शब्दकल्पद्रुमः/मुखबन्धनं

विकिस्रोतः तः
Jump to navigation Jump to search
ॐ ब्रह्म
सत्यात् नास्ति परो धर्म्मः ।

शब्दकल्पद्रुमः[सम्पाद्यताम्]

अर्थात्
एतद्देशस्थसमस्तकोषाशेषशास्त्रसङ्कलिताकारादिवर्णक्रमविन्यस्तशब्द-तल्लिङ्ग-नानार्थ-पर्य्याय-प्रमाण-प्रयोग-धातु-तदनुबन्धाभिधेय-
सहित-तत्तच्छब्दप्रसङ्गोत्थित-वेद-वेदाङ्ग-वेदान्त-न्याय-पुराणेतिहास-सङ्गीत-शिल्प-सूपकारशास्त्र-ज्योतिष-
तन्त्राख्यान-काव्यालङ्कार-च्छन्दःप्रभृतिनाम-लक्षणोदाहरण-द्रव्यगुण-रोगनिदानौषध-
स्मृत्युक्तव्यवस्थादिसंयुक्त-सर्वदर्शनमतानुसारि-संस्कृताभिधानग्रन्थः ।

स्यार-राजा-राधाकान्तदेव-बाहादुरेण्[सम्पाद्यताम्]

विरचितः
पाणिनिमतानुसारि-प्रत्येकशब्दव्युत्पत्ति-मूलग्रन्थातिरिक्तबहुलशब्दार्थ-प्रमाण-प्रयोग-पर्य्याय-धातुपदोदाहरणादिभिः
नूतनसङ्कलितबहुलशब्द-तदर्थ-तत्प्रमाण-प्रयोगादिसहित-
सुप्रशस्तपरिशिष्टेन च सार्द्धम् ।
श्रीवरदाप्रसाद-वसुना तदनुजेन श्रीहरिचरण-वसुना च्[सम्पाद्यताम्]
अशेषशास्त्रविशारदकोविदवृन्दसाहाय्येन संपरिवर्द्धितः नागराक्षरैः प्रकाशितश्च ।
प्रथमो भागः[सम्पाद्यताम्]
कलिकाता-राजधान्यां
व्याप्तिस्तमिसनयन्त्रे मुद्रितः, ७१ न० पाथुरियाघाट-स्थितभवनात् प्रकाशितश्च । शकाब्दाः १८०८ । [फगॆ-३३२+ १]

मुखबन्धनं ।[सम्पाद्यताम्]

तत्रादौ मङ्गलाचरणश्लोकाः ।
योऽद्वैतसच्चिदानन्दपरब्रह्मेति कीर्त्तितः ।
उपासकानां कार्य्यार्थं कृपया पञ्चधाभवत् ॥
शक्तिः शिवस्तथा सूर्य्यो गणेशो विष्णुरेव च ।
अशेषविघ्ननाशाय भक्तिश्रद्धासमन्वितः ॥
साष्टाङ्गं तं प्रणम्यादौ शिष्टाचारानुसारतः ।
राजावाहादुरोपाधि-श्रीराधाकान्त-देवजः ॥
परेषामुपकाराय शब्दकल्पद्रुमाभिधं ।
कोषं नव्यक्रमयुतं कृतवान् बहुयत्नतः ॥
ग्रन्थसमाप्तौ मङ्गलाचरणवीजं ।
संस्कृतग्रन्थानामेतादृशी रीतिः सर्व्वत्र प्रचलिता यन्मङ्गलाचरण-श्लोकानुक्रमणिकादिकं ग्रन्थादावेव लेखनीयं भवितुमर्हति । किन्त्वस्मिन् कोषे
तन्नाचरितं । तस्यैतत्कारणं । उक्तश्लोकादि-रचन-प्रागेव प्रथम-काण्डादि-मुद्राङ्कन-समापनमात्रेण तल्लिप्सवो स्वदेशविदेशीयमहात्मानः पुनः पुनः
प्रार्थयित्वा सर्व्वमेव गृहीतवन्तः । इदानीं एतत्कोषस्य प्रथमादिकाण्डं नोपस्थितं । तेन हेतुना एतन्मङ्गलाचरणादि-रूप-मुखबन्धनं शेषकाण्डपुरोवत्ति
कृतं । किन्त्वेतद्ग्रन्थारम्भे अथ शब्दकल्पद्रुमो मुद्र्यते इति लिखनेन मङ्गल-वाचकाथ-शब्दप्रयोगादेव एतत्कोषस्य मङ्गलाचरण-सिद्धिर्जाता । तदुक्तं
श्राद्धतत्त्व-धृतश्रुतौ, --

“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकाबुभौ” ॥

ग्रन्थरचनप्रयोजनं ।
अष्टादशसंख्यकासु शास्त्रीयभाषासु संस्कृतभाषा गीर्व्वाणवाणी । अतः सव्वात्कृष्टा सर्व्वत्र समरूपा सर्व्वजनमान्या च । देवैरृषिभिश्च तद्भाषया
अष्टादशविद्याः प्रणीताः । किन्त्वस्मिन् भारतवर्षे उक्तविद्या-सम्बन्धि-पारिभाषिक-शब्दादीनां प्रकाशक-कोषो न प्राप्यते । ते च तत्तद्भाष्य-टीकादिभिरेव
चरितार्था भवन्ति । किञ्च महा-महोपाध्यायैः प्राचीन-नवीन-कवि-कोविदगणैः पद्येन पर्य्यायनानार्थ-युक्त-बहुविधाभिधानरचना कृता । किन्तु तत्तद्-
ग्रन्थीयैकार्थ-शब्दसंग्रहस्य वर्गस्मरणाभावात् प्रयोजनीय-पर्य्याय-शब्दप्राप्तिः सुदुष्करी । एवं अनेकार्थ-शब्दसंग्रहस्य एकादि-षडक्षर-पर्य्यन्त-कान्तादि-
हान्तशब्द-निवद्ध-निखिल-श्लोकानां पाठव्यतिरेकेण प्रार्थनीय-नानार्थ-शब्द-निर्गमोऽतिदुर्गमश्च । विशेषतः तत्तदेकैक-कोषे समग्र-शब्दार्थयोर्लाभाभावः ।
इत्यादि-दोषमहमालोच्य परोपकाराय पठद्दशावधि-वर्त्तमानकाल-पर्य्यन्तं बहुतरपरिश्रमै-र्धीरवर-निकर-साहाय्यैरेतद्देशप्राप्य-समस्तकोष-वेद-वेदा-
न्तवेदाङ्गभाष्य-व्याकरण-च्छन्दोज्योतिष-साहित्य-नाटक-काव्यालङ्कार-वैद्यक-सङ्गीत-न्याय-सांख्य-पातञ्जल-वैशेषिक-मीमांसा-स्मृति-पुराणेतिहास-तन्त्रा-
गम-निगम-शिल्प-सूपकार-नीतिशास्त्र-कुलाचार्य्य-गोस्वामि-ग्रन्थादिभ्यः शब्दसमूहं संगृह्य कविकल्पद्रुम-नामक-धातुपाठ-ग्रन्थात् धातुनिवहञ्च
सङ्कलय्य सकलशब्द-धात्वर्थानामनायासेन लाभार्थं विना पद्येन वर्णव्यवस्याक्रमेण शब्दकल्पद्रुमाभिधानाभिनवाभिधानं कृतवान् । इमं सप्तकाण्डा-
त्मक-वृहत्कोषं स्वीयकोष-व्ययेन मुद्राङ्कयित्वा मुद्राव्यतिरेकेणनानादिग्देशीय-विशिष्ट-पात्रेभ्यो बन्धुवर्गेभ्यो याचकेभ्यश्च दत्तवान ॥
ग्रन्थस्य नामकारणं ।
एतत्कोषस्य शब्दकल्पद्रुम-नाम-करण-कारणमेतत् । स्वर्गीय-कल्पद्रुम-सन्निधाने यो यत् प्रार्थयते तस्य तत्प्राप्ति-र्भवत्येव । मत्कृतमर्त्त्यीय-
शब्दकल्पद्रुम-समीपे यानि यानि समीहित-शब्दादीनि प्रार्थयन्ते तानि तान्यवश्यं प्राप्नुवन्ति । अतः कल्पवृक्ष-सादृश्यमेव नामकारणं । प्राचीनसंग्रहकृ-
द्भिरपि स्वकृतग्रन्थानां कल्पद्रुम-कल्पतरु-कल्पलता-प्रभृति नामधेयं कृतं । तत्सदृशार्थक-कामधेनु-चिन्तामण्यादि-पुस्तकानि च प्रचलन्ति एतद्ग्रन्थस्य
वृक्षरूपकत्वात् अस्य स्वण्डस्य काण्डेति संज्ञां कृतवान् ॥
अथ ग्रन्थपरिपाटी ।
अतः परमहमेतत्कोषस्यानुक्रमं विशेष-नियमञ्च विवृणोमि । निखिलाभिधानिक-शास्त्रिक-लौकिक-व्यवहारिक-साधुशब्दानां धातुगणानाञ्च
झटिति प्राप्तये तेषामानुपूर्व्विकाकारादि-क्षकारान्त-पञ्चाशद्वर्णानां यथाक्रमं सूचीं कृत्वा विन्यासमकुर्व्वं । तत्र प्रथमं स्वरवर्णादिशब्दानां परे हलवर्णादि-
शब्दानां शेषे युक्ताक्षरादि-शब्दानाञ्च वर्णक्रमेणैव यथास्थानं प्रथमा-विभक्त्यन्तत्वेन संस्थापनमकार्य्यं । पदसाधने येषामन्त्याक्षराणां विकारो लोपो
वा अभवत् ते वर्णास्तत्तच्छब्दोपरि विन्यस्ताः । अनुस्वार-विसर्गाणां षोडश-स्वरान्तर्गतत्वेन तदुभयवदाद्य-वर्णयुक्त-शब्दान् स्वरवर्णस्थलाभिषिक्तान् चकार ।
तत्पश्चात् प्रत्येक-शब्दस्य लिङ्गं प्रत्येक-धातोरनुबन्धञ्च निर्णीतवान् । येषां धातूनामनुबन्धो नास्ति तत्स्थानं विन्दुयुक्तमथवा शुन्यमास्ते । तदनन्तरं
सकल-शब्दानामर्थवाचक-पदानि प्रथभाविभक्त्यन्तत्वेन एवं समस्त-धात्वर्थवाचक-पदानि सप्तमीविभक्त्यम्तत्वेन लिखितानि । प्रत्येक-प्रसिद्ध-शब्दोत्तरं

