शब्दकल्पद्रुमः/वरूथः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/२७६

वरूथः, पुं, (व्रियते रथोऽनेनेति । वृञ् वरणे +

“जॄवृञ्भ्यामूथन् ।” उणा० २ । ६ । इति
ऊथन् ।) परप्रहरणाभिघातरक्षार्थं रथस्य
सन्नाहवद्यदावरणकादि द्रव्यं तत् । तत्पर्य्यायः ।
रथगुप्तिः २ । इत्यमरभरतौ । २ । ८ । ५७ ॥
रथसंवृतिः ३ । इति जटाधरः ॥ (यथा,
रामायणे । ६ । ५७ । २६ ।
“उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम् ॥”
ग्रामविशेषः । यथा, तत्रैव । २ । ७१ । ११ ।
“तोरणं दक्षिणार्द्धेन जम्बूप्रस्थं समागमत् ।
वरूथञ्च ययौ सम्यक् ग्रामं दशरथात्मजः ॥”)

वरूथिनी, स्त्री, (वरूथं तनुत्राणादिकमस्त्यस्या

इति । वरूथ + इनिः । ङीप् ।) सेना । इत्य-
मरः । २ । ८ । ७८ ॥ (यथा, रघुः । ११ । ५८ ।
“तस्य जातु मरुतः प्रतीपगाः
वर्त्मसु ध्वजतरुप्रमाथिनः ।
चिक्लिशुर्भृशतया वरूथिनी-
मत्तटा इव नदीरयाः स्तलीम् ॥”)

वरेण्यं, क्ली, (व्रियते लोकैरिति । वृ + “वृञ

एण्यः ।” उणा० ३ । ९८ । इति एण्यः ।)
कुङ्कुमम् । इति राजनिर्घण्टः ॥

वरेण्यः, त्रि, (वृ + एण्यः ।) प्रधानः । इत्य-

मरः । ३ । १ । ५७ ॥ (यथा, भट्टिः । १ । ४ ।
“पुण्यो महाब्रह्मसमूहजुष्टः
सन्तर्पणो नाकसदां वरेण्यः ॥”
वरणीयः । इति मल्लिनाथः ॥ यथा, कुमारे ।
७ । ९० ।
“संस्कारपूतेन वरं वरेण्यं
बधूं सुखग्राह्यनिबन्धनेन ॥”
पु, पितृगणानामन्यतमः । यथा, मार्कण्डेये ।
९६ । ४५ ।
“वरो वरेण्यो वरदो पुष्टिदस्तुष्टिदस्तथा ॥”
भृगुपुत्त्रविशेषः । यथा, महाभारते । १३ ।
८५ । १२९ ।
“भृगोस्तु पुत्त्राः सप्तासन् सर्व्वे तुल्या भृगो-
र्गुणैः ।
च्यवनो वज्रशीर्षश्च शुचिरौर्व्वस्तथैव च ।
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते ॥”
महादेवः । यथा, तत्रेव शिवसहस्रनाम-
कीर्त्तने । १३ । १७ । १३६ ।
“वरो वराहो वरदो वरेण्यः सुमहास्वनः ॥”)

वरेन्द्री, स्त्री, गौडदेशः । इति त्रिकाण्डशेषः ॥

वरेश्वरः, पुं, (वरः श्रेष्ठ ईश्वरः ।) शिवः । इति

शब्दरत्नावली ॥

वरोटं, क्ली, (वराणि श्रेष्ठानि उटानि दलानि

अस्य ।) मरुवकपुष्पम् । इति शब्दमाला ॥

वरोलः, पुं स्त्री, (वृ + ओलच् ।) वरटः । इति

त्रिकाण्डशेषः ॥

वर्करः, पुं, (वृक्यते गृह्यते इति । वृक आदाने +

बहुलवचनात् अरः । इत्युज्ज्वलदत्तः । ३ ।
१३१ ।) युवपशुः । इत्यमरः । २ । १० । २३ ॥
मेषशावकः । इति तट्टीकायां भरतः ॥ परि-
हासः । (यथा, अमरुशतके । ७ ।
“कान्तः केलिरुचिर्युवा सहृदयस्तादृक् पतिः
कातरे
किन्नो वर्करकर्करैः प्रियशतैराक्रम्य विक्री-
यते ॥”)
छागः । इति मेदिनी । रे, २१० ॥

वर्कराटः, पुंः (वर्करं परिहासं अटति गच्छ-

तीति । अट् + अच् ।) कटाक्षः । तरुणादित्य-
रोचिः । नारीपयोधरोत्सङ्गकान्तदत्तनख-
क्षतः । इति मेदिनी । टे, ६५ ॥

वर्गः, पुं, (वृज्यते इति । वृजी वर्ज्जने + घञ् ।)

स्वजातीयसमूहः । (यथा, रघुः । २ । ४ ।
“व्रताय तेनानुचरेण धेनो-
र्न्यषेधि शेषोऽप्यनुयायिवर्गः ॥”)
समानधर्म्मिभिः प्राणिभिरप्राणिभिरुपलक्षितं
वृन्दम् । यथा कवर्गः । अत्र कत्वखत्वादिना
विजातीयत्वेऽपि स्थानसाम्यमस्ति । इत्यमर-
भरतौ ॥ ग्रन्थपरिच्छेदः । यथा, --
“सर्गो वर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः ।
उच्छ्वासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ।
स्थानं प्रकरणं पर्व्वाह्रिकञ्च ग्रन्थसन्धयः ॥”
इति त्रिकाण्डशेषः ॥
समानाङ्कद्वयस्य पूरणम् । तत्पर्य्यायः । कृतिः २ ।
वर्गे करणसूत्रं वृत्तद्वयम् ।
“समद्विघातः कृतिरुच्यतेऽथ
स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्नः ।
स्वस्वोपरिष्टाच्च तथापरेऽङ्का-
स्त्यक्त्वान्त्यमुत्सार्य्य पुनश्च राशिम् ॥
खण्डद्वयस्याभिहतिर्द्विनिघ्नी
तत्खण्डवर्गैक्ययुता कृतिर्व्वा ।
इष्टोनयुग्राशिवधःकृति स्या-
दिष्टस्य वर्गेण समन्वितो वा ॥” * ॥
अत्रोद्देशकः ।
“सखे नवानाञ्च चतुर्द्दशानां
ब्रूहि त्रिहीनस्य शतत्रयस्य ।
पञ्चोत्तरस्याप्ययुतस्य वर्गं
जानासि चेद्वर्गविधानमार्गम् ॥”
न्यामः ९ । १४ । २९७ । १०००५ । एषां
यथोक्तकरणेन जाता वर्गाः ८१ । १९६ ।
८८२०९ । १००१०००२५ ॥ अथवा नवानां
खण्डे ४ । ५ । अनयोराहतिः २० । द्बिनिघ्नी ४० ।
तत्खण्डवर्गैक्येन ४१ । युता जाता सैव
कृति ८१ ॥ अथवा चतुर्द्दशानां खण्डे ६ । ८ ।
अनयोराहतिः ४८ । द्बिनिघ्नी ९६ । तत्खण्ड-
वर्गौ ३६ । ६४ । अनयोरैक्येन १०० । युता
जाता सैव कृतिः १९६ ॥ अथवा खण्डे ४ । १० ।
तथापि सैव कृतिः १९६ ॥ अथवा राशिः २९७ ॥
अयं त्रिभिरूनः पृथग्युतश्च २९४ । ३०० ।
अनयोर्घातः ८८२०० । त्रिवर्ग ९ युतो जातो
वर्गः स एव ८८२०९ ॥ एवं सर्व्वत्रापि इति
लीलावत्यां वर्गः ॥ (स्त्री, अप्सरोविशेषः ।
यथा, महाभारते । १ । २१७ । १५ ।
“अप्सरास्मि महाबाहो देवारण्यविहारिणी ।
इष्टा धनपतेर्नित्यं वर्गा नाम महावल ॥”
मुनिशापात्ग्राहरूपिणीयं अर्ज्जुनात् शाप-
मुक्तासीत् । एतद्वृत्तान्तन्तु तत्रैव द्रष्टव्यम् ॥)

वर्गमूलं, क्ली, (वर्गस्य समानाङ्कद्बयस्य मूलम्

आद्याङ्कः ।) पूरितसमानाङ्कद्वयस्याद्याङ्कः ।
यथा । वर्गमूले करणसूत्रं वृत्तम् ।
“त्यक्त्वान्त्याद्विषमात् कृतिं द्बिगुणयेन्मूलं समे तद्धृते
त्यक्त्वालब्धकृतिं तदाद्यविषमाल्लब्धं द्बिनिघ्नं
न्यसेत् ।
पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गं
फलं
पङ्क्त्यां तद्द्बिगुणं न्यसेदिति मुहुः पङ्क्तेर्दलं
स्यात् पदम् ॥” * ॥
अत्रोद्देशकः ।
“मूलं चतुर्णाञ्च तथा नवानां
पूर्ब्बं कृतावाञ्च सखे कृतीनाम् ।
पृथक् पृथग्वर्गपदानि विद्धि
बुद्धेर्व्विबुद्धिर्यदि तेऽत्र जाता ॥”
न्यासः ४ । ९ । ८१ । १९६ । ८८२०९ । १००
१०००२५ । लब्धानि क्रमेण मूलानि २ । ३ ।
९ । १४ । २९७ । १००००५ । इति लीला-
वत्यां वर्गमूलम् ॥
सजातीयाङ्कत्रयस्य घातः घनः । तस्य तन्मू-
लस्य च समुदायसूत्रोदाहरणानि पूर्ब्बे न
लिखितानि प्रसङ्गादत्र पुनर्ल्लिख्यन्ते । घने
करणसूत्रं वृत्तत्रयम् ।
“समत्रिघातश्च घनः प्रदिष्टः
स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्गः ।
आदित्रिनिघ्नस्तत आदिवर्ग-
स्त्र्यन्त्याहतोऽथादिघनश्च सर्व्वे ॥
स्थानान्तरत्वेन युता घनः स्यात्
प्रकल्प्य तत् खण्डयुगं ततोऽन्त्यम् ।
एवं मुहुर्व्वर्गघनप्रसिद्धा-
वाद्याङ्कतो वा विधिरेष कार्य्यः ॥
खण्डाभ्यां वा हतो राशिस्त्रिघ्नः खण्डघनैक्ययुक् ।
वर्गभूलघनस्वघ्नो वर्गराशेर्घनो भवेत् ॥” * ॥
अत्रोद्देशकः ।
“नवघनं त्रिघनस्य घनं तथा
कथय पञ्चघनस्य घनञ्च मे ।
घनपदञ्च ततोऽपि घनात् सखे
यदि घनेऽस्ति घना भवतो मतिः ॥”
न्यासः ९ । २७ । १२५ । जाताः क्रमेण घनाः
७२९ । १९६८३ । १९५३१२५ ॥ अथवा राशिः
९ । अस्य खण्डे ४ । ५ । आभ्यां राशिर्हतः
१८० त्रिनिघ्नश्च ५४० । खण्डघनैक्येन १८९ ।
युतो जातो घनः ७२९ ॥ अथवा राशिः २७ ।
अस्य खण्डे २० । ७ । आभ्यां हतस्त्रिघ्नश्च
११३४० । खण्डघनैक्येन ८३४३ । युतो जातो
घनः १९६८३ ॥ अथवा राशिः ४ । अस्य
पृष्ठ ४/२७७
मूलम् २ । धनः ८ । अयं स्वघ्नो जातश्चतुर्णां
घनः ६४ ॥ अथवा राशिः ९ । अस्य मूलम् ३ ।
घनः २७ । अस्य वर्गो नवानां घनः ७२९ ।
य एव वर्गराशिघनः स एव वर्गमूलघनवर्गः ॥
इतिघनः ॥ * ॥ अथ घनमूले करणसूत्रं वृत्तद्वयम् ।
“आद्यं घनस्थानमथाघने द्वे
पुनस्तथान्त्याद्घनतो विशोध्यम् ।
घनं पृथक्स्थं पदमस्य कृत्या
त्रिघ्न्या तदाद्यं विभजेत् फलन्तु ॥
पङ्क्त्यां न्यसेत्तत्कृतिमन्त्यनिघ्नीं
त्रिघ्नीं त्यजेत्तत्प्रथमात् फलस्य ।
घनं तदाद्याद्घनमूलमेवं
पङ्क्तिर्भवेदेवमतः पुनश्च ॥”
अत्रोद्देशकः । पूर्ब्बघनानां मूलार्थं न्यासः ७२९ ।
१९६८३ । १९५३१२५ । क्रमेण लब्धानि मूलानि
९ । २७ । १२५ । इति लीलावत्यां घनमूलम् ॥

वर्गोत्तमः, पुं, (वर्गेषु उत्तमः ।) चराणां अर्थात्

मेषकर्क्कटतुलामकरराशीनां प्रथमोऽंशः ।
स्थिराणां अर्थाद्वृषसिंहवृश्चिककुम्भराशीनां
पञ्चमोऽंशः । द्व्यात्मकानां अर्थात् मिथुनकन्या-
धनुर्मीनराशीनां नवमोऽंशश्च । यथा, --
“चराणां प्रथमे चांशे स्थिराणां पञ्चमे तथा ।
नवमे द्व्यात्मकानाञ्च वर्गोत्तम इति स्मृतः ॥”
अपि च । राशीनां स्वकीयनवांशः । यथा, --
“स्वनवांशस्तु राशीनां वर्गोत्तम इति स्मृतः ॥”
इति ज्योतिस्तत्त्वम् ॥

वर्च्च, ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) ङ, वर्च्चते ॥ इति दुर्गा-
दासः ॥

वर्च्चः, [स्] क्ली, (वर्च्चते इति । वर्च्च + “सर्व्व-

धातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति
असुन् ।) रूपम् । विष्ठा । (यथा, सुश्रुते
उत्तरतन्त्रे ४० अध्याये ।
“शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी
स्त्रस्तापानः सन्नकट्यूरुजङ्घः ।
वर्च्चो मुञ्चत्यल्पमल्पं सफेनं
रुक्षं श्यावं सानिलं मारुतेन ॥”)
तेजः । इति मेदिनी । से, ३५ ॥ (यथा, ऋग्-
वेदे । ९ । ६६ । २१ ।
“अग्ने पवस्व स्वपा अस्मे वर्च्चः सुवीर्य्यम् ॥”
“वर्च्चः तेजः ।” इति तद्भाष्ये सायणः ॥ अन्नम् ।
यथा तत्रैव । ३ । २४ । १ ।
“अग्ने सहस्व पृतना अभिमातीरपास्य ।
दुष्टरस्तरन्नरातीर्वर्च्चोधायज्ञ वाहसे ॥”
“वर्च्चोधाः अन्नं धेहि ।” इति तद्भाष्ये
रायणः ॥)

वर्च्चस्कः, पुं, क्ली, (वर्च्चस् + स्वार्थे कन् ।) विष्ठा ।

इत्यमरः । २ । ६ । ६८ ॥ (दीप्तिः । यथा,
महाभारते । १३ । २५ । १९ ॥
“देविकायामुपस्पृश्य तथा सुन्दरिकह्रदे ।
अश्विन्यां रूपवर्च्चस्कं प्रेत्य वै लभते नरः ॥”)

वर्च्चस्वी, [न्] पुं, (वर्च्चोऽस्थास्तीति । वर्च्चस् +

“अस्मायामेधेति ।” ५ । २ । १२१ । इति
विनिः ।) चन्द्रः । यथा, --
“रोहिण्यामभवद्वर्च्चा वर्च्चस्वी येन चन्द्रमाः ॥”
इति वह्रिपुराणम् ॥

वर्च्चाः, [स्] पुं, (वर्च्चते इति । वर्च्च + असुन् ।)

चन्द्रपुत्त्रः । इति मेदिनी । से, ३६ ॥ अन्यच्च ।
“रोहिण्यामभवद्बर्च्चा वर्च्चस्वी येन चन्द्रमाः ॥”
इत्याद्ये वह्रिपुराणे सर्गानुकीर्त्तने सतीदेह-
त्यागनामाध्यायः ॥

वर्ज्जनं, क्ली, (वृज् + ल्युट् ।) त्यागः । हिंसा ।

इति मेदिनी । ने, १२२ ॥ मारणम् । इति
हेमचन्द्रः ॥

वर्ज्जितः, त्रि, त्यक्तः । वृजधातोः क्तप्रत्ययेन

निष्पन्नः । यथा, --
“अवज्ञातञ्चावधृतं सरोषं विस्मयान्वितम् ।
गुरोरपि न भोक्तव्यमन्नं सत्कारवर्ज्जितम् ॥”
इति कौर्म्मे उपविमागे १६ अध्यायः ॥

वर्ज्जनीयं, त्रि, (वृज् + अनीयर् ।) वर्ज्जनयोग्यम् ।

त्यक्तव्यम् । वर्ज्जनीयान्नं यथा, --
“राजान्नं नर्त्तकान्नञ्च तक्ष्णोऽन्नञ्चक्रकारिणः ।
गणान्न गणिकान्नञ्च षण्डान्नञ्चैव वर्ज्जयेत् ॥
चक्रोपजीविरजकतस्करध्वजिनान्तथा ।
गान्धर्व्वलोहकारान्नं सूतकान्नं विवर्ज्जयेत् ॥
कुलालचित्रकर्म्मान्नं वार्द्धुषेः पतितस्य च ।
पौनर्भवच्छात्रिकयोरभिशस्तस्य चैव हि ॥
सुवर्णकारशैलूषव्याधितस्यातुरस्य च ।
चिकित्सकस्य चैवान्नं पुंश्चल्या दाण्डिकस्य च ॥
स्तेननास्तिकयोरन्नं देवतानिन्द कस्य च ।
सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥
भार्य्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे ।
उत्सृष्टस्य कदर्य्यस्य तथैवोच्छिष्टभोजिनः ॥
अपाङ्क्तान्नञ्च संघान्नं शस्त्राजीवस्य चैव हि ।
क्लीवस्यान्त्यासिनश्चान्नं मत्तोन्मत्तस्य चैव हि ॥
भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षितम् ।
ब्रह्मद्बिषः पापरुचेः श्राद्धान्नं मृतकस्य च ॥
वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ।
अप्रजानान्तु नारीणां कृतघ्नस्य तथैव हि ॥
कन्दुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ।
शौण्डान्नं घटकान्नञ्च भिषजामन्नमेव च ॥
विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ।
पुनर्भुवो विशेषेण तथैव दिधिषूपतेः ॥
अवज्ञातञ्चावधृतं सरोषं विस्मयान्वितम् ।
गुरोरपि न भोक्तव्यं अन्नं सत्कारवर्ज्जितम् ॥
दुष्कृतं हि मनुष्यस्य सर्व्वमन्नेष्वनुष्ठितम् ।
यो यस्यान्नं समश्नाति स तस्याश्नाति किल्वि-
षम् ॥”
इति श्रीकूर्म्मपुराणे उपविभागे १६ अध्यायः ॥

वर्ज्ज्यः त्रि, (वृज् + ण्यत् ।) वर्ज्जनीयः । यथा, --

“अतः प्ररं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् ।
भोज्यमन्नं पर्य्युषितं स्नेहाक्तं चिरसंस्थितम् ॥
अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः ।
शशकः कच्छपो गोधा सेधा मत्स्योऽथ शल्लकः ॥
भक्ष्या ह्येते सदा वर्ज्ज्यौ ग्रामशूकरकुक्कुटौ ।
पितृदेवादिशेषञ्च श्राद्धे ब्राह्मणकाम्यया ।
प्रोक्षितञ्चौषधार्थञ्च खादन् मांसंन दोषभाक् ॥”
इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥

वर्ण, क वर्णे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) क, वर्णयति । अयं कश्चिन्न
मन्यते । वर्णः शुक्लादिक्रिया । इति दुर्गादासः ॥

वर्ण, त् क स्तुतिविस्तारशुक्लाद्युद्युक्तिदीपने । इति

कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-
दीपने अक०-सेट् ।) वर्णयति वर्णापयति कविः
स्तौतीत्यर्थः । वर्णयति तन्तुं विस्तारयतीत्यर्थः ।
वर्णयति प्रतिमां शुक्लादिवर्णां करोतीत्यर्थः ।
वर्णयति उद्युङ्क्ते दीप्यते वेत्यर्थः । शुक्लाद्य-
त्युक्तिदीपने इत्यपि पाठः । इति दुर्गादासः ॥

