
जातः क्रमेणैव गतप्रवृद्धिः ॥
मुखैरनेकैस्त्वतितोदवद्भि-
र्विसर्पवत् सर्पति चोन्नताग्रैः ।
वल्मीकमाहुर्भिषजो विकारं
निष्प्रत्यनीकं चिरजं विशेषात् ॥”
ग्रीवा कृकाटिका । अंसः स्कन्धः । कक्षा
बाहुमूलम् । गलः कण्ठः । वल्मीकवदित्यनेन
प्रचुरशिखरत्वमुच्चत्वमवगाढमूलत्वञ्च सूच्यते ।
निष्प्रत्यनीकं उपचारायोग्यम् ॥ * ॥ अथ तस्य
चिकित्सा ।
“शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसा-
धयेत् ।
विधानेनार्व्वुदोक्तेन शोधयित्वा च रोधयेत् ॥
बल्मीकन्तु भवेद्यस्य नातिवृद्धममर्म्मजम् ।
तत्र संशोधनं कृत्वा शोणितं मोक्षयेद् भिषक् ॥
कुलत्थिकानां मूलैश्च गुडूच्या लवणेन च ।
आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च ॥
श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ।
सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपवाहयेत् ॥
पक्वं तद्वा विजानीयाद्गतीः सर्व्वा यथाक्रमम् ।
अभिज्ञाय गतीश्छित्त्वा प्रदिह्यान्मतिमान्
भिषक् ॥
संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ।
व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् ॥
मनःशिलालभल्लातसूक्ष्मैलागुरुचन्दनैः ।
जातीपल्लवतक्रैश्च निम्बतैलं विपाचयेत् ॥
वल्मीकं नाशयेत्तद्धि बहुच्छिद्रं बहुव्रणम् ।
पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् ॥
वल्मीकं यत् सशोफं स्याद्बर्ज्यं तद्धि विजा-
नता ॥”
मनःशिलाद्यं तैलम् । इति भावप्रकाशः ॥
(अस्य मृदो व्यवहारेण रोगनाशित्वं यथा, --
“क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतं भिषक् ।
गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम् ॥”
इति वैद्यकचक्राणिसंग्रहे ऊरुस्तम्भाधिकारे ॥)

वल्मीकिः, पुं, वल्मीकः । इति शब्दमाला ॥

वल्मीकशीर्षं, क्ली, (वल्मीकस्य शीर्षमिव शीर्ष-

मस्य ।) स्रोतोऽञ्जनम् । इति राजनिर्घण्टः ॥

वल्मीकूटं, क्ली, (वल्मीकस्य वल्मीकसञ्चितं वा

कूटम् ।) वल्मीकः । इति हेमचन्द्रः ॥

वल्युल त् क लूनिपूत्योः । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।)
वल्यूलयति अववल्यूलत् । इति दुर्गादासः ॥

वल्यूल त् क लूनिपूत्योः । इति कविकल्पद्रुमः ॥

(अदन्तचुरा०-पर०-सक०-सेट् ।)
वल्यूलयति अववल्यूलत् । इति दुर्गादासः ॥

वल्ल, ङ संवरणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, वल्लते धनं लोकः
संवृणोतीत्यर्थः । इति दुर्गादासः ॥

वल्लः, पुं, (वल्लते संवृणोतीति । वल्ल + अच् ।)

गुञ्जात्रयपरिमाणम् । यथा, --
“वल्लस्त्रिगुञ्जो धरणञ्च तेऽष्टौ ।”
इति लीलावती ॥
द्विगुञ्जा । इति वैद्यकपरिभाषा । (यथा, --
“विषटङ्कवलिम्लेच्छदन्तीबीजं क्रमाद्बहु ।
दन्त्यम्बुमर्द्दितं यामं रसस्त्रिपुरभैरवः ॥
वल्लं व्योषेण चार्द्रस्य रसे च सितया सह ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥)
सार्द्धगुञ्जा । यथा, --
“गोधूमद्वितयोन्मिता तु कथिता गुञ्जा तया
सार्द्धया
वल्लो वल्लचतुष्टयेन भिषजां माषा मतस्तच्चतुः ।”
इत्यादि राजनिर्घण्टः ॥

वल्लकी, स्त्री, (वल्लते इति । वल्ल + क्वुण् । गौरा-

दित्व । ङीष् ।) वीणा । इत्यमरः ॥ (यथा,
हरिवंशे । ८४ । १११ ।
“वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ॥”)
सल्लकीवृक्षः । इति राजनिर्घण्टः ॥ (अस्याः
पर्य्यायो यथा, --
“वल्लकी गजभक्ष्या च सुवहा सुरभीरसा ।
महेरुणा कुन्दुरुकी वल्लकी च बहुस्रवा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वल्लभः, पुं, (वल्ल संवरणे + “रासिवल्लिभ्याञ्च ।”

उणा० ३ । १२५ । इति अभच् ।) दयितः ।
अध्यक्षः । सल्लक्षणतुरङ्गमः । इति मेदिनी । भे,
१८ ॥ (जह्रुवंशीयवलाकाश्वस्य पुत्त्रः । स च कुशि-
कस्य पिता । यथा, महाभारते । १३ । ४ । ५ ।
“वल्लभस्तस्य तनयः साक्षाद्धर्म्म इवापरः ।
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥”)

वल्लभः, त्रि, (वल्ल + अभच् ।) प्रियः । (यथा,

कामन्दकीयनीतिसारे । ५ । १९ ।
“पुत्त्रेभ्यश्च नमस्कुर्य्यात् वल्लभेभ्यश्च भूपतेः ॥”)
अध्यक्षः । इत्यमरः ॥ अध्यक्षोऽत्र गवाध्यक्षः ।
इति स्वामी ॥

वल्लभपालकः, त्रि, (वल्लभानां अश्वविशेषाणां

पालकः ।) अश्वरक्षकः । इति भूरिप्रयोगः ॥

वल्लभा, स्त्री, प्रिया । यथा, --

“प्रेयसी दयिता कान्ता प्राणेशा वल्लभा प्रिया ।
हृदयेशा प्राणसमा प्रेष्ठा प्रणयिनी च सा ॥”
इति हेमचन्द्रः ॥

वल्लरं, क्ली, (वल्लते इति । वल्ल + अरन् ।) कृष्णा-

गुरुः । इति राजनिर्घण्टः ॥ मञ्जरिः । इति शब्द-
रत्नावली ॥ गहनम् । कुञ्जम् । इति धरणिः ॥

वल्लरिः स्त्री, (वल्ल + क्विप् । वल्लं संवरणं

ऋच्छतीति । ऋ + अच इः । कृदि-
कारादिति वा ङीष् ।) मञ्जरी । इत्यमर-
भरतौ ॥ (लता । यथा, कुमारे । ४ । ३१ ।

वल्लरी स्त्री, (वल्ल + क्विप् । वल्लं संवरणं

ऋच्छतीति । ऋ + अच इः । कृदि-
कारादिति वा ङीष् ।) मञ्जरी । इत्यमर-
भरतौ ॥ (लता । यथा, कुमारे । ४ । ३१ ।
“अनपायिनि संश्रयद्रुमे
गजभग्ने पतनाय वल्लरी ॥”)
चित्रमूलम् । मेथिका । इति राजनिर्घण्टः ॥
(अस्याः पर्य्यायो यथा, --
“मेथिका मिथिनिर्मेथिर्दीपनी बहुपुत्त्रिका ।
बोधिनी बहुबीजा च जातिगन्धफला तथा ॥
वल्लरी चैव कामन्था मिश्रपुष्पा च कैरवी ।
कुञ्चिका बहुपर्णी च पित्तजिद्वायुनुद्द्विधा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे मागे ॥)

वल्लवः, पुं, (वल्ल प्रीतौ + क्विप् । वल्लं प्रीतिं

वातीति । वा + कः ।) गोपः । इत्यमरः ॥
(यथा, माघे । ११ । ८ ।
“द्रुततरकरदक्षाः क्षिप्तवैशाखशैले
दधति दधनि धीरानारवान् वारिणीव ।
शशिनमिव सुरौघाः सारमुद्धर्त्तुमेते
कलसिमुदधिगुर्व्वी वल्लवा लोडयन्ति ॥”)
भीमसेनः । इति मेदिनी । वे, ४४ ॥ (विराटनगरे
छद्मवासकाले एवास्य एतन्नाम आसीत् ।
यथामहाभारते । ४ । २ । १ ।
“पौरोगवो ब्रुवाणोऽहं वल्लवो नाम नामतः ।
उपस्थास्यामि राजानं विराटमिति मे मतिः ॥”)

वल्लवः, त्रि, (वल्लमानन्दं वावीति । वा + कः ।)

सूपकारः । इत्यमरः ॥

वल्लवी, स्त्री, (वल्लव + ङीष् ।) वल्लवजातिस्त्री ।

वल्लवपत्नी । तत्पर्य्यायः । आभीरी २ गोपिका ३
गोपी ४ महाशूद्री ५ गोपालिका ६ । इति
शब्दरत्नावली ॥ (यथा, किराते । ४ । १७ ।
पृष्ठ ४/३०१
“स मन्थरावल्गित-पीवरस्तनीः
परिश्रमक्लान्तविलोचनोत्पलाः ।
निरीक्षितुं नोपरराम वल्लवी-
रभिप्रनृत्ता इव वारयोषितः ॥”)

वल्लिः, स्त्री, (वल्लते संवृणोति वृक्षादीनिति ।

वल्ल + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ ।
इतीन् ।) लता । इत्यमरटीकायां भरतः ॥
(यथा, महाभारते । १२ । १८४ । १३ ।
“वल्लिर्वेष्टयते वृक्षं सर्व्वतश्चैव गच्छति ॥”)
पृथिवी । इति शब्दमाला ॥

वल्लिकण्टकारिका, स्त्री, (वल्लिरूपा कण्टकारिका ।)

अग्निदमनीक्षुपः । इति राजनिर्घण्टः ॥

वल्लिदूर्व्वा, स्त्री, (वल्लिरूपा दूर्व्वा ।) माला-

दूर्व्वा । इति राजनिर्घण्टः ॥

वल्लिशाकटपोतिका, स्त्री, (वल्लिप्रधाना शाकट-

पोतिका ।) मूलपोती । इति राजनिर्घण्टः ॥

वल्लिसूरणः, पुं, (वल्लिप्रधानः सूरणः ।) अत्यम्ल-

पर्णी । इति राजनिर्घण्टः ॥

वल्ली, स्त्री, (वल्लि + ङीष् ।) लता । इत्यमरः ॥

सा च भूमिप्रसारा वर्षमात्रस्थायिनी कुष्मा-
ण्डाद्या । (यथा च ।
“विदारीसारिवारजनीगुडुच्योऽजशृङ्गीचेतिवल्ली-
संज्ञः ॥” इति सुश्रुते सूत्रस्थाने ३८ अध्यायः ॥
यथा च, रामायणे । २ । ८० । ६ ।
“लतावल्लीश्च गुल्मांश्च स्थानूनश्मन एव च ।
जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्
द्रुमान् ॥”)
अजमोदा । इति मेदिनी । ले, ३८ ॥ कैवर्त्तिका ।
चव्यम् । इति राजनिर्घण्टः ॥

वल्लीगडः, पुं, (वल्लीरूपो गडः ।) मत्स्यविशेषः ।

भोला इति वालिकडा इति च भाषा । अस्य
गुणाः । लघुत्वम् । रूक्षत्वम् । अनभिष्यन्दि-
त्वम् । मरुत्करत्वम् । सर्य्यत्वम् । कफनाशन-
त्वञ्च । इति राजवल्लभः ॥

वल्लीजं, क्ली, (वल्ल्यां लतायां जायते इति ।

जन + डः ।) मरीचम् । इति राजनिर्घण्ट-
शब्दचन्द्रिके ॥ (यथा, बृहत्संहितायाम् । ८ । १३ ।
“भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्व्वशस्यञ्च ॥”)

वल्लीबदरी, स्त्री, (वल्लीरूपा बदरी ।) भूबदरी ।

इति राजनिर्घण्टः ॥

वल्लीमुद्गः, पुं, (वल्लीषु जातो मुद्गः ।) मकुष्टकः ।

इति राजनिर्घण्टः ॥

वल्लीवृक्षः, पुं, (वल्लीवत् दीर्घो वृक्षः ।) सालवृक्षः ।

इति राजनिर्घण्टः ॥

वल्लुरं, क्ली, (वल्ल्यते आव्रियते लतादिनेति ।

वल्ल + बाहुलकात् उरच् ।) कुञ्जम् । मञ्जरी ।
क्षेत्रम् । निर्जलस्थानम् । शाद्वलः । इति हेम-
चन्द्रः ॥ गहनम् । इति मेदिनी । रे, २१० ॥
विश्वधररत्नावलीषु वल्लरमिति पाठः ॥

वल्लूरं, त्रि, (वल्ल्यते संव्रियते इति । वल्ल + “खर्ज्जि-

पिञ्जादिभ्य ऊरोलचौ ।” उणा० ४ । ९० ।
इति ऊरच् ।) आतपादिना शुष्कमांसम् ।
इत्यमरः । २ । ६ । ६३ ॥ (तस्याभक्ष्यत्वं यथा,
मनुः । ५ । १३ ।
“निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥”
“वल्लूरं शुष्कमांसम् ।” इति तट्टीकायां कुल्लूक-
भट्टः ॥) शूकरमांसम् । इति मेदिनी । रे,
२१० ॥ वनक्षेत्रम् । वाहनम् । ऊषरभूमिः ।
इति हेमचन्द्रः ॥

वल्ल्या, स्त्री, (वल्ल + भावे घञ् । वल्लाय संवरणाय

साधुः । वल्ल + यत् ।) धात्रीवृक्षः । इति
हारावली ॥

व(ब)ल्वजः, पुं, (वल्वे पर्व्वते जायते इति । जन्

+ डः ।) उलपः । इति हेमचन्द्रः ॥ वाव इति
ख्याततृणम् । इत्यमरः ॥ वलते भुवं वेष्टयति
विशादित्वात् वप्रत्यये वल्वः पर्व्वतः तत्र जाता
वल्वजाः इत्यन्ये । स्वभावात् बहुत्वे वल्वजाः ।
एको वल्वज इति भाष्यकारवचनादेकत्वमपि
अतएव सुमनोऽप्सरोवल्वजादेर्व्वेति पाक्षिक-
बहुत्वार्थं क्रमदीश्वरसूत्रम् । इति तट्टीकायां
भरतः ॥ (यथा, मनुः । २ । ४३ ।
“मुञ्जालाभे तु कर्त्तव्याः कुशाश्मान्तकवल्वजैः ।
त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥”)

व(ब)ल्वजा, स्त्री, (वल्वे पर्व्वते जायते इति । जन

+ डः । टाप् ।) तृणविशेषः । सावे वागे इति
हिन्दी भाषा । तत्र्य्यायः । दृढपत्री २ तृणेक्षुः
३ तृणवल्वजा ४ मौञ्जीपत्रा ५ दृढतृणा ६
पानीयाश्रा ७ दृढक्षुरा ८ । अस्या गुणाः ।
मधुरत्वम् । शीतत्वम् । पित्तदाहतृषापहत्वम् ।
वातप्रकोपणत्वम् । रुच्यत्वम् । कण्ठशुद्धिकारि-
त्वञ्च । इति राजनिर्घण्टः ॥

वल्ह, क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क, वल्हयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥

वल्ह, ङ श्रैष्ठे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ङ, वल्हते धनी श्रेष्ठः
स्यादित्यर्थः ।

वश, लु स्पृहि । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-सक०-सेट् ।) लु, वष्टि धनं लोकः । इति
दुर्गादासः ॥

वशं, क्ली, (वश + “वशिरण्योरुपसंख्यानम् ।”

३ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या अप् ।)
इच्छा । प्रभुत्वम् । आयत्तता । इति शब्द-
रत्नावली ॥ (यथा, महाभारते । १२ ।
१३४ । ७ ।
“वशे बलवतां धर्म्मः सुखं भोगवतामिव ॥”)

वशंवदः त्रि, (वशं तवाहं वश इति वाक्यं वद-

तीति । वश + वद् + “प्रियवशे वदः खच् ।”
३ । २ । ३८ । इति खच् । “अरुर्द्विषदन्तस्य
मुम् ।” ६ । ३ । ६७ । इति मुम् ।) वशं वदति
यः । आयत्तकरवाक्यवक्ता । इति मुग्धबोध-
व्याकरणम् ॥ (वशीभूतः । यथा, राजतरङ्गि-
ण्याम् । ४ । ३९५ ।
“स जहार दुराचारो भूभृत् लोभवशंवदः ॥”)

वशः, त्रि, (वष्टीति । वश + अच् ।) आयत्तः । इति

शब्दरत्नावली ॥ (यथा, कथासरित्सागरे । ८ । १७ ।
“गुणाढ्योऽपि तदाकर्ण्य सद्यः खेदवशो-
ऽभवत् ॥”)

वशः, पुं, (वश + भावे अप् ।) इच्छा । इति

संकीर्णवर्गे अमरः ॥ (उश्यते इष्यते इति ।
वश + कर्म्मणि अप् ।) वेश्यागृहम् । आय-
त्तता । प्रभुत्वम् । इति त्रिकाण्डशेषः ॥ जन्म ।
इति हेमचन्द्रः ।

वशका, स्त्री, (वशेन आयत्ततया कायति शोभते

इति । कै + कः ।) वश्या नारी । इति शब्द-
रत्नावली ॥

वशक्रिया, स्त्री, (वशस्य क्रिया करणम् ।) वशी-

करणम् । तत्पर्य्यायः । संवदनम् २ । इत्यमरः ३
मणिमन्त्रौषधैर्व्वशीकरणं संवदनं संपूर्व्वो वदि-
र्व्वशीकरणे भावेऽनट् । संवदना च इति
केचित् । करणेऽनटि वशक्रियासाधने मणि-
मन्त्रादावपि । जयश्रियः संवदनं यतस्तदिति
रघुः । संचलनं इति पाठान्तरम् । इति
तट्टीकायां भरतः ॥

वशगा, स्त्री, (वशं गच्छतीति । गम + डः ।)

वशीभूता । इति शब्दरत्नावली ॥ (यथा,
बृहत्संहितायाम् । ४३ । ३२ ॥
“गाङ्गादिवाकरसुताजलचारुहारां
धात्रीं समुद्ररसनां वशगां करोति ॥”
अस्मिन्नर्थे वाच्यलिङ्ग एवायं शब्दः । यथा,
महाभारते । ४ । ६ । १२ ।
“ददानि ते हन्त वरं यमिच्छसि
प्रशाधि मत्स्यान् वशगोऽस्म्यहं तव ॥”)

वशा, स्त्री, (वश स्पृहि + अच् । टाप् । “वशि-

रण्योरुपसंख्यानम् ।” इति अप् वा ।) बन्ध्या ।
(अस्या धनं राज्ञा रक्षितव्यम् । यथा, मनुः ।
८ । २८ ।
“वशाऽपुत्त्रासु चैवम् स्याद्रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥”)
सुता । योषा । स्त्रीगवी । करिणी । इति मेदिनी ।
शे, १३ ॥ (यथा, कथासरित्सागरे । ६ । ११० ।
“असिच्यत स ताभिश्च वशाभिरिव वारणः ॥”)
बन्ध्या गवी । इत्यमरः ॥ (यथा, ऋग्वेदे । २ । ७ । ५ ।
“त्वं नो असि भारताग्ने वशाभिरुक्षभिः ॥”
“वशाभिर्व्वन्ध्याभिर्गोभिः ।” इति तद्भाष्ये सायणः ॥
वशीभूता । यथा, गारुडे । १८३ अध्याये ।
“सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।
स्त्रीणामग्रे भ्रामयेच्च क्षणाद्बै सा वशा भवेत् ॥”)

वशाढ्यकः, पुं, (वशया आढ्यकः । प्रचुरवशा-

वत्त्वात् तथात्वम् ।) शिशुमारः । इति शब्द-
रत्नावली ॥

वशापायी [न्], पुं, (वशां पिबतीति । पा +

णिनिः ।) कुक्कुरः । इति शब्दमाला ॥

वशि, क्ली, (वश + भावे इन् ।) वशित्वम् । इति

शब्दमाला ॥

वशिकः, त्रि, शून्यम् । इत्यमरः । ३ । १ । ५६ ॥

पृष्ठ ४/३०२

वशिका, स्त्री, (वशो वशीकरणं साध्यत्वेनास्त्यस्या

इति । वश् + ठन् ।) अगुरुः । इति शब्द-
चन्द्रिका ॥

वशिता, स्त्री, (वशिनो भावः । वशिन् + तल् ।)

वशित्वम् । इति हेमचन्द्रः ॥ (यथा, भाग-
वते । ११ । १५ । १६ ।
“नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते ।
मनो मय्यादधद्योगी मद्धर्म्मा वशितामियात् ॥”)

वशित्वं, क्ली, (वशिनो भावः । वशिन् + त्व ।)

आयत्तत्वम् । (यथा, षड्रत्ने । १ ।
“शास्त्रं सुचिन्तितमपि प्रतिचिन्तनीय-
माराधितोऽपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवतिः परिरक्षणीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥”)
शिवस्याष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । यथा, --
“अनिमा लघिमा प्राप्तिः प्राकाम्यं महिमा
तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावशायिता ॥”
वशित्वं स्वातन्त्र्यं येन स्वतन्त्रश्चरति इत्यमर-
टीकायां भरतः ॥

वशिनी, स्त्री, (वशो वशीकरणं साध्यत्वेनास्त्यस्या

इति । वश् + इनिः । ङीप् ।) वन्दा । शमी-
वृक्षः । इति शब्दरत्नावली ॥

वशिरं, क्ली, (उश्यते इष्यते इति । वश + बाहु-

लकात् किरच् । यद्वा, वशिं वशत्वं रातीति ।
रा + कः ।) सामुद्रलवणम् । इत्यमरः ॥

वशिरः, पुं, (वश + किरच् ।) गजपिप्पली ।

इत्यमरः ॥ (अस्य पर्य्यायो यथा, --
“करिपिप्पली करुणा कपिवल्ली कपिल्लिका ।
श्रेयसी वशिरश्चापि गजाह्वा गजपिप्पली ॥”
भुलिटा इति ख्यातः । अस्य पर्य्यायो यथा, --
“पार्व्वतेयश्च करभो वशिरः कपिपिप्पली ।
जामातासौ क्वचित्प्रोक्तः सूर्य्यावर्त्तः सितोऽपरः ॥”
इति बैद्यकरत्नमाला ॥)
चव्यम् । इति राजनिर्घण्टः ॥ अपामार्गः । इति
मेदिनी । रे, २०८ ॥ वचा । इति शब्दचन्द्रिका ॥

वशिष्ठः, पुं, (वशवतां वशिनां श्रेष्ठः । वशवत् +

इष्ठन् । “विन्मतोर्लक ।” ५ । ३ । ६५ । इति लुक् ।)
यद्वा, वरिष्ठः । पृषोदरादित्वात् साधुः । अस्य
निरुक्तिर्यथा, महाभारते । १३ । ९३ । ८९ ।
“वशिष्ठोऽस्मि वरिष्ठोऽस्मि वशे वासगृहेष्वपि ।
वशिष्ठत्वाच्च वासाच्च वशिष्ठ इति विद्धि माम् ॥”)
स्वनामख्यातमुनिः । तपय्यायः । अरुन्धती-
जानिः २ । इति हेमचन्द्रः ॥ अरुन्धतीनाथः ३
वाशिष्ठः ४ । इति शब्दरत्नावली ॥ स तु ब्रह्मणः
प्राणेभ्यो जातः । तस्य भार्य्या कर्द्दमकन्या अरु-
न्धती । पुत्त्राः सप्तर्षयः । इति श्रीभागवतमतम् ॥
अपि च ।
“वशिष्ठश्च तथो र्ज्जयां सप्त पुत्त्रानजीजनत् ।
कन्याञ्च पुण्डरीकाक्षां सर्व्वशोभासमन्विताम् ॥
रजो गात्रोर्द्वबाहुश्च मवनश्चानवस्तथा ।
सुतपाः शुक्र इत्येते सप्त पुत्त्रा महौजसः ।
सर्व्वे तपस्विनः प्रोक्ताः सर्व्वे यज्ञेषु भागिनः ।
अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः ॥”
इति कौर्म्मे १२ अध्यायः ॥
मित्रावरुणयोः पुत्त्रः । यथा, --
“इति पृष्टा नरेन्द्रेण कथ्यतामिति भूपते ।
वशिष्ठं चोदयामासुः समस्तास्ते तपोधनाः ॥
मुनिभिः प्रेरितः सोऽपि यथावद्यतमानसः ।
योगमास्थाय सुचिरं मैत्रावरुणिरात्मवान् ॥”
अन्यच्च ।
“मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः ।
एकार्षेयास्तथैवान्ये वशिष्ठा नाम विश्रुताः ॥
एते पक्षा वशिष्ठानां स्मृता ह्येकादशैव तु ।
अष्टावेते समाख्याता ब्रह्मणो मानसाःसुताः ॥”
इति वह्निपुराणे घृतधेनुविधिवाराहप्रादुर्भावा-
ध्यायौ ॥