तदीयपर्य्यायाः देशभाषाश्च तथा प्रत्येक-धात्वर्थानन्तरं तट्टीका धातुदीपिकोक्तव्याख्यापदादीनि विहितानि सर्व्वशेषे तेषां प्रमाणानि तदभावे तत्प्रयोगाः
तद्विरहे तद्व्युत्पत्ति-र्लिखिता ॥
वर्णमालायां च वर्ग्य-जकारान्तःस्थयकारौ मूर्द्धन्य-णकार-दन्त्यनकारौ वर्ग्यवकारान्तःस्थवकारौ तालव्यशकार-मूर्द्धन्यषकारदन्त्यसकाराः सन्ति ।
एतदखिल-वर्णादि-शब्दानां धातूनाञ्च प्रभेदं कृत्वा सूचीपूर्व्वकं यथास्थानं संस्थापनं कृतवान् । वङ्गदेशे उक्तवर्णानामुच्चारण-भेदाभावः । विशेषतो वकार-
द्वयस्याकारोच्चारणयोर्भेदो नास्ति पश्चिमादिदेशे वर्त्तते । किन्तु मुग्धबोधटीकायां दुर्गादासविद्यावागीशधृता वकार-भेदिकैकप्राचीनकारिकास्ति ।
सा यथा, --
“उदूटौ यत्र विद्येते यो वः प्रत्ययसन्धिजः । अन्तःस्थं तं विजानीयात्तदन्यो वर्ग्य उच्यते” ॥
एतत्कारिकया सकलवकार-प्रभेदो न भवति । इति हेतोरहं धातूनां शब्दाकरत्वादोष्ठ्यदन्त्य-वकारादिधातुद्वारा पदसाधनं कृत्वा बहु-प्रयत्नै-
र्वकारद्वय-भेदं प्रकाशितवान् रेफयुक्तवर्णन्तु रवर्णात् परं शब्द-सूचीमध्ये विन्यस्तवान् ॥
पूर्व्वतन-कोषकार-वर्गैः स्वस्वकोषे धातुसञ्चयो न कृतः शब्दमात्रसंग्रहः कृतः । किन्तु शब्दानामुत्पत्ति-स्थानं धातुः । अतएवाहं सर्व्वोत्तम-
वोपदेवीय-धातुपाठ-कविकल्पद्रुमात् (१७५४) चतुःपञ्चाशदधिक-सप्तदशशत-संख्यक-धातून् सङ्कलय्य एतत्कोषान्तर्गतान् कृतवान् । तत्र
१३२ अकारान्त धातवः । २४ आकारान्त-धातवः । १९ इकारान्त-धातवः । २५ ईकारान्त-धातवः । ३३ उकारान्त-धातवः । १३ ऊकारान्त-धातवः ।
२१ ऋकारान्त धातवः । १६ ॠकारान्त-धातवः । ६ एकारान्त-धातवः । २५ ऐकारान्त-धातवः । ५ ओकारान्त-धातवः । ५९ ककारान्त-धातवः ।
२१ खकारान्त धातवः । २७ गकारान्त-धातवः । २० घकारान्त-धातवः । ५० चकारान्त-धातवः । १९ छकारान्त-धातवः । ७२ जकारान्त-धातवः ।
३ झकारान्त धातवः । ७१ टकारान्त-धातवः । २३ ठकारान्त-धातवः । ७६ डकारान्त-धातवः । १ ढकारान्त-धातुः । ५० णकारान्त-धातवः ।
३१ तकारान्त धातवः । २८ थकारान्त-धातवः । ७९ दकारान्त-धातवः । ३७ धकारान्त-धातवः । २८ नकारान्त-धातवः । ६४ पकारान्त-धातवः ।
१५ फकारान्त धातवः । ४५ बकारान्त-धातवः । ३९ भकारान्त-धातवः । ३३ मकारान्त-धातवः । ३१ यकारान्त-धातवः । ४२ रान्त-धातवः ।
९३ लकारान्त धातवः । ६८ वकारान्त-धातवः । ३९ तालव्यशकारान्त-धातवः । ११६ मूर्द्धन्यषकारान्त-धातवः । ६५ दन्त्यसकारान्त-धातवः ।
५० हकारान्त-धातवः । ४२ सौत्र-धातवः सन्ति । एषां मध्ये संख्याया एकष्ठकारान्त-धातुरेवमेको लकारान्त-धातुर्नास्ति । सौत्र-धातूनां नियत-प्रयोगाभावः ।
एतत्समुदाय-धातुर्गणभेदे विभक्तोभूतस्तस्माद्धेतोर्धातु-पाठस्य गणसंज्ञा अभवत् । तन्मध्ये प्रसिद्ध-गणा दश । अवान्तर-गणा अनेके विद्यन्ते । यथा, --
भ्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च । तुदादिश्च रुधादिश्च तनक्र्यादि-चुरादयः ॥
इति दुर्गादास-विद्यावागीश-कृत-कविकल्पद्रुम-टीका धातुदीपिका ॥ उक्तगणे वोपदेव-विप्रेण अकाराद्यादि-धातुपाठ-क्रमेण अकारान्तादि-धातु-
सकलं कथितवान् । किन्त्वहमेतत्क्रमानुगमनमकृत्वा निजकोष-रीत्यनुसारेण शब्दसूचीमध्ये धातुगणान् लिखितवान् ॥
साङ्केतिकवर्णचिह्नादीनां विवरणं ।
एतत्पुस्तकस्य प्रतिपत्रस्य प्रत्येक-पृष्ठ-मध्यस्थाने युग्मरेखा-प्रदानेन द्विभागं कृत्वा तद्भागद्वये शब्दादिर्लिखितः । तस्यान्तिम-शब्दादेर्व्वर्णं त्र्यक्षर-
पर्य्यन्तं उक्तभागद्वयोपरि विन्यस्तमभवत् । तदॄष्टिमात्रेण यदक्षर-पर्य्यन्त-शब्द-स्तत्पृष्ठारूढो भूतस्तद्वोधो भविष्यति । तेनेष्ट-शब्दानामनायासेन
लाभो भविता ॥
पुंलिङ्गस्य सङ्केतः “पुं” । स्त्रीलिङ्गस्य संक्षेपः “स्त्री” । क्लीवलिङ्गस्य चिह्नं “क्ली” । वाच्यलिङ्गस्य अर्थात् त्रिलिङ्गस्य लक्ष्म “त्रि” । एवम-
व्ययशब्दस्यैक-देशस्य “व्य” इत्यक्षरस्य ग्रहणं कृतं ॥
यस्मिन् स्थले एक-शब्द-घटकी-भूत-बहुवर्णाः पंक्तिद्वये पतितास्तज्ज्ञापनार्थं तत्प्रथमपंक्तिशेषे एका क्षुद्र-समरेखा (-) प्रदत्ता भूता ॥
एकार्थ-शब्दस्योत्तरं एवं प्रमाणस्य पूर्व्वं एका विषम-रेखा (।) प्रदत्ता । भिन्नार्थक-शब्दस्य एवं प्रमाणस्य परं विषम-रेखाद्वयं (॥) विन्यस्तं ।
प्रथमकाण्डे क्वचिदस्य व्यतिक्रमो जातः ॥
समानार्थक-द्वि-त्र्यादि-शब्देष्वेकस्थले उपस्थितेषु तदुत्तरं तज्ज्ञापकं एवम्प्रकार-वेष्टन-चिह्नं “}” दत्तं ॥
विशेषवृत्तान्तसमापनात् परं विशेष-शब्दार्थारम्भात् पूर्व्वञ्च पुष्पाकारचिह्नं (*) कृतं । एवं विस्तारित-विषयान्तर्गत-प्रकरणभेदस्थले पुष्पा-
कारेणाङ्कितं ॥
येषां प्रसिद्ध-शब्दानामुत्तरं तत्पर्य्याय-शब्दा लिखितास्तत्संख्यानामङ्कपातः कृतः । तत्रोक्त-प्रसिद्ध-शब्दमेकत्वेन गणयित्वा तत्पर्य्याये द्व्यादि-
संख्याङ्काः स्थापिताः ॥
पूर्व्वोदित-चतुःपञ्चाशदधिक-सप्तदशशत-धातूनां षट्चत्वारिंशदनुबन्धवर्णानां फलानि लिख्यन्ते ॥

  • अः -- अनुबन्धेषु मध्ये अकारः सुखोच्चारणार्थः । यथा धक्क नक्क क नाशने इति ॥
  • आः -- निष्ठाभावादि-कर्म्मवेट् । आकारेतो धातोर्भावे आदिकर्म्मणि च विहिताया निष्ठाया वा इटित्यर्थः । यथा इर्मिद्या स्नेहे भावादिढे वेति
मिन्न मेदितं तेन । प्रमिन्नः प्रमेदितः सः । भावादिकर्म्मभ्यामन्यत्र निष्ठाया न इम् इत्यर्थः । यथा आदित इति मिन्नः मिन्नवान् ॥
  • इः -- नुन्वान् । वदिङ् नुत्यभिवादयोः । अतएवेदितो नुन् वन्द्यते विष्णुः ॥
  • इर् -- वा आड्वान् । च्युतिर् क्षरणे इरितस्तु वेति अच्युतत् अच्योतीत् ॥
  • ईः -- अनिड्निष्ठः । दीपीङ् यृ दीपने । नेमडीश्वीति दीप्तः दीप्तवान् ॥
  • उः -- क्त्वावेट् । चमु भक्षणे । पु क्लिशुदित इम् इति चमित्वा चान्त्वा ॥
  • ऊः -- वेट्कः । यस्य सामान्यविधिना इम्विहितः ऊदितः परस्य तस्य वा इम् इत्यर्थः । षिधू शिवे शास्त्रे । वेमूदिदिति असेधीत् असैत्सीत् ॥
  • ऋः -- चङ्यह्रस्वः । चङि ञेः परे अङि परे अह्रस्वः ह्रस्वाभाववान् । यथा ढौकृङ्गत्यां । ञ्यङ्युङस्व इत्यत्र ऋदिद्वर्जनात् अडूढौकत् ॥
  • ॠः -- वा चङि अह्रस्वः इत्यनुवर्त्तते । कणृ आर्त्तस्वरे । भ्रज भ्रासेति अचीकणत् । अचकाणत् । येषां सप्तम-स्वरानुबन्धः कैश्चित् पठ्यते कैश्चिन्न
पठ्यते तेषां ह्रस्व-विकल्पनार्थोऽयमनुबन्धः ॥
  • ऌः -- अङ्वान् । औगमॢ गत्यां । शासॢद्युत्पुषादेरिति अगमत् ॥
  • एः -- सिचि अवृद्धिः । सिचि ट्यांविहितसौ । ए कट् वृतौ वृषि । हसादेः सेम इत्यत्र एदिद्वर्जनात् अकटीत् ॥
  • ऐः -- यजादिः स्यात् । यजै ञौ देवार्च्चने । व्यथग्रहेति जिः इयाज । ग्रहस्वपाद्योरिति इज्यात् ॥
  • ओः -- निष्ठातनः । निष्ठायास्तो निष्ठातः निष्ठातो नो यस्मात् स निष्ठातनः । रुजो शौ भङ्गे । सूल्वाद्योदिदिति रुग्नः रुग्नवान् ॥
  • औः -- अनिट् । औ गमॢ गत्यां । वसोरस्येत्यत्र औदिद्वर्जनात् गन्ता ॥
  • कः -- चुरादिः । गणत्क संख्याने । चुर्भ्यो ञिर्व्वेति गणयति ॥
  • किः -- चुरादिर्व्वा । पक्षे गणान्तरनियमाभावात् भ्वादिरित्यर्थः । युज कि संयमे योजयति योजति । यद्यपि चुरादिभ्यो ञिर्व्विकल्प्यते तथाप्य-
न्येषामनुरोधादिदमुक्तं । अन्येषां मते तु चुरादिभ्यो ञिर्नित्यः । तत्रापि युजप्रभृतिभ्यो वेति । स्वमते तु चुर्भ्यो ञिर्व्वेत्यत्र वाशब्दस्य व्यव-
स्यावाचित्वात् चुरादिभ्यो ञिर्नित्यः । अत्र युज-प्रभृतिभ्यो वेति ॥
  • गः -- क्यादिः । डु क्री ञ ग द्रव्यपर्य्यये । दिवसुतुदेति क्रीणाति ॥
  • गिः -- प्वादिरपि । अपिशब्दात् क्र्यादिश्च । पू ञ गि शोधे । प्वादेः स्व इतिह्रस्वः पुनाति । अपूः स ल्वादिः । पूवर्ज्जितः स प्वादिर्ल्वादिश्च स्यात् ।
लू ञगि छिदि लुनाति । सूल्वाद्योदिदिति लूनः लूनवान् । कॄ गॄ ज्या ग्लाहाल्वादेरिति लूनिः ॥
  • घः -- रुदादिः । लघिर रुद रोदे । रुद्भ्योऽयोहस्रस्येम इति रोदिति । रुदाद्यस्तीति ईम् अरोदीत् ॥
  • ङः -- तङ्वान् कर्त्तरि । कर्त्तरि वाच्ये तङ्वान् आत्मनेपदी । एध ङ वृद्धौ । नवशः पमे इति एधते ॥
  • जः -- ज्वलाद्यः । ज्वल ज्म चलत्विषोः । दूनीभूज्वलाद्येति णः ज्वालः । पक्षे पचादित्वादन् ज्वलः । एवं कुच ज रोधपर्क्ककौटिल्यलेखने । दूनीभू-
ज्वलाद्येति णः कोचः । पक्षे कॄ गॄ ज्ञा प्रीति कः कुचः ॥
  • झः -- ज्वलाद्यः । इति केचित् ॥
  • ञः -- आत्मने । आत्मने आत्मार्थं फलवति कर्त्तर्य्यात्मनेपदं अफलवति परस्मैपदमिति शेषः यज ञौ देवार्च्चायां यजते यजमानः यजति याजकः ।
चूरादेस्तु स्वार्थविहित-ञेर्ञकारेण ञित्वेऽपि उभयपदं न स्यात् अन्यथा स्यम ञक् वितर्के इत्यादे र्ञानुबन्धो व्यर्थः स्यात् ॥
  • ञिः -- अद्यक्तः । अद्य वर्त्तमाने क्तो यस्मात् स अद्यक्तः । ञि ष्ठा स्थाने । ज्ञार्च्चेच्छार्थञीच्छीलादेरिति स्थितो विष्णुस्तिष्ठतीत्यर्थः ॥
  • टुः -- साथुः । ट्वृ ङ वेप चलने । द्वितोऽथुरिति वेपथुः ॥
  • ठः -- फणादिः । इति केचित् ॥
  • डुः -- त्रिमग्युतः । कृ ञ द डु कृतौ । ड्वितस्तज्जे इति कृत्रिमं ॥
  • णः -- फणादिः । फण ण निस्नेहे । तृ फल भजेति फेणतुः पफणतुः फेणिथ पफणिथ ॥
  • तः -- अदन्तः । अदन्तानां पृथग्वर्गविधानेनैव ज्ञाने सिद्धे तानुबन्धोऽनभ्यासानामङ्कादिषु कान्तत्वादिभ्रमनिरासार्थः ।
  • दः -- तनादिः । तन दु ञ विस्तृतौ । तन्भ्यः शुविति तनोति । सेर्लुक् तथासोरिति अतत अतनिष्ट अतथाः अतनिष्ठाः । वनतनाद्यनिमामिति प्रतत्य ॥
  • धः -- रुधादिकः । रुधिर्धौ ञि ञ आवृतौ । दिवसु तुदेति रुणद्धि ॥
  • नः -- स्वादिः । षु ञ्ण सन्धाक्लेदपीडमन्थे । दिवसु तुदेति सुनोति ॥
  • पः -- मुचादिः । मुचॢ श प ञौ मोक्षे । नुण्रधोमुचामिति मुञ्चति ॥
  • भः -- शमादिः । शमुभिर्य शमे । यन्योशमादीति शाम्यति ॥
  • मिः -- घटादिः । निचिन्नमोर्दीर्घो वा । दीर्घो दीर्घवान् । घट य म ङ चेष्टे । ञीन्नमोस्तुर्घश्चेति अघटि अघाटि घटं घटं घाट घाटं । निचि
ह्रस्वः मोऽनुवर्त्तते । निचि ञौ ह्रस्वः ह्रस्ववान् । घटादि जनीति घटयति ॥
  • मिः -- वा । निचि ह्रस्व इत्यनुवर्त्तते । फण मि ण गतौ । वा सम यम फणेति फणयति फाणयति ॥
  • यः -- दिवाद्यः । दिव्यु जिगीषेच्छादौ । दिवसु तुदेति दीव्यति ॥
  • रः -- वैदिकः । वेदेष्वेव प्रयुज्यन्ते नतु भाषायामित्यर्थः । गार्लिस्तुतौ जन्मनि । जगाति ॥
  • लः -- अदादिकः । अद्लौ भक्षे । लुगद्भ्योऽपः अत्ति ॥
  • लिः -- ह्वादिः । ह्वादेरदाद्यन्तर्गणत्वेन ख्यातत्वाददादित्वसूचकानुबन्धो न कृतः । अथवा लुः स्वपादिश्च लिर्ह्वादिरित्येकं वाक्यं । लु लि एतदुभयानुबन्धौ
धातू क्रमात् स्वपादिह्वादीस्तः । चकारस्योभयत्र सम्बन्धाददादी चेत्यर्थः । ह्वादिः पृथक्मण इत्येके । अतएव पठन्ति च ।
“ह्वाद्यदादी जुहोत्यादिर्दिवादिः स्वादिरेव च । तुदादिश्च रुधादिश्च तनक्र्यादिचुरादयः” ॥ इति ।
हुलि होमेऽदने । ह्वादी रे द्विः जुहोति ।
  • लुः -- स्वपादिश्च । चकाराददादिश्च । स्वमते स्वपादेः प्रयोजनं नास्ति । दरिद्रतीत्यादौ स्वपादित्वादजादौ सार्व्वधातुके । आद्युदात्तत्वमिति वोपदेवः ॥
  • वः -- वृतादिः । वृत ङ व ॡ वर्त्तने । बृद्भ्योनेम पे इति तेनैव परस्मैपदे वर्त्स्यति विवृत्सति । आत्मनेपदे तु वर्त्तिष्यते विवर्त्तिषते । अन्यत्र विवर्त्तिषा
विवृत्सा ॥
  • शः -- तुदादिकः । तुदौ ञ श व्यथे । दिवसुतुदेति तुदति ॥
  • शिः -- कुटादिश्च । चकारात् तुदादिश्च । कुटां नुव्री ञ्निति इति नियमात् कुट शि कौटिल्ये इत्यादीनां अकुटीत् इत्यादौ न गुणः । णू शि स्तवने
इत्यादीनां अनुवीदित्यादिषु न वृद्धिः । अगुणत्वादुव् च ॥
  • षः -- कृदङवान् । आख्यातिकस्याङोऽप्राप्त्यर्थं कृदिति विशेषणं । स्वमते तूभयत्र ङ एव । डु ञौ श पच पाके । भीषि चिन्तीति पचा ॥
  • क्षः -- जक्षादिः । जक्ष क्ष लु घ भक्षहासयोः । द्विरुक्त जक्षादीति द्विसंज्ञायां शचन्तस्य व्रिदचोऽद्वेरिति न नुण् जक्षत् । क्लीवे जस्शसोस्तु द्वेः शतुर्नुण्
इति जक्षति जक्षन्ति । आख्यातिकेऽन्तोऽन्तो द्वेरिति जक्षति । अनुस् सिद्वेरिति अजक्षुः । इति धातुदीपिकायां अनुवन्धफलनिरूपणं ॥

