शब्दकल्पद्रुमः/राजसभा

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ४/१२६

राजसभा, स्त्री, राज्ञः सभा । (“सभा राजा-

मनुष्यपूर्ब्बा ।” २ । ४ । २३ । इत्यत्र राज-
पर्य्यायस्यैव ग्रहणात् न क्लीवत्वम् ।) नृपति-
समाजः । इत्यमरः । ३ । ५ । ९ ॥ (वाचस्पत्ये
नपुंसकलिङ्गतोक्तिस्तु प्रामादिकी ॥)

राजसर्पः, पुं, (सर्पाणां राजा । राजदन्तादि-

त्वात् परनिपातः ।) सर्पविशेषः । तत्पर्य्यायः ।
भुजङ्गभोजी २ । इति हेमचन्द्रः । ४ । ३७० ॥

राजसर्षपः, पुं, (सर्षपाणां राजा श्रेष्ठत्वात् । पर-

निपातः ।) सर्षपविशेषः । राजसर्षा इति
भाषा ॥ राइ इति केचित् ॥ तत्पर्य्यायः ।
कृष्णिका २ राजिका ३ सूरी ४ मुष्ठकः ५ ।
मुष्ठक इत्यत्र व्यष्टक इति वा पाठः । इति
रत्नमाला ॥ क्षवः ६ क्षुताभिजननः ७ ।
क्षुताभिजनन इत्यत्र क्षुधाभिजनन इति वा
पाठः । इति हेमचन्द्रः ॥ कृष्णा ८ तीक्ष्ण-
फला ९ राजी १० कृष्णसर्षपाख्या ११ । अस्य
गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । वात-
शूलगुल्मकण्डुकुष्ठव्रणनाशित्वम् । पित्तदाह-
प्रदत्वञ्च । इति राजनिर्घण्टः ॥ (चतुर्व्विंशति-
त्रसरेणुपरिमित-परिमाणविशेषः । यथा, मनुः ।
८ । १३३ ।
“त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥”
“त्रसेत्यादि । अष्टौ त्रसरेणवो लिक्षैका परि-
माणेन ज्ञेया तास्तिस्रो लिक्षा राजसर्षपो
ज्ञेयः । ते राजसर्षपास्त्रयो गौरसर्षपो ज्ञेयः ॥”
इति तट्टीकायां कुल्लूकः ॥)

राजसायुज्यं, क्ली, (राज्ञः सायुज्यम् ।) राजत्वम् ।

“स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।
देवभूयादिकं तद्बत् -- ॥”
इत्यमरदर्शनात् ॥

राजसारसः, पुं, (राज्ञः सारस इव । राजः

शोभाशाली सारस इव इति वा ।) मयूरः ।
इति शब्दमाला ॥

राजसी, स्त्री, (रजस इयमिति । रजस् + अण् ।

ङीप् ।) दुर्गा । इति शब्दरत्नावली ॥ रजो-
गुणसम्बन्धिनी च ॥ (यथा, गीतायाम् ।
“यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥”)

राजसूयः, पुं, (“राज्ञा लतात्मकः सोमः सूयते

ऽत्र ।” इत्यमरटीका ॥ सु + अधिकरणे क्यप् ।
“राज्ञा सोतव्यः राज्ञा वा इह सूयते ।”
इति काशिका । “राजसूयसूर्य्येति ।” ३ । १ ।
११४ । इति निपातनान् दीर्घः ।) राजकर्त्तव्य-
यज्ञविशेषः । तत्पर्य्यायः । नृपाध्वरः २ क्रतु-
राजः ३ क्रतूत्तमः ४ । इति शब्दरत्नावली ॥
(अमरमते क्लीवलिङ्गोऽयम् । ३ । ५ । ३१ ॥
यथा, महाभारते । १ । १५७ । १६ ।
“यक्ष्यन्ति च नरव्याघ्रा निर्ज्जित्य पृथिवीमिमाम्
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥”
राजसूयमन्त्रादिकं वाजसनेयसंहितायाम् ९
अध्यायस्य ३५ कण्डिकामारभ्य १० अध्या-
यस्य ३० कण्डिकापर्य्यन्तं द्रष्टव्यम् ॥ युधिष्ठिरस्य
राजसूययज्ञविवरणन्तु महाभारते सभापर्व्वणि
विशेषतो द्रष्टव्यम् ॥)

राजस्कन्धः, पुं, (राजः शोभाशाली स्कन्धो

यस्य ।) घोटकः । इति त्रिकाण्डशेषः ॥

राजस्वं, पुं क्ली, (राज्ञे देयं स्वं धनम् ।) राज-

धनम् । राजकरः । इति लोकप्रसिद्धम् ॥

राजस्वर्णः, पुं, (स्वर्णानां धुस्तूराणां राजा ।

राजदन्तादित्वात् परनिपातः ।) राजधुस्तू-
रकः । इति राजनिर्घण्टः ॥

राजहंसः, पुं, (हंसानां राजा श्रेष्ठत्वात् । राज-

दन्तादित्वात् परनिपातः ।) चञ्चुचरण-
लोहितश्वेतवर्णहंसः । इत्यमरः । २ । ५ । २४ ॥
(यथा, कुमारे । १ । ३४ ।
“सा राजहंसैरिव सन्नताङ्गी
गतेषु लीलाञ्चितविक्रमेषु ।
व्यनीयतप्रत्युपदेशलुब्धै-
रादित्सुभिर्नूपुरशिञ्जितानि ॥”)
कदम्बः । कलहंसः । नृपोत्तमः । इति मेदिनी ॥

राजहर्षणं, क्ली, (राजानमपि हर्षयतीति ।

हृष् + णिच् + ल्युः ।) तगरपुष्पम् । इति
राजनिर्घण्टः ॥

राजहस्ती, [न्] पुं, (राज्ञो हस्ती ।) राज-

गजः । तत्पर्य्यायः । मारीचः २ याजकगजः ३
मदोत्कटः ४ । इति हारावली । ४९ ॥

राजहासकः, पुं, (राजानमपि हासयतीति ।

हस् + णिच् + ण्वुल् ।) मत्स्यविशेषः । तत्-
पर्य्यायः । कातरः २ कातलः ३ राजीवः ४ ।
इति शब्दरत्नावली ॥

राजक्षवकः, पुं, सर्षपः । इति राजनिर्घण्टः ॥

(अस्य शाकगुणाः ।
“संग्राहि शीतलञ्चापि लघुदोषाविरोधि च ।
राजक्षवकशाकन्तु सटीशाकन्तु तद्विधम् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

राजा, [न्] पुं, (राजते शोभते इति । राज् +

“कणिन् युवृषितक्षिराजीति ।” उणा० १ ।
१५६ । इति कणिन् ।) प्रभुः । नृपतिः । (यथा-
रघुः । ४ । ११ ।
“यथा प्रह्लादनात् चन्द्रः प्रतापात् तपनो
यथा ।
तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”)
क्षत्त्रियः । (यथा, मनुः । २ । ३२ ।
“शर्म्मवद्ब्राह्मणस्य स्यात् राज्ञो रक्षासम-
न्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रैष्यसंयुतम् ॥”)
चन्द्रः । यक्षः । इन्द्रः । इति मेदिनी ॥ उत्तर-
पदे चेत् श्रेष्ठार्थवाचकः ॥ अथ नृपतेः
पर्य्यायः । राट् २ पार्थिवः ३ क्ष्माभृत् ४ नृपः ५
भूषः ६ महीक्षित् ७ । इत्यमरः ॥ नरपतिः ८
पार्थः ९ नृपतिः १० भूपालः ११ भूभृत् १२
महीपतिः १३ नाभिः १४ नाराट् १५
भूमीन्द्रः १६ नरेन्द्रः १७ नायकाधिपः १८ ।
इति शब्दरत्नावली ॥ प्रजेश्वरः १९ भूमिपः २०
इनः २१ दण्डधरः २२ अवनीपतिः २३
स्कन्दः २४ स्कन्धः २५ भूभुक् २६ अर्थपतिः २७ ।
इति जटाधरः ॥ * ॥ अस्य व्युत्पत्तिर्यथा, --
“महता राजराज्येन पृथुर्वैण्यः प्रतापवान् ।
सोऽभिषिक्तो महातेजा विधिवद्धर्म्मकोविदैः ॥
पित्रापरञ्जितास्तस्य प्रजास्तनानुरञ्जिताः ।
अनुरागात्ततस्तस्य नाम राजेत्यभाषत ॥”
इति विष्णुपुराणे १ अंशे १३ अध्यायः ॥
अपि च ।
“रागी राजसिकं स्वर्ग्यं कुरुते कर्म्म रागतः ।
रागान्धाश्च राजसिकास्तेन राजा प्रकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥ * ॥
तस्य सर्व्वपितृत्वं यथा, --
शच्युवाच ।
“शृणु वत्स ! महाराज हे तात ! भयभञ्जन ।
भयत्राता च राजा च सर्व्वेषां पालकः पिता ॥
भ्रष्टश्रीश्च महेन्द्रोऽद्य त्वञ्च स्वर्गे नृपोऽधुना ।
यो राजा स पिता पाता प्रजानामेष निश्चयः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५९ अध्यायः ॥
पृथोरेवादौ राजा इति संज्ञा आसीत् । यथा,
“देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः ।
राज्ञाञ्चैवाधिकारे वै पृथुर्वैण्यः प्रतापवान् ॥
तदा पित्रा प्रजाः सर्व्वाः कदा नैवानुरञ्जिताः ।
तेनानुरञ्जिताः सर्व्वाः सुखैर्म्मुमुदिरे तदा ।
अनुरागात्तस्य वीरस्य नाम राजेत्यभाषत ॥”
इति पाद्मे भूखण्डे २९ अध्यायः ॥ * ॥
अथ राजलक्षणम् ।
“सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् ।
नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः ॥
तस्यास्यं चन्द्रविम्बाभं सुभ्रु रम्यं समुन्नसम् ।
नीलाः केशाः कुञ्चिताश्च समा दीर्घास्तर-
ङ्गिताः ॥
राजीवनेत्रयुगलो विम्बोष्ठपुटसंवृतः ।
चतुर्द्दंष्ट्रश्चतुष्किष्कुर्द्दीर्घास्यो दीर्घबाहुकः ॥
चतुर्लेखाकरो मास्ययववृद्धैकपर्व्वकः ।
शिरालपादो गम्भीरः सूक्ष्मत्वक् त्रिबलीधरः ॥”
इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्याना-
ध्यायः ॥ * ॥ अन्यच्च ।
“अस्वेदिनौ मृदुतरौ कमलोदरसन्निभौ ।
श्लिष्टाङ्गुली ताम्रनखौ पादावुष्णौ शिरोज्-
झितौ ।
कूर्म्मोन्नतौ गूढगुल्फौ सुपार्ष्णी नृपतेः स्मृतौ ॥
मृदुलोमा समा जङ्घा तथा करिकरप्रभा ।
उरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः ॥
कोषगूढे नृपो दीर्घैर्भुग्नैश्च धनवर्ज्जितः ।
समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान् ॥
सशब्दनिःशब्दमूत्राः स्यर्द्दरिद्राश्च मानवाः ।
पृष्ठ ४/१२७
एकद्वित्रिचतुःपञ्चषड्धारादिभिरेव च ॥
दक्षिणावर्त्तचलितशुभ्राभिश्च नृपाः स्मृताः ।
नृपाः पुष्पगन्धिशुक्रा मधुगन्धे धनं बहु ॥
मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिः
स्मृतः ।
भवेत् सिंहकटी राजा निस्वः कपिकटिर्नरः ॥
नृपाश्चोन्नतकक्षाः स्युर्ज्जिह्मा विषमकक्षकाः ।
वलिमध्यगता नाभिः शूलधारां करोति हि ॥
अधो गवाढ्यं कुर्य्याच्च नृपत्वं पद्मकर्णिका ।
अनुद्धतैश्चुचुकैश्च भवन्ति सुभगा नराः ।
निर्द्धना विषमैर्दीर्घैः पीतोपचितकैर्नृपाः ॥
समोन्नतञ्च हृदयमकम्प्यं मांसलं पृथु ।
नृपाणामधमानाञ्च खरलोम शिरालकम् ॥
कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभक्षणः ।
आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥
मणिबन्धैर्निगूढैश्च सुश्निष्टशुभसन्धिभिः ।
नृपा हीनैः करच्छेदमशब्दैर्धनवर्ज्जिताः ॥
निस्वाश्चक्रनखैस्तद्वद्वर्णैश्च परतर्ककाः ।
ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा ॥
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ।
नृपतेः करतलगा मणिबन्धे समुत्थिताः ॥
शङ्खातपत्रशिविका गजपद्मोपमा नृपे ।
कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे ॥
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ।
चक्रासितोमरधनुःकुन्ताभा नृपतेः करे ॥
मांसलैश्च धनोपेता अवक्रैरधरैर्नृपाः ।
विम्बोपमैश्च स्फुटितैरोष्ठै रूक्षैश्च खण्डितैः ॥
विवर्णैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः ।
तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा
शुभा ॥
श्लक्ष्णा दीर्घा च विज्ञेया तालु श्वेतं धनेश्वरे ।
कृष्णा च परुषा वक्त्रं समं सौम्यञ्च संवृतम् ॥
भूपानाममलं श्लक्ष्णं विपरीतञ्च दुःखिनाम् ।
शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः ॥
कराः स्निग्धावनद्धैश्च व्यालम्बैर्म्मांसलैर्नृपाः ।
स्त्रीमृत्युश्चिपिटनास ऋज्वी भाग्यवतां भवेत् ॥
अल्पच्छिद्रा सुपुटा च अवक्रा च नृपेश्वरे ।
संवृतैश्च ललाटैश्च कृपणा उन्ननैर्नृपाः ॥
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ।
नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ ॥
छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी ।
षडुन्नतश्चतुर्ह्नस्वो रक्तः सप्तस्वसौ नृपः ॥”
इति गारुडे नरस्त्रीलक्षणं नाम ६६ अध्यायः ॥
अपि च ।
“पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ।
सर्व्वाणि यो महीपालः सम्यङ्नित्यं परीक्षयेत् ॥
राज्यं पालयते नित्यं सत्यधर्म्मपरायणः ।
निर्ज्जित्य परसैन्यानि क्षितिं धर्म्मेण पालयेत् ॥
पुष्पं पुष्पं विचिन्वीयान्मूलच्छेदं न कारयेत् ।
मालाकार इवारण्ये न यथाङ्गारकारकः ॥
दुग्धी क्षीरन्तु भुञ्जीत विक्रेतारो न भुञ्जते ।
परराष्ट्रं महीपालो कालव्यालांश्च दूषयेत् ॥
नोधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी लभते पयः ।
एवं राष्ट्रमयोगेन पीड्यमानं न वर्द्धते ॥
तस्मात् सर्व्वप्रयत्नेन पृथिवीमनुपालयेत् ।
पालकस्य भवेद्भूमिः कीर्त्तिरायुर्यशो बलम् ॥
अभ्यर्च्य विष्णुं धर्म्मात्मा गोब्राह्मणहिते रतः ।
प्रजाः प्रालयितुं शक्तः पार्थिवो यो जितेन्द्रियः ॥
ऐश्वर्य्यमध्रुवं प्राप्य राजा धर्म्मे मतिञ्चरेत् ॥”
इति गारुडे १११ अध्यायः ॥ * ॥
ब्रह्माभिषिक्तराजानो यथा, --
श्रीपराशर उवाच ।
“यदाभिषिक्तः स पृथुः पूर्ब्बं राज्ये महर्षिभिः ।
ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥
नक्षत्रग्रहविप्राणां वीरुधां वाप्यशेषतः ।
सोमं राज्ये दधाद्ब्रह्मा यज्ञानां तपसामपि ॥
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।
आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥
प्रजापतीनां दक्षन्तु वासवं मरुतामपि ।
दैत्यानां दानवानाञ्च प्रह्लादमधिपं ददौ ॥
पितॄणां धर्म्मराजानं यमं राज्येऽभ्यसेचयत् ।
ऐरावतं गजेन्द्राणामशेषाणां पतिं ददौ ॥
पतत्रीणाञ्च गरुडं देवानामपि वासवम् ।
उच्चैःश्रवसमश्वानां वृषभन्तु गवामपि ॥
शेषन्तु नागराजानं मृगाणां सिंहमीश्वरम् ।
वनस्पतीतां राजानं प्लक्षमेवाभ्यषेचयत् ॥
एवं विभज्य राज्यानि दिशां पालाननन्तरम् ।
प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्व्वतः ॥
पूर्ब्बस्यां दिशि राजानं वैराजस्य प्रजापतेः ।
दिशःपालं सुधन्वानं पुत्त्रं वै सोऽभ्यषेचयत् ॥
दक्षिणस्यां दिशि तथा कर्द्दमस्य प्रजापतेः ।
पुत्त्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥
पश्चिमायां दिशि तथा रजसः पुत्त्रमच्युतम् ।
केतुमन्तं महात्मानं राजानमभिषिक्तवान् ॥
तथा हिरण्यरोमाणं पर्ज्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्द्धर्षं राजानमभिषिक्तवान् ॥
तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्म्मतः प्रतिपाल्यते ॥
एते सर्व्वे प्रवृत्तस्य स्थितौ विष्णोर्म्महात्मनः ।
विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥
ये भविष्यन्ति येऽतीताः सर्व्वभूतेश्वरा द्विज ।
ते सर्व्वे सर्व्वभूतस्य विष्णोरंशा द्विजोत्तम ॥”
इति श्रीविष्णुपुराणे प्रथमेऽंशे २२ अध्यायः ॥ *
सूत उवाच ।
“एवं सृष्टासु सर्व्वासु स्थावरासु चरासु च ।
ब्रह्मा क्रमेण राज्यानि व्यादेशमुपचक्रमे ॥
द्विजानां वीरुधाञ्चैव नक्षत्राणां ग्रहैः सह ।
यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत् ॥
बृहस्पतिञ्च सर्व्वेषां ददावङ्गिरसामपि ।
भृगूणामाधिपत्ये च काव्यं राज्येऽभ्यषेचयत् ॥
आदित्यानां पुनर्व्विष्णुं वसूनामथ पावकम् ।
प्रजापतीनां दक्षञ्च मरुतामथ वासवम् ॥
दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम् ।
नारायणन्तु साध्यानां रुद्राणां वृषभध्वजम् ॥
मृगाणामथ शार्दूलं गरुडं पततां वरम् ।
गन्धर्व्वाणां चित्ररथं नागानामथ वासुकिम् ॥
गन्धानां मरुतञ्चैव भूतानाञ्च शरीरिणाम् ।
सर्व्वेषां दंष्ट्रिणां शेषं सर्पाणाञ्चैव तक्षकम् ॥
सागराणां नदीनाञ्च मेघानां वर्षितस्य च ।
आदित्यानामन्यतमं पर्ज्जन्यमभिषिक्तवान् ।
सर्व्वाप्सरोगणानाञ्च कामदेवं तथा प्रभुम् ॥
ऋतूनामधिमासानां दिवसानां तथैव च ।
पक्षाणाञ्च क्षपाणाञ्च मुहूर्त्ततिथिपर्व्वणाम् ॥
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ।
गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ॥
प्रजापतेर्व्विरजसः पूर्व्वस्यामभिषेचयन् ।
पुत्त्रं नाम्ना सुधामानं राजानञ्चाभ्यषेचयत् ॥
यथाप्रदेशं राजानं दक्षिणस्यां प्रजापतेः ।
कर्द्दमस्य शङ्खपदं पुत्त्रं राज्येऽभिषिक्तवान् ॥
पश्चिमस्यां दिशि तथा रजसः पुत्त्रमुत्तमम् ।
केतुमन्तं महात्मानं राजानं ह्यभ्यषेचयत् ॥
तथा हिरण्यरोमाणं पर्ज्यन्यस्य प्रजापतेः ।
दिगुत्तरायां पुत्त्रन्तु राजानमभ्यषेचयत् ॥
मानुषाणामधिपतिं चक्रे वैवस्वतं मनुम् ।
तैरेव पृथिवी सर्व्वा सप्तद्बीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्म्मेण परिगृह्यते ॥
स्वायम्भुवेऽन्तरे पूर्व्वं ब्रह्मणा तेऽभिषेचिताः ।
इन्द्रादिलोकपालास्तु पुनर्व्वैवस्वतेऽन्तरे ॥
राजसूयेऽभिषिक्तस्तु पृथुः पूर्व्वं महर्षिभिः ।
मनुभिंर्व्विधिना तद्बत् सोऽधिराजः प्रताप-
वान् ॥”
इत्याद्ये वह्निपुराणे वराहप्रादुर्भावनामाध्यायः ॥
राजकर्त्तव्यकर्म्माणि यथा, --
मदालसोवाच ।
“वत्स ! राज्ञाभिषिक्तेन प्रजारञ्जनमादितः ।
कर्त्तव्यमविरोधेन स्वधर्म्मञ्च महीभृता ॥”
अविरोधेन धर्म्मशास्त्राविरोधेन ।
“व्यसनानि परित्यज्य सप्तमूलहराणि वै ।
आत्मा रिपुभ्यः संरक्ष्यो वहिर्मन्त्रविनिर्गमात् ॥
अष्टधा नाशमाप्नोति स्वचक्रस्पन्दनाद्यथा ।
तथा राजाप्यसन्दिग्धं वहिर्मन्त्रं विनिगमात् ॥
दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।
चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः ॥
विश्वासो न तु कर्त्तव्यो राज्ञा मित्रात्मबन्धुषु ।
कार्य्ययोगादमित्रेषु विश्वसीत नराधिपः ॥
स्थानवृद्धिक्षयज्ञेन षाड्गुण्यविदितात्मना ।
भवितव्यं नरेन्द्रेण न कामवशवर्त्तिना ॥
प्रागात्मा मन्त्रिणश्चैव ततो भृत्यो महीभृता ।
जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः ॥
यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।
सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते ॥
तस्मात् कामादयः पूर्व्वं जेयाः पुत्त्र महीभृता ।
तज्जये हि जयो राज्ञो राजा नश्यति तैर्जितः ॥
कामः क्रोधश्च लोभश्च मदो मानस्तथैव च ।
हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृताम् ॥
कामप्रसक्तमात्मानं स्मृत्वा दण्डं निपातितम् ।
पृष्ठ ४/१२८
निवर्त्तयेत्तथा क्रोधादनुह्नादं हतात्मजम् ॥
हतमैलं तथा लोभान्मदाद्वेणं द्विजैर्हतम् ।
मानादनायुषः पुत्त्रं हतं हर्षात् पुरञ्जयम् ॥
गभिर्जितैर्जितं सर्व्वं मरुत्तेन महात्मना ।
स्मृत्वा विवर्ज्जयेदेतान् षड्दोषांश्च महीपतिः ॥
काककोकिलभृङ्गाणां वकव्यालशिखण्डिनाम् ।
हंसानां लोहकुट्टानां शिक्षेत चरितं नृपः ॥”
काकात् सर्व्वशङ्किता । कोकिलात् माधुर्य्यम् ।
भृङ्गात् प्रपीडया अर्थादानम् । वकात् शत्रु-
ग्रहणे एकाग्रताम् । व्यालात् दुरुपसर्पित्वम् ।
शिखण्डिनश्चित्रतां सर्पग्रहणाय मूकतां रात्रा-
वात्मगोपनञ्च । हंसस्य सारग्राहित्वम् । लोह-
कुट्टात् सन्धानम् ॥
“कौशिकस्य क्रियां कुर्य्याद्विपक्षे मनुजेश्वरः ।
चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत् ॥”
कौशिकस्य उलूकस्य रात्रौ काकावस्कन्दनम् ।
पिपीलिकानां सेनाबहुत्वं सर्पभक्षणञ्च ।
“ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः ।
चन्द्रसूर्य्यस्वरूपश्च नीत्यर्थे पृथिवीक्षिता ॥”
अग्निविस्फुलिङ्गात् दूरात् दाहः । बीजान्मह-
दर्थनिष्पादनम् । उष्णकाले चन्द्रः सुखदायी
शीतकाले न । एवं सूर्य्यः शीते सुखदायी
उष्णकाले न । एवं कालानुसारेण सुखदुःख-
दातृत्वम् ॥
“वधकात् पद्मशरभशूलिन्या गुर्व्विणीस्तनात् ।
प्रजा नृपेण चादेया तथा चण्डालयोषितः ॥”
वधकात् निर्घृणत्वम् । पद्मात् कण्टकगोपनं
स्मितमुखता च । शरभात् हत्वापि शत्रून्
नोद्रेकः । यथा शरभोऽष्टापदः परोन्नतिं न
सहते । शूलिन्या आर्त्तिज्ञापनम् । गुर्व्विण्या
स्तनात् कालेऽर्थादानम् । चण्डालयोषित्
शौनकी छागशिरो दर्शयित्वा अन्यद्विक्रीणाति ।
“शक्रार्कयमसोमानां तद्बद्वायोर्महीपतिः ।
रूपाणि पञ्च कुर्व्वीत महीपालनकर्म्मणि ॥
यथेन्द्रश्चतुरो मासान् वार्य्यौघेणैव भूतलम् ।
आप्याययेत्तथा लोकान् परिचारैर्महीपतिः ॥”
परिचारैरर्थदानादिभिः ।
“मासानष्टौ यथा सूर्य्यस्तोयं हरति रश्मिभिः ।
सूर्य्येणैवाभ्युपायेन तथा शुल्कादिना नृपः ॥
यथा यमः प्रियद्बेष्यौ प्राप्ते काले नियच्छति ।
तथा प्रियाप्रियौ राजा दुष्टादुष्टे समो भवेत् ॥
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।
एवं यत्र प्रजाः सर्व्वा निर्व्वृत्तास्तच्छशिव्रतम् ॥
मारुतः सर्व्वभूतेषु निगूढश्चरते यथा ।
एवं चरेन्नृपश्चारैः पौरामात्यारिबन्धुषु ॥
न लोभार्थैर्न कामार्थैर्नार्थार्थैर्यस्य मानसम् ।
पदार्थैः कृष्यते धर्म्मान् स राजा स्वर्गमृच्छति ॥”
लोभादिप्रयोजनैः ।
“उत्पथग्राहिणो मूढान् स्वधर्म्माच्चलितान्नरान् ।
यः करोति निजे धर्म्म स राजा स्वर्गमृच्छति ॥”
उत्पथग्राहिणः पापिनः ।
“वर्णधर्म्मा न सीदन्ति यस्य राष्ट्रे तथाश्रमाः ।
राज्ञस्तस्य सुखं तात परत्रेह च शाश्वतम् ॥
एतद्राज्ञः परं कृत्यं तथैतद्वृद्धिकारणम् ।
स्वधर्म्मे स्थापनं नॄणां चाल्यते न कुबुद्धिभिः ॥
पालनेनैव भृत्यानां कृतकृत्यो महीपतिः ।
सम्यक् पालयिता भागं धर्म्मस्याप्नोति वै यतः ॥
एवमाचरते राजा चातुर्व्वर्णस्य रक्षणैः ।
स सुखी विहरत्येष शक्रस्येति सलोकताम् ॥”
इति मार्कण्डेयपुराणे मदालसोपाख्यानाध्यायः
तट्टीका च ॥ * ॥ राजाभिषेकस्य विहित-
नक्षत्राणि यथा, --
“पुष्यानुराधा ज्येष्ठा च रोहिणी चोत्तरात्रयम् ।
हस्ताश्विनी रेवती च नृपाभिषेचनोत्तमाः ॥”
इति ज्योतिःसारसंग्रहः ॥
अस्य विवरणं अभिषेकशब्दे द्रष्टव्यम् ॥ * ॥
राज्ञि वर्णनीयानि यथा, --
“नृपे कीर्त्तिप्रतापाज्ञादुष्टशास्तिविवेकिताः ।
धर्म्मप्रयाणसंग्रामशस्त्राद्याः सनयक्षमाः ॥
प्रजारागोऽरिशैलादिवासोऽरिपुरशून्यता ।
औदार्य्यधैर्य्यगाम्भीर्य्यशौर्य्यैश्वर्य्योद्यमादयः ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ * ॥
राजान्नभक्षणे दोषो यथा, --
वाराह उवाच ।
“शुद्धा भागवता भूत्वा मम कर्म्मपरायणाः ।
ये तु भुञ्जन्ति राजान्नं लोभेन च भयेन च ॥
आपद्गता हि भुञ्जीत राजान्नन्तु वसुन्धरे ।
दशवर्षसहस्राणि पच्यन्ते नरके नराः ॥
भगवद्वचनं श्रुत्वा सा मही शंसितव्रता ।
उवाच मधुरं वाक्यं सर्व्वलोकसुखावहम् ॥
धरण्युवाच ।
शृणु तत्त्वेन मे देव हृदये हि व्यवस्थितम् !
को नु दोषो हि राज्ञान्तु तन्मे त्वं वक्तुमर्हसि ॥
ततो भूम्या वचः श्रुत्वा सर्व्वधर्म्मविदां वरः ।
प्राह नारायणो वाक्यं धर्म्मकामां वसुन्धराम् ॥
वाराह उवाच ।
शृणु सुन्दरि ! तत्त्वेन गुह्यमेतदनिन्दिते ।
राजान्नन्तु न भोक्तव्यं शुभैर्भागवतैः सदा ॥
यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते ।
राजसस्तामसो वापि कुर्व्वन् कर्म्म सुदारुणम् ॥
अपि वा गर्हितं तेन राजान्नन्तु वसुन्धरे ।
धर्म्मसन्धारणार्थाय न तु मे रोचते भुवि ॥
ततोऽन्यं संप्रवक्ष्यामि तच्छणुष्व वसुन्धरे ।
यथा राज्ञान्तु भोज्यं वै शुद्धैर्भागवतैः शुभैः ॥
स्थापयित्वा तु मां देवि विधिदृष्टेन कर्म्मणा ।
धनधान्यप्रवृद्धानि दत्त्वा भागवतैरपि ॥
सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम् ।
भुञ्जानस्तु वरारोहे न स पापेन लिप्यते ॥
एवं विष्णुवचः श्रुत्वा धरणी शंसितव्रता ।
वाराहरूपिणं देवं पत्युवाच वरानना ॥” * ॥
तदन्नभोजनप्रायश्चित्तानि यथा, --
धरण्युवाच ।
“राजान्नन्तु ततो भुक्त्वा शुद्धो भागवतः शुचिः ।
कर्म्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्द्दन ॥
वाराह उवाच ।
शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ।
तरन्ति मनुजा येन राजान्नस्योपभुञ्जकाः ॥
एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रञ्च पुष्कलम् ।
कुर्य्यात् सान्तपनञ्चैकं शीघ्रं मुञ्चति किल्विषात् ॥
भुक्त्वा वै राज्ञोऽन्नानि इदं कर्म्म समारभेत् ।
न तस्यैवापराधोऽस्ति वसुधे वै वचो मम ॥
एवमेव न भोक्तव्यं राजान्नन्तु कदाचन ।
ममात्र प्रियकामाय यदीच्छेत् परमां गतिम् ॥”
इत्यादि वाराहे राजान्नभक्षणप्रायश्चित्तं नामा-
ध्यायः ॥ * ॥ अपि च ।
“राजान्नं तेज आदत्त शूद्रान्नं ब्रह्मवर्च्चसम् ।
इत्याद्यभिधाय, --
भुक्त्वा चान्यतमस्यान्नममत्या क्षपयेत्त्र्यहम् ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव च ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(राजनम् । यथा, ऋग्वेदे । १० । ४९ । ४ ।
“अहं भुवं यजमानस्य राजनि ।”
“अहं यजमानस्य राजनि राजनार्थं भुवं
अभवं समर्थ इति शेषः ।” इति तद्भाष्ये
सायणः ॥)

राजातनः, पुं, (राजानं अततीति । अत सातत्य-

गमने + “बहुलमन्यत्रापि ।” उणा० २ । ७८ ।
इति युच् ।) पियालवृक्षः । इति शब्दमाला ॥

राजादनं, क्ली, (राजभिरद्यते इति । अद भक्षणे

+ कर्म्मणि ल्युट् ।) क्षीरिका । पियालः ।
किंशुकः । इति मेदिनी । ने, २०५ ॥ (यथा,
सुश्रुते । १ । ४६ । लवणवर्गे ।
“दाडिमामलकं द्राक्षा खर्ज्जूरं सपरूषकम् ।
राजादनं मातुलुङ्गं फलवर्गे प्रशस्यते ॥”
पुंलिङ्गान्तोऽपि दृश्यते । इत्यमरः । २ । ४ । ४५ ॥
हेमचन्द्रश्च । ४ । २०८ ॥ क्षीरिकार्थे पर्य्यायो
यथा, --
“राजादनः क्षीरवृक्षः पालाशी वानरप्रियः ॥”
इति वैद्यकरत्नमालायाम् ॥
किंशुकार्थे पर्य्यायो यथा, --
“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः ।
राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥”)

राजानुजीवी, [न्] त्रि, (राज्ञः अनुजीवी ।)

राजोपजीवी । तस्य कर्म्माणि यथा, --
मत्स्य उवाच ।
“यथानुवर्त्तितव्यं स्यान्मनो राजोपजीविना ।
तथा ते कथयिष्यामि निबोध गदतो मम ॥
आज्ञा सर्व्वात्मना कार्य्या स्वशक्त्या रविनन्दन ।
आक्षिप्य वचनन्तस्य न वक्तव्यं तथा वचः ॥
अनुकूलं प्रियन्तस्य वक्तव्यं ज्ञानसंसदि ।
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ॥
परार्थमस्य वक्तव्यं स्वस्थे चेतसि भार्गव ।
स्वार्थः सुहृद्भिर्व्वक्तव्यो न स्वयन्तु कदाचन ॥
कार्य्याभिघातः सर्व्वेषु रक्षितव्यः प्रयत्नतः ।
न च हिंस्यं धनं किञ्चिन्नियुक्तेन च कर्म्मणि ॥
नोपेक्ष्यं भाष्यमाणञ्च तथा राज्ञः प्रियो भवेत् ।
पृष्ठ ४/१२९
राज्ञश्च न तथा कार्य्यं वेशभाषितचेष्टितम् ॥
राजलीला न कर्त्तव्या तद्विद्विष्टं विवर्ज्जयेत् ।
राज्ञः समोऽधिको वा न कार्य्यो वेशो विजा-
नता ॥
द्यूतादिषु तथैवास्य कौशलञ्च प्रदर्शयेत् ।
प्रदर्श्य कौशलञ्चास्य राजानञ्च विशेषयेत् ॥
अन्तःपुरधनाध्यक्षैश्चरदूतैः समागतैः ।
संसर्गं न व्रजेद्राजन् ! विना पार्थिवशासनम् ॥
निःस्नेहताञ्चावमानं प्रयत्नेन च गोपयेत् ।
यच्च गुह्यं भवेद्राज्ञो न तल्लोके प्रकाशयेत् ॥
नृपेण श्रावितं यत् स्याद्वाच्यावाच्यं नृपोत्तम ! ।
न तत् संश्रावयेल्लोके तदा राज्ञः प्रियो भवेत् ॥
आज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः ।
अहं किं करवाणीति वाच्यो राजा विजा-
नता ॥
कार्य्यावस्थाञ्च विज्ञाय कार्य्यमेव तथा भवेत् ।
सततं क्रियमाणेऽस्मिन् लाघवन्तु व्रजेत् ध्रुवम् ॥
राज्ञः प्रियाणि वाक्यानि न चात्यर्थं पुनःपुनः ।
न हास्यशीलश्च भवेन्न चापि भ्रुकुटीमुखः ॥
नातिवक्ता न निर्व्वक्ता न च मत्सरिकस्तथा ।
आत्मसम्भावितश्चैव न भवेत् कथञ्चन ॥
दुष्कृतानि नरेन्द्रस्य न तु संकीर्त्तयेत् क्वचित् ।
वस्त्रं शस्त्रमलङ्कारं राज्ञा दत्तञ्च धारयेत् ॥
औदार्य्येण न तद्देयमन्यस्मै भूतिमिच्छता ।
तच्चैवोपासनं कार्य्यं दिवास्वप्नं न कारयेत् ॥
नानिर्द्दिष्टे तथा द्वारे प्रविशेत कदाचन ।
न च पश्येत्तु राजानमयोग्यासु च भूमिषु ।
राज्ञस्तु दक्षिणे पार्श्वे वामे चोपविशेत्तथा ।
पुरस्तात्तु तथा पश्चादासनन्तु विगर्हितम् ॥
जृम्भा निष्ठीवनं कासं कोपं पर्य्यस्तिकाश्रयम् ।
भ्रुकृटीं वान्तमुद्गारं तत्समीपे विवर्जयेत् ॥
स्वयं तत्र न कुर्व्वीत स्वगुणाख्यापनन्तथा ।
स्वगुणाख्यापने चैव परमेव प्रयोजयेत् ॥
हृदयं निर्म्मलं कृत्वा परां भक्तिमुपाश्रितैः ।
अनुजीविगणैर्भाव्यं नित्यं राज्ञामतन्द्रितैः ॥
शाट्यं लौल्यञ्च पैशुन्यं नास्तिक्यं क्षुद्रतान्तथा ।
चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना ॥
श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ।
राजसेवां ततः कुर्य्याद्भूतये भूतिवर्द्धिनीम् ॥
नमस्कार्य्याः सदा चास्य पुत्त्रवल्लभमन्त्रिणः ।
सचिवैश्चास्य विश्वासो न तु कार्य्यः कथञ्चन ॥
अपृष्टश्चास्य न ब्रूयात् कामं ब्रूयात्तथापदि ।
हितं पथ्यञ्च वचनं हितैः सह सुनिश्चितम् ॥
चित्तञ्चैवास्य विज्ञेयं नित्यमेवोपजीविना ।
भर्त्तुराराधनं कुर्य्यात् चित्तज्ञो मानवः सुखम् ॥
रागापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ।
त्यजेद्वृत्तिं विरक्तस्तु रक्तो वृत्तिन्तु कारयेत् ॥
विरक्तः कारयेन्नाशं विपक्षाभ्युदयन्तथा ।
आशावर्द्धनकं कृत्वा फलनाशं करोति च ॥
अकोपोऽपि सकोपान्तः प्रसन्नोऽपि च निष्फलः ।
वाक्यं स मन्दं वदति वृत्तिच्छेदं करोति च ॥
प्रदेशवाक्यमुदितो न सम्भावयतेऽन्यथा ।
आराधनासु सर्व्वासु सुप्तवच्च विचेष्टते ॥
कथासु दोषं क्षिपति वाक्यभङ्गं करोति च ।
लक्ष्यते विमुखैश्चैव गुणसंकीर्त्तने कृते ॥
दृष्टिं क्षिपत्यथान्यत्र क्रियमाणे च कर्म्मणि ।
विरक्तलक्षणं ह्येतत् शृणु रक्तस्य लक्षणम् ॥
दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ।
कुशलादिपरिप्रश्नी संप्रयच्छति चासनम् ॥
विरक्तदर्शने चास्य रहस्ये च न शङ्कते ।
जायते हृष्टवदनः श्रुत्वा तस्य तु तत्कथाम् ॥
अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ।
उपायनञ्च गृह्णाति स्तोकमप्यादरात्तथा ॥
कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ।
इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्वह ॥
आपत्सु न त्यजेत् पूर्ब्बं विरक्तमपि सेवितम् ॥
मित्रं न चापत्सु तथा च भृत्यं
त्यजन्ति ये निर्गुणमप्रमेयम् ।
प्रभुं विशेषेण च ते व्रजन्ति
सुरेन्द्रधामामरवृन्दजुष्टम् ॥”
इति मत्स्यपुराणे राजधर्म्मे अनुजीविवृत्तिनाम
२१६ अध्यायः ॥