वशीकरणं, क्ली, (वश + कृ + भावे ल्युट् । अभूत-

तद्भावे च्विः ।) मणिमन्त्रौषधैरायत्तीकरणम् ।
इति भरतजटाधरौ ॥ अस्य पर्य्यायः वशक्रिया-
शब्दे द्रष्टव्यः ॥ * ॥ तत्साधनौषधानि यथा, --
“ब्रह्मदण्डी वचा कुष्ठं प्रियङ्गुनागकेशरम् ।
दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ॥”
ॐ नारायणाय स्वाहेति ।
“ताम्बूलं दीयते यस्य स वशी स्यान्न संशयः ।”
ॐ हरि हरि स्वाहा ॥ १ ॥
“गोदन्तं हरितालञ्च संयुक्तं काकजिह्वया ।
चूर्णं कृत्वा यस्य शिरे दीयते स वशी भवेत् ॥ २ ॥
खञ्जरीटस्य मांसन्तु मधुना सह पेषयेत् ।
ऋतुकाले योनिलेपात् पुरुषो दासतामियात् ॥ ३ ॥
अगुरुं गुग्गुलुञ्चैव नीलोत्पलसमन्वितम् ।
गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥ ४ ॥
श्वेतापराजितामूलं पिष्टं रोचनया युतम् ।
यं पश्येत्तिलकेनैव वशीकुर्य्यान् नृपालये ॥ ५ ॥
काकजिह्वा वचा कुष्ठं निम्बपत्रं सकुङ्कुमम् ।
आत्मरक्तं सभावेयं वशी भवति मानवः ॥ ६ ॥
ॐ नमः सर्व्वसत्त्वेभ्यो नमः । सिद्धिं कुरु कुरु
स्वाहा ।
सप्तभिर्मन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।
स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥ ७ ॥
ब्रह्मदण्डी वचा पत्रं मधुना सह पेषयेत् ।
अङ्गलेपाच्च वनिता नान्यं भर्त्तारमिच्छति ॥ ८ ॥
मूलं जयन्त्या वक्त्वस्थं व्यवहारे जयप्रदम् ॥ ९ ॥
भृङ्गरालस्य भूलन्तु पिष्टं शुक्रेण संयुतम् ।
अक्षिणी चाञ्जयित्वा तु वशीकुर्य्यान्नरं किल ॥ १०
अपराजिताशिफां दद्यान्नीलोत्पलसमन्विताम् ।
ताम्बूलेन प्रदानाच्च वशीकरणमुत्तमम् ॥ ११ ॥
चतुःषष्टिकलाः प्रीक्ताः कामशास्त्रे वशीकराः ।
आलिङ्गनाद्या नृस्त्रीणां कुमार्य्यादेर्व्वशीकराः ॥
१२ ॥
रोचनां नागपुष्पाणि विल्वपुष्पं प्रियङ्गवः ।
कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्बशे ॥ १३ ॥
दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी ।
तिलतैलेन संयुक्तं योनिलेपात् वशो नरः ॥ १४ ॥
निम्बकाष्ठस्य धूपेन धूपयित्वा भगं स्त्रियः ।
सुभगा स्यात् सा च रुद्र पतिर्दासो भविष्यति ॥
१५ ॥
माहिषं नवनीतञ्च कुष्ठञ्च मधुयष्टिका ।
सौभाग्यं भगलेपात् स्यात् पतिर्दासो भवेत्तदा ॥
१६ ॥
पञ्च रक्तानि पुष्पाणि पृथग्जात्या समाहरेत् ।
कुङ्कुमेन समायुक्तमात्मरक्तसमन्वितम् ॥
पुष्पेण तु स पिष्ट्वा च रोचनायां समेकतः ।
स्त्रिया पुंसा कृतो रुद्र तिलकोऽयं वशीकरः ॥
१७ ॥
ब्रह्मदण्डा तु पुष्पेण याने पाने वशीकरः ॥ १८ ॥
ॐ गं गणपतये स्वाहेति ।
अयं गणपतेर्मन्त्रो धनविद्याप्रदायकः ॥
इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः ।
व्यवहारे जयः स्याच्च शतजाप्यान्नृणां प्रियः ॥
१९ ॥
तिलानान्तु घृताक्तानां कृष्णानां रुद्र होमयेत् ।
अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्द्दिनैः ॥ २० ॥
ह्रींकारं सविसर्गञ्च प्रातःसूर्य्यसमद्युतिम् ।
स्त्रीणां ललाटे विन्यस्य वश्यतां नयति ध्रुवम् ॥
२१ ॥
यस्तु जुहुयादयुतं शुचिः प्रयतमानसः ।
दृष्टिमात्रे सदा तस्य वशमायान्ति योषितः ॥ २२ ॥
मनःशिला पत्रकञ्च सगोरोचनकुङ्कुमम् ।
एभिः कृते च तिलके सदा स्त्री वशतामियात् ॥
२३ ॥
सहदेवो भृङ्गराजः सितापराजिता वचा ।
तेनैव तिलकं कृत्वा त्रैलोक्यं वशतामियात् ॥ २४
गोरोचना मीनपित्तमाभ्याञ्च कृतवार्त्तिकाम् ।
यः पुमांस्तिलकं कुर्य्याद्वामहस्तकनिष्ठया ।
स करोति वशं सर्व्वं त्रैलोक्यं नात्र संशयः ॥
२५ ॥
गोरोचना महादेव ऋतुशोणितभाविता ।
ततः कृताच्च तिलकान्मानवं यं निरीक्षते ।
तञ्च सर्व्वं वशं कुर्य्यान्नात्र कार्य्या विचारणा ॥
२६ ॥
नागेश्वरञ्च शैलेयं त्वक् पत्रञ्च हरीतकी ।
चन्दनं काष्ठसूक्ष्मैला रक्तशालिसमन्विता ।
एतैर्धूपो वशकरः स्मरवाण इवेश्वर ॥ २७ ॥
रतिकाले महादेव पार्व्वतीप्रिय शङ्कर ।
निजशुक्रं गृहीत्वा तु वामहस्तेन यः पुमान् ।
कामिनीचरणं वामं लिम्पेत् स स्यात् स्त्रियाः
प्रियः ॥ २८ ॥
सैन्धवञ्च महादेव पारावतमलं मधु ।
एभिर्लिप्तन्तु लिङ्गं वै कामिनीवशकृद्भवेत् ॥ २९ ॥
पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च ।
तण्डुलञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः ।
अनेन लिप्तलिङ्गस्य कामिनी वशतामियात् ॥”
३० ॥
इति मारुडे १८३ । १८६ । १८९ अध्यायाः ॥
“अथान्यत् संप्रवक्ष्यामि वशीकरणमुत्तमम् ।
पृष्ठ ४/३०३
येन विज्ञानमात्रेण मन्त्राः सिद्ध्यन्ति तत्क्षणात् ॥
प्रतिमां कारयेद्देवि ! पलेन रजतस्य च ।
पलार्द्धेन महेशानि ! साध्यस्य प्रतिमां शिवे ॥
हरितालं पलार्द्धञ्च हरिद्राचूर्णकं तथा ।
गर्त्तं कृत्वा सार्द्धहस्तं यत्र निःक्षिप्य सुन्दरि ! ॥
रक्तासनं तत्र दत्त्वा विशेत्तद्गतमानसः ।
चतुर्द्दिक्षु महेशानि ! पताका विनिवेशयेत् ॥
रक्तासने चोपविश्य पूर्ब्बास्यो जपमारभेत् ।
पूजाया नियमं देवि ! जानीहि नगनन्दिनि ॥
तिलपूर्णघटं तत्र स्थापयेत्तत्र देशिकः ।
प्राणप्रतिष्ठामन्त्रेण प्राणान् संस्थापयेद्बुधः ॥
अधः कृत्वा पूजयित्वा प्रवालमालया जपेत् ।
दशसाहस्रजापेन प्रयोगार्हो भवेत्ततः ॥
प्रणवं पूर्ब्बमुच्चार्य्य मायाबीजं द्वितीयकम् ।
का त्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम् ॥
ततो रक्तपदं ब्रूयाच्चामुण्डे तदनन्तरम् ।
साध्यनाम ततो न्यस्य वशमानय तत्परम् ॥
वह्निजायावधिर्म्मन्त्रो जपेद्दशसहस्रकम् ।
दशांशादिप्रमाणेन होमादींश्च समाचरेत् ॥
प्रातः स्नात्वा हविष्याशी शुचिर्भूत्वा जिते-
न्द्रियः ।
प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि ॥
जपे समाप्ते देवेशि ! हुनेद्दिने दिने शुभे ।
जातीपुष्पस्य होमेन वशयेन्नात्र संशयः ॥
कर्पू रमिश्रितैस्तोयैस्तर्पयेत् परदेवताम् ।
पूर्ब्बं प्रणवमुद्धृत्य चामुण्डां प्रवदेत्ततः ॥
तर्पयाम्यग्निजायान्तं मन्त्रं जानीहि सुन्दरि ! ।
अनेनैव विधानेन संतर्प्य परदेवताम् ॥
सिद्धिः प्रयोगाद्देवेशि ! जायते नात्र संशयः ।
अभिषेकं ततः कुर्य्यात् शङ्करि प्राणवल्लभे ॥
प्रणवञ्च महेशानि ! चामुण्डां तदनन्तरम् ।
अभिषिञ्चामि तत्पश्चात् हृदन्तेनाभिषिञ्चयेत् ॥
तद्दशांशेन देवेशि ! ब्राह्मणान् भोजयेत्तदा ।
एवं कृते महेशानि ! वशीकरणमुत्तमम् ॥
जायते नात्र सन्देहः सत्यं सत्यं न संशयः ।
कामतुल्यश्च नारीणां रिपूणां शमनोपमः ॥
यावज्जीवितपर्य्यन्तं स्मरबाण इवेश्वरि ! ।
जायते नात्र सन्देहः सत्यं सुरगणार्च्चिते ॥ * ॥
श्लेतापराजितामूलं पेषयेद्रोचनायुतम् ।
शतेनामन्त्रितं कृत्वा तिलकं कारयेत्ततः ॥
वशयेन्नात्र सन्देहः सत्यं सत्यं महेश्वरि ! ।
चन्द्रसूर्य्यौ यदि वृथा तदा निष्फलभाग्भवेत् ॥
रक्तवस्त्रेण चामुण्डां तोषयेद्बहुयत्नतः ।
सुवर्णं दक्षिणा देया वित्तानुसारतः प्रिये ! ॥
आद्यन्ते महतीं पूजां कुर्य्यात्तस्या वरानने ! ।
पञ्चदिनप्रयोगेण राजानं वशमानयेत् ॥
तव प्रीत्यै महादेवि ! कथितं भुवि दुर्लभम् ॥”
इति बृहन्नीलतन्त्रम् ॥

वशीभूतः, त्रि, वश्यतां प्राप्तः । अवशो वशो

भूत इत्यर्थे च्विप्रत्ययेन निष्पन्नः ॥

वशीरः, पुं, (वश् + ईरन् ।) गजपिप्पली । इति

जटाधरः ॥

वश्यं, क्ली, (वशाय वशीकरणाय साधु । “तत्र

साधुः ।” ४ । ४ । ९८ । इति यत् ।) लवङ्गम् ।
इति शब्दचन्द्रिका ॥

वश्यः, त्रि, (वशमधीनत्वं गत इति । वश् +

“वशं गतः ।” ४ । ४ । ८६ । इति यत् ।)
आयत्ततां गतः । तत्पर्य्यायः । प्रणेयः २ । इत्य-
मरः ॥ वशः ३ । इति शब्दरत्नावली ॥ (यथा,
मार्कण्डेयपुराणे । ३९ । १७ ।
“मृदुत्वं सेव्यमानास्तु सिंहशाद्र्दूलकुञ्जराः ।
यथा यान्ति तथा प्राणो वश्यो भवति
योगिनः ॥”
अग्निध्रस्य पञ्चमः पुत्त्रः । यथा, मार्कण्डेये ।
५३ । ३४ ।
“हरिर्वर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ।
वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते ॥”)

वश्यका, स्त्री (वश्या + स्वार्थे कन् ।) वशगा

स्त्री । इति शब्दरत्नावली ॥

वश्या, स्त्री, (वश्य + टाप् ।) वशीभूता नारी ।

तत्पर्य्यायः । वशगा २ वशास्या ३ वश्यका ४ ।
इति शब्दरत्नावली ॥ (यथा, उत्तरराम-
चरिते १ अङ्के । १ ।
“यं ब्राह्मणमियं देवी वाग्वश्येवानुवर्त्तते ।
उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥”)

वष, वधे । इति कविकल्पद्रुमः । (भ्वा०-पर०-

सक०-सेट् ।) वषति । इति दुर्गादासः ॥

वषट्, व्य, देवोद्देश्यकहविस्त्यागमन्त्रः । इत्य-

मरः ॥ स्वाहा श्रौषट् वौषट् वषट् स्वधा एते
पञ्चशब्दा देवहविर्द्दाने वह्निमुखहुतौ वर्त्तन्ते ।
देवाय हविषो दानं देवहविर्द्दानं तत्र देवा
इन्द्रादयः । अत्र पितरो देवता इति स्मृतेस्ते-
ऽपि देवाः हविर्द्दान इत्यनेन एते मन्त्रा इति
सूचितम् । इति भरतः ॥ (यथा, ऋग्वेदे ।
१० । ११५ । ९ ।
“इति त्वाग्ने वृष्टिहोत्रस्य पुत्त्रा
उपस्तुतास ऋषयोऽवोचन् ।
तांश्च पाहि गृणतश्च सूरीन्
वषड् वषडित्यूर्ध्वासो अनक्षन्
नमो नम इत्यूर्द्धासो अनक्षन् ॥”)

वषट्कारः, पुं, (वषट् इत्यस्य कारः करणं यत्र ।)

देवोद्देश्यकयागः । तत्पर्य्यायः । देवयज्ञः २
आहुतिः ३ होमः ४ होत्रम् ५ । इति हेम-
चन्द्रः ॥ (यथा कातन्त्रे कृत्षष्ठे इत्युणादिकेषु
कारशब्देन वा समासः । यथा वषट्कारः ।
स्वाहाकारः ॥)

वषट्कृतं, त्रि, (वषडिति मन्त्रेण कृतम् ।) हुतम् ।

इत्यमरः ॥
“अग्नौ हुतन्तु यद्धव्यं तत् स्यात्त्रिषु वषट्-
कृतम् ॥”
इति शब्दरत्नावली च ॥

वष्क, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) क्विपि वट् । ङ, वष्कते ।
इति दुर्तादासः ॥

वष्कयः, पुं, (वष्कते इति । वष्क गतौ + बाहु-

लकात् अयन् ।) एकहायनो वत्सः । इत्यमर-
टीकायां रायमुकुटधृतशाकटायनः ॥

वष्कयणी, स्त्री, (वष्कय एकहायनो वत्सः ।

तेन नीयते इति । नी + क्विप् ।
गौरादित्वात् ङीष् । “पूर्ब्बपदात् संज्ञाया-
मगः । ८ । ४ । ३ । इति णत्वम् । वष्कयि-
णीति पाठे । वष्कयोऽस्त्यस्या इति । “अत
इनि ठनौ ।” इति इनिः । अट् कुप्वाङिति
णत्वम् ।) चिरप्रसूता गौः । इत्यमरः ॥ “वष्कते
परिक्रामति वष्कयश्चिरकालीनवत्सः वक्ना
इति ख्यातः । वष्क ङ गतौ नाम्नीति अयः
वष्कयस्त्वेकहायनो वत्स इति कोषः तद्योगात्
वष्कयिणी नैकाजादिति इन् । वष्कयणीति
पाठे गोतृणेत्यादिनापामादित्वात् नः नदा-
दित्वादीप् । दुष्यमुषती गवेषितवष्कयिणीति
मूर्द्धन्यषमध्ये गदसिंहः ।” इति तट्टीकायां
भरतः ॥

वस, ऐ औ निवासे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-अनिट् ।) ऐ, उस्यात् । औ,
अवात्सीत् । इति दुर्गादासः ॥

वस, क स्नेहच्छिदोश्च । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-अक०-सक०-च सेट् ।) स्नेह इह
प्रीतिः । क, वासयति बन्धुः । चकारात् वधे
च । इति दुर्गादासः ॥

वस, त् क वासे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-अक०-सेट् ।) वसयति । इति
दुर्गादासः ॥

वस, य उ इर् स्तम्भे । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् । उदित्वात् क्त्वावेट् ।)
य, वस्यति । उ, वसित्वा वस्त्वा । इर्, अवसत्
अवासीत् अवसीत् । अस्मात् पुषादित्वान्नित्यं
ङ, इत्यन्ये । स्तम्भ इह नम्रतारहितीभावः ।
यो वस्यत्यरिष्विति हलायुधः । इति दुर्गा-
दासः ॥

वस, ल ङ स्तृतौ । इति कविकल्पद्रुमः ॥ (अदा०-

आत्म०-सक०-सेट् ।) स्तृतिरिह आच्छादन-
पूर्ब्बकधारणम् । ल ङ, वस्ते लोकः वस्त्रम् ।
इति दुर्गादासः ॥

वसतिः, स्त्री, (वस निवासे + “वहिवस्यर्त्तिभ्य-

श्चित् ।” उणा० ४ । ६० । इति भावाधि-
करणादौ अतिः) । वासः । (यथा, अमरु-
शतके । ११ ।
“धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे
ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिनीं बालां चिरं
ध्यायता ।
अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं
ग्रामीणैर्व्र जतो जनस्य वसतिर्ग्रामे निषिद्धा
यथा, ॥”)
यामिनी । निकेतनम् । इति मेदिनी । ते, १५० ॥
(यथा, कुमारे । ४ । ११ ।
पृष्ठ ४/३०४
“रजनीतिमिरावगुण्ठिते
पुरमार्गे घनशब्दविक्लवाः ।
वसतिं प्रिय ! कामिनां प्रियाः
त्वदृते प्रापयितुं क ईश्वरः ॥”)

वसती, स्त्री, (वसति + कृदिकारादिति ङीष् ।)

वासः । यामिनी । निकेतनम् । इति मेदिनी ।
ते, १५० ॥

वसनं, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस् +

ल्युट् ।) वस्त्रम् । इत्यमरः ॥ (यथा, गीत-
गोविन्दे । १ । १२ ।
“वहसि वपुषि विशदे वसनं जलदाभं
हलहतिभीतिमिलितयमुनाभम् ।
केशवधृतहलधररूप !
जय जगदीश हरे ! ॥”
वसनमिति । वस् + भावे ल्युट् ।) छादनम् ।
इति मेदिनी । ने, १२३ ॥ (वस + आघारे ल्युट् ।)
निवासः । (यथा, महाभारते । ५ । ४३ । ६० ।
“मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणन्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥”)
स्त्रीकटीभूषणम् । इति शब्दरत्नावली ॥

वसना, स्त्री, (वस + युच्ं ।) स्त्रीकटीभूषणम् ।

यथा, --
“सारसनं सारशनं वसना वशना तथा ।
वसनं वल्लनञ्चेति स्त्रीकटीभूषणे भवेत् ॥”
इति शब्दरत्नावली ॥

वसन्तः, पुं, (वसन्त्यत्र मदनोत्सवा इति । वस

+ “तॄभूवहिवसिभासिसाधिगडिमण्डिजिनन्दि-
भ्यश्च ।” उणा० ३ । १२८ । इति झच् ।)
ऋतुविशेषः । स च चैत्रवैशाखमासद्बयात्मकः ।
यथा । मधुश्च माधवश्च वासन्तिकावृतुः । इति
मलमासतत्त्वधृता श्रुतिः ॥ (फाल्गुनचैत्रात्मक-
श्चेति केचित् । वसन्तः कुम्भमीनयोरितिप्रयोः-
दर्शनात् ॥ * ॥) तत्पर्य्यायः ॥ पुष्पसमयः २ सुरभिः
३ । इत्यमरः ॥ मधुः ४ । इति शब्दरत्नावली ॥
माधवः ५ फल्गुः ६ । इति जटाधरः ॥ ऋतु-
राजः ७ पुष्पमासः ८ पिकानन्दः ९ कान्तः १०
कामसखः ११ ॥ तत्कालीनजलगुणाः । कषाय-
त्वम् । मधुरत्वम् । रूक्षत्वञ्च । इति राज-
निर्घण्टः ॥ (यथा, ऋतुसंहारे । ६ । २ ।
“द्रुमाः सपुष्पाः सलिलं सपद्मं
स्त्रियाः सकामाः पवनः सुगन्धिः ।
सुखाः प्रदोषा दिवसाश्च रम्या
सर्व्वं प्रिये ! चारुतरं वसन्ते ॥”
यथा च ।
“हेमन्ते चीयते श्लेष्मा वसन्ते च प्रकुप्यति ।
प्रायेण प्रशमं याति स्वयमेव समीरणः ।
शरत्काले वसन्ते च पित्तं प्रावृडृतौ कफः ॥”
इति पूर्ब्बखण्डे द्बितीयेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“मुदितकोकिलकूजितकाननं
मदनसूचककिंशुकशोभितम् ।
कुसुमसौरभरञ्जितभूधरं ॥
कलितमत्तमधुव्रतलालसम् ॥
मकरकेतनवाणसमाकुलं
मुदितमेव समस्तमिदं जगत् ।
मलयमारुतकॢप्तगुणान्वितः
कफकरो हि वसन्तऋतुर्भवेत् ।
कफजकोपविनाशनानलं
वमनमावनरूक्षनिषेवणम् ॥
विविधः सुरतानन्दः संश्रमः कफवारणः ।
कटुक्षाराम्लकाः सेव्याः शोधनं कफसम्भवे ॥
व्यायामश्रमसंरोधखिन्नो विश्रान्तमानसः ।
एवं क्रियासमापन्नो नरः शीघ्रं सुखी भवेत् ॥”
इति वसन्तोपचारः ॥
इहि हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥ * ॥
“कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः ।
हत्वाग्निं कुरुते रोगानतस्तं त्वरया जयेत् ॥
तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः ।
व्यायामोद्वर्त्तनाघातैर्जित्वा श्लेष्माणमुल्वणम् ॥
स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः ।
पुराणयवगोधूमक्षौरजाङ्गलशूल्यभुक् ॥
सहकाररसोन्मिश्रानास्वाद्य प्रिययार्पितान् ।
प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान् ॥
सौमनस्यकृतो हृद्यान् वयस्यैः सहितो पिबेत् ।
निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान् ॥
शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु वा ।
दक्षिणानिलशीतेषु परितो जलवाहिषु ॥
अदृष्टनष्टसूर्य्येषु मणिकुट्टिमकान्तिषु ।
परपुष्टविघुष्टेषु कामकर्म्मान्तभूमिषु ॥
विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु ।
गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत् सुखी ॥
गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत् ॥”
इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥
“हेमन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः ।
कायाग्निं वाधते रोगांस्ततः प्रकुरुते बहून् ॥
तस्माद्वसन्ते कर्म्माणि वमनादीनि कारयेत् ।
गुर्व्वम्लस्निग्धमधुरं दिवास्वप्नञ्च वर्ज्जयेत् ॥
व्यायामोद्वर्त्तनं धूमं कवडग्रहमज्जनम् ॥
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः ॥
शारभं शशमैणेयं मांसं लावकपिञ्जलम् ।
भक्षयेन्निगद सीधुं पिबेन्माध्वीकमेव वा ॥
वसन्तेऽनुभवेत् स्त्रीणां काननानाञ्च यौवनम् ॥”
इति चरके सूत्रस्थाने षष्ठेऽध्याये ॥
“मधुमाधवौ वसन्तः । फाल्गुनचैत्रौ वसन्तः ।
ता एवौषधयः कालपरिणामात् परिणतवीर्य्या
बलवत्यो हेमन्ते भवन्त्वापश्च प्रसन्नाः स्निग्धा
अत्यर्थं गुर्व्वास्ता उपयुज्यमाना मन्दकिरण-
त्वाद्भानोः सतुषारपवनोपस्तम्भितदेहानां देहि-
नामविदग्धाः स्नेहाच्छैत्यात् गौरवादुपलेपाच्च
श्लेष्मणः सञ्चयमापादयन्ति स सञ्चयो वसन्ते-
ऽर्करश्मिप्रविलापित ईषत्स्तब्धदेहानां देहिनां
श्लैष्मिकान् व्याधीन् जनयति ।” “पूर्ब्बाह्णे
वसन्तस्य लिङ्गम् ।”
“दिशो वसन्ते विमलाः काननैरुपशोभिताः ।
किंशुकाम्भोजवकुलचूताशोकादिपुष्पितैः ॥
कोकिलाषट्पदगणैरुपगीता मनोहराः ।
दक्षिणानिलसंवीताः सुमूखाः पल्वलोज्ज्वलाः ॥”
इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥ * ॥)
अस्याधिष्ठातृदेवतोत्पत्तिर्यथा, --
मन्मथ उवाच ।
“करिष्येऽहं तव विभो वचनाद्धरमोहनम् ।
किन्तु योषिन्महास्त्रं मे ततः कान्तां भवान्
सृज ॥
मया संमोहिते शम्भौ यया तस्यानुमोहनम् ।
कार्य्यं मनोरमां कामां तां निदेशय लोकभृत् ॥
तामहं नहि पश्यामि यया तस्यानुमोहनम् ।
कर्त्तव्यमधुना धातस्तत्रोपायं ततः कुरु ॥
मार्कण्डेय उवाच ।
एवंवादिनि कन्दर्पे धाता लोकपितामहः ।
कया संमोहनीयोऽयमिति चिन्तां जगाम ह ॥
चिन्ताविष्टस्य तस्याथ निःश्वासो यो विनिः-
सृतः ।
तस्माद्वसन्तः संजातः पुष्पव्रातविभूषितः ॥
चूताङ्कुरांस्तत्कलिकां विभ्रद्भ्रमरसंहतिम् ।
किंशुकान् सारसा रेजे प्रफुल्ल इव पादपः ॥
शोणराजीवसङ्काशः फुल्लतामरसेक्षणः ।
सन्ध्योदिताखण्डशशिप्रतिमास्यः सुनासिकः ॥
शङ्खवच्छ्रवणावर्त्तः श्यामकुञ्चितमूर्द्धजः ।
सन्ध्यांशुमालिसदृशः कुण्डलद्बयमण्डितः ॥
प्रमत्तवारणगतिर्विस्तीर्णहृदयस्थलः ।
पीनस्थूलायतभुजः कठोरकरयुग्मकः ॥
सुवृत्तोरुकटीजङ्घः कम्बुग्रीवोन्नतांसकः ।
गूढजत्रुः पीनवक्षः संपूर्णः सर्व्वलक्षणैः ॥
तादृशेऽथ समुत्पन्ने सम्पूर्णे कुसुमाकरे ।
ववौ वायुः ससुरभिः पादपा अपि पुष्पिताः ॥
पिकाश्च नेदुः सततं पञ्चमं मधुरस्वराः ।
प्रफुल्लपद्मा अभवन् सरस्यः स्वच्छपुष्कराः ॥”
इति कालिकापुराणे ४ अध्यायः ॥ * ॥
हरमोहनकाले अस्य कर्म्माणि यथा, --
“मधुश्च कुरुते कर्म्म यद्यत्तस्य विमोहने ।
तत् शृणुष्व महाभाग नित्यं तस्योचितं पुनः ॥
चम्पकान् केशरानाम्रान् करुणान् पाटलां-
स्तथा ।
नागकेशरपुन्नागान् किंशुकान् केतकान्
वकान् ॥
माधवीमल्लिकापर्णसारान् कुरुवकांस्तथा ।
उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ।
सुगन्धि कृतवान् यत्नात् अतीव शङ्कराश्रमम् ॥
लताः सर्व्वाः सुमनसो नूतनाङ्कुरसञ्चयाः ।
वृक्षान् रुचिरभावेन वेष्टयन्ति स्म तत्र च ॥
तान् वृक्षांश्चारुपुष्पौघांस्तैः सुगन्धिसमीरणैः ।
दृष्ट्वा कामवशं यातो न तत्र मुनिरप्युत ॥
तद्गणा अपि लोकेश नानाभावैः सुशोभनैः ।
रमन्ते स्म सुराः सिद्धा ये ये चापि तपोधनाः ॥
न तस्य पुनरस्माभिर्दृष्टं मोहस्य कारणम् ।
पृष्ठ ४/३०५
भावं न कुरुते कामं कायोत्थमपि शङ्करः ॥”
इति कालिकापुराणे ७ अध्यायः ॥ * ॥
वसन्ते वर्णनीयानि यथा, --
“सुरभौ दोला कोकिलमारुतसूर्य्यगतितरु-
दलोद्भिदाः ।
जातीतरपुष्पचयाम्रमञ्जरीभ्रमरझङ्काराः ॥”
इति कविकल्पलतायां प्रथमस्तवकः ॥ * ॥
अतिसारः । इति शब्दरत्नावली ॥ षड्रागान्त-
र्गतद्वितीयरागः । यथा, --
“रागाः षडेव तु प्रोक्ता रागिण्यस्त्रिंशदेव तु ।
भैरवोऽथ वसन्तश्च नटनारायणस्तथा ॥”
इत्यादि ॥ तस्य पञ्चरागिण्यो यथा, --
“आन्दोलिता च देशाख्या लोला प्रथममञ्जरी ।
मन्दारी चेति रागिण्यो वसन्तस्य सदानुगाः ॥”
अस्य ध्यानं यथा, --
“शिखण्डिवर्होच्चयबद्धचूडः
पुष्णन् पिकं चूतलताङ्कुरेण ।
भ्रमन् मुदा वाममनोज्ञमूर्त्ति-
र्मतङ्गमत्तः स वसन्तरागः ॥”
अस्य गानसमयो यथा, --
“श्रीपञ्चम्याः समारभ्य यावत् स्याच्छयनं हरेः ।
तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥”
इति सङ्गीतदामोदरः ॥
कल्लिनाथमते अस्य षड्रागिण्यो यथा ।
आन्धुली १ गमकी २ पठमञ्जरी ३ गौडकरी
४ धामकली ५ देवशाखा ६ ॥ हनूमन्मते
हिन्दोलरागपुत्त्रनामानोऽस्याष्टौ पुत्त्राः । किन्तु
तेषां मध्ये विभासस्थाने हिन्दोल इति लिखि-
तम् ॥ सोमेश्वरमते तस्य षड्रागिण्यो यथा ।
देशी १ देवगिरी २ वैराटी ३ टोडिका ४
ललिता ५ हिन्दोली ६ ॥ तन्मते अस्य रागस्य
रागिणीसहितस्य वसन्तर्त्तुर्गानसमयः । इति
सङ्गीतशास्त्रम् ॥ * ॥ तालविशेषः । यथा, --
“जयमङ्गलगन्धर्व्वमकरन्दत्रिभङ्गमाः ।
रतितालो वसन्तश्च जगज्झम्पोऽथ गारुणिः ॥”
इत्यादि ॥
“वसन्तताले कर्त्तव्यो नगणो मगणस्तथा ।
जगजझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम् ॥”
इति सङ्गीतदामोदरः ॥