आदिकोषविवरणं ।
सर्व्वेषां कोषाणामादि अग्निपुराणोक्ताभिधानं । तत्रादौ स्वर्गपातालादिवर्गः । ततोऽव्ययवर्गः । ततो नानार्थवर्गः । ततो भूपुराद्रिवनौषधिसिंहा-
दिवर्गाः । ततो नृब्रह्मक्षत्रविट्शूद्रवर्गाः । शेषे सामान्यानि नामलिङ्गानि सन्तीति मया दृष्टं । अमरसिंहस्तु उक्ताग्निपुराणीयाभिधानस्य कस्यचित्
कस्यचित् वर्गस्य व्यतिक्रमं कृत्वा तत्रोदित-सामान्य-नामलिङ्गानां विशेष्य-निघ्न-वर्गसङ्कीर्णवर्गाविति संज्ञां स्थापयित्वा अन्ते लिङ्गादिसंग्रहवर्गस्य योगं कृत्वा
स्वीयकोषं रचितवान् । एवं जटाधरोऽपि अमरकोषस्यानुकरणं कृतवान् । इति विरलप्रचारः ॥
प्राप्तकोषादिनामानि ।
अत्राभिधाने मत्प्राप्तयद्यत्कोषादितः शब्दादयः संगृहीतास्तेषां संज्ञाः पश्चाल्लिख्यन्ते ॥
अमरसिंहकृतं . . नामलिङ्गानुशासनं . १
अजयपालकृतः . . नानार्थसंग्रहः . . २
गदसिंहकृता . . नानार्थध्वनिमञ्जरी . ३
चक्रपाणिदत्तकृता . . शब्दचन्द्रिका . . ४
जटाधराचार्य्यकृतः . . पर्य्यायनानार्थकोषः . ५
दण्डाधिनाथकृता . . नानार्थरत्नमाला . ६
दुर्गादासविद्यावागीशकृता . धातुदीपिका . . ७
धनञ्जयकविकृता . . नाममाला . . ८
धरणिदासब्राह्मणकृतः . सारसंग्रहनामकानेकार्थसमुच्चयः ९
बरसिंहकाश्मीरपण्डितकृतः . निर्घण्टुराजः अर्थात् राजनिर्घण्टः १०
नारायणदासकविराजकृतः . राजवल्लभः . . ११
पद्मनाभदत्तद्विजकृतः . भूरिप्रयोगः . . १२
पुरुषोत्तमदेवकृतः . . एकाक्षरकोषः . . १३
तत्कृतः . . द्विरूपकोषः . . १४
पुरुषोत्तम देवकृतः . . त्रिकाण्डशेषः . . १५
तत्कृता . . हारावली . . १६
भावमिश्रकृतः . . भावप्रकाशः . . १७
मथुरेशपण्डितकृता . . शब्दरत्नावली . . १८
महेश्वरवैद्यकृतः . . विश्वप्रकाशः . . १९
मेदिनीकरवैद्यकृतः . . नानार्थशब्दकोषः . २०
रामेश्वरशर्म्मकृता . . शब्दमाला . . २१
रत्नमालाकरवैद्यकृता . आयर्वेदार्णवोत्थितपर्य्यायरत्नमाला २२
वोपदेवविप्रकृतः . . कविकल्पद्रुमः . . २३
श्रीनन्दनभट्टाचार्य्यकृतं . वर्णाभिधानं . . २४
श्रीरामशर्म्मकृतः . . उणादिकोषः . . २५
सिद्धान्तकौमुदीसंक्षिप्तसारकारकृते उणादिवृत्ती . २६२७
हलायुधभट्टकृता . . अभिधानरत्नमाला . २८
हेमचन्द्रजैनकृतः . . अभिधानचिन्तामणिः . २९
अप्राप्तकोषनामानि ।
एतद्भिन्नानेकप्राचीनाभिधानानि सन्ति । यद्यपि तानि मया अप्राप्तानि तथापि तेषां मध्ये बहुकोषाणां प्रयोगप्रमाणानि अमरटीकाधृतानि
आसादितानि । एवं विश्वमेदिनीकोषे तत्सकलाभिधानानां शब्दाः समाहृताः । उक्तकोषद्वयशब्दानां शब्दकल्पद्रुमाभ्यन्तरितत्वेन वक्ष्यमाणसमस्त-
प्राचीनकोषाणां शब्दाः एतत्कोषान्तर्गता भूताः ।
विश्वधृतप्राचीनकोषाः ।
भोगीन्द्र . . १
कात्यायन . . २
साहसाङ्क . . ३
वाचस्पति . . ४
व्याडि . . ५
विश्वरूप . . ६
मङ्गल . . ७
शुभाङ्क . . ८
वोपालित . . ९
भागुरिरचितकोषाः . १०
मेदिनीधृतप्राचीनकोषाः ।
उत्पलिनी . १
शब्दार्णवः . . २
संसारावर्त्तः . ३
नाममालाख्यः . ४
वररुचि . . ५
शश्वत् . . ६
रन्तिदेव . . ७
रत्नापरनामहर . ८
गोवर्द्धन . . ९
रभसपाल . . १०
रुद्र . . ११
अमरदत्त . . १२
गङ्गाधर . . १३
वाभट . . १४
माधव . . १५
धर्म्म . . १६
तारपाल . . १७
वामन . . १८
चन्द्र . . १९
विक्रमादित्य . २०
गोमिराचतकोषाः . २१
पाणिनिपदानुशासनञ्च . २२
एतदन्ये वलहड्डप्रभृतिकृतकोषाः सन्ति ॥
लब्धालब्धामरकोषटीकानामानि ।
अमरकोषश्च भृशप्रामाणिकः व्युत्पादकश्च । तस्मात् बहूतरटीकाकारैस्तस्य नानाविधा टीका कृता । तन्मध्ये कतिपयलब्धटीकानां प्रमाणानि
शब्दकल्पद्रुमे दत्तानि । किन्तु तत्समुदायटीकाकृन्नामानि टीकानामधेयानि चाहं व्यक्तीकरोमि ॥
क्षीरस्वामो . १
सुभूतिः . . २
हड्डचन्द्रः . . ३
कलिङ्गः . . ४
कोङ्कटः . . ५
सर्व्वधरः . . ६
राजदेवः . . ७
गोवर्द्धनः . . ८
द्राविडः . . ९
भोजराजः . . १०
माधवी . . ११
मधुमाधवी . . १२
सर्व्वानन्दः . . १३
अभिनन्द . . १४
मल्लिनाथः . . १५
रायमुकुटमणिः . १६
नीलकण्ठः . . १७
अरुणः . . १८
भगीरथः . . १९
जयादित्यः . . २०
कोलाहलाचार्य्यः . २१
शवरस्वामी . २२
रामतर्कवागीशः . २३
नयनानन्दः . . २४
विद्याविनोदः . २५
रघुनाथचक्रवर्त्ती . २६
व्याख्यामृतः . २७
टीकासर्व्वस्वः . २८
सन्देहभञ्जिका . २९
रामाश्रमापरनामभानुदीक्षित-
कृता व्याख्यासुधीः . ३०
अच्युतोपाध्यायकृतव्याख्या-
प्रदीपः . . ३१
मथुरेशविद्यालङ्कारकृता
सारसुन्दरी . ३२
नारायणचक्रवर्त्तिकृता पदार्थ-
कौमुदी . . ३३
रमानाथविद्यावाचस्पतिकृत-
त्रिकाण्डविवेक . ३४
भरतमल्लिककृता मुग्धवोध
सम्मता टीका . ३५
एतद्भिन्ना अपि टीका वर्त्तन्ते ॥
अत्राहृतविषयवृन्दं शब्दसिन्धुदुस्तरत्वञ्च विज्ञापयामि ।
कोषगणातिरिक्तनानाशास्त्रोक्तशब्दप्रमाणप्रयोगोपाख्यानादीनि । चातुर्वेदिकषाड्दर्शनिकमतविवरणपदार्थकर्म्मोपासनाज्ञानकाण्डब्रह्मनिरूपण-
वेदाङ्गशिक्षादीनि । शाब्दिककाव्यालङ्कारिकछान्दसिकसूत्रवृत्तिमात्रानामलक्षणोदाहरणचित्रकाव्यनवरसरतिवन्धादयः । श्रौतस्मार्त्तयज्ञमलमासादि-
लक्षणदायभागाशौचसंस्कारप्रायश्चित्तोद्वाहतिथिकृत्यजन्माष्टमीदुर्गोत्सवाष्टादशविवादपद-चतुष्पादव्यवहारैकादश्याद्यु पवासनिर्णयतडागभवनवृषोत्सर्गव्रतप्र-
तिष्ठापरीक्षाज्योतिःशुभाशुभदिनादिवास्तुयागदीक्षाह्निकाचारमासकृत्यपुरुषोत्तमादिमाहात्म्य श्राद्धशूद्रकृत्यकर्म्मविपाकद्वादशयात्राधिकरणदत्तकव्यवस्था-
दयः । पौराणिकतान्त्रिकवर्णतत्त्वषट्कर्म्मस्नानतर्पणपूजामुद्रामन्त्रयन्त्रजपहोमवलिध्यानस्तवकवचमाहात्म्यभुवनस्वर्गनरकदेतवादानवतीर्थावतारनदनदीदे-
शभेदपीठपर्वतवृक्षराजनीतिवर्णाश्रमधर्म्मवर्णसङ्करद्रव्यशुद्धिमहादाननिधिरत्नाद्युत्पत्तिसृष्टिप्रलयदुर्गपुरमन्दिरश्रीमूर्त्तिनिर्म्माणप्रमाणादीनि । ज्यौतिषिक-
सैद्धान्तिकवारतिथिनक्षत्रयोगकरणसंक्रान्तिमासर्त्तुपक्षवर्षायनजातफलाकालग्रहणनष्टचन्द्रधूमकेतुस्त्रीपुरुषादिशुभाशुभलक्षणशकुनस्वरोदयगणिताङ्कक्षेत्र-
व्यवहारराशिचक्रभुगोलखगोलदृग्गोलवर्णनादीनि । आयुर्वेदीयजन्मक्रमशारीरस्थानरोगनिदानपूर्वरूपसम्प्राप्त्युपशयचिकित्सौषधद्रव्यगुणपाचनजारणमा-
रणपथ्यापथ्यनाडीमूत्रजिह्बापरीक्षापञ्चकर्म्मष{??}सोत्पत्त्याख्यानादयः । मान्धर्ववेदीयनृत्यगीतवाद्यस्वरताललयतानमानग्रामश्रुतिमूर्च्छनारागरागिणीत-
त्पुत्त्रतद्भार्य्यागानसमयध्रुवकगमकनायकनायिकानिरूपणादीनि । युक्तिकल्पतरुग्रन्थीयनीतिद्वन्द्वनगरीवास्तुराजगृहविशेषसामान्यासनोपकरणालङ्कारास्त्र-
यात्रायुक्तयः तथा चतुष्पदद्विपदनिष्पदयानोद्देशाः । पत्रकौमुदीयपत्रप्रमाणभङ्गरचनलेखननयनपठनचिह्नकोणच्छेदनपदन्यास श्रीशब्दविन्यासप्रश-
स्तिप्रकरणादीनि । कुलाचार्य्यादिग्रन्थीयब्राह्मणवैद्यकायस्थानामुत्पत्तिवंशगोत्रप्रवरपर्य्यायश्रोत्रियकुलीनमौलिकगोष्ठीपतिनिर्णयादीनि च शब्दकल्पद्रुमस्य
सप्तकाण्डे मया समाहृतानि । यान्यवशिष्टानि तानि परिशिष्टे प्रवक्ष्यामि । तत्तद्ग्रन्थनामानि बाहुल्यभिया नोक्तानि । तथापि शब्दसमुद्रस्य
पारगमनं दुष्करतरं । तदुक्तं कलापमुग्धबोधटीकाधृतश्लोके ।
अहञ्च भाष्यकारश्च कुशग्रीयधियावुभौ । नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ॥