वर्णं, क्ली, (वर्णयतीति । वर्ण + अच् ।) कुङ्कुमम् ।

इति हेमचन्द्रः ॥

वर्णः, पुं, (व्रियते इति । वृ + “कॄवृजॄषिद्रुगुपन्य-

निस्वपिभ्यो नित् ।” उणा० ३ । १० । इति
नः । स च नित् ।) जातिः । सा च ब्राह्मणः
क्षत्त्रियो वैश्यः शूद्रश्च । एषामुत्पत्त्यादिर्यथा ।
यदा भगवान् पुरुषरूपेण सृष्टिं कृतवान् तदास्य
शरीरात् चत्वारो वर्णा उत्पन्नाः । मुखतो
ब्राह्मणाः बाहुतः क्षत्त्रियाः ऊरुतो वैश्याः
पादतः शूद्रा जाताः । एतेषां वर्णानां धर्म्माः
शास्त्रेषु निरूपिताः सन्ति । तत्र ब्राह्मणधर्म्मा
उच्यन्ते । अध्ययनं यजनं दानञ्चेति । जीविका-
स्त्रयः अध्यापनं याजनं प्रतिग्रहश्चेति । १ ।
क्षत्त्रियस्य त्रयो धर्म्माः । अध्ययनं यजनं
दानञ्च । प्रजानां रक्षणं जीविका । २ । वैश्यस्य
त्रयो धर्म्माः । अध्ययनं यजनं दानञ्च । चतस्रो
जीविकाः । कृषिः गोरक्षणं बाणिज्यं कुशीद-
ञ्चेति । ३ । शूद्रस्य तु ब्रह्मक्षत्त्रविशां शुश्रूषा
धर्म्मो जीविका च । ४ । ब्राह्मणा आश्रम-
चतुष्टयवन्तो भवन्ति । ब्रह्मचारी गृहस्थः
वानप्रस्थः सन्न्यासी च । तत्र उपनयनानन्तरं
नियमं कृत्वा यो गुरोः सन्निधौ स्थित्वा साङ्ग-
वेदाध्ययनं करोति स ब्रह्मचारीत्युच्यते । १ ।
साङ्गवेदाध्ययनं समाप्य यो दारपरिग्रहं कृत्वा
स्वधर्म्माचरणं करोति स गृहस्थ उच्यते । २ ।
पुत्त्रमुत्पाद्य यो वनवासं कृत्वा अकृष्टपच्यफलादि
भक्षयित्वा ईश्वराराधनं करोति स वानप्रस्थ
उच्यते । ३ । यः सर्व्वं गृहादिकं त्यक्त्वा मुण्डित-
मुण्डो गैरिककौपीनाच्छादनं दण्डं कमण्डलुञ्च
विभ्रत् भिक्षावृत्तिर्निर्जने तीर्थे वा स्थित्वा केवल-
मीश्वराराधनं करोति स सन्न्यासीत्युच्यते ॥ ४ ॥
क्षत्त्रियवैश्ययोस्तु प्रथमाश्रमत्रयं विहितम् ।
शूद्रस्यैक एव गृहाश्रमः । ईश्वराराधनन्तु
सर्व्वेषां वर्णानामाश्रमाणाञ्च साधारणो धर्म्मः ।
तन्मध्ये यस्तु विष्णूपासकः स वैष्णव उच्यते ।
शिवोपासकः शैवः । दुर्गादिशक्त्युपासकः शाक्तः ।
सूर्य्योपासकः सौरः । गणेशोपासको गाणपत्य
उच्यते । इति पुराणार्थप्रकाशः ॥ * ॥ अपि च ।
पृष्ठ ४/२७८
ब्रह्मोवाच ।
“सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ।
विप्राद्यैः स्वेन धर्म्मेण तद्धर्म्मं व्यास वै शृणु ॥
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ।
अध्यापनं चाध्ययनं षट् कर्म्माणि द्विजोत्तमे ॥
दानमध्ययनं यज्ञो धर्म्मः क्षत्त्रियवैश्ययोः ।
दण्डस्तथा क्षत्त्रियस्य कृषिर्व्वैश्यस्य शस्यते ॥
शुश्रूषैव द्विजातीनां शूद्राणां धर्म्मसाधनम् ।
कारुकर्म्मस्तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥
भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः ॥
सर्व्वेषामाश्रमाणान्तु द्बैविध्यन्तु चतुर्व्विधम् ।
ब्रह्मचार्य्युपकुर्व्वाणो नैष्टिको ब्रह्मतत्परः ॥
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्व्वाणको ज्ञेयो नैष्टिको मरणान्तिकः ॥
अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्च्चनम् ।
गृहस्थस्य समासेन धर्म्मोऽयं द्बिजसत्तमाः ॥
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥
ऋणानि त्रीण्युपाकृत्य त्यक्त्वा भार्य्याधना-
दिकम् ।
एकाकी यस्तु विचरेत् उदासीनः स मौक्षिकः ॥
भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्म्मोऽयं वनवासिनः ॥
तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥
तपसाकर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यक् च दमसम्पन्नः स योगी भिक्षुरुच्यते ॥
भैक्षं श्रुतञ्च मौनित्वं तपोध्याने विशेषतः ।
सम्यक् च ज्ञानषैराग्यं धर्म्मोऽयं भिक्षुके मतः ॥
ज्ञानसन्न्यासिनः केचित् वेदसन्न्यासिनोऽपरे ।
धर्म्मसन्न्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥
योगी च त्रिविध्ये ज्ञेयो भौतिको मोक्ष एव च ।
तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिसमाश्रितः ॥
प्रयमा भावना पूर्ब्बे मोक्षे त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥
धर्म्मात् संजायते मोक्षः अर्थात् कामोऽभि-
जायते ।
प्रवृत्तञ्च निवृत्तञ्च द्विविधं कर्म्म वैदिकम् ॥
ज्ञानपूर्ब्बं निवृत्तं स्यात् प्रवृत्तञ्चाग्निदेवकृत् ।
क्षमा दमो दया दानमलोभोऽभ्यास एव च ॥
आर्जवञ्चानसूया च तीर्थानुसरणं तथा ।
सत्यं सन्तोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥
देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ।
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥
एत आश्रमिका धर्म्माश्चातुर्व्वर्ण्यं ब्रवीम्यतः ।
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ।
वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ।
गान्धर्व्व शूद्रजातीनां परिचारे च वर्त्तताम् ॥”
इति गारुडे ४९ अध्यायः ॥ * ॥
अन्यच्च ।
“ब्राह्मणस्य तु वक्ष्यामि शृणु कर्म्म वसुन्धरे ! ।
यानि कर्म्माणि कुर्व्वीत मम भक्तिपरायणः ॥
षट्कर्म्मनिरतो भूत्वा अहङ्कारविवर्ज्जितः ।
लाभालाभं परित्यज्य भिक्षाहारो जितेन्द्रियः ॥
मम कर्म्मसमायुक्तः पैशुन्येन विवज्जितः ।
शास्त्रानुसारी मध्यम्थो न वृद्धः शिशुचेतनः ॥
एतदवै ब्राह्मणः कर्म्म एकचित्तो जितेन्द्रियः ।
इष्टापूर्त्तञ्च कुरुते स मामेति वसुन्धरे ! ॥
क्षत्त्रियाणां प्रवक्ष्यामि मम कर्म्मसु निष्ठताम् ।
यानि कर्म्माणि कुर्व्वन्ति क्षत्त्रिया मध्यसंस्थिताः ॥
दानशूरश्च कर्म्मज्ञो यज्ञेषु कुशलः शुचिः ।
मम कर्म्मसु मेधावी अहङ्कारविवर्ज्जितः ॥
अल्पभाषी गुणज्ञश्च नित्यं भागवतप्रियः ।
गुरुविद्यानसूयात्मा गुह्यकर्म्मेष्वतन्द्रितः ॥
अभ्युत्थानादिकुशलः पैशुन्येन विवर्ज्जितः ।
एतैर्गुणैः समायुक्तो यो मां व्रजति क्षत्त्रियः ॥
भजते मम यो नित्यं मम लोकाय गच्छति ।
वैश्यानान्तु प्रवक्ष्यामि मम कर्म्मसु निष्ठताम् ॥
यानि कर्म्माणि कुरुते मम भक्तिपथे स्थितः ।
एतैर्गुणैः स्वधर्म्मेण लाभालाभविवर्ज्जितः ॥
ऋतुकालाभिगामी च शान्तात्मा मोह-
वर्जितः ।
शुचिर्दक्षो निराहारो मम कर्म्मरतः सदा ॥
गुरुसंपूजको नित्यं युक्तो भक्त्यानुवत्सलः ।
वैश्यस्त्वेवन्तु संयुक्तो यो नु कर्म्माणि कारयेत् ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥
अथ शूद्रस्य वक्ष्यामि कर्म्माणि शृणु माधवि ! ।
यानि कर्म्माणि कृत्वा तु शूद्रो मह्यं व्यवस्थितः ॥
दम्पती मम भक्तौ यौ मम कर्म्मपरायणौ ।
उभौ भागवतौ भक्तौ मत्परौ कर्म्मनिष्ठितौ ॥
देशकालौ च जानाति रजसा तमसोज्झितः
निरहङ्कारयुक्तात्मा आतिथेयो विनीतवान् ॥
श्रद्दधानोऽतिपूतात्मा लोभमोहविवर्ज्जितः ।
नमस्कारप्रियो नित्यं मम चिन्ताव्यवस्थितः ॥
शूद्रकर्म्माणि मे देवि ! य एवं स समाचरेत् ।
त्यक्त्वा ऋषिसहस्राणि शूद्रमेव भजाम्यहम् ॥”
इति वाराहे विधिकर्म्मोत्पत्तिनामाध्यायः ॥
अपरञ्च ।
सुकेशिरुवाच ।
“विप्राणां चातुराश्रम्यं विस्तरान्मे तपोधनाः
आचक्षध्वं न से तृप्तिः शृण्वतः प्रतिविद्यते ॥
ऋषय ऊचुः ।
कृतोपनयनः सम्यक् ब्रह्मचारी गुरौ वसन् ।
तत्र धर्म्मोऽस्य यस्तञ्च कथ्यमानं निशामय ॥
स्वाध्यायोऽर्थोऽग्निशुश्रूषा स्नानं भिक्षाटनन्तथा ।
गुरौ निवेद्य तच्चाद्यमनुज्ञातेन नित्यशः ॥
धर्म्मार्थकाममोक्षाणां सम्यक् प्रत्युपपादनम् ।
तेनाहूतः पठेच्चैव तत्परीभूय नित्यशः ॥
अवाप्य सकलान् वेदान् शास्त्रं प्राप्य गुरो-
र्मुखात् ।
ततो वरान्मुदा दद्याद्गुरवे दक्षिणान्ततः ॥
गार्हस्थाश्रमकामस्तु गार्हस्थ्याश्रममाश्रयेत् ।
वानप्रस्थाश्रमञ्चापि चतुर्थं स्वेच्छया वसेत् ॥
तथैव च गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् ।
गुरोरभावे तत्पुत्त्रं तद्बदेव निषेवयेत् ॥
एवं जयति मृत्युं स द्विजः शालङ्कटङ्कट ! ।
उपावृतस्ततस्तस्मात् गृहस्थाश्रमकाम्यया ।
असमानकुलां कन्यामुद्वहेत निशाचर ! ॥
स्वकर्म्मणा धनं लब्ध्वा पितृदेवातिथीनपि ।
सम्यक् संप्रीणयेद्भक्त्या सदाचाररतो द्विजः ॥
गार्हस्थ्यं ब्रह्मचर्य्यञ्च वानप्रस्थं त्रयाश्रमाः ।
क्षत्त्रियस्यापि गदिता य आचारा द्बिजस्य हि ॥
वैखानसत्वं गार्हस्थ्यमाश्रमद्बितयं विशः ।
गार्हस्थ्यमुत्तमं त्वेकं शूद्रस्य क्षणदाचर ! ॥
स्वानि वर्णाश्रमोक्तानि कर्म्माणीह न हापयेत्
यो हापयति तस्यासौ परिकुप्यति भास्करिः ॥”
इति वामनपुराणे १४ अध्यायः ॥ * ॥
पुनश्च ।
श्रीउर्व्व उवाच ।
“ब्राह्मणक्षत्त्रियविशां शूद्राणाञ्च यथाक्रमम् ।
त्वमेकाग्रमना भूत्वा शृणु धर्म्मान् मयोदितान् ॥
दानं दद्याद्यजेद्देवान् यज्ञैः स्वाध्यायतत्परः ।
नित्योदकी भवेद्विप्रः कुर्य्याच्चाग्निपरिग्रहम् ॥
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।
कुर्य्यात् प्रतिग्रहादानं शुक्तार्थान्न्यायतो द्बिजः ॥”
शुक्लार्थात् शुक्लः शुद्धो न्यायोपार्ज्जितोऽर्थो यस्य
तस्मात् । इति तट्टीका ।
“सर्व्वलोकहितं कुर्य्यान्नाहितं कस्यचिद्द्विजः ।
मैत्री समस्तसत्त्वेषु ब्राह्मणस्योत्तमं धनम् ॥
ग्राव्णि रत्ने च पारक्ये समबुद्धिर्भवेत् द्बिजः ।
ऋतावभिगमः पत्न्यां शस्यते चास्य पार्थिव ! ॥ १
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्त्रियोऽपि
हि ।
यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिव ॥
शस्त्राजीवो महीरक्षाप्रवरा तस्य जीविका ।
तस्यापि प्रथमे कल्पे पृथिवीपरिपालनम् ॥
धरित्रीपालनेनैव कृतकृत्यो नराधिपः ।
भवन्ति नृपतेरंशा यतो यज्ञादिकर्म्मणाम् ॥
दुष्टानां शासबाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमताल्लोकान् वर्णसंस्कारको नृपः ॥ २ ॥
पाशुपाल्यं बाणिज्यञ्च कृषिञ्च मनुजेश्वर ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥
तस्याप्यध्ययनं यज्ञो दानधर्म्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानञ्च कर्म्मणाम् ॥ ३ ॥
द्बिजातिसंश्रयं कर्म्म तादर्थ्यं तेन पोषणम् ।
क्रयविक्रयजैर्व्वापि धनैः कारूद्भवेन वा ॥
दानञ्च दद्यात् शूद्रोऽपि पाकयज्ञैर्यजेदपि ।
पित्रादिकञ्च सर्व्वं वै शूद्रः कुर्व्वीत तेन च ॥ ४ ॥
भृत्यादिभरणार्थाय सर्व्वेषाञ्च परिग्रहः ।
ऋतुकालाभिगमनं स्वदारेषु महीपते ॥
पृष्ठ ४/२७९
दया समस्तभूतेषु तितिक्षा नाभिमानिता ।
सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥
मैत्र्यस्पृहा तथा तद्वदकार्पण्यं नरेश्वर ।
अनसूया च सामान्या वर्णानां कथिता गुणाः ॥
आश्रमाणाञ्च सर्व्वेषामेते सामान्यलक्षणाः ।
गुणास्तथापद्धर्मांश्च विप्रादीनामिमान् शृणु ॥
क्षात्त्रं कर्म्म द्विजस्योक्तं वै श्यकर्म्म तथापदि ।
राजन्यस्य च वैश्योक्तं शौद्रं कर्म्म न चैतयोः ॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।
तदेवापदि कर्त्तव्यं न कुर्य्यात् कर्म्म सङ्करम् ॥
इत्येते कथिता राजन् वर्णधर्म्मा मया तव ।
धर्म्ममाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ * ॥
श्रीउर्व्व उवाच ।
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥
शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना ॥
उभे सन्ध्ये रविं भूप तथैवाग्निं समाहितः ।
उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम् ॥
स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति ।
शिष्यो गुरौ नृपश्रेष्ठ प्रतिकूलं न संभजेत् ॥
तेनैवोक्तः पठेद्बेदं नान्यचित्तः पुरस्थितः ।
अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥
अवगाहेदपः पूर्ब्बमाचार्य्येणावगाहिताः ।
समिज्जलादिकं चास्य कल्यं कल्यमुपानयेत् ॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।
गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥ १ ॥
विधिना चाप्तदारस्तु धनं प्राप्य स्वकर्म्मणा ।
गृहस्थकार्य्यमखिलं कुर्य्याद्भूपाल ! शक्तितः ॥
निर्व्वापेण पितॄनर्च्चेद्यज्ञैर्देवांस्तथातिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥
बलिकर्म्मणा च भूतानि वात्सल्येनाखिलं जगत् ।
प्राप्नोति लोकान् पुरुषो निजकर्म्मसमर्ज्जितान् ॥
भिक्षाभुजश्च ये केचित् परिव्राट् ब्रह्मचारिणः ।
तेऽप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥
वेदाहरणकार्य्येण तीर्थस्नानाय च प्रभो ! ।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥
अनिकेता ह्यनाहारा यत्र सायं गृहास्तु ये ।
तेषां गृहस्थः सर्व्वेषां प्रतिष्ठा योनिरेव च ॥
तेषां स्वागतदानादि वक्तव्यं मधुरं वचः ।
गृहागतानां दद्याच्च शयनासनभोजनम् ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥
अवज्ञानमहङ्कारो दम्भश्चैव गृहे सतः ।
परितापोपघातौ च पारुष्यञ्च न शस्यते ॥
यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम् ।
सर्व्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥
वयःपरिणतौ राजन् कृतकृत्यो गृहाश्रमी ।
पुत्त्रेष भार्य्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ २ ॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमीशायी मवेत्तत्र मुनिः सर्व्वातिथिर्नृप ॥
चर्म्मकाशकुशैः कुर्य्यात् परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वर ॥
देवताभ्यर्च्चनं होमः सर्व्वाभ्यागतपूजनम् ।
भिक्षा बलिप्रदानञ्च शस्तमस्य नरेश्वर ॥
वन्यस्नेहेन गात्राणामभ्यङ्गश्चास्य शस्यते ।
तपस्यतश्च राजेन्द्र शीतोष्णादिसहिष्णुता ॥
यस्त्वेतां नियतश्चर्य्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषान् जयेल्लोकांश्च शाश्वतान् ॥ ३ ॥
चतुर्थश्चाश्रमो भिक्षोः प्रोच्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥
पुत्त्रद्रव्यकलत्रेषु त्यक्तस्नेहो नराधिप ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ।
त्रैवर्णिकांस्त्यजेत् सर्व्वानारम्भानवनीपते ।
मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥
जरायुजाण्डजादीनां वाङ्मनःकर्म्मभिः क्वचित् ।
युक्तः कुर्व्वीत न द्रोहं सर्व्वसङ्गांश्च वर्ज्जयेत् ॥
एकरात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथा प्रीतिर्द्बेषो वा नास्य जायते ॥
प्राणयात्रानिमित्तञ्च व्यङ्गारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थे पर्य्यटेद्गृहान् ॥
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु दोषान् परित्यज्य परिव्राट् निर्म्ममो
भवेत् ॥
अभयं सर्व्वसत्त्वेभ्यो दत्त्वा यश्चरते मुनिः ।
न तस्य सर्व्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥
कृत्वाग्निहोत्रं स्वशरीरसंस्थं
शारीरमग्निञ्च मुखे जुहोति ।
विप्रस्तु भेक्षोपगतेर्हविर्भि-
श्चिताग्निनां स व्रजतिस्म लोकान् ॥
चिताग्नीनां अग्निचितामित्यर्थः । चिताग्निना
इति वा पाठः । इति तट्टीका ॥
“मोक्षाश्रमं यश्चरते यथोक्तं
शुचिः सुसङ्कल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तं
स ब्रह्मलोकं श्रयति द्विजातिः ॥” ४ ॥
इति विष्णुपुराणे ३ अंशे ८ । ९ अध्यायौ ॥ * ॥
प्रकारान्तरेण तेषामादिसृष्टिर्यथा, --
“ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा ।
तस्मात् पद्मात् समभवद्ब्रह्मा वेदमयो विधिः ॥
प्रजाविसर्गं विविधं मानसो मनसासृजत् ।
असृजद्ब्राह्मणानेव पूर्ब्बं ब्रह्मा प्रजापतिः ॥
आत्मतेजोभिनिर्वृत्तान् भास्कराग्निसमप्रभान् ।
ततः सत्यञ्च धर्म्मञ्च तपो ब्रह्म च शाश्वतम् ॥
आचा ञ्चैव शौचञ्च स्वर्गाय विदधे विभुः ।
देवदानवगन्धर्व्वा दैत्यासुरमहोरगाः ॥
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्च नृपसत्तम ! ॥
ये चान्यभूतसंघानां वर्णास्तांश्च विनिर्म्ममे ।
ब्राह्मणानां सितो वर्णः क्षत्त्रियाणाञ्च लोहितः ॥
वैश्यस्य पीतको वर्णः शूद्राणामसितस्तथा ॥
मान्धातोवाच ।
चातुर्व्वर्णस्य वर्णेन यदि वर्णो विभज्यते ।
सर्व्वेषां खलु वर्णानां दृश्यते वर्णसङ्करः ॥
कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा
श्रमः ।
सर्व्वेषां न प्रभवति कस्माद्वर्णो विभज्यते ॥
स्वेदमूत्रपुरीषाणि श्लेष्मापित्तं सशोणितम् ।
तनुः क्षरति सर्व्वेषां कस्मावर्णो विभज्यते ॥
जङ्गमानामसं ख्येयाः स्थावराणाञ्च जातयः ।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥
नारद उवाच ।
न विशेषोऽस्ति वर्णानां सर्व्वं ब्रह्ममयं जगत् ।
ब्रह्मणा पूर्ब्बसृष्टं हृइ कर्म्मभिर्व्वर्णतां गतम् ॥
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रिय-
साहसाः ।
त्यक्तस्वधर्म्मा रक्ताङ्गास्ते द्विजाः क्षत्त्रतां
गताः ॥
गोभ्यो वृत्तिं समास्थाय पीताः कृष्यनुजीविनः ।
स्वधर्म्मान्नानुतिष्ठन्ति ते द्बिजा वैश्यतां गताः ॥
हिंसानृतप्रिया लुब्धाः सर्व्वकर्म्मोपजीविनः ।
कृष्णाः शौचपरिभ्रष्टास्ते द्बिजाः शूद्रतां
गताः ॥
इत्येतैः कर्म्मभिर्व्यस्ता द्बिजा वर्णान्तरं गताः ।
इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती ॥
विहिता ब्रह्मणा पूर्ब्बं लोभादज्ञानतां गताः ।
ब्राह्मणा धर्म्मतन्त्रस्थास्ततस्तेषां न नश्यति ॥
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ।
ब्रह्म चैव परं सृष्टं येन जानन्ति तद्विदः ॥
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ।
आदिदेवसमुद्भू ता ब्रह्ममूलाक्षताव्ययाः ।
सा सृष्टिर्म्मानसी नाम धर्म्मतन्त्रपरायणाः ॥
मान्धातोवाच ।
ब्राह्मणः केन भवति क्षत्त्रियो वा द्विजोत्तम ! ।
वैश्यः शूद्रश्च देवर्षे तद्ब्रूहि वदतांवर ॥
नारद उवाच ।
जातकर्म्मादिभिर्यस्तु तंस्कारैः संस्कृतः
शुचिः ।
वेदाध्ययनसम्पन्नः षट्सु कर्म्मस्ववस्थितः ॥
शौचाचारपरो नित्यं विघसाशी गुरुप्रियः ।
नित्यव्रती सत्यरतः स वै ब्राह्मण उच्यते ॥
सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥
क्षत्त्रजं सेवते कर्म्म वेदाध्ययनसंयुतः ।
दानादानवहिर्यस्तु स वै क्षत्त्रिय उच्यते ॥
विशत्याशु पशुभ्यश्च कृष्यादानरुचिः शुचिः ।
वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥
सर्व्वभक्ष्मरतिर्नित्यं सर्व्वकर्म्मकरोऽशुचिः ।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ॥
शूद्रे चैव भवेल्लक्षं द्विजे चैव न विद्यते ।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः
मान्धातोवाच ।
के धर्म्माः सर्व्ववर्णानां चातुर्व्वर्णस्य के पृथक् ।
चातुर्व्वर्ण्याश्रमाणाञ्च राजधर्म्माश्च के मताः ॥
नारद उवाच ।
अक्रोधः सत्यवचनं संविभागः क्षमा तथा ।
पृष्ठ ४/२८०
प्रजनः स्वेषु दारेषु शौचमद्रोह एव च ॥
आर्ज्जवं भृत्यभरणं न वै ते सार्व्ववर्णिकाः ।
ब्राह्मणस्य तु यो धर्म्मस्तं ते वक्ष्यामि केवलम् ॥
दममेव महाराज धर्म्ममाहुः पुरातनम् ।
स्वाध्यायाभ्यसनञ्चैव तत्र कर्म्म समाप्यते ॥
तं चेद्वित्तमुपागच्छेद्वत्तमानं स्वकर्म्मणि ।
अकुर्व्वाणं विकर्म्माणि श्रान्तं प्रज्ञानतर्पितम् ॥
कुर्व्वीतोपेत्य सन्तानमथ दद्याद्यजेत च ।
संविभज्यापि भोक्तव्यं धनं सद्भिरितीष्यते ॥
परिनिष्ठितकार्य्यस्तु स्वाध्यायेनैव ब्राह्मणः ।
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ॥ * ॥
क्षत्त्रियस्यापि यो धर्म्मस्तं ते वक्ष्यामि पार्थिव ।
दद्याद्राजा न याचेत यजेत न च याजयेत् ॥
नाध्यापयेदधीयीत प्रजाश्च परिपालयेत् ।
नित्योद्युक्तो दस्युवधे रणे कुर्य्यात् पराक्रमम् ॥
ये तु क्रतुभिरीजानाः श्रुतवन्तश्च पार्थिवाः ।
ये तु युद्धे विजेतारस्ते तु लोकजितो नृपाः ॥
अविक्षतशरीरो हि संगराद्यो निवर्त्तते ।
क्षत्त्रियस्य तु तत् कर्म्म नोभयत्र यशःप्रदम् ॥
क्षत्त्रियाणामयं धर्म्मो निर्णीतो मुनिभिः परः ।
नास्य कृत्यतमं किञ्चिद्राज्ञो दस्युविनिग्रहात् ॥
दानमध्ययनं यज्ञो राज्ञां क्षेमोऽभिधीयते ।
तस्माद्राज्ञा महाराज योद्धव्यं धर्म्मशीलिना ॥
प्रजाः स्वेषु च धर्म्मेषु स्थापयेत महीपतिः ।
धर्म्म्याण्येव हि कर्म्माणि कारयेत् सततं
प्रजाः ॥
परमां सिद्धिमाप्नोति नृपतिः परिपालनात् ।
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो राजन्य उच्यते ॥ * ॥
वैश्यस्य च प्रवक्ष्यामि यो धर्म्मो वेदसम्मतः ॥
दानमध्ययनं शौचं यज्ञश्च धनसञ्चयः ।
पालयेच्च पशून् वैश्यः पितृवद्धर्म्ममर्ज्जयन् ॥
विकर्म्म तद्भवेदन्यत् कर्म्म यत् स समाचरेत् ।
रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् ॥
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे प्रजाः ।
ब्राह्मणेभ्यश्च राज्ञे च सर्व्वाः परिददे प्रजाः ॥
तस्य वृत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।
षण्णामेकां पिबेद्धेनुं शताच्च मिथुन भवेत् ॥
लब्धाच्च सप्तमं भागं तथा शृङ्गैकलक्षुरे ।
शस्यानां सर्व्वबीजानि एषा सांवत्सरी भृतिः ॥
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।
वैश्ये रक्षति नान्येन रक्षितव्याः कथञ्चन ॥ * ॥
शूद्रस्यापि हि यो धर्म्मस्तं ते वक्ष्यामि भूपते ।
प्रजापतिर्हि वर्णानां दासं शूद्रमकल्पयत् ॥
तस्माच्छूद्रस्य वर्णानां परिचर्य्या विधीयते ।
तषां शुश्रूषणञ्चैव महत् सुखमवाप्नुयात् ॥
शूद्र एतान् परिचरेत् त्रीन् वर्णाननुपूर्व्वशः ।
मञ्चयांश्च न कुर्व्वीत यातु शूद्रः कथञ्चन ॥
पापीयान् हि धनं लब्ध्वा वशे कुर्य्याद्गरीयसः ।
गाज्ञा वा ममनुज्ञातः कामं कुर्व्वीत धार्म्मिकः ॥
तस्य वत्तिं प्रवक्ष्यामि यच्च तस्योपजीवनम् ।
अवश्यं भरणीयो हि वर्णानां शूद्र उच्यते ॥
छत्त्रं वेष्टनमौशीरमुपानद्व्यजनानि च ।
यातयामानि देयानि शूद्राय परिचारिणे ॥
अधार्य्याणि विशीर्णानि वसनानि द्विजातिभिः ।
शूद्रायैव प्रदेयानि तस्य धर्म्मधनं हि तत् ॥
यश्च कश्चिद्द्विजातीनां शूद्रः शुश्रूषुराव्रजेत् ।
कल्पन्तेऽस्य तु तेनाहुर्वृत्तिं धर्म्मविदो जनाः ॥
देयः पिण्डोऽनपत्याय भर्त्तव्यो वृद्धदुर्ब्बलौ ।
शूद्रेण च न हातव्यो भर्त्ता कस्याञ्चिदापदि ॥
अतिरेकेन भर्त्तव्यो भर्त्ता द्रव्यपरिक्षये ।
न हि स्वमस्ति शूद्रस्य भर्त्तृहार्य्यधनो हि सः ॥
उक्तस्त्रयाणां वर्णानां यज्ञस्तस्य च पार्थिव ।
स्वाहाकारवषट्कारौ मन्त्रः शूद्रे न विद्यते ॥
तस्माच्छूद्रः पाकयज्ञैर्याजयेत नच स्वयम् ।
पूर्णपात्रमयीमाहुः पाकयज्ञस्य दक्षिणाम् ॥ * ॥
श्रीनारद उवाच ।
इदानीमाश्रमाणाञ्च धर्म्मं वक्ष्यामि भूमिप ।
ब्रह्मचर्य्याश्रमं तावत् शृणु सर्व्वाधिवासन ॥
गत्वा गुरुगृहं शिष्यो नमस्कृत्य गुरुं शुचिः ।
ब्रूयादध्येतुमायातः शिष्योऽहं तव मारिष ।
ततस्तस्याज्ञया नित्यमध्येतव्यं नराधिप ॥
सदा विचारः शास्त्रस्य गुरुपादाभिवादनम् ।
तदाज्ञापालनञ्चापि ध्यानं दैवतभावना ॥
लाभेन येन केनापि तुष्टिः सद्भिः समागमः ।
समाप्तविद्यो गुरवे दक्षिणां प्रतिपाद्य च ॥ * ॥
गृहाश्रमं ततो गच्छेद्गुरोराज्ञामधिव्रजन् ।
उद्बहेत् कुलजां कन्यां सुशीलां घर्म्मचारिणीम् ॥
अनहंवादिनीं सौम्यां सुचरित्रां प्रियंवदाम् ।
गृहिणां प्रथमो धर्म्मोऽतिथिपूजैव पार्थिव ॥
अप्राप्य पूजामतिथिर्यस्य गेहान्निवर्त्तते ।
स याति नरकं घोरं पुण्यं तस्मै प्रदाय च ॥
प्रथमं स्वागतं पृच्छेदासनञ्चापि संदिशेत् ।
पाद्यञ्च मधुपर्कञ्च दद्यात् प्रणतिपूर्व्वकम् ॥
संवादञ्च प्रियालापं कुर्य्यात्तेन सहान्ततः ।
भोजनञ्च यथाशक्ति कारयेदतिथिं नृप ॥
देवाश्च पितरश्चापि प्रीयन्तेऽतिथिपूजने ।
आतिथ्यसदृशं कर्म्म गृहस्थानां न विद्यते ॥
यस्य नित्यं स्थितिर्नास्ति सोऽतिथिःपरिकीर्त्तितः ।
सर्व्वाश्रमाणामधिको गृहाश्रम उदाहृतः ॥
यस्मात्तस्मिन् समायान्ति भिक्षार्थमाश्रमास्त्रयः ।
पितृदेवार्च्चनं कार्य्यं गृहिणा सुखमिच्छता ॥ * ॥
वानप्रस्थाश्रमं वक्ष्ये तृतीयं जगतीपते ।
वानप्रस्थाश्रमं गच्छेत् कृतकृत्यो गृहाश्रमात् ॥
तदारण्यकशास्त्राणि यमधीत्य स धर्म्मवित् ।
ऊर्द्ध्वरेताः प्रव्रजित्वा गच्छत्यक्षरसात्सताम् ॥
सुते भार्य्यां परिन्यस्य वनं गच्छेत् सहैव वा ।
शान्तः शुद्धान्तरात्मा च सर्व्वभूतहिते रतः ॥
चरितब्रह्मचर्य्यस्य ब्राह्मणस्य विशाम्पते ।
कर्त्तव्याणीह राजेन्द्र कथ्यन्ते मुनिपुङ्गवैः ॥
भैक्ष्यचर्य्यास्वधीकारः प्रशस्त इह मोक्षिणः ।
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ॥
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ।
निराशीः स्यात् न्नर्व्वसमो निर्योगो निर्व्विकार-
वान् ॥
विवेकी धनपूत्त्रादौ वितृष्णः करुणः सदा ।
संसारं स्वप्नवद्बीक्ष्य क्षान्तः सन्तुष्टमानसः ॥
पत्रमूलफलाहारी जलाशी वायुभोजनः ।
निराहारोऽथवा शुद्धोऽहर्निशं तप आचरेत् ।
एवं कुर्व्वन् महाभाग ब्राह्मणः सिद्धिमाप्नुयात् ॥
चतुर्थमाश्रमं वक्ष्ये मुक्तिसोपानमेव हि ।
गुरोः पुरोधमासास्य भिक्षुः सन्न्यासधर्म्मवित् ॥
विचरेत् सकलां पृथ्वीं लब्धाशी शान्त उत्सुकः ।
योगाभ्यासरतो नित्यं धर्म्मसञ्चयतत्परः ।
धर्म्माधर्म्मविहीनो वा भिक्षुकः सिद्धिमा-
प्नुयात् ॥”
इति पाद्मे स्वर्गखण्डे २५ । २६ । २७ अध्यायाः ॥ * ॥
अन्यत् नारसिंहपुराणे ५९ अध्याये मार्कण्डेय-
पुराणे मदालसोपाख्याने कूर्म्मपूराणे २ । ३
अध्याये च द्रष्टव्यम् ॥ * ॥ * ॥ गजचित्रकम्बलः ।
हातीर झुल् इति भाषा । तत्पर्य्यायः ।
प्रवेणी २ आस्तरणम् ३ परिस्तोमः ४ कुथः ५
कुथा ६ । इत्यमरः ॥ प्रवेणिः ७ परिष्टोमः ८
कुथम् ९ । इति भरतः ॥ शुक्लादिः । रङ्
इति ख्यातः । स च बहुविधो यथा । श्वेतः १
पाण्डुः २ धूसरः ३ कृष्णः ४ पीतः ५ हरितः ६
रक्तः ७ शोणः ८ अरुणः ९ पाटलः १०
श्यावः ११ धूम्रः १२ पिङ्गलः १३ कर्व्वुरः १४ ।
इति चामरः ॥ गर्भस्थबालकस्य षष्ठे मासि
वर्णो भवति । इति सुखबोधः ॥ यशः । गुणः ।
स्तुतिः । इति मेदिनी । णे, २६ ॥ स्वर्णम् ।
व्रतम् । रूपम् । अक्षरम् । भेदः । गीतक्रमः ।
चित्रम् । तालविशेषः । अङ्गरागः । इति
हेमचन्द्रः ॥