राजादनी, स्त्री, (राजभिरद्यते या । अद् +

कर्म्मणि ल्युट् । ङीप् ।) वृक्षविशेषः । क्षीरिणी
इति भाषा । तत्पर्य्यायः । राजफलः २ क्षीर-
वृक्षः ३ नृपद्रुमः ४ निम्बबीजः ५ मधुफलः ६
कपीष्टः ७ माधवोद्भवः ८ क्षीरी ९ गुच्छ-
फलः १० भूपेष्टः ११ राजवल्लभः १२ श्रीफलः १३
दृढस्कन्धः १४ क्षीरशुक्लः १५ । अस्या गुणाः ।
मधुरत्वम् । पित्तनाशित्वम् । गुरुत्वम् । तर्पण-
त्वम् । वृष्यत्वम् । स्थौल्यकरत्वम् । हृद्यत्वम् ।
सुस्निग्धत्वम् । मेहनाशित्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“क्षीरिकायाः फलं वृष्यं बल्यं स्निग्धं हिमं गुरु ।
तृष्णामूर्च्छामदभ्रान्तिक्षयदोषत्रयास्रजित् ॥”
इति भावप्रकाशः ॥

राजान्नं, क्ली, (राजयोग्यमन्नम् । अन्नानां राजा

इति वा ।) अन्ध्रदेशोद्भवशालिविशेषः । तत्प-
र्य्यायः । नृपान्नम् २ राजार्हम् ३ दीर्घशूककम् ४
धान्यश्रेष्ठम् ५ राजधान्यम् ६ राजेष्टम् ७
दीर्घकूरकम् ८ । अस्य गुणाः । त्रिदोषघ्नत्वम् ।
सुस्निग्धत्वम् । मधुरत्वम् । लघुत्वम् । दीपन-
त्वम् । बलकारित्वम् । पथ्यत्वम् । कान्तिवीर्य्य-
वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ (राज्ञः
अन्नम् ।) राजस्वामिकभक्तम् । तद्भोजननिषेध-
प्रायश्चित्ते राजशब्दे द्रष्टव्ये ॥ (राजान्न-
भक्षणेन हि तेजोहानिर्भवति । यथा, मनुः ।
४ । २१८ ।
“राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मबर्च्चसम् ।
आयुः सुवर्णकारान्नं यशश्चर्म्मावकर्त्तिनः ॥”)

राजाम्रः, पुं, (आम्राणां राजा श्रेष्ठत्वात् ।

राजदन्तादित्वात् परनिपातः ।) आम्रविशेषः ।
तत्पर्य्यायः । राजफलः २ स्मराम्रः ३ कोकि-
लोत्सवः ४ मधुरः ५ कोकिलानन्दः ६ कामेष्टः ७
नृपवल्लभः ८ । अस्य फलगुणाः । कोमलत्वम् ।
कट्वम्लत्वम् । पित्तदाहदत्वञ्च ॥ सुपक्वस्य तस्य
गुणाः । स्वादुत्वम् । मधुरत्वम् । पुष्टिवीर्य्य-
बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“राजाम्रष्टङ्क आम्रातः कामाह्वो राजपुत्त्रकः ।
राजाम्रं तुवरं स्वादु विषदं शीतलं गुरु ।
ग्राहि रूक्षं विबन्धाध्मवातकृत् कफपित्तनुत् ॥”
इति भावप्रकाशः ॥

राजाम्लः, पुं, (अम्लानां राजा श्रेष्ठत्वात् । राज-

दन्तादित्वात् परनिपातः ।) अम्लवेतसः । इति
राजनिर्घण्टः ॥

राजार्कः, पुं, (अर्काणां राजा श्रेष्ठत्वात् ।)

श्वेतार्कवृक्षः । सादा आकन्द इति भाषा ।
तत्पर्य्यायः । वसुकः २ अर्कः ३ मन्दारः ४
गणरूपकः ५ काष्ठीलः ६ सदापुष्पः ७ । इति
राजनिर्घण्टः ॥ अलर्कः ८ प्रतापसः ९ । इति
शब्दरत्नावली ॥

राजार्हं, क्ली, (राजानमर्हतीति । अर्ह + अण् ।)

अगुरु । (अस्य पर्य्यायो यथा, --
“अगुरु प्रवरं लोहं राजार्हं योगजन्तथा ।
वंशिकं कृमिजं वापि कृमिजग्धमनार्यकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
राजयोग्ये, त्रि । इति मेदिनी । हे, २३ ॥
(यथा, गो० रामायणे । ३ । ४९ । ४२ ।
“तथेदमुपपन्नं मे मृगरूपस्य धर्षणम् ।
राजार्हाणि च रत्नानि रत्नभाजो वयं ध्रुवम् ॥”)

राजार्हा, स्त्री, (राज्ञोऽर्हा ।) जम्बः । इति

राजनिर्घण्टः ॥

राजालाबूः, स्त्री, (अलावूनां राजा । राज-

दन्तादित्वात् परनिपातः ।) स्वादुतुम्बी । मिठा
लाउ इति भाषा । तत्पर्य्यायः । महातुम्बो २
मधुरालावुनी ३ शाकालावूः ४ तुम्बकः ५
भक्ष्यालावूः ६ अलावुनी ७ मिष्टतुम्बी ८ ।
अस्याः फलगुणाः । वृष्यत्वम् । कफपित्तहर-
त्वम् । गुरुत्वञ्च । इति मदनविनोदः ॥

राजालुकः, पुं, (आलूनां राजा । ततः स्वार्थे

कन् ।) महाकन्दः । इति हारावली । १०१ ॥

राजावर्त्तः, पुं, (राजानं आवर्त्तयति आनन्द-

यतीति । आ + वृत् + णिच् + अण् । यद्बा,
राजः शोभमान आवर्त्तो यत्र ।) उपरत्नभेदः ।
रेउटी इति हिन्दी भाषा । तत्पर्य्यायः । नृपा-
वर्त्तः २ राजात्यावर्त्तकः ३ आवर्त्तमणिः ४
आवर्त्तः ५ । अस्य गुणाः । मृदुत्वम् । स्निग्ध-
त्वम् । शिशिरत्वम् । पित्तनाशनत्वम् । भूषणे
प्रयोजितश्चेत् नृणां बहुभाग्यकरत्वञ्च । इति
राजनिर्घण्टः ॥ विराटदेशजहीरकः । तत्-
पर्य्यायः । विराटजः २ राजपट्टः ३ । इति
हेमचन्द्रः । ४ । १३२ ॥ (यथा, कथासरित्-
सागरे । ७३ । ३३९ ।
“राजावर्त्तोपलश्यामतले सद्वासवेश्मनि ॥”
तथास्य गुणाः ।
“राजावर्त्तः कटुस्तिक्तः शिशिरः पित्तनाशनः ।
पृष्ठ ४/१३०
राजावर्त्तः प्रमेहघ्नः छर्द्दिहिक्कानिवारणः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

राजाहिः, पुं, (अहीनां राजा । राजदन्तादि-

त्वात् परनिपातः ।) द्विमुखसर्पः । तत्पर्य्यायः ।
द्विसुखाहिः २ विलावासी ३ विषायुधः ४ ।
इति शब्दरत्नावली ॥ अहीरणिः ५ । इति
त्रिकाण्डशेषः ॥

राजिः, स्त्री, (राजते इति । राज + “वसिवपि-

यजिराजीति ।” उणा० ४ । १२४ । इति इञ् ।)
श्रेणी । (यथा, अर्य्यासप्तशत्याम् । ६९३ ।
“उल्लसति रोमराजिः स्तनशम्भोर्गरललेखेव ॥”)
रेखा । इति मेदिनी । जे, १४ ॥ (यथा, महा-
भारते । ७ । २२ । ६२ ।
“कलायपुष्पवर्णास्तु श्वेतलोहितराजयः ।
रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्म्मदम् ॥”
पुं, आयुपुत्त्रविशेषः । स तु ऐलपौत्त्रः । यथा,
महाभारते । १ । ७५ । २५ ।
“नहुषं वृद्धशर्म्माणं राजिं गयमनेनसम् ।
स्वर्भानवी सुतानेतानायोः पुत्त्रान् प्रचक्षते ॥”)

राजिका, स्त्री, (राजते या । राज + ण्वुल् ।

टापि अत इत्वम् ।) केदारः । राजसर्षपः ।
रेखा । इति मेदिनी । के, १४५ ॥ पङ्क्तिः ।
इति हेमचन्द्रः ॥ कृष्णसर्षपः । तत्पर्य्यायः ।
क्षवः २ क्षुधाभिजननः ३ कृष्णिका ३ आसुरी ५ ।
इत्यमरः । २ । ९ । १९ ॥ क्षुताभिजननः ६ असुरी ७ ।
इति तट्टीका ॥ रक्तवर्णसर्षपः । राइ इति भाषा ।
तत्पर्य्यायः । राजी २ आसुरी ३ रक्तिका ४
रक्तसर्षपः ५ तीक्ष्णगन्धा ६ मधूलिका ७
क्षवकः ८ क्षुतकः ९ क्षवः १० । अस्या गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । वातप्लीहा-
र्त्तिशूलकफगुल्मकृमिव्रणनाशित्वम् । दाहपित्त-
प्रदत्वञ्च ॥ तत्तैलगुणाः । तीक्ष्णत्वम् । वातादि-
दोषनाशित्वम् । शिशिरत्वम् । यूककण्डूघ्नत्वम् ।
केश्यत्वम् । त्वग्दोषनाशित्वञ्च ॥ तत्पत्रगुणाः ।
कटुत्वम् । उष्णत्वम् । कृमिवातकफकण्ठामय-
हरत्वम् । स्वादुत्वम् । वह्निदीपनकारित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
राजी तु राजिका तोक्ष्णगन्धा क्षुज्जनिकासुरी ।
क्षवः क्षुताभिजनकः कृमिकः कृष्णसर्षपः ॥
राजिका कफपित्तघ्नी तीक्ष्णोष्णा रक्तपित्तकृत् ।
किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोठकृमीन् हरेत् ।
अतितीक्ष्णा विशेषेण तद्बत् कृष्णापि राजिका ॥”
इति भावप्रकाशः ॥

राजिकाफलः, पुं, (राजिकायाः फलमिव फलमस्य ।)

गौरसर्षपः । इति राजनिर्घण्टः ॥

राजिफला, स्त्री, (राजीभूतानि श्रेणिबद्धानि

फलानि यस्याः ।) चीनाकर्कटी । इति राज-
निर्घण्टः ॥

राजिलः, पुं, (राजी रेखास्त्यस्यति । राजि +

सिध्मादित्वात् लच् । यद्वा, राजिं लातीति ।
ला + कः ।) डुण्डुभसर्पः । इत्यमरः । १ । ८ । ५ ॥
(यथा, रघुः । ११ । २७ ।
“किं महोरगविसर्पिविक्रमो
राजिलेषु गरुडः प्रवर्त्तते ॥”)

राजी, स्त्री, (राजि + कृदिकारादिति ङीष् ।)

निच्छिद्रपङ्क्तिः । इति शब्दरत्नावली ॥
(श्रेणिः । यथा, माघे । ४ । ९ ।
“राजीवराजीवशलोलभृङ्ग-
मुष्णन्तमुष्णन्ततिभिस्तरूणाम् ॥”)
राजिका । (अस्या गुणा यथा, --
“राजी तु राजिका तीक्ष्णगन्धा क्षुज्जनिकासुरी ।
क्षवः क्षुताभिजनकः कृमिकः कृष्णसर्षपः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
रक्तवर्णसर्षपः । इति राजनिर्घण्टः ॥

राजीफलः, पुं, (राजीभूतानि श्रेणिबद्धानि

फलानि यस्य ।) पटोलः । इति राजनिर्घण्टः ॥
(तथास्य पर्य्यायः ।
“पटोलः कूलकस्तिक्तः पाण्डुकः कर्कशच्छदः ।
राजीफलः पाण्डुफलो राजेयश्चामृताफलः ।
वीजगर्भः प्रतीकश्च कुष्ठहा कासभञ्जनः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

राजीवं, क्ली, (राजी दलश्रेणिरस्यास्तीति ।

राजी + “अन्येभ्योऽपि दृश्यते ।” ५ । २ । १०९ ।
इत्यस्य वार्त्तिकोक्त्या वः ।) पद्मम् । इत्यमरः ।
१ । १० । ४१ ॥ (यथा, कुमारे । ३ । ४५ ।
“उत्तानपाणिद्वयसन्निवेशात्
प्रफुल्लराजीवमिवाङ्कमध्ये ॥”)

राजीवः, पुं, (राजी अस्त्यस्येति । राजी + वः ।)

हरिणभेदः । (अस्य लक्षणं यथा, --
“राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः ॥”
इति भावप्रकास्य पूर्ब्बखण्डे द्वितीये भागे ॥)
बृहन्मीनभेदः । इति मेदिनी । वे, ४८ ॥ (यथा,
मनुः । ५ । १६ ।
“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥”)
हस्ती । इति । त्रिकाण्डशेषः ॥ सारसपक्षी ।
इत्यमरः ॥ राजोपजीविनि, त्रि । इत्यजयः ॥

राजेन्द्रः, पुं, (राजसु इन्द्र इव श्रेष्ठत्वात् ।)

मण्डलेश्वरात् दशगुणो राजा । यथा, --
“चतुर्योजनपर्य्यन्तमधिकारं नृपस्य च ।
यो राजा तच्छतगुणः स एव मण्डलेश्वरः ।
तस्माद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥
(राजश्रेष्ठः । यथा, महाभारते । २ । ४५ । ४१ ।
“कर्म्मणैतेन राजेन्द्र । धर्म्मश्च सुमहान् कृतः ॥”)

राजोद्वेजनसंज्ञकः, पुं, (राजोद्वेजन इति संज्ञा

यस्य । ततः कन् ।) भूताङ्कुशवृक्षः । इति
राजनिर्घण्टः ॥

राज्ञी, स्त्री, (राज्ञः पत्नी । राजन् + ङीप् । यद्वा,

राजते इति । राज + कनिन् । ततः स्त्रियां
ङोप् ।) राजपत्नी । राणी इति भाषा ॥
(यथा, रघुः । १ । ५७ ।
“तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी ।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥”)
सूर्य्यपत्नी । इति मेदिनी । ञे, २ ॥ राजपत्न्यां
वर्णनीयानि यथा, --
“देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः ।
त्रपाचातुर्य्यदाक्षिण्यप्रेममानव्रतादयः ॥
वेणीधम्मिल्लसीमन्तभालश्रवणनासिकम् ।
कपोलाधरनेत्रभ्रूकटाक्षरदकन्धराः ॥
गण्डबाहुकरोरोजनाभीमध्यवलित्रयम् ।
लोमालिश्रोणिजङ्घोरुपादयुग्मनखं क्रमात् ॥”
इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
सूर्य्यपत्न्याः प्रमाणान्तरं यथा, --
सूत उवाच ।
“विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा ।
तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ॥
रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् ।
प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥
यमश्च यमुना चैव यमलौ तु बभूवतुः ॥”
इति मात्स्ये ११ अध्यायः ॥
कांस्यः । इति । हेमचन्द्रः ॥ नीली इति राज-
निर्घण्टः ॥ * ॥ (प्रतीची दिक् । यथा,
छान्दोग्योपनिषदि । ३ । १५ । २ । “तस्य प्राची
दिक् जुहूर्नाम सहमाना नाम दक्षिणा
राज्ञी नाम प्रतीची मुभूता नामोदीचीति ॥”
‘तथा राज्ञी नाम प्रतीची पश्चिमा दिक् राज्ञी
राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा ।’
इति शाङ्करभाष्यम् ॥)

राज्यं, क्ली, (राज्ञो भावः कर्म्म वा । राजन् +

“पत्यन्तपुरोहितादिभ्यो यक् ।” ५ । १ । १२८ ।
इयि यक् ।) राज्ञ इदम् । तत्पर्य्यायः ।
नीवृत् २ मण्डलम् ३ जनपदः ४ देशः ५
प्रदेशः ६ विषयः ७ राष्ट्रम् ८ उपवर्त्तनम् ९ ।
इति शब्दरत्नावली ॥ अमरमते नीवृज्जनपदौ
अङ्गवङ्गकलिङ्गपञ्चालमगधकोशलादौ मण्डल-
त्वेन ख्याते ग्रामसमूहे । देशविषयोपवर्त्तनानि च
जनपदे जनपदसमुदाये । जनपदैकदेशे सजल-
निर्जलस्थानमात्रे च । उपाधिभेदेन देशादित्रिकं
भिन्नार्थम् । सामान्येन प्रयोगदर्शनात् । नीवृदा-
दयः पञ्चैवैकार्थाः । इत्यपरे । एतच्चायुक्तम् ।
इति भरतः ॥ * ॥ तस्य लक्षणं अङ्गानि च
यथा, --
“परस्यैवोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥
अमात्रराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः ।
एताः प्रकृतयस्तद्वद्विजिगीषोरुदाहृताः ॥
एताः पञ्च तथा मित्रं सप्तमं पृथिवीपतिः ।
सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥
पौरश्रेणी तदङ्गञ्च ब्रुवते शब्दवेदिनः ॥
स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा ।
पौरश्रेणी च राज्याङ्गं प्रकृतिश्च भवेत् द्धयम् ॥”
इति शब्दरत्नावली ॥
अपि च ।
“लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके ।
शतलक्षे महेशानि महासाभ्राज्यमुच्यते ॥”
इति वरदातन्त्रम् ॥
पृष्ठ ४/१३१

राज्यक्ता, स्त्री, (राज्या सर्षपेण अक्ता म्रक्षिता ।)

पिष्टराजिकादधिलवणमिश्रितसूक्ष्मालावू-
खण्डादि । रायता इति भाषा ॥ यथा, --
“संचूर्ण्य निक्षिपेत्तक्रे भृष्टं जीरकहिङ्गु च ।
लवणान्तत्र वटकान् सकलानपि मज्जयेत् ॥
शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः ।
विबन्धकृद्बिदाही च श्लेष्मलः पवनापहः ।
राज्यक्तयातिरोचिन्या पाचन्या तांस्तु भक्षयेत् ॥”
इति भावप्रकाशे कृतान्नवर्गः ॥

रज्याङ्गं, क्ली, (राज्यस्य अङ्गम् ।) राज्यस्योपायः ।

तत्पर्य्यायः । प्रकृतिः २ । तत्तु अष्टविधं यथा ।
स्वामी १ अमात्यः २ सुहृत् ३ कोषः ४
राष्ट्रम् ५ दुर्गम् ६ बलम् ७ पौराणां श्रेण-
यश्च ८ । इत्यमरः । २ । ८ । १८ ॥ “स्वाम्या-
दयः सप्त पुरस्थलोकश्रेणयश्च राज्याङ्गपद-
प्रकृतिपदवाच्याः । राज्यं सप्ताङ्गम् । कस्य-
चिन्मते अष्टाङ्गञ्चेत्युभयमेव दर्शितम् । यदुक्तं
कामन्दकीये ।
‘स्वाम्यमात्यश्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ।
परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥’
पौरश्रेण्या सहाष्टाङ्गमपि राज्यं प्रकीर्त्तित-
मिति । स्वाम्यादयः सप्त परस्परोपकारित्वात्
राज्यस्य अङ्गानि उपायाः साधनानि राज्या-
ङ्गानि प्रकृष्टं कुर्व्वन्ति राज्यम् । प्रकृतयः कृद्धोः
कभाव इत्युक्तेः क्तिः प्रकृतिः स्त्रियाम् । स्वामी
राजा । अमात्यो मन्त्री । सुहृन्मित्रम् । स्वर्णादि-
भाण्डागारं कोषः । राष्ट्रं जनपदवती भूमिः ।
पर्व्वतादिदुर्गमं पुरं दुर्गम् । बलं सैन्यम् । पौर-
श्रेणीग्रहणे सिद्धे पुनर्व्वचनं प्राधान्यख्याप-
नार्थम् ।” इति भरतः ॥ * ॥ अपि च ।
“स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च ।
कोषो मित्रञ्च धर्म्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥
सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकी-
र्त्तितः ।
तन्मूलत्वात्तथाङ्गानां राजा रक्ष्यः प्रयत्नतः ॥
षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः ।
अङ्गेभ्यो यस्तथैकस्य द्रोहमाचरतेऽल्पधीः ।
वधस्तस्य तु कर्त्तव्यः शीघ्रमेव महीक्षिता ॥”
इति मात्स्ये १९४ अध्यायः ॥

राटिः, स्त्री, (राटयति परस्परमाह्वाययत्यत्रेति ।

रट + णिच् + इन् ।) युद्धम् । इति हेमचन्द्रः ।
३ । ४६२ ॥ (राटयतीति । रट भाषणे + स्वार्थे
णिच् + इन् ।) शरारिपक्षी । इत्यमरः । २ ।
५ । २५ ॥

राडिः, स्त्री, शरारिपक्षी । इत्यमरः । २ । ५ । २५ ॥

राढकः, पुं, स्वनामख्यातदेशः । यथा, --

“प्राच्यां मागधशोणौ च वारेन्द्रीगौडराढकाः ॥”
इति ज्योतिषतत्त्वम् ॥

राढा, स्त्री, सूक्ष्मः । शोभा । इति मेदिनी । ढे, ३ ॥

पुरीविशेषः । यथा ।
“गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा
पुरी
भूरिश्रेष्ठिकनामधाम परमं तत्रोत्तमो नः
पिता ॥”
इत्यादि प्रबोधचन्द्रोदये दम्भवाक्यम् ॥

राढीयः, त्रि, (राढो निवासोऽस्य । राढ +

“वृद्धाच्छः ।” ४ । २ । ११४ । इति छः ।) राढ-
देशोद्भवः । यथा, --
“अयनांशाल्लग्नमानं दुरूहमिति नोच्यते ।
राढीयश्रीनिवासोक्तं तन्मानं स्थूलतोऽत्र तु ॥”
इति मलमासतत्त्वम् ॥

रात्रं, क्ली, ज्ञानम् । यथा, --

“रात्रञ्च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् ।
तेनेदं पञ्चरात्रञ्च प्रवदन्ति मनीषिणः ॥”
इति नारदपञ्चरात्रे प्रथमरात्रे १ अध्यायः ॥
(रात्रिः । यथा, महाभारते । १३ । १३६ । ११ ।
“क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा ।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्बिमुच्यते ॥”)

रात्रकं, क्ली, (रात्रं ज्ञानं तेन कायतीति । कै +

कः ।) पञ्चरात्रम् । इति मेदिनी । के, १४६ ॥

रात्रकः, पुं, एकवर्षं वेश्यागृहवासी । इति

मेदिनी । के, १४६ ॥

रात्रिः, स्त्री, राति ददाति कर्म्मभ्योऽवसरं निद्रादि-

सुखं वा । रादाने + “राशदिभ्यां त्रिप् ।”
उणा० ४ । ६७ । इति त्रिप् ।) हरिद्रा ।
(यथा, सुश्रुते चिकित्स्यितस्थाने ९ अध्याये ।
“लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं
रात्रिर्व्योषं चक्रमर्द्दस्य बीजम् ।
कृत्वेकस्थं तत्र पिष्टः प्रलेपो
दद्रूयुक्तो मूलकाद्बीजयुक्तः ॥”)
एतद्द्वीपावच्छिन्न-सूर्य्यकिरणानवच्छिन्नकालः ।
राति इति भाषा । तत्पर्य्यायः । शर्व्वरी २
निशा ३ निशीथिनी ४ त्रियामा ५ क्षणदा ६
क्षपा ७ विभावरी ८ तमस्विनी ९ रजनी १०
यामिनी ११ तमी १२ । इत्यमरः । १ । ४ । ४ ॥ श्यामा
१३ घोरा १४ याम्या १५ तुङ्गी १६ नक्तम् १७
दोषा १८ वासतेयी १९ तमा २० क्षमा २१
शताक्षी २२ क्षणिनी १३ निशिथ्या २४
चक्रभेदिनी २५ शार्व्वरी २६ शय्या २७
वासुरा २८ निषद्वरी २९ । इति शब्दरत्ना-
वली ॥ वसतिः ३० वायुरोषा ३१ निशीथः ३२
निट् ३३ । इति जटाधरः ॥ यामवती ३४
तारा ३५ भूषा ३६ ज्योतिष्मती ३७ तार-
किणी ३८ काली ३९ कलापिनी ४० । इति
राजनिर्घण्टः ॥ * ॥ तस्याः कारणं यथा, --
“यदा दिक्षु च अष्टासु मेरोर्भूगोलकोद्भवा ।
छाया भवेत्तदा रात्रिः स्याच्च तद्बिरहाद्दिनम् ॥”
इति वह्निपुराशे गणभेदो नामाध्यायः ॥ * ॥
पितृदेवानां रात्रिर्यथा, --
“मासेन च नराणाञ्च पितॄणां तदहर्निशम् ।
कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्त्तिता ॥
वत्सरेण नराणाञ्च देवानाञ्च दिवानिशम् ।
उत्तरायणे दिनं प्रोक्तं रात्रिश्च दक्षिणायने ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५१ अध्यायः ॥
अथ रात्रिकृत्यम् । स्मृतिः ।
“पूर्ब्बाह्णविहितं कर्म्म न कृतं तत् प्रमादतः ।
रात्रेस्तु प्रहरं यावत् तत् कर्त्तव्यं यथोक्तवत् ॥
दिवोदितानि कर्म्माणि प्रमादात् पतितानि
च ।
शर्व्वर्य्याः प्रथमे यामे तानि कुर्य्यादतन्द्रितः ॥”
इति रत्नाकरः ॥
याज्ञवल्क्याङ्गिरसौ ।
“उपास्य पश्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्तोऽथ संविशेत् ॥
अग्निहोमोपासने साग्निपरे । उपास्य चेति
चकारो वैश्वदेवादिकं समुच्चिनोति । संविशेत्
स्वपेत् । तथा च विष्णुपुराणम् ।
“पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्न्या सार्द्धं वलिं हरेत् ॥
अतिथिञ्चागतं तत्र स्वशक्त्या पूजयेद्बुधः ।
दिवातिथौ तु विमुखे गते यत् पातकं भवेत् ।
तदेवाष्टगुणं पुंसां सूर्य्योढे विमुखे गते ॥”
सूर्य्योढे अस्तं गते सूर्य्ये । तथा, --
“कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही ।
गच्छेदस्फुटितां शय्यामति दारुमयीं नृप ॥”
भोजने सायमिति सार्द्धप्रहरपरं प्रागुक्तात् ॥
अथ रात्रौ शयनविधिः । सति सूर्य्ये शय्या च न
पातनीया सा च सूर्य्योदयात् पूर्ब्बमुत्तोलनीया ।
तथा च स्मृतिः ।
“भास्करादृष्टशय्यानि नित्याग्निसलिलानि च ।
सूर्य्यावलोकिदीपानि लक्ष्म्या वेश्मानि भाजनम् ॥”
व्यासः ।
“शुचौ देशे विविक्ते च गोमयेनोपलेपिते ।
प्रागुदक्प्लवने चैव संविशेत्तु सदा बुधः ॥
मङ्गल्यं पूर्णकुम्भञ्च शिरःस्थाने विधाय च ।
वैदिकैर्गारुडैर्मन्त्रै रक्षां कृत्वा स्वपेत्ततः ॥”
गर्गः ।
“स्तगृहे प्राक्शिराः शेते ह्यायुषे दक्षिणाशिराः ।
प्रत्यक्शिराः प्रवासे तु न कदाचिदुदक्शिराः ॥”
मार्कण्डेयपुराणे ।
“प्राक्शिरः शयने विद्यात् धनमायुश्च दक्षिणे ।
पश्चिमे प्रबलां चिन्तां हानिं मृत्युं तथोत्तरे ॥”
तथा ।
“नमस्कृत्याव्ययं विष्णुं समाधिस्थं स्वपेन्निशि ॥”
मार्कण्डेयः ।
“शून्यालये श्मशाने च एकवृक्षे चतुष्पथे ।
महादेवगृहे चापि शर्करालोष्ट्रपांशुषु ॥
घान्यगोविप्रदेवानां गुरूणाञ्च तथोपरि ।
न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम् ॥
नार्द्रवासा न नग्नश्च नोत्तरापरमस्तकः ।
नाकाशे सर्व्वशून्ये च न च चैत्यद्रुमे तथा ॥”
स्वपेदिति शेषः ॥ * ॥ अथ रात्रौ दारोप-
गमनविधिः । याज्ञवल्क्यः ।
“षोडशर्त्तुर्निशाः स्त्रीणां तासु युग्मासु संविशेत् ।
ब्रह्मचार्य्येव पर्ब्बण्याद्याश्चतस्रस्तु वर्ज्जयेत् ॥”
स्त्रीणां षोडशनिशा ऋतुर्गर्भाधानयोग्यकालः ।
पृष्ठ ४/१३२
तत्रोक्तविधिना गच्छेत् । तत्र युग्मासु रात्रि-
ष्वपि पर्व्वणि ब्रह्मचार्य्येव भवति । तत्र व्रतादौ
गच्छतो ब्रह्मचर्य्यस्खलनदोषो नास्ति इति
मिताक्षरा ॥ विष्णुपुराणम् ।
“षष्ठ्यष्टमीममावास्यामुभे पक्षे चतुर्द्दशीम् ।
मैथुनं नोपसेवेत द्बादशीञ्च मम प्रियाम् ॥”
हारीतः । “चतुर्थेऽहनि स्नातायां युग्मासु च
गभाधानवदुपेत ब्रह्मगर्भं सन्दधातीति ।” अत्र
चतुर्थ्यां रात्रौ यद्गर्भाधानमुक्तं तद्रजोनिवृत्तौ
बोध्यम् । रजस्युपरते साध्वी स्नानेन स्त्री रज-
स्वला । इति मनुवचनैकवाक्यत्वात् । साध्वी
गर्भाधानादिविहितकर्म्मयोग्येत्यर्थः । आद्याश्च-
तस्रस्तु वर्ज्जयेत् । इति तु रजोनिवृत्तीतरपरम् ।
अनृतावपि कामुकीगमनमाह । विष्णुपुराणम् ।
“मृतो नरकमभ्येति हीयेदत्रापि चायुषः ।
परदाररतिः पुंसामुभयत्रापि भीतिदा ॥
इति मत्वा स्वदारेषु ऋतुमत्सु वुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥”
पैठीनसिः । “त्वाष्ट्रं विश्वरूपं जघान वज्रेणेन्द्रस्तं
प्रति देवा ब्रह्महन्निति अवदन् स स्त्रिय उपा-
गृह्णीत वरं दास्यामि ततोऽस्यास्तृतीयं ब्रह्म-
हत्यायाः प्रपद्यन्त स्त्रियः एकं भूमिर्व्वनस्पतय-
श्चैकम् । आसां मघवा तुष्टो वरं प्रायच्छत भूमेः
स्थिरत्वं वृक्षाणां छिन्नप्ररोहणं स्त्रीणां सर्व्व-
कालेषु सम्भवः ।” सम्भवो मेलनं सम्भोग इति
यावत् । सर्व्वकाले ऋतावनृतौ च । न तु प्रति-
षिद्धपर्व्वादौ । तथाच गोतमः । ऋतावुपेयात्
सर्व्वत्र वा प्रतिषिद्धवर्ज्जमिति ॥ दुष्टकालमाह
ज्योतिषे ।
“ज्येष्ठा मूला मघाश्लेषा रेवती कृत्तिका-
श्विनी ।
उत्तरात्रितयं त्यक्त्वा पर्व्ववर्ज्जं व्रजेदृतौ ॥”
एवञ्च ।
“ऋतौ नोपैति यो भार्य्यामनृतौ यश्च गच्छति ।
तुल्यमाहुस्तयोर्दोषमयोनौ यश्च सिञ्चति ॥”
बौधायनीयमनृतौ गमनदोषाभिधानमकामा-
विषयम् । विष्णुः । पर्व्वानारोग्यवर्ज्जमृताव-
गच्छन् पत्नीं त्रिरात्रमुपवसेदिति । वृद्धशाता-
तपः ।
“स्त्रीणां संप्रेक्षणात् स्पर्शात् ताभिः संकथना
दपि ।
ब्रह्मचर्य्यं विपद्येत न दारेष्वृतुसङ्गमात् ॥”
संप्रेक्षणात् संकथनादित्यत्र सरागत्वं संशब्दार्थः ।
श्राद्धानन्तरन्तु निषेधमाहतुः शङ्खलिखितौ ।
ऋतुस्नातां तदहोरात्रं परिहरेत् नार्त्तवे
दिवामैथुनं व्रजेत् क्लीवाल्पवीर्य्याश्च दिवा
प्रसूयन्तेऽल्पायुश्च तस्मादेतद्बिवर्ज्जयेत् । प्रजा-
कामश्च पितॄणां नोपहरेत तन्तुं विच्छिन्द्यात्
प्रयतेताच्छेदाय येनाप्रतिष्ठो भवति तस्मात्
प्रतिष्ठाकामः प्रजया प्रतिष्ठेतेति । नोशब्दो
निषेधे । तन्तुं सन्तानं अच्छेदाय अविच्छेदाय
सन्ताबस्य । येन यस्मात् अप्रतिष्ठः प्रजा-
नुत्पत्त्या अप्राप्तप्रतिष्ठः सन् पतति तस्मात्
तदुत्पत्त्यर्थं यतितव्यमिति कल्पतरुः ॥ एवञ्च
श्राद्धदिने यदभिगमनं प्रागुक्तयाज्ञवल्क्यवच-
नात् उक्तं मिताक्षरायां तद्धेयम् । वशिष्ठः ।
“शूद्रान्नेन तु भुक्तेन मैथुनं योऽधिगच्छति ।
यस्यान्नं तस्य ते पुत्त्रा अस्वर्ग्याः शूद्रवत्
द्बिजाः ॥”
पराशरः ।
“ऋतुस्नाताञ्च यो भार्य्यां सन्निधौ नोपगच्छति ।
स गच्छेन्नरकं घोरं ब्रह्महेति तथोच्यते ॥”
सन्निधावित्यभिधानात् असन्निहितस्य गमना-
भावे न दोषः । पुत्त्रोत्पत्तिपर्य्यन्तमृत्वभिगमन-
नियममाह । कूर्म्मपुराणम् ।
“ऋतुकालाभिगामी स्यात् यावत् पुत्त्रो न
जायते ।
ऋणापकर्षणार्थ हि पुत्त्रस्योत्पादनं प्रति ॥”
यतितव्यमिति शेषः । आपस्तम्बः ।
“ऋतौ तु गर्भशङ्कित्वात् स्नानं मैथुनिनः
स्मृतम् ।
अनृतौ तु सदा कार्य्यं शौचं मूत्रपुरीषवदिति ॥
द्वावेतावशुची स्यातां दम्पती शयनं गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः
पुमान् ॥
मैथुनशुद्धः प्राक् मलमूत्रोत्सर्गं न कुर्य्यात् ।
तैलाभ्यक्ते तथा वान्ते श्मश्रुकर्म्मणि मैथुने ।
मूत्रोच्चारं यदा कुर्य्यादहोरात्रेण शुद्ध्यति ॥”
इति वचनात् ।
पुत्त्रानुत्पत्तौ पारस्करः । सा यदि गर्भं नाद-
धीत निदिग्धिकायाः श्वेतपुष्पाया उपोष्य
पुष्यनक्षत्रे मूलमुत्थाप्य चतुर्थेऽहनि स्नातायां
निशायामुदकेन पिष्ट्वा दक्षिणस्यां नासिकाया-
मासिञ्चतीति । इयमोषधीस्त्रायमाणा सह-
माना सरस्वती । अस्या अहं वृहत्याः पुत्त्रः
पितुरिव नाम जनयत्यभित इति । सा परि-
णीता ऋतुकालेऽपि कृताभिगमना यदि गर्भं न
दधाति तदा उपोष्य पुष्ये नक्षत्रे श्वेतकण्ट-
कारिकामूलमुत्थाप्य चतुर्थेऽहनि ऋतुस्नातायां
सत्यां रात्रावुदकेन पिष्ट्वा दक्षिणनासापुटे
पतिः इयमोषधीरिति मन्त्रेण नस्यं ददाति
दक्षिणहस्तानामिकाङ्गुष्ठाभ्वां गृहीत्वा प्राक्-
शिरः संविष्टाया इति गोभिलस्मरणात् ।
आयुर्वेदीये ।
“पिप्पलीं शृङ्गवेरञ्च मरीचं नागकेशरम् ।
आज्येन सह भुञ्जीत अपि बन्ध्या प्रसूयते ॥”
याज्ञवल्क्यः ।
“एवं गच्छन् स्त्रियं क्षामां मषां मूलाञ्च वर्ज्ज-
येत् ।
शस्त इन्दौ सकृत् पुत्त्रं लक्षण्यं जनयेत्
पुमान् ॥”
क्षामामाहारलाघवादिना । सकृदेकवारम् ।
अत्र सम्यगाधानहेतुतया उत्तानकरचरणा-
मेव कुर्व्वीत न तिर्य्यगाहितकरचरणां स्त्रियञ्च
ऋत्वभिगमनानन्तरं दक्षिणपार्श्वे न स्वापयेत् ।
पुरुषायिते तु गर्भानुत्पत्तिरिति विशेषः । दक्षः ।
“प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।
यामद्वयं शयानस्तु ब्रह्मभूयाय कल्पते ॥”
इत्याह्निकतत्त्वम् ॥ * ॥
अथ रात्रिजागरणदोषगुणौ ।
“रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ।
अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम् ॥
कफमेदोविषार्त्तानां रात्रौ जागरणं हितम् ॥
दिवा वा यदि वा रात्रौ निद्रा स्वात्मीकृता
तु यैः ।
न तेषां स्वपतां दोषो जाग्रतां वा विधीयते ॥”
इति राजवल्लभः ॥ * ॥
रात्रौ कुलपूजा यथा । “यत्तु ।
रात्रावेव महापूजा कर्त्तव्या वीरवन्दिते ।
न दिने सर्व्वथा कार्य्या शासनान्मम सुव्रते ॥
तत् पुनः कुलपूजाविषयम् ।
अर्द्धरात्रात् परं यच्च मुहूर्त्तद्वयमेव च ।
सा महारात्रिरुद्दिष्टा तद्दत्तमक्षयन्तु वै ॥”
इति तन्त्रसारः ॥ * ॥
अथ रात्रौ विहितनिषिद्धे । छन्दोगपरिशिष्टम् ।
“मुनिभिर्द्विरशनं प्रोक्तं विप्राणां मर्त्यवासिनां
नित्यम् ।
अहनि च तथा तमस्विन्यां सार्द्धप्रहर-
यामान्त्रः ॥”
जावालः ।
“अहःसु तिथयः पुण्याः कर्म्मानुष्ठानतो दिवा ।
नक्तादिव्रतयोगे नु रात्रियोगो विशिष्यते ॥”
देवलः ।
“राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नावदानादिकं कुर्य्युर्निशि कान्यव्रतेषु च ॥”
ब्रह्माण्डपुराणम् ।
“न रात्रौ पारणं कुर्य्यात् ऋते वै रोहिणीव्रतात् ।
तत्र निश्यपि वै कुर्य्याद्वर्जयित्वा महानिशाम् ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
“एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन दानेन नैवाद्वादशिको भवेत् ॥”
स्कन्दपुराणम् ।
“प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।”
देवीपुराणम् ।
“हविष्यभोजनं सत्यं स्नानमाहारलाघवम् ।
अग्निकार्य्यमधःशय्यां नक्तभोजी षडाचरेत् ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
देवलः ।
“रात्रौ श्राद्धं न कुर्व्वीत राक्षसी कीर्त्तिता हि
सा ।
सन्ध्ययोरुभयोश्चैव सूर्य्ये चैवाचिरोदिते ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
विष्णुपुराणंम् ।
“प्रातनिंशि तथा सन्ध्यामध्याह्रादिषु संस्मरन् ।
नारायणमवाप्नोति सद्यः पापक्षयं नरः ॥”
रात्रावपि गङ्गायां स्नानादौ प्रतिप्रसवमाह ।
पृष्ठ ४/१३३
ब्रह्मपुराणम् ।
“दिवारात्रौ च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः ।
स्नात्वाश्वमेधजं पुण्यं गृहेऽप्युद्धृततज्जलैः ॥”
रात्रिञ्चराधिकारमुपक्रम्य आदिपर्व्वणि ।
“अतो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः ।
गर्हयन्ति जनान् सर्व्वान् वनस्थान् नृपतीनपि ॥”
तत्रार्ज्जुनस्य प्रतिवचनम् ।
“समुद्रे हिमवत्पार्श्वे नद्यामस्याञ्च दुर्म्मते ।
रात्रावहनि सन्ध्यायां कस्य गुप्तः परिग्रहः ॥”
देवलः ।
“महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम् ।
तस्यां स्नानं न कुर्व्वीत काम्यनैमित्तिकादृते ॥”
अतएव कल्पतरुः । न नक्तं स्नायादिति बौधा-
यनवचनं रागप्राप्तस्नानविषयम् । एवञ्च गङ्गा-
स्नानस्य दिवारात्रिकर्त्तव्यत्वाविशेषात् तत्त-
न्निमित्ततिथिविशेषस्यापि दिवारात्रिसम्बन्धि-
त्वेनाविशेषः । इति प्रायश्चित्ततत्त्वम् ॥
(रात्र्युक्तनियमाः यथा, --
“रात्रौ च भोजनं कुर्य्यात् प्रथमप्रहरागमे ।
किञ्चिदूनं समश्नीयात् दुर्ज्जरन्तत्र वर्ज्जयेत् ॥
शरीरे जायते नित्यं देहिनः सुरतस्पृहा ।
अव्यवायान्मेहमेदोवृद्धिः शिथिलता तनोः ॥
बालेति गीयते नारी यावद्वर्षाणि षोडश ।
ततस्तु तरुणी ज्ञेया द्वात्रिंशत् वत्सरावधि ॥
तदूर्द्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि ।
वृद्धा तत्परतो ज्ञेया सुरतोत्सववर्ज्जिता ॥”
अधिरूढा प्रौढा ।
“निदाघशरदोर्बाला हिता विषयिणी मता ।
तरुणी शीतसमये प्रौडा वर्षावसन्तयोः ॥
नित्यं बाला सेव्यमाना नित्यं वर्द्धयते बलम् ।
तरुणी ह्नासयेच्छक्तिं प्रौढोद्भावयते जराम् ॥
मद्यो मांसन्नवञ्चान्नं बाला स्त्री क्षीरभोजनम् ।
घृतमुष्णोदके स्नानं सद्यः प्राणकराणि षट् ॥
पूतिमांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणकराणि षट् ॥”
प्राणशब्दोऽत्र बलवाचकः । बालार्कः कन्यार्कः ।
“वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् ।
वयोऽधिकां स्त्रियं गत्वा तरुणः स्थविरायते ॥
आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः ।
स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः ॥
सेवेत कामतः कामं बलाद्वाजीकृतो हि मे ।
प्रकामन्तु निषेवेत मैथुनं शिशिरागमे ॥
त्र्यहाद्वसन्तशरदोः पक्षाद्वृष्टिनिदाघयोः ॥”
सुश्रुतस्तु ।
“त्रिभिस्त्रिभिरहोभिर्हि समेयात् प्रमदान्नरः ।
सर्व्वेष्वृतुषु घर्म्मेषु पक्षात् पक्षाद्व्रजेद्बुधः ॥”
समेयात् सङ्गच्छेत् घर्म्मे ग्रीष्मे ।
“शीते रात्रौ दिवा ग्रीष्मे वसन्ते तु दिवा-
निशि ।
वर्षासु वारिदध्वाने शरत्सु सरसः स्मरः ॥
उपेयात् पुरुषो नारीं सन्ध्ययोर्न च पर्व्वसु ।
गोसर्गे चार्द्धरात्रे च तथा मध्यदिनेऽपि च ॥
विहारं भार्य्यया कुर्य्याद्देशेऽतिशयसंवृते ।
रम्ये श्रव्याङ्गनागाने सुगन्धे सुखमारुते ॥
देशे गुरुजनासन्ने विवृतेऽतित्रपाकरे ।
श्रूयमाणे व्यथाहेतुवचने न रमेत ना ॥
स्नातश्चन्दनलिप्ताङ्गः सुगन्धः सुमनोऽन्वितः ॥
भुक्तवृष्यः सुवसनः सुवेशः समलङ्कृतः ।
ताम्बूलवदनः पत्न्यामनुरक्तोऽधिकः स्मरः ॥
पुत्त्रार्थी पुरुषो नारीमुपेयाच्छयने शुभे ।
अत्याशितोऽधृतिः क्षुद्वान् सव्यथाङ्गः पिपा-
सितः ॥
बालो वृद्धोऽन्यवेगार्त्तस्त्यजेद्रोगी च मैथुनम् ॥”
रोगी मैथुनसंवर्द्धनीयरोगयुक्तः ।
“भार्य्यां रूपगुणोपेतां तुल्यशीलां कुलोद्भवाम् ।
अतिकामोऽभिकामान्तु हृष्टो हृष्टामलङ्कृताम् ॥
सेवेत प्रमदां युक्त्या बाजीकरणबृंहितः ।
रजस्वलामकामाञ्च मलिनामप्रियान्तथा ॥
वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् ।
हीनाङ्गीं गर्भिणीं द्वेष्यां योनिरोगसमन्विताम् ॥
सगोत्राङ्गुरुपत्नीञ्च तथा प्रव्रजितामपि ॥
नाभिगच्छेत् पुमान्नारीं भूरिवैगुण्यशङ्कया ॥”
“स्नानं सशर्करं क्षीरं भक्ष्यमैक्षवसंस्कृतम् ।
वातो मांसरसः स्वप्नः सुरतान्ते हिता अमी ॥
शूलकासज्वरश्वासकार्श्यपाण्ड्वामयक्षयः ।
अतिव्यवायाज्जायन्ते रोगाश्चाक्षेपकादयः ॥
रात्रौ जागरणं रूक्षं कफदोषविषार्त्तिजित् ।
निद्रा तु सेविता काले धातुसाम्यमतन्द्रितम् ॥
पुष्टिवर्णबलोत्साहं वह्निदीप्तिं करोति च ॥”
इति भावप्राशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तद्वैदिकपर्य्यायः । श्यावी १ क्षपा २ शर्व्वरी ३
अक्तुः ४ ऊर्म्या ५ राम्या ६ यम्या ७ नम्या ८
दोषा ९ नक्ता १० तमः ११ रजः १२
असिक्नी १३ पयस्वती १४ तमस्वती १५
घृताची १६ शिरिणा १७ मोकी १८ शोकी १९
ऊधः २० पयः २१ हिमा २२ वस्वी २३ । इति
त्रयोविंशती रात्रिनामानि । इति वेदनिघण्टौ ।
१ । ७ ॥ (क्रौञ्चद्वीपस्थनदीविशेषः । यथा,
मात्स्ये । १२२ । ८७ ।
“श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः ।
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ॥”)