परिशिष्टकरणकारणम् ।[सम्पाद्यताम्]

अस्मिन् सप्तकाण्डात्मकशब्दकल्पद्रुमपुस्तके ये ये शब्दार्थप्रमाणप्रयोगादयः पूर्व्वं प्राप्त्यभाबेन न संगृहीताः । अथबा भ्रमवशात् पतिताः । एवं
यस्य यस्य रोगस्य निदानमात्रं लिखितं तत्तदौषधानि न विबृतानि । एवं येषां शब्दानां अमरातिरिक्तकोषोक्तपर्य्यायशब्दसङ्कलनं न कृतं । एवं
दीकारोत्तरक्षकारादिवर्णयुक्तकतिपयशब्दानां मुद्राङ्ककप्रमादेन स्खलनं जातं । एवं अकाराद्यादिबर्ग्यवकारादिपर्य्यन्तधातूनां तत्तट्टीकाधृतपदोदाहर-
णादयः पुरा न लिखिताः । एतत्सर्वमवशिष्टं परिशिष्टमध्ये लिपिबद्धीकरिष्यामि । अतःपरमेतत्परिशिष्टीयापुनरूक्तशब्दादीन् प्रानुदितसप्तका-
ण्डीयशब्दसूचीमध्ये यथास्थानं स्थापयित्वा ग्रन्थसमाप्तौ मङ्गलाचरणबीजं परिशिष्टकरणकारणञ्च हित्वा एतन्मुखबन्धनं प्रथमकाण्डस्य पूर्वं योजयित्वा
पुनर्मुद्राङ्कने कृते एष कोषः सुसम्पू र्णे भविष्यति । किञ्च पश्चिमदेशीयलोकानां महोपकाराय देवनागराक्षरेण एतत्कोषमुद्राङ्कनार्थं पाश्चात्या
मद्बन्धुवर्गा ममान्तिके बहुशः प्रार्थयन्ते । किन्तु तत्प्रार्थनापूरणे मदीयायुषोऽनुकूलतायां सन्दिहानो विवृत्तोऽस्मि । यद्यपि कश्चित् बिपश्चित्
किम्बा विषयी स्वीयलाभार्थं मत्कृतैतद्ग्रन्थाधिकारं यथारीति गृहीत्वा अस्मिन् कर्म्मणि प्रवर्त्तेत तत्र ममापत्तिर्नास्तीति ॥
शाके वह्निसमुद्रशैलधरणीमानेऽरुणे कर्कटे, याते खाग्निमिताब्दतः परमसौ मत्शब्दकल्पद्रुमः ।
काण्डैः सप्तभिरन्वितो भगवतोऽनुक्रोशतः, पूर्णतां प्राप्तो दूषणमस्ति किञ्चिदिह चेत् तत् क्षम्यतां साधुभिः ॥
अथ सर्व्वोपासकसम्मतमङ्गलाचरणोनविंशतिपद्यानि ।
वेदा वदन्ति यं सत्यमानन्दमद्वितीयकम् ।
तथामृतञ्चैकरूपमवाङ्मनसगोचरम् ॥
सर्वातीतं सर्वगतं चिदेकरसमेव च
देशकालापरिच्छिन्नमपादमपि शीघ्रगम् ॥
सर्वग्रहमपाणिञ्च सर्वेषां दर्शकं तथा ।
अचक्षुषमपि श्रोत्रहीनं श्रोतारकं पुनः ॥
अचिन्त्यमपि सर्वज्ञं सर्वेषाञ्च नियामकम् ।
सर्वशक्तियुतं सृष्टिस्थितिप्रलयकारकम् ॥ १ ॥
तथौपनिषदा यं हि शुद्धबुद्धस्वभावकम् ॥ २ ॥
कथयन्त्यादिविद्वांसं सिद्धं यं कापिला विदुः ॥ ३ ॥
क्लेशकर्म्मविपाकाशयापरामृष्टमेव यं ।
निर्म्माणकायमास्थाय सम्प्रदायप्रवर्त्तकम् ॥
तथानुग्राहकमपि प्रभाषन्ते पतञ्जलाः ॥ ४ ॥
लोकवेदविरुद्धैर्यं निर्लेपञ्च स्वतन्त्रकम् ॥
महापाशुपताः सर्वे ब्रुवन्ति सततं भुबि । ५ ।
शैवाः शिवं यं वदन्ति वैष्णवाः पुरुषोत्तमम् ॥ ६ । ७ ॥
पितामहमिति प्राञ्चः पौराणिकजना विदुः । ८ ।
याज्ञिका यज्ञपुरुषं सर्वज्ञमिति सौगताः ॥ ९ । १० ॥
निरावरणमित्येव प्रलपन्ति दिगम्बराः । ११ ।
यमुपास्यत्वरूपेण देशितं हि निरन्तरम् ॥
मीमांसका वै भाषन्ते चार्वाकाः प्रवदन्ति यं ।
लोकानां व्यवहारेण सिद्धं सन्ततमेव च ॥ १२ । १३ ॥
यावदुक्तोपपन्नं हि न्यायज्ञाः सम्प्रचक्षते । १४ ।
शिल्पिनो विश्वकर्म्मेति यं भणन्ति सुनिश्चितम् ॥ १५ ॥
शाक्ता वदन्ति यं नित्यामाद्याप्रकृतिरूपिणीम् । १६ ।
सौरास्तेजोमयं सूर्य्यं गाणपत्या गणेश्वरम् ॥ १७ । १८ ॥
रामानुजा यं वदन्ति विशिष्टाद्वैतबादिनः ।
लक्ष्मीनारायणं भक्ताधीनं नित्यशरीरिणम् ॥ १९ ॥
निम्बादित्यास्तथा माध्वाचार्य्याद्या द्वैतवादिनः ।
विष्णुं सशक्तिं सन्मूर्त्तिं यमाहुर्भक्तवत्सलम् ॥ २० ॥
रामानन्दा रामचन्द्रं भक्तानुग्रहकारकम् ।
सीतया सहितं प्रोचुर्यं नित्यं नित्यविग्रहम् ॥ २१ ॥
श्रीमन्माध्वानुयायि श्रीनित्यानन्दादिवंशजाः ।
गोस्वामिनो नन्दसूनुं श्रीकृष्णं प्रवदन्ति यं ॥ २२ ॥
कायेन मनसा वाचा भक्त्या च प्रणिपत्य तम् ।
श्रीराधाकान्तदेवेन राज्ञातिशययत्नतः ।
शब्दादीन्यवशिष्टानि संगृह्य बहुशास्त्रतः ।
परिशिष्टः शब्दकल्पद्रुमस्य क्रियतेऽधुना ॥
अथ ग्रन्थप्रतिज्ञानवश्लोकाः ।
शब्दकल्पद्रुमग्रन्थे मप्तकाण्डमयेऽखिले ।
येषामेव हि शब्दार्थपर्य्यावाणां तथैव च ॥
प्रमाणानां प्रयोगाणां धातुमम्बन्धिनां पुनः ।
पदोदाहरणानाञ्च चिकित्सानां गदस्य च ॥
न संग्रहोऽभवत् पूर्वग्रन्थे कारणकूटतः ।
तेषां सङ्कलनञ्चास्मिन् परिशिष्टे करोम्यहम् ॥
तथा वेदनिघण्टाख्यः पञ्चाध्यायसमन्वितः ।
वैदिकानाञ्च शब्दानामतिप्राचीनकोषकः ॥
तस्यात्र देशे विरलप्रचारत्वेन तद्धृतः ।
पर्य्यायशब्दसन्दोहः केनापि कोषकारिणा ॥
न संगृहीतस्तद्धेतोर्दुरूहोऽश्रुत एव च ।
प्रायो वैदिकशब्दार्थो बोधगम्यो भवेन्नहि ॥
अतस्तत्प्रथमाध्याये द्वितीये च तृतीयके ।
येषां स्थितानां शब्दानां पर्य्यायान् परिशिष्टगान् ॥
करिष्याम्यस्य निम्ने हि तेषां वर्गस्तु नाम च ।
तथा सङ्ख्या विलिख्यन्ते लोकानां ज्ञानहेतवे ॥
चतुर्थे पञ्चमाध्याये यदस्ति पदवृन्दकम् ।
तत्पर्य्यायस्य बोधस्य चाभावान्नात्र गृह्यते ॥
तत्र प्रथमाध्याये ४१४ नामानि यथा ।
वर्गः -- नाम -- सङ्ख्या
१ पृथिवीनामधेयानि .. २१
२ हिरण्यनामानि . . १५
३ अन्तरीक्षनामानि . १६
४ साधारणनामानि . ६
५ रश्मिनामानि . . १५
६ दिङ्नामानि . . ८
७ रात्रिनामानि . . २३
८ रात्र्युपनामानि . १६
९ अहर्नामानि . . १२
१० मेघनामानि . . ३०
११ वाङ्नामानि . . ५७
१२ उदकनामानि . १००
१३ नदीनामानि . . ३७
१४ अश्वनामानि . . २६
१५ आदिष्टोपयोजनानि १०
१६ ज्वलतिकर्म्माणः . ११
१७ ज्वलतो नामधेयानि ११
इति वेदनिघण्टौ प्रथमाध्यायः ॥