वर्णः, पुं, क्ली, (वर्ण्यते भिद्यते इति । वर्ण +

घञ् ।) भेदः । (वर्ण्यते दीप्यतेऽनेनेति ।)
वर्ण + घञ् ।) रूपम् । (वर्णयति । वर्ण +
अच् ।) अक्षरम् । (वर्ण्यते रज्यते इति । वर्ण
+ घञ् ।) विलेपनम् । इति मेदिनी । णे, २६ ॥ * ॥
वर्णश्च द्विविधः । ध्वन्यात्मकः अक्षरात्मकश्च ।
अस्योत्पत्तिप्रकारो यथा, --
“अव्नैषद्यान्मुखश्रोत्रमार्गस्याविषदाक्षरम् ।
अप्यव्यक्तं प्रलपति यदा सा कुण्डली तदा ।
मूलाधारे विष्वणति सुषुम्नां वेष्टते मुहुः ॥”
इति प्रपञ्चसारः ॥
अस्यार्थः । मुखश्रोत्रमार्गस्यावैषद्यात् अनैर्म्म-
ल्याद्धेतोर्यदा सा कुण्डली अविषदाक्षरं अवि-
ष्पष्टमक्षरं यत्राव्यक्ते ध्वनौ तं प्रलपति अर्थात्
कलभाषणादिकं करोति तदा मूलाधारे विष्व-
णति शब्दायते सुषुम्नाञ्च मुहुर्व्वेष्टते । इति
तट्टीका ॥ * ॥ अस्य कुण्डलीस्वरूपत्वं यथा, --
“कुण्डलीभूतसर्पाणामङ्गश्रियमुपेयुषी ।
त्रिधामजननी देवी शब्दब्रह्मस्वरूपिणी ॥
द्विचत्वारिंशद्वर्णात्मा पञ्चाशद्वर्णरूपिणी ।
गुणिता सर्व्वगात्रेण कुण्डली परदेवता ॥
विश्वात्मनापबुद्धा सा सूते मन्त्रमयं जगत् ।
एकधा गुणिता शक्तिः सर्व्वविश्वप्रवर्त्तिनी ॥
पृष्ठ ४/२८१
त्रिपुष्करं स्वरान् देवी ब्रह्मादीनां त्रयं त्रयम् ॥”
इति सारदातिलकः ॥
अस्यार्थः । त्रिधामेति चन्द्रसूर्य्याग्निरूपा । द्बि-
चत्वारिंशदिति भूतलिपिमन्त्रमयी । पञ्चाश-
दिति मातृकामयीत्यर्थः । सर्व्वगात्रेण सर्व्ववर्णेन
गुणिता परस्परमिलिता सती मन्त्रमयं जगत्
सूते प्रकाशयति इत्यर्थः । मूलाधारे सर्पवत्
कुण्डलीभूता नाडी वर्त्तते तन्मध्यस्थायित्वादियं
कुण्डली । सर्व्वविश्वेत्युभयोपादानात् शब्दार्थ-
रूपोभयप्रतिपादिकेति सूचितम् । त्रिपुष्कर-
मिति ज्येष्ठमध्यमकनिष्ठत्वेन तीर्थत्रयम् । स्वरा-
निति उदात्तानुदात्तसमाहारान् । इति
तट्टीका ॥ * ॥ अपि च ।
“द्बिचत्वारिंशता मूले गुणिता विश्वनायिका ।
सा प्रसूते कुण्डलिनी शब्दब्रह्ममयी तिभुः ॥
शक्तिं ततो ध्वनिस्तस्मान्नादस्तस्मान्निवोधिका ।
ततोऽर्द्धेन्दुस्ततो विन्दुस्तस्मादासीत् परा ततः ॥”
इति सारदायामाचार्य्याः ॥
मूले मूलाधारे द्विचत्वारिंशता गुणिता विश्व-
नायिका कुण्डलिनी अनेन क्रमेण अकारादि-
सकारान्तां द्विचत्वारिंशदात्मिकां भूतलिपि-
मन्त्रात्मिकां वर्णमालिकां सूते इत्यन्वयः । क्रम-
माह शक्तिमिति सा कुण्डलिनी शक्तिं सूते
ततः शक्तेर्ध्वनिरासीदिति योजना । ततो
ध्वनेरित्यादि ज्ञेयम् । अयञ्च क्रमः सर्व्वाक्षरो-
त्पत्तौ ज्ञेयः । तत्र सत्त्वप्रविष्टा चिच्छक्तिशब्द-
वाच्या । पुनराकाशस्था सैव सत्त्वप्रविष्टा रजो-
ऽनुविद्धा सती ध्वनिशब्दवाच्या । अक्षरावस्था
सैव तमोऽनुविद्धा नादशब्दवाच्या । अव्यक्तावस्था
सैव तमःप्राचुर्य्यान्निबोधिकाशब्दवाच्या । सैव
तदुभयप्राचुर्य्यादर्द्धेन्दुशब्दवाच्या । उक्तञ्च पदा-
र्थादर्शे ।
“इच्छाशक्तिबलोद्घुष्टो ज्ञानशक्तिप्रदीपकः ।
पुंरूपिणी च सा शक्तिः क्रियाख्या सृजति
प्रभुः ॥”
असावेव बिन्दुः स्थानान्तरगतः पराद्याख्यो
भवति ।
पश्यन्ती मध्यमा वाची वैखरी शब्दजन्मभूः ।
तत्र परा मूले पश्यन्ती स्वाधिष्ठाने मध्यमा
हृदये वैखरी मुखे । तदुक्तं पदार्थादर्शे ।
“सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रास्वरूपिणी ।
अश्रोत्रविषया तस्मादुद्गच्छत्यूर्द्धगामिनी ॥
स्वयं प्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् ।
सैव हृत्पङ्कजं प्राप्य मध्यमा नाद्ररूपिणी ॥
ततः संजल्पमात्रा स्यादविभक्तोर्द्धगामिनी ।
सैवोरःकण्ठतालुस्था शिरोघ्राणरद्रस्थिता ॥
जिह्वामूलौष्ठनिर्धू तसर्व्ववर्णपरिग्रहा ।
शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ॥
इच्छाज्ञानक्रियात्सासौ तेजोरूपा गुणात्मिका ।
क्रमेणानेन सृजति कुण्डली वर्णमालिकाम् ॥
अकारादिसकारान्तां द्बिचत्वारिंशदात्मिकाम् ।
पञ्चाशद्बारगुणिता पञ्चाशद्बर्णमालिकाम् ॥
सूते तद्वर्णतो भिन्नाः कला रुद्रादिकान्
क्रमात् ॥”
इति तट्टीका ॥
“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालुका ॥”
इति शिक्षासूत्रम् ॥ * ॥
किञ्च ।
“यथा भवन्ति देहान्तरमी पञ्चाशदक्षराः ।
भेदा येन प्रकारेण तथा वक्ष्यामि तत्त्वतः ॥
समीरिताः समीरेण सुषुम्नारन्ध्रनिर्गताः ।
व्यक्तिं प्रयान्ति वदने कण्ठादिस्थानघट्टितः ॥
उच्चैरुन्मार्गणो वायुरुदात्तं कुरुते स्वरम् ।
नीचैर्गतोऽनुदात्तञ्च स्वरितं तिर्य्यगागतः ॥
अर्द्धैकद्वित्रिसंख्याभिर्मात्राभिर्लिपयः क्रमात् ।
सव्यञ्जनह्रस्वदीर्घप्लुतसंज्ञा भवन्ति ताः ॥
अकारेकारयोर्योगादेकारो वर्ण इष्यते ।
तस्यैवैकारयोगेन स्यादैकाराक्षरं तथा ॥
उकारयोगात्तस्यैव स्यादोकाराह्वयः स्वरः ।
तस्यैवैकारयोगेन स्यादौकाराह्वयः स्वरः ॥
सन्ध्यक्षराः स्युश्चत्वारो मन्त्राः सर्व्वार्थसाधकाः ।
ऌवर्णर्वर्णयोर्व्यक्तिर्न वै सम्वक् प्रदर्श्यते ॥
बिन्दुसर्गात्मनोर्व्यक्तिमनसोरजपा वदेत् ।
कण्ठात्तु निःसरन् सर्गः प्रायोऽचात्मकतः-
परः ॥
नश्वरः सर्ग एव स्यात् सोच्छ्वासः प्राणकस्तु हः ।
स सर्गः श्लेषितः कण्टे वायुना कादिमीरयेत् ॥
वर्गस्पर्शनमात्रेण कं स्वरस्पर्शनात्तु खम् ।
स्तोकगम्भीरसं स्पर्शात् गघौ ङञ्च वहिर्गतम् ॥
विसर्गस्तालुगः सोष्मा शं चवर्गञ्च यं तथा ।
ऋटुरेफसकारञ्च मूर्द्धगो दन्तगस्तथा ॥
ऌतवर्गलसानोष्ठ्यानुपूपध्मानसंज्ञकान् ।
दन्तौष्ठाभ्यां वञ्च तत्तत्स्थानगोऽर्णान् समी-
रयेत् ॥”
इति प्रपञ्चसारे ३ पटलः ॥
सर्गो विसर्ग एव नश्वरो विकृतः सोच्छ्वासः
सकाररूपः उच्छ्वासोऽन्तःप्रवेशशाली वायुः
स्यादित्यन्वयः । एवं प्राणको वहिर्निर्गमन-
शाली वायुर्हः स्यात् स एव उच्छ्वासः सोच्छ्वासः ।
प्राणश्चासौ को वायुश्चेति प्राणकः । इति
तट्टीका ॥ * ॥ अवर्णकवर्गहविसर्ज्जनीयाः
कण्ठ्याः । १ । इवर्णचवर्गयशास्तालव्याः । २ ।
ऋवर्णटवर्गरषा मूर्द्धन्याः । ३ । ऌवर्णतवर्ग-
लसा दन्त्याः । ४ । उवर्णपवर्गोपध्मानीया
ओष्ठ्याः । ५ । वो दन्त्यौष्ठ्यः । ६ । ए ऐ कण्ठ्य-
तालव्यौ । ७ । ओ औ कण्ठ्यौष्ठ्यौ । ८ । इति
शिक्षासूत्रम् ॥ * ॥ अपि च ।
“यद्गुह्यं सर्व्वतन्त्रेषु वर्णोच्चारविधिं शिवे ! ।
तव स्नेहान्महेशानि ! तदद्य कथयामि ते ॥
पञ्चाशन्मातृकावर्णोच्चारणं गुरुतोऽभ्यसेत् ।
अ कु चु टु तु पु यु शु अष्टौ वर्गाः प्रकीर्त्तिताः ॥
अ कु हाः कण्ठतो ज्ञेया १ स्तालुतश्चुयशाः
स्मृताः । २ ।
ऋ टु रषास्तु मूद्धन्याः ३ दन्त्या ऌ तु ल सा
मताः ॥ ४ ॥
उपवश्चोष्ठसंभूताः ५ स्थानानि कथितानि ते ।
विशेषं कथयाम्यद्य प्रोच्चार्य्यः कण्ठतः स्वराः ॥
ऋद्बयं जिह्वया मूर्द्ध्ना ऌद्वयं जिह्वदन्तजम् ।
मुखस्थानाद्धलो वाच्याः क्षकारः कण्टघातजः ॥
व्यञ्जनद्वयसंयोगे भवेत् पूर्ब्बस्वरो गुरुः ।
पदान्तादिमवर्णस्य संयोगेषु श्रुतिर्द्वयोः ॥
अपदान्तादिसंयोगे य्वोरन्यत्र तथेष्यते ।
य्वोः श्रुतिस्तु तिरोभूय स्वरवत् श्रुतितां व्रजेत् ॥
श्रिया बीजे शकारस्य छश्रुतिः परमेश्वरि ! ।
छश्रुतिश्च रादिभृगौ तथादिस्थे तु चश्रुतिः ॥
सहस्र इत्यादौ नमस्तस्यै आस्था इत्यादौ च ।
रेफादिके तदन्ते वा हकारे समवाच्यता ॥
वर्हः ह्रद इत्यादौ ।
किन्तु वैजात्यमाश्रित्य स्फुटं नात्रास्य वाच्यता ॥
चु तूर्य्यध्वनिमाप्नोति यादिस्थे परमेश्वरि ! ।
वाह्य इत्यादौ ।
पु चतुर्थव्वनिं याति वादिस्थे तु विशेषतः ॥
आह्वानमित्यादौ ।
लादिस्थेऽप्यथ नादिस्थे वैजात्यं स्वल्पवाच्यता ।
प्रह्लाद अह्राय इत्यादौ ।
मादिस्थे भे च मस्यापि नासिकामूलवाच्यता ॥
उ ङ ण न मा बिन्दुर्नासिकामूलजाः स्मृताः ।
यकारश्चु तृतीयत्वं पदादौ सर्व्वदा व्रजेत् ॥
केयूरादावपि तथा अन्यत्र कण्ठमात्रगः ।
नादिस्थशसयोश्छत्वं स्वरयोगान्तवर्गके ॥
प्रश्नः स्नान इत्यादौ ।
वर्णोत्तरेषु डढयोर्व्वक्रजिह्वादिवाच्यता ।
वैजात्यमपि तत्रास्ति गुरोरेव समभ्यसेत् ।
आदिरेफस्तु संप्रोक्तो दृशेरन्यो व्रजेदृताम् ।
एवं ज्ञात्वा महेशानि ! पठेत् स्तोत्रं जपेन्मनुम् ॥
कवचञ्च महेशानि नान्यथा फलमाप्नुयात् ॥”
इति प्रपञ्चसारे ३ पटलः ॥ * ॥
अपि च ।
“ह्रस्वः स्वरेषु पूर्ब्बोक्तः परो दीर्घः क्रमादिमे ।
शिवशक्तिमयास्ते स्युर्बिन्दुसर्गावसानकाः ॥
बिन्दुः पुमान् रविः प्रोक्तः सर्गः शक्तिर्निशा-
करः ।
स्वराणां मध्यगं यत्तु तच्चतुष्कं नपुंसकम् ॥
विना स्वरैस्तु नान्येषां जायते व्यक्तिरञ्जसा ।
शिवशक्तिमयान् प्राहुस्तस्माद्वर्णान् मनीषिणः ॥
कारणात् पञ्चभूतानामुद्भूता मातृका यतः ।
ततो भूतात्मका वर्णाः पञ्च पञ्च विभागतः ॥
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घाः विन्द्वन्ताः सन्धिसम्भवाः ।
पञ्चशः कादयः ष क्ष ल स हान्ताः समी-
रिताः ॥”
इति सारदा ॥ * ॥
अक्षरसृष्टिकारणं यथा, --
“साण्मासिकेऽपि समये भ्रान्तिः संजायते
यता ।
पृष्ठ ४/२८२
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥”
इति ज्योतिस्तत्त्वे बृहस्पतिः ॥
वर्णलेखनप्रकारस्तु तत्तद्वर्णे द्रष्टव्यः ॥ * ॥ वर्ण-
नामानि यथा, --
“तन्त्रसङ्केतबोधार्थमाहृत्य तन्त्रशास्त्रतः ।
वर्णनामानि कतिचित् वक्ष्यामि विदुषां मुदे ॥
ॐकारो वर्त्तुलस्तारो वामश्च हंसकारणम् ।
मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥
सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः ।
सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥
आदिबीजं वेदसारो वेदबीजमतः परम् ।
पञ्चरस्मिस्त्रिकूटे च त्रिभवे भवनाशनः ॥
गायत्त्रीबीजपञ्चांशौ मन्त्रविद्याप्रसूः प्रभुः ।
अक्षरं मातृकासूश्चानादिरद्बैतमोक्षदौ ॥ ॐ ॥
अः श्रीकण्ठः सुरेशश्च ललाटञ्चैकमात्रिकः ।
पूर्णोदरी सृष्टिमेधौ सारस्वतः प्रियंवदः ॥
महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् ।
कीर्त्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् ॥
ब्रह्मा वामाद्यजो ह्रस्वः करसूः प्रणवाद्यकः ।
ब्रह्माणी कामरूपश्च कामेशी वाशिनी वियत् ॥
विश्वेशः श्रीविष्णुकण्ठौ प्रतिपत्तिथिरंशिनी ।
अर्कमण्डलवर्णाद्यौ ब्राह्मणः कामकर्षिणी ॥ अः ॥
आकारो विजयानन्तो दीर्घच्छायो विनायकः ।
क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥
प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः ।
प्रतिष्ठा मानदा कान्तो विश्वान्तकगजान्तकः ॥
पितामहो द्विठान्तोऽभूः क्रिया कान्तिश्च
सम्भवः ।
द्वितीया मानदा काशीविघ्नराजः कुजो वियत् ।
स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी ॥ आः ॥
इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः ।
सुमित्रं सुन्दरो वीरः कोटरः काटरः पयः ॥
भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका ।
शान्तः कान्तः कामिनी च कामो विघ्नविना-
यकः ।
नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावकः ॥
॥ इः ॥
ईस्त्रिभूर्त्तिर्महामाया लोलाक्षी वामलोचनम् ।
गोविन्दः शेखरः पुष्टिः सुभद्रा रत्नसंज्ञकः ॥
विष्णुर्लक्ष्मीः प्रहासश्व वाग्विशुद्धः परापरः ।
कलोत्तरीयो भेरुण्डा रतिश्च पौण्ड्रवर्द्धनः ॥
शिवोत्तमः शिवा तुष्टिश्चतुर्थी बिन्दुमालिनी ।
वैष्णवी वैन्दवी जिह्वा कामकला सनादका ॥
पावकः कोटरः कीर्त्तिर्मोहिनी कालकारिका ।
कुचद्वन्द्वं तर्ज्जनी व शान्तिस्त्रिपुरसुन्दरी ॥ ईः ॥
उः शङ्करो वर्त्तुलाक्षी भूतःकल्याणवाचकः ।
अमरेशो दक्षकर्णः षड्वक्त्रो मोहनः शिवः ॥
उग्रः प्रमुर्धृतिर्विष्णुर्विश्वकर्म्मा महेश्वरः ।
शत्रुघ्नश्चेटिका पुष्टिः पञ्चमी वह्रिवासिनी ॥
चेटिकास्याने चेक्षिका इति वा पाठः ।
कामघ्नः कामना चेशो मोहिनी विघ्नहृन्मही ।
डटसूः कुटिला श्रोत्रं पारद्बीपो वृषो हरः ॥
डठसू इति कुत्रचित् पाठः । उः ॥
ऊः कण्टको रतिः शान्तिः क्रोधनो मधुसूदनः ।
कामराजः कुजेशश्च महेशो वामकर्णकः ॥
कण्ठकस्थाने कण्टक इति वा पाठः ।
अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती ।
विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी ।
महाविद्येश्वरी षष्ठा षण्डो भूः कान्यकुब्जकः ॥
॥ ऊः ॥
ऋः पूर्दीर्घमुखी रुद्रो देवमाता त्रिविक्रमः ।
भावभूतिः क्रिया क्रूरा रेचिका नासिका धृतः ॥
एकपादशिरो माला मण्डला शान्तिनी जलम् ।
कर्णः कमलभा मेधो निवृत्तिर्गणनायकः ।
रोहिणी शिवदूती च पूर्णगिरिश्च सप्तमी ॥
मेधः स्थाने मेष इति च पाठः ॥ ऋः ॥
ॠः क्रोधोऽतिथिशो वाणी वामनोऽगोऽथ
श्रीर्धृतिः ।
ऊर्द्धमुखी निशानाथः पद्ममाला विनष्टधीः ॥
शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता ।
एकदन्ताह्वयो माता हरिता मिथुनोदया ॥
माता स्थाने माया इति वा पाठः ।
कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी ।
ब्रह्मण्यमिव कीलाले पावको गन्धकर्षिणी ॥
मिवस्थाने मवेति वा पाठः । ऋः ॥
ऌः स्थाणुः श्रीधरः शुद्धो मेधा धूम्रो वको वियत् ।
देवयोनिर्दक्षगण्डो वहेशः कौन्तरुद्रकौ ।
वहेशस्थाने वाहग इति वा पाठः ।
विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा ।
चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ॥
शुचिस्मिता च नवमी कान्तिराषातकेश्वरः ।
चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी ॥
चित्ताकर्षिणीस्थाने चिन्ताकर्षिणी इति वा
पाठः । ऌः ॥
ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः ।
सूक्ष्मा कान्तिर्वामगण्डो रुद्रः कामोदरी सुरा ॥
शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो
वियत् ।
कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥
कामिनी विश्वषा कालो नित्या शुद्धः शुचिः
कृती ॥
विश्वषास्थाने विस्मया इति वा पाठः ।
सूर्य्यो धैर्य्याकर्षणी च एकाकी दनुजप्रसूः ॥ ॡः ॥
एकारो वास्तवः शक्तिर्झिण्टीशोष्ठौ भगं मरुत् ।
सूक्ष्मा भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः ॥
भूतस्थाने शृत इति वा पाठः ।
भयं ज्ञानं कृषा धीरा जङ्घा सर्व्वममुद्भवः ।
वह्निविष्णुर्भगवती कुण्डली मोहिनी वसः ॥
योषिदाधारशक्तिश्च त्रिकोणा ईशसं ज्ञकः ।
सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः ॥ एः ॥
ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी
विभुः ।
दक्षा दामोदरः प्रज्ञोऽधरो विकृतमुख्यपि ॥
क्षमात्मको जगद्योनिः परः परनिबोधकृत् ।
ज्ञानामृता कपर्द्दी श्रीः पीठेशाग्निः समातृकः ॥
त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः ।
महेश्वरो द्वादशी च विमलश्च सरस्वती ।
कामकोटो वामजानुरंशुमान् विजया जटा ॥
॥ ऐः ॥
ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिःस्थिरा ।
सद्योजातो वासुदेवो गायत्त्री दीर्घजङ्घकः ॥
आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणी मुखी द्बिजः ।
उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः ॥
प्रणवांशो ब्रह्मसूत्रमजेशः सर्व्वमङ्गला ।
त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा ॥
त्रैलोक्यविजया प्रक्षा प्रीतिर्बीजादिकर्षिणी ॥
॥ ओः ॥
औकारः शक्तिको नाशस्तेजसो वामजङ्घकः ।
मनुबद्धग्रहेशश्च शङ्कुकर्णः सदाशिवः ॥
अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती ।
आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः
पयः ॥
अनन्ता ज्वालिनी व्योमा चतुर्दशी रतिप्रियः ।
नेत्रमात्माकर्षिणी च ज्वालामालिनिका भृगुः ॥
व्योमास्थाने रोमा इति वा पाठः । औः ॥
अङ्कारश्चक्षुषो दन्तो वटिका समगुह्यकः ।
प्रद्युम्नः श्रीमुखी प्रीतिर्बीजयोनिर्वृषध्वजः ॥
दन्तस्थाने दम्भ इति वा पाठः ।
परं शशी प्रमाणीशः सोमबिन्दुः कलानिधिः ।
अक्रूरश्चेतना नागपूर्णा दुःखहरः शिवः ॥
शिरः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः ।
पूर्णिमा रेवती शुद्धः कन्या चरवियद्रविः ॥
अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी ।
केदारो रात्रिनाशश्च कुब्जिका चैव बुद्वुदः ॥
॥ अं ॥
अः कण्ठको महासेनः कला पूर्णामृता हरिः
इच्छा भद्रा गणेशश्च रतिर्व्विद्यामुखी सुखम्
द्बिबिन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः ।
द्बिजिह्वः कुण्डलं वक्त्रः सर्गः शक्तिर्निशाकरः ॥
सुन्दरी सुयशानन्ता गणनाथो महेश्वरः ॥ अः ॥
कः क्रोधीशो महाकाली कामदेवः प्रकाशकः ।
कपाली तेजसः शान्तिर्वासुदेवो जयानलः ॥
चक्री प्रजापतिः सृष्टिर्दक्षस्कन्धो विशाम्पतिः ।
अनन्तः पार्थिवो बिन्दुस्तापिनी परमात्मकः ॥
दक्षस्कन्धस्थाने दक्षकक्षौ इति वा पाठः ।
वर्गाद्यश्च मुखी ब्रह्मा सखाद्योऽम्भः शिवो
जलम् ।
माहेश्वरी तुला पुष्पा मङ्गलश्चरणं करः ॥
नित्या कामेश्वरी मुख्यः कामरूपो गजेन्द्रकः ।
श्रीपुरं रमणो रङ्गः कुसुमा परमात्मकः ॥ कः ॥
खः प्रचण्डः कामरूपी ऋद्धिर्व्वह्रिः सरस्वर्त
आकाशमिन्द्रियं दुर्गा चण्डीशस्तापिनी गुरुः ॥
शिखण्डी दन्तजातीशः कफोणिर्गरुतो यदि ।
शून्यं कपाली कल्याणी सूर्पकर्णोऽजरामरः ॥
शुभ्राग्नेर्या चण्डलिङ्गो जनाव्याङ्गारखड्गकौ ॥
॥ खः ॥
पृष्ठ ४/२८३
गो गौरी गौरवो गङ्गा गणेशो गोकुलेश्वरः ।
शार्ङ्गी पञ्चान्तको गाथा गन्धर्व्वः सर्व्वगः
स्मृतिः ॥
सर्व्वसिद्धिः प्रभा धूम्रा द्विजाख्यः शिवदर्शनः ।
विश्वात्मा गौः पृथग्रूपा बालबद्धस्त्रिलोचनः ॥
गीतं सरस्वती विद्या भोगिनी नन्दनो धरा ।
भोगवती च हृदयं ज्ञानं जालन्धरो लवः ॥
लवस्थाने नर इति वा पाठः । गः ॥
घः खड्गी घुर्घुरो घण्टी घण्टीशस्त्रिपुरा-
न्तकः ।
वायुः शिवोत्तमः सत्या किङ्किणी घोरनायकः ॥
मरीचिर्व्वरुणो मेधा कालरूपी च दाम्भिकः ।
लम्बोदरा ज्वालमूलं नन्देशो हननं ध्वनिः ।
त्रैलोक्यविद्या संहर्त्ता कामाख्यमनघामयः ॥ धः ॥
ङः शङ्खी भैरवश्चण्डो विन्दूत्तंसः शिशुप्रियः ।
एकरुद्रो दक्षनखः खर्परो विषयस्पृहा ॥
कान्तिः श्वेताह्वयो धीरो द्बिजात्मा ज्बालिनी
वियत् ।
मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥
एकनेत्रो महानन्दो दुर्द्धरश्चन्द्रमा यतिः ।
शिवयोषा नीलकण्ठः कामेशी च मयांशुकौ ॥
॥ ङः ॥
चः पुष्करो हली वाणी चात्मशक्तिः सुदर्शनः ।
चर्म्ममुण्डधरो भूत्वा महिषाचारसम्बिनी ॥
भूत्वास्थाने भौम इति च पाठः ।
एकरूपो रुचिः कूर्म्मश्चामुण्डा दीर्घवालुकः ।
वामबाहुर्मलमाया चतुर्मूर्त्तिस्वरूपिणी ॥
दयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः ।
चन्दनं चन्द्रमा दवश्चे तनो वृश्चिको बुधः ॥
देवी केटमुखेच्छात्मा कौमारपूर्व्वफल्गुनी ।
अनङ्गमेखला वायुर्मेदिनी च मूलावती ॥ चः ॥
छश्छन्दनं सुषुम्ना च प पुः पशुपतिर्मृतिः ।
निर्म्मलं तरलं वह्निर्भूतमात्रा विलासिनी ॥
एकनेत्रश्च वृषली द्बिशिरा वामकुर्परः ।
गोकर्णा लाङ्गली वामकाममत्ता सदाशिवः ॥
माता निशाचरः पायुर्व्विक्षतः स्थितिशब्दकः ॥
॥ छः ॥
जः शवो वानरः शूली भोगदा विजया स्थिरा ।
ललदेवो जयो जेता धातकी सुमुखी विभुः ॥
लम्बोदरी स्मृतिः शाखा सुप्रभा कर्त्तृका धरा ।
दीर्घबाहू रुचिर्हंसो नन्दी तेजाः सुराधिपः ॥
जवनो वेगितो वामो मानवाक्षः सदात्मकः ।
हृन्मारुतेश्वरो वेगी चामोदा मदविह्वलः ॥ जः ॥
झो झङ्कारी गुहो झष्झावायुः सत्यः षडुन्नतः ।
अजेशो द्राविणी नादः पाशी जिह्वा जलं
स्थितिः ॥
विराजेन्द्रो धनुर्हस्तः कर्कशो नादजः कुजः ।
दीर्घबाहुबलो रूपमाकन्दितः सुचञ्चलः ॥
दुर्मुखो नष्ट आत्मा वान् विकटा कुचमण्डलः ।
कलहंसप्रिया वामा अङ्गुलीमध्यपर्व्वकः ।
दक्षहासाट्टहासश्च पाथात्मा व्यञ्जनः स्वरः ॥
॥ झः ॥
ञकारो वोधनी विश्वा कण्डली मखदो वियत् ।
कौमारी नागविज्ञानी सव्याङ्गुलनखरो वकः ॥
कण्डलीस्थाने कुण्डली मखदस्थाने सुखद इति
वा पाठः ।
सर्व्वेशचूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः ।
धर्म्मैकपादौ सुमुखौ विरजा चन्दनेश्वरी ॥
बुद्धिस्थाने सिद्धिः स्वर्गस्थाने सर्ग इति वा
पाठः ।
गायनः पुष्पधन्वा च रागात्मा च वरा-
क्षिणी ॥ ञः ॥
टष्टङ्कारः कपाली च सोमवाः खेचरी ध्वनिः ।
मुकुन्दो विनदा पृथ्वी वैष्णवी वारुणी नवः ॥
सोमवा स्थाने सोमेश इति क्वचित् पाठः ।
दक्षाङ्गकार्द्धचन्द्रश्च जरा भूतिः पुनर्भवः ।
बृहस्पतिर्धनुश्चित्रा प्रमोदा विमला कटिः ।
राजा गिरिर्म्महाधनुर्घ्नानात्मा सुमुखो
मरुत् ॥ टः ॥
ठः शून्यो मञ्जरी बीजः पाणिनी लाङ्गली
क्षया ।
वनजो नन्दनो जिह्वा सुनञ्जघूर्णकः सुधा ॥
वर्त्तुलः कुण्डलो वह्रिरमृतं चन्द्रमण्डलः ।
दक्षजानूरुभावश्च देवभक्ष्यो बृहद्धनिः ॥
एकपादो विभूतिश्च ललाटं सर्व्वमित्रकः ।
वृषघ्नो नलिनी विष्णुर्म्महेशो ग्रामणीः
शशी ॥ ठः ॥
डः स्मृतिर्द्दारुको नन्दिरूपिणी योगिनी
प्रियः ।
कामारी शङ्करस्त्राशस्त्रिवक्रो नदको ध्वनिः ॥
दुरूहो जटिली भीमा द्विजिह्वः पृथिवी सती ।
कोरगिरिः क्षमा कान्तिर्नाभिः स्वाती च
लोचनम् ॥
जटिलीस्थाने जटिल इति कान्तिस्थाने शान्ति-
रिति वा पाठः ॥ डः ॥
ढो ढक्का निर्णयः पूर्व्वो यज्ञेशादनदेश्वरः ।
अर्द्धनारीश्वरस्तोयमीश्वरी त्रिशिखी नवः ॥
यज्ञेशादनदेश्वर इत्यत्र यज्ञेशो धनदेश्वर
इत्यपि पाठः ।
दक्षपादाङ्गुलेर्मूलं सिद्धिदण्डो विनायकः ।
प्रहासा त्रिवेरा ऋद्धिनिर्गुणो निधनो ध्वनिः ॥
प्रहासा स्थाने प्रहास इति वा पाठः ।
विघ्नेशः पालिनी त्वक्कधारिणी क्रोडपुच्छकः ।
एलापुरं त्वगात्मा च विशाखा श्रीर्म्मनो रतिः ॥
तक्कस्थाने त्वक्च इति वा पाठः ॥ ढः ॥
णो निर्गुणं रतिर्ज्ञानं जम्भनः पक्षिवाहनः ।
जया शम्भो नरकजित् निष्कला योगिनीप्रियः ॥
द्विमुखं कोटवी श्रोत्रं समृद्धिर्बोधनो मता ।
त्रिनेत्रो मानुषी व्योमदक्षपादाङ्गुलेर्मुखम् ॥
माधवः शङ्खिनी वीरो नारायणश्च निर्णयः ॥
मुखस्थाने नखं इति वा पाठः ॥ णः ॥
तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा ।
वामस्फिक्वामकट्यौ च कामिनी मध्य-
कर्णकः ॥
हरिस्थाने हविः इति वा पाठः ।
आषाढी तण्डतुस्नश्च कामिका पृष्ठपुच्छकः ।
रत्नकश्च श्याममुखी वाराही मकरोऽरुणा ॥
आषाढीतण्डतुस्नश्चस्थाने आषान्तढान्तक्षुद्रश्च
इति रत्नकश्चस्थाने रत्नकण्ठ इति वा पाठः ।
सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः ।
गन्धो विश्वामरुच्छत्रश्चानुराधा च सौरकः ॥
बुद्धस्थाने वृद्ध इति सौरकस्थाने सैविक इति वा
पाठः ।
जयन्ति पुलको भ्रान्तिरनङ्गमदनातुरा ॥ तः ॥
थः स्थिरामी महाग्रन्थिर्ग्रन्थिग्राहो भयानकः ।
शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥
कृष्णो बुद्धिर्व्विकर्म्मा च दक्षनाशाधिपोऽमरः ।
वरदा भोगदा केशो वामजानू रसोऽनलः ॥
कृष्णो बुद्धिर्विकर्म्मा स्थाने कृप्तो वह्रिर्व्विकर्णा
इति वा पाठः ।
लोलौजज्जयिनी गुह्यः शरच्चन्द्रो विदारकः ॥
लोलौ इत्यादिस्थाने लोलोज्जयिनीपूर्गुह्यशर-
च्चन्द्रदिवाकरौ इति वा पाठः । थः ॥
दोऽद्रीशो धातकिर्धाता दाता दलं कलत्रकम् ।
दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा ॥
दाता दलं स्थाने दानादनु इति वा पाठः ।
सुषुम्ना योगिनी सद्यः कुण्डलो वामगुल्फकः ।
कात्यायनी शिवा दुर्गा लङ्घना नात्रि
कण्डकी ॥
लङ्घनास्थाने सङ्घना कण्डकीस्थाने कण्टकी
इति वा पाठः ।
स्वस्तिकः कुटिला रूपः कृष्णश्चोमाजितेन्द्रियः ।
धर्म्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला ॥
धर्म्महृत्स्थाने घर्म्मकृत् बहुस्थाने वह इति वा
पाठः ।
हरिद्रा पुरमत्रौ च दक्षपाणिस्त्रिरेखकः ॥ दः ॥
धो धनार्थो रुचिः स्थाणुः शाश्वतो योगिनी-
प्रियः ।
मीनेशः शङ्खिनी तोयं नागेशो विश्वपावनी ॥
धनार्थस्थाने धनाख्य इति वा पाठः ।
धिषणा धरणा चिन्ता नेत्रयुग्मं प्रियो मतिः ।
पीतवासा त्रिवर्णा च धाता धर्म्मप्लवङ्गमः ॥
धरणाचिन्तास्थाने धरणी चित्रा इति वा
पाठः ।
सन्दर्शो मोहनो लज्जा वज्रतुण्डा धरं धरा ।
वामपादाङ्गुलेर्मूलं ज्येष्ठा सुरपुरं भवः ।
स्पर्शात्मा दीर्घजङ्घा च धनेशो धनसञ्चयः ॥ धः ॥
नो गर्ज्जिनी क्षमा सौरिर्व्वारुणी विश्वपावनी ।
मेषश्च सविता नेत्रं दन्तुरो नारदोऽञ्जनः ॥
वारुणीस्थाने वरुणा इति वा पाठः ।
ऊर्द्ध्वचामी द्विरण्डश्च वामपादाङ्गुलेर्मुखम् ।
वैनतेयस्तुतिर्वर्त्म तरणिर्बालिरागमः ॥
वामनो ज्वालिनी दीर्घो निरीहः सुगतिर्व्वियत् ।
शब्दात्मा दीर्घघोणा च हस्तिनापुरमेचकौ ।
गिरिनायकनीलौ च शिवो नादिर्म्महा-
मतिः ॥ नः ॥
पृष्ठ ४/२८४
पः पूरप्रियता तीक्ष्णा लोहितः पञ्चमो रमा ।
गुह्यकर्त्ता निधिः शेषः कालरात्रिः सुवाहिता ॥
तपनः पालनः पाता पद्मरेणुर्न्निरञ्जनः ॥
सावित्री पातिनी पानं वीरतत्त्वो धनुर्द्धरः ॥
पालनस्थाने पावन इति तत्त्वस्थाने तन्त्र इति
वा पाठः ।
दक्षपार्श्वश्च सेनानी मरीचिः पवनः शनिः ।
उड्डीशं जयनी कुम्भोऽलसं रेखा च मोहकः ॥
कुम्भस्याने कान्ता इति रेखास्थाने रेषा इति
वा पाठः ।
मूला द्बितीयमिन्द्राणी लोकाक्षी मन
आत्मनः ॥
आत्मनः स्थाने आत्मक इति वा पाठः । पः ॥
फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः ।
जया पादः शिखा रौद्री फेत्कारः शाखिनी
प्रियः ॥
उमा विहङ्गमः कालकुब्जिनीप्रियपावकौ ।
प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥
फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः ।
निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥
व्यक्तास्थाते झञ्झा इति प्रयागस्थाने प्रयाण
इति वा पाठः । फः ॥
बो वनी भूधरो मार्गो घर्घरी लोचनप्रियः ।
प्रचेताः कलसः पक्षी स्थलगण्डः कपर्द्दिनी ॥
पृष्ठवंशो भया मातुः शिखिवाहो युगन्धरः ।
सुखबिन्दुर्ब्बली घण्टा योद्धा त्रिलोचनप्रियः ॥
सुखबिन्दुस्थाने मुखबिन्दुरिति वा पाठः ।
क्लेदिनी तापिता भूमिः सुपनिन्द्रवलिप्रियः ।
सुरभिर्मुखविष्णुश्च संहारो वसुधाधिपः ॥
सुपनिन्द्रस्थाने सुगन्धिश्चेति वा पाठः ।
षष्ठी पुरञ्च पेटा च मोदको गगनं प्रति ।
पूर्ब्बाषाढामध्यलिङ्गौ शनिः कुम्भतृतीयकौ ॥ बः ॥
भः क्लिन्ना भ्रमरो भीमो विश्वमूर्त्तिर्निशातवम् ।
द्विरण्डो भूषणो मूलं यज्ञसूत्रस्य वाचकः ॥
निशातवस्थाने निशाभयं इति वा पाठः ।
नक्षत्रं भ्रमणा दीप्तिर्वयो भूमिः पयो नभः ।
नाभिभद्रं भहाबाहुर्विश्वमूर्त्तिर्विताण्डकः ॥
वयःस्थाने भय इति विताण्डकस्थाने विमूर्त्तक
इति वा पाठः ।
प्राणात्मा तापिनी वज्रा विश्वरूपी च चन्द्रिका ।
भीमसेनः सुधामेनः सुखो मायापुरं हरः ॥
वज्रस्थाने रुद्रा इति सुखस्थाने मुख इति वा
पाठः । भः ॥
मः काली क्लेशितः कालो महाकालो महा-
न्तकः ।
वैकुण्ठो वसुधा चन्द्री रविः पुरुषराजकः ॥
वसुधास्याने वस्तुदा इति वा पाठः ।
कालभद्रो जया मेधा विश्वदा दीप्तसंज्ञकः ।
जठरञ्च भ्रमानानं लक्ष्मीमातोग्रबन्धनौ ॥
दीप्तस्थाने दीप्र इति वा पाठः ।
विषिं शिवो महावीरः शशिप्रभां जनेश्वरः ।
प्रमत्तः प्रियसू रुद्रः सर्व्वाङ्गो वह्निमण्डलम् ॥
भातङ्गमालिनो बिन्दुः श्रवणाभरथो वियत् ॥
रथस्थाने मख इति वा पाठः । मः ॥
यो वाणी वसुधा वायुर्विकृतिः पुरुषोत्तमः ।
युगान्तः श्वसनः शीघ्रो धूमार्च्चिः प्राणिसेवकः ॥
युगान्तस्थाने युगाभ इति वा पाठः ।
शङ्खा भ्रमो जटी लोला वायुवेगी यशस्करी ।
सङ्कर्षणः क्षपा वालो हृदयं कपिला प्रभा ॥
आग्नेयो व्यापकास्त्यागो होमो यानं प्रमा
सुखम् ।
चण्डः सर्व्वेश्वरी घूमश्चामुण्डा सुमुखेश्वरी ॥
प्रमास्थाने प्रभा इति वा पाठः ।
त्वगात्मा मलयो माता हंसिनी भृङ्गिनायकः ।
तेनमः शोषको मीनो धनिष्ठानङ्गवेदिनी ॥
त्वगात्मास्थाने विगात्मा इति तेनमस्थाने येमन
इति वा पाठः ।
मेष्ठः सोमः पक्तिनामा पापहा प्राणसंज्ञकः ॥
मेष्ठस्थाने सेष्ट इति वा पाठः । यः ।
रो रक्तः क्रोधिनी रेफः पावकस्त्वोजसो मतः ।
प्रकाशा दर्शेनो दीपो रतकृष्णा परं बली ॥
स्त्वोजसस्थाने न्तेजन इति रतकृष्णास्थाने रक्त-
कृष्ण इति वा पाठः ।
भुजङ्गेशो मतिः सूर्य्यो धातू रक्तः प्रकाशकः ।
व्यापको रेवती दासं कुक्ष्यंशो वह्निमण्डलम् ॥
दासस्थाने दानमिति कुक्ष्यंशस्थाने दक्षांश
इति वा पाठः ।
उग्ररेखा स्थूलदण्डो वेदकण्ठपला पुरा ।
प्रकृतिः सुगलो ब्रह्मशन्दश्च गायको धनम् ॥
वेदकण्ठपलास्थाने वेदकश्चपला इति वा पाठः ।
श्रीकण्ठ उष्मा हृदयं मुण्डी त्रिपुरसुन्दरी ।
सविन्दुर्योनिजो ज्वाला श्रीशैलो विश्वतोमुखी ॥
श्रीशैलस्थाने श्रीशोण इति वा पाठः । रः ।
लश्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः ।
वलानुजः पिणाकीशो व्यापको मांससंज्ञकः ॥
माधवस्थाने माधवी इति वा पाठः ।
खड्गी नादोमृतं देवी लवणं वारुणी पतिः ।
शिखा वाणी क्रिया माता भामिनी कामिनी
प्रिया ॥
मृतस्थाने मृडमिति लवणस्थाने मरणमिति वा
पाठः ।
ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः ।
विश्मात्ममन्त्रौ बली चेतो मेरुर्गिरिः कला रसः ॥
मन्त्रस्थाने मन्द्र इति कलास्थाने कणा इति वा
पाठः । लः ।
वो वालो वारुणी सूक्ष्मा वरुणो मेदसंज्ञकः ।
खड्गीशो ज्वालिनी वङ्कः कलसध्वनिवाचकः ॥
वङ्कस्थाने रङ्क इति कलसध्वनिस्थाने कलसंरवि
इति वा पाठः ।
उत्कारीशस्तु ना वीतो वज्रा स्फिक् सागरः
शुचिः ।
त्रिधातुः शङ्करः श्रेष्ठो विशेषो यमसादनम् ॥ वः ॥
शः सव्यश्च कामरूपी कामरूपो महामतिः ।
सौख्यनामा कुमारोऽस्थि श्रीकण्ठो वृषकेतनः ॥
वृषघ्नः शयनं शान्ता सुभगा विस्फुलिङ्गिनी ।
मृत्युर्देवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी ॥
बाहुर्हंसो वियद्बक्त्रं हृदनङ्गाङ्कुशः खलः ।
वामोरुः पुण्डरीकात्मा कान्तिः कल्याणवाचकः ।
हंसश्चाने हिंसा इति वा पाठः । शः ॥
षः श्वेतो वासुदेवश्च पीता प्रज्ञा विनायकः ।
परमेष्ठी वामबाहुः श्रेष्ठो गर्भविमोचनः ॥
पीतास्थाने प्रीता इति प्रज्ञास्थाने श्रद्धा इति
वा पाठः ।
लम्बोदरो यमौजेशः कामधुक् कामधूमकः ।
सुश्रीरुष्मा वृषो लज्जा मरुद्भक्ष्यः प्रियः शिवः ।
कामधूमकस्थाने कालधूमक इति वा पाठः ।
सूर्य्यात्मा जठरः कोषो मत्ता वक्षोविदारिणी ।
कलकण्ठो मध्यभिन्ना बुद्धात्मा मलपूः शिवः ॥ षः ॥
सो हंसः सुयशा विष्णुर्भृग्वीशश्चन्द्रसंज्ञकः ।
जगद्वीजं शक्तिनामा मोहं वेशवती भृगुः ॥
सुयशास्थाने सुजन इति मोहस्थाने सोऽहं इति
वा पाठः ।
प्रकृतिरीश्वरः शुद्धो प्रभा श्वेता कुलोज्ज्वलः ।
दक्षपादो मृतं ब्राह्मी परमात्मा परोऽक्षरः ॥
सुरूपा च गुणेशो गौः कलकण्ठो वृकोदरी ।
प्राणाद्याश्च पुरादेवी लक्ष्मीः सोमो हिरण्यपुः ॥
दुर्गोत्तारिणी सन्मोहाज्जीवो मूर्त्तिर्मनोहरः ॥
दुर्गोत्तारिणिस्थाने दुर्गोत्तारिणी इति सन्मो-
हात्स्थाने सन्मोहा इति मनोहरख्याने मनोयव
इति वा पाठः । सः ।
हः शिवो गगनं हंसो नागलोकोऽम्बिका-
पतिः ।
नकुलीशो जगत्प्राणः प्राणेशः कपिला मलः ॥
मलस्थाने मत इति वा पाठः ।
परमात्मात्मजो जीवो यवाकः शान्तिदोऽङ्गनः ।
मृगो भयो रुणास्थाणुः क्रुटकूपविरावणः ॥
यवाकस्थाने वराक इति अङ्गनस्थाने अङ्गुल
इति क्रुटकूपविरावणस्थाने कूटकोपरिवारण
इति वा पाठः ।
लक्ष्मीर्मविहरः शम्भुः प्राणशङ्किर्ललाटजः ।
स्वकोपवारणः शूली चैतन्यं पादपूरणः ॥
मविहरस्थाने हरिहर इति स्वकोपस्थाने
सकोप इति वा पाठः ।
महालक्ष्मीः परं नादो मेघनादो हरिर्म्मतः ।
विन्दुर्दुर्गा प्रिया देवी मेघश्यामेश्वरः पुमान् ॥
दक्षपादः सदाशम्भुः शाखोटः सोममण्डलम् ॥ हः
ळः पृथ्वी विमला मोघोऽनन्तो हव्यवहा सिता ।
व्यापिनी शिवदा केतुजगत्सारतरं हठः ॥
ग्लौर्मृडानी च वेदार्थः सारो नारायणः स्वयम् ।
जठरो नकुलिः पीता शिवेशोऽनङ्गमालिनी ॥ ळः ॥
क्षः कोपस्तुम्बुकः कालो रूक्षः संवर्त्तकः परः ।
नृसिंहो विद्युता माया महातेजा युगान्तकः ॥
स्तुम्बुकस्थाने स्तुघुक इति रूक्षस्थाने व्यक्ष्यमिति
परस्थाने पय इति वा पाठः ।
परात्मा क्रोधसं हारौ वलान्तो मेरुवाचकः ।
सर्व्वाङ्गः सागरः कामः संयोगान्त्यस्त्रिपूरकः ॥
पृष्ठ ४/२८५
वलान्तस्थाने नलान्त इति सर्व्वाङ्गस्थाने सर्व्वाग
इति वा पाठः ।
क्षेत्रपालो महाक्षोभो मातृकान्तानलक्षयः ।
मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः ।
छायापुत्त्रश्च संघातो मलयः श्रीर्ललाटकः ॥” क्षः ॥
इति नन्दनभट्टाचार्य्यविरचितं वर्णाभिधानं
समाप्तम् ॥