वसन्तकः, पुं, (वसन्त + संज्ञायां कन् ।) श्योनाक-

प्रभेदः । इति राजनिर्घण्टः ॥ (रुमण्वतो नर्म्म-
सूहृदः पुत्त्रः । यथा, कथासरित्सागरे । ९ । ४४ ।
“सुप्रतीकस्य पुत्त्रश्च रुमण्वानित्यजायत ।
योऽस्य नर्म्मसुहृत्तस्य पुत्त्रोऽजनि वसन्तकः ॥”)

वसन्तकुसुमः, पुं, (वसन्ते कुसुमं यस्य ।) वृक्ष-

विशेषः । यथा, --
“वसन्तकुसुमः सेलुः शयितो द्विजकुत्सितः ॥”
इति शब्दमाला ॥

वसन्तकुसुमाकरः, पुं, औषधविशेषः । यथा, --

“प्रवालरसमौक्तिकाम्बरमिदं चतुर्भगभाक्
पृथक् पृथगथ स्मृते रजतहेमतो द्व्यंशके ।
अयोभुजगरङ्गकं त्रिलवकं विमर्द्याखिलं
शुभेऽहनि विभावयेत् भिषगिदं धिया सप्तशः ॥
द्रवैर्वृषनिशेक्षुजैः कमलमालतीपुष्पजैः
पयःकदलिकन्दजैर्मलयजैणनाभ्युद्भवैः ।
वसन्तकुसुमाकरो रसपतिर्द्विवल्लोऽशितः
समस्तगदहृद्भवेत् किल निजानुपानैरयम् ॥”
इति वृद्धयोगतरङ्गिणी ॥
(अथापरश्च ।
“द्विभागं हाटकं चन्द्रं त्रयो वङ्गाहिकान्तकाः ।
चतुर्भागं शुद्धमभ्रं प्रवालं मौक्तिकन्तथा ॥
भावयेद्गव्यदुग्धेन भावनेक्षुरसेन च ।
वासालाक्षारसोदीच्यरम्भाकन्दप्रसूनकैः ॥
शतपत्ररसेनैव मालत्याः कुङ्कुमोदकैः ।
पश्चाद्मृगमदैर्भाव्यं सुगन्धिरससम्भवम् ॥
कुसुमाकरविख्यातो वसन्तपदपूर्ब्बकः ।
गुञ्जाद्वयेन संसेव्यः सितामध्वाज्यसंयुतः ॥
मेहघ्नः कान्तिदश्चैव कामदः पुष्टिदस्तथा ।
वलीपलितनाशश्च श्रुतिभ्रंशं विनाशयेत् ।
पुष्टिदो बल्य आयुष्यः पुत्त्रप्रसवकारणः ॥
प्रमेहान् विंशतिञ्चैव क्षयमेकादशन्तथा ।
तथा सोमरुजं हन्ति साध्यासाध्यमथापि
वा ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधि-
कारे ॥)

वसन्तघोषी [न्], पुं, (वसन्ते वसन्तकाले घोषति

विरौति वसन्तं घोषयति विज्ञापयतीति वा ।
घुष + णिनिः ।) कोकिलः । इति केचित् ॥

वसन्तजा, स्त्री, (वसन्ते जायते इति । जन + डः ।)

वासन्तीलता । इति राजनिर्घण्टः ॥ (वसन्त-
कालोद्भवे, त्रि ॥)

वसन्ततिलकं, क्ली, (वसन्तस्य तिलकमिव ।)

पुष्पविशेषः । चतुर्दशाक्षरपादच्छन्दोविशेषः ।
यथा, --
“ज्ञेयं वसन्ततिलकं त भ जा ज गौ गः ॥
फुल्लं वसन्ततिलकं तिलकं वनाल्या
लीलापरं पिककुलं कलमत्र रौति ।
वात्येष पुष्पसुरभिर्मलयाद्रिवातो
यातो हरिः स मथुरां विधिना हताः स्मः ॥”
इति छन्दोमञ्जरी ॥ * ॥
औषधविशेषः । यथा, --
“अक्षारलूदहनसैन्धवविश्वशक्र-
चूर्णं करञ्जसहितं मथितेन पीतम् ।
नैवं प्ररोहति पुनर्गुदजः स्वहेतो-
स्तस्मै वसन्ततिलकैरपि कल्पकल्पम् ॥”
इति वृत्तरत्नावल्यां गुदजरोगचिकित्सा ॥
(अन्यविधमौषधम् । यथा, --
“हेम्नो भस्मकमभ्रकं द्विगुणितं लौहास्त्रयः
पारदा-
श्चत्वारो नियतन्तु वङ्गयुगलञ्चैकीकृतं मर्द्दयेत् ।
मुक्ताविद्रुमयो रसेन समता गोक्षुरवासेक्षुणा
सर्व्वं वन्थकरीषकेण सुदृढं गुप्तं पचेत् सप्तधा ॥
कस्तूरीघनसारमर्द्दितरसः पश्चात् सुसिद्धो
भवेत् ।
कासश्वाससपित्तवातकफजित्पाण्डुक्षयादीन्
हरेत्
शूलादिग्रहणीं विषादिहरणो मेहांस्तथा
विंशतिम् ॥
हृद्रोगादिहरो ज्वरादिशमनो वृष्यो वयोवर्द्धनः
श्रेष्ठः पुष्टिकरो वसन्ततिलको मृत्युञ्जयेनोदितः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे रसायनाद्यधिकारे ॥)

वसन्तदूतः, पुं, (वसन्तस्य दूत इव ।) आम्रवृक्षः ।

कोकिलः । पञ्चमरागः । इति विश्वमेदिन्यौ ॥

वसन्तदूती, स्त्री, (वसन्तस्य दूतीव ।) पाटली-

वृक्षः । माधवीलता । इति मेदिनी । ते, २३३ ॥
गणिकारी । पिकी । इति राजनिर्घण्टः ॥

वसन्तद्रुः, पुं, (वसन्तस्य द्रुर्वृक्षः ।) आम्रवृक्षः ।

इति शब्दमाला ॥

वसन्तपञ्चमी, स्त्री, (वसन्तस्य पञ्चमी ।)

श्रीपञ्चमी । यथा, --
“मकरस्थे सहस्रांशौ शुक्लपक्षे यशस्विनि ! ।”
इत्यारभ्य ।
“पञ्चम्याञ्च जगद्धात्रीं प्रातरेव नदीजलैः ।
स्नापयित्वा सलक्ष्मीकां कुम्भैर्मारकतैरपि ॥
वसन्तपञ्चमी नाम सर्व्वपापप्रमोचनी ।
वसन्तञ्च समभ्यर्च्च्य कन्दर्पं सरतिं प्रिये ! ॥
वसन्तरागश्रवणात् श्रियमाप्नोत्यभीप्सिताम् ।
श्रीपञ्चमीन्तु केचित्तां मुनयः प्रवदन्ति वै ।
वर्त्तयेदेकभक्तेन श्रियो न विच्युतिर्भवेत् ॥”
इति मत्स्यसूक्ते ५५ पटलः ॥
अन्यच्च ।
“माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत् ।
नवैः प्रवालैः कुसुमैरनुलेपैर्व्विशेषतः ॥
नीराजनोत्सवं कृत्वा भक्त्या संमान्य वैष्णवान् ।
वसन्तरागं जनयन् गीतनृत्यादि कारयेत् ॥”
तदुक्तम् ।
“श्रीपञ्चमीं समारभ्य यावत् स्याच्छयनं हरेः ।
वसन्तरागः कर्त्तव्यो नान्यदा तु कदाचनेति ॥
कृत्वा वसन्तपञ्चम्यां श्रीकृष्णस्यार्च्चनोत्सवम् ।
स्याद्बसन्त इव प्रेयान् वृन्दावनविहारिणः ॥”
इति हरिभक्तिविलासे १४ विलासः ॥

वसन्तसखः, पुं, (वसन्तस्य सखा । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
कामदेवः । इति हलायुधः ॥

वसन्तोत्सवः, पुं, (वसन्तस्य उत्सवः ।) फाल-

गुनोत्सवः । यथा, --
“फाल्गुन्यां पौर्णमास्यान्तु विदध्याद्वैष्णवैः सह
श्रीकृष्णप्रियभक्तस्य वसन्तस्यार्च्चनोत्सवम् ॥
भविष्योत्तरतो ज्ञेयस्तद्विधिश्चेदपेक्षते ।
यः श्रीयुधिष्ठिरस्योक्तो व्यक्तं भगवता स्वयम् ॥”
तन्माहात्म्यञ्च तत्रैव ।
“एवं यः कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्-
सवम् ।
मत्प्रसादाच्च सिद्ध्यन्ति तस्य सर्व्वे मनोरथाः ॥
वृत्ते तुषारसमये सितपञ्चदश्यां
प्रातर्व्वसन्तसमये समुपस्थिते च ।
पृष्ठ ४/३०६
संप्राश्य चूतकुसुमं सह चन्दनेन
सत्यं हि पार्थ पुरुषोऽब्दशतं सुखी स्यात् ॥”
इति श्रीहरिभक्तिविलासे १४ विलासः ॥
(वसन्तकालोद्भवोत्सवमात्रम् । यथा, कथा-
सरित्सागरे । ४ । ४९ ।
“अथ तस्मिन् महावेशो वसन्तोत्सववासरे ।
आययौ प्रथमे यामे कुमारसचिवो निशि ॥”)

वसा, स्त्री, (वसति वस्ते वा । वस निवासे वस

आच्छादने वा + अच् । स्त्रियामाप् ।) मांस-
प्रभवधातुविशेषः । इत्यमरः ॥ (यथा, सुश्रुते
शारीरस्थाने ४ अध्याये ।
“शद्धमांसस्य यः स्नेहः सा वसा परि-
कीर्त्तिता ॥”)
अस्या विवरणं मेदःशब्दे द्रष्टव्यम् ॥ मांस-
रोहिणी । इति राजनिर्घण्टः ॥

वसाढ्यः, पुं, (वसया आढ्यः । प्रचुरवसावत्त्वादस्य

तथात्वम् ।) शिशुमारः । इति त्रिकाण्डशेषः ॥

वसिः, पुं, (वस्ते आच्छादयत्यनेन वस्यते आच्छा-

दनपूर्व्वकं ध्रियते इति वा । वस आच्छादने +
“खनिकष्यञ्जीति ।” उणा० ४ । १३९ । इति
इः ।) वसनम् । इत्युणादिकोषः ॥

वसिरं, क्ली, (वस् + किरच् ।) सामुद्रलवणम् ।

गजपिप्पली । इति धरण्यमरटीके ॥ (अस्य
गुणा यथा, --
“वसिरं शीतपाक्यञ्च सारुष्करनिबन्धनम् ।
विष्टम्भि दुर्ज्जरं रूक्षं शीतलं वातकोपनम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥
पुं, रक्तापामार्गः । तत्पर्य्यायो यथा, --
“रक्तोऽन्यो वसिरो वृत्तफलो धामार्गवोऽपि च ।
प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वसिष्ठः, पुं, (वशिष्ठः । पृषोदरादित्वात् शस्य सः ।)

वशिष्ठमुनिः । इति द्विरूपकोषः ॥

वसु, क्ली, (वसत्यनेनेति । वस + “शॄस्वृस्निहीति ।”

उणा० १ । ११ । इति उः ।) रत्नम् । धनम् ।
इत्यमरः ॥ (यथा, रघुः । ८ । ३१ ।
“बलमार्त्तभयोपशान्तये
विदुषां सत्कृतये बहुश्रुतम् ।
वसु तस्य विभोर्न केवलं
गुणवत्तापि परप्रयोजनम् ॥”)
वृद्धौषधम् । श्यामम् । इति मेदिनी । से, ६ ॥
हाटकम् । इति विश्वः ॥ जलम् । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

वसुः, पुं, (वसतीति । वस + उः ।) वकवृक्षः ।

अनलः । रश्मिः । गणदेवताविशेषः । इत्यमरः ॥
स चाष्ट संख्यातः । यथा, --
“धरो ध्रुवश्च सोमश्च विष्णुश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ क्रमात् स्मृताः ॥”
इति भरतः ॥
दक्षो द्वितीयजन्मनि षष्ठमन्वन्तरे असिक्र्यां
पत्न्यां षष्टिकन्या जनयामास । ताः प्रजा-
पतिभ्यो दत्तवान् । धर्म्माय दश । तासां
नामानि । भानुर्लम्बा ककुद्यामिर्विश्वा साध्या
मरुत्वती वसुर्मुहूर्त्ता सङ्कल्पा । आसां मध्ये
वसोरष्टौ वसवः पुत्त्रा यथा । द्रोणः प्राणः ध्रुवः
अर्कः अग्निः दोषः वास्तुः विभावसुरिति ।
द्रोणस्य अभिमत्यां पत्न्यां हर्षशोकभयादयः
पुत्त्राः । १ । प्राणस्य उर्ज्जस्वत्यां द्वौ पुत्त्रौ सह-
स्रायुः पुरोजवश्च । २ । ध्रुवस्य धारण्यां पुरः
पुत्त्रः । ३ । अर्कस्य वासनायां तर्षादयः पुत्त्राः । ४ ।
अग्नेर्वसोर्धारायां द्रविणकादयः पुत्त्राः । ५ ।
दोषस्य शर्व्वर्य्यां शिशुमारो हरेरंशः । ६ ।
वास्तोराङ्गिरस्यां विश्वकर्म्मा । विश्वकर्म्मणः
पुत्त्रश्चाक्षुषो मनुरभूत् । विश्वे साध्या मनोः
सुताः । ७ । विभावसोरुषायां त्रयः पुत्त्राः
व्युष्टरोचिषातपनामानः । ८ । इति श्रीभागवत-
मतम् ॥ * ॥ मतान्तरे अष्टौ वसवो यथा, --
धरः १ ध्रुवः २ सोमः ३ सावित्रः ४ अनिलः ५
अनलः ६ प्रत्यूषः ७ प्रभासः ८ । इति महा-
भारते दानधर्म्मः ॥ अपि च ।
“आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः ॥
आपस्य पुत्त्रो वैतण्ड्यः श्रमः श्रान्तो ध्वनि-
स्तथा ।
ध्रुवस्य पुत्त्रो भगवान् कालो लोकप्रकालनः ॥
सोमस्य भगवान् वर्च्चा वर्च्चस्वी येन जायते ।
धरस्य पुत्त्रो द्रविणो हुतो हव्यवहस्तथा ॥
मनोहरायाः शिरसः प्राणोऽथ रमणस्तथा ।
अनिलस्य शिवा भार्य्या तस्याः पुत्त्रः पुरोजवाः ॥
अविज्ञातगतिश्चैव द्वौ पुत्त्रावलिनस्य तु ।
अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत ॥
तस्याः शाखो विशाखश्चानैगमेयश्च पृष्टजाः ।
प्रत्यूषस्य विदुः पुत्त्रं ऋषिं नाम्ना च देवलम् ॥
द्वौ पुत्त्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ।
बृहस्पतेश्च भगिनी वरस्त्री ब्रह्मचारिणी ॥
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य च ।
विश्वकर्म्मा महाभागस्तस्यां जज्ञे प्रजापतिः ॥”
इति वह्निपुराणे कश्यपीयप्रजासर्गनामाध्यायः
कौर्म्मे १४ अध्यायश्च ॥ * ॥ (एते वशिष्ठस्य
धेनुं नन्दिनीमपहृत्य तच्छापग्रस्ता पृथिव्यां
शन्तनुपुत्त्रा आसन् । तेषु द्यौनामा वमुरेव
कुरुवृद्धो भीष्मः । एतद्विवरणं यथा, देवीभाग-
वते । २ । ३ । २४ -- ४४ ।
“एतस्मिन् समये चाष्टौ वसवः स्त्रीसम-
न्विताः ।
वशिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया ॥
पृथ्वादीनां वसूनाञ्च मध्ये कोऽपि वसूत्तमः ।
द्यौर्नामा तस्य भार्य्याथ नन्दिनीं गां ददर्श ह ॥
दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ।
द्यौस्तामाह वशिष्ठस्य गौरियं शृणु सुन्दरि ! ॥
दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथवा ।
अयुतायुर्भवेन्नूनं सदैवागतयौवनः ।
तच्छ्रुत्वा सुन्दरी प्राह मर्त्यलोकेऽस्ति मे सखी ।
उशीनरस्य राजर्षेः पुत्त्री परमशोभना ॥
तस्या हेतोर्महाभाग ! सवत्सां गां पय-
स्विनीम् ।
आनयस्वाश्रमश्रेष्ठं नन्दिनीं कामदां शुभाम् ॥
यावदस्याः पयः पीत्वा सखी मम सदैव हि ।
मानुषेषु भवेदेका जरारोगविवर्ज्जिता ॥
तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नन्दिनीम् ।
अवमत्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः ॥
हृतायामथ नन्दिन्यां वशिष्ठस्तु महातपाः ।
आजगामाश्रमपदं फलान्यादाय सत्वरः ॥
नापश्यत् स यदा धेनुं सवत्सां स्वाश्रमे मुनिः ।
मृगयामास तेजस्वी गह्वरेषु वनेष्वपि ॥
नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ।
वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् ॥
वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ।
तस्मात् सर्व्वे जनिष्यन्ति मानुषेषु न संशयः ॥
एवं शशाप धर्म्मात्मा वसूंस्तान् वारुणिः स्वयम् ।
श्रुत्वा विमनसः सर्व्वे प्रययुर्दुःखिताश्च ते ॥
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ।
प्रसादयन्तस्तमृषिं वसवः शरणं गताः ॥
मुनिस्तानाह धर्म्मात्मा वसून्दीनान् पुरः-
स्थितान् ।
अनुसंवत्सरं सर्व्वे शापमोक्षमवाप्स्यथ ॥
येनेयं विहृता धेनुर्नन्दिनी मम वत्सला ।
तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति ॥
ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्व-
राम् ।
ऊचुस्तां प्रणताः सर्व्वे शप्तां चिन्तातुरां नदीम् ॥
भविष्यामो वयं देवि ! कथं देवाः सुधाशनाः ।
मानुषाणाञ्च जठरे चिन्तेयं महती हि नः ॥
तस्मात्त्वं मानुषी भूत्वा जनयास्मान् सरिद्वरे ! ।
शन्तनुर्नाम राजर्षिस्तस्य भार्य्या भवानधे ! ॥
जातान् जातान् जले चास्मान् निक्षिपस्व
सुरापगे ! ।
एवं शापविनिर्मोक्षो भविता नात्र संशयः ॥
तथेत्युक्ताश्च ते सर्व्वे जग्मुर्लोकं स्वकं पुनः ।
गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः ॥”)
योक्त्रम् । राजा । इति मेदिनी । से, ६ ॥ धनाधिपः ।
इति विश्वः ॥ साधुः । इति शब्दरत्नावली ॥
पीतमुद्गः । वृक्षः । इति हेमचन्द्रः ॥ पुष्करिणी ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ शिवः ।
सूर्य्यः । इत्यनेकार्थकोषः ॥ (विष्णुः । यथा,
महाभारते । १३ । १४९ । ८७ ।
“वसुप्रदो वासुदेवो वसुर्वसुमना हरिः ॥”
“वसन्ति भूतान्यत्र एतेषु स्वयमपीति वसुः ।”
इति तत्र शाङ्करभाष्यम् ॥) कुलीनकायस्थस्य
पद्धतिविशेषः । यथा शूद्राणां नामकरणे वसु-
घोषादिपद्धतियुक्तनामत्वञ्च बोध्यम् । इत्युद्वाह-
तत्त्वम् ॥ अष्टसंख्या । यथा, --
“युग्माग्निकृतभूतानि षण्मुन्योर्वसुरन्ध्रयोः ॥”
इति तिथ्यादितत्त्वम् ॥
(वकुलः । बृहद्वोल सरीति च ख्यातः । अस्य
पर्य्यायो यथा, --
पृष्ठ ४/३०७
“शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वसुः, स्त्री, (वस् + उः ।) दीप्तिः । वृद्धौषधम् ।

इति शब्दरत्नावली ॥ (दक्षस्य कन्याविशेषः ।
सा तु धर्म्मस्य पत्नीनामन्यतमा । इति विष्णु-
पुराणम् । १ । १५ । १०५ ॥)

वसुः, त्रि, (वस् + उः ।) मधुरम् । शुष्कम् । इति

हेमचन्द्रः ॥

वसुकं, क्ली, (वसुवत् कायतीति । कै + कः ।)

साम्भरिलवणम् । इत्यमरः ॥ पांशवम् । वास्तू-
कम् । इति राजनिर्घण्टः ॥

वसुकः, पुं, (वसुः सूर्य्यस्तन्नाम्ना कायतीति । कै +

आतोऽनुपेति कः ।) अर्कवृक्षः । इत्यमरः ॥ शिव-
मल्ली । इति मेदिनी । के, १५२ ॥ पुष्पविशेषः । स
तु श्वेतरक्तभेदेन द्विविधः । तत्पर्य्यायः । वसुः २
शैवः ३ वकः ४ शिवमल्लिका ५ पाशुपतः ६
शिवमतः ७ सुरेष्टः ८ शिवशेखरः ९ । अस्य
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । पाके
शीतत्वम् । दीपनत्वम् । अजीर्णवातगुल्मनाशि-
त्वम् । श्वेतस्य रसायनत्वञ्च । इति राज-
निर्घण्टः ॥ (अस्य पर्य्यायान्तरं यथा, --
“वकपुष्पः काकशीर्षः स्थूलपुष्पः शिवप्रियः ।
वसुकः काकनामा च वसुहट्टः स्वपूरकः ॥”
इति वैद्यकरत्नमालायाम् ॥)