रात्रिकरः, पुं, (रात्रिं करोतीति । कृ + टः ।)

चन्द्रः । इति हेमचन्द्रे निशाकरशब्ददर्शनात् ॥
(कर्पूरः । इत्यमरः । २ । ६ । १३० ॥)

रात्रिचरः, पुं, (रात्रौ चरतीति । “चरेष्टः ।”

३ । २ । १६ । इति टः । “रात्रेः कृति विभाषा ।”
६ । ३ । ७२ । इति पक्षे मुमभावः ।) राक्षसः ।
इत्यमरः । १ । १ । ६३ ॥ रात्रौ गमनकर्त्तरि, त्रि ॥

रात्रिचरी, स्त्री, (रात्रिचर + टित्वात् ङीप् ।)

राक्षसी । यथा, भट्टिः । २ । २३ ।
“तं विप्रदर्शं कृतघातयत्नां
यान्तं वने रात्रिचरी डुढौके ।
जिघांसुवेदं धृतभासुरास्त्र-
स्तं ताडकाख्यां निजघान रामः ॥”

रात्रिजलं, क्ली, (रात्रेर्जलम् ।) कुज्झटिका ।

इति शब्दमाला ॥

रात्रिजागरः, पुं, (रात्रौ जागर्त्तीति । जागृ +

अच् ।) कुक्कुरः । इति हेमचन्द्रः ॥ रात्रौ
जागरणकर्त्तरि, त्रि ॥

रात्रिजागरदः, पुं, (रात्रौ जागरं जागरणं

ददातीति । दा + कः ।) मशकः । इति राज-
निर्घण्टः ॥

रात्रिञ्चरः, पुं, (रात्रौ चरतीति । चर् + टः ।

“रात्रेः कृति विभाषा ।” ६ । ३ । ७२ । इति मुम् ।)
राक्षसः । इत्यमरः । १ । १ । ६३ ॥ (स्त्रियां ङीप् ।
रात्रिञ्चरी ॥) रात्रौ गमनकर्त्तरि, त्रि ॥

रात्रिपुष्पं, क्ली, (रात्रौ पुष्प्यति विकाशते इति ॥

पुष्प् + अच् ।) उत्पलम् । इति राजनिर्घण्टः ॥

रात्रिमटः, पुं, (रात्रौ अटतीति । अट् + अच् ॥

“रात्रेः कृति विभाषा ।” ६ । ३ । ७२ । इति
मुम् ।) राक्षसः । इति त्रिकाण्डशेषः ॥ रात्रौ
गमनकर्त्तरि, त्रि ॥

रात्रिमणिः, पुं, (रात्रेर्मणिरिव ।) चन्द्रः । इति

हारावली । १३ ॥

रात्रिवासः, [स्] क्ली, (रात्रेर्वासो वस्त्रमिव ।)

अन्धकारः । इति शब्दमाला ॥ रात्रौ शयन-
कालीनपरिधेयवस्त्रम् । यथा । ब्राह्म्ये मुहूर्त्ते
उत्थाय मुक्तस्वापः रात्रिवासस्त्यक्त्वा शिरसि
सहस्रदलकमलावस्थितं श्वेतवर्णं द्विभुजं वरा-
भयकरं श्वेतमाल्यानुलेपनं स्वप्रकाशरूपं
स्ववामस्थितरक्तशक्त्या सुप्रकाशरूपया सहितं
गुरुं विभाव्य मानसोपचारैराराध्य नम-
स्कुर्य्यात् । इति तन्त्रसारः ॥ अपि च ।
“शयनञ्चान्धकारे च रात्रिवासो दिने तथा ।
स्नानाम्बरं कुवेशञ्च वर्ज्जयेत् शुष्कभोजनम् ॥”
इति लक्ष्मीचरित्रम् ॥

रात्रिविगमः, पुं, (रात्रेर्विगमो यत्र ।) प्रभा-

तम् । इति शब्दमाला ॥

रात्रिविश्लेषगामी, [न्] पुं, (रात्रौ विश्लेषं

विच्छेदं गच्छतीति । गम् + णिनिः ।) चक्र-
वाकः । इति राजनिर्घण्टः ॥

रात्रिवेदः, पुं, (रात्रिं रात्रिशेषं वेदयति रवे-

णेति । विद् + णिच् + अण् ।) कुक्कुटः । इति
शब्दरत्नावली ॥

रात्रिवेदी, [न्] पुं, (रात्रिं रात्रिशेषं वेदयति

स्वरेणेति । रात्रि + विद् + णिच् + णिनिः ।)
कुक्कुटः । इति त्रिकाण्डशेषः ॥

रात्रिहासः, पुं, (रात्रेर्हास इव शुभ्रत्वात् ।

रात्रौ हासो विकाशो यस्य इति वा ।)
श्वेतोत्पलम् । इति शब्दरत्नावली ॥

रात्रिहिण्डकः, पुं, (रात्रौ हिण्डति अन्तःपुर-

मध्ये भ्रमतीति । हिण्ड गतौ + ण्वुल् ।) अन्तः-
पुररक्षकः । इति शब्दरत्नावली ॥

रात्री, स्त्री, (रात्रि + कृदिकारादिति ङीष् ।)

निशा । इत्यमरटीकायां भरतः ॥ (यथा,
ऋग्वेदे । १० । १२७ । १ ।
पृष्ठ ४/१३४
“रात्री व्यख्यत् आयती पुरुत्रा देव्यक्षभिः ॥”
हरिद्रा । निशापर्य्यायत्वात् ॥)

रात्र्यटः, पुं, (रात्रौ अटतीति । अट् + अच् ।)

राक्षसः । इति केचित् ॥ रात्रौ गमनकर्त्तरि,
त्रि ॥

रात्र्यन्धः, त्रि, (रात्रौ अन्धः ।) रात्रौ दृष्टि-

हीनो नरः । रातिकाणा इति भाषा ॥ रात्रौ
स्वाभाविकदृष्टिहीनपक्षी । स तु काकादिः ।
यथा, मार्कण्डेयपुराणे देवीमाहात्म्यम् ।
“दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥”
तन्नाशकौषधं यथा, --
“देवदारोश्च वै चूर्णं अजामूत्रेण भावयेत् ।
एकविंशति वै वारमक्षिणी तेन चाञ्जयेत् ।
रात्र्यन्धता पटलता नश्येदिति विनिश्चयः ॥”
इति गारुडे १८९ अध्यायः ॥

राद्धं, त्रि, (राध सिद्धौ + क्तः ।) पक्वम् ।

सिद्धम् । इति हेमचन्द्रः । ३ । ७६ ॥ त्रिकाण्ड-
शेषश्च ॥ (यथा, भागवते । ३ । ९ । ४० ।
“पूर्त्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना ।
राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥”)

राद्धान्तः, पुं, (राद्धः सिद्धः अन्तो निर्णयो

यस्मात् ।) सिद्धान्तः । इत्यमरः । १ । ५ । ४ ॥
(यथा, भागवते । १२ । ११ । १ ।
“अथेदमर्थं पृच्छामो भवन्तं बहुवित्तमम् ।
समस्ततन्त्रराद्धान्ते भवान् भागवततत्त्ववित् ॥”)

राध, न औ य सिद्धौ । इति कविकल्पद्रुमः ॥

(स्वा०-दिवा०-च-पर०-स्वादिपक्षे सक०-दिवा-
दिपक्षे अक०-अनिट् ।) रेफादिः । न,
राध्नोति । य, राध्यति । औ, अरात्सीत् ।
सिद्धिरिह स्वादिपक्षे निष्पादना । दिवादिपक्षे
निष्पत्तिः । अन्नं राध्नोति विप्राणां य इति
हलायुधः । निष्पादयतीत्यर्थः । सततं राध्यति
श्रिये इति हलायुधः । निष्पन्नी स्यादित्यर्थः ।
सिद्धिरन्तर्भूतञ्यर्थत्वादुभयत्रैव निष्पादनेति
गोविन्दभट्टः । इति दुर्गादासः ॥ (शुभाशुभ-
पर्य्यालोचने च । यथा, मुग्धबोधे । “गर्गो
राध्यति रामाय ।” रामस्य शुभाशुभं पर्य्या-
लोचयतीत्यर्थः ॥)

राधः, पुं, (राधा विशाखा तद्वती पौर्णमासी

राधी । सास्मिन्नस्तीति । राधी + “सास्मिन्
पौर्णमासीति ।” ४ । २ । २१ । इति अण् ।)
वैशाखमासः । इत्यमरः । १ । ४ । १६ ॥ (यथा,
राजतरङ्गिण्याम् । ८ । २४८२ ।
“राघमासावधि दधुस्ततः प्रभृति वारिदाः ॥”
धनम् । यथा, ऋग्वेदे । १ । ३० । ५ ।
“स्तोत्रं राधानां पते गीर्वाहो वीर यस्य ते ॥”
“हे इन्द्र राधानां पते धनानां पालक ।” इति
तद्भाष्ये सायणः ॥)

राधनं, क्ली, (राध् + ल्युट् ।) साधनम् । प्राप्तिः ।

इति मेदिनी । ने, ११४ ॥ तोषः । इति हेम-
चन्द्रः ॥

राधना, स्त्री, (राध् + णिच् + युच् । टाप् ।)