वर्णकं, क्ली, (वर्णयतीति । वर्ण + ण्वुल् ।) हरि-

तालम् । इति रत्नमाला ॥ गात्रानुलेपनयोग्यं
पिष्टं घृष्टं वा सुगन्धिद्रव्यम् । इत्यमरः ॥ चन्द-
नम् । इति शब्दरत्नावली ॥

वर्णकः, पुं, क्ली, (वर्ण + स्वार्थे संज्ञायां वा कन् ।)

विलेपनम् । चन्दनम् । इति मेदिनी । के,
१५२ ॥ (यथा, महाभारते । १३ । १११ । १०७ ।
“वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ।
छुछुन्दरित्वमाप्नोति राजन् ! लोभपरायणः ॥”)

वर्णकः, पुं, स्त्री, (वर्ण्यते रज्यतेऽनेनेति । वर्ण +

घञ् । स्वार्थे कन् ।) हिङ्गुलहरितालकाचनीली-
कादिः । इत्यमरभरतौ ॥ (यथा, आर्य्यासप्त-
शत्याम् । १८९ ।
“कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं
मुग्धः ।
क्रो भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥”)

वर्णकः, पुं, (वर्णयति नृत्यादीन् विस्तारयतीति ।

वर्ण + ण्वुल् ।) चारणः । इति मेदिनी । के,
५२ । मण्डलम् । इति शब्दरत्नावली ॥

वर्णकविः, पुं, कुबेरपुत्त्रः । इति त्रिकाण्ड-

शेषः ॥

वर्णकूपिका, स्त्री, (वर्णानां कूपिकेव ।) मस्या-

धारः । यथा, --
“मसीधानी मसिमणिर्मेलान्धुर्वर्णकूपिका ॥”
इति त्रिकाण्डशेषः ॥

वर्णचारकः, त्रि, (वर्णान् नीलादीन् चारयति

विस्तारयतीति । चर + णिच् + ण्वुल् ।) चित्र-
कारः । इति शब्दमाला ॥

वर्णज्येष्ठः, पुं, (वर्णेषु चतुर्षु मध्ये ज्येष्ठः प्रथमोत्-

पन्नात् गुणोत्कृष्टत्वाच्च ।) ब्राह्मणः । इति
त्रिकाण्डशेषः ॥

वर्णज्येष्ठः, त्रि, (वर्णेन ज्योतिषोक्तपारिभाषिक-

वर्णेन ज्येष्ठः श्रेष्ठः ।) स्ववर्णापेक्षोत्तमवर्णः ।
पारिभाषिकहीनवर्णकर्त्तृकपारिभाषिकवर्ण-
ज्येष्ठकन्याविवाहनिषेधो यथा, --
“मीनकर्कटवृश्चिकविप्राः
सिंहतुलाधनुः क्षत्त्रिय उक्तः ।
कुम्भनरद्वयमेषविशः स्यु-
र्म्मकरवृषस्त्री कथितावरजातिः ॥
वर्णज्येष्ठा च या नारी वर्णहीनश्च यः पुमान् ।
तयोर्व्विवाहे मृत्युः स्यात् षण्मासान्नात्र
संशयः ॥”
इति ज्योतिस्तत्त्वे वर्णजोटनम् ॥

वर्णतूलिः, स्त्री, (वर्णानां तूलिरिव ।) लेखनी ।

इति शब्दरत्नावली ॥

वर्णतूलिका, स्त्री, (वर्णानां तूलिकेव ।) लेखनी ।

इति हारावली । २१२ ॥

वर्णतूली, स्त्री, (वर्णानां तूलीव ।) लेखनी । इति

त्रिकाण्डशेषः ॥

वर्णदं, क्ली, (वर्णं ददातीति । दा + “आतो-

ऽनुसर्गे कः ।” ३ । २ । ३ । इति कः ।) काली-
यकम् । इति जटाधरः ॥ वर्णदातरि, त्रि ॥

वर्णदात्री, स्त्री, (वर्णं ददातीति । दा + तृच् +

ङीप् ।) हरिद्रा । इति राजनिर्घण्टः ॥ वर्ण-
दातरि, त्रि ॥

वर्णदूतः, पुं, (वर्णा एव दूता यत्र ।) लिपिः ।

तत्पर्य्यायः । लेखः २ वाचिकहारकः ३ स्वस्ति-
मुखः ४ । इति त्रिकाण्डशेषः ॥

वर्णधर्म्मः, पुं, क्ली, (वर्णानां ब्राह्मणादीनां धर्म्मः ।)

ब्राह्मणक्षत्त्रियवैश्यशूद्राणां कर्त्तव्यं कर्म्म । तद्-
यथा, --
“यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ।
अध्यापनं चाध्ययनं षट्कर्म्माणि द्विजोत्तमाः ॥
दानमध्ययनं यज्ञो धर्म्मं क्षत्त्रियवैश्ययोः ।
दण्डो युद्धं क्षत्त्रियस्य कृषिर्वैश्यस्य शस्यते ॥
शुश्रूषैव द्विजातीनां शूद्राणां वर्णसाधनम् ।
कारुकर्म्म तथाजीवः पाकयज्ञोऽपि धर्म्मतः ॥
क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्ज्जवं चानसूया च तीर्थानुसरणं तथा ॥
सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्च्चनं पूजा ब्राह्मणानां विशेषतः ॥
अहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
समासिकमिमं धर्म्मं चातुर्व्वर्णेऽब्रवीन्मुनिः ॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रिया-
वताम् ।
स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥
वैश्यानां मारुतं स्थानं स्वधर्म्ममनुवर्त्तताम् ।
गान्धर्व्वं शूद्रजातीनां परिचारे तु वर्त्तताम् ॥”
इति कौर्म्मे २ अध्यायः ॥ * ॥
अपि च ।
मार्कण्डेय उवाच ।
“हारीतस्तानुवाचाथ तैरेवं चोदितो मुनिः ।
शृण्वन्तु मुनयः सर्व्वे धर्म्मान् वक्ष्यामि शाश्व-
तान् ॥
वर्णानामाश्रमाणाञ्च योगशास्त्रञ्च सत्तमाः ।
यज्ज्ञात्वा मुनयो नित्यं मुच्यते जन्मबन्धनात् ॥
ब्राह्मण्यां ब्राह्मणेनैव उत्पन्नो ब्राह्मणः स्मृतः ।
तस्य धर्म्मं प्रवक्ष्यामि तं योग्यं देशमेव च ॥
कृष्णसारो मृगो यत्र स्वभावात्तु प्रवर्त्तते ।
तस्मिन् देशे वसन् धर्म्मं कुरुते ब्राह्मणोत्तमः ॥
अध्यापनं चाध्ययनं यजनं याजनं तथा ।
दानं पतिग्रहश्चैव कर्म्मषट्कमिहोच्यते ॥
अध्यापनञ्च त्रिविधं धर्म्मार्थं चात्मकारणम् ।
शुश्रूषाकारणञ्चेति त्रिविधं परिकीर्त्तितम् ॥
नैषामन्यतमो वापि दृश्यते यत्र मानवे ।
तत्र विद्या न दातव्या पुरुषेण हितैषिणा ॥
योग्यानध्यापयेच्छिष्यान् यज्ञानपि च योजयेत् ।
विदितान् प्रतिग्रहानिच्छेद्गृहधर्म्मप्रसिद्धये ॥
वेदमेवाभ्यसेन्नित्यं शुचौ देशे समाहितः ।
यजेद्यज्ञं यथाशक्त्या दद्याद्बित्तानुसारतः ॥
नित्यं नैमित्तिकं धर्म्मं कर्म्म कुर्य्यात् प्रयत्नतः ।
गुरुशुश्रूषणञ्चैव यथान्यायमतन्द्रितः ॥
सार्य प्रातरुपासीत विधिनाग्निं द्विजोत्तमः ।
कृतस्नानः प्रकुर्व्वीत वैश्वदेवं दिने दिने ॥
अतिथिञ्चागतं भक्त्या पूजयेच्छक्तितो गृही ।
अन्यानप्यागतान् विप्रान् पूजयेदविरोधतः ॥
स्वदारनिरतो नित्यं परदारविवर्ज्जितः ।
सत्यवादी जितक्रोधः स्वधर्म्मनिरतो भवेत् ॥
अकर्म्मणि च संप्राप्ते प्रमादे नैव रोचयेत् ।
प्रियां हितां वदेद्वाचं परलोकाविरोधिनीम् ॥
एष धर्म्मः समुद्दिष्टो ब्राह्मणस्य समासतः ।
धर्म्ममेवन्तु यः कुर्य्यात् स याति ब्रह्मणः पदम् ॥
हारीत उवाच ।
क्षत्त्रादीनां प्रवक्ष्यामि यथावदनुपूर्ब्बशः ।
येन येन प्रवर्त्तन्ते विधिना क्षत्त्रियादयः ॥
राजा च क्षत्त्रियश्चैव प्रजा धर्म्मेण पालयेत् ।
कुर्य्यादध्ययनं सम्यक् युगयुक्तो यथाविधि ॥
दद्याद्दानं द्बिजाग्रेभ्यो धर्म्मबुद्धिसमन्वितः ।
देवब्राह्मणभक्तश्च पितृकार्य्यपरस्तथा ॥
धर्म्मेण वै जयाकाङ्क्षी अधर्म्मस्य विवर्जयेत् ।
उत्तमां गतिमाप्नोति क्षत्त्रियो ह्येवमाचरन् ॥ * ॥
गोरक्षं कृषिबाणिज्यं कुर्य्याद्बैश्यो यथाविधि ।
दानं धर्म्मं यथाशक्त्या द्बिजशुश्रूषणं तथा ॥
लोभदम्भविनिर्म्मुक्तः सत्यवागनसूयकः ।
स्वदारनिरतो दान्तः परदारविवर्ज्जितः ॥
धनैर्विप्रान् समभ्यर्च्च्य यज्ञकाले त्वयाचितः ।
अप्रमत्तः स्वधर्म्मेषु वर्त्तेत देहपातनात् ॥
यज्ञाध्ययनदानानि कुर्य्यान्नित्यमतन्द्रितः ।
पितृकार्य्यञ्च तत्काले नारसिंहार्च्चनं तथा ॥
एतद्वैश्यस्य कर्म्मोक्तं स्वधर्म्ममनुतिष्ठतः ।
एतदासेव्यमानस्तु मुक्तः स्यान्नात्र संशयः ॥ * ॥
वर्णत्रयस्य शुश्रूषां कुर्य्यात् शूद्रः प्रयत्नतः ।
दासवत् ब्राह्मणानान्तु विशेषेण समाचरेत् ॥
अयाचितः प्रदाता स्यात् कृषिं वृत्त्यर्थमाश्रयेत् ।
पाकयज्ञविधानेन यजेद्देवानतन्द्रितः ॥
शूद्राणां मासिकं कार्य्यं वपनं न्यायवर्त्तिनाम् ।
धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टभोजनम् ॥
स्वदारेषु रतिश्चैव परदारविवर्ज्जितः ।
पुराणश्रवणं विप्रान्नारसिंहस्य पूजनम् ॥
तथा विप्रनमस्कारस्तथा सत्रं दिने दिने ।
सत्यं सम्भाषणं चैव रागद्वेषविवर्ज्जनम् ॥
इत्थं कुर्व्वंस्तथा शूद्रो मनोवाक्कायकर्म्मभिः ।
स्थानमन्द्रमवाप्नोति त्यक्तपापः प्रपुण्यकृत् ॥”
इति नारसिंहे ५३ । ५४ अध्यायौ ॥ * ॥
अन्यच्च ।
मदालसोवाच ।
“दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधोदितः ।
धर्म्मो नान्यश्चतुर्थोऽस्ति धर्म्मस्तस्यापदं विना ॥
याजनाध्ययने यज्ञस्तथा पुत्त्र प्रतिग्रहः ।
पृष्ठ ४/२८६
एतत् सम्यक् समाख्यातं त्रितयं चास्य
जीविका ॥
दानमध्ययनं यज्ञः क्षत्त्रियस्याप्ययं त्रिधा ।
धर्म्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवश्च जीविका ॥
दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः ।
बाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका ॥
दानं यज्ञोऽथ शुश्रूषा द्बिजातीनां त्रिधा मया ।
व्याख्यातः शूद्रधर्म्मोऽपि जीविका कारुकर्म्मजा ॥
तद्वद्द्विजातिशुश्रूषा पोषणं क्रयविक्रयैः ।
वर्णधर्म्मास्त्विमे प्रोक्ताः श्रूयतामाश्रमास्त्रयः ॥”
इति मार्कण्डेयपूराणे मदालसानुशासनाध्यायः ॥
अपरञ्च ।
“ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिताः ।
ते सम्यगुपजीवेयुः षट्कर्म्माणि यथाक्रमम् ॥
अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश्चैव षट् कर्म्माण्यग्रजन्मनः
षण्णान्तु कर्म्मणामस्य त्रीणि कर्म्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥
त्रयो धर्म्मा निवर्त्तन्ते ब्राह्मणात् क्षत्त्रियं प्रति ।
अध्यापनं याजनञ्च तृतीयश्च प्रतिग्रहः ॥
वैश्यं प्रति तथैवैते निवर्त्तेरन्निति स्थितिः ।
न तौ प्रति हि तान् धर्म्मान् मनुराह प्रजा-
पतिः ॥
शस्त्रास्त्रभृत्त्वं क्षत्त्रस्य वणिक्पशुकृषिर्विशः ।
आजीवनार्थं धर्म्मस्तु दानमध्ययनं यजिः ॥
वेदाभ्यासो ब्राह्मणस्य क्षत्त्रियस्य च रक्षणम् ।
वार्त्ताकर्म्मैव वैश्यस्य विशिष्टानि स्वकर्म्मसु ॥
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्म्मणा ।
जीवेत् क्षत्त्रियधर्म्मेण स ह्यस्य प्रत्यनन्तरः ॥
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् ।
कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्षत्त्रियोऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।
भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥
इदन्तु वृत्तिवैकल्यात् त्यजतो धर्म्मनैपुणम् ।
विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्द्धनम् ॥
सर्व्वान्रसानपोहेत कृतान्नञ्च तिलः सह ।
अश्मनो लवणञ्चैव पशवो ये च मानुषाः ॥
सर्व्वञ्च तान्तवं रक्तं शाणक्षौमाविकानि च ।
अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्व्वशः ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥
आरण्यांश्च पशून् सर्व्वान् दंष्ट्रिणश्च वयांसि च ।
मद्यं नीलीञ्च लाक्षाञ्च सर्व्वांश्चैकशफांस्तथा ॥
काममुत्पाद्य कृष्यान्तु स्वयमेव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान् धर्म्मार्थमचिर-
स्थितान् ॥
भोजनाभ्यञ्जनाद्दानाद्यदन्यत् कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ॥
इतरेषान्तु पण्यानां विक्रयादिह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥
रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
कृतान्नञ्चाकृतान्नेन तिला ध्यान्येन तत्समाः ॥
जीवेदेतेन राजन्यः सर्व्वेणाप्यनयङ्गतः ।
न त्वेव ज्यायसीं वृत्तिमभिमन्येत कर्हिचित् ॥
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्म्मभिः ।
तं राजा निर्द्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥
वरं स्वधर्म्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्म्मेण जीवन् हि सद्यः पतति जातितः ॥
वैश्योऽजीवन् स्वधर्म्मेण शूद्रवृत्त्यापि वर्त्तयेत् ।
अनाचरन्नकार्य्याणि निवर्त्तेत च शक्तिमान् ॥
अशक्नुवंश्च शुश्रूषां शूद्रः कर्त्तुं द्विजन्मनाम् ।
पुत्त्रदारात्ययं प्राप्तो जीवेत कारुकर्म्मभिः ॥
वैकर्म्मभिः प्रचरितैः श्रुश्रूष्यन्ते द्बिजातयः ।
तानि कारुककर्म्माणि शिल्पानि विविधानिच ॥
वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्षितः सीदन्निमं धर्म्भं समाचरेत् ॥
सर्व्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयङ्गतः ।
पवित्रं दुष्यतीत्येतत् धर्म्मतो नोपपद्यते ॥
नाध्यापनाद्याजनाद्वा गर्हिताद्बा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥
जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः ।
आकाशमिव पङ्केन न स पापेन लिप्यते ॥
अजीगर्त्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥
श्वमांसमिच्छन्नार्त्तोऽत्तुं धर्म्माधर्म्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥
भरद्वाजः क्षुधार्त्तस्तु सपुत्त्रो विजने वने ।
बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥
क्षुधार्त्तश्चात्तुमभ्यागाद्बिश्वामित्रः श्वजाघनीम् ।
चण्डालहस्तादादाय धम्माधर्म्मविचक्षणः ॥
प्रतिग्रहाद्याजनाद्बा तथैवाध्यापनादपि ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥
जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तन्तु त्यागेन तपसैव च ॥
शिलोञ्छमप्याददीत विप्रो जीवन् यतस्ततः ।
प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥
सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः ।
याच्यः स्यात् स्नातकैर्व्विप्रैरदित्संस्त्यागमर्हति ॥
अकृतञ्च कृतात् क्षेत्राद्गौरजीविकमेव च ।
हिरण्यं धान्यमन्नञ्च पूर्ब्बं पूर्ब्बमदोषवत् ॥
सप्तवित्तागमा धर्म्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्म्मयोगश्च सत्प्रतिग्रह एव च ॥
विद्या शिल्पं भृतिः सेवा गोरक्षं विपणिः
कृषिः ।
धृतिर्भैक्षं कुसीदञ्च दश जीवनहेतवः ॥
ब्राह्मणः क्षत्त्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामन्तु खलु धर्म्मार्थं दद्यात् पापीयसेऽल्पि-
काम् ॥
चतुर्थमाददानोऽपि क्षत्त्रियो भागमापदि ।
प्रजा रक्षन् परं शक्त्या किल्विषात् प्रतिमुच्यते ॥
स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः ।
शस्त्रेण वैश्यान्रक्षित्वा धर्म्म्यमाहारयेद्बलिम् ॥
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणा-
वरम् ।
कर्म्मोपकरणाः शूद्राः कारबः शिल्पिनस्तथा ॥
शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्त्रमाराधयेद्यदि ।
धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविशेत् ॥
स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः ।
जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥
विप्रसेवैव शूद्रस्य विशिष्टं कर्म्म कीर्त्त्यते ।
यदतोऽन्यद्बिकुरुते तद्भवत्यस्य निष्फलम् ॥
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः ।
शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भृत्यानाञ्च परिग्रहम् ॥
उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च ।
पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥
न शूद्रे पातकं किञ्चित् न च संस्कारमर्हति ।
नास्याधिकारो धर्म्मेऽस्ति न धर्म्मात् प्रतिसेध-
नम् ॥
धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः ।
मन्त्रवर्ज्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥
यथा तथाहि सद्वृत्तमातिष्ठत्यनसूयकः ।
तथा तथेमञ्चामुञ्च लोकं प्राप्नोत्यनिन्दितः ॥
शक्तेनापि हि शूद्रेण न काय्यों धनसञ्चयः ।
शूद्रो हि धनमासाद्य ब्राह्मणानेव वाधते ॥
एते चतुर्णां वर्णानामापद्धर्म्माः प्रकीर्त्तिताः ।
यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥
एष धर्म्मविधिः कृत्स्नश्चातुर्व्वर्णस्य कीर्त्तितः ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥”
इति मानवे धर्म्मशास्त्रे भृगुप्रोक्तायां संहि-
तायां दशमोऽध्यायः ॥ * ॥ अन्यत् वर्णशब्दे
द्रष्टव्यम् ॥

वर्णनं, क्ली, (वर्ण स्तुतौ विस्तारे रञ्जनादौ +

ल्युट् ।) स्तवनम् । (यथा, भागवते । १० ।
७४ । ३० ।
“इत्थं निशम्य दमघोषसुतः स्वपीठा-
दुत्थाय कृष्णगुणवर्णनजातमन्युः ।
उत्क्षिप्य बाहुमिदमाह सदस्यमर्षी
संश्रावयन् भगवते परुषाण्यभीतः ॥”)
विस्तरणम् । शुक्लादिवर्णयोजनम् । दीपनम् ।
इति वर्णधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥

वर्णना, स्त्री, (वर्ण + णिच् + युच् । टाप् ।)

गुणकथनम् । तत्पर्य्यायः । इडा २ स्तवः ३
स्तोत्रम् ४ स्तुतिः ५ नुतिः ६ श्लाघा ७
प्रशंसा ८ अर्थवादः ९ । इति हेमचन्द्रः । २ ।
१६३ ॥ (यथा, कथासरित्सागरे । ३२ ।
१६६ ।
“विदग्धा अपि वर्ण्यन्ते विटवर्णवया स्त्रियः ॥”)

वर्णनीथं, त्रि, (वर्ण + कर्म्मणि अनीयर् ।)

वर्ण्यम् । वर्णितव्यम् । (यथा, साहित्यदर्पणे
६ परिच्छेदे ।
पृष्ठ ४/२८७
“वर्णनीया यथायोगं साङ्गोपाङ्गा अमी
इह ॥”)
वर्ण्याः पदार्था यथा, --
“अथ वर्ण्यानि कथ्यन्ते तानि यानि कवी-
श्वरैः ।
महाकाव्यप्रभृतिषु प्रबन्धेषु बवन्धिरे ॥
राजा राजबधूपुरोहितकुमारामात्यसेवाधिपाः
देशग्रामपुरीसरोऽब्धिसरिदुद्यानाद्र्यरण्या-
श्रमाः ।
मन्त्रो दूतरणप्रयाणमृगयाश्वेभर्त्विनेन्दूदया
वीहारो विरहः स्वयंवरसुरा पुष्पाम्बुखेला
रतम् ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसु-
मम् ॥ (स्तवार्हः । वर्णधात्वर्थदर्शनात् । यथा,
भागवते । ३ । २२ । ३७ ।
“एतत्ते आदिराजस्य मनोश्चरितमद्भुतम् ।
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥”)

वर्णपात्रं, क्ली, (वर्णस्य पात्रम् ।) चित्रकारस्य

नील्यादिरागस्याधारः । यथा, --
“मल्लिका वणपात्रं स्यात् तूलिका लेख्य-
कूर्च्चिका ॥”
इति शब्दमाला ॥

वर्णपुष्पकः, पुं, (वर्णवन्ति नानावर्णानि पुष्पाणि

यस्य । कप् ।) राजतरुणीपुष्पवृक्षः । इति
राजनिर्घण्टः ॥

वर्णपुष्पी, स्त्री, (वर्णवन्ति पुष्पाणि यस्याः ।

ङीष् ।) उष्ट्रकाण्डीपुष्पवृक्षः । इति राज-
निर्घण्टः ॥

वर्णप्रसादनं, क्ली, (वर्णस्य प्रसादनं यस्मात् ।)

अगुरु । इति राजनिर्घण्टः ॥

वर्णमाता, स्त्री, (वर्णस्य मातेव ककाराद्यक्षर-

प्रसूत्वात् ।) लेखनी । इति हारावली ॥

वर्णमातृका, स्त्री, (वर्णानां वर्णमालानां मातृ-

केव ।) सरस्वती । इति शब्दरत्नावली ॥

वर्णमाला, स्त्री, जातिमाला । (वर्णानां माला

समूहः ।) अक्षरश्रेणी । तत्र संस्कृतवर्णाः ५०
जपमालायाम् ५१ । इङ्गरेजीयवर्णाः २६ ।
फरासीयाः २३ । हिव्रू अर्थात् इहु-
दीयाः २२ । आरवीयाः २८ । पारसीयाः ३१ ।
तुरस्कीयाः ३३ । रुशीयाः ४१ । ग्रिक् अर्थात्
इयुनानीयाः २४ । लाटिन्देशीयाः २२ । डच्
अर्थात् ओलन्दाजीयाः २६ । स्पान्देशीयाः २७ ।
इटालिदेशीयाः २० । तातारीयाः २०२ ।
ब्रह्मदेशीयाः १९ । चीनदेशीयवर्णाः शब्दा-
त्मकाः तच्छब्दसंख्याः ८०००० ॥ * ॥ अका-
रादिक्षकारान्तवर्णरूपैकपञ्चाशज्जपमाला ।
यथा, सनत्कुमारसंहितायाम् ।
“क्रमोत्क्रमगतैर्माला मातृकार्णैः क्षमेरुकैः ।
सबिन्दुकैः साष्टवर्गैरन्तर्यजनकर्म्मणि ॥”
आदि कु चु टु तु पु यु शवोऽष्टौ वर्गाः प्रकी-
र्त्तिताः । अकारादिवर्णान् सबिन्दून् प्रत्येकं
कृत्वा शतं संजप्य अकारादीनां कवर्गा-
दीनाञ्च वर्णाणां अन्तिमवर्णं सानुस्वारं
कृत्वा पूर्ब्बमुच्चार्य्य मन्त्रजपः कार्य्यः । अनेन
प्रकारेणाष्टोत्तरशतसंख्यो जपो भवति । अन्त-
र्यजनमित्युपलक्षणम् ।
“सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेत् सुधीः ।
अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य च ॥
वर्णमाला समाख्याता अनुलोमविलोमिका ।
क्षकारं मेरमेवात्र तत्र मन्त्रं जपेन्नहि ॥”
इति नारदीयवचनात् ॥
प्रकारान्तरं विशुद्धेश्वरे ।
“अनुलोमविलोमेन वर्गाष्टकविभेदतः ।
मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितान्
मनून् ॥
कुर्य्याद्वर्णमयीं मालां सर्व्वतन्त्रप्रकाशिनीम् ।
चरमार्णं मेरुरूपं लङ्घनं नैव कारयेत् ॥”
इति तन्त्रसारः ॥
अपि च ।
“अनुलोमविलोमेन कॢप्तया वर्णमालया ।
आदिलान्तलादि आन्तक्रमेण परमेश्वरि ! ।
क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन ॥”
इति मुण्डमालातन्त्रम् ॥

वर्णरेखा, स्त्री, (वर्णा लिख्यन्तेऽनयेति । लिख +

करणे घञ् । रलयोरैक्यम् ।) कठिनी ।
इति त्रिकाण्डशेः ॥

वर्णलेखा, स्त्री, (वर्णा लिख्यन्तेऽनयेति । लिख +

करणे घञ् । रलयोरैक्यम् ।) कठिनी ।
इति त्रिकाण्डशेः ॥

वर्णलेखिका, स्त्री, (वर्णलेखा + स्वार्थे कन् । टापि

अत इत्वम् ।) कठिनी । इति रत्नमाला ॥

वर्णवती, स्त्री, (वर्णोऽस्त्यस्यामिति । वर्ण + “रसा-

दिभ्यश्च ।” ५ । २ । ९५ । इति मतुप् । मस्य
वः ।) हरिद्रा । इति जटाधरः ॥ वर्णविशिष्टे,
त्रि ॥