द्वितीयाध्याये ५१६ नामानि ।
वर्गः नाम सङ्ख्या
१ कर्म्मनामानि . . २६
२ अपत्यनामानि . १५
३ नृनामानि . . २५
४ बाहुनामानि . . २२
वर्गः नाम सङ्ख्या
५ अङ्गुलिनामानि . २२
६ कान्तिकर्म्माणः . १८
७ अन्ननामानि . . २८
८ अत्तिकर्म्माणः . १०
९ बलनामानि . . २८
१० घननामानि . . २८
११ गोनामानि . . ९
१२ क्रुध्यतिकर्म्माणः . १०
१३ क्रोधनामानि . . ११
१४ गतिकर्म्माणः . . १२२
१५ क्षिप्रनामानि . . २६
१६ अन्तिकनामानि . ११
१७ संग्रामनामानि . ४६
१८ व्याप्तिकर्म्माणः . १०
१९ बधकर्म्माणः . . ३३
२० वज्रनामानि . . १८
२१ ऐश्वर्य्यकर्म्माणः . ४
२२ ईश्वरनामानि . ४
इति वेदनिघण्टौ द्वितीयाध्यायः ॥

तृतीयाध्याये ४१० नामानि ।
वर्गः नाम सङ्ख्या
१ बहुनामानि . . १२
२ ह्रस्वनामानि . . ११
३ महन्नामानि . . २५
वर्गः नाम सङ्ख्या
४ गृहनामानि . . २२
५ परिचरणकर्म्माणः . १०
६ सुखनामानि . . २०
७ रूपनामानि . . १६
८ प्रशस्यनामानि . १०
९ प्रज्ञानामानि . . ११
१० सत्यनामानि . . ६
११ पश्यतिकर्म्माणः . ८
१२ उत्तराणि पदानि सर्व्व-
पदसमाम्नानाय . ९
१३ उपमानामानि . १२
१४ अर्च्चतिकर्म्माणः . ४४
१५ मेधाविनामानि . २४
१६ स्तोतृनामानि . . १३
१७ यज्ञनामानि . . १५
१८ ऋत्विङ्नामानि . ८
१९ याच्ञाकर्म्माणः . १७
२० दानकर्म्माणः . . १०
२१ अध्येषणाकर्म्माणः . ४
२२ स्वपितिकर्म्माणः . २
२३ कूपनामानि . . १४
२४ स्तेननामानि . . १४
२५ निर्णीतान्तर्हितनामधे-
यानि . . . ६
२६ दूरनामानि . . ५
वर्गः नाम सङ्ख्या
२७ पुराणनामानि . ६
२८ नूतननामानि . . ६
२९ दिश उत्तराणि नामानि २६
३० द्यावापृथिव्योर्नामधेयानि २४
इति वेदनिघण्टौ तृतीयाध्यायः ॥

चतुर्थाध्याये २७८ पदानि ।
वर्गः पदं सङ्ख्या
१ जहा इत्यादिपदानि ६२
२ सस्निमित्यादिपदानि ८४
३ आशुशुक्षणिरित्यादि-
पदानि . . १३२
इति वेदनिघण्टौ चतुर्थाध्यायः ॥

पञ्चमाध्याये १५१ पदानि ।
वर्गः पदं सङ्ख्या
१ अग्निरित्यादिपदानि ३
२ द्रविणोदा इत्यादि-
पदानि . . १३
३ अश्व इत्यादिपदानि . ३६
४ वायुरित्यादिपदानि . ३२
५ श्येन इत्यादिपदानि . ३६
६ अश्विनावित्यादिपदानि ३१
इति वेदनिघण्टौ पच्चमाध्यायः ॥
अथ ग्रन्थस्यानुक्रमणिकादिलेखनाभावकारणं वृत्तद्वयम् ।
ग्रन्तस्यानुक्रमणिका साङ्केताक्षरलक्ष्म च ।
परिशिष्टस्य करणे कारणादिकमेव हि ॥
पूर्वे सप्तमकाण्डीयमुखबन्धे प्रकीर्त्तितम् ।
अतो न लिख्यतेऽत्रैव पुनरुक्तिभयान्मया ॥
अथादर्शपत्राणां वल्मीकमक्षणजन्यमनस्तापतन्निवारणहेतुपञ्चपद्यानि ।
इदानीं परिशिष्टीयबहुलादर्शपत्रिकाः ।
यन्त्रालयसमुत्पन्नवल्मीकगणभक्षिताः ॥
अतस्तद्गतशब्दानां नाभवन्मुद्रयाङ्कनम् ।
तच्चेद्भूतं तदा ग्रन्थबाहुल्यं समजायत ॥
किन्तु सांप्रतमादर्शनाशजन्यो मनोगतः ।
तापो जामातृदौहित्रगणैरेव निवारितः ॥
यतस्ते परिशिष्टीयशब्दैरन्यैश्च संयुतम् ।
देवनागरवर्णेन शब्दकल्पद्रुमं पुनः ॥
मुद्राङ्कितं प्रकुर्वन्ति यत्नेनातिशयेन च ।
तस्य प्रकाशाल्लोकानामुपकारो भविष्यति ॥