भाषणम् । इति मेदिनी । ने, ११४ ॥

राधा, स्त्री, (राध्नोति साधयति कार्य्याणीति ।

राध + अच् । टाप् ।) धन्विनां चित्रभेदः ।
(यथा, बालभारते १ अङ्के । “इह हि महा-
राजसमाजे न जाने कमवलम्बिष्यते राधावेध-
कीर्त्तिर्व्वैजयन्ती ॥”) गोपीविशेषः । विशाखा-
नक्षत्रम् । आमलकी । विष्णुक्रान्ता । विद्युत् ।
इति मेदिनी । धे, १३ ॥ (सूतस्याधिरथस्य
पत्नी । असौ एव कुन्तीगर्भजस्य शिशोः
कर्णस्य पालयित्री अतएव कर्णो राधासुत
इति ख्यात आसीत् । यथा, महाभारते । १ ।
६७ । १३८ -- १३९ ।
“निगूहमाना जातं वै बन्धुपक्षभयात्तदा ।
उत्ससर्ज्ज जले कुन्ती तं कुमारं यशस्विनम् ॥
तमुत्सृष्टं जले गर्भं राधाभर्त्ता महायशाः ।
राधायाः कल्पयामास पुत्त्रं सोऽधिरथस्तदा ॥”
तथा च देवीभागवते । २ । ६ । ३८ ।
“राधा सूतस्य भार्य्या वै तयासौ प्रार्थितः
सुतः ।
कर्णोऽभूद्बलवान् वीरः पालितः सूतसद्मनि ॥”)
श्रीराधिका । सा च श्रीकृष्णवामभागांशा
शक्तिः । यथा, --
“स कृष्णः सर्व्वसृष्ट्यादौ सिसृक्षुरेक एव च ।
सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥
स्वेच्छामयः स्वेच्छया च द्विघारूपो बभूव ह ।
स्त्रीरूपा वामभागांशा दक्षिणांशः पुमान्
स्मृतः ॥
तां ददर्श महाकामी कामाधारः सनातनः ।
अतीवकमनीयाञ्च चारुचम्पकसन्निभाम् ॥”
इत्यादि ॥ * ॥
तस्या अनपत्यताकारणादिर्यथा, --
“दृष्टिमात्रं तया सार्द्धं रासेशो रासमण्डले ।
रासोल्लासे सुरहसि रासक्रीडाञ्चकार ह ॥
नानाप्रकारशृङ्गारं शृङ्गारो मूर्त्तिमानिव ।
चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥
ततः स चापरिश्रान्तस्तस्या योनौ जगत्पिता ।
चकार वीर्य्याधानञ्च नित्यानन्दः शुभे क्षणे ॥
गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत ।
निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥
महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह ।
तदा वव्रे श्रमजलं तत्सर्व्वं विश्वगोलकम् ॥
स तु निश्वासवायुश्च सर्व्वाधारो बभूव ह ।
निःश्वासवायुः सर्व्वेषां जीविनाञ्च भवेषु च ॥
बभूव मूर्त्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा ।
तत्पत्नी सा च तत्पुत्त्राः प्राणाश्च पञ्च जीविनाम् ॥
प्राणोऽपानः समानश्चैवोदानो व्यान एव च ।
बभूवुरेव तत्पुत्त्रा अधःप्राणाश्च पञ्च च ॥
घर्म्मतोयाधिदेवश्च बभूव वरुणो महान् ।
तद्वामाङ्गात्तु तत्पत्नी वरुणानी बभूव ह ॥
अथ सा कृष्णशक्तिश्च कृष्णगर्भं दधार च ।
शतमन्वन्तरं यावत् ज्वलन्ती ब्रह्मतेजसा ॥
कृष्णपाणाधिदेवी सा कृष्णप्राणाधिकप्रिया ।
कृष्णस्य सङ्गिनी शश्वत् कृष्णवक्षःस्थलस्थिता
शतमन्वन्तरातीतकालेऽतीतेऽपि सुन्दरी ।
सुषाव डिम्बं स्वर्णाभं विश्वाधारालयं परम् ॥
दृष्ट्वा डिम्बञ्च सा देवी हृदयेन विदूयता ।
उत्ससर्ज्ज च कोपेन ब्रह्माण्डं गोलके जले ॥
दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह ।
शशाप देवीं देवेशस्तत्क्षणञ्च यथोचितम् ॥
यतोऽपत्यं त्वया त्यक्तं कोपशीले सुनिष्ठुरे ।
भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥
या यास्तदंशरूपाश्च भविष्यन्ति सुरस्त्रियः ।
अनपत्याश्च ताः सर्व्वास्तत्समा नित्ययौवना ॥
एतस्मिन्नन्तरे देवीजिह्वाग्रात् सहसा ततः ।
आविर्ब्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥
पीतवस्त्रपरीधाना वीणापुस्तकधारिणी
रत्नभूषणभूषाढ्या सर्व्वशास्त्राधिदेवता ॥
अथ कालान्तरे सा च द्विधारूपा बभूव ह ।
वामार्द्धाङ्गा च कमला दक्षिणार्द्धा सरस्वती ॥
एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः ।
दक्षिणार्द्धाच्च द्बिभुजो वामार्द्धाच्च चतुर्भुजः ॥
उवाच वाणीं श्रीकृष्णस्त्वमस्य कामिनी भव ।
अत्रैव मानिनी राधा नैव भद्रं भविष्यति ॥
एवं लक्ष्मीञ्च प्रददौ तुष्टो नारायणाय च ।
स जगाम च वैकुण्ठं ताभ्यां सार्द्धं जगत्पतिः ॥
अनपत्ये च ते द्वे च यतो राधाङ्गसम्भवा ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २ अध्यायः ॥
राधाया उत्पत्तिर्यथा, --
“पुरा वृन्दावने रम्ये गोलोके रासमण्डले ।
शतशृङ्गैकदेशे च मल्लिकामाधवीवने ॥
रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः ।
स्वेच्छामयश्च भगवान् बभूव रमणोत्सुकः ॥
रमणं कर्त्तुमिच्छुश्च तद्बभूव सुरेश्वरी ।
इच्छया च भवेत् सर्व्वं तस्य स्वच्छामयस्य च ॥
एतस्मिन्नन्तरे दुर्गे द्बिधारूपो बभूव सः ।
दक्षिणाङ्गश्च श्रीकृष्णो वामार्द्धाङ्गा च राधिका ॥
बभूव रमणी रम्या रासेशी रमणोत्सुका ।
अमूल्यरत्नाभरणा रत्नसिंहासनस्थिता ॥
वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा ।
तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा ॥
सस्मिता सुदती शुद्धा शरत्पद्मनिभानना ।
विभ्रती कवरीं रम्यां मालतीमाल्यमण्डिताम् ॥
रत्नमालाञ्च दधती ग्रीष्मसूर्य्यसमप्रभाम् ।
मुक्ताहारेण शुभ्रेण गङ्गाधारानिभेन च ॥
संयुक्तं वर्त्तुलोत्तुङ्गं सुमेरुगिरिसन्निभम् ।
कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचित्रितम् ॥
माङ्गल्यं मङ्गलार्हञ्च स्तनयुग्भञ्च विभ्रतीम् ।
नितम्बश्रोणिभारार्त्तां नवयौवनसंयुताम् ॥
कामातुरां सस्मिताञ्च ददर्श रसिकेश्वरः ।
दृष्ट्वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः ॥
दृष्ट्वा रिरंसुं कान्तञ्च सा दघार हरेः पुरः ।
रासेशं भूय गोलोके सा दधार हरेः पुरः ॥
तेन राधा समाख्याता पुराविद्भिर्महेश्वरि ।
पृष्ठ ४/१३५
राधा जयति श्रीकृष्णं स च ताञ्च परस्परम् ॥
उभयोः सर्व्वसाम्यञ्च सदा सर्व्वे वदन्ति च ।
भवनं धावनं रासे स्मरत्यालिङ्गनं जपेत् ॥
तेन जल्पति सङ्केताद्रस्या राधा यदीश्वरः ।
राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ॥
धाशब्दोच्चारणाद्दर्गे धावत्येव हरेः पदम् ।
कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा ॥
तस्याश्चांशांशकलया वभूवुर्देवयोषितः ।
रा इत्यादानवचनो धा च निर्व्वाणवाचकः ॥
यतोऽवाप्नोति मुक्तिञ्च सा च राधा प्रकीर्त्तिता ।
बभूव गोपीसंघश्च राधाया लोमकूपतः ॥
श्रीकृष्णलोमकूपैश्च बभूवुः सर्व्ववल्लवाः ।
राधा वामांशभागेन महालक्ष्मीर्बभूव सा ॥
चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी ।
तदंशा राजलक्ष्मीश्च राजसम्पत्प्रदायिनी ॥
तदंशा मर्त्यलक्ष्मीश्च गृहिणाञ्च गृहे गृहे ।
शस्याधिष्ठातृदेवी च सा एव गृहदेवता ॥
स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता ।
प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः ॥
ब्रह्मादिस्तम्बपर्य्यन्तं सर्व्वं मिथ्यैव पार्व्वति ।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात् परम् ॥
परं प्रधानं परमं परमात्मानमीश्वरम् ।
सर्व्वाद्यं सर्व्वपूज्यञ्च निरीहं प्रकृतेः परम् ॥
स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् ।
तद्भिन्नानाञ्च देवानां प्राकृतं रूपमेव च ॥
तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता ।
महद्बिष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी ॥
मानिनीं राधिकां सन्तः सदा सेवन्ति नित्यशः ।
मुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ॥
स्वप्ने राधापदाम्भोजं न हि पश्यन्ति वल्लवाः ।
स्वयं देवी हरेः क्रोडे छाया रायाणकामिनी ॥
स च द्वादशगोपानां रायाणः परमः प्रिये ।
श्रीकृष्णांशश्च भगवान् विष्णुतुल्यपराक्रमः ॥
श्रीदामशापात् सा देवी गोलोकादागता
महीम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे राधोपाख्यानं ४५
अध्यायः ॥ * ॥ अपि च ।
गर्ग उवाच ।
“शृणु नन्द प्रवक्ष्येऽहमितिहासं पुरातनम् ।
पुरा गोलोकवृत्तान्तं श्रुतं शङ्करवक्त्रतः ॥
श्रीदाम्नो राधया सार्द्धं बभूव कलहो महान् ।
श्रीदामा शापाद्दैत्यश्च गोपी राधा च गोकुले ॥
वृषभानुसुता सा च माता यस्याः कलावती ।
कृष्णस्यार्द्धाङ्गसम्भूता नाथस्य सदृशी सती ॥
गोलोकवासिनी सेयमत्र कृष्णाज्ञयाधुना ।
अयोनिसम्भवा देवी मूलप्रकृतिरीश्वरी ॥
मातुर्गर्भं वायुपूर्णं कृत्वा च मायया सती ।
वायुनिःसारणे काले धृत्वा च शिशुविग्रहम् ॥
आविर्बभूव सा सद्यः पृथ्व्यां कृष्णोपदेशतः ।
बर्द्धते सा व्रजे राधा शुक्ले चन्द्रकला यथा ॥
श्रीकृष्णतेजसोऽर्द्धेन सा च मूर्त्तिमती सती ।
एका मूर्त्तिर्द्विघा भूता भेदो वेदे निरूपितः ॥
इयं स्त्री न पुमान् किंवा सा वा कान्ता
पुमानयम् ।
द्वे रूपे तेजसा तुल्ये रूपेण च गुणेन च ॥
पराक्रमेण बुद्ध्या वा ज्ञानेन सम्पदेन च ।
पुरतो गमनेनैव किन्तु सा वयसाधिका ॥
ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ।
रचिता सास्य प्राणैश्च तत्प्राणैर्मूर्त्तिमानयम् ॥
अस्य राधानुसारेण गोकुलागमनं परम् ।
स्वीकारं सार्थकं कर्त्तुं गोलोके यत् कृतं पुरा ॥
कंसभीतिच्छलेनैव गोकुलागमनं हरेः ।
प्रतिज्ञापालनार्थञ्च भयेशस्य भयं कुतः ॥” * ॥
राधाशब्दस्य व्युत्पत्तिर्यथा --
“राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता ।
नारायणस्तामुवाच ब्रह्माणं नाभिपङ्कजे ॥
ब्रह्मा तां कथयामास ब्रह्मलोके च शङ्करम् ।
पुरा कैलासशिखरे मामुवाच महेश्वरः ॥
देवानां दुर्लभं नन्द निशामय वदामि ते ।
सुरासुरमुनीन्द्रानां वाञ्छितां मुक्तिदां पराम् ॥
रेफो हि कोटिजन्माघं कर्म्मभोगं शुभाशुभम् ।
आकारो गर्भवासञ्च मृत्युञ्च रोगमुत्सृजेत् ॥
धकारमायुषो हानिमाकारो भवबन्धनम् ।
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ॥
रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे ।
सर्व्वेप्सितं सदानन्दं सर्व्वसिद्धौघमीश्वरम् ॥
धकारः सहवासञ्च तत्तुल्यकालमेव च ।
ददाति सार्ष्णिं सारूप्यं तत्त्वज्ञानं हरेः स्वयम् ॥
आकारस्तेजसो राशिं दानशक्तिं हरौ यथा ।
योगशक्तिं योगमतिं सर्व्वकालहरिस्मृतिम् ॥
श्रुत्युक्तिस्मरणाद्योगान्मोहजालञ्च किल्विषम् ।
रोगशोकमृत्युमया वेपन्ते नात्र संशयः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १३ अध्यायः ॥
तस्याः षोडशनामानि तेषां व्युत्पत्तिश्च यथा,
नारद उवाच ।
“कानि षोडश नामानि राधिकाया जगद्-
गुरोः ।
तानि मे वद शिष्याय श्रोतुं कौतूहलं मम ॥
श्रुतं नाम्नां सहस्रञ्च सामवेदनिरूपितम् ।
तथापि श्रोतुमिच्छामि त्वत्तो नामानि षोडश ॥
अभ्यन्तराणि तेषां वा तदन्यान्येव वा विभो ।
अहो पुण्यस्वरूपाणि भक्तानां वाञ्छितानि च ॥
नामानि तेषां व्युत्पत्तिं सर्व्वेषां दुर्लभानि च ।
पावनानि जगन्मातुर्जगतां गूढरूपिणी ॥
नारायण उवाच ।
राधा रासेश्वरी रासवासिनी रसिकेश्वरी ।
कृष्णप्राणाधिका कृष्णप्रिया कृष्णस्वरूपिणी ॥
कृष्णवामांशसम्भूता परमानन्दरूपिणी ।
कृष्णा वृन्दावनी वृन्दा वृन्दावनविनोदिनी ॥
चन्द्रावती चन्द्रकान्ता शतचन्द्रनिभानना ।
नामान्येतानि साराणि तेषामभ्यन्तराणि च ॥
राधेत्येवञ्च संसिद्धा राकारो दानवाचकः ।
स्वयं निर्व्वाणधात्री या सा राधा परिकीर्त्तिता ॥
रा च रासे च भवनाद्धा एव धारणादहो ।
हरेरालिङ्गनाधारात्तेन राधा प्रकीर्त्तिता ॥
रासेश्वरस्य पत्नीयं तेन रासेश्वरी स्मृता ।
रासे च वासो यस्याश्च तेन रासनिवासिनी ॥
सर्व्वांशा रसिकानाञ्च देवीनामीश्वरी परा ।
प्रवदन्ति पुरा सन्तस्तेन तां रसिकेश्वरीम् ॥
प्राणाधिका प्रेयसी सा कृष्णस्य परमात्मनः ।
कृष्णप्राणाधिका सा च कृष्णेन परिकीर्त्तिता ॥
कृष्णस्यासि प्रिया शान्ता कृष्णो वास्याः प्रियः
सदा ।
सव्व दवगणैरुक्ता तेन कृष्णप्रिया स्मृता ॥
कृष्णरूपं संविधातुं या शक्ता चावलीलया ।
सर्व्वांशैः कृष्णसदृशी तेन कृष्णस्वरूपिणी ॥
वामार्द्धाङ्गेन कृष्णस्य या सम्भूता परा सती ।
कृष्णवामांशसम्भूता तेन कृष्णेति कीर्त्तिता ॥
परमानन्दराशिश्च स्वयं मूर्त्तिमती सती ।
श्रुतिभिः कीर्त्तिता तेन परमानन्दरूपिणी ॥
कृषिर्मोक्षार्थवचनो ण एवीत्कृष्टवाचकः ॥
आकारो दातृवचनस्तेन कृष्णा प्रकीर्त्तिता ॥
अस्ति वृन्दावनं यस्यास्तेन वृन्दावनी स्मृता ।
वृन्दावनस्याधिदेवी तेन राधा प्रकीर्त्तिता ॥
वृन्दः संघवचः सख्युराकारोऽप्यस्तिवाचकः ।
सखिवृन्दास्ति यस्याश्च सा वृन्दा परिकीर्त्तिता ॥
मुद्बाचको विनोदश्च सा यस्या अस्ति तत्र च ।
वेदा वदन्ति तां तेन वृन्दावनविनोदिनीम् ॥
नखचन्द्रावलीवक्रचन्द्रोऽस्ति यत्र सन्ततम् ।
तेन चन्द्रावली सा च कृष्णेन कीर्त्तिता पुरा ॥
कान्तिरस्ति चन्द्रतुल्या यदा यस्या दिवा-
निशम् ।
सा चन्द्रकान्ता हर्षेण हरिणा परिकीर्त्तिता ॥
शरच्चन्द्रप्रभा यस्याश्चाननेऽस्ति दिवानिशम् ।
मुनिना कीर्त्तिता तेन शरच्चन्द्रप्रभानना ॥
इदं षोडशनामोक्तमर्थव्याख्यानसंयुतम् ।
नारायणेन यद्दत्तं ब्रह्मणे नाभिपङ्कजे ॥
ब्रह्मणा च पुरा दत्तं धर्म्माय जनकाय मे ।
धर्म्मेण कृपया दत्तं मह्यमादित्यपर्व्वणि ॥
पुष्करे च महातीर्थे पुण्याहे देवसंसदि ।
राधाप्रभावप्रस्तावे सुप्रसन्नेन चेतसा ॥
इदं स्तोत्रं महापुण्यं तुभ्यं दत्तं महामुने ।
निन्दकायावैष्णवाय न दास्यसि महामुने ॥
यावज्जीवमिदं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
राधामाधवयोः पादपद्मे भक्तिर्भवेदिह ॥
अन्ते लभेत्तयोर्द्दास्यं शश्वत् सहचरो भवेत् ।
अणिमादिकसिद्धिञ्च संप्राप्य नित्यविग्रहम् ॥
व्रतदानोपवासैश्च सर्व्वैर्नियमपूर्व्वकम् ।
चतुर्णाञ्चव वेदानां पाठैः सर्व्वार्थसंयुतैः ॥
सर्व्वेषां यज्ञतीर्थानां करणैर्विधिबोधितैः ।
प्रादक्षिण्येन भूमेश्च कृत्स्नाया एव सप्तधा ॥
शरणागतरक्षायामज्ञानज्ञानदानतः ।
देवानां वष्णवानाञ्च दर्शनेनापि यत् फलम् ॥
तदेव स्तोत्रपाठस्य कलां नार्हन्ति षोडशीम् ।
स्तोत्रस्यास्य प्रभावेन जीवन्मुक्तो भवेन्नरः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १७ अध्यायः ॥
पृष्ठ ४/१३६
राधानामोच्चारणानन्तरं कृष्णनामोच्चारण-
विधिर्यथा, --
नारद उवाच ।
“आदौ राधां समुच्चार्य्य पश्चात् कृष्णं विदुर्ब्बुधाः ।
निमित्तमस्य मां शक्तं वद भक्तजनप्रिय ॥
श्रीनारायण उवाच ।
निमित्तमस्य त्रिविधं कथयामि निशामय ।
जगन्माता च प्रकृतिः पुरुषश्च जगत्पिता ॥
गरीयसीति जगतां माता शतगुणैः पितुः ।
राधाकृष्णेति गौरीशेत्येवं शब्दः श्रुतौ श्रुतः ॥
कृष्णराधेशगौरीति लोके न च कदा श्रुतः ।
प्रसीद रोहिणीचन्द्र गृहाणार्घ्यमिदं मम ॥
गृहाणार्घ्यं मया दत्तं संज्ञया सह भास्कर ।
प्रसीद कमलाकान्त गृहाण मम पूजनम् ॥
इति दृष्टं सामवेदे कौथुमे मुनिसत्तम ॥
राशब्दोच्चारणादेव स्फीतो भवति माधवः ।
धाशब्दोच्चारतः पश्चाद्धावत्येव ससम्भ्रमः ॥
आदौ पुरुषमुच्चार्य्य पश्चात् प्रकृतिमुच्चरेत् ।
स भवेन्मातृगामी च वेदातिक्रमणे मुने ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५२ अध्यायः ॥
तस्या निन्दायां दोषो यथा, --
“ये वा द्बिषन्ति निन्दन्ति पापिनश्च हसन्ति च ।
कृष्णप्राणाधिकां देव देवीञ्च राधिकां पराम् ॥
ब्रह्महत्याशतं ते च लभन्ते नात्र संशयः ।
तत्पापेन च पच्यन्ते कुम्भीपाके च रौरवे ॥
तप्ततैले महाघोरे ध्वान्ते कीटे च यन्त्रके ।
चतुर्द्दशेन्द्रावच्छिन्नं पितृभिः सप्तभिः सह ॥
ततः परमजायन्त जन्मैकं कोलयोनितः ।
दिव्यं वर्षसहस्रञ्च विष्ठाकीटाश्च पापतः ॥
पुंश्चलीनां योनिकीटास्तद्रक्तमलभक्षणाः ।
मलकीटाश्च तन्मानवर्षञ्च पूयभक्षकाः ।
वेदे च काण्वशाखायामित्याह कमलोद्भवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ९७ अध्यायः ॥
राधास्वरूपं यथा, --
यशोदोवाच ।
“हरौ च निश्चला भक्तिस्तद्दास्यं वाञ्छितं मम ।
तव नाम्नश्च व्युत्पत्तिं का वा त्वं वक्तमर्हसि ॥
राधिकोवाच ।
भवेद्भक्तिर्निश्चला ते हरेर्दास्यञ्च दुर्लभम् ।
लभस्व मद्बरेणापि कथयामि स्वनिर्णयम् ॥
षुरा नन्देन दृष्टाहं भाण्डीरे बटमूलके ।
मया च कथितो नन्दो निषिद्धश्च व्रजेश्वरः ॥
अहमेव स्वयं राधा छाया रायाणकामिनी ।
रायाणः श्रीहरेरंशः पार्श्वदप्रवरो महान् ॥
राशब्दश्च महद्विष्णोर्विश्वानि यस्य लोमसु ।
विश्वप्राणिषु विश्वेषु धा धात्रीमातृवाचकः ॥
धात्री माताहमेतेषां मूलप्रकृतिरीश्वरी ।
तेन राधा समाख्याता हरिणा च पुरा बुधैः ॥
अहं श्रीदामशापेन वृषभानुसुताधुना ।
शतवर्षञ्च विच्छेदो हरिणा सह साम्प्रतम् ॥
वृषभानुञ्च कृष्णस्य पार्श्वदप्रवरो महान् ।
पितणां मानसी कन्या मम माता कलावती ॥
अयोनिसम्भवाहञ्च मम माता च भारते ।
पुनः सार्द्धञ्च युष्माभिर्यास्यामि श्रीहरेः पदम् ॥
इति ते कथितं सर्व्वं व्रजं व्रज व्रजेश्वरि ।
व्रजेश्वरेण सहिता स्वामिना ज्ञानिना सति ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
राधापार्व्वत्योरभेदो यथा, --
पार्व्वत्युवाच ।
“किं वा प्रश्नं करिष्यामि त्वां राधां मङ्गला-
लयाम् ।
गता ते विरहज्वाला श्रीदाम्नः शापमोक्षणे ॥
सततं तन्मनःप्राणा त्वय्येव मयि ते तथा ।
न ह्येवमावयोर्भेदः शक्तिपूरुषयोर्यथा ॥
ये त्वां निन्दन्ति मद्भक्तास्त्वद्भक्ताश्चापि मामपि ।
कुम्भीपाके च पच्यन्ते यावच्चन्द्रदिवाकरौ ॥
राधामाधवयोर्भेदं ये कुर्व्वन्ति नराधमाः ।
वंशहानिर्भवेत्तस्य पच्यन्ते नरकं चिरम् ॥
यान्ति शूकरयोनिञ्च पितृभिः शतकैः सह ।
षष्टिं वर्षसहस्राणि विष्ठायां कृमयस्तथा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १२३ अध्यायः ॥
गोलोके तस्या आश्रमो यथा, --
“एतान् मनोरमान् दृष्ट्वा ते देवा गमनोन्मुखाः ।
जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः ॥
आश्रमं राधिकायाश्च रासेश्वर्य्याश्च नारद ।
देवाधिदेव्या गोपीनां वरायाश्चारु निर्म्मितम् ॥
प्राणाधिकायाः कृष्णस्य रम्याद्रम्यं मनोहरम् ।
सर्व्वानिर्व्वचनीयञ्च पण्डितैर्न निरूपितम् ॥
सुचारु वर्त्तुलाकारं षड्गव्यूतिप्रमाणकम् ।
शतमन्दिरसंयुक्तं ज्वलितं रत्नतेजसा ॥
अमूल्यरत्नसाराणां वरैर्विरचितं वरम् ।
दुर्लङ्घ्याभिर्गभीराभिः परिखाभिः सुशोभितम् ॥
कल्पवृक्षैः परिवृतं पुष्पोद्यानशतान्तरम् ।
सुमूल्यरत्नरचितं प्राकारैः परिवेष्टितम् ॥
सद्रत्नवेदिकायुक्तं युक्तैर्द्वारैश्च सप्तभिः ।
संयुक्तरत्नचित्रैश्च विचित्रैर्व्वर्त्तुलैर्मुने ॥
प्रधानद्बारसप्तभ्यः क्रमशः क्रमशो मुने ।
सर्व्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम् ॥
देवा दृष्ट्वा च प्राकारं सहस्रधनुरुच्छ्रितम् ।
सद्रत्नरत्नकलससमूहैः सुमनोहरम् ॥
सुदीप्तं तेजसा रम्यं परमं विस्मयं ययुः ।
ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्यायः ॥
तस्या जन्मतिथिर्यथा, --
“भाद्रस्य कृष्णपक्षे तु हरिजन्माष्टमी यदा ।
तस्याः परे तु या शुक्ला तस्यां जाता हरिप्रिया ॥
वृषभानुपुरी नाम्ना सर्व्वरत्नमयी शुभा ।
सुवर्णमणिमाणिक्यविचित्रभवनाङ्गना ॥
अणिमादिसुखैश्वर्य्यपरिपूर्णमनोहरा ।
चित्रध्वजपताकादिविचित्रा चित्रनिर्म्मिता ॥
चिदानन्दस्वरूपा सा चिदानन्दप्रदायिनी ।
आनन्दकलिला नार्य्यो यत्र तिष्ठन्ति सर्व्वदा ॥
विचित्रवेशालङ्कारा विचित्रवसनाम्बरा ।
नानावेशविचित्राङ्गा प्रमदामोददायिनी ॥
सर्व्वलक्षणसम्पन्ना राधा नाम्ना विनोदिनी ।
जगतां मोहिनी देवी गुह्यगुह्यातिसुन्दरी ।
मूढानामसताञ्चैव न कथ्यं मुनिसत्तम ॥
नारद उवाच ।
प्रणिपत्य महाभाग पृच्छामि तव किङ्करः ।
सा लक्ष्मीः किं सुरवधूर्महालक्ष्मीः सरस्वती ॥
विद्या किमन्तरङ्गाथ वैष्णवी प्रकृतिः किमु ।
वेदकन्या देवकन्या मुनिकन्याथवा वद ॥
सदाशिव उवाच ।
कोटिकोटिमहालक्ष्मीर्लक्ष्मीः का वा परा वरा ।
निन्दिता यत्पदाम्भोजे कथिता मुनिसत्तम ॥
अपरं किं निगदेऽहमेकवक्त्रेण नारद ।
श्रीराधारूपलावण्यगुणादीन् वक्तुमक्षमः ॥
तत्तद्रूपादिमाहात्म्यं लज्जेऽहमपि नारद ।
त्रैलोक्ये तु समर्थो हि न मातुं वक्तुमर्हति ॥
तद्देहरूपमाधुर्य्यं जगन्मोहनमोहनम् ।
यद्यनन्तमुखोऽपि स्यां तद्बक्तुं नास्ति मे गतिः ॥
लक्षशः कमला दास्यो यस्याः सा लाक्षकी मता ।
एवं शतसहस्राणामीश्वरी राधिका परा ॥
नारद उवाच ।
प्रभो श्रीराधिकाजन्ममाहात्म्यं सर्व्वतः परम् ।
तदहं श्रोतुमिच्छामि समस्तं भक्तवत्सल ॥
कथ्यतां मे महाभाग व्रतानाञ्च व्रतोत्तमम् ।
ध्यानं वा कीदृशी पूजा स्तुतिर्वापि वदस्व मे ॥
तत्सर्व्वं श्रोतुमिच्छामि कथ्यतां मे सदाशिव ।
चर्य्यां पूजाविधानञ्च विशेषमर्च्चनं भव ॥
यन्त्रं मन्त्रं स्तुतिर्ध्यानं पूजनं यत्र निर्म्मितम् ।
पूजने किं विधानञ्च तत्तत्सेवार्च्चने विधौ ॥
शिव उवाच ।
वृषभानुपुरीराजा वृषभानुर्महाशयः ।
महाकुलप्रसूतोऽसौ सर्व्वशास्त्रविशारदः ॥
महाशयो धनी श्रीमानणिमाद्यष्टवैभवः ।
वैश्यः सदन्तःकरणः कुलीनः कृष्णदैवतः ॥
तस्य भार्य्या महाभागा श्रीमत्श्रीकीर्त्तिदाह्वया ।
रूपयौवनसम्पन्ना महाराजकुलोद्भवा ॥
महालक्ष्मीस्वरूपा सा भव्या परमसुन्दरी ।
महापतिव्रता कार्ष्णा सर्व्वविद्यागुणान्विता ॥
तस्यां श्रीराधिका जाता श्रीमद्वृन्दावनेश्वरी ।
भाद्रे मासि सिताष्टम्यां मध्याह्ने शुभदायिनी ॥
वेदागमपुराणादिगीता या कृष्णवल्लभा ।
सदा कृष्णप्रिया साध्वी श्रीकृष्णानन्ददायिनी ॥
शृणु मत्तो महाभाग पूजनं भजनं तथा ।
कर्त्तव्यं यदनुष्ठानं राधाजन्मगहोत्सवः ॥
समर्च्चय सदा राधां जन्मव्रतपरायणैः ।
तत् समग्रं प्रवक्ष्यामि ध्यानादिकमनुक्रमात् ॥
सर्व्वदा पश्चिमद्वारे श्रीराधाकृष्णमन्दिरे ।
ध्वजस्रग्वस्त्रकलसपताकातोरणादिभिः ॥
नानासुमङ्गलद्रव्यैर्यथाविधि प्रवर्त्तते ।
सुवासितगन्धपुष्पैर्धूपैश्च धूपितैर्गृणन् ॥
मध्ये पञ्चवर्णचूर्णैर्मण्डपं ससरोरुहम् ।
सुषोडशदलाकारं तत्र निर्म्माय यत्नतः ॥
दिव्यासने पद्ममध्ये पश्चिमाभिमुखीं स्थिताम् ।
पृष्ठ ४/१३७
श्रीयुग्ममूर्त्तिं सूपास्य ध्यानपाद्यादिभिः क्रमात् ॥
भक्तैः सह सजातीयैः शक्यानुसारवस्तुभिः ।
तद्भक्तः पूजयेद्भक्त्या तां सदा संयतेन्द्रियः ॥”
अथ ध्यानम् ।
“हेमेन्दीवरकान्तिमञ्जुलतरं श्रीमज्जगन्मोहनं
नित्याभिर्ललितादिभिः परिवृतं सन्नीलपीता-
म्बरम् ।
नानाभूषणभूषणाङ्गमधुरं कैशोररूपं युगं
गान्धर्व्वाजनमव्ययं सुललितं नित्यं शरण्यं भजे ॥
युग्गमूर्त्तिमिति ध्यात्वा शालग्रामेऽथवा पुनः ।
साक्षात् शैलादिमूर्त्तौ वा मनोमय्यां समर्च्चयेत् ॥
ततो मण्डलपूजाञ्च तयोः सम्मुखतः क्रमात् ।
कुर्य्याद्भक्तः प्रयत्नेन ध्यानपाद्यादिभिः सदा ॥
ललिता पश्चिमे पूज्या पीतवर्णदलेऽपरा ।
चन्द्रावतीं शुक्लदले तद्वामे पूजयेत् सुधीः ॥
वायव्ये श्यामलां देवीं कृष्णवर्णदलेऽर्च्चयेत् ।
तद्वामे चित्ररेखाख्यां शुक्लवर्णदले ततः ॥
उत्तरे श्रीमती त्वर्च्या रक्तवर्णदले तथा ।
तद्वामपार्श्वे चन्द्राख्यां नीलवर्णदलेऽर्च्चयेत् ॥
रक्तवर्णदलेऽप्यर्च्या ईशाने श्रीहरिप्रिया ।
तस्या वामे शुक्लदले पूज्या मदनसुन्दरी ॥
पीतवर्णदले पूर्ब्बे विशाखामर्च्चयेत्ततः ।
प्रियां तस्या वामपार्श्वे शुक्लवर्णदलेऽर्च्चयेत् ॥
अग्निकोणे श्यामवर्णां दले सव्यां समर्च्चयेत् ।
तद्वामे श्रीमधुमतीं शुक्लवर्णदलेऽर्च्चयेत् ॥
पूजयेद्दक्षिणे पद्मां रक्तवर्णदले तथा ।
शशिरेखाञ्च तद्बामे नीलवर्णदलेऽर्च्चयेत् ॥
पूजयेन्नैरृते भद्रां रक्तवर्णदले ततः ।
रसप्रियाञ्च तद्वामे शुक्लवर्णदलेऽर्च्चयेत् ॥ * ॥
श्रीराधाप्रियसङ्गिनीं विधुमुखीं कृष्णप्रियां
प्रेयसीं
हेमाभां परिवादिनीं सुमधुरध्वानां सुवेशा-
म्बराम् ।
सद्रत्नाभरणैर्मनोज्ञसुतनुं नित्यां जगन्मोहिनीं
वन्दे श्रीललितां कुरङ्गनयनीं पीताम्बरेणावृ-
ताम् ॥ १ ॥
श्यामां श्यामपरायणां वरतनुं चामीकराङ्ग-
च्छटां
मञ्जीरैर्मधुरध्वनिंपरिलसच्चन्द्राननां सुस्वराम् ।
सद्रत्नाभरणां सरोजनयनीं शुक्लांशुकेनावृतां
ध्यायेत् श्रीललितासखीं सुचिवुकां चन्द्रावती-
मुत्तमाम् ॥ २ ॥
कान्त्या काञ्चनसन्निभां सुललितां कृष्णाम्बरं
बिभ्रतीं
नानाभूषणमञ्जुलाञ्च सुदतीं मार्द्दङ्गिकीं सुन्द-
रीम् ।
श्रीवृन्दाविपिनेश्वरीं प्रियसखीं भव्यां शशाङ्काननां
वेणीचारुसुमल्लिकास्रजममूं नित्यं भजे
श्यामलाम् ॥ ३ ॥
श्रीकृष्णप्रियवल्लभां शशिमुखीं सच्छब्दडम्फा-
न्वितां
शुद्धस्वर्णशरीरकान्तिमतुलां शुक्लाम्बरेणावृताम् ।
स्वर्णाद्याभरणां सदा पुलकिनीं श्रीकृष्णभावेन वै
गायन्तीं मधुरस्वरैरविरतं श्रीचित्रलेखां
भजे ॥ ४ ॥
कनकनिभशरीरां बिभ्रतीं रक्तवस्त्रं
ललितनलिननेत्रां चारुभूषाङ्गशोभाम् ।
सुमधुरपिकवाक्यां चन्द्रवक्त्रां सुवेशां
मधुरिपुनिजदासीं श्रीमतीं तां हि वन्दे ॥ ५ ॥
वृन्दावनेशनिजसेवनसौख्यदासीं
रम्यां सुनीलवसनां सुरवावयन्त्राम् ।
नानाविभूषिततनुं स्फुरदम्बुजाक्षीं
चन्द्रां भजे सकलरागमनोज्ञगानाम् ॥ ६ ॥
सुवर्णवर्णां शुकधारिणीं ता-
मुपाङ्गयन्त्रां मणिभूषणाङ्गीम् ।
हरिप्रियां मञ्जुलपत्रनेत्रां
भजेऽहमीड्यां कनकाङ्गशोभाम् ॥ ७ ॥
रवावकलवादिनीं सकलरागसंगायिनीं
सुचारुमणिकुण्डलां शरदपूर्णचन्द्राननाम् ।
सुरत्नवरभूषणां रुचिरशुभ्रपट्टाम्बरां
भजे मदनसुन्दरीं कनकवर्णदेहां शुभाम् ॥ ८ ॥
सुतानज्ञां गीते भ्रमरकलकण्ठीं सुचतुरां
जगद्वन्द्यां वेल्लन्नलिननयनामिन्दुवदनाम् ।
विशाखां गौराङ्गीं कलितमुरलीं पीतवसनां
भजे श्यामां सेव्यां सकलगुणपूर्णां सुखमयीम् ॥ ९
सुचामीकराभूषणाढ्यां सुवेशां
सुसङ्गीतविद्यासुधीरां वरेण्याम् ।
सुवंशीसुगानां सुहेमाङ्गशोभां
भजे श्रीप्रियां शुक्लवस्त्रां मनोज्ञाम् ॥ १० ॥
गान्धर्व्वानिजदासिकां सुगदवाग्यन्त्रं सदा
बिभ्रतीं
मञ्जुस्वर्णविभूषितां वरतनुं पाथोजनेत्रां
वराम् ।
ध्यायेत् कृष्णपदारविन्दमधुपीं कृष्णाम्बरेणा-
वृतां
संगीते मधुरवरामविरतं सैव्यां मनोहारि-
णीम् ॥ ११ ॥
रुचिरमधुमतीं तां तप्तचामीकराभां
पिककलरवकण्ठीं शुक्लवस्त्रं दधानाम् ।
तिलकुसुमसुनासां चारुहेमाङ्गभूषां
युगलचरणसेवातत्परामाभजेऽहम् ॥ १२ ॥
रत्नालङ्कारदेहां जितकुसुमरुचीमङ्गलावण्य-
रूपै-
र्भव्यां सङ्गीतविद्यासुनिपुणरसिकां तानमानाति-
विज्ञाम् ।
शारङ्गीयन्त्रगानां कनकनिभतनुं सर्व्वदा कृष्ण-
सेवीं
वन्दे पद्मां सुवेशां शशधरवदनां बिभ्रतीं रङ्ग-
वस्त्रम् ॥ १३ ॥
शशिरेखां मृदङ्गञ्च वादयन्तीं मुहुर्मुहुः ।
रसालापस्वरूपाञ्च रसप्रेमैकसंयुताम् ॥ १४ ॥
भव्यां श्रीशशिरेखिकां सुखमकां यन्त्रादि-
गानांवरां
वन्देऽहं मधुरस्वरां परमिकां लावण्यसारा-
न्विताम् ।
नानायन्त्रविशारदां वरतनुं पट्टाम्बरेणावृतां
फुल्लेन्दीवरलोचनामविरतं ध्याये जगन्मो-
हिनीम् ॥ १५ ॥
श्रीयन्त्रं स्वरमण्डलं कलरवं गाने सदा बिभ्रतीं
श्रीभद्रां मधुरस्वरां सुललितां सद्रक्तवस्त्रावृताम् ।
राजत्स्वर्णरुचिं विभूषणवरैरङ्गैः सदा शोभितां
ध्याये श्रीयुगसेविकां परमिकां ह्लादैकमग्नां
सदा ॥ १६ ॥
राधाकृष्णपदारविन्दमधुपीं सद्भृङ्गतुल्यार्थिनीं
नानाभूषणभूषिताङ्गरुचिरां सद्रक्तवस्त्रां
शुभाम् ।
ध्याये सन्ततकृष्णभावललितां केयूरहेमाङ्गदां
स्वर्णाङ्गीञ्च रसप्रियां सुखमयीं सर्व्वाङ्गशोभा-
न्विताम् ॥ १७ ॥
मधुस्वरां कोकिलभृङ्गगानां
सतुम्बरीयन्त्रविधारिणीञ्च ।
वनप्रियां शुक्लसुचीनवस्त्रां
भजे हरिद्राङ्गसमञ्जुशोभाम् ॥ १८ ॥
एवं ध्यात्वा पूजयित्वा ललिताद्या यथाक्रमात् ॥
पाद्यादिभिः सोपचारैर्विधिवद्भक्तितत्परः ॥
सङ्गिन्यो ललितादीनां दलात्पश्चिमतो मुने ! ।
प्रणवादिनमोऽन्तेन संप्रदानपदेन वै ।
तत्तन्नाम्ना तु मनुना पुष्पगन्धादिभिर्मुने ! ॥”
इति पाद्मेउत्तरखण्डे श्रीराधाजन्माष्टमीव्रत-
कथनमाहात्म्यं नाम १६२ अध्यायः ॥
श्रीसदाशिव उवाच ।
“प्रत्येकेऽष्टौ पूजयेद्वै क्रमतस्तु दले दले ।
शृणु नाम्ना कथ्यते ताश्चाष्टाविंशाधिकं शतम् ।
इन्दुमुखी रसज्ञा च शुभदा सुमुखी तथा ।
वल्लवी चन्द्रिका चारुचतुरा च सुचञ्चला ॥
मधुरा हस्तकमला तथा मधुरभाविनी ।
विलासिनी रसवती तथा खञ्जनलोचना ॥
सुखदा चम्पकलिका रसदा रसमञ्जरी ।
सदा सुमञ्जरी शीला चन्द्रा चन्द्रप्रभावती ॥
वासन्ती मालती जाती चन्द्रकान्ती सुकुन्तला ।
रम्भा भ्रमरगम्भीरा सुशीला च सुवेशिनी ॥
आमलकी सुधाकण्ठी श्रिता च श्रीरतिप्रिया ।
शुकप्रिया मधुकरी सुवेशा चामृतोद्भवा ॥
मुरलीवल्लभा वृन्दा पारिजातप्रिया शुभा ।
पञ्चस्वरा रत्नमाला मदिरा रासवल्लवी ॥
मातङ्गगमनी तारावती कुण्डलधारिणी ।
केशरी मित्रवृन्दा च लक्षणाच्युतमालिका ॥
मायावती कौशिकी च कोमलाङ्गी सुचन्दनी ।
पीयूषभाषिणी सत्यवती च कुञ्जवासिनी ॥
कपोतमालिका लोपामुद्रा च किंशुकप्रिया ।
दलावती कुङ्कुमा च कमला च मदालसा ॥
तिलोत्तमा च सावित्री बहुला प्रियवादिनी ।
मुक्तावली चित्ररेखा सुमित्रा लोककुण्डला ॥
अरुन्धती चित्रवती श्रीरक्ता पद्मगन्धिनी ।
मेनका कलिका रङ्गकेतकी काममूर्च्छनी ॥
पृष्ठ ४/१३८
कुमुदप्रिया च तानज्ञा तथा नृत्यविलासिनी ।
हिरावती हारकण्ठी सिंहमध्या सुलोचना ॥
नन्दव्या नन्दकलिका सुनन्दा नन्ददायिनी ।
कुरङ्गाक्षी च सुश्रोणी केलिलोला प्रियंवदा ॥
श्यामाराध्या श्यामसेव्या कस्तूरी मानभञ्जिनी ।
विचित्रवसना रत्नमञ्जीरा मञ्जुकिङ्किणी ॥
पिकस्वरा भृङ्गगाना तथा रासविहारिणी ।
श्रीकृष्णदक्षिणे पूज्या यत्नात् चन्द्रावली ततः ।
ध्यानपाद्यादिभिः सम्यक्प्रकारेण च पूजकैः ॥
हेमाभां मधुरस्वरां विधुमुखीं गान्धर्व्वविद्यारतां
नानामूषणभूषिताङ्गमधुरां जातीसुमल्लीस्रजम् ।
वीणायन्त्रसुवादिनीं वरतनुं चित्राम्बरं बिभ्रतीं
ध्याये कृष्णपरायणां सुचिवुकां चन्द्रावलीं
मञ्जुलाम् ॥
एवं राधाजन्मतिथौ कुर्य्यान्मण्डलपूजनम् ।
कार्ष्णादीन् वैष्णवान् सर्व्वान् यत्नतः परि-
पूजयेत् ॥
एवं राधाकृष्णपूजां तयोर्मण्डलपूजनम् ।
प्रत्यब्दे यत्नतः कुर्य्यात् कार्ष्णे रासमहोत्सवे ॥
न्यूनातिरिक्तं देवर्षे ! न कर्त्तव्यं कदाचन ।
श्रीमत्कृष्णैकतानेनावश्यं तेनैव सर्व्वदा ॥
नाहूयेत् शैवशाक्तादीन् राधाजन्ममहोत्सवे ।
पाषण्डान् पतितान् कोलानन्त्यजान्न निमन्त्रयेत् ॥
विना भागवताँल्लोकान्न च तत्र प्रवेशयेत् ।
गन्धपुष्पादिभिर्माल्यैश्चन्दनैस्तन्निवेदितैः ॥
नानापराधभीतस्तु भक्तांस्तांस्तत्र चार्च्चयेत् ।
तत्तन्महाप्रसादैश्च भक्ष्यपेयादिभिस्तथा ॥
तत्तन्मण्डलपूजायाः कार्ष्णो नान्यांश्च भोजयेत् ।
वहिर्मुखान् श्रीकृष्णस्य गान्धर्व्वाभक्तितत्परः ॥
कार्ष्णादीन् वैष्णवान् भक्त्या भोजयेत् पूजयेत्तथा ।
तन्नैवेद्यैर्गन्धपुष्पैर्माल्यैर्मलयजादिभिः ॥
सजातीयैर्भक्तवृन्दैः समं तत्र महोत्सवम् ।
दिवा कुर्य्यात् प्रयत्नेन राधाभक्तिपरायणः ॥
महाप्रसादं भुञ्जीत दिनान्ते चरणोदकम् ।
पूजां कृत्वा पिबेत् कार्ष्णैः सार्द्बमानन्दितैस्ततः ॥
रात्रौ जागरणं कुर्य्याद्राधाकृष्णेति वा स्मरन् ।
पूजयेन्मूर्त्तिमारोप्य रूप्यस्वर्णादिसंस्कृताम् ॥
अकृत्वान्यकथालापं पूराणाद्यनुकीर्त्तनम् ।
श्रवणीयं प्रयत्नेन नारीभिर्व्वान्धवैः सह ॥
यः करोति नरो भक्त्या राधाजन्माष्टमीं शुभाम् ।
वदन्ति विबुधाः सर्व्वे राधाभक्तोऽस्ति भूतले ॥
प्रहरे प्रहरे राधां गोष्ठाष्टम्यां दिवानिशि ।
पूजयित्वा विधानेन श्रीकृष्णसहितां तथा ॥
तद्रसिकैः सहालापै राधाकृष्णस्मृतिं मुहुः ।
तत्तन्महोत्सवं कृत्वा परमानन्दितो भवन् ॥
दण्डवत् प्रणतिं कुर्य्यादष्टाङ्गविधिबोधिताम् ।
प्रत्यब्दमेव कुरुते राधाजन्ममहोत्सवम् ॥
यः पुमानथवा नारी राधाभक्तिपरायणा ।
भूत्वा वृन्दावने वासः श्रीराधाकृष्णसङ्गिनी ॥
व्रजदासी भवेत् सोऽपि राधाभक्तिपरायणः ।
तस्यालापप्रयोगाच्च मुक्तवन्धो नरो भवेत् ॥
राधाराधेति यो ब्रूयात् स्मरणं कुरुते नरः ।
सर्व्वतीर्थेषु संस्कारात् सर्व्वविद्याप्रयत्नवान् ॥
राधाराधेति कुर्य्यात्तु राधाराधेति पूजयेत् ।
राधाराधेति यन्निष्ठा राधाराधेति जल्पति ॥
वृन्दारण्ये महाभागा राधासहचरी भवेत् ।
जगतां पृथिवी धन्या तत्र वृन्दावनं पुरी ।
तत्र धन्या सती राधा ध्येया या मुनिसत्तमैः ॥
ब्रह्मादीनां महाराध्यां दूरतः सेवते सुरः ।
तां राधिकां यो भजते देवर्षे तं भजेमहि ॥
तदालापं कुरुष्वैव जपस्व मन्त्रमुत्तमम् ।
अहर्निशं महाभाग कुरु राधेति कीर्त्तनम् ॥