वसुकीटः, पुं, (वसुनि धने कीट इव प्रार्थक-

त्वात् ।) याचकः । इति हारावली । ३८ ॥

वसुच्छिद्रा, स्त्री, महामेदावृक्षः । इति रत्नमाला

राजनिर्घण्टश्च ॥ (तथास्याः पर्य्यायो यथा, --
“महामेदा वसुच्छिद्रा त्रिदन्ती देवतामणिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वसुदः, पुं, (वसूनि ददातीति । दा + कः ।)

कुबेरः । इति धनदशब्ददर्शनात् ॥ (यथा,
हरिवंशे । ८१ । १५ ।
“सनन्दगोपस्य गृहं वासाय वसुदोपमः ।
अवतीर्य्य ततो यानात् प्रविवेश महाबलः ॥” * ॥
वसु धनं ददातीति । विष्णुः । यथा, महा-
भारते । १३ । १४९ । ४२ ।
“सुभुजो दुर्द्धरो वाग्मी महेन्द्रो वसुदो वसुः ॥”)
धनदातरि, त्रि ॥ (यथा, महाभारते । १२ ।
१२० । ३०
“अमोघक्रोधहर्षस्य स्वयंकृत्यान्ववेक्षितुः ।
आत्मप्रययकोषस्य वसुदैव वसुन्धरा ॥”)

वसुदेवः, पुं, (वसुना धनेन दीव्यतीति । दिव् +

अच् ।) श्रीकृष्णजनकः । तत्पर्य्यायः । थ्यानक-
दुन्दुभिः २ । इत्यमरः ॥ शूरः ३ कृष्णपिता ४ ।
इति शब्दरत्नावली ॥ अस्य विवरणं यथा, --
नारायण उवाच ।
“कश्यपो वसुदेवश्च देवमाता च देवकी ।
पूर्ब्बपुण्यफलेनैव संप्राप श्रीहरिं सुतम् ॥
देवमीढान्मारिषायां वसुदेवो महानभूत् ।
आनकञ्च महाहृष्टाः श्रीहरेर्ज्जनकञ्च तम् ।
सन्तः पुरातनास्तेन वदन्त्यानकदुन्दुभिम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः
वह्निपुराणञ्च ॥ (स्वनामख्यातः कलियुगराज-
विशषस्य देवभूतेरमात्यः । स तु देवभूतिं
निहत्य स्वयं राज्यञ्चकार । यथा, भागवते ।
१२ । १ । १८ ।
“शुङ्गं हत्वा देवभूतिं कण्वोऽमात्यस्तु कामि-
नम् ।
स्वयं करिष्यते राज्यं वसुदेवो महामतिः ॥”
वसवो देवता यस्य । धनिष्ठानक्षत्रे, क्ली ।
यथा, वराहसंहितायाम् । ७ । ११ ।
“घोरा श्रवणस्त्वाष्ट्रं वसुदेवं वारुणञ्चैव ॥”)

वसुदेवता, स्त्री, (वसवो देवता यस्याः ।)

धनिष्ठानक्षत्रम् । इति हेमचन्द्रः । २ । २८ ॥
(यथा, हरिवंशे । १२२ । ३५ ।
“देवपत्न्यस्तथैवान्या देवाश्च वसुदेवता ॥”)

वसुदेवभूः, पुं, (वसुदेवात् भवतीति । भू + क्विप् ।)

श्रीकृष्णः । इति हेमचन्द्रः । ३ । ३६१ ॥

वसुधा, स्त्री, (वसूनि रत्नानि दधाति धारय-

तीति । धा + कः । सुवर्णादीनामाकरत्वात्
तथात्वम् ।) पृथिवी । इत्यमरः ॥ (यथा,
साहित्यदपणे १० परिच्छेदे ।
“राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गना सर्व्वस्वम् ॥” * ॥
वसुधनं दधाति दत्ते इति । धा + क्विप् । धन-
दातरि, त्रि । यथा, वाजसनेयसंहितायाम् ।
२७ । १५ ।
“वसुश्चेतिष्ठो वसुधातमश्च ॥”
“वसुधातमः वसूनां धनानां दातृतमः । क्विब-
न्तात् तमप् ।” इति तद्भाष्ये महीधरः ॥)

वसुधाखर्ज्जूरिका, स्त्री, (वसुधाजाता खर्ज्जू-

रिका ।) भूखर्ज्जूरिका । इति राजनिर्घण्टः ॥

वसुधारा, स्त्री, (वसुवत् रत्नस्येव धारा यशो

यस्याः ।) जिनशक्तिविशेषः । तत्पर्य्यायः । तारा २
महाश्रीः ३ ओङ्कारा ४ स्वाहा ५ श्रीः ६ मनो-
रमा ७ तारिणी ८ जया ९ अनन्ता १०
शिवा ११ लोकेश्वरा १२ आत्मजा १३ खदूर-
वासिनी १४ भद्रा १५ वैश्वा १६ नीलसर-
स्वती १७ शङ्खिनी १८ महातारा १९ धनं-
ददा २० त्रिलोचना २१ अलोचना १२ । इति
हेमचन्द्रः ॥ (वसूनां रत्नानां धारा सन्तति-
र्यत्र ।) कुबेरपुरी । इति शब्दमाला ॥ (तीर्थ-
विशेषः । यथा, महाभारते । ३ । ८२ । ७२ ।
“ततो गच्छेत धर्म्मज्ञ ! वसुधारामभिष्टुताम् ।
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥” * ॥
वसोश्चेदिराजस्य प्रिया धारा । यद्बा, --
“वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् ।
तस्य धारा सदा देया वसोर्धारा हि सा मता ॥”
इति देवीपुराणोक्तवचनात् वसुनो घृतस्य
धारा ।) वृद्धिश्राद्धपूर्ब्बकर्त्तव्यचेदिराजवसू-
द्देश्यककुड्यलग्नघृतधारा । यथा । छन्दोगपरि-
शिष्टे कात्यायनः ।
“कुड्यलग्नां वसोर्धारां सप्तवारान् पृतेन तु ।
कारयेत् पञ्चवारान् वा नातिनीचां न
चोच्छ्रिताम् ॥
आयुष्मानिति शान्त्यर्थं जप्त्वा तत्र समाहितः ।
षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥”
वसोश्चेदिराजस्य वसोर्धारामिति वसोर्धाराधि-
पातेनेत्यादिदर्शनात् अलुक्समासेनैव प्रयोगः
कर्त्तव्यः । इति श्राद्धतत्त्वम् ॥ * ॥ सामगानां
तत्पातनमन्त्रो यथा, --
“यद्बर्च्चो हिरण्यस्य यद्वा वर्च्चो गवामुत ।
सत्यस्य ब्रह्मणो वर्च्चस्तेन मांसं सृजामसि ॥”
यजुषां यथा । “वसोः पवित्रमसि शतघारं
वसोः पवित्रमसि सहस्रधारं देवस्त्वा सविता
पुनातु वसोः पवित्रेण शतधारेण सुत्वा काम-
धुक्ष्व ।” इति श्राद्धप्रयोगतत्त्वम् ॥ * ॥ ऋग्-
वेदिनां यथा ।
“अपसश्चर आगच्छन्ती भूरिधारे पयस्वती
घृतप्रघाते सुकृते शुचिव्रते । राजम्भ यस्य यस्य
भुवनस्य रोदसी आस्म रैत सिञ्चितं यन्मनु-
कृतम् । १ ।
अन्या इव वनुत्तमे तवासुञ्जना अभिचाक-
सीमि । यत्र सोमः श्रूयते यत्र यज्ञो पठते
घृतस्य धारा मधुमप्लु वधन्ते ॥ २ ॥
घृतवती भुवनानामभिश्रियोर्व्वी पृथ्वी मधु-
दुघे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणा
विष्कभिते अजरे भूरि रेतसा ॥ ३ ॥
शतधारमुत्समीक्षमाणं विपश्चितं पितरं
रुक्थाना अभिमदन्त पित्रोरुपस्थेतं रोदसी
पिपृतं सत्यवाचम् ॥ ४ ॥
शतधारं वायुमर्कषर्च्चिषं नृचक्षुषेस्तेऽभि-
चक्षते हविः । ये च प्रणन्ति प्रयच्छन्ति सङ्ग-
मेति दुदुहे सप्तधारम् ॥ ५ ॥
वसोः पवित्रमसि शतधारं वसोः पवित्रमसि
सहस्रधारं देवस्त्वा सविता पुनातु । वसोः
पवित्रेण शतघारेण सुत्वा कामधुक्ष्व ॥ ६ ॥
मुर्द्धानन्दिवोरतिं पृथिव्या वैश्वानर मृत
आजामग्निं कविं सम्राजमतिथिं जनाना-
मासन्नाः पात्रं जवयन्त देवाः स्वाहा ॥ ७ ॥
इत्येतैर्मन्त्रैः सप्तघृतधारा दद्यात् । इति
कालेसिः ॥ * ॥ विशेषवसुधारा यथा, --
“न्यूना या बहते धारा मानात् सर्पिर्न सा
शुभा ।
नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका ॥
त्रुट्यते बहमाना या शमते च हुताशनम् ।
सवर्णा हेमवर्णा च धारा राज्यविवृद्धये ॥
सन्तता पतते या तु तनोतीव च पावकम् ।
तनोति नृपराष्ट्रञ्च वसोर्धारा न संशयः ॥
सुगन्धि स्वच्छविमलं कृमिकीटविवर्ज्जितम् ।
शस्यते च वसोर्धारा या सर्पिर्गव्यपूजिता ॥
अभावात् गवलाजं वा होतव्यन्तु सुशोभनम् ।
घृतरौद्रपयोधारा सर्व्वपीडानिवारिणी ॥
वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् ।
तस्य धारा सदा देया वसोर्धारा हि सा मता ॥
पृष्ठ ४/३०८
वसुना स्वर्गकामेन दक्षेण च महात्मना ।
मया च विष्णुना शक्र रुद्रेण च सहोमया ॥
आत्मानञ्च स्वरूपेण धारायान्तु प्रपादितम् ।
देवी सान्निध्यमायाता सर्व्वकामप्रदायिका ॥
तस्मात्त्वमपि राजेन्द्र ! वरोर्धारां प्रपातय ।
नातः परतरं पुण्यं विद्यते नृपसत्तम ! ॥
वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ।
नृपेणायुषकामेण पुत्त्र राज्यजिगीषुणा ।
देया धारा सदा वत्स ! रिपुनाशाय बुद्धिमन् ॥
द्रव्याभावे घृताभावे नृप तस्करजे भये ।
यदि नो वहते धारा तदा छिद्रं न विद्यते ॥
महाआश्विनमासे तु अष्टमीनवमीषु च ।
कार्त्तिक्यां माघचैत्रेतु चित्रायां रोहिणीषु च ॥
वैशाख्यान्तु प्रदातव्या ज्यैष्ठ्यां ज्येष्ठस्य सत्तम ! ।
आषाढद्वादशीहोमं अष्टभी पूर्णिमा नभे ॥
नभस्ये रोहिणी वत्स ! चतुर्थ्यां द्बादशीदिने ।
संक्रान्तिषु च सर्व्वासु गुरुशौरिभवासु च ॥
चन्द्रसूर्य्योपरागेषु प्रतिष्ठायज्ञकर्म्मणि ।
शक्रोच्छ्रये प्रदातव्या जन्मपुष्पाभिषेचने ॥
मार्गे व्रतनिबन्धे तु शुभे वाक्ये तु दर्शने ।
ग्रहकृत्योपसर्गेषु धारा देव्याः शुभावहाः ॥
एवं यो वाहयेद्धाराः शास्त्रदृष्टेन कर्म्मणा ।
तस्य भूः सिद्ध्यते सर्व्वा सनागा सहसागरा ॥”
इति देवीपुराणे वसोर्धरानाम ३५ अध्यायः ॥

वसुन्धरा, स्त्री, (वसूनि धारयतीति । धृ +

“संज्ञायां भृतॄवृजिधारिसहितपिदमः ।” ३ ।
२ । ४६ । इति खच् । “खचि ह्रस्वः । ६ । ४ ।
९४ । इति ह्रस्वः । “अरुर्द्बिषदजन्तस्य मुम् ।”
६ । ३ । ६७ । इति मुम् । ।) पृथिवी । इत्य-
मरः ॥ (यथा, विष्णुपुराणे । १ । ४ । ११ ।
“निरीक्ष्य तं तदा देवी पातालतलमागतम् ।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥”
शफल्कस्य कन्या । यथा, हरिवंशे । ३८ । ५३ ।
“विश्रुता शाम्बमहिषी कन्या चास्य वसुन्धरा ।
रूपयौवनसम्पन्ना सर्व्वसत्त्वमनोहरा ॥”
पुं, प्लक्षद्बीपस्य वर्षपुरुषभेदः । यथा, भागवते ।
५ । २० । ११ । “प्लक्षवर्षपुरुषाः श्रुतिधरवीर्य्य-
धरवसुन्धरेषुन्धरसंज्ञा भगवन्तं वेदमयं सोम-
मात्मानं वेदेन यजन्ते ॥”)

वसुप्राणः, पुं, (वसु दीप्तिः प्राणा इवास्य ।)

अग्निः । इति शब्दरत्नावली ॥

वसुमती, स्त्री, (वसूनि धनरत्नानि सन्त्यस्या इति ।

वसु + मतुप् । ङीप् ।) पृथिवी । इत्यमरः ॥
(यथा, रघौ । ८ । ८३ ।
“तदलं तंदपायचिन्तया
विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयमवेक्ष्य तां त्वया
वसुमत्या हि नृपाः कलत्रिणः ॥)

वसुरोचिः, [स्] क्ली, (वसवः रोचन्ते अस्मि-

न्निति । रुच दीप्तौ + “वसौ रुचेः संज्ञायाम् ।”
उणा० २ । ११२ । इति इसिन् ।) यज्ञः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वसुलः, पुं, (वसु दीप्तिं लाति गृह्णातीति । ला +

कः ।) देवता । इति त्रिकाण्डशेषः ॥

वसुश्रेष्ठं, क्ली, (वसुना दीप्त्या श्रेष्ठम् ।) रूप्यम् ।

इति राजनिर्घण्टः ॥

वसुसेनः, पुं, कर्णराजः । इति त्रिकाण्डशेषः ।

(यथा, महाभारते । १ । ६७ । १४० ।
“राधायाः कल्पयामास पुत्त्रं सोऽधिरथस्तदा ।
चक्रतुर्नामधेयञ्च तस्य बालस्य ताबुभौ ।
दम्पती वसुसेनेति दिक्षु सर्व्वासु विश्रुतम् ॥”
क्वचित् वसुषेणेति पाठः ॥)

वसुस्थली, स्त्री, (वसूनां धनानां स्थली ।) कुबेर-

पुरी । इति शब्दमाला ॥

वसुहट्टः, पुं, (वसूनां दीप्तीनां हट्ट इव ।) वक-

वृक्षः । इति रत्नमाला ॥

वसुहट्टकः, पुं, (वसुहट्ट + स्वार्थे कन् ।) वकवृक्षः ।

इति शब्दमाला ॥

वसूकं, क्ली, साम्भरिलवणम् । इति हेमचन्द्रः ॥

वकपुष्पम् । इति द्विरूपकोषः ॥

वस्क, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) दन्त्यमध्य इति दुर्ग-
सिंहः ॥ क्विपि वक् । मूर्द्धन्यमध्य इत्येके । क्विपि
वट् । ङ, वस्कते । इति दुर्गादासः ॥

वस्कः, पुं, (वस्क् + भावे घञ् ।) अध्यवसायः ।

इति भूरिप्रयोगः ॥

वस्कयः, पुं, (वस्कते इति । वस्क गतौ + बाहुल-

कात् अयन् ।) एकहायनो वत्सः । इत्यमर-
टीकायां रायमुकुटः ॥

वस्कयनी, स्त्री, (वस्कय एकहायनो बत्सः । तेन

नीयते इति । नी + क्विप् । ङीष् ।) चिरप्रसूता
गौः । इत्यमरटीकायां रायमुकुटः ॥ अस्या
दुग्धगुणाः ।
“वस्कयिन्यास्त्रिदोषघ्नं तर्पणं बलकृत् पयः ।”
इति भावप्रकाशः ॥

वस्कराटिका, स्त्री, वृश्चिकः । इति हारावली ॥

वस्त, क ङ वधे । इति कविकल्पद्रुमः ॥ (चुरा०-

आत्म०-सक०-सेट् ।) क ङ, वस्तयते । गति-
हिंसायाचनेष्विति रमानाथः । इति दुर्गा-
दासः ॥

व(ब)स्तः, पुं, (वस्त्यते यज्ञार्थं वध्यते इति । वस्त

+ कर्म्मणि घञ् ।) छागः । इत्यमरः । २ । ९ ।
७६ ॥ (यथा, मार्कण्डेये । ४३ । १२ ।
“यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।
तस्यार्द्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥”)

वस्तकं, क्ली, कृत्रिमलवणम् । इति हेमचन्द्रः ॥

वस्तकर्णः, पुं, (वस्तस्य छागस्य कर्णाकृतिः

पत्रावच्छेदे अस्त्यस्येति । वस्तकर्ण + अर्श-
आदित्वादच् ।) शालवृक्षः । इति राज-
निर्घण्टः ॥

वस्तगन्धा, स्त्री, (वस्तस्य गन्ध इव गन्धो यस्याः ।)

इति राजनिर्घण्टः ॥

वस्तमोदा, स्त्री, (वस्तं छागं मोदयतीति । मुद् +

णिच् + अण् ।) अजमोदा । इति राजनिर्घण्टः ॥

वस्तयः, पुं स्त्री भूम्नि, (वस् + “वसेस्तिः ।” उणा०

४ । १७९ । इति तिः बहुवचनान्तोऽयम् ।)
वस्त्रस्य दशाः । यथा, अमरः । २ । ६ । ११४ ।
“स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्व्वस्तयो
द्वयोः ॥”

वस्तान्त्री, स्त्री, (वस्तस्येव अन्त्रमस्याः । गौरादि-

त्वात् ङीष् ।) छगलान्त्रीक्षुपः । तत्पर्य्यायः ।
वृषगन्धाख्या २ मेषान्त्री ३ वृषपत्रिका ४
अजान्त्री ५ वोकडी ६ । अस्या गुणाः । कटु-
रसत्वम् । कासदोषविनाशित्वम् । बीजदातृत्वम् ।
गर्भजनकत्वञ्च । इति राजनिर्घण्टः ॥