अथ ग्रन्थकर्तुर्व्वंशवर्णश्लोकाः ।
आसीत् श्रीहरिदेवाख्यः श्रीहरेरंशरूपकः ।
कायस्थानां कुले देववंशस्योद्भवहेतुकः ॥
मुर्शिदावादनगरासन्ने स्वजनपालकः ।
कर्णस्वर्णनामधेयसमाजे वासकारकः ॥
सदा हरिपदाम्भोजयुगलध्यानकारकः ।
मौद्गल्यगोत्रजातानामेष वीजाभिधानकः ॥ १ ॥
तस्य दृर्गावरो नाम सुतः सर्वगुणान्वितः । २ ।
तस्माद्विश्वेश्वरो जातस्तस्य विघ्नेश्वरः सुतः ॥ ३ । ४ ॥
सदानन्देन संपूर्णः पूर्णानन्दोऽभवत्ततः । ५ ।
खानोपाधिस्तत्तनयः पीताम्वर इति स्मृतः ॥
अदभ्रशालिशालित्वाद्धान्यपीताम्बरेति च ।
विख्यातो भूवि सर्वत्र गोष्ठीपतिवरः स च ॥ ६ ॥
पृथ्वीधरस्तत्तनूजस्तस्माच्च कुरुनन्दनः । ७ । ८ ।
चत्वारस्तनयास्तस्य चतुर्द्देशनिवासिनः ॥
प्रथमः शिवदासाख्यश्चौखण्डिख्यातिसंयुतः ।
मलुयीनामके देशे वासस्तेन सदा कृतः ॥
नित्यानन्दो द्वितीयस्तु रायोपाधिः सुविश्रुतः ।
कृतसौदपुरावासो नित्यानन्देन पूरितः ॥
चतुर्भुजस्तृतीयो यः सोऽपि रायेत्युदाहृतः ।
तालाग्रामकृतावासश्चतुर्भुजपदाश्रितः ॥
चतुर्थः श्रीनाथरायो धुले पुरकृतायनः ।
सदा श्रीनाथचरणाम्भोजार्च्चनपरायणः ॥ ९ ॥
नित्यानन्दात्मजः श्रीमान् श्रीमन्तेतिसमीरितः ॥ १० ॥
चण्डीवरस्तस्य पुत्त्रश्चण्डिकापूजने रतः ॥ ११ ॥
तज्जातः परमानन्दः परमानन्ददायकः ॥ १२ ॥
काशीनाथश्च विजयावल्लभस्तत्कुमारकः ।
ज्येष्ठस्तु मल्लिकोपाधी रायोपाधिः कनिष्ठकः । १३ ।
विजयावल्लभाज्जातः कृष्णानन्दोद्विजार्च्चकः ॥ १४ ॥
रघुनन्दनदेवस्तत्तनयः परिकीर्त्तितः । १५ ।
विद्याधरस्तस्य सूनू रायेतिख्यातिमागतः ॥
आदौ नाज्राग्रामवासी निताडावासकृत्ततः । १६ ।
तस्यात्मजो हरिहरो जातो हरिहराश्रितः ॥ १७ ॥
षट् सुतास्तस्य विज्ञेयाः सर्वलोकप्रशंसिताः ।
ज्येष्ठस्तु यादवानन्दः सदा यादवसेविता ॥
द्वितीयोरामचन्द्राख्यस्तृतीयो लक्ष्मणो मतः ।
देवीदासस्तुरीयोऽभृत् मजुम्दार उपाधितः ॥
परोपकारनिरतः सदा बन्धुभिरावृतः ।
मुडागाछादिदेशानां कानुन्गोपदमागतः ॥
म च तस्मिन् जनपदे कर्णस्वर्णसमाजतः ।
उत्थाय वासमकरोत् पुत्त्रदारादिभिर्यतः ॥
दुर्गादासः पञ्चमस्तु सदा दुर्गाप्रपूजकः ।
षष्ठस्तु माधवानन्दः सर्वानन्दप्रदायकः ॥ १८ ॥
देवीदासमजुम्दारतनयाः षट् प्रजाभृतः ।
गौरीकान्तो ज्येष्ठपुत्त्रः स च वंशविवर्ज्जितः ॥
चण्डीशरणसंज्ञस्तु मध्यमश्चण्डिकार्च्चकः ।
तृतीयः पुण्डरीकाक्षः सहस्राक्षश्चतुर्थकः ॥
महावज्जङ्गतो यो हि पदे पैत्र्ये नियोजितः ।
सरकारोपाधियुतो राजेन्द्रः पञ्चमः सुतः ॥
कामारपोलग्रामान्तर्वासस्तेन विनिर्म्मितः ।
कनिष्ठो रुक्मिणीकान्तो बहुभिर्ज्ञातिभिर्बृतः ॥
मुडागाछाप्रदेशे तु पञ्चग्रामे ह्यधिष्ठितः ।
स च केशवरायस्य क्षत्रियस्य विशेषतः ॥
अप्राप्तव्यवहारस्य विख्यातस्य समन्ततः ।
तद्देशाधिपते राज्ये नवावेन नियोजितः ॥
अपश्यद्व्यवहारांश्च तद्राज्यशासने रतः ।
अतोऽस्मिन् भूतले लोकैर्व्यवहर्त्तेति कीर्त्तितः ॥ १९ ॥
तस्यैव तु कनिष्ठस्य चत्वारो देहसम्भवाः ।
धार्म्मिकाः कर्म्मकुशला लोके संप्राप्तगौरवाः ॥
ज्येष्ठो रामेश्वरः पैत्र्यं पदं प्राप्तः कृतश्रमः ।
महावज्जङ्गतस्तेषु कृष्णरामस्तु मध्यमः ॥
राजारामस्तृतीयस्तु तेषां रुद्रेश्वरोऽन्तिमः ।
अनपत्यतया सोऽपि रुद्राराधकसत्तमः ॥ २० ॥
रामेश्वरस्य षट् पुत्त्रास्तेषां ज्येष्ठो महागुणः ।
रामचन्द्रस्तथा रामचरणो मध्यमः पुनः ॥
तृतीयो रघुन्नाथाख्यः श्रीरामस्तु तुरीयकः ।
रामकेशवनामा च पश्चमः केशवार्च्चकः ॥
बलरामाभिधः षष्ठो बलवान् बलिनां यतः ।
एषां ज्येष्ठः कनिष्ठश्च वंशाभावमुपागतः ॥ २१ ॥
मध्यमो रामचरणो गुणैर्बहुभिरन्वितः ।
व्यवहर्त्तोपाधियुक्तो गोविन्दपुरसंस्थितः ॥
स च हिज्लीतमोलिप्तमहिषादलदेशतः ।
लवणस्य तथा राज्ञः करादाने नियोजितः ॥
कटकादिप्रदेशस्य महावज्जङ्गतस्ततः ।
देवानीसंज्ञकपदं प्राप्तवान् बहुमानितः ॥
बहुलैर्वर्गिभिः सार्द्धं मेदिनीपुरमध्यतः ।
संग्रामं तुमुलं कृत्वा रणमध्ये निपातितः ॥ २१ ॥
देवानरामचरणव्यवहर्तृमहाशयात् ।
समुत्पन्नास्त्रयः पुत्त्रा अशेषकुशलालयात् ॥
व्यवहत्तापाधियुक्तो रामसुन्दर आदिमः ।
बिद्यान्नौषधदानेन गणनीयः स चाग्रिमः ॥
पञ्च कोटादिदेशे सोऽभबदध्यक्षसत्तमः ।
माणिक्यचन्द्रदेबश्च मध्यमः पुण्यकृत्तमः ॥
अङ्कर्षिधरणीचन्द्रमाणे हिजरिहायने ।
दिल्लीश्वरप्रसादेन सम्प्राप्तौ तौ शुभक्षणे ॥
फर्माननामकलिपिं रायोपाधिं तथैव च ।
मन्सवानां सहस्रं सादिपञ्चशतमेव च ॥ * ॥
कनिष्ठो नबकृष्णाख्यदेवो जातो गुणाकरः ।
आसीत् किलकिलारूपामरावत्यां पुरन्दरः ॥
रूपबान् धनबान् मान्यो वदान्यः पण्डिताश्रयः ।
कुलशीलादिसम्पन्नो गोष्ठीपतिमहाशयः ॥
रसेषुसिन्धुशुभ्रांशुमाने इंरेजिहायने ।
कोम्पानिना मुन्सिपदे नियुक्तोऽसौ शुभे दिने ॥
सोऽभबत् कारणं तेषां बङ्गराज्यस्य शासने ।
ततः किलकिलापुर्य्यां वाणिज्यकार्य्यसाधने ॥
स्थितान् इंरेजनिचयान् नवावो वलमाश्रितः ।
सेराजद्दौलाभिधानो दूरीकृत्य गतस्ततः ॥
अथ तत्परवर्षे तु कर्णेल् क्लाइव् महावलः ।
आगत्य नवकृष्णेन मुन्सिना सहितः किल ॥
योद्धुं ययौ नवावेन सार्द्धं स्ववलसंवृतः ।
गत्वा पलाशिग्रामे स युद्धं कृत्वाजयत् ततः ॥
धरणीरसवाजीन्दुमित इंरेजिवत्सरे ।
कासमालीखाननामा नवावोऽभूत्ततः पुरे ॥
स एवेंरेजपक्षीयान् प्रधानराजपूरुषान् ।
निहत्य साधयामास निखिलान् स्वमनोरथान् ॥
मेजर् आदम् ततः शीघ्रं सार्द्धं तेनैव मुन्सिना ।
गत्वा तूदयनालायां रणं कृत्वा दुरात्मना ॥
विजित्य वलवन्तं तं नवावं सेनया संह ।
निष्कण्टकमिदं राज्यं कृतवान् स भयापहः ॥
बाणर्तुसिन्धुशशभृन्मितैंरेजिवत्सरे ।
भूत्वा गवर्णरो लार्ड क्लाइव् किलकिलापुरे ॥
समेत्य मुन्सिना सार्द्धं परामृष्य च विस्तरं ।
जाफरालीखानसंज्ञं नवावं मतिमत्तरं ॥
वङ्गदेशस्य च सुवादारं कृत्वा ततः परं ।
मोजफ्फर्जङ्गनामानमतिबुद्धिमतां वरं ॥
तं नायेवसुवादारं चकार गुणसागरं ।
पञ्चविंशतिलक्षन्तु मुद्राणां कृतवान् स्थिरं ॥
तयोर्व्ययार्थं प्रत्यब्दं ततः क्लाइव् गुणाकरः ।
तेनैव मुन्सिना सार्द्धं दिल्लीं गत्वा च सत्वरः ॥
शाहालम्वादशाहेन नवावेन च धीमता ।
सूजाद्दौला नामकेन स सन्धिमकरोत् सदा ॥
अङ्काब्धिचन्द्रभूमाने हिज्रिसंवत्सरे ततः ।
शौषालस्य द्वितीयाहे नवकृष्णाय तोषतः ॥
श्रीशाहालम्वादशाहो फर्मानाख्यं लिपिं मुदा ।
दत्तवान् यत्र लिखितं दिल्लीशेन सुसम्पदा ॥
सहस्रपञ्चकञ्चैव मन्सवानां हि सादिनां ।
सहस्रत्रितयं वीर्य्ययुतानां शीघ्रगामिनां ॥
उत्तमं शिविकायानं झल्लरेण सुशोभितं ।
नकाराख्यं वाद्ययन्त्रं ध्वजं तोगेतिनामितं ॥
राजवाहादुरोपाधिं मानवृद्धियशस्करं ।
कृपया दत्तवानस्मै बहुमानपुरःसरं ॥
सुजाद्दौला नवावस्य समीपात् राजयोग्यकं ।
खेलातनामकं प्राप्तो वसनं भूषणादिकं ॥
तस्मिन् वर्षे स भूपालो नवकृष्णोऽतिधीमते ।
नवद्वीपाधिपश्रीलकृष्णचन्द्राय भूभृते ॥
महाराजेन्द्रवाहादुरोपाधिं मानवृद्धितः ।
दापयामास शाहालम् वादशाहसमीपतः ॥
ततः स सहितो लार्ड क्लाइवेन महात्मना ।
काशीधाम समागम्य बभूवासौ महामनाः ॥
महाराजोपाधिकश्रीबलवन्ताह्वयेन च ।
सिंहेन हि सुवे वाराणस्याः सुनियमं स च ॥
कृत्वा विश्वेश्वरस्याग्रे नाट्यमन्दिरमध्यतः ।
नबकृष्णेश्वरं लिङ्गं स्थापयामास भक्तितः ॥
ततः पाट्नानामदेशे महाराजेन तत्र च ।
शेतावरायेण सह सुवे वेहारकस्य च ॥
कृत्वा सुनियमं तत्र तेनैब सहितो हि सः ।
कलिकाताख्यनगरे समायातो गतालसः ॥
ततस्तुष्टमनाः क्लाइव् कोम्पानेर्द्दत्तवान् पदं ।
देवानीसंज्ञकं तस्यै राज्ञे बहुलमानदं ॥
रसर्तुसिन्धुभूमाने इंरेजिहायने पुनः ।
शाहालम्वादशाहस्य प्रागुक्तस्य महात्मनः ॥
समीपतः फर्मानाख्यलिपिमानीय यत्नतः ।
तस्मै राज्ञे ददौ प्रीत्या प्रीतये तस्य धीमतः ॥
यत्रास्तीदं विलिखितं दिल्लीशेन सता स्वयं ।
मन्सवानां षट्सहस्रं सहस्राणां चतुष्टयं ॥
सादिनाञ्च महाराजोपाधिमस्मै प्रदत्तबान् ।
एवं सुवर्णघटितं पदकञ्च ददौ महान् ॥
यत्र मुद्रितपारस्यभाषयास्तीति वर्णितं ।
इंरेजकोम्पानिकर्म्मोत्तमरुपेण साधितं ॥
पश्यतो वादशाहस्य समीपात् सननामके ।
सप्ताशीत्यधिके चैव रूद्रसङ्ख्यशतेऽब्दके ॥
राजोपाधेस्तथा वाहादुरोपाधेस्तथैव च ।
भूपालनवकृष्णाभिधानवाहादुराय च ॥
दातुं दयाभबत् लार्ड क्लाइवस्य महामतेः ।
तग्मया सहितं चिह्नं कोम्पानेस्तन्महीभृते ॥