वर्णविलोडकः, पुं, (वर्णान् विलोडयतीति । वि +

लोडि + ण्वुल् ।) श्लोकस्तेनः । सन्धिचौरः ।
इति मेदिनी । के, २३६ ॥

वर्णसङ्करः, पुं, (वर्णतो ब्राह्मणादिभ्यः वर्णानां

वा सङ्करो मिश्रणं यत्र ।) मिश्रितजातिः ।
तद्बिवरणं यथा, --
“बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः ।
ब्रह्मणो बाहुदेशाच्च जाताः क्षत्त्रियजातयः ॥
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः ।
तासां सङ्करजातेन बभूवुर्व्वर्णसङ्कराः ॥
गोपनापितलीलाश्च तथा मोदकमूलवौ ।
ताम्बूलिपर्णकारौ च तथा बणिकजातयः ॥”
लीलास्थाने भाला इति मूलवस्थाने कूवर इति
च पाठः ।
“इत्येवमाद्या विप्रेन्द्र ! सच्छूद्राः परिकीर्त्तिताः ।
शूद्राविशोस्तु करणोऽम्बष्टो वैश्याद्विजन्मनोः ॥
विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः ।
ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥
मालाकारः कर्म्मकारः शङ्खकारः कुविन्दकः ।
कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च ।
पतितास्ते ब्रह्मशापादजात्या वर्णसङ्कराः ॥”
अजात्या इत्यत्र अयाज्या इत्यपि पाठः ।
“स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्बिजो-
त्तम ।
बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥
सूत्रधारो द्विजातीनां शापेन पतितो भुवि ।
शीघ्रञ्च यज्ञकाष्ठञ्च न ददौ तेन हेतुना ॥
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा ।
पतितो ब्रह्मशापेन ब्राह्मणानाञ्च कोपतः ॥
कश्चिद्बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः ।
स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥
कुलटायाञ्च शूद्रायां चित्रकारस्य वीर्य्यतः ।
बभूवाट्टालिकाकारः पतितो जारदोषतः ॥
अट्टालिकाकारवीर्य्यात् कुम्भकारस्य योषिति ।
बभूव कोटिकः सद्यः पतितो गृहकारकः ॥
कुम्भकारस्य वीर्य्येण सद्यः कोटिकयोषिति ।
बभूव तैलकारश्च कुटिलः पतितो भुवि ।
सद्यः क्षत्त्रियवीर्य्येण राजपुत्त्रस्य योषिति ।
बभूव तीवरश्चैव पतितो जारदोषतः ॥
तीवरस्य तु वीर्य्येण तैलकारस्य योषिति ।
बभूव पतितो दस्युर्लेटश्च परिकीर्त्तितः ॥
लेटस्तीवरकन्यायां जनयामास षण्णरान् ।
माल्लं मल्लं मातरञ्च भडं कोलञ्च कन्दरम् ॥”
कन्दरस्थाने कलन्दर इति वा पाठः ।
“ब्राह्मण्यां शूद्रवीर्य्येण पतितो जारदोषतः ।
सद्यो बभूव चाण्डालः सर्व्वस्मादधमोऽशुचिः ॥
तीवरेणैव चाण्डाल्यां चर्म्मकारो बभूव ह ।
चर्म्मकार्य्याञ्च चाण्डालात् मांसच्छेदी बभूव ह ॥
मांसच्छेद्यां तीवरेण कोँचश्च परिकीर्त्तितः ।
कोँचस्त्रियान्तु कैवर्त्तात् काण्डारः परिकीर्त्तितः ॥
सद्यश्चाण्डालकन्यायां लेटवीर्य्येण शौनक !
बभूवतुस्तौ द्वौ पुत्त्रौ हड्डिकशौण्डिकौ तथा ॥”
हड्डिकशौण्डिकावित्यत्र दुष्टौ हड्डिडमौ इत्यपि
पाठः ।
“क्रमेण हड्डिकन्यायां सद्यश्चाण्डालवीर्य्यतः ।
बभूवुः पञ्चपुत्त्राश्च भ्रष्टा वनचराश्च ते ॥
लेटात्तीवरकन्यायां गङ्गातीरे च शौनक ।
बभूव सद्यो यो बालो गङ्गापुत्त्रः प्रकीर्त्तितः ॥
गङ्गापुत्त्रस्य कन्यायां वीर्य्येण वेशधारिणः ।
बभूव वेशधारी च पुत्त्रो युङ्गी प्रकीर्त्तितः ॥
वैश्यात्तीवरकन्यायां सद्यः शुण्डी बभूव ह ।
शुण्डीयोषिति वैश्यात्तु पौण्ड्रकश्च प्रकीर्त्तितः ॥
क्षत्त्रात् करणकन्यायां राजपुत्त्रो बभूव ह ।
राजपुत्त्र्यान्तु करणादागवीति प्रकीर्त्तितः ॥
क्षत्त्रवीर्य्येण वैश्यायां कैवर्त्तः परिकीर्त्तितः ।
कलौ तीवरसंसर्गाद्धीवरश्च प्रकीर्त्तितः ॥”
प्रकीर्त्तित इत्यत्र पतितो भुवि इति वा पाठः ।
“तीवर्य्यां धीवरात् पुत्त्रो बभूव रजकः स्मृतः ।
रजक्यां तीवराच्चापि कोदाली च बभूव ह ॥
नापिताद्गोपकन्यायां सर्व्वस्वी तस्य योषिति ।
क्षत्त्राद्बभूव व्याधश्च वलवान् मृगहिंसकः ॥
तीवरात् शुण्डिकन्यायां बभूवुः सप्त पुत्त्रकाः ।
ते कलौ हड्डिसंसर्गाद्बभूवुर्दस्यवः सदा ॥
पृष्ठ ४/२८८
ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ।
कुत्सितश्चोदरे जातः कूदरस्तेन कीर्त्तितः ॥
तदशौचं विप्रतुल्यं पतित ऋतुदोषतः ।
सद्यः कोटिकसंसर्गादधमो जगतीतले ॥
क्षत्त्रवीर्य्येण वैश्यायामृतोः प्रथमवासरे ।
जातः पुत्त्रो महादस्युर्ब्बलवांश्च धनुर्द्धरः ॥
चकार वागतीतञ्च क्षत्त्रियो वारितस्तया ।
तेन जात्या स पुत्त्रश्च वागतीतः प्रकीर्त्तितः ॥
क्षत्त्रवीर्य्येण शूद्रायामृतुदोषेण पापतः ।
बलवत्यो दुरन्ताश्च बभूवुर्म्लेच्छजातयः ॥
अविद्धकर्णाः क्रूराश्च निर्भया रणदुर्ज्जयाः ।
शौचाचारविहीनाश्च दुर्द्धर्षा धर्म्मवर्ज्जिताः ॥
म्लेच्छात् कुविन्दकन्यायां जोलाजातिर्ब्बभूव ह ।
जोलात् कुविन्दकन्यायां शराकः परिकीर्त्तितः ॥
वर्णसङ्करदोषेण बह्व्यश्च शठजातयः ।
तासां नामानि संख्याञ्च को वा वक्तुं द्विज
क्षमः ॥
वैद्योऽश्विनीकुमारेण जातश्च विप्रयोषिति ।
वैद्यवीर्य्येण शूद्रायां बभूवुर्व्वहवो जनाः ॥
ते च ग्राम्यगुणज्ञाश्च मन्त्रौषधिपरायणाः ।
तेभ्यश्च जाताः शूद्रायां ते व्यालग्राहिणो
भुवि ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥
अपि च ।
“अयं द्विजैर्हि विद्वद्भिः पशुधर्म्मो विगर्हितः ।
मनुष्याणामपि प्रोक्तो वेणे राज्यं प्रशासति ॥
म महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां सङ्करं चक्रे कामोपहतचेतसः ॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ * ॥
ब्राह्मणः क्षत्त्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥
सर्व्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते ॥
स्त्रीष्वनन्तरजातासु द्बिजैरुत्पादितान् सुतान् ।
सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥
अनन्तरासु जातानां विधिरेष सनातनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्यादमु
विधिम् ॥
ब्राह्मणात् वैश्यकन्यायामम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥
क्षत्त्रियाच्छृद्रकन्यायां क्रूराचारविहारवान् ।
क्षत्त्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥
विप्रस्य त्रियु वर्णेषु नृपतेर्व्वर्णयोर्द्बयोः ।
वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ *
क्षत्त्रियाद्विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ ॥
शूद्रादाथोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।
क्षत्तृवैदेहकौ तद्बत् प्रातिलोम्येऽपि जन्मनि ॥ * ॥
पुत्त्रा येऽनन्तरञ्जीजाः क्रमेणोक्ता द्बिजन्मनाम् ।
ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते ॥
ब्राह्मणादुग्रकन्यायामावृतो नाम जायते ।
आभीरोऽम्बष्ठकन्यायामायोगव्यान्तु धिग्वणः ॥
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥
वैश्यान्मागधवैदेहौ क्षत्त्रियात् सूत एव तु ।
प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः ।
शूद्राज्जातो निषाद्यान्तु स वै कुक्कुटकः स्मृतः ॥
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्त्यते ।
वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।
तान् सावित्रीपरिभ्रष्टान् व्रात्या इति विनि-
र्द्दिशेत् ॥
व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्ठकः ।
आवन्त्यवाटधानौ च पुष्पधः शेख एव च ॥
झल्लो मल्लश्च राजन्यात् व्रात्यान्निच्छिविरेव च ।
नटश्च करणश्चैव खशो द्रविड एव च ॥
वैश्यात्तु जायते व्रात्यात् सुधन्नाचार्य्य एव च ।
कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥
व्यभिचारेण वर्णानामवेद्यावेदनेन च ।
स्वकर्म्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः ॥ * ॥
सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥
सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।
मागधः क्षत्तृजातिश्च तथायोगव एव च ॥
एते षट् सदृशान् वर्णान् जनयन्ति स्वजोनिष ।
मातृजात्यां प्रसूयन्ते प्रवरासु च योनिषु ॥
यथा त्रयाणां वर्णानां द्बयोरात्मस्य जायते ।
आनन्तर्य्यात्स्वयोन्यान्तु तथा बाह्येष्वपि क्रमात् ॥
ते चापि वाह्यान् सुबहूं स्ततोऽप्यधिकदूषि-
तान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ * ॥
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ॥
तथा बाह्यतरं बाह्यश्चातुवर्णे प्रसूयते ।
प्रतिकूलं वर्त्तमाना बाह्याबाह्यतरान् पुनः ।
हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥
प्रसाधनोपचारज्ञमदासं दासजीवनम् ।
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥
मैत्रेयकन्तु वैदेहो माधूकं संप्रसूयते ।
नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥
निषादो मार्गवं सूते दासं नौकर्म्मजीविनम् ।
कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः ॥
मृतवस्त्रभृत्सु नारीषु गर्हितान्नाशनासु च ।
भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः ॥
कारावरो निषादात्तु चर्म्मकारः प्रसूयते ।
वैदेहकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥
चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्यामेव जायते ॥
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुक्कस्याम् जायते पापः सदा सज्जनगर्हितः ॥
निषादस्त्री तु चण्डालात् पुत्त्रमन्त्यावसायिनम् ।
श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्म्मभिः ॥
स्वजातिजानन्तरजाः षट्सु ता द्बिजधर्म्मिणः ।
शूद्राणान्तु सधर्म्माणः सर्व्वेऽपध्वंसजाः स्मृताः ॥
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।
उत्कर्षञ्चापकर्षञ्च मनुष्येष्विह जन्मतः ॥
शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥
पोण्ड्रकाश्चोड्रद्रविडाः काम्बोजा जवनाः शकाः ।
पारदाः पह्रवाश्चीनाः किराताः दरदाः खशाः ॥
मुखबाहूरुपज्जानां या लोके जातयो वहिः ।
म्लेच्छवाचश्चार्य्यवाचः सर्व्वे ते दस्यवः स्मृताः ॥
ये द्विजानामपसदा ये चाप्यध्वंसजाः स्मृताः ।
ते निन्दितैर्वर्त्तयेयुर्द्विजानामेव कर्म्मभिः ॥ * ॥
सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम् ।
वैदेहकानां स्त्रीकार्य्यं मागधानां बणिक्पथः ॥
मत्स्यघातो निषादानां तष्टिस्त्वायोगवस्य च ।
मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥
क्षत्त्रुग्रपुक्कसानान्तु विलौकोबधबन्धनम् ।
धिग्वणानां चर्म्मकार्य्यं वेणानां भाण्डवादनम् ॥
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
वसेयुरेते विज्ञाना वर्त्तयन्तः स्वकर्म्मभिः ॥ * ॥
चण्डालश्वपचानान्तु वहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश्च कर्त्तव्या धनमेषां श्वगर्दभम् ॥
वासांसि मृतचेलानि भिन्नभाण्डेषु भीजनम् ।
कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥
न तैः समयमन्विच्छेत् पुरुषो धर्म्ममाचरन् ।
व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने ।
रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥
दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्लीयुः शय्याश्चाभरणानि च ॥
वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।
आर्य्यरूपमिवानार्य्यं कर्म्मभिः स्वैर्विभावयेत् ॥
अनार्य्यतानिष्ठुरताक्रूरतानिष्क्रियात्मताः ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥
पित्र्यं वा भजते शीलं मातुर्व्वोभयमेव वा ।
न कथञ्चनदुर्य्योनिः प्रकृतिं स्वां नियच्छति ॥
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः ।
संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥
यत्र त्वेतेऽपिविध्वंसा जायन्ते वर्णदूवकाः ।
राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
एतं सामासिकं धर्म्मं चातुर्व्वर्ण्येऽब्रीन्मनुः ॥ * ॥
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत् प्रजायते ।
अश्रेयान् श्रेयसीं जातिं गच्छत्यासप्तमाद्युगात् ॥
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
पृष्ठ ४/२८९
क्षत्त्रियाज्जातमेवन्तु विद्याद्वैश्यात्तथैव च ॥
अनार्य्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया ।
ब्राह्मण्यामप्यनार्य्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् ॥
जातो नार्य्यामनार्य्यायामार्य्यादार्य्यो भवेद्-
गुणैः ।
जातोऽप्यनार्य्यादार्य्यायामनार्य्य इति निश्चयः ॥
तावुभावप्यसंस्कार्य्याविति धर्म्मो व्यवस्थितः ।
वैगुण्याज्जन्मनः पूर्ब्ब उत्तरः प्रतिलोमतः ॥
सुबीजञ्चैव सुक्षेत्रे जातं सम्पद्यते यथा ।
तथार्य्याज्जात आर्य्यायां सर्व्वं संस्कारमर्हति ॥
बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः ।
बीजक्षेत्रे तथैवान्ये तत्रेयन्तु व्यवस्थितिः ॥
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ।
अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥
यस्माद्बीजप्रभावेण तिर्य्यग्जा ऋषयोऽभवन् ।
पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते ॥
अनार्य्यमार्य्यकर्म्माणमार्य्यञ्चानार्य्यकर्म्मिणम् ।
सम्पधार्य्याब्रवीद्धाता न समौ नासमाविति ॥”
इति मानवे ९ । १० अध्यायौ ॥ * ॥
वर्णसङ्करस्य कारणं दोषाश्च यथा, --
“अघर्म्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्म्माः कुलधर्म्माश्च शाश्वताः ॥
उच्छन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन ! ।
नरके नियतं वासो भवतीत्यनुशुश्रुमः ॥”
इति श्रीभगवद्गीतायाम् १ अध्यायः ॥

वर्णसिः, पुं, (वृणोति स्थलमिति । वृ ञ आवरणे +

“सानसिवर्णसिपर्णसीति ।” उणा० ४ । १०७ ।
इति असिः धातोर्नुक् च ।) जलम् । इत्युणादि-
कोषः ॥

वर्णा, स्त्री, (वृण्यते भक्ष्यते इति । वृणु भक्षणे +

कर्म्मणि घञ् । ततष्टाप् ।) आढकी । इति
हेमचन्द्रः ॥

वर्णाङ्का, स्त्री, (वर्णा अङ्क्यन्तेऽनयेति । अङ्क +

करणे घञ् । ततष्टाप् ।) लेखनी । इति
शब्दरत्नावली ॥

वर्णाटः, पुं, (वर्णान् अटतीति । अट् + अच् ।)

गायनः । चित्रकरः । स्त्रीकृतजीवनः । इति
मेदिनी । टे, ५५ ॥

वर्णात्मा, [न्] पुं, (वर्णः अक्षरं आत्मा स्वरूपं

यस्य ।) शब्दः । इति जटाधरः ॥

वर्णाधिपः, पुं, (वर्णानां ब्राह्मणादीनामधिपः ।)

ब्राह्मणक्षत्त्रियवैश्यशूद्राणामधिपतिग्रहः । यथा,
“ब्राह्मणे शुक्रवागीशौ क्षत्त्रिये भौमभास्करौ ।
चन्द्रो वैश्ये बुधः शूद्रे पतिर्म्मन्दोऽन्त्यजे जने ॥”
इति ॥
“स्वाध्याये वेद वर्णाधिप इह शुभदे क्षौरभे
नादितौ च ।”
इति च ज्योतिस्तत्त्वम् ॥

वर्णार्हः, पुं, (वर्णमर्हतीति । अर्ह + अण् ।) मुद्गः ।

इति राजनिर्घण्टः ॥

वर्णि, क्ली, (वर्ण्यते स्तूयते इति । वर्ण स्तुतौ +

इन् ।) स्वर्णम् । इति सिद्धान्तकौमुदी ॥
(“वर्णेर्वलिश्चाहिरण्ये ।” उणा० ४ । १२३ । इत्युक्तेः
अहिरण्ये तु वलिरित्येव ॥ क्वचित् पुंलिङ्गोऽपि ॥)

वर्णिकः, पुं, (वर्णा लेख्यत्वेन सन्ति अस्येति ।

वर्ण + ठन् ।) लेखकः । यथा, --
“लेखकेऽक्षरपुर्व्वाः स्युश्चणजवीकचञ्चवः ।
वर्णिको लिपिकरश्चाक्षरन्यासे लिपिर्लिबिः ॥”
इति हेमचन्द्रः । ३ । १४८ ॥

वर्णिका, स्त्री, (वर्णा अक्षराणि लेख्यत्वेन सन्त्यस्या

इति । वर्ण + ठन् + टाप् ।) कठिनी । यथा, --
“लेखन्यां कर्णिकापि स्यात् कठिन्यामपि
वर्णिका ॥”
इति हारावली । २६९ ॥
मसिः । इति त्रिकाण्डशेषः ॥ काञ्चनस्य उत्-
कर्षः । यथा, --
“वर्णकाश्चारणेऽस्त्री तु चन्दने च विलेपने ।
द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य च ॥”
इति मेदिनी । वे, १५२ ॥

वर्णितः, त्रि, (वर्ण + क्त ।) स्तुतियुक्तः । तत्-

पर्य्यायः । ईलितः २ शस्तः ३ पणायितः ४
पनायितः ५ प्रणुतः ६ पणितः ६ पनितः ८
गीर्णः ९ अभिष्टुतः १० ईडितः ११ स्तुतः १२ ।
इत्यमरः । ३ । २ । ११० ॥ नुतः १३ । इति
जटाधरः ॥ (विस्तारितः । यथा, महाभारते ।
१ । २ । २०९ ।
“चतुर्थमेतद्बिपुलं वैराटं पर्व्व वर्णितम् ॥”
कथितः । यथा, कथासरित्सागरे । १९ । ३६ ।
“स्वभर्त्तुस्तच्च न मया दरिद्रस्यापि वर्णितम् ॥”)

वर्णिनी, स्त्री, (वर्णोऽस्त्यस्या इति । वर्ण + इनिः ।

ङीप् ।) हरिद्रा । इति राजनिर्घण्टः ॥ वनिता ।
इति हेमचन्द्रः । ३ । १६८ ॥

वर्णी, [न्] पुं, (वर्णा अक्षराणि लेख्यत्वेन सन्त्य-

स्येति । वर्ण + इनिः ।) लेखकः । (वर्णा नील
पीतादयः लेख्यत्वेन सन्त्यस्येति । इनिः ।) चित्र-
करः । (यथा, महाभारते । १२ । ६९ । ५७ ।
“अङ्गारकुशमुञ्जानां पलाशशरवर्णिनाम् ।
यवसेन्घनदिग्धानां कारयेत च सञ्चयान् ॥” * ॥
वर्ण + “वर्णाद्ब्रह्मचारिणि ।” ५ । २ । १३४ ॥”
इति इनिः ।) ब्रह्मचारी । यथा, --
“वर्णी स्यात् लेखके चित्रकरेऽपि ब्रह्म-
चारिणि ॥”
इति मेदिनी । ने, १२७ ॥
(यथा, कुमारे । ५ । ५२ ।
“सखी तदीया तमुवाच वर्णिनं
निबोध साधो ! तव चेत् कुतूहलम् ॥”)
वर्णविशिष्टे, त्रि ॥ (वर्णोत्तरपदात् तु “धर्म्मशील-
वर्णान्ताच्च ।” ५ । २ । १३२ । इति इनिः स्यात् ।
यथा, कामन्दकीये नीतिसारे । २ । १९ ।
“याजनाध्यापने शुद्धे विशुद्धाच्च प्रतिग्रहः ।
वृत्तित्रयमिदं प्राहुर्मुनयो ज्येष्ठवर्णिनः ॥”
ज्येष्ठवर्णिनो ब्राह्मणस्येत्यर्थः ॥)

वर्णुः, पुं, (वृङ संभक्तौ + “अजिवृरीभ्यो निच्च ।”

उणा० ३ । ३८ । इति णुः । स च नित् ।)
नदविशेषः । इत्युणादिकोषः ॥ आदित्यः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥ (देशविशेषः ।
इत्युज्ज्वलदत्तः ॥)

वर्त्तकं, क्ली, (वर्त्तते इति । वृत् + ण्वुल् ।) वर्त्त-

लोहम् । इति हेमचन्द्रः ॥ विदरि इति भाषा ॥
(पूजके, त्रि । यथा, गो ० रामायणे । २ ।
१०७ । १२ ।
“निवेश्य सेनां भरतः पद्भ्यां पादवतां वरः ।
अभिगन्तु स काकुत्स्थमियेष गुरुवर्त्तकः ॥”)

वर्त्तकः, पुं, (वृत् + ण्वुल् ।) पक्षिविशेषः । भारै

इति भाषा ॥ (यथा, महाभारते । १३ ।
१११ । १०३ ।
“कौशिकन्तु ततो हृत्वा नरो जायति वर्त्तकः ॥”
अस्य पर्य्यायो गुणाश्च यथा, --
“वर्त्तोको वर्त्तैकश्चित्रस्ततोऽन्या वर्त्तकाः स्मृताः ।
वर्त्तकोऽग्निकरः शीतो ज्वरदोषत्रयापहः ।
सुरुच्यः शुक्रदो बल्यो वर्त्तकाल्पगुणास्ततः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
अश्वश्य क्षुरः । इत्यमरः । ३ । ३ । ११ ॥

वर्त्तका, स्त्री, (वर्त्तक + टाप् । “वर्त्तका शकुनौ

प्राचाम् ।” इति वार्त्तिकोक्त्या न अत इत्वम् ।)
वर्त्तकपक्षी । इत्यमरटीकायां रायमुकुटः ॥

वर्त्तजन्मा, [न्] पुं, (वर्त्तनि आकाशपथे जन्म

यस्य ।) मेघः । इति शब्दमाला ॥

वर्त्तनं, क्ली, (वर्त्ततेऽनेनेति । वृत् + करणे ल्युट् ।)

वृत्तिः । इत्यमरः । २ । ९ । १ ॥ (यथा, भाग-
वते । ७ । ११ । २६ ।
“सम्मार्ज्जनोपलेपाभ्यां गृहमण्डनवर्त्तनैः ।
स्वयञ्च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥”)
साधारणवर्त्तुलम् । इति शब्दरत्नावली ॥

वर्त्तनं, क्ली, स्त्री, (वर्त्ततेऽनेनेति । वृत् + ल्युट् ।)

तूलनाला । तर्कुपीठः । जीवनम् । इति
मेदिनी । ने, १२६ ॥ (यथा, मार्कण्डेये । ५० । ७१ ।
“देवतापितृमर्त्त्यानामतिथीनाञ्च वर्त्तनम् ।
यस्यावशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज ॥”)

वर्त्तनः, पुं, (वर्त्तते इति । वृत् + “अनुदात्तेतश्च

हलादेः ।” ३ । २ । १४९ । इति युच् ।)
वामनः । इति मेदिनी । ने, १२५ ॥ वर्त्तिष्णौ,
त्रि । इत्यमरः । ३ । १ । २९ ॥ (यथा, भाग-
वते । ३ । ११ । २६ ।
“एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्त्तनः ।
तिर्य्यङ्नृपितृदेवानां सम्भवो यत्र कर्म्मभिः ॥”)

वर्त्तनिः, पुं, पूर्व्वदेशः । इति त्रिकाण्डशेषः ॥

(स्त्री, वर्त्ततेऽनयेति । वृत् + “वृतेश्च ।” उणा०
२ । १०७ । इति अनिः । पन्थाः । इत्युज्ज्वल-
दत्तः ॥)

वर्त्तनी, स्त्री, (वर्त्तनि + कृदिकारादिति पक्षे ङीष् ।)

पन्थाः । पेषणम् । इति शब्दरत्नावली ॥
पृष्ठ ४/२९०

वर्त्तमानः, पुं, (वर्त्तते इति । वृत् + शानच् । मुक् ।)

प्रयोगाधिकरणीभूतकालः । इति नैयायिकाः ॥
तत्कालवृत्ते, त्रि । तयोः पर्य्यायौ । अद्यतनः २
अधुनातनः ३ । इति राजनिर्घण्टः ॥ वैया-
करणमते तु । आरब्घापरिसमाप्तिर्व्वर्त्तमानः
कालः । यथा । महाभारतं पठति । स तु
चतुर्विधः । यथा, --
“प्रवृत्तोपरतश्चैव वृत्ताविरत एव च ।
नित्यप्रवृत्तः सामीप्यो वर्त्तमानश्चतुर्विधः ॥”
क्रमेणोदाहरणानि । मांसं न खादति आदौ
प्रवृत्तं मांसभोजनं निवर्त्तयति इत्यर्थः । इह
कुमाराः क्रीडन्ति तदानीन्तनक्रीडनाभावेऽपि
पूर्ब्बक्रीडानां बुद्धौ वर्त्तमानत्वात् । पर्व्वता-
स्तिष्ठन्ति नित्यप्रवृत्तत्वात् । किञ्च पर्व्वतानां
स्थितत्वे वर्त्तमानत्वेऽपि मूतभविष्यत्कालाभ्यां
सम्बन्धविवक्षया पर्व्वतास्तस्थुः स्थास्यन्ति इत्यपि
स्यात् । सामीप्यो द्विविधः । भूतसामीप्यो भविष्यत्-
सामीप्यश्च । भूतसामीप्ये यथा । कदा आगतो-
ऽसि इति प्रश्ने अध्वस्वेदादेर्व्वर्त्तमानत्वात् एषो-
ऽहमागच्छामि इति आगतोऽपि वदति । भवि-
ष्यत् सामीप्ये यथा । कदा गमिष्यसि इति प्रश्ने
एषोऽहं गच्छामि इति गमनक्रियमाणोद्यमो-
ऽपि वदति । इति मुग्धबोधटीकायां दुर्गादासः ॥

वर्त्तरूकः, पुं, (वर्त्तो वर्त्तनं राति गृह्णातीति ।

रा + वाहुलकात् ऊकः ।) नदीभेदः । काक-
नीडः । जलावटः । इति मेदिनी । के, २१२ ॥
द्वारपालः । यथा, --
“मन्त्री ग्रन्थिहरोऽमात्यो द्वाःस्थितो वेत्रधारकः ।
दौःसाधिको वर्त्तरूको गर्व्वाटो दण्डवासिनि ॥”
इति त्रिकाण्डशेषः ॥

वर्त्तलोहं, क्ली, (वर्त्तते इति । वृत् + अच् ।

ततः कर्म्मधारयः ।) लौहविशेषः । विद्रि
इति भाषा । इति केचित् ॥ तत्पर्य्यायः । वर्त्त-
तीक्ष्णम् २ वर्त्तकम् ३ लोहसङ्करम् ४ नील-
कम् ५ नीललोहम् ६ नीलजम् ७ वर्त्तलोह-
कम् ८ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् ।
शिशिरत्वम् । कफदाहपित्तनाशित्वम् । मधु
रत्वम् । पित्तदाहशमनत्वञ्च । इति राज-
निर्घण्टः ॥

वर्त्तिः, स्त्री, (वर्त्ततेऽनया इति । वृत् + “हृपिषि-

रुहिवृतिविदिच्छिदिकीर्त्तिभ्यश्च ।” उणा० ४ ।
११८ । इति इन् ।) भेषजनिर्म्माणम् । नयना-
ञ्जनम् । लेखः । गात्रानुलेपनी । दीपदशा ।
(यथा, भागवते । ५ । ११ । ८ ।
“यथा प्रदीपो घृतवर्त्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम् ॥”)
दीपः । इति मेदिनी । ते, ५५ ॥ * ॥ वर्त्ति-
विशेषो यथा, --
“कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा ।
फेनो रसाञ्जनं क्षौद्रं षिडङ्गानि मनःशिला ।
एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा ॥”
इति गारुडे १९८ अध्यायः ॥
(वर्त्ततेऽनयेति । वृत् + “वृतेश्छन्दसि ।” उणा०
४ । १४० । इति इः । बाहुलकात् लोकेऽपि ।
योगकर्म्मद्रव्यम् । इत्युज्ज्वलदत्तः ॥)

वर्त्तिकः, पुं, पक्षिविशेषः । वटेर इति हिन्दी

भाषा । तत्पर्य्यायः । वार्त्तिकः २ वर्त्ती ३
गाञ्जिकायः ४ । अस्य मांसगुणाः ।
“तद्वच्च वार्त्तकं मांसं निर्द्दोषं वीर्य्यपुष्टिदम् ।”
तद्वत् तित्तिरवत् । इति राजनिर्घण्टः ॥

वर्त्तिका, स्त्री, वर्त्तकपक्षी । इत्यमरः ॥ वर्त्मनि

वर्त्तत इत्यच् वर्त्तः । स्वार्थे कः वर्त्तकः । भारै
इति ख्यातः । वृतिलतिभ्वां तिकः वर्त्तिका
स्त्रीलिङ्गा । वाट्भार इति ख्याता । नाम-
द्वयमिदमित्यमरदीपिका । वर्त्तिकेति स्त्रिया-
मीत्वप्रतिषेधार्थं द्वयोरुपादानमिति माधवी ।
रूपभेदप्रदर्शनार्थमिति रायमुकुटः । इति
तट्टीका सारसुन्दरी ॥ सा च वटेर पक्षी इति
नाम्ना ख्याता । अस्या मांसगुणाः ।
“वर्त्तिका मधुरा रूक्षा कफमारुतनाशिनी ॥”
इति राजवल्लभः ॥
अजशृङ्गी । इति राजनिर्घण्टः ॥ (वर्त्ति +
स्वार्थे कन् । टाप् ।) वर्त्तिः । वाति इति शलिता
इति पलिता इति च भाषा । इत्युणादि-
कोषः ॥ * ॥ सा पञ्चविधा । यथा, --
“पद्मसूत्रभवा दर्भगर्भसूत्रभवाथवा ।
शालजा वादरी वापि फलकोषोद्भवाथवा ।
वर्त्तिका दीपकृत्येषु सदा पञ्चविधा स्मृता ॥”
इति कालिकापुराणे ६८ अध्यायः ॥

वर्त्तिष्णुः, त्रि, (वर्त्तते इति । वृत + “अलङ्कृञ्

निराकृञ्प्रजनोत्पचोत्पतन्मदरुच्यपत्रपवृतुवृधु-
सहचर इष्णुच् ।” ३ । २ । १३६ । इति
इष्णुच् ।) वर्त्तनशीलः । तत्पर्य्यायः । वर्त्तनः ।
इत्यमरः । ३ । १ । २९ ॥ वर्त्ती । इति हेम-
चन्द्रः । ३ । ५३ ॥ (यथा, भट्टौ । ५ । १ ।
“निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम् ।
उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥”)

वर्त्तिष्यमाणः, त्रि, (वृत् + भविष्यति स्यमान-

प्रत्ययः ।) भविष्यत्कालादिः । वर्त्तमानप्राग-
भावाश्रयः । इति राजनिर्घण्टः ॥ (यथा,
साहित्यदर्पणे । ६ । ३०८ ।
“वृत्तवर्त्तिष्यमाणानां कथांशानां निदर्शकः ॥
संक्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः ॥”)

वर्त्ती, स्त्री, (वर्त्ति + कृदिकारादिति ङीष् ।)