वस्तिः, पुं, स्त्री, (वसति मूत्रादिकमत्र । वस् +

“वसेस्तिः ।” उणा० ४ । १७९ । इति तिः ।)
नाभेरधोभागः । इत्यमरः ॥ वस्ते आच्छादयति
मूत्राशयपुटं वस्तिः । वस ल स्तृतौ नाम्नीति
तिक् । मूत्राशयपुटो वस्तिरिति रत्नमाला ।
इति तट्टीकायां भरतः ॥ * ॥ अथ वस्ति-
विधिः ।
“वस्तिर्द्विधानुवासाख्यो निरूहश्च ततः परः ।
यः स्नेहैर्दीयते स स्यादनुवासननामकः ॥
कषायक्षारतैलैर्यो निरूहः स निगद्यते ।
वस्तिभिर्दीयते यस्मात् तस्माद्बस्तिरिति स्मृतः ॥”
वस्तिभिः मृगादीनां मूत्राशयैः ।
“तत्रानुवासनाख्यो हि वस्तिर्यः सोऽत्र कथ्यते ।
अनुवासनभेदश्च मात्रावस्तिरुदीरितः ॥
पलद्वयं तस्य मात्रा तस्मादर्द्धापि वा भवेत् ।
अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवला-
निली ॥
नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी ।
नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्-
युताः ॥
शोथमूर्च्छारुचिभयश्वासकासक्षयातुराः ।
नेत्रं कार्य्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः ।
नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ॥”
नेत्रं नाडी । तथा च विश्वप्रकाशे ।
नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने ।
नेत्रबन्धे च नाड्याञ्च नेत्रो नेतरि भेदवदिति ॥
“एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम् ।
ततो द्बादशकं यावन्मानं स्यादष्टसंमितम् ॥
ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता ।
मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिरन्ध्रकम् ॥
यथासंख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् ॥”
मूले स्थूलम् । ततः क्रमात् कृशम् । मुद्गच्छिद्रादि-
प्रमाणं नेत्रं क्रमेण षड्वर्षाय द्वादशवर्षाय
तदूर्द्धवर्षाय ज्ञेयम् ।
“आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते ।
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ॥”
परिणाहोऽत्र स्थौल्यम् ।
“तन्मूले कर्णिके द्वे च कार्य्ये भागाच्चतुर्थकात् ।
कर्णिका गवादिकर्णवत् । कर्णिका छत्राकारा
गुदाधिकान्तःप्रवेशरोधिनी कर्णिकेति । कर्णि-
काकारत्वात् कर्णिकेति कथ्यते ।
पृष्ठ ४/३०९
“योजयेत्तत्र वस्तिञ्च बन्धद्वयविधानतः ।
मृगाजशूकरगवां महिषस्यापि वा भवेत् ॥”
वस्तिरिति शेषः ।
“मूत्रको यस्य वस्तिस्तु तदलाभे तु चर्म्मजः ।
कषायरक्तः समृदुर्वस्तिःस्निग्धो दृढो हितः ॥
व्रणवस्तेस्तु नेत्रं स्यात् श्लक्ष्णमष्टाङ्गुलोन्मितम् ।
मुद्गच्छिद्रं गृध्रपक्षनालिकापरिणाहि च ॥
शरीरोपचयं वर्णं बलमारोग्यमायुषः ।
कुरुते परिवृद्धिञ्च वस्तिः सम्यगुपासितः ॥
दिवा शीते वसन्ते च स्नेहवस्तिः प्रदीयते ।
ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् ।
बवातिस्निग्धमशनं भोजयित्वानुवासयेत् ।
मदं मूर्च्छाञ्च जनयेत् द्बिधा स्नेहप्रयोजितः ॥”
द्विधाभाजने वस्तौ च ।
“रूक्षं भुक्तवतोऽत्यन्तं बलं वर्णञ्च हापयेत् ।
युक्तस्ने हमतो जन्तुं भोजयित्वानुवासयेत् ॥”
युक्तस्नेहं यथोचितस्नेहं भोज्यं भोजयित्वा
इत्यर्थः ।
“हीनमात्रावुभौ वस्ती नातिकार्य्यकरौ स्मृतौ ।
अतिमात्रौ तथानाहक्लमातिसारकारकौ ॥”
उभौ वस्ती अनुवासननिरूहाख्यौ ।
“उत्तमा स्यात् पलैः षड्भिर्मध्यमा स्यात्
पलैस्त्रिभिः ।
पलद्वयेन हीना स्यादुक्ता मात्रानुवासने ॥” * ॥
अथ स्नेहवस्तिः ।
“शताह्वासैन्धवाभ्यां च देयं स्नेहे च चूर्णकम् ।
तन्मात्रोत्तममध्यान्त्याः षट्चतुर्द्वयमाषकैः ॥
विरेचनात् सप्तरात्रे गते जातबलाय च ।
भुक्तान्नायानुवास्याय वस्तिर्देयोऽनुवासनः ॥
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः ।
भोजयित्वा यथाशास्त्रं कृतं चंक्रमणं ततः ॥
उत्सृष्टानिलविण्मूत्रं योजयेत् स्नेहवस्तिना ॥”
उष्णाम्बस्वेदितं उष्णाम्बुना स्नापितम् ।
“सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः ।
कुञ्चितापरजङ्घस्य नेत्रं स्निग्धे गुदे न्यसेत् ॥
ऊर्द्ध्वं वस्तिमुखं मूत्रैर्व्वामहस्तेन धारयेत् ।
पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः ॥
जृम्भाकासक्षवादींश्च वस्तिकाले न कारयेत् ।
त्रिंशन्मात्रामितः कालः प्रोक्तो वस्तेस्तु पीडने ॥
ततः प्रणिहिते स्नेहे उत्तानो वाक्शतं भवेत् ।
स्वजानुनः करावर्त्तं कुर्य्याच्छोटिकया युतम् ॥
एषा मात्रा भवेदेका सर्व्वत्रैवैष निश्चयः ।
निमेषोन्मेषणं पुंसामङ्गुल्या छोटिकाथ वा ॥
गुर्व्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः ।
प्रसारितैः सर्व्वगात्रैर्यथावीर्यं प्रसर्पति ॥”
यथावीर्य्यं स्नेहादि ।
“ताडयेत्तलयोरेनं त्रींस्त्रीन् वारान् शनैः
शनैः ।
स्फिचोश्चैव तथा श्रोणीं शय्याञ्चैवोत्क्षिपेत्ततः ॥
स्फिचोश्चैनं स्वपार्ष्णिभ्यां पूर्व्ववत्ताडयेद्बुधः ।
शय्याञ्च पादतस्तस्य त्रीन् वारानुत्क्षिपेत्ततः ।
जाते विधाने तु ततः कुर्य्यान्निद्रां यथासुखम् ॥
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु ।
उपद्रवं विना शीघ्रं स सम्यगनुवासितः ॥”
उपद्रवस्थाने उषचोषाविति सुश्रुते पाठः ।
“जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः ।
लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ॥
अनुवासिताय देयमितरेऽह्नि सुखोदकम् ।
धान्यशुण्ठीकषायं वा स्नेहव्यापत्तिनाशनम् ॥”
सुखोदकमुष्णोदकम् । व्यापत्तिर्व्याधिः ।
“अनेन विधिना षड्वा सप्त वाष्टौ नवापि वा ।
विधेया वस्तयस्तेषामन्ते चैव निरूहणम् ॥
दत्तस्तु प्रथमो वस्तिः स्नेहयेद्वस्तिवङ्क्षणौ ।
सम्यग्दत्तो द्बितीयस्तु मूर्द्धस्थमनिलं जयेत् ॥
बलं वर्णञ्च जनयेत् तृतीयस्तु प्रयोजितः ।
चतुर्थपञ्चमौ दत्तौ स्नेहयेतां वसासृजी ॥
षष्ठो मांसं स्नेहयति सप्तमो मेद एव च ।
अष्टमो नवमश्चापि मज्जानञ्च यथाक्रमम् ॥”
यथाक्रममिति वचनादष्टमोऽस्थि स्नेहयेत् ।
“एवं शुक्रगतान् दोषान् द्बिगुणः साधु साध-
येत् ॥
द्विगुणः अष्टादशदिवसाधिको वस्तिः ।
“अष्टादशाष्टादशकान् वस्तीनां यो निषेवते ।
स कुञ्जरबलोऽश्वस्य रये तुल्योऽमरप्रभः ॥
रूक्षाय बहुवाताय स्नेहवस्तिं दिने दिने ।
दद्याद्वैद्यस्तथान्येषामग्र्यावाधभयात्त्र्यहात् ॥
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः ।”
अनत्ययोऽवाधकः ।
“तथा निरूहः स्निग्धानां मलमात्रः प्रशस्यते ॥
अथवा यस्य तत्कालं स्नेहो निर्याति केवलः ।
तस्यान्योऽल्पतरो देयो नहि स्निह्यति तिष्ठति ॥”
स्निह्यति स्नेग्धे तिष्ठति दत्तस्नेह इति शेषः ।
“अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।
तदाङ्गवेदनाध्माने शूलं श्वासश्च जायते ॥
पक्वाशये गुरुत्वञ्च तत्र दद्यान्निरूहणम् ।
तीक्ष्णं तीक्ष्णौषधैर्युक्ता फलवर्त्तिर्हिताथवा ॥
यथानुलोमगोवायुर्मलं स्नेहश्च जायते ।
तथा विरेचनं दद्यात् तीक्ष्णं नस्यं च शस्यते ॥
यस्य नोपद्रवं कुर्य्यात् स्नेहवस्तिर्विनिःसृतः ।
सर्व्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः स विजानता ॥
अनायातं त्वहोरात्रे स्नेहं संशोधनैर्हरेत् ।
स्नेहवस्तावनायाते नाल्पः स्नेहो विधीयते ॥
गुडूच्येरण्डपूतीकभार्गीवृष्याकरौहिषम् ।
शतावरीसहचरं काकनासां पलोन्मिताम् ॥
यवमायातसीकोलकुलत्थात् प्रसृतोन्मितात् ।
चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च ॥
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः ।
अनुवासनमेतद्धि सर्व्ववातविकारनुत् ॥”
पूतिकः करञ्जः । रौहिषं रोहिष इति सुगन्ध-
तृणविशेषः । काकनासा कौयाठोठी । प्रसृतं
पलद्वयम् ।
“षट्सप्ततिव्यापदस्तु जायन्ते वस्तिकर्म्मणः ।
दूषितात् समुदायेन ताश्चिकित्सास्तु सुश्रुतात् ॥”
समुदायेन अनुचितनेत्रादिसामग्र्या ।
“पानाहारविहाराश्च वस्तिकर्म्मणि कृत्स्नशः ।
स्ने हपानसमाः कार्य्या नात्र कार्य्या विचा-
रणा ॥” * ॥
अथ निरूहवस्तिविधिः ।
“निरूहवस्तिर्बहुधा भिद्यते कारणान्तरैः ।
तैरेव तस्य नामानि कृतानि मुनिपुङ्गवैः ॥”
कारणान्तरैः समवायिकारणभेदैः ।
“निरूहस्यापरं नाम प्रोक्तमास्थापनं बुधैः ।
स्वस्थानस्थापनाद्दोषधातूनां स्थापनं मतम् ॥
निरूहस्य प्रमाणञ्च प्रस्थः पादोत्तरं परन् ।
मध्यमं प्रस्थमुद्दिष्टं हीनञ्च कुडवास्त्रयः ॥”
परं श्रेष्ठम् ।
“अतिस्निग्धोऽक्लिष्टदोषः क्षतोरस्कः कृशस्तथा ।”
अक्लिष्टदोषः अनुत्क्लिष्टदोषः । अदत्तोत्क्लेशन
इति यावत् । क्षतोरस्कः उरःक्षतवान् ।
“आध्मानच्छर्दिहिक्वार्शः शोथश्वासप्रपीडितः ।
गुदशोफातिसारार्त्तो विसूचीकुष्ठसंयुतः ॥
गर्भिणी मधुमेही च नास्थाप्याश्च जलोदरी ।
वातव्याधावुदावर्त्ते वातासृग्विषमज्वरे ॥
मूर्च्छातृष्णोदरानाहमूत्रकृच्छ्राश्मरीषु च ।
वृद्धसृग्दरमन्दाग्निप्रमेहेषु निरूहणम् ॥
शूलेऽम्लपित्ते हृद्रोगे योजयेद्बिधिवद्बुधः ।
उत्सृष्टानिलविण्मूत्रस्निग्धं स्विन्नमभोजितम् ॥
मध्याह्ने गृहमध्ये च यथायोग्यं निरूहयेत् ।”
स्निग्धं स्वभ्यक्तम् । स्विन्नं उष्णाम्बुस्नपितम् ।
“स्नेहवस्तिविधानेन बुधः कुर्य्यान्निरूहणम् ॥
जाते निरूहे च ततो भवेदुत्कटकासनः ।
तिष्ठेन्मुहूर्त्तमात्रन्तु निरूहागमनेच्छया ॥”
अत्र मुहूर्त्तमात्रशब्दे नैतदपि बोधितम् ।
निरूहप्रत्यागमनकालो मुहूर्त्तमात्रः ।
“अनायातं मुहूर्त्तात्तु निरूहं शोधनैर्हरेत् ।
निरूहैरेव मतिमान् क्षारमूत्राम्लसैन्धवैः ॥
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः ।
ला ञ्चोपजायेत सुनिरूढं तमादिशेत् ॥
विविक्तता मनस्तुष्टिः स्निग्धता व्याधिनिग्रहः ।
आस्थापनस्नेहवस्त्योः सम्यग्दाने तु लक्ष-
णम् ॥”
विविक्तता दत्तौषधनिःसरणम् ।
“अनेन विधिना युञ्ज्यान्निरूहं वस्तिदानवित् ।
द्बितीयं वा तृतीयं वा चतुर्थं वा यथोचितम् ॥
सस्नेह एकः पवने पित्ते द्वौ पयसा सह ।
कषायकटुका मूत्रा कफे तृष्णास्त्रयो हिताः ॥
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात् ।
निरूहं भोजयित्वा च ततस्तमनुवासयेत् ॥
सुकुमारस्य वृद्धस्य बालस्य च मृदुर्हितः ।
वस्तिस्तीक्ष्णा प्रयुक्ता हि तेषां हन्याद्बला-
युषी ॥
दद्यादुत्क्लेशनं पूर्ब्बं मध्ये दोषहरं ततः ।
पश्चात् संशमनीयञ्च दद्याद्बस्तिं विचक्षणः ॥
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा ।
हपुषा फलकल्कश्च वस्तिरुत्क्लेशनः स्मृतः ॥”
इत्युत्क्लेशनवस्तिः ॥ * ॥
पृष्ठ ४/३१०
“शताह्वा मधुकं विल्वं कौटजं फलमेव च ।
सकाञ्जिकः सगोमूत्रो वस्तिर्दोषहरः स्मृतः ॥”
इति दोषहरवस्तिः ॥ * ॥
“प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम् ।
सक्षीरः शस्यते वस्तिर्दोषाणां शमनः स्मृतः ॥”
इति शमनवस्तिः ॥ * ॥
“त्रिफलाक्वाथगोमूत्रक्षौद्रक्षारसमायुताः ।
ऊषकादिप्रतीवाया वस्तयो लेखनाः स्मृताः ॥”
ऊषकादिप्रतीवायाः ऊषकादिगणविशेषचूर्ण-
प्रक्षेपाः । इति लेखनवस्तयः ॥ * ॥
“बृंहणद्रव्यनिःक्वाथैः कल्कैर्मधुरकैर्युताः ।
सर्पिर्मांसरसोपेता वस्तयो बृंहणाः स्मृताः ॥”
इति वृंहणवस्तयः ॥ * ॥
“वदर्य्यैरावतीशेलुशाल्मलीपुष्पजाङ्कुराः ।”
ऐरावती नाराङ्गी । शेलुः बहुवारः ।
क्षीरसिद्धाः क्षौद्रयुक्ता नाम्ना पिच्छिलसंज्ञिताः ॥
अजोरभ्रैणरुधिरैर्युक्ता देया विचक्षणैः ।”
अजश्छागः । उरभ्रो मेषः । एणः कृष्णमृगः ।
“मात्रा पच्छिलवस्तीनां पलैर्द्बादशभिर्मता ॥”
इति पिच्छिलावस्तयः ॥ * ॥
“दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् ।
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ॥
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत् ।
संमूर्च्छिते कषायन्तु चतुःप्रसृतिसम्मितम् ॥
गृह्णीयाच्च तदावापमन्ते द्विप्रसृतोन्मितम् ।
क्षिप्त्वा विमथ्य दद्याच्च निरूहं कुशलो भिषक् ॥
एवं प्रकल्पितो वस्तिर्द्बादशप्रसृतो भवेत् ।
वाते चतुःपलं क्षौद्रं दद्यात् स्नेहस्य षट्पलम् ॥
पित्ते चतुःपलं क्षौद्रं स्नेहं दद्यात् पलत्रयम् ।
कफे तु षट्पलं क्षौद्रं क्षिपेत् स्नेहं चतुः-
पलम् ॥”
इति निरूहमात्रा ॥
“एरण्डक्वाथतुल्यांशं मधु तैलं पलाष्टकम् ।
शतपुष्पापलार्द्धेन सैन्धवार्द्धेन संयुतम् ॥
मधुतैलिकसंज्ञोऽयं वस्तिर्दारुविलोडितः ।
मेदोगुल्मकृमिप्लीहमलोदावर्त्तनाशनः ॥
बलवर्णकरश्चैव वृष्यो दीपनबृंहणः ॥”
इति मधुतैलिकवस्तिः ॥
“क्षौद्राज्यक्षीरतैलानां प्रसृतं प्रसृतं भवेत् ।
हपुषा सैन्धवाक्षांशो वस्तिः स्याद्यापनः
परः ॥”
यापनः सारकः । इति यापनवस्तिः ॥ * ॥
“एरण्डमूलनिष्क्वाथो मधु तैलं ससैन्धवम् ।
एष युक्तरथो वस्तिः सवचापिप्पलीफलः ॥”
इति युक्तरथवस्तिः ॥
“पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु ।
ससैन्धवः सयष्ट्याह्वः सिद्धवस्तिरिति स्मृतः ॥”
इति सिद्धवस्तिः ॥
“स्नानमुष्णोदकैः कुर्य्याद्दिवास्वप्नमजीर्णताम् ।
वर्ज्जयेदपरं सर्व्वमाचरेत् स्नेहवस्तिवत् ॥”
अथोत्तरवस्तिविधिः ।
“अतः परं प्रवक्ष्यामि वस्तिमुत्तरसंज्ञितम् ।
निरूहादुत्तरो यस्मात्तस्मादुत्तरसंज्ञकः ॥
द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम् ।
मालतीपुष्पवृन्ताभं छिद्रं सर्षपनिर्गमम् ॥
पञ्चविंशतिवर्षाणामधोमात्रा द्विकार्षिका ।
तदूर्द्धं प्रलमात्रा च स्नेहस्योक्ता भिषग्वरैः ॥
अथ स्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः ।
स्थितस्य जानुमात्रेण पीठेऽन्विष्य शलाकया ॥
स्निग्धया मेढ्रमार्गन्तु ततो नेत्रं नियोजयेत् ।
शनैः शनैर्घृताभ्यक्ते मेढ्ररन्ध्रेऽङ्गुलानि षट् ॥
ततोऽवपीडयेद्वस्तिं शनैर्नेत्रं विनिर्हरेत् ।
ततः प्रत्यागते स्नेहे स्नेहवस्तिक्रमो हितः ॥
स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्य्याद्दशाङ्गुलम् ।
मुहुः प्रवेशं योज्यञ्च योन्यन्तश्चतुरङ्गुलम् ॥
द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मनेत्रं वियोजयेत् ।
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम् ॥
शनैर्निष्क्रम्यमाधेयं सूक्ष्मं नेत्रं विचक्षणैः ।”
मालतीपुष्पवृन्ताभं नेत्रमित्युक्तत्वात् पुनः सूक्ष्म-
शब्दाभिधाने बालानां ततोऽपि नेत्रस्य सूक्ष्मता-
बोधनार्थम् ।
“योनिमार्गेषु नारीनां स्ने हमात्रा द्विपालिका ॥
मूत्रमार्गे पलोन्माना बालानाञ्च द्विकार्षिकी ।
उत्तानायै स्त्रियै दद्यात् ऊर्द्ध्वजान्वै विचक्षणः ॥
अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते ।
भूयो वस्तिं विदध्याच्च संयुक्तं शोधनैर्गुणैः ॥
फलवस्तिं विदध्याद्वा योनिमार्गे दृढं भिषक् ।
सूत्रैर्विनिर्म्मितां स्निग्धां शोधनद्रव्यसंयुताम् ॥
दह्यमाने तथा वस्तौ दद्याद्वस्तिं विशारदः ।
क्षीरिवृक्षकषायेण पयसा शीतलेन वा ॥”
दह्यमाने वस्तौ यस्मिन् स्थाने वस्तिर्दत्तस्तस्मिन्
दह्यमाने ।
“वस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजा रुजः ।
हन्यादुत्तरवस्तिस्तु नोचिता मेहिनां क्वचित् ॥
सम्यग्दत्तस्य लिङ्गानि व्यापदक्रम एव च ।
वस्तेरुत्तरसंज्ञस्य समानः स्नेहवस्तिना ॥” * ॥
अथ फलवर्त्तिविधिः ।
“घृताभ्यक्ते गुदे क्षिप्त्वा श्लक्ष्णा स्वाङ्गुष्ठसन्निभा ।
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥”
इति भावप्रकाशः ॥ * ॥
(“चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा
तया वस्तिप्रतिकर्म्म कुर्य्यात् ।
नातिचोष्णे च काले च न शीते न च भोजिते ।
न निद्रालौ च मूत्रार्त्ते विष्ठार्त्ते न च वेदभाक् ॥
वस्तिकर्म्म निरूहञ्च कारयेत्तं निरस्य च ।
आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नाति
शिथिलशय्यायां शाययित्वा वामाङ्गे वामपादं
दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घोपरि-
संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडीं सुधीः
सञ्चारयेत् । ततः शनैः शनैर्वस्तिं निष्पीड्य
द्विपलपरिमिततैलेन निरूहं कुर्य्यात् । निरुहा-
नन्तरं शनैः शनैरुत्तानं शाययित्वा ऊर्द्ध्वी
कृत्य च पश्चात् सङ्कोच्य पाणिभिः पञ्च वारान्
स्फिक्पिण्डान् त्रोटयेत् । ततः स्वस्थं कृत्वा
क्षणेनाप्यामाशयं मलस्थानं बोधयति । वस्त्यु-
दरवातान् दोषान् निवारयति । पण्डितास्तं
वस्तिनिरूहं तद्वस्तिकर्म्म च विदुः ।” इति
हारीते सूत्रस्थाने तृतीयेऽध्याये ॥
“कृतक्षणं शैलवरस्य रम्ये
स्थितं धनेशायतनस्य पार्श्वे ।
महर्षिसंधैर्वृतमग्निवेशः
पुनर्व्वसुम्प्राञ्जलिरन्वपृच्छत् ॥
वस्तिर्नरेभ्यः किमपेक्ष्य दत्तः
स्यात् सिद्धिमान् किन्नयनस्य नेत्रम् ।
कीदृक् प्रमाणाकृति किङ्गुणञ्च
केषाञ्च किं योनिगुणश्च वस्तिः ॥
निरूहकर्म्म प्रणिधानमात्राः
स्नेहस्य वा काः शमने विधिः कः ।
के वस्तयः केषु मता इतीदं
श्रुत्वोत्तरं प्राह वचो महर्षिः ॥
समीक्ष्य दोषौषधदेशकाल-
सात्म्याग्निसत्त्वौकवयोबलानि ।
वस्तिः प्रयुक्तो नियतं गुणाय
स्युः सर्व्वकर्म्माणि च सिद्धिमन्ति ॥
सुवर्णरूप्यत्रपुताम्रवीतिं
कांस्यास्थिशस्त्रद्रुमवेणुदन्तैः ।
नलैर्व्विषाणैर्मणिभिश्च तैस्तैः
कार्य्याणि नेत्राणि सुकर्णिकानि ॥
षड्द्वादशाष्टाङ्गुलसम्मितानि
षड्विंशतिर्द्वादशवर्षजानाम् ।
स्युर्मुद्गकर्कन्धुसतीनवाहि-
छिद्राणि वर्त्त्या पिहितानि चापि ॥
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां
मूलाग्रयोः स्युः परिणाहवन्ति ।
ऋजूनि गोपुच्छसमाकृतीनि
श्लक्ष्णानि च स्युर्गुलिकामुखानि ॥
स्यात् कर्णिकैकाग्रचतुर्थभागे
मूलाश्रिते वस्तिनिबन्धने द्बे ।
जरद्गवो माहिषहारिणो वा
स्यात् शौकरो वस्तिरजस्य वापि ॥
दृढस्तनुर्नष्टशिरो विगन्धः
कषायरक्तः सुमृदुः सुशुद्धः ।
नृणां वयो वीक्ष्य यथानुरूपं
नेत्रेषु योज्यस्तु सुबद्धसूत्रः ॥
वस्तेरमावे प्लवानां गलो वा
स्यादङ्कपादः सुघनः पटो वा ।
आस्थापनार्हं पुरुषं विधिज्ञः
समीक्ष्य पुण्येऽहनि शुक्लपक्षे ॥
प्रशस्तनक्षत्रमुहूर्त्तयोगे
जीर्णान्नमेकाग्रमुपक्रमेत ।
बालां गुडूचीं त्रिफलां सरास्नां
द्वे पञ्च मूले च पलोन्मितानि ॥
अष्टौ पलान्यर्द्धतुलाञ्च मांसा-
च्छागात् पचेदप्सु चतुर्थशेषम् ।
पूतं यवानीफलविल्वकुष्ठ-
वचाशताह्वा घनपिप्पलीनाम् ॥
पृष्ठ ४/३११
कल्कैर्गुडक्षौद्रयुतैः स तैलै-
र्युतं सुखोष्णं तु पिचुप्रमाणैः ।
गुडोत्पलं द्बिप्रसृतान्तु मात्रां
स्नेहस्य युक्त्या मधुसैन्धवादि ॥
प्रक्षिप्य वस्तौ मथितं खजेन
सुबद्धमुच्छाम्य च निर्व्व्यलीकम् ।
अङ्गुष्ठमध्येन मुखं पिधाय
नेत्राग्रसंस्थामपनीयवर्त्तिम् ॥
तैलाक्तगात्रं कृतमत्र विट्कं
नाति क्षुधार्त्तं शयने मनुष्यम् ।
समेऽथ वेधन्नतशैरसेवा
नात्युच्छ्रिते स्वास्तरणोपपन्ने ॥
सव्येन पार्श्वेन सुखं शयानं
कृत्वर्ज्जुदेहं स्वभुजोपधानम् ।
निकुच्च्य सव्येतरमस्य सक्थि
वामं प्रसार्य्य प्रणयेत्ततस्तम् ॥
स्निग्धे गुदे नेत्रचतुर्थभागं
स्निग्धं शनैर्मृद्वृजुपृष्ठवंशम् ।
अकम्पनावेपनलाधवादीन्
पाण्योर्गुणांश्चापि विदर्शयन् हि ॥
प्रपीड्य चैकग्रहणेन दत्तं
नेत्रं शनैरेव ततोऽवकर्षेत् ।
तिर्य्यक्प्रणीते तु न याति धारा
गुदव्रणः स्याच्चरिते च नेत्रे ॥
दत्तः शनैर्नाशयमेति वस्तिः
कण्ठं प्रधावत्यतिपीडितश्च ।
शीतस्त्वतिस्तम्भकरो विदाहं
मूर्च्छाञ्च कुर्य्यादतिमात्रमुष्णः ।
स्निग्धोऽतिजाड्यं पवनन्तु रुक्ष-
स्तन्वल्पमात्रा लवणस्त्वयोगम् ।
करोति मात्राभ्यधिकोऽतियोगं
क्षामन्तु सान्द्रः सुचिरेण चेति ॥
दाहातिसारौ लवणोऽतिकुर्य्या-
त्तस्मात् प्रयुक्तं सममेव दद्यात् ।
पूर्व्वं हि योज्यं मधुसैन्धवन्तु
स्नेहं विनिर्मथ्य ततोऽनुकल्कम् ॥
विमथ्य संयुज्य पुनद्रवैस्तत्
वस्तौ निदध्यान्मथितं खजेन ।
आमाशयोऽग्निर्ग्रहणीगुदञ्च
तत्पार्श्वसंस्थस्य सुखोपलब्धिः ॥
लीयन्त एवं वलयश्च तस्मात्
सव्यं शयानोऽरतिवस्तिदानम् ।
विड्वातवेगो यदि चार्द्धदत्ते
निष्कृष्य दत्ते प्रणयेदशेषम् ॥
उत्तानदेहस्य कृतोपधानः
स्याद्वीर्य्यमाप्नोति तथास्य देहम् ।
एकोऽपकर्षत्यनिलं स्वमार्गात्
पित्तं द्वितीयस्तु कफं तृतीयः ॥
प्रत्यागते कोष्णजलावसिक्तः
शाल्यन्नमद्यात्तनुना रसेन ।
जीर्णे तु सायं लघु चाल्पमात्रं
भुक्तेऽनुबास्यः परिवृंहणार्थम् ॥”
“स्निग्धोष्ण एकः पवने निरूहो
द्वौ स्वादुशीतौ पयसा च पित्ते ।
त्रयः समूत्राः कटुकोष्णतीक्ष्णाः
कफे निरूहा न परं विधेयाः ॥
रसेन वाते प्रति भोजनं स्यात्
क्षीरेण पित्ते तु कफे च यूषैः ।
तथानुवास्येषु च विल्वतैलं
स्याज्जीवनीयं फलसाधितञ्च ॥”
इति चरके सिद्धिस्थाने तृतीयेऽध्याये ॥
“तत्र स्नेहादीनां कर्म्मणां वस्तिकर्म्मप्रधान-
तममाहुराचार्य्याः । कस्मादनेककर्म्मकरत्वा-
द्वस्तेरिह वस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां
संशोधनसंशमनसंग्रहणानि करोति । क्षीण-
शुक्रं वाजीकरोति कृशं बृंहयति स्थूलं कर्ष-
यति चक्षुः प्रीणयति वलीपलितमुपहन्ति वयः
स्थापति । शरीरोपचयं वर्णं बलमारोग्य-
मायुषः परिवृद्धिञ्च करोति वस्तिः सम्य-
गुपासितः ॥ तथा ज्वरातीसारतिमिरप्रति-
श्यायशिरोरोगाधिमन्थार्द्दिताक्षेपकपक्षाघातै-
काङ्गसर्व्वाङ्गरोगाध्मानोदरशर्कराशूलवृद्ध्युप-
दंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्र-
पुरीषोदावर्त्तशुक्रार्त्तवस्तन्यनाशहृद्धनुमण्याग्रहा-
र्शोऽश्मरी मूढगर्भप्रभृतिषु चात्यर्थमुपयुज्यते ॥”
“तत्र द्विविधो वस्तिः नैरूहिकः स्नैहिकश्च ।
आस्थापनं निरूह इत्यनर्थान्तरम् । तस्य
विकल्पो माधुतैलिकः । तस्य पर्य्यायशब्दो
यापनो युक्तरथः सिद्धवस्तिरिति । सदोष-
निर्हरणाच्छरीररोगहरणाद्वा निरूहः । वयः
स्थापनादायुःस्थापनाद्बास्थापनम् । माधुतैलि-
कविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः ॥
तत्र यथा प्रमाणगुणविहितः स्नेहवस्ति-
विकल्पोऽनुवासनः पादावकृष्टः । अनुवसन्नपि
न दुष्यत्यनुदिवसं दीयत इत्यनुवासनः ॥
तस्यापि विकल्पोऽर्द्धार्द्धमात्रावकृष्टोऽपरि-
हार्य्योमात्रावस्तिरिति ॥” इति सुश्रुते चिकित्
सितस्थाने ३५ अध्यायः ॥
“अत ऊर्द्ध्वं प्रवक्ष्यामि व्यापदः स्नेहवस्तिजाः ।
बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ॥
अल्पवीर्य्यं तदा स्नेहमभिभूय पृथग्विधान् ।
कुर्व्वन्त्युपद्रदान् स्नेहः स चापि न निवर्त्तते ॥
तत्र वाताभिभूते तु स्नेहे मुखकषायता ।
जृम्भावातरुजास्तास्ता वेपथुर्विषमज्वरः ॥
पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् ।
दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ॥
श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता ।
गौरवं छर्द्दिरुच्छ्वासः कृच्छ्रः शीतज्वरोऽरुचिः ॥
तत्र दोषाभिभूते तु स्नेहे वस्तिं निधापयेत् ।
यथास्वं दोषशमनान्युपयोज्यानि यानि च ॥
अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा
तदा ।
गुरुरामाशयः शूलं वायुश्चाप्रतिसञ्चरः ॥
हृत्पीडामुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः ।
तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ॥
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः ।
तदाङ्गसदनाध्माते श्वासः शूलञ्च जायते ॥
पक्वाशयगुरुत्वञ्च तत्र दद्यान्निरूहणम् ।
अतितीक्ष्णौषधैरेवं सिद्धञ्चाप्यनुवासनम् ॥
शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम् ।
गात्रेषु सर्व्वेन्द्रियाणामुपलेपोऽवसादनम् ॥
स्नेहगन्धिमुखन्तत्र कासश्वासावरोचकः ।
अतिपीडितवत्तत्र विविधा स्थापनन्तथा ॥
अस्विन्नस्याविशुद्धस्य स्नेहोऽल्पः सम्प्रयो-
जितः ।
शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहयेत् ॥
विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति ।
तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ॥
अल्पं युक्तवतोऽल्पो हि स्नेहोमन्दगुणस्तथा ।
दत्तो नैति क्लमोत्क्लेशौ भृशं वा रतिमाव-
हेत् ॥
तत्र वास्थापनं कार्य्यं शोधनीयेन वस्तिना ।
अन्वासनञ्च स्नेहेन शोधनीयेन शस्यते ॥
अहोरात्रादपि स्नेहः प्रत्यागच्छेन्न दूष्यति ।
कुर्य्याद्वस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ॥
यस्य नोपद्रवं कुर्य्यात् स्न हवस्तिरनिःसृतः ।
सर्व्वोऽल्पो वा वृतो रौक्ष्यादुपेक्ष्यः स विजा-
नता ॥
अनायान्तन्त्वहोरात्रात् स्नेहं संशोधनैर्जयेत् ॥
स्नेहवस्तावनायाते नान्यः स्नेहो विधीयते ।
इत्युक्ता व्यापदः सर्व्वाः सलक्षणचिकित्-
सिताः ॥”
इति च सुश्रुते चिकित्सितस्थाने ३७ अध्यायः ॥)