राधेति कीर्त्तनं कुर्य्यात् कृष्णेन सह यो जनः ।
तन्माहात्म्यं न शक्येऽहं वक्तुं शेषोऽत्र नैव च ॥
न गङ्गा न गया नित्यं न हिता च सरस्वती ।
कदाचिन्नैव विमुखा सर्व्वतीर्थफलप्रदा ॥
सर्व्वतीर्थमयी राधा सर्व्वैश्वर्य्यमयी पुनः ।
कदाचिद्विमुखा लक्ष्मीर्न भवेत्तु तदालये ॥
तस्यालये वसेत् कृष्णो राधया सह नारद ॥
राधाकृष्णेति यस्येष्टं तदेतद्व्रतमुत्तमम् ।
तद्गेहे देहमनसोः कदाचिन्न चलेद्धरिः ॥
एतदेवं वचः श्रुत्वा नारदो मुनिसचमः ।
प्रणतः पूजयामास गोष्ठाष्टम्यां यथोदितम् ॥
जन्माष्टमीव्रतकथां यः शृणोतीह मानवः ।
श्रीराधायाः सुखी मानी धनी सर्व्वगुणान्वितः ॥
जपेद्वै भक्तिसंयुक्तः पठेन्नाम्ना स्मरेन्नरः ।
धर्म्मार्थी लभते धर्म्ममर्थार्थी लभते धनम् ॥
कामार्थी लभते कामं मोक्षार्थी मोक्षमाप्नु-
यात् ॥
सर्व्वदानन्यशरणः कार्ष्णादिवैष्णवः सुखी ।
विवेकी च तथा निष्कामी यदा भक्तिमाप्नु-
यात् ॥”
इति पाद्मे उत्तरखण्डे श्रीसदाशिवनारदसंवादे
श्रीराधाजन्माष्टमीकथनमाहात्म्ये १६३ अध्यायः ॥
(तन्त्रमतेऽस्या उत्पत्यादिविवरणानि यथा, --
कात्यायन्युवाच ।
“वासुदेव महाबाहो मा भयं कुरु पुत्त्रक ।
मथुरां गच्छ तातेति तव सिद्धिर्भविष्यति ॥
गच्छ गच्छ महाबाहो पद्मिनीसङ्गमाचर ।
पद्मिनी मम देवेश व्रजे राधा भविष्यति ।
अन्याश्च मातृकादेव्यः सदा तस्यानुचारिकाः ॥
वासुदेव उवाच ।
शृणु मातर्म्महामाये चतुवर्गप्रदायिनि ।
त्वां विना परमेशानि ! विद्यासिद्धिर्न जायते ॥
पद्मिनीं परमेशानि ! शीघ्रं दर्शय सुन्दरि ! ।
प्रत्ययं मम देवेशि ! तदा भवति मानसम् ॥
इति श्रुत्वा वचस्तस्य वासुदेवस्य तत्क्षणात् ।
आविरासीत्तदा देवी पद्मिनी परसंस्थिता ॥
रक्तविद्युल्लताकारा पद्मगन्धसमन्विता ।
रूपेण मोहयन्ती सा सखीगणसमन्विता ॥
सहस्रदलपद्मान्तर्म्मध्यस्थानस्थिता सदा ।
सखीगणयुता देवी जपन्ती परमाक्षरम् ॥
एकाक्षरी महेशानि ! सा एव परमाक्षरा ।
कालिका या महाविद्या पद्मिन्या इष्टदेवता ।
वासुदेवो महाबाहुर्दृष्ट्वा विस्मयमागतः ॥
पद्मिन्युवाच ।
व्रजं गच्छ महाबाहो शीघ्रं हि भगवन् ! प्रभो ! ।
त्वया सह महाबाहो कुलाचारं करोम्यहम् ॥
वासुदेव उवाच ।
शृणु पद्मिनि मे वाक्यं कदा ते दर्शनं भवेत् ।
कृपया वद देवेशि ! जपं किंवा करोम्यहम् ॥
पद्मिन्युवाच ।
तवाग्रे देवदेवेश मम जन्म भविष्यति ।
गोकुले माथुरे पीठे वृकभानुगृहे ध्रुवम् ॥
दुःखं नास्ति महाबाहो मम संसर्गहेतुना ।
कुलाचारोपयुक्ता या सामग्री पञ्चलक्षणा ॥
मालायां तव देवेश सदा स्थास्यति नान्यथा ।
इत्युक्त्वा पद्मिनी सा तु सुन्दर्य्या दूतिका तदा ॥
अन्तर्ध्यानं ततो गत्वा मालायां सहसा क्षणात् ।
वासुदेवोऽपि तां दृष्ट्वा क्षीराब्धिं प्रययौ ध्रुवम् ॥
त्यक्त्वा काशीपूरं रम्यं महापीठं दुरासदम् ।
प्रययौ माथुरं पीठं पद्मिनी परमेश्वरी ॥
यत्र कात्यायनी दुर्गा महामायास्वरूपिणी ।
नारदार्द्यैर्म्मुनिश्रेष्ठैः पूजिता संस्तुता सदा ॥
कात्यायनी महामाया यमुनाजलसंस्थिता ।
यमुनाया जलं तत्र साक्षात् कालीस्वरूपिणी ॥
बहुपत्रयुतं रम्यं शुक्लपीतं महाप्रभम् ।
रक्तं कृष्णं तथा चित्रं हरितं सर्व्वमोहनम् ।
कालिन्द्याख्या महेशानि यत्र कात्यायनी परा ॥
कालिन्दी कालिका माता जगतां हित-
काम्यया ।
साराध्यास्ते महेशानि ! देवर्षिसंस्तुता परा ।
सहस्रदलपत्रान्तर्म्मध्ये माथुरमण्डलम् ॥
केशबन्धे महेशानि ! यत् पद्मं सततं स्थितम् ।
पद्ममध्ये महेशानि ! केशपीठं मनोहरम् ॥
केशबन्धं महेशानि ! व्रजं माथुरमण्डलम् ।
यत्र कात्यायनी माया महामाया जगन्मयी ॥
व्रजं वृन्दावनं देवि ! नानाशक्तिसमन्वितम् ।
शक्तिस्तु परमेशानि ! कलारूपेण साक्षिणी ।
शक्तिं विना परं ब्रह्म न भाति शवरूपवत् ॥”
इति वासुदेवरहस्ये राधातन्त्रे षष्ठः पटलः ॥
देव्युवाच ।
“व्रजं गत्वा महादेवाकरोत् किं पद्मिनी तदा ।
कस्य वा भवने सा तु जाता सा पद्मिनी परा ॥
तत् सर्व्वं परमेशान विस्ताराद्वद शङ्कर ।
यदि नो कथ्यते देव विमुञ्चामि तदा तनुम् ॥
ईश्वर उवाच ।
पद्मिनी पद्मगन्धा सा वृकभानुगृहे प्रिये ! ।
आविरासीत्तदा देवी कृष्णस्य प्रथमं प्रिया ।
चैत्रे मासि सिते पक्षे नवम्यां पुष्यसंयुते ॥
कालिन्दीजलकल्लोले नानापद्मगणावृते ।
अविरासीत्तदा पद्मा मायाडिम्बमुपाश्रिता ॥
डिम्बोभूत्वा तदा पद्मा स्थिता कनकमध्यतः ।
कोटिचन्द्रप्रतीकाशं डिम्बं मायासमन्वितम् ॥
पुष्ययुक्तनवम्यां वै निश्यर्द्धे पद्ममध्यतः ।
पृष्ठ ४/१३९
आविरासीत्तदा पद्मा रङ्गिणी कुसुमप्रभा ॥
तरुणादित्यसङ्काशे पद्मे परमकामिनी ।
वृकभानुपुरं देवि ! कालिन्दीपारमेव च ।
नाम्ना पद्मपुरं रम्यं चतुर्व्वर्गसमन्वितम् ॥
डिम्बज्योतिर्म्महेशानि ! सहस्रादित्यसन्निभम् ।
तत्क्षणात् परमेशानि गाढध्वान्तविनाशकृत् ॥
वृकभानुर्म्महात्मा स कालिन्दीतटमास्थितः ।
महाविद्यां महाकालीं सततं प्रजपेत्सुधीः ॥
आविरासीन्महामाया तदा कात्यायनी परा ।
शृणु पुत्त्र महाबाहो वृकभानो महीधर ।
सिद्धोऽसि पुरुषश्रेष्ठ वरं वरय साम्प्रतम् ॥
वृकभानुरुवाच ।
सिद्धोऽहं सततं देवि ! त्वत्प्रसादात् सुरेश्वरि ! ।
त्वत्प्रसादान्महामाये यथा मुक्तो भवाम्यहम् ॥
त्वत्प्रसादान्महामाये असाध्यं नास्ति भूतले ।
आत्मनः सदृशाकारां कन्यामेकां प्रयच्छ मे ॥
तच्छ्रुत्वा परमेशानि ! तदा कात्यायनी परा ।
मेषगम्भीरया वाचा यदाह वृकभानवे ॥
तच्छृणुष्व महेशानि ! पीयूषसदृशं वचः ।
भक्त्या त्वदीयपत्न्यास्तु तुष्टाहं त्वयि सुन्दरि ! ॥
एतद्धि वचनं वत्स ! तव पत्न्या सुयुज्यते ।
इत्युक्त्वा सहसा तत्र महामाया जगन्मयी ॥
प्रददौ परमेशानि ! तस्मै डिम्बं मनोहरम् ।
वृकभानुर्म्महात्मा स तत्क्षणाद्गृहमाययौ ॥
भार्य्या तस्य विशालाक्षी विशालकटिमोहिनी ।
रत्नप्रदीपमाभाष्य रत्नपर्य्यङ्कमाश्रिता ॥
तस्या हस्ते तदा भानुः प्रददौ डिम्बमोहनम् ।
तं दृष्ट्वा परमेशानि ! विस्मयं परमं गता ॥
हस्ते कृत्वा तु डिम्बं वै निरीक्ष्य च पुनः पुनः ।
नानागन्धयुतं डिम्बं सर्व्वशक्तिसमन्वितम् ॥
नानाज्योतिर्म्मयं डिम्बं तत्क्षणाच्च द्बिधाभवत् ।
तत्रापश्यन्महाकन्यां पद्मिनीं कृष्णमोहिनीम् ॥
रक्तविद्युल्लताकारां सर्व्वसौभाग्यवर्द्धिनीम् ।
तां दृष्ट्वा परमेशानि सहसा विस्मयं गता ॥
कीर्त्तिदोवाच ।
हे मातः पद्मिनीरूपे रूपं संहर संहर ।
ततस्तु परमेशानि ! तद्रूपं तत्क्षणात् प्रिये ! ॥
संहृत्य सहसा देवी सामान्यं रूपमास्थिता ।
ततस्तु कीर्त्तिदा देवी रूपन्तस्या व्यलोकयत् ॥
रङ्गिणी कुसुमाकारा रक्तविद्युत्समप्रभा ॥
कन्योवाच ।
हे मातः कीर्त्तिदे भद्रे क्षीरं पायय सुन्दरि ! ।
स्तनं देहि स्तनं देहि तव कन्या भवाम्यहम् ॥
तत्श्रुत्वा वचनं तस्याः पद्मिन्याः कमलेक्षणे ।
अपाययत् स्तनं तस्यै पद्मिन्यै नगनन्दिनि ॥
चकार नाम तस्यास्तु भानुः कीर्त्तिदयान्वितः ।
रक्तविद्युत्प्रभां देवी धत्ते यस्मात् शुचिस्मिते ।
तस्मात्तु राधिका नाम सर्व्वलोकेषु गीयते ॥
ईश्वर उवाच ।
दिने दिने वर्द्धमाना वृकभानुगृहे प्रिये ! ।
एवं माथुरपीठे च चकार व्रजवासिनी ॥
तस्माद्भाद्रपदे मासि कृष्णोऽभूत् कमलेक्षणः ॥
महादेव उवाच ।
श्रूयतां पद्मपत्राक्षि रहस्यं पद्मिनीमतम् ।
सम्प्राप्ते परमेशानि ! द्वितीये वत्सरे तदा ॥
कुर्य्याद्यत्नेन देवेशि ! शिवलिङ्गप्रपूजनम् ।
प्रजपेत् परमां विद्यां कालीं ब्रह्माण्डरूपिणीम् ॥
पूजयेद्विविधैः पुष्पैर्गन्धैश्च सुमनोहरैः ।
फलैर्ब्बहुविधैर्भद्रे पूजयेत् परमेश्वरीम् ॥
पद्मिन्युवाच ।
कात्यायनि महामाये महायोगिन्यधीश्वरि ! ।
देहि देहि महामाये विद्यासिद्धिमनुत्तमाम् ॥
सिद्धिञ्च वासुदेवस्य देहि मातर्नमोऽस्तु ते ।
त्वां विना ब्रह्म निःशब्दं निश्चलं सततं सदा ॥
शरीरस्थं हि कृष्णस्य कृष्णो ज्योतिर्म्मयं सदा ।
विना देहं परं ब्रह्म शवरूपवदीरितम् ॥
अतएव महामाये ब्रह्मणः कारणं परा ।
एवं प्रार्थ्य महेशानि ! सततं परमेश्वरीम् ॥
संपूज्य परया भक्त्या लक्ष्यं जप्त्वा तु मानसम् ।
वरं प्राप्ता महेशानि कात्यायन्याः समीपतः ॥
कात्यायन्युवाच ।
पद्मिनि शृणु मद्वाक्यं शीघ्रं प्राप्स्यसि केशवम् ।
इत्युक्त्वा परमेशानि ! तत्रैवान्तरधीयत ॥
कात्यायनी महामाया सदा वृन्दावनेश्वरी ।
वृकभानुसुता राधा सखीगणवृता सदा ॥
वर्द्धमाना सदा राधा यथा चन्द्रकला प्रिये ! ।
सर्व्वशृङ्गारवेशाढ्या स्फुरच्चकितलोचना ॥
सर्व्वालङ्कारसंयुक्ता साक्षात् श्रीरिव पार्व्वति ।
चचार गहने घोरे पद्मिनी परसुन्दरी ॥
या राधा परमेशानि ! पद्मिनी परमेश्वरी ।
पद्मस्य वनमाश्रित्य सदा तिष्ठति कामिनी ॥
अन्यमूर्त्तिं महेशानि ! दृष्ट्वा चैवात्मसन्निभाम् ।
आत्मनः सदृशाकारां राधामन्यां ससर्ज्ज सा ॥
या सा तु कृत्रिमा राधा वृकभानुगृहे सदा ।
अयोनिसम्भवा यातु पद्मिनी सा पराक्षरा ॥
कृत्रिमा या महेशानि ! तस्यास्तु चरितं
शृणु ।
वृकभानुर्म्महात्मा स तस्या वैवाहिकीं क्रियाम् ॥
कारयामास यत्नेन पञ्चवर्षे तु सुन्दरि ! ।
तस्यास्तु चोभयं वंशं सावधानावधारय ॥
श्वशुरस्य वृकस्यापि वंशं परमसुन्दरम् ।
श्वश्रूस्तु जटिला ख्याता पतिर्म्मान्योऽतिमन्युकः ॥
ननान्दा कुटिलानाम्नी देवरो दुर्म्मदाभिधः ।
तिलकं स्मरमादाख्यं हरोहरिमनोहरः ॥
रोचनो रत्नताडङ्को घृणियुक्तप्रभाकरी ।
छत्रं दृष्ट्वा प्रतिच्छायं पद्मञ्च मदनाभिधम् ॥
स्यमन्तकान्यपर्य्यायः शङ्खचूडशिरोमणिः ।
पुष्पवन्तोक्षिपलकः सौभाग्यमणिरुच्यते ॥
काञ्ची काञ्चनचित्राङ्गि नूपुरे चित्रगोपुरे ।
मधुसूदनमाबद्धा ययोः सिञ्जितमाधुरी ॥
वासो मेघाम्बरं नाम कुरुविन्दनिभं सदा ।
आद्यं सुप्रियमभ्राभं रक्तमन्त्यं हरेः प्रियम् ॥
सुधांशो र्दर्पहरणो दर्पणो मणिबान्धवः ।
शलाका नर्म्मदा हैमी स्वस्तिका नाम कङ्कतिः ॥
कन्दर्पकुहरी नाम कटिका पुष्पभूषिता ।
स्वर्णमुखीतडिद्वली कुण्डा ख्याता स्वनामतः ॥
नीपा नदीतटे यस्य रहस्यकथनस्थली ।
मन्दारश्च धनुः स्त्रीश्च रागोहृदयमन्दगौ ॥
छानिक्यं दयिता नित्यं वल्लभा रुद्रधन्वकी ।
सख्यः ख्याताः सदा भद्राचारुचन्द्रावलीमुखाः ॥
गन्धर्व्वास्तु कलाकण्ठी सुकण्ठी पिककण्ठिका ।
कलावती रसोल्लासा गुणवत्यादयः स्मृताः ॥
या विशाखाकृतागीतिर्गायन्त्यः सुखदा हरेः ।
वादयन्त्यद्य शुषिरं ताललब्धघनन्त्वपि ॥
माणिक्या नर्म्मदा प्रेमवती कुसुमपेषलाः ।
दिवाकीर्त्तेस्तनूजे तु सुगन्धानलिनीत्युभे ॥
मञ्जिष्ठा रङ्गवत्याख्ये रजकस्य किशोरिके ।
पालिन्धिसमसैरिन्ध्री वृन्दाकन्दलतादयः ॥
धनिष्ठा गुणवत्याद्या धन्ववेश्वरगेहगाः ।
कामधा नामधा प्रेयी सखीभावविशेषभाक् ॥
लवङ्गमञ्जरी रागमञ्जरी गुणमञ्जरी ।
सुभानुसत्यनुपमा सुप्रिया रतिमञ्जरी ॥
रागलेखा कलाकेली भूविदाद्याश्च नायिकाः ।
नान्दीमुखी बिन्दुमुखी आद्याः सन्धिविधा-
यिकाः ॥
सुहृत्पद्मतया ख्याताः श्यामला मङ्गलादयः ।
प्रतिपक्षतया श्रेष्ठा राधाचन्द्रावलीत्युभे ॥
समूहास्तु ययोः सन्ति कोटिसंख्यामृगीदृशाम् ।
तयोरप्युभयोर्म्मध्ये सर्व्वमाधुर्य्यतोऽधिका ॥
श्रीराधा त्रिपुरादूती पुराणपुरुषप्रिया ।
असमानगुणोदर्य्या धूर्य्यो गोपेन्द्रनन्दनः ॥
यस्याः प्राणपरार्द्धानां परार्द्धादतिवल्लभः ।
श्रेष्ठा सा मातृकादिभ्यस्तत्र गोपेन्द्रगेहिनी ।
वृषभानुः पिता यस्या वृषभानुविधो महान् ।
रत्नगर्भा क्षितौ ख्याता जननी कीर्त्तिदा क्षया ॥
उपास्यो जगतां चक्षुर्भगवान् पद्मबान्धवः ।
जप्यः स्वाभीष्टसंसर्गे कात्यायन्या महामनुः ॥
पौर्णमासी भगवती सर्व्वसौभाग्यवर्द्धिनी ।
पितामहो महीभानुर्व्विन्दुर्म्मातामहो मतः ॥
मातामहीपितामह्यौ सुखदामोक्षदाभिधे ।
रत्नभानुः स्वभानुश्च भानुश्च भ्रातरः पितुः ॥
भद्रकीर्त्तिर्म्महाकीर्त्तिः कीर्त्तिचन्द्रश्च मातुलः ।
स्वसा कीर्त्तिमती मातुर्भानुमुद्रा पितृष्वसा ॥
पितृष्वसृपतिः काश्यो मातृष्वसृपतिः कृशः ।
मातुली मेनकामेना षष्ठी धात्री तु धातकी ॥
श्रीदामा पूर्ब्बजो भ्राता कनिष्ठानङ्गमञ्जरी ।
परमप्रेष्ठसख्यस्तु ललिता च विशाखिका ॥
विचित्रा चम्पकलता रङ्गदेवी सुदेविका ।
तुङ्गवेद्यङ्गलेखा च इत्यष्टौ च गणा मताः ॥
प्रियसख्यः कुरङ्गाक्षी मण्डली मानकुण्डला ।
मालती चन्द्रलतिका माधवामदनालसा ॥
मञ्जुमेया शशिकला सुमध्या मधुमेक्षणा ।
कमला कामलतिका कान्तचूडा वराङ्गना ॥
मधूरी चन्द्रिका प्रेममञ्जरी तनुमध्यमा ।
कन्दर्पसुन्दरी मञ्जुवेशी चाद्यास्तु कोटिशः ॥
रक्ताजीवितयाख्याता कलिका केलिसुन्दरी ।
पृष्ठ ४/१४०
कादम्बरी शशिमुखी चन्द्ररेखा प्रियंवदा ॥
मदोन्मादा मधुमती वासन्ती कलभाषिणी ।
रत्नवेणी मालवती कर्पूरतिलकादयः ॥
एता वृन्दावनेश्वर्य्याः प्रायः सारूप्यमागताः ।
नित्यसख्यस्तु कस्तूरी मनोज्ञा मणिमञ्जरी ॥
सिन्दूरा चन्दनवती कौमुदी मुदितादयः ।
काननादिगतास्तस्या विहारार्थं कला इव ॥
अथ तस्याः प्रकीर्त्त्यन्ते प्रेयस्यः परमाद्भुताः ।
वनादित्योप्युरुप्रेमसौन्दर्य्यभरभूषिताः ॥
चन्द्रावली च पद्मा च श्यामा सैका च भद्रिका ।
तारा चित्रा च गन्धर्व्वी पालिका चन्द्रमालिका ॥
मङ्गला विमला नीला भवनाक्षी मनोरमा ।
कल्पलता तथा मञ्जुभाषिणी मञ्जुमेखला ॥
कुमुदा कैरवी पारी शारदाक्षी विशारदा ।
शङ्करी कुसुमा कृष्णा सारङ्गी प्रविलाशिनी ॥
तारावती गुणवती सुमुखी केलिमञ्जरी ।
हारावली चकोराक्षी भारती कामिनीति च ॥
आसां यूथानि शतशः ख्यातान्यन्यानि सुभ्रुवाम् ।
लक्षसंख्यास्तु कथिता यूथे यूथे वराङ्गनाः ॥
मुख्यास्तु तेषु यूथेषु कान्ताः सर्व्वगुणोत्तमाः ।
राधा चन्द्रावली भद्रा श्यामला पालिकादयः ॥
जन्मनाम्नाथ सा ख्याता मधुमासे विशेषतः ।
पुष्यर्क्षे च नवम्यां वै शुक्लपक्षे शुचिस्मिते ॥
जाता राधा महेशानी स्वयं प्रकृतिपद्मिनी ।
तासु रेमे महेशानि स्वयं कृष्णः शुचिस्मिते ।
रमणं वासुदेवस्य मन्त्रसिद्धेस्तु कारणम् ॥
देव्युवाच ।
भो देव तापसां श्रेष्ठ विस्ताराद्वद ईश्वर ।
कथं सा पद्मिनी राधा सदा पद्मवने स्थिता ॥
पितरं मातरं त्यक्त्वा आत्मतुल्यां ससर्ज्ज सा ।
पद्ममाश्रित्य देवेश वृन्दावनविलासिनी ।
सदाध्यास्ते महेशानि एतद्गुह्यं वद प्रभो ! ॥”
इति वासुदेवरहस्ये राधातन्त्रे सप्तमः पटलः ॥
ईश्वर उवाच ।
“या राधा मृगशावाक्षि ! पद्मिनी विष्णुवल्लभा ।
महामाया जगद्धात्री त्रिपुरा परमेश्वरी ॥
तस्या दूती महेशानि पद्मिनी पद्मगन्धिनी ।
कृष्णस्य दृढभक्ता तु पद्मिनी तस्य बल्लभा ॥
वृकभानोर्म्महेशानि दृढभक्तिः शुचिस्मिते ।
दुहितृत्वं गता देवी पद्मिनी गन्धमालिनी ॥
कृत्वा तु स्तनपानं हि राधामन्यां ससर्ज्ज सा ।
पद्मषण्डं समाश्रित्य यमुनाजलमध्यतः ॥
महाकाल्या महामन्त्रं प्रजपेन्निर्ज्जने वने ।
अन्या चन्द्रावली राधा वृकभानुगृहे स्थिता ॥
पूर्ब्बोक्तं यद्गुणं देवि पद्मिनी कमलेक्षणे ।
तत् सर्व्वं पद्मिनीसृष्टं नान्यथा परमेश्वरि ॥
राधिका त्रिविधा प्रोक्ता चन्द्रा तु पद्मिनी तथा ।
न पश्येत् परमेशानि चन्द्रसूर्य्यं शुचिस्मिते ॥
मानवानां महेशानि वराकाणां हि का कथा ।
आत्मनोऽपह्नवं कृत्वा पद्मिनी पद्ममाश्रिता ।
त्रिपुराया महेशानि पद्मिनी अनुचारिणी ॥”
इति वासुदेवरहस्ये राधातन्त्रे अष्टमः पटलः ॥)
अस्याः सहस्रनामानि यथा, --
पार्व्वत्युवाच ।
“देवदेव जगन्नाथ मक्तानुग्रहकारक ।
यद्यस्ति मयि कारुण्यं यद्यस्ति मयि ते दया ॥
यद्यत् त्वया प्रगदितं तत् सर्व्वं मे श्रुतं प्रभो ।
गुह्यात् गुह्यतरं यत्तु यत्ते मनसि काशते ॥
त्वया न गदितं यत्तु यस्मै कस्मै कदाचन ।
तन्मां कथय देवेश सहस्रं नाम चोत्तमम् ॥
श्रीराधाया महादेव्या गोप्या भक्तिप्रसाधनम् ।
ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥
महादेवौवाच ।
शृणु देवि ! विचित्रार्थां कथां पापहरां
शुभाम् ।
सन्ति जन्मानि कर्म्माणि तस्या नूनं महेश्वरि ! ॥
यदा हरिश्चरित्राणि कुरुते कार्य्यगौरवात् ।
तदा विधत्ते रूपाणि हरिसान्निध्यसाधिनी ॥
तस्या गोपीत्वभावस्य कारणं गदितं पुरा ।
इदानीं शृणु देवेशि ! नाम्नां चैव सहस्रकम् ॥
यन्मया कथितं नैव तन्त्रेष्वपि कदाचन ।
तव स्नेहात् प्रवक्ष्यामि भक्त्या धार्य्यं मुमुक्षुभिः ॥
मम प्राणसमा विद्या भाव्यते मे त्वहर्निशम् ।
शृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥
यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परः
प्रभुः । * ।
अस्या नामसहस्रस्य ऋषिर्नारद एव च ॥
देवी राधा परा प्रोक्ता चतुर्व्वर्गप्रसाधिनी ।
श्रीराधा राधिका कृष्णबल्लभा कृष्णसंयुता ॥
वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ।
श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी ॥
यशस्विनी यशोगण्या यशोदानन्दवल्लभा ।
दामोदरप्रिया गोपी गोपानन्दकरी तथा ॥
कृष्णाङ्गवासिनी हृद्या हरिकान्ता हरिप्रिया ।
प्रधाना गोपिका गोपकन्या त्रैलोक्यसुन्दरी ॥
वृन्दावनविहारी च विस्फूर्ज्जितमुखाम्बुजा ।
गोपकुलानन्दकर्त्री गोकुलानन्ददायिनी ॥
गतिप्रदा गीतगम्या आगमागमनप्रिया ।
विष्णुप्रिया विष्णुकान्ता विष्णोरङ्गनिवासिनी ॥
यशोदानन्दपत्नी च यशोदानन्दगेहिनी ।
कामारिकान्ता कामेशी कामलालसविग्रहा ॥
जयप्रदा जया जीवा जीवानन्दप्रदायिनी ।
यशोदानन्दपत्नी च वृषभानुसुता शिवा ॥
गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा ।
काञ्चनाभा हेमगात्री काञ्चनाङ्गदधारिणी ॥
अशोका शोकरहिता विशोका शोकनाशिनी ।
गायत्त्री वेदमाता च वेदातीता विदुत्तमा ॥
नीतिशास्त्रप्रिया नीतिर्गतिर्म्मतिरभीष्टदा ।
वेदप्रिया वेदगर्भा वेदमार्गप्रवर्द्धिनी ॥
वेदगम्या वेदपरा विचित्रकनकोज्ज्वला ।
तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका ॥
नन्दप्रिया नन्दसुता राधानन्दप्रदा शुभा ।
शुभाङ्गी विमलाङ्गी च विलासिन्यपराजिता ॥
जननी जन्मशून्या च जन्ममृत्युज्वरापहा ।
गतिर्गतिमतां धात्री धात्रानन्दप्रदायिनी ॥
जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी ।
विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥
निर्गुणा सुकुलीना च निष्कुलीना निराकुला ।
गोकुलान्तरगेहा च योगानन्दकरी तथा ॥
वेणुवाद्या वेणुरतिर्वेणुवाद्यपरायणा ।
गोपालस्य प्रिया सौम्या रम्या सौम्यकुलोद्भवा ॥
अतिसौम्यातिमोहा च गतिरिष्टा गतिप्रदा ।
गीर्व्वाणवन्द्या गीर्व्वाणा गीर्ब्बाणगणसेविता ॥
ललिता च विशोका च विशाखा चित्र-
मालिनी ।
जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥
दीपप्रिया दीपदात्री विमला विमलोदका ।
कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥
अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्भवा ।
मतिर्लक्ष्मीर्धृ तिर्लज्जा कान्तिः पुष्टिः स्मृतिः
क्षमा ॥
क्षीरोदशायिनी देवी देवारिकुलमर्द्दिनी ।
वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥
संहत्रीं सर्व्वदैत्यानां सावित्री वेदगामिनी ।
वेदातीता निरालम्बा निरालम्बगणप्रिया ॥
निरालम्बजनैः पूज्या निरालोका निराश्रया ।
एकाङ्गी सर्व्वगा सेव्या विष्णोः पत्नी सरस्वती ॥
रासप्रिया रासगम्या रासाधिष्ठातृदेवता ।
रसिका रसिकानन्दा स्वयं रासेश्वरी परा ॥
रासमण्डलमध्यस्था रासमण्डलशोभिता ।
रासमण्डलसेव्या च रासक्रीडामनोहरा ॥
पुण्डरीकाक्षनिलया पुण्डरीकाक्षगेहिनी ।
पुण्डरीकाक्षसेव्या च पुण्डरीकाक्षवल्लभा ॥
सर्व्वजीवेश्वरी सर्व्वजीववन्द्या परात्परा ।
प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥
क्षुत् पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमा
कुला ।
विधुरूपा गोपपत्नी भारती सिद्धयोगिनी ॥
शत्रुरूपा मित्ररूपा नित्याङ्गी नित्यगेहिनी ।
स्थानदात्री तथा धात्री महालक्ष्मीः स्वयंप्रभा ॥
सिन्धुकन्या स्थानदात्री द्बारकावासिनी तथा ।
बुद्धिः स्थितिः स्थानरूपा सर्व्वकारणकारणम् ॥
भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी ।
भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥
मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा ।
निरामया सौम्यदात्री तथा मदनमोहिनी ॥
एकानंशा शिवा क्षेमा दुर्गा दुर्गतिनाशिनी ।
ईश्वरी सर्व्ववन्द्या च गोपनीया शुभङ्करी ॥
पालिनी सर्व्वभूतानां तथा कामाङ्गहारिणी ।
सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥
हिमालयसुता सर्व्वा पार्व्वती गिरिजा सती ।
दक्षकन्या देवमाता मन्दलज्जा हरेस्तनुः ॥
वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी ।
विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥
रुक्मिणी रेवती सत्यभामा जाम्बवती तथा ।
सुलक्षणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥
पृष्ठ ४/१४१
परिपूर्णा पूर्णतरा तथा हैमवती गतिः ।
अपूर्व्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥
ब्रह्माण्डभाण्डमध्यस्था ब्रह्माण्डभाण्डरूपिणी ।
अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥
अण्डवाह्याण्डसंहन्त्री ब्रह्मशिवहरिप्रिया ।
महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥
सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा ।
श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥
मालतीमाल्यभूषाढ्या मालतीमाल्यधारिणी ।
कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥
तुलस्यधिष्ठातृदेवी संसारार्णवपारदा ।
सारदा हारदा गोपनन्दिनी सर्व्वसिद्धिदा ॥
अतीतगमना गौरी परानुग्रहकारिणी ।
करुणार्णवसंपूर्णा करुणार्णवधारिणी ॥
माधवी माधवमनोहारिणी श्यामवल्लभा ।
अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥
श्रीप्रभा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रिया ।
श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥
श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा ।
श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥
श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनाश्रिता ।
श्रीराधा श्रीमतिः श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥
योगेशा योगमाता च योगातीता युगप्रिया ।
योगप्रिया योगगम्या योगिनीगणवर्द्धिता ॥
जवाकुसुमसङ्काशा दाडिमीकुसुमोपमा ।
नीलाम्बरधरा धारी धैर्य्यरूपा धरा धृतिः ॥
रत्नसिंहासनस्था च रत्नकुण्डलभूषिता ।
रत्नालङ्कारसंयुक्ता रत्नमाल्यधरा परा ॥
रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता ।
इन्द्रनीलमणिन्यस्तपादपद्मा शुभा शुचिः ॥
कार्त्तिकी पौर्णमासी च अमावस्या भयापहा ।
गोविन्दराजगृहिणी गोविन्दराजपूजिता ॥
गोविन्दार्पितचित्ता च गोपीजनगणान्विता ।
वैकुण्ठनाथगृहिणी गोविन्दपरमानसा ॥
गोविन्ददेवदेवाढ्या तथा वैकुण्ठसुन्दरी ।
मानदा सा वेदवती सीता साध्वी पतिव्रता ॥
अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी ।
कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा ॥
गोपीनाथेश्वरी चण्डी नायिका नयनान्विता ।
नायका नायकप्रीता नायकानन्दरूपिणी ॥
शेषा शेषवती शेषरूपा चैव जगन्मयी ।
गोपालपालिका माया नन्दजाया तथा परा ॥
कुमारी यौवनानन्दी युवती गोपसुन्दरी ।
गोपमाता जानकी च जनकानन्दकारिणी ॥
कैलासवासिनी रम्भा हरतोषणतत्परा ।
हरेश्वरी रामरता रामरामेश्वरी रमा ॥
श्यामला चित्रलेखा च तथा भुवनमोहिनी ।
सुगोप्या गोपवनिता गोपराज्यप्रदा शुभा ॥
आनन्दपूर्णा माहेशी मत्स्यराजसुता सती ।
कौमारी नारसिंही च वाराही नवदुर्गिका ॥
चञ्चलाचञ्चला मोदा नारी भुवनसुन्दरी ।
दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना ॥
रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा ।
रतिलक्षणगेहस्था विरजा भुवनेश्वरी ॥
शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता ।
वकुला वकुलामोदधारिणी यमुना जया ॥
विजया जयपत्नी च यमलार्ज्जुनभञ्जिनी ।
वक्रेश्वरी वक्ररूपा वक्रवीक्षणदीक्षिता ॥
अपराजिता जगन्नाथा जगन्नाथेश्वरी मतिः ।
खेचरी खेचरसुता खेचरत्वप्रदायिनी ॥
विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा ।
चन्द्रकोटिसुगात्रा च चन्द्राननमनोहरा ॥
सर्व्वसेव्या शिवा क्षेमा तथा क्षेमङ्करी बधूः ।
यादवेन्द्रबधूः शैव्या शिवभक्ता शिवान्विता ॥
केवला निष्कला सूक्ष्मा महाभीमा भयप्रदा ।
जीमूतरूपा जैमूती जिता मित्रप्रमोदिनी ॥
गोपालवनितानङ्गा कुलजेन्द्रनिवासिनी ।
जयन्ती यमुनाङ्गी च यमुनातोषकारिणी ॥
कलिकल्मषभङ्गा च कलिकल्मषनाशिनी ।
कलिकल्मषरूपा च नित्यानन्दकरी कृपा ॥
कृपावती कुलवती कैलासाचलवासिनी ।
वामदेवी वामभागा गोविन्दप्रियकारिणी ॥
नगेन्द्रकन्या योगेशी योगिनी योगरूपिणी ।
योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी ॥
क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा ।
केशवानन्ददात्री च केशवानन्ददायिनी ॥
केशवा केशवप्रीता कैशोरी केशवप्रिया ।
रासक्रीडाकरी रासवासिनी राससुन्दरी ॥
गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी ।
लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डला ॥
एलालवङ्गकर्पूरमुखवासमुखान्विता ।
मुख्या मुख्यप्रदा मुख्यरूपा मुख्यप्रदायिनी ॥
नारायणी कृपा राधा करुणा करुणामयी ।
कारुण्या करुणाकर्णी गोकर्णा नागकर्णिका ॥
सर्पिणी कौलिनी क्षेत्रवासिनी च जगन्मयी ।
जटिला कुटिला नीला नीलाम्बरधरा शुभा ॥
नितम्बिनी रूपवती युवती कृष्णपीवरी ।
विभावरी वेत्रवती संकटा कुटिलालका ॥
नारायणप्रिया शैला सृक्कणीपरिमोहिता ।
दृक्पातमोहिता प्रातराशितनवनीतिका ॥
नवीना नवनारी च नारङ्गफलशोभिता ।
हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥
अर्द्धचन्द्राधरा चन्द्रवल्लभा रोहिणी तिमिः ।
तिमिङ्गिलकुलामोदमत्स्यरूपाङ्गहारिणी ॥
कारणी सर्व्वभूतानां कार्य्यातीता किशोरिणी ।
किशोरवल्लभा केशकारिका कामकारिका ॥
कामेश्वरी कामकला कालिन्दीकुलदीषिका ।
कलिन्दतनयातीरवासिनी तीरगेहिनी ॥
कादम्बरीपानपरा कुसुमामोदधारिणी ।
कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥
तर्कारी वैजयन्ती च निम्बदाडिम्बरूपिणी ।
विल्ववृक्षप्रिया कृष्णाम्बरा विल्वोपमस्तनी ॥
विल्वात्मिका विल्ववपुर्विल्ववृक्षनिवासिनी ।
तुलसी तोषिका चैव तैतिलानन्दकारिणी ॥
गजेन्द्रगामिनी श्यामलतानङ्गलता तथा ।
योषिच्छक्तिस्वरूपा च योषिदानन्दकारिणी ॥
प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी ।
प्रेमहरा प्रेमदात्री प्रेमशक्तिमयी तथा ॥
कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी ।
प्रेमार्थदायिनी सर्व्वश्वेता नित्यतरङ्गिणी ॥
हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी ।
कपिला शृङ्खला केशपाशसम्बर्द्धिनी धटी ॥
कुटीरवासिनी धूम्रा धूम्रकेशा जनोदरी ।
ब्रह्माण्डगोचरा ब्रह्मरूपिणी भवभाविनी ॥
संसारनाशिनी शैवा शैवानन्दप्रदायिनी ।
शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी ॥
मनोरमा वेगवती वेगाढ्या वेदवादिनी ।
दयान्विता दयाधारा दयारूपा सुसेविनी ॥
किशोरसङ्गसंसर्गा गौरचन्द्रानना कला ।
कलाधिनाथवदना कलानाथाधिरोहिणी ॥
विरागकुशला हेमपिङ्गला हेममण्डला ।
भाण्डीरतालवनगा कैवर्त्ती पीवरी शुकी ॥
शुकदेवगुणातीता शुकदेवप्रियासखी ।
विकलोत्कर्षिणी कौषा कौषेयाम्बरधारिणी ॥
कोषावरी कोषरूपा जगदुत्पत्तिकारिका ।
सृष्टिस्थितिकरी संहारिणी संहारकारिणी ॥
केशशैवालधात्री च चन्द्रगात्रा सुकोमला ।
पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिनी ॥
विन्ध्यालया श्यामसखी सखी संसाररागिणी ।
भूता भविष्या भव्या च भव्यगात्रा भवातिगा ॥
भवनाशान्तकारिण्याकाशरूपा सुवेशिनी ।
रतिरङ्गपरित्यागा रतिवेशा रतिप्रिया ॥
तेजस्विनी तेजरूपा कैवल्यपथदा शुभा ।
मुक्तिहेतुर्मुक्तिहेतुलङ्घिनी लक्ष्मणा क्षमा ॥
विशालनेत्रा वैशाली विशालकुलसम्भवा ।
विशालगृहवासा च विशालवदरीरतिः ॥
भक्त्यतीता भक्तिगतिर्भक्तिवाध्या भवाकृतिः ।
वामाङ्गहारिणी विष्णोः शिवभक्तिसुखा-
न्विता ॥
विजिताविजिता मोदमग्ना च गणतोषिता ।
हयास्या हेरम्बसुता गणमाता सुरेश्वरी ॥
दुःखहन्त्री दुःखहरा सेवितेप्सितसर्व्वदा ।
सर्व्वाङ्गानुविधात्री च कुलक्षेत्रविनाशिनी ॥
लवङ्गा पाण्डवसखी सखीमध्यविलासिनी ।
ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥
सर्व्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा ।
गङ्गेरिता पूतमात्रा पवित्रकुलदीपिका ॥
पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी ।
पवित्रगुणसीमाढ्या पवित्रकुलपाविका ॥
गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी ।
निर्व्वाणदात्री नैर्वाणी हेतुयुक्तागमोत्तरा ॥
पर्व्वताधिनिवासा च निवासकुशला तथा ।
सन्न्यासधर्म्मकुशला सन्न्यासे फलदा शुभा ॥
शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी ।
वसन्तरागा सुश्रोणी वसन्तवसनाकृतिः ॥
चतुर्भुजा षड्भुजा च द्बिभुजा गौरविग्रहा ।
पृष्ठ ४/१४२
सहस्रास्या विहास्या च मुद्रास्या मुद्रदायिनी ॥
प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता ।
कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥
कृष्णप्रेमवती कृष्णभक्ता भक्तफलप्रदा ।
कृष्णप्रेमप्रेमभक्ता हरिभक्तिप्रदायिनी ॥
चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी ।
उग्ररूपा शिवक्रोडा कृष्णक्रोडा जलोदरी ॥
महोदरी महादुर्गकान्तारस्थलवासिनी ।
चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥
समुद्रामृतरूपा च समुद्रजलवासिका ।
केशपाशरता निद्रा क्षुधा प्रेमरताम्बिका ॥
दूर्ब्बादलश्यामतनुर्दूर्व्वादलतनुच्छविः ।
नागरा नागरीवासा नगरानन्दकारिणी ॥
नागरालिङ्गनपरा नगराङ्गनमङ्गला ।
उच्चनीचा हैमवती प्रियाकृष्णतरङ्गिणी ॥
प्रेमालिङ्गनसिद्धाङ्गी सिद्धसाध्यविलासिका ।
मङ्गला मोदजननी मेखला मोदधारिणी ॥
रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥
जम्बालमालिका कृष्णप्राणा प्राणविमोचना ॥
सत्यप्रदा सत्यवती सेवकानन्ददायिका ।
जगद्योनिर्ज्जगद्दीप्ता विचित्रमणिभूषणा ॥
राधारमणकान्ता च राध्याराधनरूपिणी ।
कैलासवासिनी कृष्णप्राणसर्व्वस्वदायिनी ॥
कृष्णावतारनिरता कृष्णभक्तफलार्थिनी ।
याचका याचकानन्दकारिणी याचकोज्ज्वला ॥
हरिभूषणभूषाढ्या नन्दयुक्ता कृपापगा ।
हैहैतालधरा थैथैशब्दशक्तिप्रकाशिनी ॥
हेहेशब्दस्वरूपा च हीहीवाक्यविशारदा ॥
जगदानन्दकर्त्री च शास्त्रानन्दविशारदा ॥
पण्डिता पण्डितगुणा पण्डितानन्दकारिणी ।
परिपालनकर्त्री च तथा स्थितिविनोदिनी ॥
तथा संहारशब्दाढ्या विद्वज्जनमनोहरा ।
विदुषां प्रीतिजननी विद्वत्प्रेमविवर्द्धिनी ॥
नादेयी नादरूपा च नादबिन्दुविधारिणी ।
शून्यस्थानस्थिता शून्यरूपा पादपवासिनी ॥
कार्त्तिकव्रतकर्त्री च रसनाहारिणी खरा ।
ज्वलना चातलतली शिलातलनिवासिनी ॥
क्षुद्रकीटाङ्गसंसर्गसङ्गदोषविनाशिनी ।
कोटिकन्दर्पलावण्या कन्दर्पकोटिसुन्दरी ॥
कन्दर्पकोटिजननी कामबीजप्रदायिनी ।
कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी ॥
कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा ।
यामिनी यामिनीनाथवदना यामिनीश्वरी ॥
योगेश्वरी हरयोगमुक्तिदात्री हिरण्यदा ।
कपालमालिनी देवी सीमाधामस्वरूपदा ॥
कृपान्वितगुणा गौण्या गुणातीता फलप्रदा ।
कुष्माण्डभूतवेतालनाशिनी शारदान्विता ॥
सितासिता च सरला लीलालावण्यमङ्गला ।
विद्यार्थिविद्या माया च विद्याविद्यास्वरूपिणी ॥
आन्वीक्षिकीशास्त्ररूपा शास्त्रसिद्धान्त-
कारिणी ।
नागेन्द्राणी नागमाता क्रीडाकौतुकरूपिणी ॥
हरिभावनशीला च हरिसेवनतत्परा ।
हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता ॥
नरकार्णवसंहन्त्री नरकार्णवनाशिनी ।
नरेश्वरी नरातीता नरसेव्या वराङ्गना ॥
यशोदानन्दिनीक्रीडा यशोदाक्रोडवासिनी ।