वर्त्तिः । इत्यमरटीका ॥ (यथा, महाभारते ।
४ । २१ । २३ ।
“आसीदभ्यधिका चास्य श्रीः श्रियं प्रमु-
मुक्षतः ।
निर्व्वाणकाले दीपस्य वर्त्तीमिव दिधक्षतः ॥”)

वर्त्ती, [न्] (वर्त्तते इति । वृत् + णिनिः ।)

वर्त्तिष्णुः । इति हेमचन्द्रः । ३ । ५३ ॥

वर्त्तुतं, त्रि, (वर्त्तते इति । वृत् + बाहुलकात्

उलच् ।) गोलवस्तु । तत्पर्य्यायः । निस्त-
लम् २ वृत्तम् ३ । इत्यमरः । ३ । १ । ६९ ॥
मण्डलायितम् ४ । इति शब्दरत्नावली ॥ * ॥
(यथा, भागवते । ५ । १६ । ५ ।
“यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तर-
नियुतयोजनविशालः समवर्त्तुलो यथा पुष्कर-
पत्रम् ॥”) सम्पूर्णगर्भवृत्तानि यथा, --
“सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः ।
चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥
आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् ।
आलबालमहीजालचर्म्मकं शाणकादयः ॥” * ॥
वृत्तानि यथा, --
“वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः ।
रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥
कर्णपाशभुजापाशाकृष्टचापघटाननम् ।
मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥”
इति कविकल्पलतायाम् २ श्लेषस्तवके ३ कुसु-
मम् ॥

वर्त्तुलं, क्ली, गृञ्जनम् । इति राजनिर्घण्टः ॥

वर्त्तुलः, पुं, कलायविशेषः । वाटुला । इति भाषा ।

यथा, --
“कलायस्य त्रयो भेदा स्त्रिपुटो वर्त्तुलोऽङ्कटी ।”
इति शब्दमाला ॥

वर्त्तुला, स्त्री, (वर्त्तुल + टाप् ।) तर्कुपाठी ।

इति हारावली । २१३ ॥ टेकोर वाँटुल इति
भाषा ॥

वर्त्तुली, स्त्री, (वर्त्तुल + गौरादित्वात् ङीष् ।)

गजपिप्पली । इति राजनिर्घण्टः ॥ (विवरण-
मस्या गजपिप्पलीशब्दे ज्ञातव्यम् ॥)

वर्त्म, [न्] क्ली, (वर्त्ततेऽनेनास्मिन् वेति । वृत् +

मनिन् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥
(यथा, ऋग्वेदे । १ । ८५ । ३ ।
“गोमातरो यच्छुभयन्ते अञ्जिभि-
स्तनूषु शुभ्रा दधिरे विरुक्मतः ।
वाधन्ते विश्वमभिमातिनमप-
वर्त्मान्येषामनुरीयते घृतम् ॥”
“वर्त्मानि मार्गाननुसृत्य ।” इति तद्भाष्ये
सायणः ॥ यथा च रघौ । २ । २० ।
“पुरस्कृता वर्त्मनि पार्थिवेन
प्रत्युद्गता पार्थिवधर्म्मपत्न्या ।
तदन्तरे सा विरराज धेनु-
र्दिनक्षपामध्यगतेव सन्ध्या ॥”)
नेत्रच्छदः । इति मेदिनी । ने, १२८ ॥ (यथा,
अश्ववैद्यके । २ । १० ।
“सितासितञ्च तन्मध्ये नेत्रयोर्म्मण्डलं हि तत् ।
प्रच्छादनं भवेद् वर्त्म चाक्षिकूटमतः परम् ॥”)

वर्त्मनिः, स्त्री, (वर्त्तते इति । वृत् + “वृतेश्च”

उणा० २ । १०७ । इति अनिः । चकारात्
मुडागमोऽप्यत्रेति केचित् । वर्त्मनिरिति गोव-
र्द्धनः । इत्युज्ज्वलदत्तोक्त्या साधुः ।) पन्थाः ।
इत्युणाशिकोषः ॥

वर्द्ध, क पूर्त्तिच्छिदोः । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) क, वर्द्धयति । वृघ
क दीप्तावित्यत्रैव पूर्त्तिच्छिदोश्च पाठादिष्टसिद्धा-
पृष्ठ ४/२९१
वस्य पाठश्चुरादिभ्यो ञेरनित्यतां बोधयति ।
तेन कदाचित् ञेरप्राप्तौ यगादौ वृघ क इत्यस्य
वृध्यते इत्यादि अस्य तु वर्द्धते इत्यादिभेदः ।
इति दुर्गादासः ॥

वर्द्धं, क्ली, (वर्द्धयति पूरयतीति । वर्द्ध + अच् ।)

सीसकम् । इति हेमचन्द्रः । ४ । १०६ ॥

वर्द्धः, पुं, (वर्द्धते इति । वृध् छेदने + अच् ।)

ब्राह्मणयष्टिका । इति जटाधरः ॥ पूर्त्तिः ।
छेदः । इति वर्द्धधात्वर्थदर्शनात् ॥

वर्द्धकः, पुं, (वर्द्धते इति । वृध् + ण्वुल् ।)

ब्राह्मणयष्टिका । इत्यमरः । २ । ४ । ९० ॥
(वर्द्धयतीति । वर्द्ध पूरणे छेदने च + ण्वुल् ।)
पूरके छेदके च, त्रि ॥

वर्द्धकिः, पुं, (वर्द्धते छिनत्तीति । वर्द्ध + अच् ।

वर्द्धं कषतीति । कष हिंसायां + बाहुलकात्
डिः ।) त्वष्टा । इत्यमरः । २ । १० । ९ ॥
(यथा, रामायणे । १ । १३ । ७ ।
“कर्म्मान्तिकान् शिल्पकरान् वर्द्धकीन् खन-
कानपि ।
गणकान् शिल्पिनश्चैव तथैव नटनर्त्तकान् ॥”)

वर्द्धकी, [न्] पुं, (वर्द्धको वर्द्धोऽस्ति अस्येति ।

वर्द्धक + इनि ।) वर्णसङ्करजातिविशेषः ।
वढै इति हिन्दी भाषा । तत्पर्य्यायः । त्वष्टा २
वर्द्धकिः ३ तक्षा ४ सूत्रधारः ५ रथकारः ६
रथकरः ७ काष्ठतट् ८ काष्ठतक्षकः ९ । इति
शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् ।
४३ । २२ ।
“अरभङ्गे बलभेदो
नेम्या नाशो बलस्य विज्ञेयः ।
अर्थक्षयोऽक्षभङ्गे
तथाणिभङ्गे च वर्द्धकिनः ॥”)

वर्द्धनं, क्ली, (वृध् च्छेदपूर्त्त्योः + ल्युट् ।) छेदनम् ।

(यथा, मनुः । २ । २९ ।
“प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म्म विधीयते ॥”)
वृद्धिः । इति मेदिनी । ने, १२३ ॥

वर्द्धनः, त्रि, (वर्द्धयतीति । वृध् + नन्द्यादित्वात्

ल्युः । यद्वा, वर्द्धते तच्छील इति । वृध् पूर्त्तौ +
“अनुदात्तेतश्चेति ।” ३ । २ । १४९ । इति
युच् ।) वर्द्धिष्णुः । इत्यमरः । ३ । १ । २८ ॥
(यथा, ऋग्वेदे । ३ । ३२ । १२ ।
“यज्ञो हि त इन्द्र वर्द्धनो भूदुत प्रियः सुतसोमो
मियेधः ॥”)

वर्द्धनी, स्त्री, घटी । इति मेदिनी । ने, १२३ ॥

संमार्ज्जनी । इति हेमचन्द्रः । ४ । ८२ ॥
सनालपात्रविशेषः । वद्ना इति भाषा । यथा,
“आलुः स्त्री कर्करी पारी वर्द्धनी च लल-
न्तिका ॥”
इति जटाधरः ॥ * ॥
प्रतिष्ठादिकर्म्मणि तत्प्रयोजनं यथा, --
“प्रतिष्ठा यस्य देवस्य तदाख्यं कलसं न्यसेत् ।
ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च वर्द्ध-
नीम् ॥
कलसं वर्द्धनीञ्चैव ग्रहान् वास्तोष्पतिं तथा ।
आसने तानि सर्व्वाणि प्रणवाख्यं जपेद्गुरुः ॥
सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मन वेष्टितम् ।
सर्व्वौषधीगन्धलिप्तं पूजयेत् कलसं गुरुः ॥
देवन्तु कलसे पूज्य वर्द्धन्या वस्त्रमुत्तमम् ।
वर्द्धन्या तु समायुक्तं कलसं भ्रामयेदनु ॥
वर्द्धनीं धारया सिञ्चन्नग्रतो धारयेत्ततः ।
अभ्यर्च्च्य वर्द्धनीकुम्भं स्थण्डिले देवमर्च्चयेत् ॥”
इति गारुडे ४८ अध्यायः ॥

वर्द्धमानः, पुं, (वर्धते इति । वृध वृद्धौ + शानच् ।)

एरण्डवृक्षः । इत्यमरः । २ । ४ । ५१ ॥ (अस्य
पर्य्यायो यथा, --
“शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः ।
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ।
वातारिस्तरुणश्चापि रुवूकश्च निगद्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पशुभेदः । शरावः । (यथा, महाभारते । ७ ।
८० । १९ ।
“तथा गाः कपिला दोग्ध्रीः सवत्साः पाण्डु-
नन्दनः ।
हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ।
स्वस्तिकान् वर्द्धमानांश्च नन्द्यावर्त्तांश्च काञ्च-
नान् ॥”
अस्मिन्नर्थे क्लीवलिङ्गेऽपि दृश्यते । यथा, तत्रैव ।
१३ । ६४ । १२ ।
“मघासु तिलपूर्णानि वर्द्धमानानि मानवः ।
प्रदाय पुत्त्रपशुमानिह प्रेत्य च मोदते ॥”
तथा च सुश्रुते सूत्रस्थाने २९ अध्याये ।
“स्त्री पुत्त्रिणी सवत्सा गौर्वर्द्धमानमलङ्कृता ।
कन्या मत्साः फलं चामं स्वस्तिकं मोदका दधि ॥”)
विष्णुः । इति मेदिनी । ने, २०८ ॥ (यथा,
महाभारते । १३ । १४९ । ४१ ।
“वर्द्धनो वर्द्धमानश्च विविक्तः श्रुतिसागरः ॥”)
जिनविशेषः । तत्पर्य्यायः । वीरः २ चरमतीर्थ-
कृत् ३ महावीरः देवाय्यः ५ अज्ञातनन्दनः ६ ।
इति हेमचन्द्रः । १ । ३० ॥ धनिनां गृहविशेषः ।
यथा, --
“स्वस्तिको वर्द्धमानश्च नन्द्यावर्त्तादयोऽपि च ॥”
इति हलायुधः ॥
(यथा, बृहत्संहितायाम् । ५३ । ३३ ।
“द्वारालिन्दोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्तत-
श्चान्यः ।
तद्वच्च वर्द्धमाने द्वारन्तु न दक्षिणं कार्य्यम् ॥”)
स्वनामख्यातदेशः । यथा, --
“प्राच्यां मागधशोणौ च वारेन्द्रीगौडराढकाः ।
वर्द्धमानतमोलिप्तप्राग्ज्योतिषोदयाद्रयः ॥”
इति ज्योतिस्तत्त्वे कूर्म्मचक्रम् ॥
(भद्राश्ववर्षस्य कुलपर्व्वतविशेषः । यथा, मार्क-
ण्डेये । ५९ । १२ ।
“विशालः कम्बलः कृष्णो जयन्तो हरिपर्व्वतः ।
विशोको वर्द्धमानश्च सप्तैते कुलपर्व्वताः ॥”
वृद्धिविशिष्टे, त्रि ॥)

वर्द्धमानकः, त्रि, (वर्द्धमान + स्वार्थे संज्ञायां वा

कन् ।) वृद्धिविशिष्टः । पुं, शरावः । इत्यमरः ।
२ । ९ । ३२ ॥ (यथा, महाभारते । १४ । ६५ । १४ ।
“भृङ्गाराणि कटाहानि कलसान् वर्द्धमान-
कान् ॥”)
स्वार्थे कप्रत्यये एरण्डवृक्षश्च ॥ (आरात्रिकम् ।
इति महाभारतटीकायां नीलकण्ठः ॥ यथा,
महाभारते । ७ । ५५ । ४ ।
“नटनर्त्तकगन्धर्व्वैः पूर्णकैर्व्वर्द्धमानकैः ।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः ॥”)

वर्द्धापनं, क्ली, नाडीच्छेदनम् । यथा, --

“अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा ।
ततो वर्द्धापनं षष्ठीं नामादेः करणं मम ॥
कर्त्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने ।
यथा मम तथा कार्य्यो भगवत्या महोत्सवः ॥”
वर्द्धापनं नाडीच्छेदनम् । इति तिथ्यादितत्त्वम् ।

वर्द्धितं, त्रि, (वृध् + क्तः ।) प्रसृतम् । छिन्नम् ॥

पूरितम् । इति मेदिनी । ते, १४८ ॥ (परि-
पूर्णम् । यथा, मनुः । ३ । २२४ ।
“पाणिभ्यान्तूपसंगृह्य स्वयमन्नस्य वर्द्धितम् ।
विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत ॥”
“अन्नस्येति तृतीयार्थे षष्ठी । वर्द्धितं पूर्णं पिठ-
रादिपात्रम् ।” इति तट्टीकायां कुल्लूकभट्टः ॥
वृध + णिच् + क्तः । वृद्धिं प्रापितम् । यथा,
भागवते । ४ । २३ । १ ।
“दृष्ट्वात्मानं प्रवयसमेकदा वैण्य आत्मवान् ।
आत्मना वर्द्धिताशेषस्वानुसर्गः प्रजापतिः ॥”)

वर्द्धिष्णुः, त्रि, (वर्द्धते इति । वृध + “अलङ्कृ-

ञिति ।” ३ । २ । १३६ । इति इष्णुच् ।)
वर्द्धनशीलः । तत्पर्य्यायः । वर्द्धनः २ । इत्य-
मरः । ३ । १ । २८ ॥ (यथा, भट्टिः । ५ । १ ।
“निराकरिष्णू वर्त्तिष्णू वर्द्धिष्णू परितो रणम् ।
उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥”)

वर्द्ध्रं, क्ली, (वर्द्धते दीर्घीभवतीति । वृध् + “वृधि-

वपिभ्यां रन् ।” उणा० २ । २७ । इति रन् ।)
चर्म्म । इत्युणादिकोषः ॥ (यथा, अथर्व्ववेदे ।
१४ । १ । ६० ।
“त्वष्टा पिपेश मध्यतोऽनुवद्ध्रान्त्स्या नो अस्तु
सुमङ्गली ॥”)

वर्द्ध्री, स्त्री, (वर्द्ध्र + गौरादित्वात् ङीष् ।) चर्म्म-

र्ज्जुः । वदी इति भाषा । तत्पर्य्यायः । नर्द्ध्रा २
वरत्रा ३ । इत्यमरः ॥ वद्धी ४ । इति भरतः ॥

वर्पः, [स्] क्ली, (वृणीते संपृक्तं भवतीति । वृ +

“वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।” उणा०
४ । २०० । इति असुन् पुडागमश्च ।) रूपम
इत्युणादिकोषः ॥ (यथा, ऋग्वेदे । १ । १४० । ५ ।
“आदस्य ते ध्वसयन्तो वृथेरते
कृष्णमभ्वं महि वर्पः करिक्रतः ॥”
स्तोत्रम् । यथा, तत्रैव । १ । ३९ । १ ।
“कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ
कंह धूतयः ॥”
“कस्य यजमानस्य क्रत्वा क्रतुना सङ्गच्छध्व इति
पृष्ठ ४/२९२
शेषः । तथा कस्य यजमानस्य वर्पसः स्तोत्रेण
सङ्गच्छद्धे ॥” इति तद्भाष्ये सायणः ॥)

वर्फ, गत्याम् । वधे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) वर्फति । इति दुर्गादासः ॥

वर्म्म, [न्] क्ली, (वृणोति आच्छादयति शरीर-

मिति । वृ + मनिन् ।) तनुत्रम् । इत्यमरः ।
२ । ८ । ६४ ॥ (यथा, रघुः । ४ । ५६ ।
“अभ्षभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्म्मभिः पवनोद्धूतराजतालीवनध्वनिः ॥”
गृहम् । इति निघण्टुः । ३ । ४ ॥ यथा, बृहत्-
संहितायाम् । ५१ । ३ ।
“छिन्नभिन्नकृमिखातकण्टकि-
प्लुष्टरूक्षकुटिलैर्न सत्कुजैः ।
क्ररपक्षियुतनिन्द्यनामभिः
शुष्कशीर्णबहुपर्णवर्म्मभिः ॥”)

वम्मकण्टकः, पुं, पर्पटः । इति राजनिर्घण्टः ॥

विवृतिरस्य पर्पटशब्दे विज्ञेया ॥)

वर्म्मकषा, स्त्री (वर्म्म कषतीति । कष + अच् ।

टाप् ।) सप्तला । इति शब्दरत्नावली ॥ चामार
कषा इति भाषा ॥

वर्म्मा, [न्] पुं, (वृ + मनिन् ।) क्षयिस्य पद्धतिः ।

यथा, --
“शर्म्मान्तं ब्राह्मणस्य स्याद्वर्म्मान्तं क्षत्त्रियस्य च ।
गुप्तदासान्तकं नाम प्रशस्तं वैश्यशूद्रयोः ॥”
इति श्राद्धत त्त्वधृतशातातपवचनम् ॥

वर्म्मिः, पुं, मत्स्यविशेषः । वानि इति भाषा ।

अस्य मांसगुणाः । गुरुत्वम् । वृष्यत्वम् । कषाय-
त्वम् । रक्तपित्तनाशित्वञ्च । इति राजवल्लभः ॥
(यथा, सुश्रुते । १ । १३ ।
“वर्म्मिमत्स्यवदायता छिन्नोन्नतकुक्षिः कर्व्वुरा ॥”
तथास्य गुणा यथा, --
“वर्म्मिमत्स्यो हरेद्वातं पित्तं रुचिकरो लघुः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

वर्म्मितः, त्रि, (वर्म्म करोतीति । वर्म्म + णिच् । ततः

कर्म्मणि क्तः । वर्म्म सञ्जातमस्येति । इतच् वा ।)
वर्म्मयुक्तः । कृतसन्नाहः । तत्पर्य्यायः । सन्नद्धः २
सज्जः ३ दंशितः ४ व्यूढकङ्कटः ५ । इत्यमरः ।
२ । ८ । ६५ ॥ ऊढकङ्कटः ६ । इति सुभूतिः ॥
(यथा, गो० रामायणे । २ । ९१ । १५ ।
“वाजिनां वर्म्मिताङ्गानां क्रुद्धस्य मम सायकाः ।
अद्य भित्त्वा प्रवेक्ष्यन्ति शरीराणि मयेरिताः ॥”)

वर्म्मुषः, पुं, मत्स्यविशेषः । वामिरूष इति भाषा ।

अस्य मांसगुणाः । वातनाशित्वम् । स्निग्धत्वम् ।
ग्रहदोषनाशित्वञ्च । इति राजवल्लभः ।

वर्य्यं, त्रि, (वर्य्यते प्रार्थ्यते इति । वरत् क ईप्सायाम्

+ “अचो यत् ।” ३ । १ । ९७ । इति यत् ।)
प्रधानम् । इत्यमरः । ३ । १ । ५७ । (यथा,
भागवते । १ । ५ । ९ ।
“यथा धर्म्मादयश्चार्था मुनिवर्य्यावुकीर्त्तिताः ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥”)
श्रेष्ठम् । इति मुग्धबोधव्याकरणम् ॥ (यथा,
किराते । ७ । २० ।
“माहेन्द्रं नगमभितः करेणुवर्य्याः
पर्य्यन्तस्थितजलदा दिवः पतन्तः ॥”)

वर्य्यः, पुं, (वर्य्यते प्रार्थ्यते इति । वर + यत् ।)

कामदेवः । इति मेदिनी । ये, ४० ॥

वर्य्या, स्त्री, (व्रियते इति । वृ + “अवद्यपण्य-

वर्य्येति ।” ३ । १ । १०१ । इति अप्रतिबन्धे
यत् ।) पतिंवरा । इत्यमरः । २ । ६ । ७ ॥ कन्धा ।
इति मुग्धबोधव्याकरणम् ॥

वर्व्वणा, स्त्री, (वरित्यव्यक्तशब्देन वणति शब्दायते

इति । वण शब्दे + अच् । टाप् ।) नील-
मक्षिका । इत्यमरः । २ । ३ । २७ ॥ नीला-
कारवर्णा मक्षिका वर्व्वणा । भणभणिया इति
ख्याता । मल्लिकाख्यायां इत्येके । वरिति वणति
वर्व्वणा । व्रण वण भण शब्दे पचादित्वादन्
आप् । किंवा वृणीते पूतिद्रव्यं भजते इति
वृङो विचि वर् । वणतेरणि वणा ततः कर्म्म-
धारये वर्व्वणा । इति तट्टीकायां भरतः ॥

वर्व्वरं, क्ली, (वृणुते वरयति नानागुणान् इति ।

वृ + “कॄगॄशॄवृवचिभ्यः ष्वरच् ।” उणा० २ ।
१२३ । इति ष्वरच् ।) हिङ्गुलम् । पीतचन्द-
नम् । वोलम् । इति राजनिर्घण्टः ॥

वर्व्वरः, पुं, (वृणोति दोषानिति । वृ + ष्वरच् ।)

पामरः । स च नीचजातिः । केशः । वावरी
इति भाषा । चक्रलः । देशविशेषः । (तद्देश-
वासिनि, पुंभूम्नि । यथा, मार्कण्डेये । ५७ । ३८ ।
“काम्बोजा दरजाश्चैव वर्व्वरा हर्षवद्धनाः ॥”)
फञ्जिका । इति मेदिनी । रे, २०९ ॥ वृक्ष-
विशेषः । काल वावुइ इति भाषा । तत्प-
र्य्यायः । सुमुखः २ गरघ्नः ३ कृष्णवर्व्वरकः ४
सुकन्दजः ५ गन्धपत्रः ६ पूतगन्धः ७ सुवा-
हकः ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
सुगन्धित्वम् । वान्तिविसर्पविषत्वम्दोषनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥

वर्व्वरकं, क्ली, (वर्व्वर + स्वार्थे कन् ।) चन्दन-

भेदः । तत्पर्य्यायः । वर्व्वरोत्थम् २ श्वेतवर्व्व-
रकन् ३ शीतम् ४ सुगन्धिः ५ पित्तारिः ६
सुरभिः ७ । अस्य गुणाः । शीतलत्वम् । तिक्त-
त्वम् । कफमारुतपित्तकुष्ठकण्डूव्रणनाशित्वम् ।
विशेषाद्रक्तदोषजित्त्वञ्च । इति राजनिर्घण्टः ॥

वर्व्वरा, स्त्री, (वर्व्वरपुष्पस्येव आकृतिरस्त्यस्या

इति । वर्व्वर + अच् । टाप् ।) पुष्पभेदः ।
शाकभेदः । इति मेदिनी । रे, २०९ ॥ (वर्व्व इति
शब्दं रातीति । रा + कः ।) मक्षिकाभेदः ।
इति शब्दरत्नावली ॥

वर्व्वरा, स्त्री, (वर्व्वर + टाप् । पक्षे षित्वात्

ङीष् ।) क्षुद्रवृक्षविशेषः । वायुइ
इति भाषा । तत्पर्य्यायः । कवरी २ तुङ्गी ३
खरपुष्पा ४ अजगन्धिका ५ अजगन्धा ६
कवरा ७ खरपुष्पिका ८ । इत्यमरशब्दरत्ना-
वल्यौ ॥ तस्याः प्रकारा गुणाश्च ।

वर्व्वरी, स्त्री, (वर्व्वर + टाप् । पक्षे षित्वात्

ङीष् ।) क्षुद्रवृक्षविशेषः । वायुइ
इति भाषा । तत्पर्य्यायः । कवरी २ तुङ्गी ३
खरपुष्पा ४ अजगन्धिका ५ अजगन्धा ६
कवरा ७ खरपुष्पिका ८ । इत्यमरशब्दरत्ना-
वल्यौ ॥ तस्याः प्रकारा गुणाश्च ।
“वर्व्वरी कवरी तुङ्गी खरदुग्धाजगन्धिका ।
पर्णासस्तत्र कृष्णे तु कठिञ्जरकुठेरकौ ॥
कालमारः करालश्च मलूकः कृष्णमल्लिका ।
तत्र शुक्लेऽर्ज्जकः प्रोक्तो वटपत्रस्ततोऽपरः ॥
वर्व्वरीत्रितयं रूक्षं शीतं कटु विदाहि च ।
तीक्ष्णं रुचिकरं हृद्यं दीपनं लघुपाकि च ।
पित्तलं कफवातास्रदद्रुकृमिविषापहम् ॥”
इति भावप्रकाशः ॥

वर्व्वरीकः, पुं, (वृणुते इति । वृञ् वरणे + “शॄपॄ-

वृञां द्वे रुक् चाभ्यासस्य ।” उणा० ४ । १९ ।
इति ईकन् द्विर्वचनं अभ्यासस्य रुगागमश्च ।)
ब्राह्मणयष्टिकावृक्षः । कुटिलकुन्तलः । इत्यु-
णादिकोषः ॥ अजगन्धिका । वावुइ तुलसी
इति भाषा । इति शब्दचन्द्रिका ॥ महा-
कालः । इति हेमचन्द्रः ॥ तत्र पवर्गीयबका-
रादौ पठितोऽयं किन्तु मेदिन्यां चर्च्चरीकशब्द-
स्यायमर्थः ॥

वर्व्वा, स्त्री, वर्व्वरी । इति शब्दचन्द्रिका ॥

वर्व्विः, त्रि, (वृ + “वृद्भ्यां विन् ।” उणा० ४ । ५३ ।

इति विन् ।) घस्मरः । इत्युणादिकोषः ॥

वर्व्वूरः, पुं, (वृ + बाहुलकात् वूरच् ।) वृक्ष-

विशेषः । वावला इति भाषा । तत्पर्य्यायः ।
युगलाक्षः २ कण्टालुः ३ तीक्ष्णकण्टकः ४
गोशृङ्गः ५ पंक्तिबीजः ६ दीर्घकण्टः ७ । कफा-
न्तकः ८ दृढबीजः ९ अजभक्षः १० । अस्य
गुणाः । कषायत्वम् । उष्णत्वम् । कफकासाम-
रक्तातिसारपित्तदाहाशोनाशित्वञ्च । इति
राजनिर्घण्टः ॥