दत्तं तथा दशविधं खेलातं वस्त्ररूपकं ।
किरीटं कुण्डलं रत्नभूषां हारञ्च मौक्तिकं ॥
फलकं करवालञ्च दण्डं चामरमुत्तमं ।
मयूरपुच्छव्यजनं घटीयन्त्रं मनोरमं ॥
हस्त्यश्वं झल्लरैर्युक्तं शिविकायानमेव च ।
लार्ड क्लाइव् ददौ राज्ञे सदा हितकराय च ॥
एवं सिपाइसंज्ञानां नृणां तद्दूरपालने ।
आज्ञां दत्त्वा तस्य हस्तं गृहीत्वा तु वरासने ॥
हस्तिपृष्ठे समारोह्य पुरं प्रेरितवांस्ततः ।
हस्त्यश्वपत्तिनिकरैर्ब्बहुदीनैश्च संवृतः ॥
स च राजा रौप्यमुद्रां क्षिपन् मार्गेति हर्षतः ।
विवेश स्वं पुरं रम्यं सर्व्वलोकैः प्रशंसितः ॥
समुद्ररसवाजीन्दुमाने इंरेजिहायने ।
स लार्ड क्लाइवो मेस्तर् वार्लेष्टाय महात्मने ॥
राज्यभारं समर्प्याथ स्वस्थाने प्रस्थितोऽभवत् ।
चकार च महाराजो देवानीकर्म्म पूर्ब्बवत् ॥
तस्यास्मिन् समये माता मृता विष्णोः पदं गता ।
अनेकलक्षमुद्राभिस्तेनाद्या तत्क्रिया कृता ॥
ततः कोम्पानिसंक्रान्तं कर्म्म त्यक्त्वा स भूपतिः ।
पारमार्थिकचिन्तायां नियुक्तोऽभून्महामतिः ॥
अथ कोम्पानिना गिर्जानिर्म्माणार्थं प्रयाचितः ।
मूल्यं विनार्थितां भूमिं दत्तवानतिमोदतः ॥
वसुसिन्धुमुनिक्षौणीमाने इंरेजिहायने ।
मुतानुट्यादिकं ग्रामं प्राप्तवानिह पत्तने ॥
तेनैव तस्य राज्ञस्तु धनिविज्ञानिमानिनः ।
प्रजा भूता हि बहुला एतन्नगरवासिनः ॥
समुद्रवसुभूमीन्दुमाने वङ्गाख्यकाब्दके ।
हेष्टिंस् गवर्णरश्चाक्लावर्द्धमानाभिधानके ॥
देशे तञ्च महाराजं साजाओलीतिनामके ।
कार्य्ये नियोजयामास स गत्वा तत्र देशके ॥
राज्यस्य शासनञ्चैवं राज्ञो राज्ञ्यास्तथैव च ।
समग्रविषयस्यैव सुन्दरं नियमं स च ॥
कृत्वा राजकरान् सर्व्वानादाय बहुकृच्छ्रतः ।
खालिसानामके स्थानेऽर्पितवान् सुसमाहितः ॥
एवं रसवसुक्षौणीन्दुमे वङ्गाख्यवर्षतः ।
महाराजाधिराजो यस्तेजश्चन्देतिसंज्ञितः ॥
चतुःसप्ततिसाहस्राधिकाष्टलक्षमुद्रिकाः ।
तथा सप्तशतं मुद्राः सप्तविंशतिकाधिकाः ॥
ऋणं कृत्वा महाभागो महाराजसकाशतः ।
राज्ञः करं राजकोषे प्रेषयामास यत्नतः ॥
ततो गबर्णरस्यैव ह्यनुमत्यनुसारतः ।
खालिसासंज्ञकात् स्थानात् महाराजोऽतिवाधितः ॥
क्रमशः क्रमशश्चैव मुद्रास्ताः प्रतिवर्षतः ।
आदानमकरोत् राजाधिराजस्योपकारतः ॥
रामर्षिशशिभूमाने वङ्गसंवत्सरे स च ।
श्रीमद्राधावल्लभस्य सेवनार्थं चिराय च ॥
दत्तवान् वल्लभपुरं कृत्वा देवोत्तरं मुदा ।
श्रीमन्नन्ददुलालस्य सेवार्थमपि सर्व्वदा ॥
आनर्पुरेतिख्यातायां पर्गणायां प्रयत्नतः ।
चारग्रामं तथा देवोत्तरं कृत्वा ददौ ततः ॥
तथाग्रद्वीपतः श्रीमद्गोपीनाथं मनोहरं ।
विग्रहं वल्लभपुरात् श्रीराधाबल्लभं परं ॥
एवञ्च खड्दहग्रामात् श्रीश्यामसुन्दराह्वयं ।
श्रीमन्नन्ददुलालाख्यं शाँइवनाग्रामतः स्वयं ॥
स्वकं पुरं समानीय स राजा बहुयत्नतः ।
विधिवोधितरुपेण चिरं संसेव्य संयतः ॥
नानाविधानलङ्कारान् मुक्तावज्रबिभूषितान् ।
तापनीयान् मणिमयान् दत्त्वा प्रेरितवांश्च तान् ॥
पिपीतकाख्यद्वादश्यां समाहूयाथ पण्डितान् ।
दानमानैः पुरस्कृत्य दिग्विदिक्षु समाश्रितान् ॥
श्रीमद्गोपीनाथसंज्ञं श्रीगोविन्दं तथा परं ।
विग्रहं संप्रतिष्ठाप्याकरोदाराधनं वरं ॥
वेहालाग्राममारभ्य कुलपीं यावदुत्तमं ।
स स्वव्ययेन पन्थानं कृतबान् सर्व्वतः समं ॥
तथा स्वकीयपुरतः पुरोऽतिशयविस्तृतं ।
चकार राजपन्थानं मञ्जुलं सुपरिष्कृतं ॥
नेत्राम्बराब्धिभूमाने शकसंज्ञकहायने ।
कुलाचार्य्यान् बुधगणांश्चानीय स्वनिकेतने ॥
स च द्वाविंशपर्य्यायिमुख्यानां बहुयत्नतः ।
कुलीनानामेकयायीमकरोद्भुरिदानतः ॥
आम्नायाम्बरपक्षेन्दुमानेऽसौ वङ्गवत्सरे ।
विहाय देहमगमत्पादाम्भोजयुगं हरेः ॥ २२ ॥
रामसुन्दरदेवस्य रायख्यातियुतस्य च ।
अशेषगुणसम्पन्नाः पुत्त्रा जाता हि पञ्च च ॥
कृष्णमोहनदेवस्तु तेषां ज्येष्ठः प्रकीर्त्तितः ।
व्रजम्येहनदेवो यः स धीमान् मध्यमः स्मृतः ॥
गोपीमोहनदेवश्च तृतीयो भुवि विश्रुतः ।
भूपतेर्नवकृष्णस्य स एव दत्तकः सुतः ॥
चतुर्थो निरपत्योऽभूद्देवो गोलोकमोहनः ।
कनिष्ठो वैष्णवोऽपुत्त्रो देवो भुवनमोहनः ॥ * ॥
माणिक्यचन्द्ररायस्य द्वौ सुतौ च तयोः पुनः ।
ज्येष्ठो राधाकृष्णदेवो निरपत्यो महागुणः ॥
गोपीकृष्णाख्यदेवस्तु कनिष्ठो देवतार्च्चकः ।
शुद्धाचारः कृती दान्तो बुद्धिमान् वंशकारकः ॥ २३ ॥
पुत्त्राबुभौ महाराजनवकृष्णस्य चाग्रिमः ।
गोपीमोहनदेवस्तु तयोर्यः स च दत्रिमः ॥
कौन्सेलाध्यक्षजान् इष्टे विल्साभिधानकस्य च ।
एवमादिमजेन्रेल् जान् कार्णकस्य तथैव च ॥
गवर्णरमेक्फार्शनस्य देवानीसंज्ञकं पदं ।
स प्राप्य तत्र कर्त्तव्यं कृतवानतिमानदं ॥
तथात्र मत्स्यविपणेर्व्वर्त्मार्थं बहुमूल्यकं ।
कोम्पानये ददौ स्थानं सर्व्वेषां हितकारकं ॥
अङ्केन्दुपक्षभूमाने वङ्गसंज्ञकहायने ।
पौत्त्रोद्वाहार्थमाहूय स तु यत्नात् शुभे दिने ॥
कुलाचार्य्यान् कुलीनांश्च गृहीत्वा तत्सुसम्मतिं ।
कनिष्ठषड्भ्रातृजयोः कुलयोश्चिरसंस्थितिं ॥
कृतवानथ मात्रा स तुलापुरुषदानकं ।
कारयामास यत्नेन यथोक्तविधिपूर्ब्बकं ॥
ततश्च मातृकृत्ये स सूवर्णदानसागरं ।
कृत्वा ददौ द्विजाग्र्येभ्यस्तानाहूय च सादरं ॥
रामाग्निनागभूमाने इंरेजाब्दे स मानदं ।
गवर्णरस्य कारुण्यात् प्राप्तवानुत्तमं पदं ॥
राजबाहादुरोपाधिं सूवर्णाम्बरसप्तकं ।
अनेकरत्नघटितं शिरोभूषणयुग्मकं ॥
तथा सन्मौक्तिकं हारं फलकं करवालकं ।
शस्त्रिषट्सङ्ख्यपत्तीनां शिविकाग्रगमार्थकं ॥
आज्ञाञ्च प्राप्तवान् सोऽपि बहुसम्मानपूर्ब्बकं ।
चिरमाध्यादिरहितः कृत्वा राज्यमकण्टकं ॥
वह्निवेदाक्षिशशमृन्माने वङ्गाख्यहायने ।
सौरचैत्रे शुक्लपक्षस्यैकादश्यां तिथौ दिने ॥
अर्द्धं नारायणक्षेत्रेऽन्यार्द्धं कारणजीवने ।
देहस्याधायात्मजनैर्गीयमाने जनार्द्दने ॥
भावयन्निष्टदेवस्य रूपं हृदयसंस्थितं ।
ज्ञानतः स महीपालः संप्राप्तोऽथ मृतोऽमृतं ॥ * ॥
कनिष्ठो राजकृष्णाख्य औरसो गुणिमानकृत् ।
राजाग्रगण्यो मान्यश्च वदान्यो गानशास्त्रवित् ॥
स च त्रयोविंशसंख्यपर्य्यायाणां महात्मनां ।
कुलीनानामेकयायीं कृतवान् गुणशालिनां ॥
तथा कुलप्रदीपाख्यं कूलशास्त्रं प्रयत्नतः ।
कुलीनानन्दजनकं चकार कीर्त्तिलाभतः ॥
यथा चैतन्यदेवेन कृतं नगरकीर्त्तनं ।
तथा राज्ञा कृतञ्चेति जनाः कुर्व्वन्ति कीर्त्तनं ।
रामाग्निवसुशुभ्रांशुमाने इंरेजिवत्सरे ।
गङ्गातीरे ज्ञानपूर्वं मृतोऽगात् हरिमन्दिरे ॥ २३ ॥
कृष्णमोहनदेवस्य तनयौ द्वौ सुशीलकौ ।
राजनारायणाख्यानश्रीनारायणदेवकौ ॥ * ॥
व्रजमोहनदेवस्याप्युभौ पुत्त्रौ तयोः परः ।
धार्म्मिको रामरत्नाख्यो हरनारायणोऽवरः ॥ * ॥
गोपीकृष्णस्य देवस्य पुत्त्राश्चत्वार एव च ।
तेषां ज्येष्ठस्तु गोपालकृष्णोऽतिसात्त्विकः स च ॥
श्रीलगोकुलकृष्णस्तु मध्यमो गुणसागरः ।
वाङ्गालवेङ्के नायेवदेवानीकर्म्मतत्परः ॥
गोपेन्द्रकृष्णगोपेशकृष्णौ सन्तानवर्ज्जितौ ।
तृतीयकतुरीयौ च वाल्ये देहान्तरं गतौ ॥ २४ ॥
वाणाम्बरषिभूमानसमायां शकभूपतेः ।
गोपीमोहनदेवस्य गोष्ठीपतिमहीपतेः ॥
श्रीराधाकान्तदेवेति नाम्ना पुत्त्रोऽभ्यजायत ।
वङ्गविद्यां तथा हिन्दीं पारसीमारवीं ततः ॥
इंरेजीं संस्कृतञ्चैवाधीतवान् सोऽतियत्नतः ।
तथा चतुर्धुरीणस्य गोपीकान्तस्य धीमतः ॥
सर्व्वाग्रमान्यस्य गोष्ठीपतेर्म्मौलिकराजतः ।
सिंहेत्युपाधियुक्तस्य प्रपौत्त्रीं स उपायत ॥
गोष्ठीपतिरभूत्तेन कुलाचार्य्यादिसम्मतः ।
वङ्गेंलण्डफ्रान्सजर्म्मान्डेन्मार्कादिप्रदेशतः ॥
रुषियांमेरिकासंज्ञदेशानाञ्चैव मध्यतः ।
विद्यादिविषयाणान्तु सभानां सभ्यतामितः ॥
एवं धर्म्मसभायाश्च तथान्यासां सभापतिः ।
बभूव बहुसम्मानपूर्ब्बकं स महामतिः ॥
स वाणाग्नीभशशभृन्मित इंरेजिवत्सरे ।
प्राप्तः किलकिलानामनगरेऽस्मिन् मनोहरे ॥
गवर्णरस्यैवेच्छातो माजिष्ट्रेटीयकं पदं ।
यदेवैकान्तमान्यानां गुणिनामपि मानदं ॥
मुन्यग्निनागभूमाने ऐरेजाब्दे तु पैतृकं ।
राजोपाधिञ्च कौन्सेलात् वसनं भूषणादिकं ॥
मानवर्द्धनपत्रेण सहितं बहुमूल्यकं ।
तथा गवर्णरस्यैव सभायामादिपीठकं ॥
प्राप्तवानतिदुष्प्राप्यं यल्लोके मानदायकं ।
अङ्कवेदाक्षिभृमाने वङ्गाब्दे विधिपूर्ब्बकं ॥
गयातीर्थप्रयाणार्थं प्रस्थितः पथिमध्यतः ।
मुर्शिदावादनगरे श्रीनवावसभाङ्गतः ॥
सम्मानितः स च समादरतस्तत्समीपतः ।
राजार्हं हेमवसनं सप्तकं सप्तरूपतः ॥
होमाख्यपक्षिपुच्छेन युक्तं युग्मं किरीटकं ।