यशोदानन्दनप्राणा यशोदानन्दनार्थदा ॥
वत्सला कोषला काला करुणार्णवरूपिणी ।
स्वगलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया ॥
तथार्ज्जुनसखी भौमी भीमा भैमी भयानका ।
त्रिजगन्मोहिनी क्षीणा प्राणासक्ततरा तथा ॥
पानार्थिनी पानपात्रा पानपानन्ददायिनी ।
दुग्धमन्थनकर्म्माढ्या दधिमन्थनतत्परा ॥
दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना ।
घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका ॥
विचित्रकर्म्मका कृष्णहास्यभाषणतत्परा ।
गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा ॥
राससक्ता रासरतिरासवासक्तवासना ।
हरिद्रा हरितारूपा हरावर्पितचेतसा ॥
निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका ।
सुवलस्य स्वसा चैव कृष्णभाषातिवेगिनी ॥
श्रीदामस्य सखी दामदामिनी दामधारिणी ।
मल्लिकोल्लासिनी केशी हरिदम्बरधारिणी ॥
हरिसान्निध्यदात्री च हरिकौतुकमङ्गला ।
हरिप्रदा हरिप्राणा यमुनाजलवासिनी ॥
तपःप्रदा जितार्था च चतुरा चातुरीतमी ।
तमिश्रा तपरूपा च रौद्ररूपा यशोऽर्थिनी ॥
कृष्णकामा कृष्णभक्ता कृष्णानन्दप्रदायिनी ।
कृष्णार्थवासना कृष्णरागिणी भाविनी तथा ॥
कृष्णार्थरहिता भक्ता भक्ताभक्तसुभक्तिदा ।
श्रीकृष्णरहिता दीना विरहिणी हरेः प्रिया ॥
मथुरा मधुराराजगेहभावनभाजना ।
श्रीकृष्णभावनामोदा तस्योन्मादविधायिनी ॥
कृष्णार्थकुशला कृष्णसारचर्म्मधरा शुभा ।
अलकेश्वरपूज्या च कुबेरेश्वरवल्लभा ॥
धनधान्यविधात्री च जया काया हया हयी ।
प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी ॥
ब्रह्मविष्णुशिवार्द्धांशहारिणी शैवशिंशपा ।
राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी ॥
सकलेप्सितदात्री च सती साध्वी अरुन्धती ।
पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी ॥
अशेषसाधिनी कल्पवासिनी कल्परूपिणी ॥
इत्येतत् कथितं देवि ! राधानामसहस्रकम् ।
यः पठेत् पाठयेद्वापि तस्य तुष्यति माधवः ॥
किं तस्य यमुनाभिर्व्वा नदीभिः सर्व्वतः प्रिये ।
कुरुक्षेत्रादितीर्थेन यस्य तुष्टो जनार्द्दनः ॥
स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले ॥
ब्राह्मणो ब्रह्मवर्च्चस्वी क्षत्त्रियो जगतीपतिः ।
वैश्यो निधिपतिर्भूयात् शूद्रो मुच्येत जन्मतः ॥
ब्रह्महत्या सुरापानमित्यादीन्यतिपापतः ।
सद्यो मुच्येत देवेशि ! सत्यं सत्यं न संशयः ॥
राधानामसहस्रस्य समानं नास्ति भूतले ।
स्वर्गे वाप्यथ पाताले गिरौ वा जलतोऽपि वा ॥
नातः परं शुभं स्तोत्रं तीर्थं नातः परं परम् ।
एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः ॥
तस्य सर्व्वार्थसिद्धिः स्यात् शृणुयाद्वा सुशोभने ।
द्वादश्यां पौर्णमास्यां वा तुलसीसन्निधौ शिवे ! ॥
यः पठेत् शृणुयाद्वापि तस्य तत्तत् फलं शृणु ।
अश्वमेधं राजसूयं बार्हस्पत्यं तथाविधम् ॥
अतिरात्रं वाजपेयं अग्निष्टोमं तथा शुभम् ।
कृत्वा यत्फलमाप्नोति श्रुत्वा तत्फलमाप्नुयात् ॥
कार्त्तिके चाष्टमीं प्राप्य पठेद्वा शृणुयादपि ।
सहस्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् ॥
ततश्च ब्रह्मभवने शिवस्य भवने पुनः ।
सुराधिनाथभवने पुनर्याति सलोकताम् ॥
गङ्गातीरं समासाद्य यः पठेत् शृणुयादपि ।
विष्णोः स्वरूपतां याति सत्यं सत्यं सुरेश्वरि ! ॥
मम वक्त्रगिरेर्जाता पार्व्वतीसागराश्रिता ।
राधानामसहस्राख्या नदी त्रैलोक्यपावनी ॥
पट्यतेहि मयानित्यं भक्त्याशक्त्या यथोचितम् ।
मम प्राणसमं ह्येतत् तव भक्त्या प्रकाशितम् ॥
नाभक्ताय प्रदातव्यं पाषण्डाय कदाचन ।
नास्तिकाय विरागाय रागयुक्ताय सुन्दरि ! ॥
तथा देयं महास्तोत्रं हरिभक्ताय शङ्करि ! ।
वैष्णवेषु यथाशक्तिदात्रे पुण्यार्थशीलिने ॥
राधानामसुधावारि मम वक्त्रं महाखनिः ।
उद्धृतं हि त्वया यत्नात् पाता सद्वैष्णवा-
ग्रणीः ॥
विशुद्धसत्त्वाय यथार्थवादिने
द्विजस्य सेवानिरताय मन्त्रिणे ।
दात्रे यथाशक्ति सुभक्तिमानसे
राधापदध्यानपराय शोभने ॥
हरिपादाब्जमधुपमनोभूताय मानसे ।
राधापादसुधास्वादशालिने वैष्णवाय च ॥
दद्यात् स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् ।
जन्मान्तरं न तस्यास्ति राधाकृष्णपदार्थिनः ॥
मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि ।
शूलं मया धार्य्यते हि नान्यथा मैत्रकारणम् ॥
हरिभक्तिद्विषामर्थे शूलं संधार्य्यते मया ।
शृणु देवि यथार्थं मे गदितं त्वयि सुव्रते ! ॥
भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रका-
शितम् ।
कदापि नोच्यते देवि मया नामसहस्रकम् ॥
किं परं त्वां प्रवक्ष्यामि प्राणतुल्यं मम प्रिये ।
स्तोत्रं मन्त्रं राधिकाया यन्त्रं कवचमेव हि ॥”
इति नारदपञ्चरात्रे राधिकासहस्रनामसमा-
प्तोऽध्यायः ॥ * ॥ (राधातन्त्रोक्तसहस्रनामस्त्रोत्रं
यथा, --
ईश्वर उवाच ।
“इति ते कथितं देवि किमन्यत् कथयामि ते ।
श्रोत्री त्वं परमेशानि अहं वक्ता च शाश्वतः ॥
देव्युवाच ।
कियदन्यन्महादेव पृच्छामि यदि रोचते ।
हृदये तव देवेश नानातन्त्राणि सन्ति वै ॥
नानातन्त्राणि मन्त्राणि रहस्यानि पृथक् पृथक् ।
पृष्ठ ४/१४३
बहूनि तव देवेश हृदये देव सुव्रत ।
कृपया परमेशान कथयस्व दयानिधे ॥
ईश्वर उवाच ।
पद्मिन्याः परमेश्वानि रहस्यं नास्ति सुन्दरी ।
त्वयि सर्व्वं महेशानि कथितं परमेश्वरि ॥
किञ्चिदन्यन्महेशानि नास्ति मे गोचरे प्रिये ।
यद्यदस्ति महेशानि रहस्यं कथितं मया ॥
देव्युवाच ।
पद्मिन्याः परमेशान रहस्यं कथय प्रभो ।
यदि नो कथ्यते देव त्यजामि विग्रहं तदा ॥
ईश्वर उवाच ।
शृणु प्रिये कुरङ्गाक्षि एतत् प्रौढं कथं तव ।
प्रौढत्वं यदि चार्व्वङ्गि रहस्यं कथयामि ते ॥
रहस्यं शृणु चार्व्वङ्गि स्तोत्रं परमदुर्लभम् ।
स्तोत्रं सहस्रनामाख्यं उपविद्यासु सम्मतम् ॥
उपविद्यासु देवेशि अतिगुप्तं मनोहरम् ।
एतत् स्तोत्रं महेशानि पद्मिनीसम्मतं सदा ॥
एतत्तु पद्मिनीस्तोत्रमाश्चर्य्यं परमाद्भुतम् ।
यन्नोक्तं सर्व्वतन्त्रेषु तव भक्त्या प्रकाशितम् ॥
अस्य श्रीपद्मिनीसहस्रनामस्तोत्रस्य श्रीकृष्ण-
ऋषिर्म्महिषमर्द्दिन्यधिष्ठात्री देवता गायत्री-
च्छन्दो महाविद्यासिद्ध्यर्थे विनियोगः । ॐ ह्नीं
ऐं पद्मिन्यै राधिकायै । राधा रमणीरूपा
निरुपमरूपवती रूपधन्या वश्या वामा
रजोगुणा ।
रक्ताङ्गी रक्तपुष्पाभा राधा रासपरायणा ।
रम्भावती रूपशीला रदनी रञ्जिनी रतिः ॥
रतिप्रिया रमणीया रसपुण्डा रसायना ।
रासमध्ये रासरूपा रसवेशा रसोत्सुका ॥
रसवती रसोल्लासा रसिका रसभूषणा ।
रसमालाधरी रङ्गी रसपट्टपरिच्छदा ॥
कमला कल्पलतिका कुलव्रतपरायणा ।
कामिनी कमला कुन्ती कलिकल्मषनाशिनी ।
कुलिना कुलवती कामी कामसन्दीपनी तथा ॥
कौमारी कृष्णवनिता कामार्त्ता कामरूपिणी ।
कामुकी कलुषघ्नी च कुलज्ञा कुलपण्डिता ॥
कृष्णवर्णा कृशाङ्गी च कृष्णवस्त्रपरिच्छदा ।
कान्ता कामस्वरूपा च कामरूपा कृपावती ॥
क्षेमा क्षमावती चैव खेलत्खञ्जनगामिनी ।
खस्था खगा खगस्थात्री खगणस्य विहारिणी ॥
गरिष्ठा गरिमा गङ्गा गया गोदावरी गतिः
गान्धारी गुणिनी गौरी गङ्गा गोकुलवासिनी ॥
गान्धर्व्वी गानकुशला गुणा गुप्तविलासिनी ।
घर्घरा घर्म्मदा घर्म्मा घनस्था घनवासिनी ॥
घृणा घृणावती घोरा घोरकर्म्मविवर्ज्जिता ।
चन्द्रा चन्द्रप्रभा चैव चन्द्रमूर्त्तिपरिच्छदा ॥
चन्द्ररूपा च चन्द्राख्या चञ्चला चारुभूषणा ।
चतुरा चारुशीला च चम्पा चम्पावती तथा ॥
चन्द्ररेखा चन्द्रकला चारुवेशा विनोदिनी ।
चन्द्रचन्दनभूषाङ्गी चार्व्वङ्गी चन्द्रभूषणा ॥
चित्रिणी चित्ररूपा च चित्रमूर्त्तिधरा सदा ।
छद्मरूपा छद्मवेशी श्वेतच्छत्रविधारिणी ॥
छत्रातपा च छत्राङ्गी छत्रघ्नी छत्रपालिनी ।
छुरितामृतधारौघा छद्मवेशनिवासिनी ॥
छटीकृतमरालौघा छटीकृतनिजामृता ।
जयन्ती च जगन्माता जननी जन्मदायिनी ॥
जया जैत्री च जरती जीवनी जगदम्बिका ।
जीवा जीवस्वरूपा च जाड्यविध्वंसकारिणी ॥
जगज्जनिर्ज्जनश्रेष्ठा जगद्धेतुर्ज्जगन्मयी ।
जगदानन्दजननी जनयित्री जनास्पदा ॥
झङ्कारवाहिनी झञ्जा झञ्जारनिर्झरावती ।
टङ्कारटङ्किनी टङ्का टङ्किता टङ्करूपिणी ॥
डम्बरा डम्भरा डम्बा डमडम्बा च डम्बुरा ।
ढोकिताशेषनिर्घोषा ढलढेलितलोचना ॥
तापिनी त्रिपथा तीर्थवासिनी त्रिदशेश्वरी ।
त्रिलोकत्रयी त्रैलोक्यतरणी तरणे तरुः ॥
तापहन्त्री तपा तापा तपनीया तपावती ।
तापिनी त्रिपुरादेवी त्रिपुराज्ञाकरी सदा ॥
त्रिलक्षा तारिणी तारा तारामायकमोहिनी ।
त्रैलोक्यगमना तीर्णा तुष्टिता त्वरिता त्वरा ॥
तृष्णा तरङ्गिणी तीर्था त्रिविक्रमविधारिणी ।
तमोमयी तामसी च तपस्या तपसः फला ॥
त्रैलोक्यव्यापिनी तुष्टा तृप्तिस्तुत्या तुला तथा ।
त्रैलोक्यमोहिनी तूर्णा त्रैलोक्यविभवप्रदा ॥
त्रिपदी च तथा तथ्या तिमिरध्वंसचन्द्रिका ।
तेजोरूपा तपःपारा त्रिपुरा त्रिपदस्थिता ॥
त्रयी तन्वी तापहरा तपनाङ्गजवाहिनी ।
तरिस्तरणितारुण्या तपिता तरणीप्रिया ॥
तीव्रपापहरातुल्यातुलपापतनूनपात् ।
दारिद्र्यनाशिनी दात्री दक्षा देया दयावती ॥
दिव्या दिव्यस्वरूपा च दीक्षादक्षा दया द्रवा ।
दिव्यरूपा दिव्यमूर्त्तिर्दैत्येन्द्रप्राणनाशिनी ॥
द्रुता च द्रुतरूपा च दन्दशूकविनाशिनी ।
दुर्व्वारादमनीया च देवकार्य्यकरी सदा ॥
देवप्रिया देवयाज्या दैवा दैवधिया सदा ।
दिक्पालपददात्री च दीर्घाद्या दीर्घलोचना ॥
दुष्टद्वेषकामदुघा दोग्ध्री दूषणवर्ज्जिता ।
दुग्धा द्युसदृशाभाषा दिव्या दिव्यगतिप्रिया ॥
द्युनदी दीनशरणा दिव्या देहविहारिणी ।
दुर्गमा दरिमा दामा दूरघ्नी दूरवासिनी ॥
दुर्व्विगाह्या दयाधारा दूरसन्तापनाशिनी ।
दुराशया दुराधारा द्राविणी द्रुहिनस्तुता ॥
दैत्यशुद्धिकरी देवी सदादानवसिद्धिदा ।
दुर्बुद्धिनाशिनी देवी सततं दानदायिनी ॥
दानदात्री च देवेशी द्यावाभूमिविगाहिनी ।
दृष्टिदा दृष्टिफलदा देवतागृहसंस्थिता ॥
दीर्घव्रतकरी दीर्घा दीर्घधर्म्मा दयावती ।
दण्डिनी दण्डनीतिश्च दीप्तदण्डधरार्च्चिता ॥
दानार्च्चिता द्रवद्रव्या द्रव्यैकनियमा परा ।
दुष्टसन्तापशाम्या च दात्री दवथुरोधिनी ॥
देवी दिव्या बलवती दान्ता दान्तजनप्रिया ।
दारिद्रादितटा दुर्गा दुर्गादन्यप्रचारिणी ॥
धर्म्मरूपा धर्म्मधुरा धेनुरूपा धृतिर्ध्रुवा ।
धेनुदाना ध्रुवस्पर्शा धर्म्मकामार्थमोक्षदा ॥
धर्म्मिणी धर्म्ममाता च धर्म्मदात्री धनुर्द्धरा ।
धात्री ध्येया धरा धर्म्मधारिणी धृतकल्मषी ॥
धनदा धर्म्मदा धन्या धन्यदा धान्यदा धना ।
धन्या धनाधिरूपा च धरित्री धनपूरिता ॥
धारणा धनरूपा च धर्म्मा धर्म्मप्रचारिणी ।
धर्म्मिणी धर्म्मतन्त्राख्या धम्मिल्लामलकेशिनी ॥
धर्म्मप्रचारनिरता धर्म्मरूपा धुरन्धरी ।
धनुर्व्विद्याधरी धात्री धनुर्व्विद्याविशारदा ॥
निरानन्दा निरीहा च निर्व्वाणद्वारसंस्थिता ।
निर्व्वाणपदवी दात्री नन्दिनी नाकनायिका ॥
नारायणी निषिद्धघ्नी निजरूपप्रकाशिनी ।
नमस्या निर्द्वया नन्दनता नूतनरूपिणी ॥
निर्म्मला निर्म्मलाभासा निरख्या निरपत्रपा ।
नित्यानन्दमयी नित्यानित्या न्रतनविग्रहा ॥
निषिद्धा नीतिधैर्य्या च निर्व्वाणपददीपिका ।
निःशङ्का च निरातङ्का निर्नाशितमहामनाः ॥
निर्म्मला नन्दजननी निर्म्मलश्यामवेशिनी ।
निरवद्यकुलस्रष्ट्री नित्यानन्दस्वरूपिणी ॥
निर्णया निर्णयज्ञाता निषिद्धकर्म्मवर्ज्जिता ।
नित्योत्सवा नित्यतप्ता नमस्कार्य्या निरञ्जना ॥
निष्ठावती निरातङ्का निर्लेपा निश्चलात्मिका ।
निरवद्या निरीशा च निरञ्जनपुरस्थिता ॥
पुण्यप्रदा पुण्यकरी पुण्यगर्भा पुरातनी ।
पुण्यरूपा पुण्यदेहा पुण्यगीता च पावनी ॥
पूजा पवित्रा परमा परा पुण्यविभूषणा ।
पुण्यदात्री पुण्यधरा पुण्या पुण्यप्रवाहिनी ॥
पुण्यदेहा पुण्यवती पूर्णिमा पूर्णचन्द्रमा ।
पौर्णमासी परा पद्मा पथज्ञा पद्मगन्धिनी ॥
पद्मिनी पद्मवस्त्रा च पद्ममालाधरा सदा ।
पद्मोद्भवा परथ्या च परमानन्दरूपिणी ॥
प्रकाश्या परमाश्चर्य्या पद्मगर्भनिवासिनी ।
पावनी च तथा पूता पवित्रा परमाकला ॥
पद्मार्च्चिता पद्मसंस्था पद्ममाता पुरातनी ।
पद्मासनगता नित्या पद्मासनपरिच्छदा ॥
शुक्लपद्मासनगता रक्तपद्मासना तथा ।
पीतपद्मासनगता कृष्णपद्मस्थिता तथा ॥
पदार्थदायिनी पद्मवनवासपरायणा ।
प्रकाशिनी प्रगम्या च पुण्यश्लोका च पावनी ॥
फलहन्त्री फलहरा फलिनी फलरूपिणी ।
फुल्लेन्दीलोचना फुल्ला फुल्लकोरकगन्धिनी ॥
फलिनी फालिनी फेणा फुल्लच्छाटितपातका ।
विश्वमाता च विश्वेशी विश्वा विश्ववरप्रिया ॥
ब्रह्मण्या ब्राह्मणीं ब्राह्मी ब्रह्मज्ञा विमलामला ।
बहुला बाहुला वल्ली बल्लरी वनदायिनी ॥
विक्रान्ता विक्रमामाला बहुभाग्यविलोचना ।
विश्वामित्रा विष्णुसखी वैष्णवी विष्णुवल्लभा ॥
विरूपाक्षप्रिया देवी विभूतिर्विश्वतोमुखी ।
वेद्यवेदरता वाणी वेदाक्षरसमन्विता ॥
विद्या विद्यावती वन्द्या बृहती ब्रह्मवादिनी ।
वरदा विप्रहृष्टा च वरिष्ठा च विशोधिनी ॥
विद्याधरी वसुमती विप्रवृद्धा विशोधिता ।
व्योमस्थानावती वामा विधात्री विबुधप्रिया ॥
पृष्ठ ४/१४४
बुद्धिर्व्विनाशिनी वित्ता ब्रह्मरूपा वरानना ।
वासिनी ब्रह्मजननी ब्रह्महत्यापहारिणी ॥
ब्रह्मविष्णुस्वरूपा च सदा विभववर्द्धिनी ।
विभाषिणी व्यापिनी च व्यापिका परिचारिका ॥
विपन्नार्त्तिहरा देवी विनयव्रतचारिणी ।
विपन्नशोकसंहर्त्री विपञ्चीवाद्यतत्परा ॥
वेणुवाद्यपरा देवी वेणुश्रुतिपरायणा ।
वर्च्चस्विनी बलकरी बलमूला विवस्वती ॥
विपाप्मा विशिखा चैव विकल्पपरिवर्ज्जिता ।
बुद्धिदा बृहती देवी विधिविच्छिन्नसंशया ॥
विचित्राङ्गी विचित्राभा विच्छा विभववर्द्धिनी ।
विजया विनया वन्द्या वामदेवी वरप्रदा ॥
विषघ्नी च विशालाक्ष्मी विज्ञानवित्तमानिनी ।
भद्रा भोगवती भव्या भतानी भयवासिनी ॥
भूतधात्री भयहरी भक्तवश्या भयापहा ।
भक्तिदा भयहा भेरीभक्तदुर्गप्रदारिणी ॥
भागीरथी भानुमती भाग्यदा भगनिर्हिता ।
भवप्रिया भूततुष्टिर्भूतिदा भूतभूषणा ॥
भोगवती भूतिमती भव्यरूपा भ्रमिर्भ्रमा ।
भूरिदा भक्तिसुलभा भाग्यवृद्धिकरी सदा ॥
भिक्षुमाता भिक्षुनिभा भव्या भवस्वरूपिणी ।
महामाया मातृप्रिया महानन्दा महोदरी ॥
मतिर्म्मुक्तिर्म्मनोज्ञा च महामङ्गलदायिनी ॥
महापुण्या महादात्री मैथुनप्रियलालसा ॥
मनोज्ञा मालिनी मान्या मणिमाणिक्यधारिणी ।
मुनिस्तुता मोहकरी मोहहन्त्री मदोत्कटा ॥
मधुपानरता मद्या मदाघूर्णितलोचना ।
मधुपानप्रमत्ता च मधुलुब्धा मधुव्रता ॥
माधवी मालिनी मान्या मनोरथपथातिगा ।
मोक्षैश्वर्य्यप्रदामर्त्त्या महापद्मवनाश्रिता ॥
महाप्रभावा महती मृगाक्षी मीनलोचना ।
महाकाठिन्यसम्पूर्णा महाक्षी महती कला ॥
मुक्तिरूपा महामुक्ता मणिमाणिक्यभूषणा ।
मुक्ताफलविचित्राङ्गी मुक्तारञ्जितनासिका ॥
महापातकराशिघ्नी मनोनयननन्दिनी ।
महामाणिक्यरचिता महाभूषणभूषिता ॥
मायावती मोहहन्त्री महाविद्याविधारिणी ।
महामेधा महाभूतिर्म्महामाया प्रिया सखी ॥
मनोधरी महोपाया महामणिविभूषिता ।
महामोहप्रणयिनी महामङ्गलदायिनी ॥
यशस्विनी यशोदा च यमुनावारिहारिणी ।
योगसिद्धिकरी यज्ञा यज्ञेशवन्दितप्रिया ॥
यज्ञेशी यज्ञफलदा यजनीया यशस्करी ।
योगयोनिर्योगसिद्धा योगिनी योगबुद्धिदा ॥
योगयुक्ता यमाद्यष्टसिद्धिर्यज्ञैकधारिणी ।
यमुनाजलसेव्या च यमुनाजलहारिणी ॥
यामिनी यमुना याम्या यमलोकनिवासिनी ।
लोकालोकविलासा च लोलत्कल्लोलमालिका ॥
लोलाक्षी लोकमाता च लोकानन्दप्रदायिनी ।
लोकबन्धुर्लोकधात्री लोकालोकनिवासिनी ॥
लोकत्रयनिवासा च लक्षलक्षणलक्षिता ।
लीलालोका च लावण्या लघिमा लसदीक्षणा ॥
वासुदेवप्रिया वामा वसन्तसमयप्रिया ।
वासन्ती वसुदा वज्रा वेणुवादपरायणा ॥
वीणावाद्यप्रमत्ता च वीणानादविभूषणा ।
वेणुवाद्यरता चैव वंशीनादविभूषणा ॥
शुभा शुभरतिः शान्तिः शैशवा शान्तिविग्रहा ।
शीतला शोषिता शोभा शुभदा शुभदायिनी ॥
शिवप्रिया शिवानन्दा शिवपूजासु तत्परा ।
शिवस्तुत्या शिवसत्या शिवनित्यपरायणा ॥
श्रीमती श्रीनिवासा च श्रुतिरूपा शुभव्रता ।
शुद्धविद्याजपकरी शुभकर्त्री शुभाशया ॥
श्रुतानन्दा श्रुतिः श्रोत्री शिवप्रेमपरायणा ।
शोषणी शुभवार्त्ता च शालिनी शिवनर्त्तकी ॥
षड्गुणायुपदाक्रान्ता षडङ्गश्रुतिरूपिणी ।
सरसा सुप्रभा सिद्धा सिद्धसिद्धिप्रदायिनी ॥
सेव्यासङ्गा सती सूक्ता सूक्तिरूपा सदाप्रिया ।
सम्पत्प्रदा स्तुतिः स्तुत्या स्तवनीया स्तवप्रिया ॥
स्थैर्य्यदा स्थैर्य्यगा सौख्या स्त्रैणसौभाग्यदायिनी ।
सूक्ष्मसूक्ष्मा स्वधा स्वाहा स्वधालेपप्रमोदिनी ॥
स्वर्गप्रिया समुद्राभा सर्व्वपातकनाशिनी ।
संसारवारिणी राधा सौभाग्यवर्द्धिनी सदा ॥
हरप्रिया हिरण्याभा हरिणाक्षी हिरण्मयी ।
हंसरूपा हरिद्राभा हरिद्वर्णा शुचिस्मिते ॥
क्षेमदा क्षालिता क्षेमा क्षुद्रघण्टाविधारिणी ।
अपरैकं शृणु प्रौढे स्वराक्षरसमन्वितम् ॥
स्तोत्रं सहस्रनामाख्यं स्वरव्यञ्जनसंयुतम् ।
अजपा अतुलानन्ता अनन्तामृतदायिनी ॥
अन्नदाना अशोका च अलका अमृतश्रवा ।
अनाथवल्लभानन्ता अयोनिसम्भवा प्रिये ॥
अव्यक्तलक्षणाक्षुण्णा विच्छिन्नाचापराजिता ।
अनाथानामभीष्टार्थसिद्धिदानन्दवर्द्धिनी ॥
अणिमादिगुणाधारा अगण्यालिकहारिणी ।
अचिन्त्यशक्तिवलयाद्भुतरूपा च हारिणी ॥
अद्रिराजसुता दूती अष्टयोगसमन्विता ।
अच्युता अनवच्छिन्ना अक्षुण्णशक्तिधारिणी ॥
अनन्ततीर्थरूपा च अनन्तामृतरूपिणी ।
अनन्तमहिमा पारा अनन्तसुखदायिनी ॥
अर्थदा अन्नदा अर्था सदा अमृतवर्षिणी ।
अविद्याजालशमनी अप्रतर्कगतिप्रदा ॥
अशेषविघ्नसंहन्त्री अशेषगुणगुम्फिता ।
अज्ञाननाशिनी देवी अनन्तसिद्धिदायिनी ॥
अशेषपापसंहन्त्री अशेषदेवतामयी ।
अघोरा अमृता देवी अज्ञानतिमिरप्रदा ॥
अनुग्रहपरा देवी अभिरामविनोदिनी ।
अनवद्यपरिच्छिन्ना अत्यनन्तकलङ्किणी ॥
आरोग्यदात्रीं आनन्दा आपन्नार्त्तिविनाशिनी ।
आश्चर्य्यरूपा आद्यस्था आप्तविद्या सदा प्रिया ॥
आप्यायिनी च आलस्या आपदाहामृतप्रदा ।
इष्टारतिरिष्टदात्री इष्टपूर्णफलप्रदा ॥
इतिहासस्मृतिः श्वेता इहामूत्रफलप्रदा ।
इष्टा च इष्टरूपा च इत्यादिपरिवन्दिता ॥
इन्दिरा इतराक्षीच इलङ्कार इधारिणी ।
इन्द्राणीसेवितपदा इन्द्रियप्रीतिदायिनी ॥
ईश्वरी ईशजननी ईशस्यैश्वर्य्यदायिनी ॥
उतङ्कशक्तिसंयुक्ता उपमानविवर्ज्जिता ।
उत्तमश्लोकसंसेव्या उत्तमोत्तमरूपिणी ॥
उक्षा उषा उधाराधा उर्म्मिला च शुचिस्मिते ।
ऊहा ऊहवितर्का च ऊर्द्ध्वधारा च ऊर्द्ध्वगा ॥
ऊर्द्ध्वधारा ऊर्द्ध्वथोनी उपपापविनाशिनी ।
ऋषिवृन्दस्तुता ऋद्धिकरणत्रयनाशिनी ॥
ऋतम्भरा ऋद्धिदात्री ऋक्था ऋक्थस्वरूपिणी
ऋतुप्रिया ऋक्षमाता ऋक्षार्च्चिरृक्षमार्गगा ॥
ऋतुलक्षणरूपा च ऋतुमार्गप्रदर्शिनी ।
एषिताखिलसर्व्वस्वा एकैकायुतदायिनी ॥
ऐश्वर्य्यतर्प्यरूपा च ऐतिरैन्द्रशिरोमणिः ।
ओजस्विनी ओषधी च ओजोनादौजदायिनी ॥
ओङ्कारजननी देवि ओङ्कारप्रतिपादिता ।
औदार्य्यप्रकरा भद्रे औपेन्द्रौषधिविग्रहा ॥
अंश्ववस्था च अमृता अम्बा अम्बालिका तथा ।
अम्बुजाक्षी च अन्धाना अम्बुस्निग्धाम्बुजानना ॥
अंशुमाली अंशुमती अंशीत्यंशांशसम्भवा ।
अन्धतामिस्रहा भद्रे अत्यन्तशोभनस्वरा ॥
अर्थेशा अर्थदात्री च अर्णरूपा अनाहता ।
शृणु नामान्तरं भद्रे ककारादि वरानने ! ॥
अत्यन्तसुन्दरं शुद्धं निर्म्मोलोत्पलगन्धिनी ।
कुटन्ता करुणा कान्ता कर्म्मजालविनाशिनी ॥
कमला कल्पलतिका कलिकल्मषनाशिनी ।
कमनीयकला कर्णा कपर्द्दिपूजनप्रिया ॥
कदम्बकुसुमाभाषा सदा कोकनदेक्षणा ।
कालिन्दीकेलिकलिता कणा कादम्बमालिका ॥
कान्तालोकत्रया कन्था कन्थरूपा मनोहरा ।
खड्गिनी खड्धाराभा खगा खगेन्दुधारिणी ॥
खेखेलगामिनी खड्गा खड्गेन्दुतलकाष्ठिता ।
खेचरी खेचरी विद्या खगतिः ख्यातिदायिनी ॥
खण्डिपाशेषपापौघा खलवृद्धिविनाशिनी ।
खातेन कन्दसन्दोहा खड्गखट्वाङ्गधारिणी ॥
खरसन्तापशमनी खरदुःखनिकृन्तनी ।
गुहागन्धगतिर्गौरी गन्धर्व्वनगरप्रिया ॥
गूढरूपा गुणवती गुर्व्वी गौरवरङ्गिणी ।
ग्रहपीडाहरा गुप्ता गदस्निग्धमना प्रिया ॥
चाम्पेयलोचना चारु चार्व्वङ्गी चारुरूपिणी ।
चन्द्रचन्दनसिक्ताङ्गी चर्व्वनीया चिरस्थिता ॥
चारुचम्पकमालाढ्या चलिताशेषदुष्कृता ।
चारिताशेषवृजिना चारुताशेषमस्तुला ॥
रक्तचन्दनसिक्ताङ्गी रक्ताङ्गी रक्तमालिका ।
शुक्लचन्दनसिक्ताङ्गी शुक्लाङ्गी शुक्लमालिका ॥
पीतचन्दनसिक्ताङ्गी पीताङ्गी पीतमालिका ।
कृष्णचन्दनसिक्ताङ्गी कृष्णाङ्गी कृष्णमालिका ॥
शुक्लवस्त्रपरीधाना शुक्लषस्त्रोत्तरीयिका ।
रक्तवस्त्रपरीधाना रक्तवस्त्रोत्तरीयिका ।
पीतवस्त्रपरीधाना पीतवस्त्रोत्तरीयिका ।
कृष्णपट्टपरीधाना कृष्णपट्टोत्तरीयिका ॥
वृन्दावनेश्वरी राधा कृष्णकार्य्यप्रकाशिनी ।
पद्मिनी नागिनी गोपी कालिन्दी अवगाहिनी ॥
गोपीश्वरप्रिया भृत्या सदा नगरमोहिनी ।
पृष्ठ ४/१४५
त्रिपुरा त्रिपुरादेवी त्रिपुराज्ञाकरी सदा ॥
त्रिपुरासन्निकर्षस्था त्रिपुरापरिचारिका ।
त्रिपुरापुरसंस्था तु या राधा पद्मिनी परा ॥
नानासौभाग्यसम्पन्ना नानाभरणभूषिता ।
स्तोत्रं सहस्रनामाख्यं कथितं तव भक्तितः ॥
एतत् स्तोत्रञ्च मन्त्रञ्च कवचञ्च वरानने ।
कल्पे कल्पे च देवेशि प्रपठेद्यदि मानवः ॥
उपास्य राधिकां विद्यां केवलं कमलेक्षणे ।
बहुकालेन देवेशि उपविद्यापि सिध्यति ॥
पद्मिनी राधिका विद्या उपविद्यासु निश्चिता ।
महाविद्यां महेशानि उपास्य यत्नतः स्वयम् ॥
प्रकटं परमेशानि राधामन्त्रेण सुन्दरि ! ।
शृणु नाम सहस्राणि प्रकटे यत्तु शस्यते ॥
कृष्णस्तु कालिका साक्षात् राधाप्रकृतिपद्मिनी ।
हे कृष्ण राधे गोविन्द इदमुच्चार्य्य यत्नतः ॥
सदासौ वैष्णवो देवि सर्व्वत्रैव प्रकाशते ।
गोविन्दो यस्तु देवेइशि स्वयं त्रिपुरसुन्दरी ॥
विना मन्त्रं विना होमं विना पूजां विना वलिम् ।
विना गन्धं विना पुष्पं विना नित्योदितां क्रियाम् ॥
प्राणायामं विना ध्यानं विना भूतविशोधनम् ।
विना जपं विना दानं येन राधा प्रसीदति ॥
राधासहस्रनामाख्यस्तोत्रमार्गेण पार्व्वति ।
यो जपेद्वैष्णवं मन्त्रं राधिकामन्त्रमेव च ॥
स पतेन्नरके वोरे यावदिन्द्राश्चतुर्द्दश ।
श्रुत्वा गुरुमुखान्मन्त्रं वैष्णवो भक्तितत्परः ॥
ततः पुरश्चरीं कुर्य्यादेकविंशतिसंख्यकम् ।
पूर्णाभिषेकसिक्तस्य ततो गुरुपदार्च्चनम् ॥
विना पूर्णाभिषेकञ्च भवाब्धौ पारमिच्छति ।
अज्ञस्य तस्य दुर्ब्बुद्धेर्निरये पतनं भवेत् ॥
सत्यं सत्यं महेशानि सत्यं सत्यं वदाम्यहम् ।
भवाब्धितरणं नास्ति विना पूर्णाभिषेचनम् ॥
नानागमपुराणानि वेदवेदाङ्गशास्त्रतः ।
मयोद्धृतं महेशानि सारं पूर्णाभिषेचनम् ॥
तस्मात् सर्व्वप्रयत्नेन कुर्य्यात् पूर्णाभिषेचनम् ।
कृत्वा पूर्णाभिषेकञ्च पठेत् राधास्तवं प्रिये ॥
स्तवपाठान्महेशानि स भवेद्भवनन्दनः ।
स्तोत्रं सहस्रनामाख्यं न यस्य जपतो मनुम् ॥
राधाकृष्णस्य देवेशि तस्य पापफलं शृणु ।
कुम्भीपाके स पच्येत यावद्वै ब्रह्मणः शतम् ॥
निम्नगानां यथा श्रेष्ठा भवेद्भागीरथी प्रिये ।
वैष्णवानां यथा शम्भुः प्रकृतीनां यथा सती ॥
पुरुषाणां यथा विष्णुर्नक्षत्राणां यथा शशी ।
स्तवानाञ्च तथा श्रेष्ठं राधास्तोत्रमिदं प्रिये ॥
जपपूजादिकं यद्यद्वलिहोमादिकन्तथा ।
श्रीराधास्तोत्रपाठस्य कलां नार्हति षोडशीम् ॥”
इति वासुदेवरहस्ये राधातन्त्रे द्वात्रिंशत् पटले
सहस्रनामस्तोत्रम् ॥ * ॥) अथ राधाकवचम् ।
श्रीपार्व्वत्युवाच ।
“कैलासवासिन् भगवन् भक्तानुग्रहकारक ।
राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥
यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात्
त्वमेव शरणं नाथ शूलपाणे पिनाकधृक् ॥
श्रीमहादेव उवाच ।
शृणुष्व गिरिजे तुभ्यं कवचं पूर्ब्बसूचितम् ।
सर्व्वरक्षाकरं पुण्यं सर्व्वहत्याहरं परम् ॥
हरिभक्तिप्रदं साक्षात् भुक्तिमुक्तिप्रसाधनम् ।
त्रैलोक्याकर्षणं देवि हरिसान्निध्यकारणम् ॥
सर्व्वत्र जयदं देवि सर्व्वशत्रुभयापहम् ।
सर्व्वेषाञ्चैव भूतानां मनोवृत्तिकरं परम् ॥
चतुर्द्धामुक्तिजनकं सदानन्दकरं परम् ।
राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥
इदं कवचमज्ञात्वा राधामन्त्रञ्च यो जपेत् ।
स नाप्नोति फलं तस्य विघ्नस्तस्य पदे पदे ॥
ऋषिरस्य महादेवोऽनुष्टुप्छन्दः प्रकीर्त्तितम् ।
राधास्य देवता प्रोक्ता रां बीजं परिकीर्त्तितम् ॥
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।
श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥
वृषभावुसुता दन्तान् चिवुकं गोपनन्दिनी ।
चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा ॥
कण्ठं पातु हरिप्राणा हृदयं विजया तथा ।
बाहू द्वौ चन्द्रवदना उदरं सुवलस्वसा ॥
कटिं योगान्विता पातु पादौ सौभद्रिका तथा ।
नस्वान् चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा ॥
मुखं विधुमुखी पातु गोपी पदतलं तथा ॥
शुभप्रदा पातु पृष्ठं कुक्षी श्रीकान्तवल्लभा ।
गुह्यदेशं जरा पातु हरिणी पातु सर्व्वतः ॥
वाक्यं वाणी सदा पातु धनागारं धनेश्वरी ।
पूर्ब्बां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥
उत्तरां हरिता पातु दक्षिणां वृषभानुजा ।
चन्द्रावली नैशमेव दिवा खेडितमेखला ॥
सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी ।
रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥
हेतुदा सङ्गवे पातु कोमला च दिवार्द्धके ।
शेषापराह्णसमये शमिता सर्व्वसन्धिषु ॥
योगिनी भोगसमये रतौ रतिप्रदा सदा ।
कामेशी कौतुके नित्यं योगे रत्नावली मम ॥
सर्व्वदा सर्व्वकार्य्येषु राधिका कृष्णमानसा ।
इत्येतत् कथितं देवि कवचं परमाद्भुतम् ॥
सर्व्वरक्षाकरं नाम महारक्षाकरं परम् ।
सर्व्वार्थसिद्धिस्तस्य स्यात् यद्यन्मनसि वर्त्तते ॥
राजद्वारे सभायाञ्च संग्रामे शत्रुसङ्कटे ।
प्राणार्थनाशसमये यः पठेत् प्रयतो नरः ।
तस्य सिद्धिर्भवेद्देवि न भयं विद्यते क्वचित् ॥
आराधिता राधिका च तेन सत्यं न संशयः ।
गङ्गास्नानात् हरेर्नामग्रहणात् यत् फलं लभेत् ॥
तत् फलं तस्य भवति यः पठेत् प्रयतः शुचिः ।
हरिद्रारोचना चन्द्रमण्डितं हरिचन्दनम् ॥
कृत्वा लिखित्वा भूर्ज्जे च धारयेत् मस्तके भुजे ।
कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥
कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः ।
संहारञ्चाहं नियतं करोमि कुरुते तथा ॥
वैष्णवाय च शुद्धाय विरागगुणशीलिने ।
दद्यात् कवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥”
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे पञ्चरात्रे
सर्व्वरक्षाकवचं समाप्तम् ॥ * ॥ (राधातन्त्रोक्त-
राधिकाकवचं यथा, --
देव्युवाच ।
“देवदेव महादेव सृष्टिस्थित्यन्तकारक ।
राधिकाकवचं देव कथयस्व दयानिधे ॥
ईश्वर उवाच ।
शृणु देवि वरारोहे कवचं जनमोहनम् ।
गोपितं सर्व्वतन्त्रेषु इदानीं प्रकटीकृतम् ॥
या राधा त्रिपुरा दूती उपविद्या सदा तु सा ।
उपविद्याक्रमाद्देवि कवचं शृणु पार्व्वति ॥
जपपूजाविधानस्य फलं सर्व्वस्वसिद्धिदम् ।
यत्र तत्र न वक्तव्यं कवचं गोपितं महत् ।
भक्तिहीनाय देवेशि द्बिजनिन्दापराय च ।
न शूद्रयाजिविप्राय वक्तव्यं परमेश्वरि ॥
शिष्याय भक्तियुक्ताय शक्तिदीक्षारताय च ।
वैष्णवाय विशेषेण गुरुभक्तिपराय च ॥
वक्तव्यं परमेशानि मम वाक्यं न चान्यथा ॥
अस्य श्रीराधात्रैलोक्यमङ्गलकवचस्य गोपिका
ऋषिरनुष्टुप्छन्दः श्रीराधिका देवता महा-
विद्यासाधनगोप्यर्थे विनियोगः ॥
ॐपूर्ब्बे च पातु सा देवी रुक्मिणी शुभदायिनी ।
ह्रीं पश्चिमे पातु सत्या सर्व्वकामप्रपूरणी ।
याम्यां ह्रीं जाम्बवती पातु सर्व्वकामफलप्रदा ।
उत्तरे पातु भद्रा ह्रीं भद्रशक्तिसमन्विता ॥
ऊर्द्ध्वे पातु महादेवी क्लीं कृष्णप्रिया यशस्विनी ।
अधश्च पातु मां देवी ऐं पातालतलवासिनी ॥
अधरे राधिका पातु ऐं पातु हृदयं मम ।
नमः पातु च सर्व्वाङ्गं ङेयुता च पुनः पुनः ।
सर्व्वत्र पातु मे देवी ईश्वरी भुवनेश्वरी ॥
ऐं ह्रीं राधिकायै ह्रीं ऐं शिरः पातु मां क्लीं
क्लीं राधिकायै क्लीं क्लीं दक्षबाहुं रक्षतु मम ।
ह्रीं ह्रीं राधिकायै ह्रीं ह्रीं वामाङ्गं रक्षतु
पद्मिनी पद्मगन्धिनी । ऐं ह्रीं राधिकायै ऐं
ऐं दक्षपादं रक्षतु मम । क्लीं क्लीं ऐं ऐं
राधिकायै ह्रीं ह्रीं ऐं ऐं क्लीं क्लीं ॐ
सर्व्वाङ्गं मम रक्षतु । क्लीं राधिकाये क्लीं
वामपादं रक्षतु सदा पद्मिनी । ह्नीं राधि-
कायै ह्नीं अक्षियुग्मं रक्षतु मम । ऐ राधि-
कायै ऐं कर्णयुग्मं सदा रक्षतु मम । ह्नीं
राधिकायै ह्नीं नासायुग्मं सदा रक्षतु मम ।
ॐ ह्रीं राधिकायै ॐ ह्रीं दन्तपंक्तिं सदा
पातु सरस्वती । ह्रीं भुवनेश्वरी ललाटं पातु
ह्रीं काली मे मुखमण्डलं सदा पातु । ह्रीं ह्रीं
ह्रीं महिषमर्द्दिन्यै ह्रीं ह्रीं महिषमर्द्दिनी
द्बारकावासिनी सहस्रारं रक्षतु सदा मम ।
ऐं ह्रीं ऐं मातङ्गी हृदयं सदा मम रक्षतु ।
ह्रीं ऐं ह्रीं उग्रतारा नाभिपद्मं सदा रक्षतु
मम । क्लीं ऐं क्लीं सुन्दरी क्लीं ऐं क्लीं
स्वाधिष्ठानं लिङ्गमूलं रक्षतु मम । लं ऐं लं
पृथिवी गुदमण्डलं रक्षतु मम । ऐं ऐं ऐं
बलगा ऐं ऐं ऐं स्तनद्बयं रक्षतु मम । हसौं
भैरवी ह्सौः स्कन्धद्बयं रक्षतु मम । ह्नीं
पृष्ठ ४/१४६
अन्नपूर्णा ह्नीं घाटां रक्षतु मम । ऐं ह्नीं ऐं
बीजत्रयं सदा पातु पृष्ठदेशं मम । ॐ महा-
देवः पातु सर्व्वाङ्गं मे ॐ नारायणः पातु
सर्व्वाङ्गं सदा मम ।
ॐ ॐ कृष्णः पातु सदा गोत्रं रुक्मिणीनाथः ।
रुक्मिणी सत्यभामा च सैव्या जाम्बुवती तथा ॥
लक्षणा मित्रवृन्दा च भद्रा नग्नजिता तथा ।
एताः सर्व्वा युवतयः शोभनास्याः सुलोचनाः ॥
रक्षेयुर्म्मां सन्तु दिक्षु सततं शुभदर्शनाः ।
ॐ नारायणश्च गोविन्दः शिरः पद्मदलेक्षणः ॥
सर्व्वाङ्गं मे सदा रक्षेत् केशवः केशिहा हरिः ।
इतीदं कवचं भद्रे त्रैलोक्यमङ्गलं शुभम् ॥
पद्मिन्याः परमेशानि उपविद्यासु सङ्गतम् ।
यः पठेत् पाठयेद्वापि सततं भक्तितत्परः ॥
निराहारो जलत्यागी अयुतं वत्सरे सदा ।
तदैव परमेशानि पद्मिनी वशतामियात् ॥
एतत्ते कथितं देवि कवचं भुवि दुर्लभम् ।
फलमूलजलं त्यक्त्वा पठेत् संवत्सरं यदि ॥
पद्मिनी वशमायाति तदैव नगनन्दिनि ।
अनेनैव विधानेन यः पठेत् कवचं परम् ॥
विष्णुलोकमवाप्नोति नान्यथा वचनं मम ।
संगोप्य पूजयेद्वद्यां महाविद्यां वरानने ॥
प्रकटार्थमिदं देवि कवचं प्रपठेत् सदा ।
महाविद्यां विना भद्रे यः पठेत् कवचं प्रिये ।
तदैव सहसा भद्रे कुम्भीपाकं व्रजेत् प्रिये ॥”
इति वासुदेवरहस्ये राधातन्त्रे एकत्रिंशत्
पटलः ॥) अथ राधास्तोत्रम् ।
“स्तोत्रञ्च सामवेदोक्तं प्रपठेत् भक्तिपूर्ब्बकम् ।
राधा रासेश्वरी रम्या परमा च परात्मनः ॥
रासोद्भवा कृष्णकान्ता कृष्णवक्षःस्थलस्थिता ।
कृष्णप्राणाधिदेवी च महाविष्णुप्रसूरपि ॥
सर्व्वथा विष्णुमाया च सत्यासत्या सनातनी ।
ब्रह्मस्वरूपा परमा निर्लिप्ता निर्गुणा परा ॥
वृन्दावनेशा विजया यमुनातटवासिनी ।
गोलोकवासिनी गोपी गोपीशा गोपमातृका ।
सानन्दा परमानन्दा नन्दनन्दनकामिनी ।
वृषभानुसुता शान्ता कान्ता पूर्णतमस्य च ॥
काम्या कलावतीकन्या तीर्थपूता सतीनिभा ।
सप्तत्रिंशच्च नामानि वेदोक्तानि शुभानि च ॥
सारभूतानि पुण्यानि सर्व्वनामसु नारदः ।
यः पठेत् संयतः शुद्धो विष्णुभक्तो जितेन्द्रियः ॥
इह वै निश्चलां लक्ष्मीं लब्ध्वा याति हरेः पदम् ॥
हरिभक्तिं हरेर्दास्यं लभते नात्र संशयः ॥
भक्तो लक्षजपेनैव स्तोत्रसिद्धिर्भवेत् ध्रुवम् ।
स्तोत्रस्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ॥
पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ।
कोटिजन्मार्ज्जितात् पापात् ब्रह्महत्याशतादपि ।
स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः ॥
मृतवत्मा काकबन्ध्या महाबन्ध्या प्रसूयते ।
शृणोति वर्षमेकं या शुद्धा स्निग्धान्नभोजनी ॥
शृणोति मासमेकं यः सर्व्वाभीष्टं लभेन्नरः ।
सामवेदे कुमारं तमित्याह कमलोद्भवः ॥”
इति नारदपञ्चरात्रे ज्ञानामृतसारे द्वितीय-
रात्रौ शिवनारदसंवादे भक्तिज्ञानकथने
श्रीराधिकास्तोत्रं समाप्तम्