वस्तिकर्म्माढ्यः, पुं, (वस्तिकर्म्मणा तच्छोधनव्यापा-

रेण आढ्यः । वस्तिशोधने एवास्य प्रचुरकार्य्य-
करत्वात् तथात्वम् ।) अरिष्टवृक्षः । भूरिठा
इति ख्यातः । यथा, --
“अरिष्टो वस्तिकर्म्माढ्यो वेणीरः फेनिलः
क्षुणः ॥”
इति शब्दचन्द्रिका ॥

वस्तिमलं, क्ली, (वस्तेर्नाभ्यधोभागस्य मलम् ।)

मूत्रम् । इति हेमचन्द्रः । ३ । २९७ ॥

वस्तु, क्ली, (वसतीति । वस + “वसेस्तुन् ।” उणा०

१ । ७६ । इति तुन् ।) द्रव्यम् । यथा, --
“बुद्धद्रव्यं स्तौपिकं स्यात् सत्त्वं द्रव्यञ्च वस्तु च ॥”
इति ॥
(तथा, भागवते । ९ । ४ । २७ ।
“गृहेषु दारेषु सुतेषु बन्धुषु
द्विपोत्तमस्यन्दनवाजिवस्तुषु ।
अक्षय्यरत्नाभरणाम्बरादि-
अनन्तकोषेष्वकरोदसस्मतिम् ॥”
पात्रभूतम् । यथा, रघौ । ३ । २९ ।
“अथोपनीतं विधिवद् विपश्चितो
विनिन्युरेनं गुरवो गुरुप्रियम् ।
अबन्ध्ययत्नाश्च बभूवुरत्र ते
क्रिया हि वस्तूपहिता प्रसीदति ॥”)
पृष्ठ ४/३१२
पदार्थः । यथा, --
“भावः पदार्थो धर्म्मः स्यात् सत्त्वं तत्त्वञ्च
वस्तु च ॥”
इति त्रिकाण्डशेषः ॥
(यथा, शकुन्तलायाम् १ अङ्के ।
“सतां हि सन्देहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तयः ॥”)
जगति वस्तुद्वयं भावोऽभावश्च । इति न्याय-
शास्त्रम् ॥ सच्चिदानन्दाद्बयं ब्रह्म । इति वेदान्त-
सारः ॥ (यथा, कथासरित्सागरे । २१ । ४९ ।
“अहो वस्तुनि मात्सर्य्यमहो भक्तिरवस्तुनि ॥”
कार्य्यम् । यथा, कामन्दकीयनीतिसारे । १५ । २५ ।
“वस्तुष्वशक्येषु समुद्यमश्चेत्
शक्येषु मोहादसमुद्यमश्च ।
शक्येषु कालेन समुद्यमश्च
त्रिधैव कार्य्यव्यसनं वदन्ति ॥”
अर्थः । इति मल्लिनाथः ॥ यथा, कुमारे ।
६ । ६५ ।
“अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु ।
ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ॥”
इतिवृत्तम् । यथा, विक्रमोर्व्वश्याम् ।
“अहमस्यां कालिदासग्रथितवस्तुना नवेन त्रोट-
केनोपस्थास्ये ॥”)

वस्तुकं, क्ली, (वस्तु + संज्ञायां कन् ।) वास्तूकम् ।

इति शब्दरत्नावली राजनिर्घण्टश्च ॥

वस्तुकी, स्त्री, (वस्तुक + गौरादित्वात् ङीष् ।)

श्वेतचिल्लीशाकः । इति राजनिर्घण्टः ॥

वस्त्यं, क्ली, (वस् + क्तिन् । वस्तिर्वासस्तस्यां

साधु । वस्ति + “तत्र साधुः ।” ४ । ४ । ९८ ।
इति यत् ।) गृहम् । इत्यमरः ॥

वस्त्रं, क्ली, (वस्यते आच्छाद्यतेऽनेनेति । वस

आच्छादने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणा० ४ ।
१५८ । इति ष्ट्रन् ।) परिधानाद्युपयुक्तकार्पासादि-
निर्म्मितवस्तु । कापड इति भाषा । तत्पर्य्यायः ।
आच्छादनम् २ वासः ३ चेलम् ४ वसनम् ५
अंशुकम् ६ । इत्यमरः ॥ सिचयः ७ प्रोतः ८
लक्तकः ९ कर्पटः १० शाठकः ११ कशिपुः १२ ।
इति जटाधरः ॥ वासनम् १३ द्बिचयम् १४
प्रोतम् १५ छादम् १६ वासम् १७ । इति
शब्दरत्नावली ॥ * ॥ अस्य परिधानविधिर्यथा,
भृगुः ।
“विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च ।
श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥”
विकक्षः परीधानासंवृतकच्छः । तथा च ।
“परीधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥”
स्मृतिः ।
“वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् ।
एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः ॥”
बौधायनः ।
“नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी ।
अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ॥”
प्रचेताः । दशा नाभौ प्रयोजयेत् । स्मृतिः ।
न स्यात् कर्म्मणि कञ्चुकीति । उत्तरीयधारणं
चोपवीतवत् ।
“यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः ।
तथा सन्धार्य्यते यत्नादुत्तराच्छादनं शुभम् ॥”
इति स्मृतेः ॥
अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उप-
वीतं धार्य्यते तथा उत्तराच्छादनमपि द्विजो-
त्तमैरिति प्रदर्शनमात्रम् । प्रागुक्तभृगुवचनेन
सर्व्वेषां द्विवस्त्रताप्रतीतेः । पारस्करः । एकञ्चे-
द्वासो भवति तस्य उत्तरार्द्धेन प्रच्छादयतीति ।
इत्याह्निकतत्त्वम् ॥ * ॥ अस्य धारणगुणाः ।
यथा, --
“काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम् ।
श्रीमत्पारिषदं शस्तं निर्म्मलाम्बरधारणम् ॥”
इति राजवल्लभः ॥ * ॥
अपि च ।
“स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम् ।
कान्तिप्रदं शरीरस्य कण्डूयादोषनाशनम् ॥
कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च ।
वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥”
कौषेयं पट्टाम्बरं तसरवस्त्रञ्च ।
“मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते ।
तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥”
कषायं कोकची इति लोके । कषायरागरक्तं
वा ।
“शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम् ।
न चोष्णं न च वा शीतं तत्तु वर्षासु धारयेत् ॥
यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्द्धनम् ।
त्वच्यं वशीकरं रुच्यं नवं निर्म्मलमम्बरम् ॥”
काम्यं कामोद्दीपकम् ।
“कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् ।
तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ॥”
अलक्ष्मीरशोभा दादिद्रं वा । इति भाव-
प्रकाशः ॥ * ॥ (अथ स्वप्ने वस्त्रादिदर्शनात्
शुभफलं यथा, --
“कन्यां कुमारकान् गौरान् शुक्लवस्त्रान् सुते-
क्षसः ।
यः पश्येल्लभते यो वा छत्रादर्शविषामिषम् ॥
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥
यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते ॥”
इति वाभटे शारीरस्थाने षष्ठेऽध्याये ॥)
अथ नववस्त्रपरीधानदिनम् ।
“ब्रह्मानुराधवसुतिष्यविशाखहस्त-
चित्रोत्तराग्निपवनादितिरेवतीषु ।
जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ
धार्य्यं नवं वसनमीश्वरदेवतुष्टौ ॥”
इति ज्योतिस्तत्वम् ॥ * ॥
अपि च ।
“सूर्य्ये चाल्पधनं ब्रणः शशिदिने क्लेशः सदा
भूमिजे
वस्त्राणां बहुता बुधे सुरगुरौ विद्यागमः
सम्पदः ।
नानाभोगयुतः प्रमोदशयनं दिव्याङ्गना भार्गवे
शौरे स्युः खलु रोगशोककलहा वस्त्रे धृते
नूतने ॥”
इति कर्म्मलोचनम् ॥ * ॥
अस्य क्षारसंयोगनिषिद्धदिनानि यथा, --
“मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्धवासरे ।
वस्त्राणां क्षारसंयोगो दहत्यासप्तमं कुलम् ॥”
इत्याह्निकाचारतत्त्वम् ॥
तद्दानफलं यथा, --
“वासोदश्चन्द्रसालोक्त्यमश्विसालोक्यमश्वदः ॥”
इति शुद्धितत्त्वम् ॥
अपि च ।
“द्विजानां ये तु सततं शुभवस्त्रप्रदा नराः ।
वस्त्रगन्धयुतः पन्थास्तेषां सुजलशीतलः ॥”
इत्याद्ये वह्निपुराणे यमशर्म्मिलोपाख्याननामा-
ध्यायः ॥ * ॥ तेन विष्णुपूजाविधिर्यथा, --
“दुकूलपट्टकौषेयवाल्ककार्पासकादिभिः ।
वासोभिः पूजयेद्विष्णुं सुशुभैरात्मनः प्रियैः ॥”
इति तत्रैव क्रियायोगनामाध्यायश्च ॥
तद्ग्रहणविधिर्यथा । विष्णुधर्म्मोत्तरम् ।
“वस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः ।
आरुह्योपानहौ यानमारुह्यैव च पादुके ॥”
तस्याधिपतिर्यथा । तत्रैव ।
“बार्हस्पत्यं स्मृतं वासः सौम्यानि रजतानि च ।
पक्षिणश्च तथा सर्व्वे वायव्याः परिकीर्त्तिताः ॥”
तत्प्रतिग्रहप्रायश्चित्तं यथा । हारीतः । मणि-
वासोगवादीनां प्रतिग्रहे सावित्र्यष्टशतं जपेत् ।
अष्टसहस्रं अष्टोत्तरसहस्रम् । इति शुद्धि-
तत्त्वम् ॥ * ॥ अपि च ।
श्रीभगवानुबाच ।
“कार्पासं काम्बलं वाल्कं कौषजं वस्त्रमिष्यते ।
तत् पूर्ब्बं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् ॥
निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् ।
परकीयं वाखुदष्टं सूचीव्रिद्धं तथोषितम् ।
उप्तकेशं विधौतञ्च श्लेष्ममूत्रादिदूषितम् ॥
प्रदाने देवताभ्यश्च दैवे पैत्र्ये च कर्म्मणि ।
वर्ज्जयेत् शापयोगेन यज्ञादावुपयोजने ॥”
शापयोगेन इत्यत्र स्वोपयोगेन इति क्वचित्
पुस्तके पाठः ।
“उत्तरीयोत्तरासङ्गौ निचोलो मोदचेलकः ।
प्ररिधानञ्च पञ्चैतान्यस्यूतानि प्रयोजयेत् ॥
शाणवस्त्रं नीशारञ्च तथेवातपवारणम् ॥”
क्वचित् पुस्तके शाणवस्त्रमित्यत्र मणिवस्त्रमिति
पाठः ।
“चण्डातकं तथा दूष्यं पञ्च स्यूतान्यदुष्टये ।
पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् ॥
अन्यत्रावरणादौ च तद्विना शस्ततोऽपि च ।
रक्तं कौषेयवस्त्रञ्च महादेव्यै प्रशस्यते ॥
गीतं तथैव कौषेयं वासुदेवाय चोत्सृजेत् ।
रक्तन्तु कम्बलं दद्यात् शिवाय परमात्मने ॥
विचित्रं सर्व्वदेवेभ्यो देवीभ्योऽशुं निवेदयेत् ।
कार्पासं सर्व्वतोभद्रं दद्यात् सर्व्वेभ्य एव तु ॥
पृष्ठ ४/३१३
नैकान्तरक्तं दद्यात्तु वासुदेवाय चेलकम् ।
तथा नैकान्तरक्तन्तु शिवाय विनिवेदयेत् ॥
नीलीरक्तन्तु यद्वस्त्रं तत् सर्व्वत्र विवर्ज्जितम् ।
दैवे पैत्रे स्वोपयोगे वर्ज्जयेत्तद्विचक्षणः ॥
नीलीरक्तं प्रमादात्तु यो दद्याद्विष्णवे बुधः ।
निष्फला तस्य तत्पूजा तदा भवति भैरव ॥
विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् ।
वस्त्र्ं दद्यान्महादेव्यै नान्यस्मै तु कदाचन ॥
द्विपदां ब्राह्मणो यद्वत् देवानां वासवो यथा ।
तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते ॥
वस्त्रेण त्रायते लज्जां वस्त्रेण त्रायते त्वघम् ।
वस्त्रात् स्यात् सर्व्वतः सिद्धिश्चतुर्व्वर्गप्रदञ्च तत् ॥”
इति कालिकापुराणे ६८ अध्यायः ॥
राज्ञा सदा वस्त्राच्छादितशरीरं कर्त्तव्यम् ।
यथा, --
“सर्व्वदा मङ्गलं रत्नं धारयेत् सह दूर्व्वया ।
अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् ॥”
इति तत्रैव ८९ अध्यायः ॥
नीलवस्त्रं परिधाय विष्णुपूजननिषेधो यथा, --
वराह उवाच ।
“भूषितो नीलवस्त्रेण यो हि मामुपसर्पति ।
वर्षाणाञ्च शतं पञ्च कृमिर्भूत्वा स तिष्ठति ॥
तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम् ।
प्रायश्चित्तं विशालाक्षि येन मुच्येत किल्विषात् ॥
व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्म्मणा ।
मुच्यते किल्विषात् भूमे एवमेतन्न संशयः ॥”
इति वाराहे नीलवस्त्रपरीधानप्रायश्चित्त-
नामाध्यायः ॥ * ॥ विष्णुपूजने रक्तवस्त्रपरी-
धाननिषेघो यथा, --
वराह उवाच ।
“रक्तवस्त्रेण संयुक्तो यो हि मामुपसर्पति ।
तस्यापि शृणु सुश्रोणि कर्म्म संसारमोक्षणम् ॥
रजस्वलासु नारीषु रजो यत्तत् प्रवर्त्तते ।
तेनासौ रजसा स्पृष्टो कर्म्मदोषेण जानतः ॥
वर्षाणि दशपञ्चैव वसते तत्र निश्चयः ।
रजो भूत्वा महाभागे रक्तवस्त्रपरायणः ॥
प्रायश्चित्तं प्रवक्ष्यामि तस्य कायविशोधनम् ।
येन शुध्यन्ति वै भूमे पुरुषाः शास्त्रवर्ज्जिताः ॥
एकाहारं ततः कृत्वा दिनानि दश सप्त च ।
वायुभक्षो दिनत्रीणि दिनमेकं जलाशनः ॥
एवं स मुच्यते भूमे मम विप्रियकारकः ।
प्रायश्चित्तं ततः कृत्वा ममासौ रोचते सह ॥
एतत्ते कथितं भूमे रक्तवस्त्रविभूषितम् ।
प्रायश्चित्तं महाभागे सर्व्व संसारमोक्षणम् ॥”
इति तत्रैव रक्तवस्त्रपरीधानप्रायश्चित्तम् ॥
परिधृतकृष्णवस्त्रस्य विष्णूपासननिषेधो यथा, --
“यः पुनः कृष्णवस्त्रेण मम कर्म्मपरायणः ।
देवि कर्म्माणि कुर्व्वीत तस्य वै पतनं शृणु ॥
घुणा वै पञ्चवर्षाणि काष्ठभक्षश्च जायते ।
मशकस्त्रीणि वर्षाणि कच्छस्त्रीणि च पञ्च च ॥
न स गच्छति संसारं मम कर्म्मपरायणः ।
पारावतश्च जायेत नववर्षाणि पञ्च च ॥
जातो ममापराधेन सितः पारावतो भुवि ।
तिष्ठते मम पार्श्वेषु यत्रैवाहं प्रतिष्ठितः ॥
प्रायश्चित्तं प्रवक्ष्यामि तस्य संसारमोक्षणम् ।
येनासौ लभते सिद्धिं कृष्णवस्त्रापराधतः ॥
सप्ताहं यावकं भुक्त्वा त्रिरात्रं शक्तुपिण्डिकाम् ।
त्रीणि पिण्डान् त्रिरात्रन्तु एवं मुच्येत किल्वि-
षात् ॥
य एतेन विधानेन देवि कर्म्माणि कारयेत् ।
शुचिर्भागवतो भूत्वा मम मार्गानुसारकः ।
न स गच्छति संसारं मम लोकाय गच्छति ॥”
इति तत्रैव कृष्णवस्त्रपरीधानप्रायश्चित्तम् ॥
परिधृताधौतवस्त्रस्य विष्णुकर्म्मकरणनिषेधो
यथा, --
वराह उवाच ।
“वाससा न च धौतेन यो मे कर्म्माणि कारयेत् ।
शुचिर्भागवतो भूत्वा मम मार्गानुसारकः ॥
तस्य दोषं प्रवक्ष्यामि अपराधं वसुन्धरे ।
पतन्ति येन संसारं वाससोच्छिष्टकारिणः ॥
देवि भूत्वा गजोन्मत्तस्तिष्ठत्येकं नरो भुवि ।
उष्ट्रश्चैकं भवेज्जन्म जन्म चैकं खरस्तथा ॥
गोमायुरेकजन्मा वै जन्म चैकं हयस्तथा ।
सारङ्गश्चैकजन्मा वै मृगो भवति चैकतः ॥
सप्तजन्मान्तरं पश्चात्ततो भवति मानुषः ।
मद्भक्तश्च गुणज्ञश्च मम कर्म्मपरायणः ।
निरापराधो दक्षश्च अहङ्कारविवर्ज्जितः ॥
धरण्युवाच ।
शुतमेतत् प्रयत्नेन यत्त्वया समुदाहृतम् ।
संसारं वाससोच्छिष्टं येन गच्छन्ति मानवाः ॥
प्रायश्चित्तञ्च मे ब्रूहि सर्व्वकर्म्मसुखावहम् ।
किल्विषात् येन मुञ्चन्ति तव कर्म्मपरायणः ॥
वाराह उवाच ।
शृणु तत्त्वेन मे देवि कथ्यमानं मयानघे ।
प्रायश्चित्तं प्रवक्ष्यामि मम भक्तिपरायणः ॥
यावकेन दिनं त्रीणि पिण्याकेन पुनस्त्रयः ।
कणभक्षो दिनत्रीणि पायसेन दिनत्रयम् ॥
एवं कृत्वा महाभागे वाससोच्छिष्टकारिणः ।
अपराधं न विद्येत संसारञ्च न गच्छति ॥”
इति तत्रैव अधौतवासःपरिधानप्रायश्चित्त-
नामाध्यायः ॥ * ॥ अथ परिहितपरकीयवस्त्रस्य
विष्णुपूजादिकरणे प्रायश्चित्तम् ।
वाराह उवाच ।
“यः पारक्येण वस्त्रेण नावधूतेन माधवि ।
प्रायश्चित्ती पुमान्मूर्खो मम कर्म्मपरायणः ॥
करोति मम कर्म्माणि स्पृष्ट्वा ते मां तमःस्थितः ।
मृगो वै जायते देवि वर्षाणि त्रीणि सप्त च ॥
हीनपादेन जायेत चैकजन्म वसुन्धरे ।
मूर्खश्च क्रोधनश्चैव मद्भक्तश्चैव जायते ॥
तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम् ।
येन गच्छति संसारं मम भक्तो व्यवस्थितः ॥
अष्टभक्तं ततः कृत्वा मम कर्म्मपरायणः ।
माघस्यैव तु मासस्य शुक्लपक्षस्य द्बादशी ॥
तिष्ठेज्जलाशये तत्र क्षान्तो दान्तो जितेन्द्रियः ।
अनन्यमानसो भूत्वा मम चिन्तापरायणः ॥
प्रभातायान्तु शर्व्वर्य्यां उदिते च दिवाकरे ।
पञ्चगव्यं ततः पीत्वा शीघ्रं मुच्येत किल्विषात् ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।
सर्व्वपापविनिर्मुक्तो मम लोकाय गच्छति ॥”
इति वाराहे परकीयवस्त्रपरीधानप्रायश्चित्त-
नामाध्यायः ॥ * ॥ काञ्चननिर्म्मितवस्त्रप्रमाणं
यथा, --
“यावत् काञ्चनवस्त्राणां वाहिका गोपकन्यकाः ।
काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २८ अध्यायः ॥
“आसनं वसनं शय्या जायापत्यं कमण्डलुः ।
आत्मनः शुचिरेतानि न परेषां कदाचन ॥”
ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारित-
वस्त्रस्य च अधौतत्वं यथा, --
“ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन तु ।
अधौतं तद्विजानीयाद्दशा दक्षिणपश्चिमे ॥”
इति कर्म्मलोचनम् ॥ * ॥
सत्यतपाः ।
“प्रागग्रमुदगग्रं वा धौतं वस्त्रं प्रसारयेत् ।
पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षालनात् शुचि ॥”
अत्राग्रं दशा वृक्षवत् ॥ * ॥ प्रचेताः ।
“स्वयं धौतेन कर्त्तव्या क्रिया धर्म्म्या विपश्चिता ।
न च राजकधौतेन नाधौतेन भवेत् क्वचित् ॥
पुत्त्रमित्रकलत्रेण स्वजातिबान्धवेन च ।
दासवर्गेण यद्धौतं तत् पवित्रमिति स्थितिः ॥”
स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं यथा ।
उष्णीषधारणं शिरोजलापनयनाय । तेन तद-
नन्तरं न धार्य्यम् । तथा महाभारतम् ।
“आप्लुतः साधिवासेन जलेन च सुगन्धिना ।
राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् ।
जलक्षयनिमित्तं वै वेष्टयामास मूर्द्धनि ॥”
शिथिलार्पितं अगाढबद्धम् ॥ * ॥ निषिद्ध-
वस्त्राणि यथा । भारते ।
“न स्यूतेन न दग्धेन पारक्येण विशेषतः ।
मूषिकोत्कीर्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः ॥”
नारसिंहे ।
“न रक्तमुल्वणं वासो न नीलञ्च प्रशस्यते ।
मलाक्तञ्च दशाहीनं वर्ज्जयेदम्बरं बुधः ॥”
उल्वणं उत्कटरक्तविशेषम् । आचाररत्ने
उशनाः ।
“दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्यभावतः ।”
विष्णुधर्म्मोत्तरे ।
“वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा ।
जीर्णं वापदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः ॥
उपानहं नान्यधृतं ब्रह्मसूत्रञ्च धारयेत् ।
न जीर्णमलवद्वासो भवेच्च विभवे सति ॥”
योगियाज्ञवल्क्यः ।
“स्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च ।
प्रक्षाल्योरूमृदद्भिश्च हस्तौ प्रक्षालयेत्ततः ॥
अभावे धौतवस्त्राणां शाणक्षौमाविकानि च ।
कुतपो योगपट्टं वा द्बिर्व्वासा येन वा भवेत् ॥
पृष्ठ ४/३१४
अधौतेन च वस्त्रेण नित्यनैमित्तिकीं क्रियाम् ।
कुर्व्वन् फलं न चाप्नोति दत्तं भवति निष्फलम् ॥”
कुतपो नेपालकम्बलः ॥ * ॥ तर्पणात् पूर्ब्बं
स्नानवस्त्रनिष्पीडननिषेधो यथा, --
“निष्पीडयति यः पूर्ब्बं स्नानवस्त्रन्तु तर्पणात् ।
निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ॥”
यावालिः ।
“स्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि ।
प्राणायामत्रयं कृत्वा पुनः स्नानेन शुद्ध्यति ॥ * ॥
नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन ॥”
हारीतः । आर्द्रञ्च सप्तवातहतमपि शुद्ध-
मिति ॥ * ॥ मदनपारिजाते पारस्करः ।
एकञ्चेद्वासो भवति तस्योत्तरार्द्धेन प्रच्छादय-
तीति । इत्याह्निकतत्त्वम् ॥ * ॥ संक्रान्त्यादौ
वस्त्रनिष्पीडननिषेधो यथा । षट्त्रिंशन्मत-
निगमौ ।
“संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे ।
वस्त्रं न पीडतेत्तत्र न च क्षारेण योजयेत् ॥”
इति तिथ्यादितत्त्वम् ॥

वस्त्रकुट्टिमं, क्ली, (वस्त्रनिर्म्मितं कुट्टिम-

मिव ।) छत्रम् । इति त्रिकाण्डशेषः ॥ (वस्त्रस्य
कुट्टिमं क्षुद्रगृहम् ।) वस्त्रगृहञ्च ॥