कुण्डलं मौक्तिकं हारं फलकं करवालकं ॥
यत् सदा भूपतीनां हि भूरिसम्भ्रमवर्द्धकं ।
प्राप्तवांस्तत्तु दुष्प्राप्यं बहुसम्मानपूर्ब्बकं ॥
अथेन्दुरसपक्षाब्जमाने वङ्गाख्यहायने ।
पौत्त्रोद्वाहोपलक्षेण सभां कृत्वा शुभे दिने ॥
समाहूय कुलाचार्य्यान् कुलीनान् पण्डितान् स च ।
कायस्थानां चतुर्विंशपर्य्यायाणां तथैव च ॥
सुमुख्यानां कुलीनानां कनिष्ठानाञ्च सर्वशः ।
एवं षड्भ्रातृजातानामेकयायीं चकार सः ॥
तत्पत्रिकां कारिकायाः पुस्तकञ्चापि मुद्रितं ।
कुलीनघटकादिभ्यः कृत्वा तेन समर्पितं ॥
पाठशालाध्यापनाय ग्रन्थनिर्म्माणहेतुतः ।
स्कुलवुक् सोसाइटीनाम या सभास्मिन् प्रदेशतः ॥
स तदर्थं नीतिकथा वांलाशिक्षादिपुस्तकं ।
कृतवान् हेक्मते आश्जार् वृक्षायुर्व्वेदवाचकं ॥
पुस्तं पारस्यभाषात इंरेजीभाषया पुनः ।
अनुवाद्य ग्रेटवृटन्देशे राज्ञो महात्मनः ॥
स च राइयल् एसियाटिक् समाजे प्रेरयत्ततः ।
तत्र मुद्राङ्कितं कृत्वा तत्शतं परिमाणतः ॥
अनुवादकसान्निध्ये तस्यैव दर्शनार्थतः ।
कृपया प्रेषयामासुस्तत्सदःस्थाः प्रयत्नतः ॥
तथाहु वव्ययायासकालसम्पादनीयकं ।
शब्दकल्पद्रुमाख्याभिधानञ्च सप्तकाण्डकं ॥
परोपकृतये कृत्वा गुणिभ्योऽभबदपिता ।
यत्प्राप्यालोक्य सन्तुष्टाः सर्व्वदेशीयपण्डिताः ॥
प्रत्येवे पेरयामासुः सुख्यातिपत्रिकादिकं ।
विशेषता दिनेमारराज्येशोहेमहारकं ॥
स्वीयास्यचिह्नसंयुक्तपदकोत्तमधारकं ।
प्रीत्या संप्रेषयामास राज्ञोऽर्थे मानदायकं ॥
पुनस्तदभिधानस्य परिशिष्टमतिश्रमात् ।
निर्म्माय मुद्रितं तेन प्रदानार्थं बहुव्ययात् ॥ २४ ॥
अत्रैव कथयामीमं इतिहामं पुरातनं ।
मङ्क्षेपेण च तद्राज्ञो लोकविस्मयकारणं ॥
नागवेदाष्टभृमाने इंरेजाब्दे हि वैरिणा ।
टाकौग्रामनिवामेन केनचित् ख्यातमुन्सिना ॥
दुष्टेनाभीष्टसिद्ध्यर्थं दण्डपारूष्यसंज्ञके ।
विवादस्य पदे मान्यजनानां माननाशके ॥
कारितो मिथ्याभियोगस्तस्य निर्द्दोषभूभृतः ।
हुग्लीग्रामस्य मेजिष्ट्रेट् नामकेनाविचारतः ॥
पोलिस्सुप्रिण्टेनडेण्टसंज्ञकस्य समीपतः ।
क्रुधा तन्मिथ्यापवादः पत्रेण प्रकटीकृतः ॥
तेन सेक्रेटरिद्वारा गवर्णराय वेदितः ।
सोऽपि तैर्ब्बहुधा चेष्टां कृतवान् तद्दमार्थतः ॥
किन्तु सेशन्जजाख्यस्य प्राड्विवाकस्य धीमतः ।
अतिसूक्ष्मविचारेण राजा निर्द्दोषतां गतः ॥
तस्माद्विपक्षपक्षाणां क्रूराणाञ्च विशेषतः ।
तेषामुद्यमभङ्गेन लज्जाधिक्यमजायत ॥
तेन सर् हर्वर्ट मेडाक् डेपिउटी गवर्णरः ।
स्नेहेनाक्लिन्नहृदयः सदयश्चातिसत्वरः ॥
आह्बानार्थं तस्य राज्ञः प्रेषयामास पत्रकं ।
स चानीय स्वभबने तञ्च सम्मानपूर्ब्बकं ॥
सान्त्वयित्वा जयात्तस्मै धन्यवादं प्रदत्तवान् ।
एवं गवर्णरो जेनरेल् लार्डडेल्हौसिरात्मवान् ॥
स्वदेशयानसमये सभामध्येऽतिहर्षितः ।
तद्राज्ञो दक्षिणं हस्तं गृहीत्वातिप्रयत्नतः ॥
लार्डेन च तथा लेडी केनिङ्गेन सहोत्सुकः ।
साक्षात् तं कारयामास मानिनां मानवर्द्धकः ॥
पूर्ब्बोक्तमिथ्याभियोगे दण्डार्हकरणाय च ।
उद्योगजन्यदोषस्याप्यकरोत् क्षालनं स च ॥
स तु मुन्सी पुनरपि दण्डपारुष्यवादतः ।
फरासडाङ्गानगरे पलायित्वा मृतस्ततः ॥
राजकृष्णस्य नृपतेर्जाता बसुमिताः सुताः ।
शिवकृष्णो नृपो ज्येष्ठो यस्यास्ति शिवतुल्यता ॥
रूपवान् गुणवांश्चापि कार्लीकृष्णस्तु मध्यमः ।
दयालुर्बुद्धिमान् मान्यो धार्म्मिको मानवोत्तमः ॥
इंरेजीभाषया सोऽपि महानाटकनामकं ।
तथा रसलसेत्याख्यमिं रेजानाञ्च पुस्तकं ॥
वङ्गीयभाषया चैवानुवादमकरोत्ततः ।
राजवाहादुरोपाधिं प्राप्तो गवरन्भेण्टतः ॥
देवीकृष्णोऽतिसरलो देवभक्तस्तृतीयकः ।
अपूर्ब्बगुणसंयुक्त्रोऽपूर्ब्बकृष्णस्तुरीयकः ॥
देवान् कुङर् नामधेयं ग्रन्थं स चोर्दुभाषया ।
निर्म्माणं कृतवान् सोऽपि निजायासव्ययेच्छया ॥
ततो माधवकृष्णस्तु सुशीलः पुत्रवर्ज्जितः ।
पञ्चमो देवताभक्तः सोऽल्पे वयसि संस्थितः ॥
कृतवान् स च वेतालपञ्चविंशतिनामकं ।
ग्रन्थं पारस्यभाषातोऽनुवादं यत्नपूर्वकं ॥
षष्ठः कमलकृष्णस्तु दैवे पैत्र्ये सदा रतः ।
कार्य्ये बहुगुणोपेतस्तथा पण्डितमण्डितः ॥
एवं गङ्गासागरयोः सङ्गमे तेन निर्म्मितं ।
श्रीमत्कपिलदेवस्य मन्दिरं सुपरिष्कृतं ॥
तुलापुरुषदानञ्च श्रीमद्भागवतस्य च ।
पारायणं वागवाजारस्य घट्टे तथैव च ॥
शिवस्य स्थापनं मात्रा कारयामास सोत्सुकः ।
बहुवित्तव्ययेनैव कुलकीर्त्तिविवर्द्धकः ॥
नरेन्द्रकृष्णेतिसंज्ञो यः सुतः स तु सप्तमः ।
रूपवान् गुणवांश्चैव नरेन्द्रेण पुनः समः ॥
स च डेपिउटीमेजिष्ट्रेट् बभूव सदाशयः ।
यो हि यादवकृष्णस्तु कनिष्ठोऽतिदयामयः ॥
तेन देवान् मोश्फकाख्यं पुस्तकञ्चोर्दुभाषया ।
निर्म्माय मुद्रितं तच्च कृत्वा दत्तं निजेच्छया ॥
गयाधाममृतः सोऽपि पुत्रहीनोऽमृतं गतः ।
चन्द्रेषुपक्षभूमाने वङ्गसंज्ञकवर्षतः ॥
राजराधाकान्तदेवसाहाय्येन मुदान्वितैः ।
स्वपर्य्यायकुलीनानामेकयायी कृता च तैः ॥ २४ ॥
श्रीराधाकान्तदेवस्य राजवाहादुरस्य च ।
त्रयः सुताः सिद्धगोष्ठीपतयः स्वकुलेषु च ॥
यतो गोष्ठीपतेः पुत्रा दौहित्राश्च विशेषतः ।
तेषां ज्येष्ठः श्रीमहेन्द्रनारायण इतीरितः ॥
देवब्राह्मणभक्तः स वुद्धिमांश्च गुणान्वितः ।
मध्यमः श्रीलराजेन्द्रनारायण इति श्रुतः ॥
धार्म्मिकः सत्यवादी स कर्म्मदक्षश्च सत्तमः ।
यस्तु श्रीदेवेन्द्रनारायणो देवः स चान्तिमः ॥
व्यवहारज्ञानयुतः प्रतापादिसमन्वितः ।
मन्त्रणादाननिपुणो धीमान् धीमद्भिरावृतः ॥
एते भारतवर्षीयगवर्णरसमाजतः ।
तत्र यानस्याधिकारं कुमारोपाधिकं ततः ॥
पञ्चप्रकारं वसनं भूषणञ्च मनोरमं ।
त्रयः सहोदराः सर्व्वे प्रत्येके लेभिरे समं ॥ २५ ॥
जाताः पुत्रास्त्रयः श्रीमत्शिवकृष्णस्य भूभृतः ।
तेषां श्रीयुतभूपेन्द्रकृष्णो ज्येष्ठः प्रकीर्त्तितः ॥
चत्वारस्तनयाः श्रीलकालीकृष्णस्य भूपतेः ।
तेषां ज्येष्ठः श्रीहरेन्द्रकृष्ण इत्यभिधीयते ॥
वभूव यो डेपिउटीमेजिष्ट्रेटिपदे स्थितः ।
श्रीदेवीकृष्णदेवस्य तनयौ द्वौ च धीमतः ॥
श्रीमदानन्दकृष्णो यस्तयोर्ज्येष्ठः स च स्मृतः ।
श्रीयुतापूर्ब्बकृष्णस्य चत्वारस्तनयास्ततः ॥
श्रेष्ठो ज्येष्ठः श्रीकुमारकृष्णेतिख्यातिसंयुतः ।
श्रीमन्नरेन्द्रकृष्णो यः सम्भूतास्तस्य देहतः ॥
त्रयः पुत्रास्तेषु मध्ये ज्येष्ठपुत्रोऽभवत् पुनः ।
श्रीमद्व्रजेन्द्रकृष्णेति नाम्ना ख्यातः सुलक्षणः ॥ २५ ॥
राजनारायणस्यैव देवोपाधियुतस्य च ।
पुत्रोऽभवज्जगत्कृष्णनामेदानीं मृतः स च ॥
श्रीनारायणदेवस्य त्रयः पुत्रा गुणैर्युताः ।
तेषां ज्येष्ठः श्रीप्रसन्ननारायण इति श्रुतः ॥
गवरन्मेण्टस्य तोशाखानायां प्रथमं स हि ।
अध्यक्षोऽभूत्तत्र कर्म्मनिर्व्वाहकरणेन हि ॥
तस्मै गवर्णरो लार्डहार्डिञ्जः कृपयान्वितः ।
रायवाहादुरोपाधिं दत्तवानतितोषतः ॥
ततो मुरशिदावादे नवावस्य समीपतः ।
नेजामतस्य देवानीं प्राप्तवान् वहुभाग्यतः ॥
तत्रापि च नवावंस्य सन्निधौ लब्धवानयं ।
राजवाहादुरोपाधिमेकान्तमानतः स्वयं ॥ २५ ॥
गोपालकृष्णदेवस्य पुत्राश्चत्वार एव तु ।
श्रीलश्रीकृष्णदेवो यः सर्व्वेषामग्रजः स तु ॥
श्रीमद्गोकुलकृष्णस्य तनयौ द्वौ महात्मनः ।
श्रीमन्नृपेन्द्रकृष्णस्तु ज्येष्ठोऽतिनन्दिवर्द्धनः ॥ २५ ॥
श्रीमन्महेन्द्रादिनारायणदेवस्य धीमतः ।
नाद्यापि तनयो जातो ग्रहवैगुण्यदोषतः ॥
तथा श्रीयुतराजेन्द्रनारायणस्य कायतः ।
श्रीमद्गिरीन्द्रादिनारायणः पुत्रो व्यजायत ॥
एवं श्रीयुक्तदेवेन्द्रनारायणशरीरतः ।
संजातश्च श्रीव्रजेन्द्रनारायणेतिसंज्ञितः ॥ २६ ॥
श्रीमद्भूपेन्द्रकृष्णस्य पुत्रो जातोऽतिसुन्दरः ।
श्रीजितेन्द्रियकृष्णेतिख्यातियुक्तः प्रियङ्करः ॥
श्रीमद्धरेन्द्रकृष्णस्य तनयश्चातिशोभनः ।
श्रीमद्वरेन्द्रकृष्णोऽग्रजातः सरसिजाननः ॥ २६ ॥
जगत्कृष्णस्यात्मजस्तु ज्येष्ठोऽभूदतिशीलवान् ।
श्रीमत्तारणकृष्णेतिनाम्ना ख्यातोऽतिवुद्धिमान् ॥
श्रीलप्रसन्नादिनारायणस्य सुत उत्तमः ।
श्रीमद्भूपेन्द्रादिनारायणः शशधरोपमः ॥ २६ ॥
इत्येकादिकषड्विंशपुरुषान्तातिनिर्म्मला ।
देववंशावली या सा समाप्ता मौलिकातुला ॥
वर्णमाला । नागरी ।
अ | आ(ा) | इ(ि) | ई(ी) | उ(ु) | ऊ(ू) | ऋ(ृ) | ॠ(ॄ) | ऌ(ॢ) | ॡ(ॣ) | ए(े) | ऐ(ै) | ओ(ो) | औ (ौ) | ं | ः
क | ख | ग | घ | ङ | च | छ | ज | झ | ञ | ट | ठ | ड | ढ | ण | त | थ | द | ध | न | प | फ | ब | भ | म | य | र | ल | व | श | ष | स | ह | क्ष |