राधाकान्तः, पुं, (राधायाः कान्तः ।) श्रीकृष्णः ।

यथा, --
“गोलोके द्विभुजः कृष्णो राधाकान्तःसनातनः ।
गोपाङ्गनादिभिर्युक्तो द्बिभुजैर्गोपपार्श्वदैः ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १७ अध्यायः ॥

राधातनयः, पुं, (राधायाः सूतपत्न्यास्तनयः ।

तया पालितत्वात् तथात्वम् ।) कर्णः । इति
हेमचन्द्रे कर्णपर्य्याये राधासुतशब्ददर्शनात् ॥

राधाभेदी, [न्] पुं, (राधां धन्विचित्रभेदं भिन-

त्तीति । भिद् + णिनिः ।) अर्ज्जुनः । इति भूरि-
प्रयोगः ॥

राधावेधी, [न्] पुं, (राधां धन्विचित्रविशेषं

विध्यतीति । विध् + णिनिः ।) अर्ज्जुनः । यथा,
“राधावेधी किरीट्यैन्द्रिर्ज्जिष्णुः श्वेतहयो नरः ।
बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः ।
वीभत्सुः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ॥”
इति हेमचन्द्रः । ३ । ३७३ ॥

राधासुतः, पुं, (राधायाः सूतपत्न्याः सुतः ।)

कर्णः । यथा, --
“वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् ।
राधासुतोऽर्कतनयः कालपृष्ठन्तु तद्बनुः ॥”
इति हेमचन्द्रः । ३ । ३७५ ॥
(यथा, महाभारते । ८ । ८६ । ३ ।
“पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव ।
श्वेतबाजिसमायुक्तं युक्तं राधासुतेन च ॥”)

राधेयः, पुं, (राधाया अपत्यमिति । राधा +

“स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
कर्णः । इति त्रिकाण्डशेषः ॥ (यथा, महा-
भारते । १ । १३४ । ११ ।
“सूतपुत्त्रस्तु राधेयो गुरुं द्रोणमियात्तदा ॥”)

राप्यः, त्रि, (रप्यते इति । रप् + “आसुयुवपि-

रपीति ।” ३ । १ । १२६ । इति ण्यत् ।) कथ-
नीयः । रपधातोः कर्म्मणि घ्यण्प्रत्ययेन
निष्पन्नः ॥

रामं, क्ली, (रम्यतेऽनेनेति । रम् + घञ् ।) वास्तू-

कम् । कुष्ठम् । इति मेदिनी । मे, २६ ॥ तमाल-
पत्रम् । इति राजनिर्घण्टः ॥ (नैशं तमः ।
यथा, ऋग्वेदे । १० । ३ । ३ ।
“सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्
रुशद्भिर्वर्णैरभिराममस्थात् ॥”
“रामं कृष्णवर्णं शार्व्वरं तंमः अभ्यस्थात्सायं
होमकाले अभिभूय तिष्ठति ।” इति तद्भाष्ये
सायणः ॥)

रामः, त्रि, (रमते इति । रम् + णः । रम्यतेऽनेनेति ।

रम् + घञ् वा ।) मनोज्ञः । (यथा, बृहत्-
संहितायाम् । १९ । ५ ।
“गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ॥”)
सितः । असितः । इति मेदिनी । मे, २७ ॥