वस्त्रगृहं, क्ली, (वस्त्रनिर्म्मितं गृहम् ।) वस्त्र-

निर्म्मितशाला । ताँवु इति भाषा । तत्पर्य्यायः ।
पटवापः २ पटमयम् ३ दूष्यम् ४ स्थलम् ५ ।
इति त्रिकाण्डशेषः ॥

वस्त्रग्रन्थिः, पुं, (वस्त्रस्य ग्रन्थिः ।) परिधान-

वस्त्रस्य ग्रन्थनम् । तत्पर्य्यायः । उच्चयः २
नीवी ३ । इति त्रिकाण्डशेषः ॥

वस्त्रपञ्जलः, पुं, कोलकन्दः । इति राजनिर्घण्टः ॥

वस्त्रपुत्त्रिका, स्त्री, (वस्त्रनिर्म्मिता पुत्त्रिका पुत्त-

लिका ।) वस्त्रनिर्म्मितपुत्तलिका । इति शब्द-
माला ॥

वस्त्रभूषणः, पुं, (भूषयतीति । भूषि + ल्युः ।

वस्त्रस्य भूषणः रञ्जक इत्यर्थः ।) साकरुण्ड-
वृक्षः । इति राजनिर्घण्टः ॥

वस्त्रभूषणा, स्त्री, (वस्त्रस्य भूषणं रागो यस्याः ।)

मञ्जिष्ठा । इति राजनिर्घण्टः ॥ (गुणादयो-
ऽस्या मञ्जिष्ठाशब्दे ज्ञातव्या ॥)

वस्त्रयोनिः, स्त्री, (वस्त्रस्य योनिरुत्पत्तिकार-

णम् ।) वसनोत्पत्तिकारणम् । यथा, --
“त्वक्फलकृमिरोमाणि वस्त्रयोनिर्द्दश त्रिषु ॥”
इत्यमरः ॥

वस्त्ररञ्जनः, पुं, (रञ्जयतीति । रञ्ज + णिच् +

ल्युः ।) वस्त्राणां रञ्जनः । कुसुम्भः । इति
राजनिर्घण्टः ॥ (तथास्य पर्य्यायः ।
“स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जनमित्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वस्नं, क्ली, (वस निवासे आच्छादने वा + “धापृ-

वस्यज्यतिभ्यो नः ।” उणा० ३ । ६ । इति
करणादौ यथायथं नः ।) वेतनम् । मूल्यम् ।
(यथा, ऋग्वेदे । ४ । २४ । ९ ।
“भूयसा वस्नमचरत् कनीयोऽविक्रीतो अका-
निषं पुनर्यन् ॥”)
वसनम् । द्रव्यम् । इति विश्वः ॥ धनम् । भृतिः ।
इति हेमचन्द्रः ॥ (वस्ते आच्छादयति शरीर-
मिति । कर्त्तरि नः ।) त्वक् । इत्यमरटीकायां
रामाश्रयः ॥

वस्नः, पुं, (वस् + न ।) मूल्यम् । इत्यमरः ॥

वस्ननं, कटीभूषणम् । इति शब्दरत्नावली ॥

वस्नसा, स्त्री, (वस्नं चर्म्म सीव्यति । वस्न +

सिव + डः । स्त्रियां टाप् ।) स्नायुः । इत्यमरः ॥

व(स्वो)स्वौकसारा, स्त्री, (वस्वौकेषु रत्नाकरेषु

सारा ।) इन्द्रपुरी । (यथा, रघुः । १६ । १० ।
“वस्वौकसारामभिभूय साहं
सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्य्यवंश्ये
सति प्रपन्ना करुणामवस्थाम् ॥”)
इन्द्रनदी । (यथा, महाभारते । ३ । १८८ ।
१०१ ।
“वस्वौकसारां नलिनीं नर्म्मदाञ्चैव भारत ! ॥”)
कुबेरपुरी । (यथा, महाभारते । ७ । ६५ । १५ ।
“नैतादृशं दृष्टपूर्ब्बं कुबेरसदनेष्वपि ।
धनञ्च पूंर्य्यमाणं नः किं पुनर्मनुजेष्विति ।
व्यक्तं वस्वोकसारेयमित्यूचुस्तत्र विस्मिताः ॥”)
कुबेरनदी । इति हेमचन्द्रः ॥

वह, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) इ क, वंहयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥

वह, ऐ ञ औ प्रापणे । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-द्विक०-अनिट् ।) प्रापणमिह
ञ्यन्तस्य रूपम् । ऐ, उह्यात् । ञ, वहति
वहते भारं ग्रामं जनः प्रापयतीत्यर्थः । औ,
अवाक्षीत् । अर्थान्तरे अकर्म्मकोऽयम् । यथा ।
जम्बूः सरिद्वहति सीमनि कम्बुकण्ठीति
नैषधे । मन्दं मरुद्बहति गर्ज्जति वारिवाहः ।
इति महानाटके । ववाह रक्तं पुरुषास्ततो
जाताः सहस्रशः । इत्यादि सिद्ध्यर्थमोष्ठ्या-
दिञ्च वहधातुं मन्येते वर्णदेशशरणदेवौ ।
वस्तुतस्तु बह्वाद्यसम्मतत्वादेवोष्ठ्यादिरनेनोपे-
क्षितः । ववाह इति चण्डीप्रयोगस्य तु वाह
ङ यत्ने इत्यस्मात् गणकृतानित्यत्वात् परस्मैपद-
सिद्धिः । अनेकार्थत्वात् सुस्राव इत्यर्थः । अथवा
वव इत्याह इत्येव व्याख्यानम् । इति दुर्गा-
दासः ॥

वहः, पुं, (वहति युगमनेनेति । वह + “गोचर-

सञ्चरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन
साधु ।) वृषस्कन्धप्रदेशः । इत्यमरः ॥ (यथा,
महाभारते । ४ । २ । २१ ।
“यस्य बाहू समौ दीर्धौ ज्याघातकठिनत्वचौ ।
दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥”
वहतीति । वह् + अच् ।) घोटकः । वायुः ।
इति मेदिनी । हे, ८ ॥ पन्थाः । इति त्रिकाण्ड-
शेषः ॥ नदः । इति हेमचन्द्रः ॥ (वाहके, त्रि ।
यथा, मनुः । १ । ७६ ।
“आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः
शुचिः ।
बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)

वहतः, पुं, (वहतीति । वह् + अतच् ।) वृषः ।

पान्थः । इत्युणादिकोषः ॥

वहतिः, पुं, (वहतीति । वह् + “वहिवस्यर्त्तिभ्य-

श्चित् ।” उणा० ४ । ६० । इति अतिः ।)
वायुः । इत्युणादिकोषः । गौः । सचिवः । इति
मेदिनी । ते, १४८ ॥

वहती, स्त्री, (वहतीति । वह् + अति । वा

ङीष् ।) नदी । इति केचित् ॥

वहतुः, पुं, (वह् + “एधिवह्योश्चतुः ।” उणा०

१ । ७९ । इति चतुः ।) पथिकः । वृषभः ।
इति मेदिनी । ते, १४९ ॥ (विवाहकाले कन्यायै
देयवस्तु । यथा, ऋग्वेदे । १० । ८५ । १३ ।
“सूर्य्याया वहतुः प्रागात् सवितायमवासृजत् ।”
“वहतुः कन्याप्रियार्थं दातव्यो गवादिपदार्थः ।”
इति तद्भाष्ये सायणः ॥ विवाहः । यथा, ऋग्-
वेदे । १० । ८५ । १४ ।
“यदश्विना पृच्छमाना वयातं
त्रिचक्रेण वहतुं सूर्य्यायाः ॥”
“सूर्य्याया वहतु विवाहमित्यर्थः ।” इति तद्-
भाष्ये सायणः ॥ वहनकारणे, त्रि । यथा,
ऋग्वेदे । ७ । १ । १७ ।
“उभा कृण्वतो वहतू मियेधे ।”
“उभौ वहतू वहनहेतू स्तोत्रं शस्त्रञ्च कृण्वतः
कुर्व्वन्तो मियेधे ।” इति तद्भाष्ये सायणः ॥)

वहनं, क्ली, (उह्यतेऽनेनेति । वह + करणे

ल्युट् ।) होडः । हुडी इति भाषा । यथा, --
“तरणो भेलके वारिरथो नौस्तरिकः प्लवः ।
होडस्तरान्धुर्व्वहनं वहित्रं वार्व्वटः पुमान् ॥”
इति त्रिकाण्डशेषः ॥
(यथा, कथासरित्सागरे । २५ । ४५ ।
“क्षणान्तरे च बणिजामाक्रन्दैस्तीव्रपूरितम् ।
भरादिव तदुत्पत्य वहनं समभज्यत ॥”
वह + भावे ल्युट् । प्रापणम् । धारणम् ।
यथा, महाभारते । २ । ३१ । ४१ ।
“पावनात् पावकश्चासि वहनात् हव्यवाहनः ॥”
वहतीति । वह + ल्युः । वाहके, त्रि । यथा,
कथासरित्सागरे । ११९ । १९६ ।
“दैत्यानामधिपो विमानवहनः सान्तःपुरः
सानुगः ॥”)

वहन्तः, पुं, (वहति वातीति । वह + “तॄभूवहि-

वसीति ।” उणा० ३ । १२८ । इति झच् ।)
वायुः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(उह्यते इति । कर्म्मणि झच् ।) बाले, त्रि ।
इत्युणादिकोषः ॥

व(ब)हलः, पुं, (उह्यतेऽनेनेति । वह + बाहुलकात्

अलच् ।) पोतः । इति हारावली । १४२ ॥
दृढे, त्रि । इति हेमचन्द्रः ॥ (बहुले च यथा,
उत्तरचरिते । १ ।
पृष्ठ ४/३१५
“रसावस्याः स्पर्शो वपुषि वहलश्चन्दनरसः ॥”
यथा वा प्रबोधचन्द्रोदये । १ ।
“येन त्रि सप्तकृत्वो नृपवहलवसामांसमस्तिष्कपङ्क-
प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरे-
ऽभिषेकः ॥”)

वहलगन्धं, क्ली, (वहलः प्रचुरो गन्धो यस्य ।)

शम्बरचन्दनम् । दति राजनिर्घण्टः ॥

वहलचक्षुः [स्] पुं, (वहलानि प्रचुराणि चक्षु-

षीव पुष्पाण्यस्य ।) मेषशृङ्गी । इति रत्न-
माला ॥ पुस्तकान्तरे ।
“नन्दीवृक्षो मेषशृङ्गी तथा मेषविशीलिका ।
चक्षुर्व्वहलं चक्षुश्च मेढ्रशृङ्गी गृहद्रुमाः ॥”
इत्यपि पाठः ॥

वहलत्वचः, पुं, (वहला दृढा त्वचा वल्कलं यस्य ।)

श्वेतलोध्रः । इति राजनिर्घण्टः ॥

वहला, स्त्री, (वहलानि प्रचुराणि पुष्पाणि

सन्त्यस्या इति । अर्शआदित्वादच् ।) शत-
पुष्पा । इति राजनिर्घण्टः ॥ स्थूलैला । इति
भावप्रकाशः ॥ (अस्याः पर्य्यायो यथा, --
“एला तु वहला स्थूला मालेयं ताडकाफलम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

वहा, स्त्री, (वहतीति । वह + अच् । टाप् ।)

नदी । इति हेमचन्द्रः । ४ । १४६ ॥

व(ब)हिः, [स्] व्य, वाह्यम् । इत्यमरः ॥ (यथा,

मनुः । १० । ४५ ।
“मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥”
यथा च, रामायणे । २ । ५३ । २ ।
“अद्येयं प्रथमा रात्रिर्याता जनपदात् बहिः ।
या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥”)

व(ब)हिःकुटीचरः, पुं, (बहिःकुट्यां चरतीति ।

चर + टः ।) कुलीरः । इति त्रिकाण्डशेषः ॥

वहितः, त्रि, (अवधीयते स्मेति । अव + धा + क्तः ।

अवस्यातो लोपः ।) अवहितः । इति द्विरूप-
कोषः ॥

वहित्रं, क्ली, (वहति द्रव्याणीति । वह + “अशित्रा-

दिभ्य इत्रोत्रौ ।” उणा० ४ । १७२ । इति इत्रः ।)
पोतः । तत्पर्य्यायः । वार्व्वटः २ । इति
त्रिकाण्डशेषः ॥ (यथा, गीतगोविन्दे । १ । ५ ।
“प्रलयपयोधिजले धृतवानसि वेदं
विहितवहित्रचरित्रमखेदम् ॥”)

वहित्रकं, क्ली, (वहित्र + स्वार्थे कन् ।) जलयानम् ।

यथा, हेमचन्द्रे ।
“सांयात्रिकः पोतबणिक् यानपात्रं वहित्रकम् ।
वोहित्यं वहनं पोतः पोतवाहो नियामकः ॥”

व(ब)हिर्द्वारं, क्ली, (वहिःस्थं द्वारम् ।) तोरणम् ।

इत्यमरः ॥ (यथा, --
“धिगस्त्वेता विद्या धिगपि कविता धिक्सुजनता
वयो रूपं धिक् धिगपि च यशो निर्द्धनमतः ।
असौ जीयादेकः सकलगुणहीनोऽपि धनवान्
वहिर्द्वारे यस्मात्तृणलभसमाः सन्ति गुणिनः ॥”
इत्युद्भटः ॥)

व(ब)हिर्द्वारप्रकोष्ठकः, पुं, (वहिर्द्वारस्य प्रको-

ष्ठकः ।) गृहस्य द्वाराद्वहिः प्रकोष्ठम् । तत्प-
र्य्यायः । प्रघाणः २ प्रघणः ३ अलिन्दः ४ ।
इत्यमरः । २ । २ । १२ ॥

व(ब)हिर्भूतः, त्रि, (वहिस् + भू + क्तः ।) वहि-

र्गतः । वहिःशब्दपूर्व्वकप्राप्त्यर्थभूधातोः कर्त्तरि
क्तप्रत्ययेन निष्पन्नः । यथा । “पक्षविषयिता-
वहिर्भूतसाध्यविषविताघटितधर्म्मावच्छिन्नप्रति-
वध्यताशालिसं शयः पक्षता ॥” इति जगदीशः ॥

व(ब)हिर्मुखः, त्रि, (बहिर्बाह्यविषये मुखं प्रवणता

यस्य ।) विमुखः । यथा, नरसिंहाचार्य्यधृते-
शानसंहितायाम् ।
“शैवो वा वैष्णवो वापि यो वा स्यादन्यपूजकः ।
सर्व्वं पूजाफलं हन्ति शिवरात्रिवहिर्मुखः ॥”
इति तिथ्यादितत्त्वम् ॥

व(ब)हिश्चरः, पुं, (वहिश्चरतीति । चर + टः ।)

कर्कटः । इति हेमचन्द्रः ॥ (वहिश्चरणशीले,
त्रि । यथा, मार्कण्डेये । २३ । ८३ ।
“युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम् ।
एतत्सत्यं विजानीतं युवां प्राणा वहिश्चराः ॥”)

वहेडुकः, पुं, विभीतकवृक्षः । इति राजनिर्घण्टः ॥

वह्निः, पुं, (वहति धरति हव्यं देवार्थमिति ।

वह + “वहिश्रिश्रुय्विति ।” उणा० ४ । ५१ ।
इति निः ।) चित्रकः । भल्लातकः । (यथा,
सुश्रुते चिकित्सितस्थाने ९ अध्याये ।
“मञ्जिष्ठाक्षौ वासको देवदारु
पथ्यावह्नी व्योषधात्री विडङ्गम् ॥”)
निम्बूकः । इति राजनिर्घण्टः ॥ रेफः । इति
तन्त्रम् ॥ अग्निः । इत्यमरः ॥ * ॥ तस्य नामानि
यथा, --
“ते जातवेदसः सर्व्वे कल्माषः कुसुमस्तथा ।
दहनः शोषणश्चैव तर्पणश्च महाबलः ।
पिटरः पतगः स्वर्णस्त्वगाधो भ्राज एव च ॥”
अन्यत्र तु नामान्तराण्युक्तानि यथा, --
“जृम्भकोद्दीपकश्चैव विभ्रमभ्रमशोभनाः ।
अवसथ्याहवनीयौ दक्षिणाग्निस्तथै व च ।
अन्वाहार्य्यो गार्हपत्य इत्येते दश वह्नयः ॥”
अन्यैरन्यथोक्तानि यथा, --
“भ्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा ।
धारको बन्धकश्चैव द्रावकाख्यश्च सप्तधा ।
व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः ॥”
शरीरस्थवह्नेः स्थानानि यथा, --
“वह्नयो दोषदूष्येषु संलीना दश देहिनः ॥”
दोषदूष्यौ यथा, --
“वातपित्तकफा दोषा दूष्याः स्युः सप्त धातवः ॥”
इति सारदातिलकः ॥
तत्र निषिद्धकर्म्माणि यथा, --
“नाशुद्धोऽग्निं परिचरेत् न देवान् कीर्त्तयेदृषीन् ।
न चाग्निं लङ्घयेद्धीमान् नोपदध्यादधः क्वचित् ॥
न चैनं पादतः कुर्य्यात् मुखेन न धमेद्बुधः ।
अग्नौ न निःक्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ॥
न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्ब्बुधः ।
स्वमग्निं नैव हस्तेन स्पृशेन्नापसु चिरं वसेत् ॥
नापक्षिपेन्नोपधमे न्न सूर्पेण च पाणिना ।
मुखेनाग्निं समिन्नीतं मुखादग्निरजायत ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
अस्योत्पत्तिर्यथा, --
शौनक उवाच ।
“सर्व्वं श्रुतं महाभाग परिपूर्णं मनो मम ।
अधुना श्रीतुमिच्छामि वह्नेरुत्पत्तिमीप्सिताम् ॥
सूत उवाच ।
एकदा सृष्टिकाले च ब्रह्मानन्तमहेश्वराः ।
श्वेतद्बीपं ययुः सर्व्वे द्रष्टुं विष्णुं जगत्पतिम् ॥
परस्परञ्च संभाषां कृत्वा सिंहासनेषु च ।
ऊषुः सर्व्वे सभामध्ये सुरम्ये पुरतो हरेः ॥
विष्णुगात्रोद्भवास्तत्र कामिन्यः कमलाकलाः ।
तत्र नृत्यन्ति गायन्ति विष्णुगाथाश्च सुस्वरम् ॥
तासाञ्च कठिनां श्रोणिं कठिनं स्तनमण्डलम् ।
सस्मितं मुखपद्मञ्च दृष्ट्वा ब्रह्मा स कामुकः ॥
मनो निवारणं कर्त्तुं न शशाक पितामहः ।
वीर्य्यं पपात चच्छाद लज्जया वाससा विभुः ॥
तद्बीर्य्यं वस्त्रसहितं प्रतप्तं कामतापितः ।
क्षीरोदे प्रेरयामास सङ्गीते विरते द्विज ॥
जलादुत्थाय पुरुषः प्रज्वलन् ब्रह्मतेजसा ।
उवास ब्रह्मणः क्रोडे लज्जितस्य च संसदि ॥
एतस्मिन्नन्तरे रुष्टो जलादुत्थाय सत्वरः ।
प्रणम्य वरुणो देवान् बालं नेतुं समुद्यतः ॥
बालो दधार ब्रह्माणं बाहुभ्याञ्च भयाद्रुदन् ।
किञ्चिन्नोवाच जगतां विधाता लज्जया द्विज ॥
बालकस्य करे धृत्वा चकाराकर्षणं रुषा ।
वरुणश्च सभामध्ये तं चिक्षेप प्रजापतिः ॥
पपात दूरतो देवो वरुणो दुर्ब्बलस्तथा ।
मूर्च्छां संप्राप मृतवत् कोपदृष्ट्या विधेरहो ॥
चेतनं कारयामासामृतदृष्ट्या च शङ्करः ।
संप्राप्य चेतनां तत्र तमुवाच जलेश्वरः ॥
वरुण उवाच ।
बालो जले समुद्भूतो मम पुत्त्रोऽयमीप्सितः ।
अहं गृहीत्वा यास्यामि ब्रह्मा मां ताडयेत्
कथम् ॥
ब्रह्मोवाच ।
बालकः शरणापन्नो मयि विष्णो महेश्वर ।
कथं दास्यामि भीतञ्च रुदन्तं शरणागतम् ॥
शरणागतदीनार्त्तं यो नं रक्षेदपण्डितः ।
पच्यते निरये तावद् यावच्चन्द्रदिवाकरौ ॥
उभयोर्व्वचनं श्रुत्वा प्रहस्य मधुसूदनः ।
उवाच सर्व्वतत्त्वज्ञः सर्व्वेशश्च यथोचितम् ॥
भगवानुवाच ।
दृष्ट्वा सुकामिनीश्रोणिं वीर्य्यं धातुः पपात तत् ।
लज्जया प्रेरयामास क्षीरोदे निर्म्मले जले ॥
ततो वभूब बालश्च धर्म्मतो विधिपुत्त्रकः ।
क्षेत्रजश्च सुतः शास्त्रे वरुणस्यापि गौणतः ॥
महादेव उवाच ।
यो विद्यायोनिसम्बन्वो वेदेषु च निरूपितः ।
शिष्ये पुत्त्रे च समता चेति वेदविदो विदुः ॥
पृष्ठ ४/३१६
मन्त्रं ददातु वरुणो विद्याञ्च बालकाय च ।
पुत्त्रो विधातुर्व्वह्निश्च शिष्यश्च वरुणस्य च ॥
विष्णुर्ददातु बालाय दाहिकां शक्तिमुल्वणाम् ।
सर्व्वदग्धो हुताशश्च निर्व्वाणो वरुणेन च ॥
विष्णुश्च दाहिकां शक्तिं ददौ तस्मै शिवाज्ञया ।
मन्त्रं विद्याञ्च वरुणो रत्नमालां मनोहराम् ॥
क्रोडे कृत्वा च तं बालं चुचुम्ब मायया सुरः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे वह्न्युत्पत्तिर्नाम
१३० अध्यायः ॥ * ॥ तद्दाहनिवारणौषधानि
यथा, --
“सामुद्रसैन्धवयवा विद्युद्दग्धा च मृत्तिका ।
तयानुलिप्तं यद्वेश्म नाग्निना दह्यते नृप ! ॥”
इति मात्स्ये राजधर्म्मे राजरक्षानाम १९३ अः ॥
अग्निवैकृत्यं तच्छान्तिश्च यथा, --
“अनग्निर्दीप्यते यत्र राष्ट्रे यस्य निरिन्धनः ।
न दीप्यते चेन्धनवान् स राष्ट्रः पीड्यते नृपैः ॥
प्रज्वलेदप्सु मासं वा तथार्द्धञ्चापि किञ्चन ।
प्रासादतोरणद्वारं नृपवेश्म सुरालयम् ॥
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ।
विद्युता वा प्रदह्यन्ते तत्रापि नृपतेर्भयम् ॥
धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भयम् ।
विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कुत्रचित् ॥
त्रिरात्रोपोषितश्चात्र पुरोधाः सुसमाहितः ।
समिद्भिः क्षीरवृक्षाणां सर्षपैस्तु घृतेन च ॥
दद्यात् सुवर्णञ्च तथा द्विजेभ्यो
गाश्चैव वस्त्राणि तथा भुवञ्च ।
एवं कृते पापमुपैति नाशं
यदग्निवैकृत्यभवं द्बिजेन्द्र ! ॥”
इति तत्रैवाद्भुतशान्तिरग्निवैकृत्यं नाम २०५
अध्यायः ॥ * ॥ मुख्याग्नयो यथा, --
“गाहपत्यो दक्षिणाग्निस्तथैवाहवनीयकः ।
एतेऽग्नयस्त्रयो मुख्याः शेषाश्चोपसदस्त्रयः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥
वह्निविप्रमध्यगमननिषेधो यथा, --
“द्वौ विप्रौ वह्निविप्रौ च दम्पत्योर्गुरुशिष्ययोः ।
हलाग्रे च न गन्तव्यं ब्रह्महत्या पदे पदे ॥”
इति कर्म्मलोचनः ॥ * ॥
अपि च ।
“नाग्निब्राह्मणयोरन्तरा व्यपेयात् नाग्न्योर्न
ब्राह्मणयोर्न गुरुशिष्ययोरनुज्ञया तु व्यपेयात् ।
इति तिथ्यादितत्त्वधृतवचनम् ॥ * ॥ अथ वह्नि-
स्तम्भनम् ।
“मानुषस्य वसां गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥
शाल्मलीरसमादाय स्वरमूत्रे निधाय तम् ।
अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥
वायसी उदरं गृह्य मण्डूकवसया सह ।
गुडिकां कारयेत्तेन ततोऽग्निं प्रक्षिपेद्वशी ॥
एवमेतत्प्रयोगेण अग्निस्तम्भनमुत्तमम् ।
मण्डोतकवचायुक्तं मरीचं नागरं तथा ॥
चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं
लिहेत् ॥
गोरोचना भृङ्गराजं चूर्णं कृत्वा घृतं समम् ।
दिव्यस्तम्भश्च पीत्वा स्यान्मन्त्रेणानेन वै तथा ॥”
ॐ अग्निस्तम्भनं कुरु । इति गारुडे १८६
अध्यायः ॥ (दैत्यविशेषः । यथा, महाभारते ।
१२ । २२७ । ५० ।
“वाणः कार्त्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतिः ॥”
मित्रविन्दागर्भजातः कृष्णस्य पुत्त्रविशेषः । यथा,
भागवते । १० । ६१ । १६ ।
“महांशः पावनो वह्निर्मित्रविन्दात्मजाः
क्षुधिः ॥”
तुर्व्वसुपुत्त्रः । यथा, हरिवंशे । ३२ । ११७ ।
“तुर्व्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः ॥”
कुकुरपुत्त्रः । यथा, भागवते । ९ । २४ । १९ ।
“कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥”)