वर्षं, पुं, क्ली, (वृष्यते इति । वृषु सेचने +

अज्विधौ भयादीनामुपसंख्यानमित्यच् । यद्वा,
व्रियते प्रार्थ्यते इति । वृ + “वृवॄवदिहनिकमिक-
षिभ्यः सः ।” उणा० ३ । ६२ । इति सः ।)
वृष्टिः । (यथा, मनुः । ४ । १०३ ।
“विद्युत्स्तनितवर्षेषु महोल्कानाञ्च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥”
जम्बुद्वीपांशः । वत्सरः । इत्यमरः ॥ (यथा,
मनुः । ५ । ५३ ।
“वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ॥”)
जम्बुद्बीपः । इति मेदिनी । षे, २४ ॥ (वर्ष-
तीति । वृष् + पचाद्यच् ।) मेघः । इति हेम-
चन्द्रः । २ । ७९ ॥ * ॥ अथ सप्तद्बीपानां वर्ष-
वर्णनम् । तत्र जम्बुद्वीपस्य नववर्षविभागो यथा ।
यत एव कृताः सप्त भुवो द्वीपा जम्बुप्लक्ष-
शाल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञाः । तेषां
परिमाणं पूर्ब्बस्मात् पूर्ब्बस्मादुत्तरोत्तरो यथा-
संख्यं द्विगुणमानेन बहिः समन्तत उप-
कॢप्ताः । क्षारादेक्षुरसोदसुरोदघृतोदक्षीरोद-
दधिमण्डोदशुद्धोदाः सप्त जलधयः । सप्तद्बीप-
परिखा इवाभ्यन्तरद्वीपसमाना एकैकश्येन
यथानुपूर्व्वं सप्तस्वपि बहिर्द्वीपेषु पृथक् परित
उपकल्पिताः । तेषु पुनर्ज्जम्ब्वाह्वादिषु वर्हिष्मती-
पतिरनुवृत्तानात्मजानग्नीध्रेध्मजिह्वयज्ञबाहु-
हिरण्यरेतोघृतपृष्ठमेधातिथिवीतिहोत्रसंज्ञान्
पृष्ठ ४/२९३
यथासंख्येन एकैकस्मिन्नेकमेवाधिपतिं विदधे ।
तस्य ह वा एते श्लोकाः ।
“प्रियव्रतकृतं कर्म्म कोऽनुकुर्य्याद्विनेश्वरम् ।
यो नेमिनिम्नरकरोच्छायां घ्नन् सप्तवारि-
धीन् ॥”
छायां घ्नन् तमो निरस्यन् ।
“भूसंस्थानं कृतं येन सरिद्गिरिवनादिभिः ।
सीमा च भूतनिर्वृत्यै द्वीपे द्वीपे विभागशः ॥”
एवं पितरि संप्रवृत्ते तदनुशासने वर्त्तमान
आग्नीध्रो जम्बुद्बीपौकसः प्रजा औरसवद्धर्म्मा-
वेक्षमाणः पर्य्यगोपायत् । तदुपलभ्य भगवानादि-
पुरुषः सदसि गायन्तीं पूर्ब्बचित्तिं नामाप्सरस-
मभियापयामास । तस्यामुह वात्मजान् स
राजवर्य्य आग्नीध्रो नाभिकिंपुरुषहरिवर्षेला-
वृतरम्यक-हिरण्मय-कुरुभद्राश्वकेतुमालसंज्ञान्
नव पुत्त्रानजनयत् । आग्नीध्रसुतास्ते मातु-
रनुग्रहादौत्पत्तिकेनैव संहननबलोपेताः पित्रा
विभक्ता आत्मतुल्यनामानि यथाविभागं जम्बु-
द्वीपवर्षाणि बुभुजुः । यास्मन्नव वर्षाणि नव-
योजनसहस्रायामानि अष्टभिर्मर्य्यादागिरिभिः
सुविभक्तानि भवन्ति । एषां मध्ये इला-
वृतं नामाभ्यन्तरवर्षं यस्य नाभ्यामवस्थितः
सर्व्वतः सौवर्णः कुलगिरिराजो मेरुर्द्वीपायाम-
समुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्द्धनि
द्वात्रिंशत्सहस्रयोजनविततो मूले षोडश-
साहस्रं तावतान्तर्भूम्यां प्रविष्टः । उत्तरोत्तरे-
णेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो
रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादागिरयः
प्रागायता उभयतः क्षारोदावधयो द्विसहस्र-
योजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्वस्मादुत्तरो-
त्तरो दशांशाधिकांशेन दैर्घ्य एवाह्रसन्ति ।
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय
इति प्रागायता यथा नीलादयः । अयुतयोज-
नोत्सेधा हरिवर्षकिंपुरुषभारतानां यथा-
संख्यम् । तथैवेलावृतमपरेण पूर्ब्बेण च माल्य-
वद्गन्धमादनावानीलनिषधायतौ द्विसहसं पप्र-
थतुः केतुमालभद्राश्वयोः सीमानं विदधाते ।
भारतेऽप्यस्मिन् वर्षे सरिच्छैलाः सन्ति बहवः ।
मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभः
कूटकः कोण्वः सह्यो देवगिरिरृष्यमूकः श्रीशैलो
वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमानृक्ष-
गिरिः पारिपात्रो द्रोणश्चित्रकूटो गोवर्द्धनो
रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः
कामगिरिरिति चान्ये शतसहस्रशः शैलास्तेषां
नितम्बप्रभवा नदा नद्यश्च सन्त्यसंख्याताः ।
एतासामपो भारत्यः प्रजानामभिरेव पुनन्ती-
नामात्मना चोपस्पृशन्ति । चन्द्रवशा ताम्रपर्णी
अवटोदा कृतमाला वैहायसी कावेरी वेण्णा
पयस्विनी शर्करावर्त्ता तुङ्गभद्रा कृष्णवेण्णा
भीमरथी गोदावरी निर्व्विन्ध्या पयोष्णी तापी
रेवा सुरसा नर्म्मदा चर्म्मण्वती अन्धः शोनश्च
नदौ महानदी वेदस्मृतिरृषिकुल्या त्रिसामा
कौशिकी मन्दाकिनी यमुना सरस्वती दृशद्वती
गोमती सरयुरोघवती षष्ठवती सप्तवती सुषोमा
शतद्रुश्चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी
विश्वेति महानद्यः । अस्मिन्नेव वर्षे पुरुषैर्लब्ध-
जन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन
कर्म्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन
आनुपूर्व्वेण सर्व्वा ह्येव सर्व्वेषां विधीयन्ते ।
यथावर्णविधानमपवर्गश्च भवति ॥ १ ॥ * ॥
अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो
वर्षविभाग उपवर्ण्यते । प्लक्षो जम्बुप्रमाणो
द्वीपाख्यातिकरो हिरण्मय उत्थितो यत्राग्नि-
रूपास्ते सप्तजिह्वः । तस्याधिपतिः प्रियव्रतात्मज
इध्मजिह्वस्तं द्बीपं सप्तवर्षाणि विभज्य सप्तवर्ष-
नामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगे-
नोपरराम । अशिवं वयसं सुभद्रं शान्तं
क्षेमममृतमभयमिति वर्षाणि । तेषु गिरयो
नद्यश्च सप्तैवाभिज्ञाताः । मणिकूटो वज्रकूट
इन्द्रसेनो ज्योतिष्मान् सुवर्णो हिरण्यष्ठीवो
मेघमाल इति सेतुशैलाः । अरुणा नृमणा
आङ्गीरसी सावित्री सुभाता ऋचम्भरा
सत्यम्भरेति महानद्यः ॥ २ ॥ * ॥ प्लक्षस्तु
समानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि
शाल्मलो द्बिगुणविशालः समानेन सुरोदेना-
वृतः परिवृङ्क्ते । यत्र ह वै शाल्मली प्लक्षा-
यामा । तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञ-
वाहः स्वसुतेभ्यः सप्तभ्यस्तन्नामानि सप्तवर्षाणि
व्यभजत् । सुरोचनं सौमनस्यं रमणकं देववर्हं
पारिभद्रमाप्यायनमभिज्ञातमिति । तेषु वर्षा-
द्रयो नद्यश्च सप्तैवाभिज्ञाताः । सुरसः शतशृङ्गो
वामदेवः कुन्दः कुमुदः पुष्पवर्षः सहस्रश्रुति-
रिति । अनुमती सिनीवाली सरस्वती कुहू
रजनी नन्दा राकेति ॥ ३ ॥ * ॥ एवं सुरो-
दाद्बहिस्तद्द्विगुणः समानेनावृतो घृतोदेन यथा
पूर्ब्बः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृत-
स्तद्द्वीपाख्यापनो ज्वलन इवापरः सुशष्प-
रोचिषा दिशो विराजयति । तद्द्वीपपतिः प्रैय-
व्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः
स्वपुत्त्रेभ्यो यथाभागं विभज्य स्वयं तप आति-
ष्ठत् । वसुवसूदानदृढरुचिनाभिगुप्तसत्यव्रतविप्र-
नामदेवनामभ्यस्तेषां वर्षेषु सीमागिरयो नद्य-
श्चाभिज्ञाताः सप्तैव । वभ्रुश्चतुःशृङ्गः कपिल-
श्चित्रकूटो देवानीक ऊर्द्ध्वरोमा द्रविण इति ।
रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा
देवगर्भा घृतच्युता मन्त्रमालेति ॥ ४ ॥ * ॥ तथा
बहिः क्रौञ्चद्वीपो द्बिगुणः समानेन क्षीरोदेन
परित उपकॢप्तः । वृतो यथा कुशद्बीपो वृतो-
देन । यस्मिन् क्रौञ्चनामा पर्व्वतराजो द्बीप-
नामनिर्व्वर्त्तक आस्ते । तस्मिन्नपि प्रैयव्रतो घृत-
पृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य
तेषु पुत्त्रनामसु सप्त ऋक्थादान् वर्षपान् निवेश्य
स्वयं भगवान् भगवतः परमकल्याणयशस
आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ।
आत्मा मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो
लोहितानो वनस्पतिरिति घृतपृष्ठसुताः । तेषां
वर्षगिरयः सप्तैव नद्यश्चाभिख्याताः । शुक्लो
वर्द्धमानो भोजन उपवर्हणो नन्दो नन्दनः
सर्व्वतोभद्र इति । अभया अमृतौघा आर्य्यका
तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ ५ ॥ * ॥
एवं परस्तात् क्षीरोदात् परित उपवेशितः
शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन
दधिमण्डोदेन परीतः । यस्मिन् हि शाको नाम
महीरुहः स्वक्षेत्रव्यपदेशकः । यस्य हि महा-
सुरभिगन्धस्तद्द्वीपमनुवासयति । तस्यापि प्रैय-
व्रत एवाधिपतिर्नाम्ना मेधातिथिः । सोऽपि
विभज्य सप्तवर्षाणि पुत्त्रनामानि तेषु स्वात्मजान्
पुरोजवमनोजववेपमानधूम्रानीकचित्ररेफबहु-
रूपविश्वाधारसंज्ञान् निधाप्याधिपतीन् स्वयं
भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ।
एतेषां वर्षमर्य्यादागिरयो नद्यश्च सप्त सप्तैव ।
ईशान उरुशृङ्गो बलभद्रः शतकेशरः सहस्र-
स्रोता देवपालो महानस इति । अनघा
आयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्र-
श्रुतिर्निजधृतिरिति ॥ ६ ॥ * ॥ एवमेव दधिमण्डो-
दात् परतः पुष्करद्वीपस्ततो द्विगुणायामः सम-
न्तत उपकॢप्तः समानेन स्वादूदकेन समुद्रेण
बहिरावृतः । तद्द्वीपमध्ये मानसोत्तरनाभैक
एवार्व्वाचीनपराचीनवर्षयोर्मर्य्यादाचलः अयुत-
योजनोच्छ्रायायामः । यत्र तु चतसृषु दिक्षु
चत्वारि पुराणि लोकपालानाम् । यदुपरिष्टात्
सूर्य्यरथस्य मेरुं परिक्रामतः संवत्सरात्मकं चक्रं
देवाहोरात्राभ्यां परिभ्रमति । तद्द्वीपस्याधि-
पतिः प्रैयव्रतो वीतिहोत्रो नाम तस्यात्मजौ
रमणकधातकनामानौ वर्षपती नियुज्य स्वयं
पूर्ब्बजवद्भगवत्कर्म्मशील आस्ते । तद्बर्षपुरुषा
भगवन्तं ब्रह्मरूपिणं सकर्म्मकेण कर्म्मणाराध-
यन्ति ॥ ७ ॥ इति श्रीभागवते ५ स्कन्धे १ । २ ।
१६ । १९ । २० अध्यायाः ॥ * ॥ अपि च ।
“कन्ये द्बे दश पुत्त्राश्च सम्राट् कुक्षिश्च ते उभे ।
ते सर्व्वे भ्रातरः शूराः प्रजापतिसमा दश ॥
अग्नीध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्व्वपुः ।
ज्योतिष्मान् द्युतिमान् हव्यः सवनो मित्र एव वा ।
मेधाग्निबाहुमित्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्याय मनो दधुः ॥
प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् ।
द्बीपेषु तेषु धर्म्मेण द्बीपांस्तांश्च निबोध मे ॥
जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता ।
प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः स्मृतः ॥
शाल्मले तु वपुष्मन्तं ज्योतिप्मन्तं कुशाह्वये ।
क्रौञ्चद्वीपे द्युतिमन्तं हव्यं शाकाह्वये सुतम् ॥
पुष्कराधिपतिञ्चैव सवनं कृतवान् सुतम् ।
महावीतो धातुकिश्च पुष्कराधिपतेः सुतौ ॥
द्विधा कृत्वा ततो वर्षं पुष्करे स न्यवेशयत् ।
हव्यस्य पुत्त्राः सप्तासन्नामतस्तान्निबोध मे ॥
जलदश्च कुमारश्च सुकुमारो मणीवकः ।
पृष्ठ ४/२९४
कुशोत्तरोऽथ मोदाकी सप्तमस्तु महाद्रुमः ॥
तन्नाम ङ्कानि वर्षाणि शाकद्वीपे चकार सः ।
तथा द्युतिमतः सप्त पुत्त्रांश्चापि निबोध मे ॥
कुशलो मनोऽनुगश्चोष्णः प्रधानश्चान्धकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तमस्तु तथावरः ॥
तेषां स्वनामधेयानि क्रौञ्चद्बीपे तथाभवन् । * ।
ज्योतिष्मतः कुशद्वीपे पुत्त्रनामाङ्कितानि वै ॥
तत्रापि सप्त वर्षाणि तेषां नामानि मे शृणु ।
उद्गिजं धेनुमच्चैव द्वैरथं लम्बमेव च ॥
धृतिमत् प्रभाकरञ्चैव कपिलञ्चापि सप्तमम् ।
वपुष्मतः सुताः सप्त शाल्मलेशस्य वाभवन् ॥
श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव महीध्रः णुप्रभस्तथा ॥
तथैव शाल्मले तेषां स्वनामानि तु सप्त वै ।
सप्तमेधातिथेः पुत्त्राः प्लक्षद्वीपेश्वरस्य ये ॥
तेषां नामाङ्कितैर्द्वीपैस्तद्वर्षं सप्तभिर्वृतम् ।
पूर्ब्बं शान्तभयं वर्षं शिशिरन्तु सुखोदयम् ॥
आनन्दञ्च शिवञ्चैव क्षेमकञ्च तथा ध्रुवम् ।
प्लक्षद्वीपादियुक्तेषु शाकद्बीपान्तिकेषु च ॥
ज्ञेयः पञ्चसु धर्म्मोऽत्र वर्णाश्रमविभागजः । * ।
यानि किंपुरुषाद्यानि वर्ज्जयित्वा हिमाह्वयम् ॥
सुखमायुश्च रूपञ्च बलं धर्म्मश्च नित्यशः ।
पञ्चस्वेतेषु वषषु सर्व्वं साधारणं स्मृतम् ॥ * ॥
आग्नीध्राय पिता पूर्ब्बं जम्बुद्वीपं ददौ द्बिज ।
तस्य पुत्त्रा बभूवुर्हि प्रजापतिसमा नव ॥
ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ।
हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः ॥
रम्यश्च पञ्चमः पुत्त्रो हिरण्यः षष्ठ उच्यते ।
कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः ॥
नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः । * ।
यानि किंपुरुषाद्यानि वर्ज्जयित्वा हिमाह्वयम् ॥
तेषां स्वभावतः सिद्धिः सुखप्राया ह्यपत्नतः ।
विपर्य्ययो न तेष्वस्ति जरामृत्युभयं न च ॥
धर्म्माधर्म्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ।
न वै चतुर्युगावस्था नाश्रमाः क्रतवो न च ॥ * ॥
आग्नीध्रसूनोर्नाभेश्च ऋषभोऽभूत् सुतो द्बिज ।
ऋषभाद्भरतो जज्ञे वीरः पुत्त्रशताद्वरः ।
सोऽभिषिच्यर्षभः पुत्त्रं महाप्रव्रज्यमास्थितः ।
तपस्तेपे महाभागः पुलहाश्रमसंश्रयः ॥ * ॥
हिमाह्वं दक्षिणं वर्षं भरताय ददौ पिता ।
तस्माच्च भारतं वर्षं तस्य नाम्ना महात्मनः ॥
भरतस्याप्यभूत् पुत्त्रः सुमतिर्नाम धार्म्मिकः ।
तस्मिन् राज्यं समावेश्य भरतोऽपि बनं ययौ ॥
एतेषां पुत्त्रपौत्त्रैश्च सप्तद्वीपा वसुन्धरा ।
प्रियव्रतस्य पुत्त्रैस्तु भुक्ता स्वायम्भुवेऽन्तरे ॥
एष स्वायम्भुवः सर्गः कथितस्ते द्बिजोत्तम ।
पूर्ब्बमन्वन्तरेशस्य किमन्यत् कथयामि ते ॥”
इति मार्कण्डेयपुराणे स्वायम्भुवे मन्वन्तरे भुवन-
कोषः ॥ * ॥ अन्यच्च ।
सूत उवाच ।
“केतुमाले नरोः कालाः सर्व्वे पनसभोजनाः ।
स्त्रियश्चोत्पलपत्राश्च जीवन्ति च वर्पायुतम् ॥
भद्राश्व पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः ।
दशवर्षसहस्राणि जीवन्ति वायुभोजनाः ॥ * ॥
रम्यके पुरुषा नार्य्यो रमन्त्यारजतप्रभाः ।
दशवर्षसहस्राणि शतानि दशपञ्च च ॥
जीवन्ति तत्र सत्त्वस्था न्यग्रोधफलभोजनाः ।
हिरण्मये हिरण्याभाः सर्व्वे च लकुचाशनाः ॥
एकादशसहस्राणि शतानि दशपञ्च च ।
जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥
सर्व्वे मिथुनजाताश्च नित्यं सुखनिषेविणः ।
चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥
तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः ।
दशवर्षसहस्राणि जीवन्ति प्लक्षभोजनाः ॥
यजन्ति सततं देवं चतुर्मूर्त्तिं चतुर्मुखम् ।
ध्याने मनः समाधाय सदा वा भक्तिसंयुताः ॥ *
तथा च हरिवर्षेऽपि महारजतसन्निभाः ।
दशवर्षसहस्राणि जीवन्तीक्षुरसाशिनः ॥
तत्र नारायणं देवं विश्वयोनिं सनातनम् ।
उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥
तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकनिर्म्मलम् ।
विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥
चतुर्द्वारमनौपम्यं चतुस्तोरणसंयुतम् ।
प्राकारैर्दशभिर्युक्तं सुगन्धञ्च समुद्गमम् ॥
स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् ।
स्वर्णस्तम्भसहस्रैश्च सर्व्वतः समलङ्कृतम् ॥
हेमसोपानसंयुक्तं नानारत्नोपशोभितम् ।
दिव्यसिं हासनोपेतं सर्व्वशोभासमन्वितम् ॥
सरोभिः स्वादुपाणीयैर्नदीभिश्चोपशोभितम् ।
नारायणपरैः शुद्धैर्व्वेदाध्ययनतत्परैः ॥
योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् ।
स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥
तत्र देवादिदेवस्य विष्णोरमिततेजसः ।
राजानः सर्व्वकालस्तु महिमानं प्रकुर्व्वते ॥
गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः ।
स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥
इलावृते पद्मवर्णा जम्बूफलरसाशिनः ॥
त्रयोदशसहस्राणि वर्षाणां व स्थिरायुषः ॥
भारते तु स्त्रियः पुंसो नानावर्णः प्रकीर्त्तिताः ।
नानादेवार्च्चने युक्ता नानाकर्म्माणि कुर्व्वते ॥
परमायुर्मतं तेषां शतं वर्षाणि सुव्रताः ।
नवयोजनसाहस्रं वर्षमेतत् प्रकीर्त्तितम् ॥
कर्म्मभूमिरियं विप्रा नराणामाधिकारिणाम् ।
महेन्द्रो मलयः सह्यः शुद्धिमानृक्षपर्व्वतः ॥
विन्ध्यश्च पारिपात्रश्च सप्तात्र कुलपर्व्वताः ।
इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ वारुणः ।
अयन्तु नवमस्तेषां द्बीपश्च सागरावृतः ॥
योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरः ।
पूर्व्वे किरातास्तस्यान्ते पश्चिमे यवनास्तथा ॥
ब्राह्मणाः क्षत्त्रिया वैश्या मध्ये शूद्रास्तथैव च ।
इज्यायुधबणिज्याभिर्व्वर्त्तयन्त्यत्र मानवाः ॥
स्रवन्ते पावना नद्यः पर्व्वतेभ्यो विनिःसृताः ।
शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा ॥
इरातती वितस्ता च विपाशा देविका कुहूः ।
गोमती धूतपापा च बाहुदा च दृशद्वती ॥
कौशिकी लोहिता चैव हिमवत्पादनिःसृताः ।
वेदस्मृतिर्व्वेदमती व्रतघ्नी त्रिविदा तथा ॥
पर्णासा वन्दना चैव सदानीरा मनोरमा ।
चर्म्मण्वती तथानूपा विदिशा वेदवत्यपि ॥
शिश्रुः शशिन्यपि तथा पारिपात्राश्रयास्तथा ।
नर्म्मदा सुरसा शाना दशार्णा च महानदी ॥
मन्दाकिनी चित्रकूटा तामसा च पिशाचिका ।
चित्रोत्पला विपाशा च माञ्जना बाहुवाहिनी ॥
हिमवत्पादजा नद्यः सर्व्वपापहरा नृणाम् ।
तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी ॥
वेन्वा वैतरणी चैव बलाका च कुमुद्वती ।
तोया चैव महागौरी दुर्गा चान्तःशिला तथा ॥
विन्ध्यपादप्रसूतास्तु नद्यः पुण्यजलाः शुभाः ।
ऋषिकुल्या त्रिसामा च मन्दगा मन्दगामिनी ॥
रूपा पानाशिनी चैव ऋषिका वंशकारिणी ।
शुक्तिमत्पादसंजाताः सर्व्वपापहरा नृणाम् ॥
आसां नद्युपनद्यश्च शतशो द्विजपुङ्गवाः ।
सर्व्वाः पापहराः पुण्याः स्नानदानादिकर्म्मसु ॥
तास्विमे कुरुपञ्चाला मध्यदेशादयो जनाः ।
पूर्ब्बे देशादिकाश्चैव कामरूपनिवासिनः ॥
औड्राः कलिङ्गमगधा दाक्षिणात्याश्च सर्व्वशः ।
तथा परान्ताः सौराष्ट्राः शूद्राभीरास्तथा-
र्व्वुदाः ॥
मानका मालवाश्चैव पारिपात्रनिवासिनः ।
सौवीराः सैन्धवा हूणाः शाल्लाः कन्यनिवा-
सिनः ॥
मद्रा वासास्तथाम्बष्ठाः पारसीकास्तथैव च ।
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥
चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् ।
कृतं त्रेता द्वापरश्च कलिश्चान्यत्र न क्वचित् ॥
यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः ।
न तेषु शोको नायासो नोद्वेगः क्षुद्भयन्न च ॥
सुस्थाः प्रजा निरातङ्काः सर्व्वदुःखविवर्ज्जिताः ।
रमन्ते विविधैर्भावैः सर्व्वार्श्च स्थिरयौवनाः ॥”
इति कूर्म्मपुराणे ४४ अध्यायः ॥
अपरं वामनपुराणे १३ अध्याये द्रष्टव्यम् ॥ * ॥
प्रभवादिषष्टिवर्षाणि वत्सरशब्दे द्रष्टव्यानि । तत्र
षष्ठिधा पूज्या देव्यो यथा, --
“संवत्सरप्रमाणेन देव्यः कृत्वा पुरो हि ताः ।
यष्टव्या विधिना तात सर्व्वकामप्रसिद्धिदाः ॥
महाभयविनाशाय महारिपुवधाय च ।
महाभ्युदयकामाय महासिद्धिफलाय च ।
पूजयेत् तद्यजेद्देवीं षष्टिधा परमेश्वरीम् ॥
ऋतुनागकृता पीडा यक्षरक्षोग्रहोद्भवा ।
संवत्सरमहादोषजन्मर्क्षमुपमर्द्दना ॥
केतूल्काशनिराहूतो भौमार्कसितभानुजाः ।
शमयेद्यजमानस्य देवीहोमरतस्य च ॥
मण्डलादिविधानेन महास्नानाभिषेचनैः ।
चन्द्रसंपूर्ण पुष्यर्कफलरत्नाभिपूजनैः ॥
मङ्गला मङ्गलं धत्ते विधिना पूजिता मुने ! ॥
पृष्ठ ४/२९५
उत्पातक्षोभनिर्घातविकृतानां शमाय च ।
कथयामि महाप्राज्ञ शृणुष्वैकमनाधुना ॥ * ॥
मङ्गला विजया भद्रा शिवा शान्तिर्धृतिः क्षमा ।
ऋद्धिर्वृद्ध्युन्नतिः सिद्धिस्तुष्टिः पुष्टिः श्रिया उमा ॥
दीप्तिः कान्तिर्यशो लक्ष्मीरीश्वरीति प्रकीर्त्तिता ।
विंशताश्चोत्तमा देव्यः सत्त्वभावव्यवस्थिताः ॥
प्रथमं संस्थिता वत्स ! सर्व्वसिद्धिप्रदायिकाः । २०
ब्राह्मी जयावती शाक्री अजिता चापरा-
जिता ॥
जरन्ती मानसी माया दितिः श्वेता विमो-
हनी ।
शरण्या कौशिकी गौरी विमला ललितालसा ॥
अरुन्धती क्रिया दुर्गा राजसा इति वायुना ।
मध्यभागे स्थिता देव्यो युगानामशुभापहा ॥ २० ॥
काली रौद्री कपाली च घण्टाकर्णा मयूरिकी ।
बहुरूपा सुरूपा च त्रिनेत्रा रिपुहाम्बिका ॥
माहेश्वरी कुमारी च वैष्णवी सुरपूजिताः ।
वैवस्वती तथा घोरा कराली विकटादिभिः ॥
चर्च्चिका चेति धातुस्था देव्यस्त्रैलोक्यविश्रुताः ।
पूजितव्या मुनिश्रेष्ठ ! सर्व्वकामप्रसाधिकाः ॥ २० ॥
त्रिदशामुरगन्धर्व्वयक्षरक्षोगणैर्नुताः ।
भावकालाश्रयाः कार्य्यद्रव्यरूपफलप्रदाः ॥
प्रत्येकशः समस्ता वा कर्त्तव्या मुनिसत्तम ! ।
अथवा युगभेदेन पञ्च पञ्च प्रपूजिताः ॥”
इति देवीपुराणे संवत्सरदेवताविंशतिविधि-
नामाध्यायः ॥ (वर्षके, त्रि । यथा, भागवते ।
३ । २१ । २० ।
“नमाम्यभीक्ष्णं नमनीयपादं
सरोजमल्पीयसि कामवर्षम् ॥”)

वर्षकरी, स्त्री, (वर्षं तत्सूचनं रवेण करो-

तीति । वर्ष + कृ + टः । ङीप् ।) झिल्लिका ।
इति हेमचन्द्रः । ४ । २८२ ॥

वर्षकेतुः, पुं, (वर्षस्य वृष्टेः केतुरिव । सति वर्षे

भूरिश उत्पन्नत्वादस्य तथात्वम् ।) रक्तपुनर्नवा ।
इति राजनिर्घण्टः ॥ (अलर्कवंशीयकेतुमतः
पुत्त्रः । यथा, हरिवंशे । ३२ । ४० ।
“क्षेम्यस्य केतुमान् पुत्त्रो वर्षकेतुस्ततोऽभवत् ॥”)

वर्षकोषः, पुं, (वर्षस्य वत्सरस्य कोष इव । सर्व्ववर्ष-

ज्ञानवत्त्वात् तथात्वमस्य ।) दैवज्ञः । इति
शब्दरत्नावली ॥ (वर्षस्य अन्तःस्थितफलकोष
इव कोषः ।) मासः । इति शब्दमाला ॥

वर्षजं, त्रि, (वर्षात् जातमिति । जन् + डः ।) वृष्टि-

जातम् । वत्सरजातम् । जम्बुद्बीपजातम् ।
द्वीपांशजातम् । मेघजातम् । इति वर्षशब्द-
पूर्ब्बजनधातोर्डप्रत्ययेन निष्पन्नम् ॥

वर्षणं, क्ली, (वृष् + ल्युट् ।) वृष्टिः । इति शब्द-

रत्नावली ॥ (यथा, मार्कण्डेयपुराणे । १०४ । २१ ।
“तमेव मुञ्चतः सर्व्वं रसं वै वर्षणाय यत् ।
रूपमाप्यायकं भास्वंस्तस्मै मेघाय ते नमः ॥”)

वर्षणिः, स्त्री, (वृष् + अनिः ।) वर्त्तनम् । कृतिः ।

इत्युणादिकोषः ॥ क्रतुः । वर्षणम् । इति
संक्षिप्तसारोणादिवृत्तिः ॥

वर्षपर्व्वतः, पुं, (वर्षाणां भारतादीनां विभाजकः

पर्व्वत इति मध्यलोपी समासः ।) वर्षविभा-
जकगिरिः । यथा, --
“हिमवान् हेमकूटश्च निषधो मेरुरेव च ।
चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्व्वताः ॥”
इति हारावली ॥

वर्षपाकी, [न्] पुं, (वर्षे वर्षाकाले पाकोऽस्त्यस्येति ।

वर्षपाक + इनिः ।) आम्रातकः । इति हेम-
चन्द्रः । ४ । २१८ ॥ (तथास्य पर्य्यायः ।
“आम्रातको वर्षपाकी ।” इति वैद्यकरत्न-
मालायाम् ॥)

वर्षपुष्पा, स्त्री, (वर्षे वर्षणकाले पुष्पं यस्याः ।)

सहदेवीलता । इति राजनिर्घण्टः ॥ (सहदेवी-
लताशब्देऽस्या विवृतिर्ज्ञेया ॥)

वर्षप्रियः, पुं, (वर्षो वर्षणं प्रियं यस्य ।) चातक-

पक्षी । इति त्रिकाण्डशेषः ॥

वर्षवरः, पुं, (वरतीति । वर आवरणे + अच् ।

वर्षस्य रेतोवर्षणस्य वर आवरकः ।) षण्ढः ।
इत्यमरः । २ । ८ । ९ ॥ खोजा । इति भाषा ॥
(यथा, रत्नावल्याम् २ अङ्के ।
“नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं
वामनः ॥”)

वर्षवृद्धिः, स्त्री, (वर्षस्य वृद्धिराधिक्यं यत्र ।)

जन्मतिथिः । इति स्मार्त्तव्याख्यादर्शनात् ॥ अथ
जन्मतिथिकृत्यम् । तन्मलमासे न कर्त्तव्यं चान्द्र-
मासीयत्वेन सावकाशत्वात् । न च तस्य सौर-
मासीयत्वं तथात्वे तन्मासे तत्तिथेः कदाचिद-
प्राप्तौ तद्वर्षे तत्कृत्यलोपापत्तेः । न चेष्टापत्तिः
प्रतिसंवत्सरन्तद्विधानात् । यथा ब्रह्मपुराणं
गर्गश्च ।
“सर्व्वैश्च जन्मदिवसे स्नातैर्मङ्गलपाणिभिः ।
गुरुदेवाग्निविप्राश्च पूजनीयाः प्रयत्नतः ॥
स्वनक्षत्रञ्च पितरौ तथा देवप्रजापतिः ।
प्रति संवत्सरञ्चैव कर्त्तव्यश्च महोत्सवः ॥”
स्नातैस्तिलस्नातैः । प्रजापतिर्ब्रह्मा । तथा च
तत्तिथिमधिकृत्य ।
“तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः ।
तिलभुक् तिलवापी च षट्तिली नावसीदति ॥
मङ्गलपाणिभिः अभिप्रेतार्थसिद्धिर्म्मङ्गलं तद्धेतु-
तया गोरोचनादिकमपि मङ्गलं तेन धृत-
गुग्गुल्वादिपाणिभिरित्यर्थः । तथा च कृत्य-
चिन्तामणौ ।
“गुडदुग्धतिलानद्याज्जन्मग्रन्थेश्च बन्धनम् ।
गुग्गुलुं निम्बसिद्धार्थं दूर्व्वागोरोचनायुतम् ।
संपूज्य भानुविघ्नेशौ महषि प्रार्थयेदिदम् ॥
चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ! ।
रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरिल्यर्गसिद्ध्यर्थमस्माकं वरदो भव ॥”
स्वनक्षत्रञ्चेति स्वनक्षत्रं अश्विन्याद्यन्तर्गतजन्म-
कालीननक्षत्रम् । नामकरणे तथा दर्शनात् वक्ष्य-
माणब्रह्मपुराणोक्तप्रणवादिनमोऽन्तन नाम्नैव
पूजाविधानाच्च । तदज्ञाने स्वनक्षत्राय नम
इत्युल्लेख्यम् ॥ * ॥ पूजायामर्घ्यानन्तरं पाद्य-
माह मत्स्यपुराणम् । अर्घ्यं पाद्यादिकन्तत्र
मधुपर्कं प्रयोजयेत् । पाद्यानन्तरं अर्घ्यमाह
नरसिंहपुराणम् । पाद्यञ्चैव तृतीयया चतुर्थ्यार्घ्य
प्रदापयेत् । तृतीयया पुरुषसूक्तीयतृतीयया
ऋचा । उभयक्रमदर्शनादिच्छाविकल्पः । इति
श्रीदत्तः ॥ * ॥ श्रीपतिव्यवहारनिर्णये ।
“नवाम्बरधरो भूत्वा पूजयेच्च चिरायुषम् ॥”
तथा ।
“द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।
मार्कण्डेयं नरो भक्त्या पूजतेत् प्रयतस्तथा ॥
ततो दीर्घायुषं व्यासं रामं द्रौणिं कृपं वलिम् ।
प्रह्लादञ्च हनूमन्तं विभीषणमथार्च्चयेत् ॥”
रामोऽत्र परशुरामः । चिरजीविसाहचर्य्यात् ।
द्रौणिरश्वत्थामा ॥ * ॥ तथा, --
“स्वनक्षत्रं जन्मतिथिं प्राप्य सम्पूजयेन्नरः ।
षष्ठीञ्च दधिभक्तेन वर्षे वर्षे पुनः पुनः ॥”
योगियाज्ञवल्क्यः ।
“ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्म्मसु ।
तद्बिष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः ॥
गायत्त्री वैष्णवी ह्येषा विष्णोः संस्मरणाय वै ॥”
ध्यायेत् स्मरेत् । स च मन्त्रः ।
“तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् ॥”
वामनपुराणम् ।
“सर्व्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम् ।
नारायणं नमस्कृत्य सर्व्वकर्म्माणि कारयेत् ॥” * ॥
सङ्कल्पाकरणे निन्दामाह भविष्यपुराणम् ।
“सङ्कल्पेन विना राजन् ! यत्किञ्चित् कुरुते
नरः ।
फलञ्चाल्पाल्पकं तस्य धर्म्मस्यार्द्धक्षयो भवेत् ॥”
ब्रह्मपुराणम् ।
“प्रणवादिसमायुक्तं नमस्कारान्तकीर्त्तितम् ।
स्वनामसर्व्वसत्त्वानां मन्त्र इत्यभिधीयते ॥
अनेनैव विधानेन गन्धपुष्पे निवेदयेत् ।
एकैकस्य प्रकुर्व्वीत यथोद्दिष्टं क्रमेण तु ॥”
गन्धपुष्पमात्रं पञ्चोपचाराद्यसम्भवे ।
“मन्त्राच्छतगुणं प्रोक्तं भक्त्या लक्षगुणोत्तरम् ।
भक्तिमन्त्रसमेतन्तु कोटि कोटि गुणोत्तरम् ॥
सर्व्वत्र कर्म्मोपदेशकं दक्षिणादिभिरर्च्चयेत् ।
तथोपदेष्टारमपि पूजयेच्च ततो गुरुम् ।
न पूज्यते गुरुर्यत्र नरैस्तत्राफला क्रिया ॥”
इति मत्स्यपुराणवचनात् ॥ * ॥
ततः कर्म्मानन्तरं तिलहोमस्तु पूजितदेवता-
नामभिः कार्य्यः ।
“एकैकां देवतां राम समुद्दिश्य यथाविधि ।
चतुर्थ्यन्तेन धर्म्मज्ञ नाम्ना च प्रणवादिना ॥
होमद्रव्यमथैकैकं शतसं ख्यन्तु होमयेत् ॥”
इति विष्णुधर्म्मोत्तरदर्शनात् ॥
एवं होमे स्वाहान्तता च मन्त्रस्य ।
पृष्ठ ४/२९६
“स्वाहावसाने जुहुयात् ध्यायन् वै मन्त्रदेव-
ताम् ॥”
इति स्मृतेः ॥
अशक्तौ तु देवीपुराणम् ।
“होमो ग्रहादिपूजायां शतमष्टोत्तरं भवेत् ।
अष्टाविंशतिरष्टौ वा यथाशक्ति विधीयते ॥” * ॥
स्कान्दे ।
“खण्डनं नखकेशानां मैथुनाध्वानमेव च ।
आमिषं कलहं हिंसां वर्षवृद्धौ विवर्ज्जयेत् ॥”
अध्वानं अध्वगमनम् । कलहमित्यत्र सङ्गर-
मिति क्वचित् पाठः । सङ्गरं युद्धम् । वर्षवृद्धौ
जन्मदिने ॥ * ॥ वृद्धमनुः ।
“मृते जन्मनि संक्रान्तौ श्राद्धे जन्मदिने तथा ।
अस्पृश्यस्पर्शने चैव न स्नायादुष्टवारिणा ॥”
जन्मनि पुत्त्रजन्मनि । ज्योतिषे ।
“स्नात्वा जन्मदिने स्त्रियं परिहरन् प्राप्नोत्य-
भीष्टां श्रियं
मत्स्यान्मोचयतो द्विजाय ददतोऽप्यायुश्चिरं
वर्द्धते ।
शक्तून् खादति यश्च तस्य रिपवो नाशं प्रयान्ति
ध्रुवं
भुङ्क्ते यस्तु निरामिषं स हि भवेज्जन्मान्तरे
पण्डितः ॥” * ॥
दीपिकायाम् ।
“जन्मर्क्षयुक्ता यदि जन्ममासे
यस्य ध्रुवं जन्मतिथिर्भवेच्च ।
भवन्ति तद्वत्सरमेव याव-
न्नैरुज्यसम्मानसुखानि तस्य ॥
कृतान्तकुजयोर्व्वारे यस्य जन्मतिथिर्भवेत् ।
अनृक्षयोगसंप्राप्तौ विघ्नस्तस्य पदे पदे ॥”
कृतान्तकुजयोः शनिमङ्गलयोः ।
“तस्य सर्व्वौषधिस्नाणं ग्रहविप्रसुरार्च्चनम् ।
ग्रहानुदिश्य होमो वा ग्रहाणां प्रीतिमिच्छता ॥
सोरारयोर्दिने मुक्ता देयानृक्षे तु काञ्चनम् ॥
मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्बयम् ।
शटी चम्पकमुस्तञ्च सर्व्वौषधिगणः स्मृतः ॥”
रजनीद्वयं हरिद्रा दारुहरिद्रेति । एतेषां
पत्रादीनां ग्रहणम् । कषायावयवग्रहणे मत्स्य-
पुराणविष्णुधर्म्मोत्तरयोस्तथा दर्शनात् । तद्-
यथा, --
“एषां पत्राणि साराणि मूलानि कुसुमानि च ।
एवमादीनि चान्यानि कषायाख्यो गणः स्मृतः ॥”
आयुर्व्वेदोक्ता परिभाषा ।
“अङ्गेऽप्यनुक्ते विहितन्तु मूलं
भागेऽप्यनुक्ते समता विधेया ॥”
तत्र क्रमः । तिलोद्बर्त्तनम् । तिलयुक्तजलेन
स्नानम् । नववस्त्रपरीधानम् । गुग्गुलुनिम्ब-
सिद्धार्थदूर्व्वा-गोरोचनात्मकजन्मग्रन्थिं दक्षिणे
पाणौ वध्नीयात् । गुरुदेवाग्निविप्राश्च पूज-
नीयाः । स्वनक्षत्रं पूजनीयम् । अत्र च ।
हस्ता स्वाती श्रवणा अक्लीवे । मृगशिरो
नपुंसि स्यात् । पुंसि च पुनर्व्वसुपुष्यौ । मूलं
त्वस्त्री स्त्रियां शेषाः । इत्यनेन लिङ्गनिर्णयः ॥ * ॥
जन्मनक्षत्रादीनां गोपनमाह विष्णुधर्म्मोत्तरे ।
“गोपयेज्जन्मनक्षत्रं धनसारं गृहे मलम् ।
प्रभोरप्यपमानञ्च तस्य दुश्चरितञ्च यत् ॥”
धनसारं घनश्रेष्ठम् । मलं छिद्रम् ॥ पितरौ
प्रजापतिः सूर्य्यो गणपतिर्मार्कण्डेयश्च पूजनीयः ।
तत्र पार्थनमन्त्रौ ।
“चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ।
रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥
मार्कण्डेय महाभाग सप्तकल्पान्तजीवन ।
आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो भव ॥”
ततो व्यासपरशुरामाश्वत्थामकृपवलिप्रह्लाद-
हनूमद्विभीषणाः पूजनीयाः । षष्ठ्यपि पूज-
नीया ।
“त्रैलोक्ये यानि भूतानि स्थावराणि चराणि
च ।
ब्रह्मविष्णुशिवैः सार्द्धं रक्षां कुर्व्वन्तु तानि मे ॥”
इति मत्स्यपुराणीयं रक्षार्थं पठेत् ॥ * ॥
पितृमातृपादग्रहणक्रमस्तु विष्णुपुराणादुन्नेयः ।
यथा, --
“कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।
देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥”
एवञ्च ।
“सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते ॥”
इति मनुवचने पितुरपेक्षया यत् सहसं मातु-
र्गौरवमुक्तं यत् पोषणरक्षार्थम् । अतएव
मनुः ।
“मृते भर्त्तरि पुत्त्रस्तु वाच्यो मातुररक्षिता ॥”
वाच्यो गर्हणीयः ॥ * ॥ गुडदुग्धतिलपाने तु
मन्त्रः ।
“सतिलं गुडसंमिश्रमञ्जल्यर्द्धमितं पयः ।
मार्कण्डेयवरं लब्ध्वा पिबाम्यायुष्यहेतवे ॥”
अत्र वैदिकेतरमन्त्रपाठे शूद्रादेरप्यधिकारः ।
जन्मतिथेः प्रागुक्तब्रह्मपुराणीयत्वात् पौर्णमा-
स्यन्तमासादरः ॥ * ॥ जन्मतिथेरुभयदिनलाभे
तु देवीपुराणम् ।
“युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया ।
रवेरुदयमीक्ष्यन्ते न तत्र तिथियुग्मता ॥
घस्रद्वये जन्मतिथिर्यदि स्यात्
पूज्या तदा जन्मभसंयुतैव ।
असङ्गता भेन दिनद्वयेऽपि
पूज्या परा या भवतीह यत्नात् ॥”
भं नक्षत्रम् । परवचनं बृहद्राजमार्त्तण्डेऽपि ।
पूर्ब्बाह्णे तिथिनक्षत्रलाभ एवेदं लक्ष्यते ।
“नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्म्मणः ।
नक्षत्रकर्म्माण्यत्रैव तिथिकर्म्म तथैव च ॥”
इति बृहस्पतिवचनात् ॥
खण्डिते खण्डद्बययुक्ते येन नक्षत्रखण्डेन विहित-
कालः प्राप्तः । नक्षत्रद्वैधे तु बौधायनमार्कण्डेयौ ।
“तन्नक्षत्रमहोरात्रं यन्मिन्नस्तं गतो रविः ।
यन्मिन्नुदेति सविता तन्नक्षत्रं दिनं स्मृतम् ॥”
इति तिथ्यादितत्त्वम् ॥