रामः, पुं, (रमते इति । रम क्रीडायाम् +

“ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० ।
इति णः ।) परशुरामः । स तु विष्णोरंशः
जमदग्निमुनेः पुत्त्रत्वेन त्रेतायुगादाववतीर्णः
एकविंशतिवारान् पृथिवीं निःक्षत्त्रियामक-
रोत् । (असौ एव समन्तपञ्चके पञ्च क्षत्त्रिय-
शोणितह्नदान् विधाय पितॄन् सन्तर्पयामास ।
यदुक्तं महाभारते । १ । २ । २ -- ११ ।
सौतिरुवाच ।
“शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः ।
समन्तपञ्चकाख्यञ्च श्रोतुमर्हथ सत्तमाः ॥
त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृत्मंवरः ।
असकृत् पार्थिवं क्षत्त्रं जघानामर्षचोदितः ॥
स सर्व्वं क्षत्त्रमुत्साद्य स्ववीर्य्येणानलद्युतिः ।
समन्तपञ्चके पञ्च चकार रौधिरान् ह्नदान् ॥
स तेषु रुधिराम्भःसु ह्नदेषु क्रोधमूर्च्छितः ।
पितॄन् सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥
अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् ।
राम राम महाभाग प्रीताः स्मस्तव भार्गव ॥
अनया पितृभक्त्या च विक्रमेण तव प्रभो ।
वरं वृणीष्व भद्रन्ते यमिच्छसि महाद्युते ॥
राम उवाच ।
यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि ।
यच्च रोषाभिभूतेन क्षत्त्रमुत्सादितं मया ॥
अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः ।
ह्नदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥
एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन् ।
तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह ॥
तेषां समीपे यो देशो ह्नदानां रुधिराम्भसाम् ।
समन्तपञ्चकमिति पुण्यं तत् परिकीर्त्तितम् ॥”
अस्यान्यद्विवरणं परशुरामशब्दे द्रष्टव्यम् ॥ *)
राघवः । श्रीरामचन्द्रः स च पूर्णब्रह्मस्वरूपः
अयोध्याधिपतिदशरथराजतनयत्वेन त्रेतायुग-
शेषे रावणादिवधार्थमवतीर्णः । बलदेवः । स
तु अनन्तदेवो विष्णोरंशः यदुवंशीयवसुदेव-
पुत्त्रत्वेन द्वापरयुगान्ते कंसादिवधार्थमवतीर्णः ।
(यथा, भागवते । १ । ११ । १७ ।
“निशम्य प्रेष्ठमायान्तं वासुदेवो महामनाः ।
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥”)
त्रयो रामा यथा, --
“अघोरश्चाथ बाणश्च महाकालौ प्रकीर्त्तितौ ।
भार्गवो राघवो गोपस्त्रयो रामाः प्रकीर्त्तिताः ॥”
इति वह्निपुराणम् ॥ * ॥
वरुणः । घोटकः । पशुभेदः । इति मेदिनी ।
मे, २६ ॥ (रम् + भावे घञ् । रतिः । यथा,
भागवते । ७ । ६ । १४ ।
“सर्व्वत्र तापत्रयदुःखितात्मा
निर्व्विद्यते न स्वकुटुम्बरामः ॥”
“स्वकुटुम्बे रामो रतिर्यस्य ।” इति तत्र
श्रीधरस्वामी ॥) रामशब्दस्य व्युत्पत्तिर्यथा, --
“राशब्दो विश्ववचनो मश्चापीश्वरवाचकः ।
विश्वानामीश्वरो यो हि तेन रामः प्रकीर्त्तितः ॥
पृष्ठ ४/१४७
रमते रमया सार्द्धं तेन रामं विदुर्ब्बुधाः ।
रमाणां रमणस्थानं रामं रामविदो विदुः ॥
रा चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः ।
लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः ॥
नाम्नां सहस्रं दिव्यानां स्मरणे यत् फलं लभेत् ।
तत् फलं लभते नूनं रामोच्चारणमात्रतः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
(तथा च अध्यात्मरामायणे । १ । ३ । ४४ ।
“यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे ।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि ॥”
एतत्कृतराक्षसवधवृत्तान्तं विचार्य्य यदुक्तं
रामानुजेन तदाह । “अत्र युद्धदिवसगणनायां
कतकतीर्थौ । पूर्व्वं सुवेलारोहणदिने ।
‘ततोऽस्तमगमत् सूर्य्यः सन्ध्यया प्रतिरञ्जितः ।
पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्त्तते ॥’
इत्युक्तेस्तद्दिनं चतुर्द्दशीपूर्णिमान्यतरदिति
स्पष्टम् । ततः कृष्णप्रतिपदि युद्धारम्भस्तस्या-
मेव रात्रौ नागपाशबन्धतद्विमोक्षौ । द्बिती-
यायां धूम्राक्षवधः । तृतीयायां वज्रदंष्ट्रस्य ।
चतुर्थ्यामकम्पनस्य । पञ्चम्यां प्रहस्तस्य ।
षष्ठ्यां रावणभङ्गः । सप्तम्यां कुम्भकर्ण-
वधः । अष्टम्यामतिकायादेः । नवम्यामिन्द्र-
जितो ब्रह्मास्त्रप्रयोगः । दशम्यां दिवा
निकुम्भवधः । तद्रात्रौ मकराक्षवधः । एका-
दश्यादित्रयोदश्यन्तदिनत्रयेण इन्द्रजिद्वधः ।
चतुर्द्दश्यां मूलबलवधः । अमायां रावणयुद्धा-
रम्भतद्वधाविति पञ्चदशदिनानि सर्व्वं युद्ध-
मिति । अत्रेदं वक्तव्यम् । केयं कृष्णप्रतिपत्
माघकृष्णस्य वा चैत्रकृष्णस्य वा । नाद्यः चैत्रे
पुष्यानक्षत्रेऽयोध्यातो वनं प्रति रामस्य प्रस्थान-
मिति स्पष्टमयोध्याकाण्डे । चैत्रे पुष्यश्च शुक्ल-
पक्ष एव तत्रापि नवम्यादिदिनत्रये एवेति
स्पष्टमेव ज्योतिषादौ । तत्र नवमीरिक्तात्वाद-
भिषेकायोग्या दशम्येव तु पूर्णत्वाद्योग्या ।
एवञ्च चैत्रशुक्लदशम्यां प्रस्थानम् । तत्र माघ-
कृष्णामायां युद्धसमाप्तौ तदुत्तरपञ्चम्यां भर-
द्वाजाश्रमगमनम् ।
‘पूर्णे चतुर्द्दशे वर्षे पञ्चम्यां लक्षणाग्रजः ।
भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥’
इति वक्ष्यमाणत्वात् । तत्र न च चतुर्द्दशवर्ष-
समाप्तिरिति भगवतः प्रतिज्ञाहानिः । पूर्णे
चतुर्द्दशे वर्षे इत्युक्तेरसङ्गतिश्च । युद्धोत्तरं
तावत्कालं लङ्कायामवस्थानस्यालाभाच्च । चैत्र-
शुक्लपञ्चम्यां तत्रागमनेऽपि पञ्चदिनन्यूनतैवेति
तद्धानिस्तदवस्थैव । तदुत्तरद्वितीयदिने एवायो-
ध्याप्रवेशस्य लाभात् । अमान्तमानेन चैत्रकृ-
ष्णोत्तरपञ्चम्यां तदाश्रमगतावपि चतुर्द्दशवर्षतो
बहुदिनाधिक्येन चतुर्द्दशवर्षसमाप्तिदिनेऽयोध्या-
नागमे “मया प्राणा हेया” इति भरतप्रतिज्ञा-
हानिः । सा च प्रतिज्ञा चित्रकूटे रामसन्निधा-
वित्ययोध्याकाण्डान्ते स्पष्टम् । एतेन चैत्रकृष्ण-
प्रतिपदि युद्धारम्भस्तच्छुक्लप्रतिपदि रावणसंहार
इति तीर्थोक्तश्चैत्रकृष्णस्येत्यन्त्योऽपि परास्तः ।
पूर्णिमान्तमानेन तिथिबद्धद्वादशमासैर्व्वर्षगणने
पञ्चदिनानां न्यूनत्वात् । अमान्तमानेन चैत्र-
कृष्णग्रहणे बहुदिनाधिक्यम् । सावनमानेन
षष्ट्युत्तरत्रिशता दिनैर्व्वर्षगणने तु तिथिबद्धवर्षात्
तत्र षड्दिनाधिक्येन चतुर्द्दशवर्षाणाञ्चतुरशी-
त्यहोरात्रवृद्ध्या बहुदिनन्यूनतैव । किञ्च महा-
भारते युधिष्ठिरवनवासे त्रयोदशवर्षमिते
किञ्चित्कालादर्व्वागेव तेषां प्राकट्ये दुर्य्योधनेन
तदसमाप्तौ एषां प्राकट्येन पुनस्तावत्पर्य्यन्तं
पुनरेतैर्वनवासः कर्त्तव्यो भविष्यतीति भीष्मं
प्रत्युक्ते भीष्मवाक्यं विराटपर्व्वणि ।
‘पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः ।
एषामप्यधिका मासाः पञ्च च द्वादशक्षपाः
त्रयोदशानां वर्षाणामिति मे धीयते मतिः ।
सर्व्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् ॥
एवमेतद्ध्रुवं ज्ञात्वा ततो वीभत्सुरागतः ।
सर्व्वे चैव महात्मानः सर्व्वे धर्म्मार्थकोविदाः ॥
येषां युधिष्ठिरो राजा कस्माद्धर्म्मेपराध्नुयुः ॥’
इति । एवञ्चेदृशव्यवहारनिबद्धद्वादशमासैरेव
वर्षगणना । अधिकमासगणना चोचितैव ।
एवञ्चाधिकमासगणनायां धर्म्माहानौ न्याय्यत्वे
च स्थिते कस्माद्रामस्तानुपेक्षेत । भरतो वा
तान्न गणयेत् । एवञ्चामान्तमानेन चतुर्द्दशी-
याश्विनकृष्णे । पूर्णिमान्तमानेन कार्त्तिककृष्णे
षष्ठ्यां तत्समाप्तिरित्यायाति । अन्यथा चैत्र-
शुक्लदशम्यामारब्धस्य वनवासस्य षष्ठ्यां चतु-
र्द्दशवर्षसमाप्तिर्न कथमप्युपपद्यते । तद्गणने तु
एकादशदिनन्यूनषण्णां मासानां चतुर्द्दशवर्षेषु
वृद्धावुपपद्यत एव सा । तस्मात् द्वादशसमाप्त्यु-
त्तरं त्रयोदशे किञ्चिद्व्यतीते अरण्यकाण्डोक्ता-
स्मद्रीत्या फाल्गुनाष्टम्यां रावणकृतसीताप-
हारः । ततश्चतुर्द्दशे किञ्चिद्ब्यतीते रामस्य
लङ्कासमीपगमनम् । वर्त्तते दशमो मासो द्बौ
तु शेषौ प्लवङ्गमेति सीतोक्तिः सावनमानेन
स्वहरणदिनतः कालगणनया । तत्र पूर्णचन्द्र-
प्रदीप्ता चेति रामोक्त्या पौषशुक्लचतुर्द्दश्यां पूर्णि-
मायां वा त्रिकूटशिखरप्राप्ती रामस्य । किञ्च
हनूमतो लङ्काप्रवेशोत्तरं सीतादर्शनकाले
हिमव्यपायेन च शीतरश्मिरभ्युत्थितो नैक-
सहस्ररश्मिरिति वाक्येन द्वौ मासौ रक्षितव्यौ
मे योऽवधिस्ते मया कृत इति रावणवाक्येन
मार्गशुक्लदशम्युत्तरं हनूमतो लङ्काप्रवेशो दिन-
द्वयान्तरे लभ्यते इति निरूपितं सुन्दरकाण्डे ।
ततो मार्गकृष्णाष्टम्यां राघवप्रस्थानस्यान्यत्रोक्त-
त्वेन पौषपूर्णिमात्वमेवोचितं तत्प्राप्तिदिनस्य ।
ततो दशपञ्चदिनानि सेनानिवेशदूतप्रेषणादिना
गतानि । ततो युद्धारम्भस्तत्र तदारभ्य भाद्र-
श्रावणोभयामान्तं लङ्कापुराद् बहिः सेनयोः
सङ्कुलं युद्धम् । ततो बहुराक्षसक्षयेण भीता
राक्षसा लङ्कां प्रविष्टा इति तद्दिनेऽवहारः ।
तदुत्तरप्रतिपदि रात्राविन्द्रजित्कृतशरबन्ध
इत्यादि । अतएव शरबन्धबद्धराघवदर्शनकाले
सीतावाक्यम् । तीर्त्वा सागरमक्षोभ्यं भ्रातरौ
गोष्पदे हताविति । अनेन बहुदिनयुद्धे बहुषु
राक्षसेषु क्षयितेषु यूथपकतिपयरूपेऽत्यल्पाव-
शिष्टे सैन्ये तयोः शरबन्ध इति लभ्यते । तथा
अयं ते सुमहान् कालः शयानस्य महाबलेति
कुम्भकर्णम्प्रति रावणोक्त्या साम्प्रततन्निद्रायाः
षण्मासाधिकत्वप्रतीतेरप्येवमेवोचितम् । निरू-
पितञ्चैतत् प्राक् । सेतुबन्धादिवृत्तान्तं त्वं न
जानीषे इति कुम्भकर्णम्प्रति रावणोक्त्या पूर्व्व-
मन्त्रकरणोत्तरं मध्ये जागरणाभावस्य प्रतीतेः ।
किञ्च । शरबन्धनदिनं न कृष्णप्रतिपत् । तस्याः
पूर्णिमोत्तरत्वेन सम्पूर्णरात्रौ चन्द्रसत्तया तस्मिं-
स्तमसि दारुणे इत्याद्युक्तेरसङ्गत्यापत्तेरतः सा
शुक्लप्रतिपद्वाच्या । एवञ्चामान्तपक्षमात्रं युद्ध-
मित्यस्यात्यन्तमसङ्गत्यापत्तिः । यत्तु अमायामेव
रावणवध इति तत्तु न युक्तम् । इन्द्रजिद्वधो-
त्तरम् ।
‘अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्द्दशीम् ।
कृत्वा निर्य्याह्यमावास्यां विजयाय बलैर्वृतः ॥’
इति रावणम्प्रति सुपार्श्वस्योक्त्या । चतुर्द्दश्यां
रावणप्रेषितबलवधोत्तरममायां निर्गतरावणेन
रामलक्षणयोर्युद्धे रात्रौ लक्ष्मणस्य शक्ति-
घातोत्तरं रावणलङ्काप्रवेशस्योक्ततया ततो
लक्ष्मणचिकित्सोत्तरं पुना रामरावणयुद्धस्य
वाल्मीकिनैव स्पष्टमुक्ततया तदसम्भवात् ।
किञ्च । आदित्यहृदयस्यादित्यं प्रेक्ष्य जप्त्वेद्रं
परं हर्षमवाप्तवानित्यनेन सूर्य्यदर्शनोत्तरं
जपस्योक्ततया रावणमरणोत्तरं स्थिरप्रभ-
श्चाभ्यभवद्दिवाकर इत्युक्त्या दिवा तद्बधप्रतीत्या
च चिरकालयुद्धोत्तरं लक्ष्मणे शक्तिघातस्य
तदथमोषधीपर्व्वतानयनस्य चोक्तत्वेनामारात्रौ
शक्तिघातप्रतीत्या रणाद्रावणापगमस्य प्रतीत्या
च तद्विरोधात् । तथा पाद्मे ।
‘ततो जज्ञे महायुद्धं सङ्कुलं कपिरक्षसाम् ।
मध्याह्ने प्रथमं युद्धं प्रारब्धं प्रतिपद्यभूत् ॥’
प्रतिपदि शुक्लप्रतिपदीत्यर्थः । उक्तयुक्तेः ।
‘ततो निशि समागम्य मायावी शक्रजिद् बली ।
बबन्ध नागपाशैस्तौ राधवौ च हरिव्रजान् ॥’
ततः चिरकालसङ्कुलयुद्धोत्तरम् । अन्यथा तस्यां
निशीत्येव वदेत् । अग्रे द्वितीयेऽह्नि षष्ठ्यामिति
चोक्त्या दारुणे तमसीति रामायणोक्त्या च
भाद्रश्रावणोभयमामोत्तरप्रतिपद्येतदिति बोध्यम् ।
‘वैनतेयस्तदाभ्येत्य तानि चास्त्राण्यमोचयत् ।
द्वितीयेऽहनि धूम्राक्षं हनूमान्निजघान वै ॥
तृतीयेऽह्निवज्रदंष्ट्रं खड्गाच्चिच्छेद चाङ्गदः ।
जघान हनूमान् भूयश्चतुर्थेऽहन्यकम्पनम् ॥
प्रहस्तं पञ्चमीतिथ्यां नीलश्चिच्छेदमूर्द्धनि ।
रावणः परिभूतोऽभूत् षष्ठ्यां रामेण धन्विना ॥
अथ लङ्केश्वरः खिन्नः कुम्भकर्णं सहोदरम् ।
शैलमुद्गरघाताश्वधावनाद्यैरबोधयत् ।
जघान तं कुम्भकर्णं रामः सप्तमवासरे ॥’
पृष्ठ ४/१४८
इदं बोधनं दिनद्वयेन । तं बोधितं कुम्भकर्णम् ।
सप्तमवासरे बोधनोत्तरं सप्तमवासरे इत्यर्थः ।
यत् तु बोधनं षष्ठ्यां रात्रौ सप्तम्याञ्चैतद्वध इति
तन्न । तदुत्थापने उक्तस्यातिप्रयासस्य रात्रि-
मात्रेणासम्भवात् । रावणमन्दिरगमनकाले
सूर्य्यप्रभया रावणमन्दिरस्यातिभास्वरत्ववर्ण-
नेन मन्त्रादिना सप्तम्यां युद्धासम्भवात् । इन्द्र-
जितो दिनत्रयेण वधोऽस्य यामषट्केनेत्यस्या-
सङ्गतत्वाच्च । एवञ्च भाद्रपूर्णिमायामेतद्वधः ।
‘जघान लक्ष्मणोऽन्येद्युरतिकायं दशास्यजम् ।
बबन्धान्येद्यु रिन्द्रारिर्ब्रह्मास्त्रेण नृपौ कपीन् ॥
हनूमता समानीतो महौषधमहीधरः ।
तस्यानिलस्पर्शवशात् सर्व्व एते समुत्थिताः ॥
अन्येद्युः कपिराट्कुम्भं निकुम्भं वायुजोऽवधीत् ।
तस्यां निशि रघुश्रेष्ठो जघान मकरेक्षणम् ॥
मायासीतावधञ्चक्रे शक्रजिद्रणमूर्द्धनि ।
तेन खिन्नोऽभवद्राम आश्वस्तो लक्ष्मणेन सः ।
त्रयोदशाहे सौमित्रिस्त्रिदिनं योधयन् बली ॥
जघान शक्रजेतारं रामध्यानेन हेतुना ॥’
अन्येद्युः अन्येषु दिवसेषु । अत्रातिकायग्रहणं
त्रिशिरोदेवान्तकनरान्तकमहोदरमहापार्श्वो-
पलक्षणम् । लक्ष्मणग्रहणमङ्गदहनूमतोरप्युप-
लक्षणम् । एवं षड्भिर्द्दिनैः षण्णां वधः ।
पूर्ब्बं क्रमेणैव तद्वधोक्तेः । अन्येद्युः सप्तम्याम् ।
पर्व्वतानयनमष्टम्याम् । अम्येद्युर्नवम्याम् । तस्यां
निशि नवमीरात्रौ तदन्ते मायासीतावधः ।
ततो दशमीचतुर्थयाममारभ्य त्रयोदशीचतुर्थ-
यामपर्य्यन्तमिन्द्रजिद्वधः ।
‘ततोऽवधीन्मूलबलञ्चतुर्द्दश्यां रघूद्वहः ।
दर्शेऽथ निर्य्ययौ राजा योद्धुं रामेण संयुगे ॥
चतुरङ्गबलैः सार्द्धं मन्त्रिभिर्द्दशकन्धरः ।
छत्रचामरसंयुक्तः सर्व्वाभरणभूषितः ॥
महारथगतो द्वारादुत्तरान्निर्य्ययौ बहिः ।
आगतो रक्षसां राजा ब्रह्मघ्नो देवकण्टकः ॥
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ।
तत्र युद्धं समभवद्वानराणाञ्च रक्षसाम् ॥
रामरावणयोश्चैव तथा सौमित्रिणा सह ॥
शक्तिञ्चिक्षेप संक्रुद्धः सोऽनुजं प्रति रावणः ।
वक्षसा धारयामास सौमित्रिस्तां वियद्गताम् ॥
तया स बाध्यमानः सन् पपात धरणीतले ॥
हनमता जीवितोऽभूदोषध्यानयनात् पुनः ।
ततः क्रुद्धो महातेजा राघवो राक्षसान्तकः ॥
जघान राक्षसान् सर्व्वान् शरैः कालान्तको-
पमैः ।
भयात् प्रदुद्रावं रणे लङ्कां प्रति निशाचरः ॥
जगद्वाममयं पश्यन्निर्व्वेदात् स्वगृहं विशत् ।
निकुम्भिलां ततः प्राप्य होमञ्चक्रे जिगीषया ॥
ध्वंमितं वानरेन्द्रैस्तदभिचारात्मकं रिपोः ।
पुनरुत्थाय पौलस्त्यो रामेण सह योधितुम् ॥
दिशं स्यन्दनसारुह्य राक्षसैर्निर्य्ययौ बहिः ॥’
ददं निर्गमनमाश्विनशुक्लप्रतिपदि ।
‘ततः शतमखो दिव्यं रथं हर्य्यश्वसंयुतम् ।
राघवाय स्वसूतेन प्रेषयामास भक्तिमान् ॥
तन्तु मातलिनानीतमारुह्य रथसत्तमम् ।
स्तूयमानः सुरगणैर्युयुधे तेन रक्षसा ॥
ततो युद्धमभूद्घोरं रामराघवयोर्म्महत् ।
सप्ताह्निकमहोरात्रं शस्त्रास्त्रैरतिभीषणैरिति ॥’
ततो मातलिरथागमनदिनोत्तरम् । एवञ्च
नवम्यां तद्बधः । तदुक्तं कालिकापुराणे ।
‘रामस्यानुग्रहार्थं वै रावणस्य वधाय च ।
रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा ॥
ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विनेऽसिते ।
जगाम नगरीं लङ्कां यत्रासीद्राघवः पुरा ॥’
आगत इति शेषः । इदञ्चागमनं रात्र्यन्ते
तदैव मातलिरथागमनम
‘तत्र गत्वा महादेवी तदा तौ रामलक्ष्मणौ ।
युद्धेन योजयामास स्वयमन्तर्हिताम्बिका ॥
राक्षसानां वानराणां जग्ध्वा सा मांसशोणि-
तम् ।
रामरावणयोर्युद्धं सप्ताहं सा न्ययीजयत् ॥
व्यतीते सप्तमे रात्रे नवम्यां रावणं ततः ।
रामेण घातयामास महामाया जगन्मयी ॥
यावत्तयोः स्वयं देवो युद्धकेलिमुदैक्षत ।
तावत्तु अष्टरात्राणि सर्व्वैर्द्देवैः सुपूजिता ॥
निहते रावणे वीरे नवम्यां सकलैः सुरैः ।
विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः ॥’
सकलैः सुरैरित्यस्य सहेति शेषः ।
‘रामरावणबाणैस्तु युद्धञ्चावेक्ष्य भीतिदम् ।
तृतीयायान्तु लङ्कायाः पूर्ब्बोत्तरदिशि स्थितम् ॥
स्वातिनक्षत्रयुक्तायां भीतं सुरबलं महत् ।
शान्त्यथ वारयामास देवेन्द्रो वचनाद्धरेः ॥’
शान्त्यर्थं भयशान्त्यर्थम् ।
‘ततस्तु श्रवणे नाथ दशम्यां चण्डिका शुभाम् ।
विसृज्य चक्रे शान्त्यर्थं बलनीराजनं हरिः ॥’
रिपुजनितभयशान्त्यर्थमित्यर्थः ।
‘नीराजितबलः शक्रस्तत्र रामं सलक्ष्मणम् ।
सम्भाष्य प्रययौ स्वर्गं सह देवैः शचीपतिः ॥
इति वृत्तं पुरा कल्पे मनोः स्वायम्भुवेऽन्तरे ।
पुरा कल्पे यथा वृत्तं प्रतिकल्पं तथैव तु ॥
प्रवर्त्तते स्वयं देवी दैत्यानां नाशनाय वै ।’
स्वायम्भुवमन्वन्तररूपे पुरा कल्पे इत्यर्थः ।
प्रतिकल्पं प्रतिमन्वन्तरमित्यर्थः । जलप्लवसामा-
न्येन तत्रापि कल्पव्यवहारात् ।
‘प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः ।
तथैव जायते युद्धं तथैव त्रिदशागमः ॥
एवं रामसहस्राणि रावणानां तथैव च ।
भवितव्यानि भूतानि तेषु देवी प्रवर्त्तते ॥
तां पूजन्ति सुराः सर्व्वे बलं नीराजयन्ति च ।
तथैव च नराः सर्व्वे कुर्य्युः पूजां यथाविधि ॥
बलनीराजनं राजा कुर्य्याद् बलविवृद्धये ॥’ इति ।
इयञ्च ब्रह्मबोधिता महादेवी अग्नौ प्रविष्टा
सीतैव भगवच्छक्तिरूपेति प्रतिभाति । अतएव
ब्रह्मवैवर्त्ते प्रथमेऽंशविभागे । प्रतिकल्पं विष्णो-
श्चरितं कीदृशमिति नारदप्रश्ने ब्रह्मवाक्यम् ।
‘स एव भगवान्नूनं प्रतिमन्वन्तरं मुने ! ।
वधाय दुष्टदैत्यानां भूमिभारकृतां भुवि ॥
कलिद्वापरयोः सन्धौ भविष्यति न संशयः ।
प्रतिकल्पं त्वेवमेव भविष्यति न संशयः ॥” इति ।
सहस्रकृत्वो रामोऽपि भविता ब्रह्मणो दिने
इति ब्रह्मवैवर्त्ते प्रथमविभागस्थे राधां प्रति
कृष्णवाक्ये । दिने इति जातावेकवचनम् ।
दिनेष्वित्यर्थः । पूर्ब्बं प्रतिमन्वन्तरमित्युक्तेः ।
प्रतिचतुर्युगं रामाद्यवतार इति तु न युक्तम् ।
चतुर्व्विंशतितमचतुर्युगे रामावतारस्याष्टा-
विंशतितमचतुर्युगे कृष्णावतारस्य हरिवंशे पुरा-
णान्तरे च प्रसिद्धत्वादिति दिक् । अग्निवेश्य-
रामायणमिति प्रसिद्धग्रन्थेषु ।
‘रामः पञ्चदशे वर्षे षड्वर्षामपि मैथिलीम् ।
उपयेमे त्वयोध्यायां द्वादशाब्दानुवास सः ॥
सप्तविंशतिमे वर्षे वनवासमकल्पयत् ।
अष्टादश तु वर्षाणि सीतायास्तु तदाभवन् ॥
त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि फलाशनः ।
पञ्चमे चित्रकूटे तु रामो वासमकारयत् ॥
अथ त्रयोदशे वर्षे पञ्चवट्यां महामनाः ।
रामो विरूपयामास घोरां शूर्पणखां वने ॥
ततो माघे सिताष्टम्यां मुहूर्त्ते वृन्दसंज्ञके ।
राघवाभ्यां विना सीतां जहार दशकन्धरः ॥’
माघे शुक्लचतुर्द्दश्यामिति पाठान्तरम् ।
‘मार्गशुक्लदशम्यान्तु वसन्तीं रावणालये ।
सम्पातिर्द्दशमे मासे आचख्यौ वानरेषु ताम् ॥
एकादश्यां महेन्द्राग्रात् पुप्लुवे शतयोजनम् ।
तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥
द्वादश्यां शिंशपावृक्षे हनूमान् पर्य्यवस्थितः ।
तस्यां निशायां सीतायां विश्वासालापसत्-
कथाः ॥
अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत ।
बधो ह्यक्षकुमारस्य वनविध्वंसनं तथा ॥
ब्रह्मास्त्रेण चतुर्द्दश्यां बद्धः शक्रजिता कपिः ।
वह्निना पुच्छयुक्तेन लङ्काया दहनं तथा ॥
पौर्णमासीं महेन्द्राद्रौ पुनरागमनं कपेः ।
मार्गासितप्रतिपदः पञ्चभिः पथि वासरैः ॥
पुनरागम्य षष्ठेऽह्नि ध्वस्तं मधुवनञ्च तैः ।
सप्तम्यां प्रत्यभिज्ञानदानं शुद्धिनिवेदनम् ॥
अष्टम्युत्तरफल्गुन्यां मुहूर्त्ते विजयाभिधे ।
मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य तु ।
वासरे सप्तमेऽम्भोधौ स्कन्धावारनिवेशनम् ॥
पौषशुक्लप्रतिपदस्तृतीया यावदम्बुधेः ।
उपस्थानं ससैन्यस्य राघवस्य बभूव ह ॥
विभीषणश्चतुर्थ्यां वै रामेण सह सङ्गतः ।
समुद्रतरणार्थाय पञ्चम्यां मन्त्र उद्गमः ॥
प्रायोपवेशनञ्चक्रे रामो दिनचतुष्टयम् ।
समुद्रवरलाभश्च सेतूपायप्रकीर्त्तनम् ॥
सेतोर्द्दशस्यामारम्भस्त्रयोदश्यां समापनम् ।
चतुर्द्दश्यां सुवेलाग्रे रामः सैन्यं न्यवेशयत् ॥
पौर्णमास्यां द्वितीयान्तं त्रिदिनैः सैन्यतारणम् ।
तृतीयाया दशम्यन्तं मन्त्रो गुल्मनिवेशने ॥
पृष्ठ ४/१४९
शुकसारणयोः सैन्यप्राप्तिरेकादशे दिने ।
माघे सितायां द्वादश्यां सैन्यसंख्या कृता तु वै ॥
सारणेन कपीनान्तु सारासारोपवर्णनम् ।
त्रयोदश्याद्यमां यावल्लङ्कायां दिवसैस्त्रिभिः ॥
रावणः सैन्यसंख्यानं रणायोत्साहनं तथा ।
ययावथाङ्गदो दौत्यं माघशुक्लादिवासरे ॥
माघशुक्लद्वितीयादिदिनैः सप्तभिरेव तु ।
रक्षसां वानराणाञ्च युद्धमासीत् सुदारुणम् ॥
माघशुक्लनवम्यान्तु रात्राविन्द्रजिता रणे ।
रामलक्ष्मणयोर्नागपाशैर्ब्बन्धो बभूव ह ॥
नागपाशविमोक्षार्थं दशम्यां गरुडोऽभ्यगात् ।
अत्रावहारः कथितो दशम्यादिदिनद्वयम् ॥
द्वादश्यामाञ्जनेयेन धूम्राक्षस्य वधः कृतः ।
त्रयोदश्यान्तु तेनैव निहतोऽकम्पनो रणे ॥
माघशुक्लचतुर्द्दश्यां यावत् कृष्णादिवासरम् ।
त्रिदिनेन प्रहस्तस्य नीलेन विहितोऽवधः ॥
माघासितद्वितीयायाश्चतुर्थ्यन्तन्त्रिभिर्द्दिनैः ।
रामेण तुमुले युद्धे रावणो द्रावितो रणात् ॥
पञ्चम्यास्त्वष्टमी यावद्रावणेन प्रबोधितः ।
कुम्भकर्णः समुत्तस्थौ तावद्युद्धञ्चतुर्द्दिनम् ॥
कुम्भकर्णो दिनैः षड्भिर्न्नवम्यास्तु चतुर्द्दशीम् ।
रामेण निहतो युद्धे बहुवानरभक्षकः ॥
अमावास्यादिने शोकादवहारो बभूव ह ।
फाल्गुनादिप्रतिपदश्चतुर्थ्यन्तदिनैस्ततः ॥
नरान्तकप्रभृतयो निहताः पञ्च राक्षसाः ।
पञ्चम्याः सप्तमी यावदतिकायवधस्त्र्यहात् ॥
अष्टम्या द्वादशी यावन्निहतौ दिनपञ्चकात् ।
निकुम्भकुम्भावूर्द्ध्वन्तु मकराक्षश्चतुर्द्दिनैः ॥
फाल्गुनस्य द्बितीयायां कृष्णे शक्रजिता
जितम् ।
तृतीयायास्तु सप्तम्यां हरयः पञ्चवासरात् ॥
ओषध्यानयने व्यग्रास्तदासीदवहारकः ।
तत्र त्रयोदशीं यावद्दिनैः षड्भिस्तु शक्रजित् ॥
लक्ष्मणेन हतो युद्धे विघ्नितोऽभिचरन् क्रमात् ।
चतुर्द्दश्यां दशग्रीवरणदीक्षाविधिः क्रमात् ॥
अमावास्यां ययौ वीरो युद्धाय दशकन्धरः ।
चैत्रशुक्लप्रतिपदः पञ्चमी दिनपञ्चकैः ॥
रावणस्य प्रधानानां युध्यतामभवत् क्षयः ।
चैत्रषष्ठ्यष्टमी यावन्महापार्श्वादिमारणम् ॥
चैत्रशुक्लनवम्यान्तु सौमित्रेः शक्तिभेदनम् ।
द्रोणाद्रिराञ्जनेयेन लक्ष्मणार्थमुपाहृतः ॥
दशम्यामवहारोऽभूद्रात्रौ युद्धं नृरक्षसोः ।
एकादश्यान्तु रामाय रथो मातलिसारथिः ॥
अष्टादशदिनै रामो द्वैरथे रावणं वधीत् ।
द्वादश्याः शुक्लपक्षस्य यावत् कृष्णचतुर्द्दशीम् ॥
माघशुक्लद्वितीयायाश्चैत्रकृष्णचतुर्द्दशीम् ।
अष्टाशीतिदिनं युद्धं मध्ये पञ्चदशाहकम् ॥
युद्धावहारः संग्रामस्त्रिसप्ततिदिनान्यभूत् ।
संस्कारो रावणादीनाममावास्यादिनेऽभवत् ॥
वैशाखादितिथौ रामः सुवेलं पुनरागतः ।
अभिषिक्तो द्बितीयायां लङ्काराज्ये विभीषणः ॥
सीताशुद्धिस्तृतीयायां देवेभ्यो वरलम्भनम् ।
वैशाखस्य चतुर्थ्यान्तु रामः पुष्पकमास्थितः ॥
पूर्णे चतुर्द्दशे वर्षे पञ्चम्यां माधवस्य तु ।
भरद्वाजाश्रमं रामः ससीतः पुनरागमत् ॥
नन्दिग्रामे तु षष्ठ्यां वै भरतेन समागमः ।
सप्तम्यामभिषिक्तोऽसावयोध्यायां रघूत्तमः ॥
जानकी रामसहिता रावणस्य निवेशने ।
मनुमासान् स्थिता पञ्चदशवासरसंयुतेति ॥’
यत्तु सर्व्वांशे अनिश्चितप्रामाण्यम् । कालिका-
पुराणादिविरोधात् । इदं कल्पान्तरविषयमिति
न युक्तम् । तद्बिरोधादेव । तस्मात् क्रियाविरोधे
पुराणेषु उपसंहार एव न्याय्यः । शाखा-
न्तरोक्ताङ्गोपसंहारवत् । यथा कुम्भकर्णवधो-
ऽत्र रामेणोक्तो भारते लक्ष्मणेन तादृशे विषये
न तु कल्पभेदेन व्यवस्था । जन्मविषये एव तु
हरिवंशोक्ता सेति बोध्यम् ।” इति श्रीरामायण-
तीलके लङ्काकाण्डे ११० सर्गः ॥) तस्य परि-
पूर्णतमत्वं यथा, --
“सर्व्वे चांशकलाः पुंसः कृष्णस्तु भगवान्
स्वयम् ।
परिपूर्णतमो रामी ब्रह्मशापात् स्वविस्मृतः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११६ अध्यायः ॥
अथ श्रीराममन्त्राः ।
“अनन्तोऽग्न्यासनः सेन्दुर्ब्बीजं रामाय हृन्मनुः ।
षडक्षरोऽयमादिष्टो भजतां कामदो मनुः ॥” *
तस्य तारकब्रह्ममन्त्रो यथा, --
“सर्व्वेषां राममन्त्राणां मन्त्रराजः षडक्षरः ।
तारकब्रह्म चेत्युक्तं तेन पूजा प्रशस्यते ॥”
तन्मन्त्रश्च रां रामाय स्वाहा । इति रामा-
र्च्चनचन्द्रिकायाम् ४ पटलः ॥ अस्य पूजा-
प्रयोगः । प्रातःकृत्यादि वैष्णवोक्तपीठन्यासान्तं
कर्म्म विधाय ऋष्यादिन्यासं कुर्य्यात् । शिरसि
ॐ ब्रह्मणे ऋषये नमः । मुखे गायत्त्रीच्छन्दसे
नमः । हृदि श्रीरामाय देवतायै नमः । ततः
कराङ्गन्यासौ । रां अङ्गुष्ठाभ्यां नमः । रीं
तर्ज्जनीभ्यां स्वाहा । रूं मध्यमाभ्यां वषट् । रैं
अनामिकाभ्यां हुम् । रौं कनिष्ठाभ्यां वौषट् ।
रः करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु ।
ततो मन्त्रन्यासः । ब्रह्मरन्ध्रे रां नमः । भ्रूमध्ये
रा नमः । हृदि मा नमः ॥ नाभौ य नमः ।
लिङ्गे न नमः ॥ पादयोर्म नमः । ततो मूर्त्ति-
पञ्जरादिविधिं विधाय देवं ध्यायेत् ।
“कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं
भजे ॥”
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं
कुर्य्यात् । ततः पीठपूजां विधाय वैष्ण-
वोक्तपीठशक्तीः पीठमनुञ्च संपूज्य पुनर्ध्यात्वा
वाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाया-
वरणपूजामारभेत् । यथा देववामपार्श्वे श्रीं
सीतायै नमः । अग्रे ॐ शार्ङ्गाय नमः ।
दक्षिणवामपार्श्वयोः ॐ शरेभ्यो नमः । ॐ
चापाय नमः तद्बहिः केशरेषु अग्न्यादिकोणेषु
मध्ये दिक्षु च रां हृदयाय नमः । इत्यादिना
षडङ्गानि पूजयेत् । ततो दलेषु पूर्ब्बादिदिक्षु
ॐ हनुमते नमः । ॐ सुग्रीवाय नमः । ॐ
भरताय नमः । ॐ विभीषणाय नमः । ॐ
लक्ष्मणाय नमः । ॐ अङ्गदाय नमः । ॐ शत्रु-
घ्नाय नमः । ॐ जाम्बुवते नमः । दलाग्रेषु
ॐ सृष्टाय नमः । ॐ जयन्ताय नमः । ॐ
विजयाय नमः । ॐ सुराष्ट्राय नमः । ॐ राष्ट्र-
वर्द्धनाय नमः । ॐ अकोपाय नमः । ॐ धर्म्म-
पालाय नमः । ॐ सुमन्त्राय नमः । तद्बहि-
रिन्द्रादीन् वज्रादींश्च पूजयेत् । ततो धूपादि-
विसर्ज्जनान्तं कर्म्म समापयेत् ॥ * ॥ अस्य
पुरश्चरणं षड्लक्षजपः । तथा च ।
“ऋतुलक्षं जपेन्मन्त्रं दशांशं कमलैः शुभैः ।
जुहुयादर्च्चिते बह्नौ ब्राह्मणान् भोजयेत्ततः ॥”
अयं मन्त्रः षड्विधः । तथा च ।
“स्वकामशक्तिवाक्लक्ष्मीताराद्यः पञ्चवर्णकः ।
षडक्षरः षड्विधः स्यात् चतुर्व्वर्गफलप्रदः ॥
ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्त्तिरुच्यते ।
अगस्त्यः श्रीशिवः प्रोक्तो मुनयोऽत्र क्रमादिमे ॥
अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ।
छन्दो गायत्त्रीसंज्ञञ्च श्रीरामश्चैव देवता ॥
ध्यानपूजादिकं सर्व्वं पूर्व्ववच्च समाचरेत् ॥”
तथा ।
“जानकीवल्लभं ङेऽन्तं वह्नेर्जाया हुमादिकम् ।
दशाक्षरोऽयं मन्त्रः स्याद्वशिष्ठस्तु ऋषिर्विराट् ॥
छन्दस्तु देवता रामः सीतापाणिपरिग्रहः ।
आद्यं बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥
शिरोललाटभ्रूमध्यतालुकण्टेषु हृद्यपि ।
नाभ्यूरुजानुपादेषु दशवर्णान् न्यसेन्मनोः ॥” * ॥
ततो ध्यानम् ।
“अयोध्यानगरे चित्ररत्नसौवर्णमण्डपे ।
मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥
सिंहासनसमारूढं पुष्पकोपरि राघवम् ।
रक्षोभिर्हरिभिर्दैवैर्दिव्ययानगतैः शुभैः ॥
संस्तूयमानं मुनिभिर्गन्धर्व्वैः परिशोभितम् ।
सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥
श्यामं प्रसन्नवदनं सर्व्वाभरणभूषितम् ।
ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥”
अन्यत् सर्व्वं पूर्ब्बवत् ॥ * ॥
“वह्निर्नारायणेनाढ्यो जठरः केवल एव च ।
द्ब्यक्षरो मन्त्रर जोऽयं सर्व्वाभीष्टफलप्रदः ॥
श्रीमाया मन्मथैकैकबीजाद्यन्तगतो मनुः ।
चतुर्व्वर्णः स एव स्यात् षड्वर्णो वाञ्छितप्रदः ॥
स्वाहान्तो हुं फडन्तो वा नमोऽन्तो वा
भवेन्मनुः ॥”
तथा ।
“तारमायारमानङ्गवाक्स्वबीजैस्तु षड्विधः ।
त्र्यक्षरो मन्त्रराजः स्यात् सर्व्वाभीष्टफलप्रदः ॥
पृष्ठ ४/१५०
द्व्यक्षरश्चन्द्रभद्रान्तो चन्द्रोऽयं चतुरक्षरः ।
रामाय हृन्मनुः प्रोक्तो मन्त्रः पञ्चाक्षरः परः ॥
पञ्चाशन्मातृकावर्णः प्रत्येकपूर्ब्बको मनुः ।
लक्ष्मीवाक्मन्मथादिश्च ताराद्यः स्यादनेकधा ॥
तेन अं राम । आं राम । इत्यादि त्र्यक्षरः ।
तथा लक्ष्मीवाक्मन्मथादीनामन्यतमदानेऽपि
त्र्यक्षरः । तेन श्रीं राम । ऐं राम । क्लीं
राम इति ।
“वह्निस्थं शयनं विष्णोरर्द्धचन्द्रविभूषितम् ।
एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥
ब्रह्मा मुनिः स्याद्गायत्त्री च्छन्दो रामस्तु
देवता ॥” * ॥
एकाक्षरे तु द्वादशलक्षजपः पुरश्चरणम् ।
तथा च । भानुलक्षं जपेन्मन्त्रं इति वचनात्
अन्येषां षड्लक्षजप इति विशेषः । ध्यानपूजा-
दिकं षडक्षरवत् ॥ * ॥ अथ श्रीरामचन्द्र-
प्रयोगः ।
“जातीप्रसूनैर्ज्जुहुयादिन्दिरावाप्तये नरः ।
जातीप्रसूनैर्ज्जुहुयाच्चन्दनाम्भःसमुक्षितैः ॥
राजवश्याय कमलैर्धनधान्यादिसम्पदः ।
नीलोत्पलानां होमेन वशयेदखिलं जगत् ॥
विल्वप्रसूनैर्ज्जुहूयादिन्दिरावाप्तये नरः ।
दूर्व्वाहोमेन दीर्घायुर्भवेन्मन्त्री निरामयः ॥
रक्तोत्पलहुतान्मन्त्री धनमाप्नोति वाञ्छितम् ।
मेधाकामेन होतव्यं पलाशकुसुमैर्न्नरैः ॥
तज्जप्तमम्भः प्रपिबेत् कविर्भवति वत्सरात् ।
तन्मिश्रितान्नं भुञ्जीत महदारोग्यवर्द्धनम् ॥” * ॥
अथ श्रीरामचन्द्रस्तोत्रम् ।
श्रीहनूमानुवाच ।
“तिरश्चामपि राजेति समवायं समीयुषाम् ।
यथा सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥
सकृदेव प्रपन्नाय विशिष्टायैव यत् प्रियम् ।
विभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥
यो महान् पूजितो व्यापी महाब्धेः करुणा-
मृतम् ।
स्तुतं जटायुना येन महाविष्णुं नमाम्यहम् ॥
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः ।
प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥
सर्व्वतोमुखता येन लीलया दर्शिता रणे ।
राक्षसेश्वरयोधानां तं वन्दे सर्व्वतोमुखम् ॥
नृभावन्तु प्रपन्नानां हिनस्ति च यथा नृषु ।
सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥
यस्माद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः ।
भियं धिनोति पापानां भीषणं तं नमाम्यहम् ॥
परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् ।
ददात्येव निजौदार्य्याद्यस्तं भद्रं नमाम्यहम् ॥
यो मृत्युं निजदासानां मारयत्यखिलेष्टदः ।
तत्रोदाहृतयो बह्व्यो मृत्युमृत्युं नमाम्यहम् ॥
यत्पादपद्मप्रणतो भवेदुत्तमपूरुषः ।
तमीशं सर्व्वदेवानां नमनीयं नमाम्यहम् ॥
आत्मभावं समुत्क्षिप्य दास्येनैव रघूत्तमम् ।
भजेऽहं प्रत्यहं रामं ससीतं सहलक्षणम् ॥
तित्यं श्रीरामभक्तस्य किङ्करा यमकिङ्कराः ।
शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥
इदं हनूमता प्रोक्तं मन्त्रराजात्मकं स्तवम् ।
पठेदनुदिनं यस्तु स रामे भक्तिमान् भवेत् ॥”
इति हणूमत्कल्पे मन्त्रराजात्मकं श्रीरामचन्द्र-
स्तोत्रं समाप्तम् ॥ * ॥ अथ श्रीरामचन्द्रस्याष्टो-
त्तरशतकं नाम ।
वेदव्यास उवाच ।
“शृणु गाङ्गेय वक्ष्यामि रामस्याद्भुतकर्म्मणः ।
नामाष्टशतकं पुण्यं त्रिषु लोकेषु विश्रुतम् ॥
नातः परतरं गुह्यं त्रिषु लोकेषु विद्यते ॥
कैलासशिखरे रम्ये नानारत्नविचित्रिते ।
एकाग्रप्रयतो भूत्वा विष्णुमाराध्य भक्तितः ॥
उपविष्टस्ततो भोक्तुं पार्व्वतीं शङ्करोऽब्रवीत् ।
पार्व्वत्येहि मया सार्द्धं भोक्तुं भुवनवन्दिते ॥
तमाह पार्व्वती देवी जप्त्वा नाम सहस्रकम् ।
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो ॥
ततस्तां पार्व्वतीं प्राह प्रहसन् परमेश्वरः ॥
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्व्वती ।
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि ॥
रकारादीनि नामानि शृण्वतो मम पार्व्वति ।
मनः प्रसन्नतामेति रामनामाभिशङ्कया ॥
रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि ।
इति रामपदेनासौ परं ब्रह्माभिधीयते ॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनामभिस्तुल्यं रामनाम वरानने ॥
रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्द्धं मयाधुना ।
ततो रामेति नामोक्त्वा सह भुक्त्वा च पार्व्वती ॥
ततो भुक्त्वा महादेवी पतिना सह संस्थिता ।
पप्रच्छ श्रीमहादेवं प्रीतिप्रवणमानसा ॥
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम् ।
तस्यान्यान्यपि नामानि सन्ति चेद्रावणद्बिषः ।
कथ्यतां मम देवेश तत्र मे प्रीतिरुत्तमा ॥
श्रीशङ्कर उवाच ।
शृणु नामानि वक्ष्यामि रामचन्द्रस्य पार्व्वती ।
लौकिका वैदिकाः शब्दा ये केचित् सन्ति
पार्व्वति ॥
नामानि रामचन्द्रस्य सहस्रं तेषु चाधिकम् ।
तेषु चात्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् ॥
विष्णोरेकैकनामानि सर्व्ववेदाधिकं फलम् ।
तादृङ्नामसहस्रेषु रामनाम परं मतम् ॥
जपतः सर्व्ववेदांश्च सर्व्वमन्त्रांश्च पार्व्वति ।
तस्मात् कोटिगुणं पुण्यं रामनाम्नैव लभ्यते ॥
अस्य श्रीरामनामाष्टोत्तरशतनामस्तोत्रस्य इश्वर
ऋषिरनुष्टुप् छन्दः श्रीरामचन्द्रो देवता श्रीराम-
चन्द्रप्रीत्यर्थं जपे विनियोगः ।
श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्द्दनः ।
विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः ॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ॥
कौशलेयः खरध्वंसी विराधवधपण्डितः ।
विभीषणपरित्राता दशग्रीवशिरोहरः ॥
सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः ।
जामदग्न्यमहादर्पदमनस्ताडकान्तकः ॥
वेदान्तसारोऽमेयात्मा भववैद्यश्च भेषजः ।
दूषणत्रिशिरोहन्ता त्रिमूर्त्तिस्तिगुणस्त्रयी ॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः ।
त्रिलोकीरक्षको धन्वी दण्डकारण्यपुण्यकृत् ॥
अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितलोभो जगत्गुरुः ॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्त्रसेवितः ॥
सर्व्वदेवाधिदेवश्च मृतवानरजीवनः ।
मायामारीचहन्ता च महाभागो महाभुजः ॥
सर्व्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥
सर्व्वपुण्याधिकफलस्तीर्थः सर्व्वाघनाशनः ।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥
पुण्योदयो दयासारः पुराणः पुरुषोत्तमः ।
स्मितवक्त्रो मितभाषी पूर्णभाषी च राघवः ॥
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः ।
मायामानुषचारित्रो महादेवाभिपूजितः ॥
सेतुकृत् जितवारीशः सर्व्वतीर्थमयो हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्द्धरः ॥
सर्व्वयज्ञाधिपो यज्ञो जरामरणवर्ज्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्व्वाघगणवर्ज्जितः ॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परं ज्योतिः परं धाम पराकाष्ठा परात्परः ।
परेशः पारगः पारः सर्व्ववेदात्मकः शिवः ॥
इत्येतद्रामभद्रस्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्त्तितम् ॥
यः पठेत् शृणुयाद्वापि भक्तियुक्तेन चेतसा ।
स सर्व्वैर्मुच्यते पापैः कल्पकोटिसमुद्भवैः ॥
जलानि स्थलतां यान्ति शत्रवो यान्ति मित्र-
ताम् ।
राजानो दासतां यान्ति वह्नयो यान्ति सौम्य-
ताम् ॥
आनुकूल्यञ्च भूतानि स्थैर्य्यं यान्ति चलाः स्त्रियः ।
अनुग्रहं ग्रहा यान्ति शान्तिमायान्त्युपद्रवाः ॥
पठतो भक्तिभावेन जनस्य गिरिसम्भवे ।
यः पठेत् परया भक्त्या तस्य वश्यं जगत्त्रयम् ॥
यद्यत् कामयते चित्ते तत्तदाप्नोति कीर्त्तनात् ।
यः पठेद्रामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥
अज्ञानेनापिं कुर्व्वाणो न स पापैर्विलिप्यते ।
पुण्यकालेषु सर्व्वेषु पठनानन्त्यमाप्नयात् ॥
सर्व्ववेदेषु तीर्थेषु दानेषु च तपःसु च ।
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ॥
पुण्यकालेषु सर्व्वेषु पठन्नामशताष्टकम् ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
वैकुण्ठे वासमाप्नोति दशपूर्ब्बैर्दशापरैः ।
रामं दूर्व्वादलश्यामं पद्माक्षं पीतवाससम् ॥
स्तुवन्ति नामभिर्दिव्यैर्न ते सांसारिणो नराः ।
पृष्ठ ४/१५१
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
इमं मन्त्रं महेशानि ! जपन्नेव दिवानिशम् ।
सर्व्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नु यात् ॥
इत्येतद्रामभद्रस्य माहात्म्यं वेदसम्मतम् ।
कथितं तव गाङ्गेय यतस्त्वं वैष्णवोत्तमः ॥
वन्दामहे महेशानं हरकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥”
इति पद्मपुराणे उमामहेश्वरसंवादे श्रीराम-
चन्द्राष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥ * ॥
(अस्य विराड्मूर्त्तिकथनं यथा, अध्यात्मरामा-
यणे । ३ । ९ । ३० -- ५४ ।
गन्धर्व्व उवाच ।
“स्तोतुमुत्सहते मेऽद्य मनो रामातिसम्भ्रमात् ।
त्वामनन्तमनाद्यन्तं मनोवाचामगोचरम् ॥
सूक्ष्मं ते रूपमव्यक्तं देहद्बयविलक्षणम् ।
दृग्रूपमितरं सर्व्वं दृश्यं जडमनात्मकम् ॥
तत्कथं त्वां विजानीयाद्व्यतिरिक्तं मनः प्रभो ।
बुद्ध्यात्माभासयोरैक्यं जीव इत्यभिधीयते ॥
बुद्ध्यादिसाक्षी ब्रह्मैव तस्मिन् निर्व्विषयेऽखिलम् ।
आरोप्यतेऽज्ञानवशान्निर्व्विकारेऽखिलात्मनि ॥
हिरण्यगर्भस्ते सूक्ष्मं देहं स्थूलं विराट् स्मृतम् ।
भावनाविषयो राम सूक्ष्मं ते ध्यातृमङ्गलम् ॥
भूतं भव्यं भविष्यच्च यत्रेदं दृश्यते जगत् ।
स्थूलेऽण्डकोशे देहे ते महदादिभिरावृते ॥
सप्तभिरुत्तरगुणैर्वैराजो धारणाश्रयः ।
त्वमेव सर्व्वकैवल्यं लोकास्तेऽवयवाः स्मृताः ॥
पातालं ते पादमूलं पार्ष्णिस्तव महातलम् ।
रसातलं ते गुल्फौ तु तलातलमितीर्य्यते ॥
जानुनी सुतलं राम ! ऊरू ते वितलं तथा ।
अतलञ्च मही राम ! जघनं नाभिगं नभः ॥
उरःस्थलं ते ज्योतींषि ग्रीवा ते मह उच्यते ॥
वदनं जनलोकस्ते तपस्ते शङ्खदेशगम् ।
सत्यलोको रघुश्रेष्ठ ! शीर्षण्यास्ते सदा प्रभो ॥
इन्द्रादयो लोकपाला बाहवस्ते दिशः श्रुती ।
अश्विनौ नासिके राम वक्त्रं तेऽग्निरुदाहृतः ॥
चक्षुस्ते सविता राम मनश्चन्द्र उदाहृतः ।
भ्रूभङ्ग एव कालस्ते बुद्धिस्ते वाक्पतिर्भवेत् ॥
रुद्रोऽहङ्काररूपस्ते वाचश्छन्दांसि तेऽव्यय ।
यमस्ते दंष्ट्रदेशस्थो नक्षत्राणि द्विजालयः ॥
हासो मोहकरी माया सृष्टिस्तेऽपाङ्गमोक्षणम् ।
धर्म्मः पुरस्तेऽधर्म्मश्च पृष्ठभाग उदीरितः ॥
निमिषोन्मेषणे रात्रिर्दिवा चैव रघूत्तम ! ।
समुद्राः सप्त ते कुक्षिर्नाड्यो नद्यस्तव प्रभो ॥
रोमाणि वृक्षौषधयो रेतो वृष्टिस्तव प्रभो ।
महिमा ज्ञानशक्तिस्ते एवं स्थूलं वपुस्तव ।
यदस्मिन् स्थूलरूपे ते मनः सन्धार्य्यते नरैः ।
अनायासेन मुक्तिः स्यादतोऽन्यन्नहि किञ्चन ॥
अतोऽहं रामरूपं ते स्थूलमेवानुभावये ।
यस्मिन् ध्याते प्रेमरसः सरोमपुलको भवेत् ॥
तदैव मुक्तिः स्याद्राम यदा ते स्थूलभावकः ।
तदप्यास्तां तवैवाहमेतद्रूपं विचिन्तये ॥
धनुर्बाणधरं श्यामं जटावल्कलभूषितम् ।
अपीव्यवयसं सीतां विचिन्वन्तं सलक्ष्मणम् ॥
इदमेव सदा मे स्यान्मानसे रघुनन्दन ।
सर्व्वज्ञः शङ्करः साक्षात् पार्व्वत्या सहितः सदा ॥
तद्रूपमेवं सततं ध्यायन्नास्ते रघूत्तम ।
मुमूर्षूणां सदा काश्यां तारकं ब्रह्मवाचकम् ॥
राम रामेत्युपदिशन् सदा सन्तुष्टमानसः ।
अतस्त्वं जानकीनाथ परमात्मा सुनिश्चितः ॥
सर्व्वे ते मायया मूढास्त्वां न जानन्ति तत्त्वतः ।
नमस्ते रामभद्राय वेधसे परमात्मने ॥
अयोध्याधिपते तुभ्यं नमः सौमित्रसेवित ।
त्राहि त्राहि जगन्नाथ मां माया नावृणोतु
ते ॥” * ॥)
अथ श्रीरामकवचम् ।
“ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोच-
नम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥
सासितूणधनुर्ब्बाणपाणिं नक्तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्व्वकाम-
दाम् ॥”
अस्य श्रीरामचन्द्रकवचस्य बुधकौशिकऋषि-
र्गायत्त्री च्छन्दः श्रीरामचन्द्रो देवता श्रीराम-
चन्द्रप्रीत्यर्थं जपे विनियोगः ।
ॐ शिरो मे राघवः पातु भालं दशरथा-
त्मजः ।
कौशलेयो दृशौ पातु विश्वामित्रप्रियः श्रुती ॥
घ्राणं पातु मखत्राता मुखं सौमित्रवत्सलः ।
जिह्वां विद्यानिधिः पातु कण्ठौ भरतवन्दितः ॥
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्म्मुकः ।
करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ॥
वक्षः पातु कबन्धारिः स्तनौ गीर्ब्बाणवन्दितः ।
पार्श्वौ कुलपतिः पातु कुक्षिमिक्षाकुनन्दनः ॥
मध्यं पातु खरध्वंसी नाभिं जाम्बुवदाश्रयः ।
गुह्यं जितेन्द्रियः पातु पृष्ठं पातु रघूद्वहः ॥
सुग्रीवेशः कटिं पातु शक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्त्री विजयी विनयी भवेत् ।
पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्ट्रुमपि शक्तास्ते रक्षितं रामनामभिः ॥
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिञ्च विन्दति ॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः करे धारयेत्तस्य करस्थाः सर्व्वसिद्धयः ॥
भूर्ज्जपत्रे त्विमां विद्यां गन्धचन्दनचर्च्चिताम् ।
कृत्वा वै धारयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥
रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ।
काकबन्ध्या च या नारी मृतापत्या च या
भवेत् ।
बह्वपत्या जीववत्सा सा भवेन्नात्र संशयः ॥
वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्व्वत्र लभते जयमङ्गलम् ॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां
हरिः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥
धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ शुभौ ।
वीरौ मां पथि रक्षेतां तावुभौ रामलक्ष्मणौ ।
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्त्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥
शरण्यौ सर्व्वसत्त्वानां श्रेष्ठौ सर्व्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥
आत्तसज्यधनुषाविषुस्पुशा-
वक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणा-
वग्रतः पथि सदैव गच्छताम् ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
यच्छन्मनोरथञ्चास्मान्रामः पातु सलक्ष्मणः ॥
अग्रतस्तु नृसिंहो मे पृष्ठतो गरुडध्वजः ।
पार्श्वयोस्तु धनुष्मन्तौ सशरौ रामलक्ष्मणौ ॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कृऔशलेयो रघूत्तमः ॥
वेदान्तवेद्यो यज्ञेशः पुराणः पुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥
आपदामपहन्तारं दातारं सर्व्वसम्पदाम् ।
गुणाभिरामं श्रीरामं भूयो भूयो नमाम्य-
हम् ॥
दक्षिणे लक्ष्मणो धन्वी वामतो जानकी शुभा ।
पुरतो मारुतिर्यस्य तं नमामि रघूत्तमम् ॥
एतानि मम नामानि मद्भक्तो यः सदा स्मरेत् ।
अश्वमेधायुतं पुण्यं स प्राप्नोति न संशयः ॥”
इति पद्मपुराणे बज्रपञ्जरनामाख्यं श्रीराम-
कवचम् । इति तन्त्रसारः ॥

रामकरी, स्त्री, रामकली रागिणी । इति हला-

युधः ॥ (क्वचित् रामकिरीत्यपि पाठः । यथा,
सङ्गीतदर्पणे रागाध्याये ।
अथ रामकिरी ।
“षड्जग्रहांशकन्यासा पूर्णा रामकिरी मता ।
मूर्च्छना प्रथमा ज्ञेया करुणे सा प्रयुज्यते ॥
रिधत्यक्ताथवा प्रोक्ता कैश्चित् पञ्चमवर्जिता ।
त्रिविधा सा समुद्दिष्टा सम्पूर्णा षाडवौडवा ॥”
अस्या ध्यानम् ।
“हेमप्रमा भासुरभूषणा च
नीलं निचोलं वपुषा वहन्ती ।
कान्ते समीपे कमनीयकण्ठा
मानोन्नता रामकिरी मतेयम् ॥”
उदाहरणम् ।
स रि ग म प घ नि स । सम्पूर्णा ॥
अथवा
स ग म प नि स । औडवा ॥
अथवा
स रि ग म ध नि स । साडवा ॥
इति रामकिरी ॥)
अस्य अन्यत् विवरणं रागशब्दे द्रष्टव्यम् ॥