वह्निकरी, स्त्री, (वह्निं देहस्थवह्निं करोतीति ।

कृ + टः । ङीप् ।) धात्रीश्वरी । इति शब्द-
चन्द्रिका ॥ धाइ फुल इति भाषा ॥

वह्निकाष्ठं, क्ली, (वह्निवत् दाहकं काष्ठम् ।)

दाहागुरुः । इति राजनिर्घण्टः ॥

वह्निगन्धः, पुं, (वह्निना वह्निसंयोगेन दहनेन

गन्धो यस्य ।) यक्षधूपः । इति शब्दचन्द्रिका ॥

वह्निगर्भः, पुं, (वह्निर्गर्भे यस्य ।) वंशः । इति

शब्दचन्द्रिका ॥

वह्निगर्भा, स्त्री, (वह्निरग्निर्गर्भे यस्याः ।) शमी-

वृक्षः । इति शब्दचन्द्रिका ॥

वह्निचक्रा, स्त्री, (वह्नेरिव चक्रं आवर्त्तबत् चिह्नं

यत्र ।) कलिकारीवृक्षः । इति भावप्रकाशः ॥

वह्निज्वाला, स्त्री, (वह्नेर्ज्वालेव दाहकत्वात् ।)

धातकी वृक्षः । इति राजनिर्घण्टः ॥ (तथास्य
पर्य्यायो यथा, --
“धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा ।
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा
स्मृता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वह्निदमनी, स्त्री, (दमयति शमयतीति । दम +

णिच् + ल्युः । ङीप् । वह्नेर्दमनी । अग्निदाह-
क्लेशप्रशमनकारित्वादस्यास्तथात्वम् ।) अग्नि-
दमनीक्षुपः । इति राजनिर्घण्टः ॥

वह्निदीपकः, पुं, (वह्निं दीपयतीति । दीप + णिच्

+ ण्वुल् । वह्नेर्दीपक इति वा ।) कुसुम्भम् ।
इति शब्दरत्नावली ॥ (गुणादिविशेषोऽस्य
कुसुम्भशब्दे ज्ञेयः ॥)

वह्निदीपिका, स्त्री, (वह्नेर्जठरानलस्य दीपिका

उत्तेजिका ।) अजमोदा । इति राजनिर्घण्टः ॥

वह्निनामा [न्], पुं, (वह्नेर्नाम नाम यस्य ।)

चित्रकः । भल्लातकः । इति रत्नमाला ॥

वह्निनी, स्त्री, (वह्निं तद्बत्कान्तिं नयतीति । नी +

डः । गौरादित्वात् ङीप् ।) जटामांसी । इति
रत्नमाला ॥

वह्निपुष्पी, स्त्री, (वह्निरिव दाहकं रक्तवर्णं वा

पुष्पमस्याः । ङीप् ।) धातकी । इति राज-
निर्घण्टः ॥

वह्निबधूः, स्त्री, (वर्ह्नेर्बधूः ।) स्वाहा । इति शब्द-

रत्नावली ॥

वह्निबीजं, क्ली, (वह्नेर्बीजम् ।) रंबीजम् । इति

तन्त्रम् ॥ (वह्निदायकं बीजमस्य ।) निम्बू-
कम् । इति राजनिर्घण्टः ॥ (वह्नेर्बीजं वीर्य्यम् ।)
स्वर्णम् । इति हेमचन्द्रः ॥ तस्योत्पत्तिर्यथा, --
“एकदा सर्व्वदेवाश्च समूषुः स्वर्गसंसदि ।
तत्र कृत्वा च नृत्यञ्च गायन्त्यप्सरसां गणाः ॥
विलोक्य रम्भां सुश्रोणीं सकामो वह्निरेव च ।
पपात वीर्य्यं चच्छाद लज्जया वाससा तथा ॥
उत्तस्थौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः ।
क्षणेन वर्द्धयामास स सुमेरुर्बभूव ह ॥
हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः ।
इति ते कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे हिरण्योत्पत्ति-
र्नाम १३० अध्यायः ॥

वह्निभोग्यं, क्ली, (वह्नेरग्नेर्भोग्यं भोगार्हं हव्य-

त्वात् ।) घृतम् । इति शब्दचन्द्रिका ॥

वह्निमन्थः, पुं, (वह्नये अग्न्युत्पादनार्थं मथ्यते

इति । मन्थ + घञ् ।) गणिकारिकावृक्षः । इति
जटाधरः ॥ (अस्य पर्य्यायो यथा, --
“तेजोमन्थो हविर्मन्थो ज्योतिष्को पावकोऽरणिः ।
वह्निमन्थोऽग्निमन्थश्च मथनो गणिकारिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
अग्निमन्थः । इति राजनिर्घण्टः ॥

वह्निमारकं, क्ली, (वह्निं मारयति विनाशयतीति ।

मृ + णिच् + ण्वुल् ।) जलम् । इति शब्द-
चन्द्रिका ॥

वह्निमित्रः, पुं, (वह्निर्मित्रं यस्य ।) वायुः । इति

शब्दचन्द्रिका ॥

वह्निरेताः [स्], पुं, (वह्नौ रेतो यस्य । अग्नि-

निषिक्तवीर्य्यत्वादेवास्य तथात्वम् ।) शिवः ।
इति हलायुधः ॥

वह्निलोहकं, क्ली, (वह्निदेवताकं लोहकम् ।)

कांस्यम् । इति राजनिर्घण्टः ॥

वह्निवर्णं, क्ली, (वह्नेरिव रक्तो वर्णो यस्य ।) रक्तो-

त्पलम् । इति शब्दचन्द्रिका ॥

वह्निवल्लभः, पुं, (वह्नेर्वल्लभः प्रियः उद्दीपकत्वात् ।)

सर्ज्जरसः । इति त्रिकाण्डशेषः ॥

वह्निशिखं, क्ली, (वह्निरिव शिखा यस्य ।) कुसु-

म्भम् । इत्यमरः ॥ (अस्य पर्य्यायो यथा, --
“स्यात् कुसुम्भं वह्निशिखं वस्त्ररञ्जकमित्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वह्निशिखरः, पुं, (वह्निरिव शिखरं यस्य ।)

लोचमस्तकः । इति शब्दरत्नावली ॥

वह्निशिखा, स्त्री, (वह्निरिव शिखा यस्याः ।)

फलिनी । इति धरणिः ॥ कलिकारी । धातकी ।
इति राजनिर्घण्टः ॥ (लाङ्गलिकी । लाङ्गलिया
विष इति ख्याता । तत्पर्य्यायो तथा, --
“गौरी लाङ्गलिकी दीप्ता हलिनी गर्भघातिनी ।
अग्निजिह्वेन्द्रपुष्पाग्निमुखी वह्निशिखा च सा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पृष्ठ ४/३१७

वह्निसंज्ञकः, पुं, (वह्नेः संज्ञा संज्ञा यस्य । ततः

कन् ।) चित्रकः । इत्यमरः ॥

वह्निसखः, पुं, (वह्नेर्जठराग्नेः सखा । टच् समासे ।)

जीरकः । इति राजनिर्घण्टः ॥ (वह्नेः सखा ।)
वायुः । इति वह्निमित्रशब्ददर्शनात् ॥

वह्यं, क्ली, (वहतीति । वह + “अघ्न्यादयश्च ।”

उणा० ४ । १११ । इति यक् प्रत्ययेन साधुः ।)
वाहनम् । इति हेमचन्द्रः ॥ (वहन्त्यनेनेति ।
वह + “वह्यं करणम् ।” ३ । १ । १०२ । इति
यत् ।) शकटम् । इत्युणादिकोषः ॥ (यथा,
अथर्व्ववेदे । ४ । २० । ३ ।
“सा भूमिमा रुरोहिथ वह्यं श्रान्ता बधू-
रिव ॥”)

वह्या, स्त्री, मुनिपत्नी । इत्युणादिकोषः ॥

वा, क सुखाप्तिगतिसेवासु । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सुखाप्तौ अक०-अन्यत्र सक०-
सेट् ।) क, वापयति । इति दुर्गादासः ॥

वा, ल गमनहिंसयोः । इति कविकल्पद्रुमः ॥

(अदा०-पर०-सक०-सेट् ।) ओष्ठ्यादिरप्यय-
मित्येके । गमनमिह वायुकर्त्तृकमेव । ल, वाति
वायुः । हिंसनं सूचनमिति चतुर्भुजः । इति
दुर्गादासः ॥

वा, व्य, (वा + क्विप् ।) विकल्पः । (यथा, मनुः ।

२ । ११२ ।
“धर्म्मार्थौयत्र न स्यातां शुश्रूषा वापि तद्बिधा ।
तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)
उपमा । (इवार्थे । यथा, रघुः । १९ । ५१ ।
“व्योम पश्चिमकलास्थितेन्दु वा
पङ्कशेषमिव घर्म्मपल्वलम् ॥”)
वितर्कः । (यथा, महाभारते । १ । १५४ । २३ ।
“किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः ।
मामासादय दुर्ब्बुद्धे तरसा त्वं नराशन ! ॥”)
पादपूरणम् । (यथा, रामायणे । १ । २५ । ३ ।
“देवासुरगणान् वापि सगन्धर्व्वोरगान् भुवि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥”)
समुच्चयः । इति मेदिनी । वे, ७४ ॥ एवार्थः ।
इति विश्वः ॥ (यथा, किराते । ३ । १३ ।
“सुता न यूयं किमु तस्य राज्ञः
सुयोधनं वा न गुणैरतीताः ॥”)

वांशः, त्रि, वंशसम्बन्धी । वंशस्यायमित्यर्थेष्ण(अण्)

प्रत्ययेन निष्पन्नः ॥

वांशिकः, पुं, (वंशीवादनं शिल्पमस्येति । वंश +

ठक् ।) वंशीवादकः । इति जटाधरः ॥ (भार-
भूतान् वंशान् हरति वहति आवहति वा ।
“तद्धरति वहत्यावहति भाराद्बंशादिभ्यः ।”
५ । १ । ५० । इति ठक् । भारभूतवंशहारके
तद्वाहके च त्रि ॥)

वांशी, स्त्री, (वंशे भवा + वंश + अण् । ङीष् ।)

वंशरोचना । इति राजनिर्घण्टः ॥ (तत्पर्य्यायो
यथा, --
“तुगाक्षीरी शुभा वांशी वंशजा वंशलोचना ॥”
इति वैद्यकरत्नमाला ॥
“स्याद्वंशरोचना वांशी तुगाक्षीरी तुगा शुभा ।
त्वक्क्षीरी वंशजा शुभ्रा वंशक्षीरी च वैणवी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाः [र्], क्ली, (वार्य्यते तृषानेनेति । वृ + णिच् +

क्विप् । यद्बा, “वृञ वरणे । स्वार्थिकोऽण्
छान्दसः । तदन्तात् क्विप् । अणि लोपः । हल्-
ङ्यादिलोपः । रेफस्य विसर्जनीयः ।” इति
निघण्टौ देवराजयज्वा । १ । १२ । ८ ।)
जलम् । इत्यमरः ॥ (यथा, भागवते । ३ । १३ । १६ ।
“सृजतो मे क्षितिर्वाभिः प्लाव्यमाना रसा-
ङ्गता ॥”)

वाःकिटिः, पुं, वारो जलस्य किटिः शूकरः ।

शिशुमारः । इति केचित् ॥

वाःसदनं, क्ली, (वारो जलस्य सदनम् ।) जला-

धारः । इति त्रिकाण्डशेषः ॥

वाक् [च्], स्त्री, (उच्यतेऽसौ अनया वेति । वच्

+ “क्विप् वचिप्रच्छीति ।” उणा० २ । ५७ ।
इति क्विप् दीर्घोऽसम्प्रसारणञ्च ।) वाक्यम् ।
(यथा, मनुः । २ । १५९ ।
“अहिंसयैव भूतानां कार्य्यं श्रेयोऽनुशासनम् ।
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्म्म-
मिच्छता ॥”)
सरस्वती । इत्यमरः ॥ (यथा, कथासरित्-
सागरे । १ । ३ ।
“प्रणम्य वाचं निःशेषपदार्थोद्द्योतदीपिकाम् ।
बृहत्कथायाः सारस्य संग्रहं रचयाम्यहम् ॥”)

वाकं, त्रि, (वकस्येदमिति । वक + “तस्येदम् ।”

४ । ३ । १२० । इत्यण् ।) वकसम्बन्धि । वक-
स्येदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् ॥ (क्ली, वकस्य
समूहः । “तस्य समूहः ।” ४ । २ । ३७ ।
इत्यण् । वकसमूहः ॥ उच्यतेऽसौ अनेनेति
वा । वच् + घञ् । वाक्यम् । यथा, उत्तरराम-
चरिते । १ । १ ।
“इदं कविभ्यः पूर्ब्बेभ्यो नमो वाकं प्रशास्महे ॥”
वेदभागविशेषः । यथा, महाभारते । १२ ।
४७ । २५ ।
“यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ।
गृणन्ति सत्यकर्म्माणं सत्यं स्रत्येषु सामसु ॥”
पुं, वकस्यावयवो विकारो वा । प्राणित्वादञ् ।
वकावयवविशेषः ॥)

वाकुची, स्त्री, (वातीति वा वायुस्तं कुचति सङ्को-

चयति पूतिगन्धित्वात् । कुच् + कः । गौरादि-
त्वात् ङीष् ।) वृक्षविशेषः । हाकुच इति
भाषा ॥ तत्पर्य्यायः । सोमराजी २ सोमवल्ली ३
सुवल्लिका ४ सिता ५ सितावरी ६ चन्द्रलेखा ७
चन्द्री ८ सुप्रभा ९ कुष्ठहन्त्री १० काम्बोजी ११
पूतिगन्धा १२ वल्गुला १३ चन्द्रराजी १४
कालमेषी १५ त्वग्जदोषापहा १६ कान्तिदा
१७ अवल्गुजा १८ चन्द्रप्रभा १९ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
कृमिकुष्ठकफत्वग्दोषविषकण्डुस्वर्ज्जूनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः ।
“अवल्गुजो वाकुची स्यात् सोमराजी सुप-
र्णिका ।
शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता ।
वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥
विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् ।
रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥
तत्फलं पित्तलं कुष्ठकफानिलहरं कटु ।
केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुहृत् ॥”
इति भावप्रकाशः ॥

वाकुलं, क्ली, (वकुलस्येदमिति । वकुल + “तस्ये-

दम् ।” ४ । ३ । १२० । इत्यण् ।) वकुलफलम् ।
अस्य गुणाः ।
“वाकुलं मधुरं ग्राहि दन्तस्थैर्य्यकरं परम् ॥”
इति राजवल्लभः ॥

वाक्कीरः, पुं, (वाचि कौतुकवाक्ये कीरः शुक इव

प्रियत्वात् ।) श्यालकः । इति शब्दरत्नावली ॥

वाक्छलं, क्ली, (वाचा छलम् ।) वाक्यव्याजः ।

यथा । वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।
तत्त्रिविधम् । वाक्छलम् । सामान्यच्छलम् ।
उपचारच्छलञ्च । अविशेषाभिहितेऽर्थे वक्वभि-
प्रायादर्थान्तरकल्पना वाक्छलम् ॥ १ ॥ सम्भ-
वतोऽर्थस्यातिसामान्ययोगात् असम्भूतार्थ-
कल्पना सामान्यच्छलम् ॥ २ ॥ धर्म्मविकल्प-
निद्दशे अर्थसद्भावनिषेध उपचारच्छलम् ॥ ३ ॥
इति गोतमसूत्रम् ॥ शक्यैकार्थशाब्दबोधतात्प-
र्य्यकशब्दस्य शक्त्या अर्थान्तरतात्पर्य्यकत्वकल्प-
नया दूषणाभिधानं वाक्छललक्षणम् । यथा ।
नेपालादागतोऽयं नवकम्बलवत्त्वात् । इत्युक्ते
कुतोऽस्य नवसंख्यकाः कम्बलाः ॥ १ ॥ सामान्य-
विशिष्टसम्भवदर्थाभिप्रायेण उक्तस्य सामान्य-
योगादसम्भवदर्थकल्पनया दूषणाभिधानं
सामान्यच्छलम् । यथा । ब्राह्मणोऽयं विद्या-
चरणसम्पन्न इत्युक्ते ब्राह्मणत्वेन विद्याचरण-
सम्पदं साधयति इति कल्पयित्वा परो वदति
कुतो ब्राह्मणत्वेन विद्याचरणसम्पत् व्रात्ये व्यभि-
चारात् ॥ २ ॥ शक्तिलक्षणयोरेकतरवृत्त्या यः
प्रतिषेधः स उपचारच्छलम् । यथा । मञ्चाः
क्रोशन्ति इत्यत्र मञ्चस्था एव क्रोशन्ति न तु
मञ्चाः । एवं अहं नित्य इति शक्त्या प्रयुक्ते
अमुकादुत्पन्नस्त्वं कथं नित्य इति प्रतिषेधोऽप्युप-
चारच्छलम् ॥ ३ ॥ इति तट्टीका ॥ अपि च ।
“सर्व्वेष्वर्थविवादेषु वाक्छले नावसीदति ।
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥”
इति व्यवहारतत्त्वम् ॥

वाक्पतिः, पुं, (वाचां पतिः ।) बृहस्पतिः ॥ इति

शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् ।
८ । १५ ।
“उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन्
भानाम् ॥”)

वाक्पतिः, त्रि, (वाचां पतिरिव पटुत्वात् ।)

उद्दामवचनः । इति रायमुकुटः ॥ अनवद्यो-
पृष्ठ ४/३१८
द्यमादिपटुवचनः । इति भरतः ॥ स्वबुद्ध्या
वाक्यरचकः । इति सारसुन्दरी ॥ पटुवचनः ।
इति पदार्थकौमुदी ॥ व्यक्तवाग्जनः । इति
नीलकण्ठः ॥ तत्पर्य्यायः । वागीशः २ । इत्य-
मरः ॥ अनवद्योद्यमवचाः ३ । इति जटाधरः ॥
“वाग्मी वाग्मिर्वावदूको वाचो युक्तिपटुस्तथा ।
वागीशो वाक्पतिश्चेति षडेते सुष्ठुवक्तरि ॥”
इति शब्दरत्नावली ॥
(यथा, हरिवंशे । २१५ । ३४ ।
“सम्भवं सर्व्वलोकस्य विदधाति स वाक्पतिः ॥”)

वाक्पारुष्यं, क्ली, (वाचा कृतं पारुष्यम् ।)

अप्रियवाक्योच्चारणम् । तत्तु सप्तधाव्यसनान्त-
र्गतव्यसनविशेषः । यथा, --
“मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ।
दण्डपारुष्यमित्येतज्ज्ञेयं व्यसनसप्तकम् ॥”
इति हेमचन्द्रः ॥ * ॥
तल्लक्षणं नारदेनोक्तम् ।
“देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥”
देशादीना आक्रोशन्यङ्गसंयुतम् । उच्चैर्भाषण-
माक्रोशः न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थं
उद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते ॥
तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्य-
मभिधाय तल्लक्षणं तेनैवोक्तम् ।
“निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् ।
गौरवानुक्तमात्रस्य दण्डोऽपि स्यात् क्रमाद्-
गुरुः ॥
साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् ।
पतनीयैरुपाक्रोशैस्तीव्रमाहुर्म्मनीषिणः ॥” इति ॥
तत्र निष्ठुराक्रोशे स्ववर्णविषये दण्डमाह ।
“सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपङ्करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥
काणञ्चाप्यथवा खञ्चमन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥”
इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदा
पुनः पुत्त्रादयो मात्रादीन् शपन्ति तदा शतं
दण्डनीया इति तेनैवोक्तम् ।
“मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् ।
आक्षारयन् शतं दाप्यः पन्थानञ्चाददद्गुरोः ॥”
इति च ॥
एतच्च सापराधेषु मात्रादिषु गुरुषु निरप-
राधायाञ्च जायायां द्रष्टव्यम् ॥ * ॥ अश्लीला-
क्षेपे दण्डमाह ।
“अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन् तन्दापयेद्राजा पञ्चविंशतिकं दमम् ॥
दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः ।
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ॥
वणानामानुलोम्येन तस्मादर्द्धार्द्धहानितः ॥” * ॥
मनुः ।
“शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।
वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥
पञ्चशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने ।
वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्बादशको दमः ॥
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस्तदर्द्धिकः पादो नासाकर्णकरादिषु ॥
अशक्तस्तु वदन्नेव दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसः ।
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥”
इति मिताक्षरा ॥ * ॥
वाक्पारुष्ये अभियोगमनिस्तीर्य्य प्रत्यभियोजने
प्रतिप्रसवो यथा, --
“कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ।”
वाक्पारुष्ये शस्त्रादिप्रहारेषु च यथा पूर्व्व-
महमप्यनेनाक्रुष्टः शस्त्रेण हतः इत्यपराधा-
भावाय प्रत्यभियोगं कुर्य्यात् । इति व्यवहार-
तत्त्वम् ॥

वाक्यं, क्ली, (उच्यते इति । वच् + ण्यत् । “चजोः

कु घिण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् ।
शब्दसंज्ञात्वात् “वचोऽशब्दसंज्ञायाम् ।” ७ ।
३ । ६७ । इति निषेधो न ।) पदसमुदायः ।
इति व्याकरणम् ॥ तिङ्न्तचयः । सुबन्तचयः ।
कारकान्विता क्रिया । इत्यमरः । इह श्रुति-
लोकयोस्त्रिविधं निरुक्तं वाक्यमुक्तम् । तिङ्-
सुबन्तयोश्चयः समुदायः कारकान्विता क्रिया
च वाक्यम् । तिङ्शब्देन तिबादीनि साशीति-
शतसंख्यकानि वचनानि उच्यन्ते । एवं सुप्-
शब्देन स्यादीन्येकविशतिरुच्यन्ते द्वन्द्वात् परं
यः श्रूयते लभतेऽसौ प्रत्येकं अभिसम्बन्धमित्यन्त-
शब्द उभयोरपि सम्बध्यते । अत्र तिङन्तसमूहो
यथा । पचति भवति पाको भवति इत्यर्थः ।
एतच्छान्दसमेव । सुबन्तसमूहो यथा । प्रकृति-
सिद्धमिदं हि महात्मनाम् । धात्वर्थः क्रिया
कारकैः कर्त्त्रादिभिरन्विता सम्बन्धार्था कारका-
न्विता अन्वितत्वञ्च क्रियाकारकाणां आकाङ्क्षा-
योग्यतासन्निधिवशात् ज्ञेयम् । तिङ्सुबन्तचया-
त्मकेऽपि सम्बद्धार्थता बोध्या असम्बद्धार्थस्याप्रयो-
गात् अतएव परस्पराभिसम्बन्धः पदसमूहो
वाक्यमिति वृद्धाः । कारकान्विता क्रिया यथा ।
देवदत्तो ग्रामं गच्छति । इति तट्टीकायां
भरतः ॥ * ॥ वाक्यस्वरूपमाह ।
“वाक्यं स्यात् योग्यताकाङ्क्षासत्तियुक्तः पदो-
च्चयः ।
वाक्योच्चयो महावाक्यमित्थं वाक्यं द्बिधा
मतम् ॥”
उक्तञ्च ।
“स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संभूय जायते ॥”
इति ॥
अत्र वाक्यं यथा । शून्यं वासगृहमित्यादि ।
महावाक्यं यथा । रामायणमहाभारतरघु-
वंशादिः । इति साहित्यदर्पणे २ परिच्छेदः ॥ * ॥
अप्रियवाक्यभाषणनिषेधो यथा, --
“न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित् ।
नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदा-
चन ॥ * ॥
पाषण्डादिभिर्भाषणनिषेधो यथा, --
“पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च ।
पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्च-
येत् ॥”
इति कौर्म्मे उपविभागे १६ अध्यायः ॥ * ॥
शुभाशुभवाक्यानि यथा, --
“नैव राज्येन महता न वै वार्थस्य राशिभिः ।
प्राप्यते ज्ञानकथनं परलोकसुभाषितम् ॥
स्वर्गापवर्गसिद्ध्यर्थभाषितं यत् सुशोभनम् ।
वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥
रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् ।
वाक्त्यं निरयहेतुत्वात् तदभाषितमुच्यते ॥
संस्कतेनापि किं तेन मृदुना ललितेन वा ।
अविद्या रागवाक्येन संसारक्लेशहेतुना ॥
यत् श्रुत्वा जायते पुण्यं रागादीनाञ्च संक्षयः ।
निरुद्धमपि तद्वाक्यं विज्ञेयमतिशोभनम् ॥”
इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा-
ध्यायः ॥ (अत्र वाक्यदोषो यथा, --
“वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनमधि-
कमनथकमपार्थकं विरुद्धञ्चेति । तत्र हेतूदा-
हरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं
भवति यद्वा बह्वपदिष्टहेतुकमेकेन साध्यत हेतुना
तच्च न्यूनं एतानि ह्यन्तरेण प्रकृतोऽप्यर्थः ॥ प्रण-
श्येत ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

वाक्ष, इ काङ्क्षे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) इ, वाङ्क्षति । नमध्यपाठे-
नैवेष्टसिद्धौ इदनुबन्धो वेदेषूच्चारणभेदार्थः ।
इति तट्टीकायां दुर्गादासः ॥

वागरः, पुं, (वाचा इयर्त्ति गच्छतीति । ऋ +

अच् ।) वारकः । शाणः । निर्णयः । वाडवः ।
वृकः । मुमुक्षुः । पण्डितः । परित्यक्तभयः ।
इति हेमचन्द्रः ॥

वागारुः, त्रि, (वाचि आशावाक्ये आरुः कर्कट

इव मर्म्मच्छेदकत्वात् ।) आशाहन्ता । यथा,
“आशां बलवतीं दत्त्वा यो हन्ति पिशुनो जनः ।
स जीवासोऽपि वागारुद्रुणो दानुस्तु दातरि ॥”
इति शब्दमाला ॥

वागाशनिः, पुं, बुद्धः । इति शब्दरत्नावली ॥

"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/वलयः&oldid=312761" इत्यस्माद् प्रतिप्राप्तम्