वर्षाः, स्त्री भुम्नि, (वर्षो वर्षणमस्त्यासु इति ।

वर्ष + अर्शआदित्वात् अच् । टाप् । यद्वा, व्रियन्ते
इति । वृ + “वृतॄवदीति ।” उणा० ३ । ६२ ।
इति सः । ततष्टाप् ।) स्वनामख्यात ऋतुः ।
तत्पर्य्यायः । प्रावृट् २ । इत्यमरः । १ । ४ । १९ ॥
घनकालः ३ जलार्णवः ४ प्रवृट् ५ मेघागमः ६
घनाकरः ७ । इति शब्दरत्नावली ॥ प्रावृषा ८ ।
इति त्रिकाण्डशेषः ॥ स च ऋतुः सौरश्रावण-
भाद्रमासद्बयात्मकः । आषाढादिमासचतुष्टया-
त्मकश्च । आद्यस्य प्रमाणम् । यथा । तपस्त-
पस्यौ शैशिरावृतुः । मधुश्च माधवश्च वासन्ति-
कावृतुः । शुक्रश्च शुचिश्च ग्रैष्मावृतुः । अथैत-
दुदगयनं देवानां दिनम् । नभाश्च नभस्यश्च
वार्षिकावृतुः । इषश्च ऊर्ज्जश्च शारदावृतुः ।
सहाश्च सहस्यश्च हैमन्तिकावृतुः । अथैतद्-
दक्षिणायनं देवानां रात्रिः । इति मलमास-
तत्त्वधृता श्रुतिः ॥ शेषस्य प्रमाणं तत्र चातु-
र्मास्यव्रतनियमश्च यथा । वाराहे ।
“आषाढशुक्लद्बादश्यां पौर्णमास्यामथापि वा ।
चातुर्मास्यव्रतारम्भं कुर्य्यात् कर्कटसंक्रमे ॥
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ।
कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत् ॥
चतुर्धापि हि तच्चीर्णं चातुर्मास्यं व्रतं नरः ।
कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ॥”
मात्स्ये ।
“चतुरो वार्षिकान् मासान् देवस्योत्थापना-
वधि ।
मधुस्वरां भवेन्नित्यं नरो गुडविवर्ज्जनात् ॥
तैलस्य वर्ज्ज नादेव सुन्दराङ्गः प्रजायते ।
कटुतैलपरित्यागात् शत्रुनाशः प्रजायते ॥
लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ।
सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ॥
निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते ।
एकान्तरोपवासेन विष्णुलोकमवाप्नुयात् ॥
धारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने ।
ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ॥
घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् ।
फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ॥
नमो नारायणायेति जप्त्वानशनजं फलम् ।
पादाभिवन्दनाद्बिष्णोर्लभेद्गोदानजं फलम् ॥
एवमादिव्रतैः पार्थ तुष्टिमायाति केशवः ॥”
सनत्कुमारः ।
“इदं व्रतं मया देव ! गृहीतं पुरतस्तव ।
निर्व्विघ्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव ! ॥
गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे त्वहं म्रिये ।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्द्दन ! ॥”
समाप्तौ च ।
“इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।
नूनं सम्पूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन ॥” * ॥
अत्रैव यतिमधिकृत्य काठकगृह्यम् ।
“एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् ।
वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत् ॥”
पृष्ठ ४/२९७
एतदशक्तविषयम् । ऊर्द्ध्वं वार्षिकाभ्यां मासाभ्यां
नैकस्थानवासी इति शङ्खोक्तेः । इति तिथ्यादि-
तत्त्वम् ॥ वर्षर्त्तौ वर्णनीयानि यथा, --
“वर्षासु घनशिखिस्मयहंसगमाः पङ्ककन्दलो-
द्भेदौ ।
जातीकदम्बकेतकझञ्झानिलनिम्नगाहलि-
प्रीतिः ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
(एतत्काललक्षणादिकं यथा, --
“सधनवारिदवारिसमाकुला
निखिलभूः प्रबलोदकपूरिता ।
समदवातकरा विदिशो दिशो
मुदितकीटकृमिप्रभवा मही ॥
नीलशस्यहरितोज्ज्वला मही
कुल्यकासलिलसंप्लुता सरित् ।
इन्द्रगोपकविराजिता धरा
पङ्कभूषणविभूषिता च सा ॥
पत्री कूजति कानने च सरसी म्लानाम्बुपूर्णा तथा
हंसा मानसमाव्रजन्ति कमलान्यम्लानतां यान्ति
च ॥
गर्ज्जन्मेघमहेन्द्रकन्दरदरीशस्यावृता श्यामला
भात्येवं पवनस्य कोपनकरो वर्षाऋतुः शोभितः ॥”
“किञ्चिद्घर्म्मो भवेदत्र शस्यानां दृढता भवेत् ।
बहुशस्या भवेद्धात्री वारिपूर्णा सरिन्मुहुः ॥
बहूदकधरा मेघा बहुवृष्टा घनस्वनाः ।
एवं गुणसमायुक्ता वर्षा ज्ञेया ऋतूत्तमाः ॥
तासु वातकफौ कुप्तौ जायेते हि नृणां भृशम् ।
इति ज्ञात्वा भिषक् श्रेष्ठः कुर्य्यादस्य प्रति-
क्रियाम् ॥
स्वेदनं मर्द्दनं पथ्यं निर्व्वाते शयनन्तथा ।
गौररामारतं शस्तं व्यायामः क्रमविक्रमः ॥
कट्वम्लक्षारसुरसाः सेव्या वातकफापहाः ।
निरूहा वस्तिकर्म्माद्याः कफवातरुजापहाः ॥”
इति हारीते प्रथमे स्थाने चतुर्थेऽध्याये ॥
“आदानग्लानवपुषामग्निः सन्नोऽपि सीदति ।
वर्षासु दोषैर्दू ष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे ॥
सतुषारेण मरुता सहसा शीतलेन च ।
भूवाष्पेणाम्लपाकेन मलिनेन च वारिणा ॥
वह्रिनैव च मन्देन तेष्वित्यन्योन्यदूषिषु ।
भजेत् साधारणं सर्व्वमुष्मणस्तेजनञ्च यत् ॥
आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान् ।
जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्त-
नम् ॥
मस्तु सौवर्च्चलाढ्यं वा पञ्चकोलावचूर्णितम् ।
दिव्यं कौर्प शृतञ्चाम्भो भोजनन्त्वतिदुर्द्दिने ॥
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु ।
अपादचारी सुरभिः सततं धूपिर्ताम्बरः ॥
हर्म्यपृष्ठे वसेद्वाष्पशीतशीकरवज्जित ।
नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत् ॥”
इति वाभटे सूत्रस्थाने तृतीयेऽध्याये ॥)

वर्षांशः, पुं, (वर्षस्य वत्सरस्य अंशः ।) मासः ।

इति त्रिकाण्डशेषः ॥

वर्षाघोषः, पुं, (वर्षासु घोषो महान् शब्दोऽस्य ।)

महामण्डूकः । इति राजनिर्घण्टः ॥

वर्षाङ्गः, पुं, (वर्षस्य वत्सरस्य अङ्गमिव । अभिधानात्

पुंस्त्वम् ।) मासः । इति हारावली । २८ ॥

वर्षाङ्गी, स्त्री, (वर्षासु अङ्गं यस्याः । तत्र जाता-

ङ्कुरवर्द्धनादस्यास्तथात्वम् ।) पुनर्नवा । इति
शब्दरत्नावली ॥ (विषयोऽस्याः पुनर्नवाशब्दे
ज्ञातव्यः ॥)

वर्षाभवः, पुं, (वर्षासु भवतीति । भू + अच् ।

वर्षासु भव उत्पत्तिर्यस्य वा ।) रक्तपुनर्नवा ।
इति राजनिर्घण्टः ॥ वर्षाजाते, त्रि ॥

वर्षाभूः, पुं, (वर्षासु भवतीति । भू + क्विप् ।)

भेकः । इत्यमरः । १ । १० । २४ ॥ (अस्य
पर्य्यायो यथा, --
“मण्डूकः प्लवगो भेको वर्षाभूर्दद्दुरो हरिः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)
इन्द्रगोपः । इति राजनिर्घण्टः ॥ भूलता । इति
मेदिनी । भे, १८ ॥

वर्षाभूः, स्त्री, (वर्षासु भवतीति । भू + क्विप् ।)

पुनर्नवा । इति मेदिनी । भे, १८ ॥ (यथा,
सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“तिलपर्णिकावर्षाभूचित्रमूलकपोतिकालशुन-
पलाण्डुकलायप्रभृतीनि ॥”) भेकी । इति भरत-
धृतरूपरत्नाकरः ॥ वर्षाभवे, त्रि ॥

वर्षाभ्वी, स्त्री, (वर्षाभू + ङीप् ।) भेकी । इत्यमरः ।

१ । १० । २४ ॥ पुनर्नवा । इत्यमरमाला भागुरिश्च ॥

वर्षामदः, पुं, (वर्षासु माद्यतीति । मद् + अच् ।)

मयूरः । इति केचित् ॥

वर्षाम्भःपारणव्रतः, पुं, (वर्षाम्भो वृष्टिजलं तस्य

पारणं उपवासान्ते पानं व्रतमिव यस्य ।)
चातकपक्षी । इति केचित् ॥

वर्षारात्रः, पुं, (वर्षाणां रात्रिः । ततः समासान्तो-

ऽच् ।) वर्षाकालीनरात्रिः । इति पुंलिङ्गसंग्रह-
टीकायां भरतः ॥

वर्षार्च्चिः, [स्] पुं, (वर्षासु अर्च्चिर्दीप्तिरस्य ।)

मङ्गलग्रहः । इति शब्दरत्नावली ॥

वर्षालङ्कायिका, स्त्री, पृक्का । इत्यमरटीकायां

भरतः ॥

वर्षावसानः, पुं, (वर्षाणामवसानमत्र ।) शरत्-

कालः । इति राजनिर्घण्टः ॥

वर्षिक, त्रि, वर्षासम्बन्धि । वर्षसम्बन्धि । वर्षाशब्दात्

वर्षशब्दाच्च परेण ष्णिकप्रत्ययेन निष्पन्नम् ॥

वर्षिष्ठः, त्रि, अतिशयवृद्धः । अयमनयोरतिशयेन

वृद्धः इत्यर्थे वृद्धस्थाने वर्षादेशे इष्ठप्रत्ययेन
निष्पन्नः ॥

वर्षीयान्, [स्] त्रि, (अयमनयोरतिशयेन वृद्धः ।

वृद्ध + इयसुन् । वर्षादेशः ।) अतिवृद्धः । तत्-
पर्य्यायः । दशमी २ ज्यायान् ३ । इत्यमरः ।
३ । २ । २३४ ॥ (यथा, --
“आषोडशाद् भवेद्बालस्तरुणस्तत उच्यते ।
वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥”
इति स्मृतिः ॥)

वर्षुकः, त्रि, (वर्षति तच्छील इति । वृष + “लष-

पतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ।” ३ ।
२ । १५४ । इति उकञ् ।) वर्षणकर्त्ता । वृष-
धातोर्ञुकप्रत्ययेन निष्पन्नः ॥ (यथा, भट्टौ ।
२ । ३७ ।
“जग्मुः प्रसादं द्विजमानसानि
द्यौर्वर्षुका पुष्पचयं बभूव ।
निर्व्याजमिज्या ववृते वचश्च
भूयो बभाषे मुनिना कुमारः ॥”)

वर्षुकाब्दः, पुं, (वर्षुकश्चासौ अब्दश्चेति कर्म्म-

धारयः ।) वर्षणशीलमेघः । इति जटाधरः ॥

वर्षेजः, त्रि, (वर्षे जायते इति । जन + डः ।

सप्तम्या अलुक् ।) वर्षाकालजातः । वत्सर-
जातः । सप्तम्यन्तवर्षशब्दपूर्ब्बकजनधातोर्डप्रत्य-
येन निष्पन्नः ॥

वर्षोपलः, पुं, (वर्षाणामुपलः ।) मेघभवशिला ।

करका । इत्यमरः । १ । ३ । १२ ॥ (यथा,
बृहत्संहितायाम् । ८१ । २४ ।
“वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाद्भ्रष्टम् ।
ह्रियते किल खाद्दिव्यैस्तडित्प्रभं मेघसम्भूतम् ॥”)

वर्ष्म, [न्] क्ली, (वर्षति वृष्यते वेति । वृष् +

मनिन् ।) शरीरम् । (यथा, कथासरित्सागरे ।
२ । ५ ।
“ददर्श च समीपेऽस्य पिशाचानां शतर्वृतम् ।
काणभूतिं पिशाचं तं वर्ष्मणा शालसन्निभम् ॥”)
प्रमाणम् । इत्यमरः । ३ । ३ । २२३ ॥ प्रमाण-
मत्रोन्नतिरिति स्वामी ॥ (यथा, महाभारते ।
१ । ३१ । ८ ।
“अथापश्यदृषीन् ह्रस्वान् अङ्गुष्ठोदरवर्ष्मणः ।
पलालवृन्तिकामेकां वहतः संहतान् पथि ॥”)
इयत्ता । इति भरतः ॥ अतिसुन्दराकृतिः ।
इति मेदिनी । ने, १२८ ॥ (उन्नते स्थिरे च
त्रि । यथा, ऋग्वेदे । १० । २८ । २ ।
“सरोरुवद्वृषभस्तिग्मशृङ्गो
वर्ष्म न्तस्थौ वरिमन्ना पृथिव्याः ।”
“वर्ष्मन्शब्द उन्नतवचनः स्थिरवचनो वा ।”
इति तद्भाष्ये सायणः ॥ वर्षीयान् । यथा, भाग-
वते । ५ । १८ । ३० ।
“ॐ नमो भगवतेऽकूपाराय सर्व्वसत्त्वगुणविशे-
षणाय नमोऽनुपलक्षितस्थानाय नमो वर्ष्मणे
नमो भूम्ने नमोऽवस्थानाय नमस्ते ॥” “वर्ष्मणे
वर्षीयसे ।” इति तट्टीकायां श्रीधरः ॥)

वर्ष्मं, क्ली, शरीरम् । इति द्बिरूपकोषः ॥

वर्ह, क वधे । दीप्तौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-वधे सक०-दीप्तौ अक०-सेट् ।)
रेफोपधः । क, वर्हयति । इति दुर्गादासः ॥

वर्ह, ङ श्रैष्ठ्ये । इति कविकल्पद्रुमः ॥ (स्वा०-

आत्म०-अक०-सेट् ।) ङ, वर्हते धनी श्रेष्ठः
स्यादित्यर्थः ॥

व(व)र्हं, क्ली, (वर्हयति दीप्यते इति । वर्ह +

अच् ।) मयूरपिच्छम् । इत्यमरः । २ । ५ । ३१ ॥
(यथा, महाभारते । १२ । १२० । ४ ।
पृष्ठ ४/२९८
“यथा वर्हाणि चित्राणि बिभर्त्ति भुजगाशनः ।
तथा बहुविधं राजारूपं कुर्व्वीत धर्म्मवित् ॥”)
ग्रन्थिपर्णम् । इति भरतः ॥ (वर्हतीति । वृह
वृद्धौ + अच् ।) पत्रम् । इति शब्दरत्नावली ॥
(यथा, रघुः । ६ । १७ ।
“विलासिनी विभ्रमदन्तपत्त्र-
मापाण्डुरं केतकवर्हमन्यः ।
प्रियानितम्बोत्तितसन्निवेशै-
र्विपाटयामास युवा नखाग्रैः ॥”)
परीवारः । इति हेमचन्द्रः ॥

वर्हणं, क्ली, (वर्हतीति । वृह वृद्धौ + ल्युः ।

वर्हयति शोभते इति । वर्ह दीप्तौ + ल्युर्वा ।)
पत्रम् । इति शब्दरत्नावली ॥

व(ब)र्हिः [स्], पुं, (वृंहति वर्द्धते इति । वृहि

वृद्धौ + “वृंहेर्नलोपश्च ।” उणा० २ । ११० । इति
इसिः नलोपश्च ।) अग्निः । इति मेदिनी । से, ३६ ॥
दीप्तिः । इत्युणादिकोषः ॥ यज्ञः । इति हेम-
चन्द्रः ॥ (यथा, ऋग्वेदे । ७ । ७५ । ८ ।
“नूनो गोमद्वीरवद्वेहि रत्न-
मुषो अश्वावत् पुरुभोजो अस्मे ।
मानो बर्हिः पुरुषता निदेक-
र्यूयं पातस्वस्तिभिः सदा नः ॥”
“नोऽस्माकं बर्हिर्यज्ञम् ।” इति तद्भाष्ये सायणः ॥)
चित्रकम् । इत्यमरः ॥ (बृहद्राजस्य पुत्त्रः ।
यथा, भागवते । ९ । १२ । १३ ।
“बृहद्राजस्तु तस्यापि वर्हिस्तस्मात् कृत-
ञ्जयः ॥”)

व(ब)र्हिः [स्], पुं, क्ली, (वृंहति वर्द्धते इति । वृहि

वृद्धौ + “वृंहेर्नलोपश्च ।” उणा० २ । ११० ।
इति इसिः नलोपश्च ।) कुशः । इति मेदिनी ।
से, ६३ ॥ (यथा, कुमारे । १ । ६१ ।
“अवचितवलिपुष्पा वेदिसन्मार्गदक्षा
नियमविधिजलानां वर्हिषाञ्चोपनेत्री ॥”)

वर्हिः [स्] क्ली, (वृंहतीति । वृहि वृद्धौ + इसिः

नलोपश्च ।) ग्रन्थिपर्णम् । इति शब्दरत्ना-
वली ॥

वर्हिःपुष्पं, क्ली, (वर्हिर्दीप्तिस्तद्युक्तं पुष्पमस्य ।)

ग्रन्थिपर्णम् । इत्यमरटीकायां भरतः ॥

वर्हिःशुष्मा [न्], पुं, (वर्हिषा कुशेन वर्हिषि यज्ञे वा

शुष्म तेजो यस्य ।) अग्निः । इत्यमरः । १ । १ । ५७ ॥

वर्हिःष्ठं, क्ली, (बर्हिरिव तिष्ठतीति । स्था + कः ।)

वर्हिष्ठम् । ह्रीवेरम् । इत्यमरभरतौ ॥

वर्हिकुसुमं, क्ली, (वर्हि वर्हयुक्तं कुसुमं यस्य ।)

ग्रन्थिपर्णम् । इति शब्दचन्द्रिका ॥

व(ब)र्हिणः, पुं, (बर्हमस्त्यस्येति । वर्ह + “फल-

बर्हाभ्यामिनच् ।” इति इनच् । यद्वा “बहुल-
मन्यत्रापि ।” उणा० २ । ४९ । इत्यत्र वर्ह वल्ह
प्राधान्ये । बर्हिणो मयूरः । इत्युज्ज्वलदत्तोक्त्या
इनच् ।) मयूरः । इत्यमरः । २ । ५ । ३० ॥
(यथा, मनौ । १२ । ६५ ।
“छुछुन्दरिः शुभान् गन्धान् पत्रशाकन्तु बर्हिणः ।
श्वावित् कृतान्नं विविधमकृतान्नन्तु शल्यकः ॥”
क्ली । तगरम् । तत्पर्य्यायो यथा, --
“कालानुसार्य्यं तगरं कुटिलं मधुरं मतम् ।
अपरं पिण्डतगरं दण्डहस्ती च बर्हिणम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वर्हिणवाहनः, पुं, (वर्हिणो मयूरो वाहनं यस्य ।)

कार्त्तिकेयः । इति हलायुधः ॥

वर्हिध्वजा, स्त्री, (वर्ही ध्वजो वाहनं यस्याः ।)

चण्डी । इति त्रिकाण्डशेषः ॥

वर्हिपुष्पं, क्ली, (वर्हि वर्हशालि पुष्प यस्य ।)

ग्रन्थिपर्णम् । इत्यमरः । २ । ४ । १३२ ॥

वर्हिर्ज्जोतिः, [स्] पुं, (वर्हिषि यज्ञे ज्योति-

रस्य ।) वह्रिः । इति हेमचन्द्रः । ४ । १६४ ।

वहिर्मुखः, पुं, (वर्हिरग्निर्मुखं यस्य ।) देवता ।

इत्यमरः । १ । १ । ९ ॥

वर्हिषदः, [द्] पुं, (वर्हिषि अग्नौ कुशासने वा

सीदन्ति ये ते । वर्हिस् + सद् + क्विप् । पृषो-
दरादित्वात् साधुः ।) पितृगणविशेषः । यथा,
“अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुताः ।
अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः ॥”
इति कौर्म्मे १२ अध्यायः ॥
अपि च ।
“अपसव्यं ततः कृत्वा सव्यं जानु च भूतले ।
अग्निस्वात्तांस्तथा सौम्यान् हविष्मन्तस्तथोष्म-
पान् ॥
सुकालिनो वर्हिषद आज्यपांस्तर्पयेत्ततः ।
तर्पयेच्च पितॄन् भक्त्या सतिलोदकचन्दनैः ॥
दर्भपाणिस्तु विधिना हस्ताभ्यां तर्पयेत्ततः ॥”
अत्र केचित् पितृधर्म्मातिदेशात् दिव्यपितॄणा-
मपि अञ्जलित्रयदानम् । तदसत् ।
“कव्यबालं नलं सौम्यं यममर्य्यमणं तथा ।
अग्निस्वात्ताः सोमपाश्च वर्हिषदः सकृत् सकृत् ॥”
इति च्छन्दोगपरिशिष्टेन विशिष्टैकाञ्जलिविधा-
नात् । इत्याह्रिकतत्त्वम् ॥ (पृथुवंशजस्य हवि-
र्द्धानेः पुत्त्रः । यथा, भागवते । ४ । २४ । ८ -- ९ ।
“हविर्द्धानाद्धाविर्द्धानिर्विदूरासूत षट्सुतान् ।
वर्हिषदं पयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥
वर्हिषत्सु महाभागो हविर्द्धानिः प्रजापतिः ।
क्रियाकान्तेषु निष्णातो योगेषु च कुरूद्वह ॥”
वर्हिषि यज्ञे सीदतीति । यज्ञस्थे, त्रि । यथा,
ऋग्वेदे । २ । ३ । ३ ।
“स आ वह मरुतां शर्धो अच्युत-
मिन्द्रं नरो वर्हिषदं यजध्वम् ॥”)

वर्हिष्कशः, पुं, (वर्हिर्दीप्तिरेव केश इव यस्य ।)

अग्निः । इति शोचिष्केशशब्ददर्शनात् ॥

वर्हिष्ठं, क्ली, (वर्हिषि तिष्ठतीति । स्था + कः ।

अम्बाम्बेति षत्वम् ।) ह्रीवेरम् । इत्यमरः ॥
(यथा, सुश्रुते उत्तरतन्त्रे ११ अध्यायः ।
“स्वेदं विदध्यादथवानुलेपं
वर्हिष्ठशुण्ठीसुरकाष्ठकुष्टैः ॥”
त्रि, वृद्धतमः । इति सायणः । यथा, ऋग-
वेदे । ३ । १३ । १ ।
“प्रवो देवायाग्नये वर्हिष्ठमर्च्चास्मै ॥”)

व(व)र्ही, [न्] पुं, (वर्हमस्यास्तीति । वर्ह +

इनिः ।) मयूरः । इत्यमरः ॥ (यथा, ऋतु-
संहारे । २ । ६ ।
“सदा मनोज्ञाम्बुदनादसोत्सुकं
विभाति विस्तीर्णकलापशोभितम् ।
सविभ्रमालिङ्गनचुम्बनाकुलं
प्रवृत्तनृत्यं कुलमद्य वर्हिणाम् ॥”
प्राधागर्भसम्भूतः कश्यपपुत्त्रविशेषः । यथा,
महाभारते । १ । ६५ । ४७ ।
“सिद्धः पूर्णश्च वर्ही च पूर्णायुश्च महा-
यशाः ॥”)

वल, मि ङ संवरणे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) मि, वलयति वाल-
यति । ङ, वलते धनं लोकः संवृणोतीत्यर्थः ।
इति दुर्गादासः ॥

वलभिः, स्त्री, (वलभि + कृदिकारादिति वा

ङीष् ।) वडभी । इति शब्दरत्ना-
वली अमरटीका च ॥ (यथा, कथासरित्-
सागरे । ८७ । १२ ।

वलभी, स्त्री, (वलभि + कृदिकारादिति वा

ङीष् ।) वडभी । इति शब्दरत्ना-
वली अमरटीका च ॥ (यथा, कथासरित्-
सागरे । ८७ । १२ ।
“हर्म्यप्रासादवलभीष्वन्विष्यन् सोऽभ्रमन्निशि ॥”
पुरीविशेषः । यथा, भट्टिः । २३ । ३५ ।
“काव्यमिदं विहितं मया वलभ्यां
श्रीधरसेननरेन्द्रपालितायाम् ।
कीर्त्तिरतो भवतान्नृपस्य तस्य
क्षेमकरः क्षितिपो यतः प्रजानाम् ॥”)

वलयः, पुं, क्ली, (वलते आवृणोति हस्तादिक-

मिति । वल् + “वलिमलितनिभ्यः कयन् ।”
उणा० ४ । ९९ । इति कयन् ।) स्वर्णादि-
रचिलप्रकोष्ठाभरणम् । बाला इति भाषा ।
तत्पर्य्यायः । आवापकः २ परिहार्य्यः ३
कटकः ४ । इत्यमरः ॥ पारिहार्य्यः ५ शंखकः ६ ।
इति शब्दरत्नावली ॥ कम्बुः ७ कुण्डलम् ८ ।
इति जटाधरः ॥ (यथा, रामायणे । २ ।
३२ । ५ ।
“सहेमसूत्रैर्म्मणिभिः केयूरैर्व्वलयैरपि ॥”
मण्डलम् । यथा, मार्कण्डेये । २० । ४९ ।
“अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः ।
समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः ॥”
अस्थिविशेषः । यथा, सुश्रुते शारीरस्थाने
५ अध्याये ॥
“कपालरुचकतरुणवलयनलकसंज्ञानि ।”
“पाणिपादपार्श्वपृष्ठोदरःसु वलयानि ॥”
वैद्यकोक्ताग्निकर्म्मविशेषः । यथा, सुश्रुते । १ । १२ ।
“तत्र रोगाधिष्ठानभेदादग्निकर्म्म चतुर्धाभिद्यते ।
तद्यथा वलयविन्दुलेखाप्रतिसारणानीति दहन-
विशेषाः ॥” * ॥ वेष्टनम् । यथा, रघुः ।
१ । ३० ।
“सवेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्व्वीं शशासैकपुरीमिव ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/वरूथः&oldid=44060" इत्यस्माद् प्रतिप्राप्तम्