सामग्री पर जाएँ

शब्दकल्पद्रुमः/मातृवाहिनी

विकिस्रोतः तः
पृष्ठ ३/६९६

मातृवाहिनी, स्त्री, (मातरं वहतीति । वह +

णिनिः ।) वल्गुलापक्षी । इति राजनिर्घण्टः ॥

मातृशासितः, पुं, (मात्रा शासितः । स्नेहाधि-

क्यात् केवलं मात्रैव शासितः न तु पित्रा-
चार्य्यादिभिरिति भावः ।) मूर्खः । इति हेम-
चन्द्रः । ३ । १६ ॥

मातृष्वसा, स्त्री, (मातुः स्वसा । “मातृपितृभ्यां

स्वसा ।” ८ । ३ । ८४ । इति षत्वम् ।) मातृ-
भगिनी । मासी इति भाषा । सा मातृ
तुल्या यथा, --
“मातृष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तिताः ॥”
इति दायभागः ॥

मातृष्वसेयः, पुं, (मातृष्वसुरपत्यं पुमान् । मातृ-

स्वसृ + “मातृष्वसुश्च ।” ४ । १ । १३४ । इत्यत्र
“छण्प्रत्ययो ढकि लोपश्च ।” इति काशिकोक्तेः
ढक् ।) मातृष्वसृपुत्त्रः । मासितुता भाइ इति
भाषा । तत्पर्य्यायः । मातृष्वस्रीयः २ । इति
हेमचन्द्रः । ३ । २०९ ॥

मातृष्वसेयी, स्त्री, (मातृष्वसुरपत्यं स्त्री । मातृ-

ष्वसृ + “मातृष्वसुश्च ।” ४ । १ । १३४ । इति
ढक् । ढकिलोपश्च । ङीष् ।) मातृभगिनी-
कन्या । इत्यमरः । २ । ६ । २५ । मासितुता
भगिनी । इति भाषा ॥ (टाबन्तोऽप्ययं शब्दः ।
यथा, महाभारते । ३ । २२३ । ५ ।
(“मम मातृष्वषेया त्वं माता दाक्षायणी
मम ॥”)

मातृष्वस्रीयः, स्त्री, (मातृस्वसुरपत्यं पुमान् ।

मातृव्वसृ + “मातृष्वसुश्च ।” ४ । १ । १३४ ।
इति छण् ।) मातृभगिनीपुत्त्रः । इत्यमरः ।
२ । ६ । २५ । मासितुता भाइ इति भाषा ॥

मातृष्वस्रीया, स्त्री, (मातृष्वस्रीय + टाप् ।)

मातृभगिनीकन्या । इत्यमरः । २ । ६ । २५ ।
मासितुता भगिनी इति भाषा ॥

मातृसिंही, स्त्री, वासकः । इति शब्दरत्नावली ।

मात्रं, क्ली, (मीयत इति । मा + त्रन् ।) कार्त्-

स्न्यम् । अवधारणम् । इत्यमरः । ३ । ३ । १७७ ॥
कार्त्स्न्ये यथा जीवमात्रं न हिंसेत । अवधा-
रणे यथा पयोमात्रं भुङ्क्ते । इति तट्टीकायां
भरतः ॥

मात्रा, स्त्री, (मीयते अनया । मा + “हुयामाश्रुभ-

सिभ्यस्त्रन् ।” उणा० ४ । १६८ । इति त्रन् टाप् ।)
परिच्छदः । अल्पः । परिमाणम् । इत्यमरः ।
३ । ३ । १७७ ॥ परिच्छदो हस्त्यश्वादिः । अल्पे
यथा । शाकमात्रा । परिमाणे यथा । किं
हस्तिमात्रोऽङ्कुशः । इति तट्टीकायां भरतः ॥
(यथा, बृहत्संहितायाम् । ५८ । २ ॥ “अङ्गुलमेकं
भवति मात्रा ।”) कर्णभूषा । वित्तम् । अक्ष-
रावयवः । इति मेदिनी । रे, ७५ ॥ * ॥ (छन्दसां
ह्रस्वदीर्घादिप्रभेदः । यथा, श्रुतबोधे ।
“यस्याः पादे प्रथमे द्वादश मात्रा तथा तृतीये-
ऽपि ॥”)
कालविशेषः । यथा, --
“कालेन यावता पाणिः पर्य्येति जानुमण्डले ।
सा मात्रा कविभिः प्रोक्ता ह्रस्वदीर्घप्लुते मता ॥
इति प्राचीनाः ॥
अपि च ।
“वामजानुनि तद्धस्तभ्रमणं यावता भवेत् ।
कालेन मात्रा सा ज्ञेया मुनिभिर्वेदपारगैः ॥”
इति तन्त्रसारः ॥
इन्द्रियवृत्तिः । यथा, --
“मात्रास्पर्शास्तु कौन्तेय ! शीतोष्णसुखदुःखदाः ।
आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ! ॥”
इति भगवद्गीता ॥
“मीयन्ते आभिर्विषयाः मात्रा इन्द्रियवृत्तयः ।”
इति तट्टीकायां श्रीधरस्वामी ॥
इन्द्रियम् । इति पूर्ब्बोक्तश्लोकटीकायां मधु-
सूदनसरस्वती ॥ अंशः । यथा, --
“न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते ।
स्वभर्त्तृपिण्डमात्राभ्यस्तृप्तिरासां यतः स्मृता ॥”
इति श्राद्धतत्त्वम् ॥
(शिलोच्चयः । यथा, ऋग्वेदे । ३ । ४ । ६ । ३ ।
“प्र मात्राभी रिरिचे ।”
“मात्राभिः मीयन्ते परिच्छिद्यन्त इति मात्राः
शिलोच्चयाः ।” इति तद्भाष्ये सायनः ॥ शक्तिः ।
यथा, पञ्चतन्त्रे । १ । ३५९ । “का मात्रा समु-
द्रस्य यो मम प्रसूतिं दूषयिष्यति ॥” अव-
यवः । यथा, मनौ । ७ । ४ ।
“चन्द्रवित्तेशयोश्चैव मात्रानिर्हृत्य शाश्वतीः ॥”
“मात्रा अवयवाः ।” इति तट्टीकायां मेधा-
तिथिः ॥ रूपम् । यथा, भागवते । २ । ५ । २५ ॥
“तस्य मात्रा गुणः शब्दः ॥” “मात्रा सूक्ष्मं
रूपम् ।” इति तट्टीकायां स्वामी ॥)

मात्सर्य्यं, क्ली, (मत्सर + ष्यञ् ।) मत्सरस्य भावः ।

परशुभद्वेषः । यथा, --
“मागाश्चिरायैकतरः प्रमादं
वसन्नसम्बाधशिवेऽपि देशे ।
मात्सर्य्यरागोपहतात्मनां हि
स्खलन्ति साधुष्वपि मानसानि ॥
इति भारवौ ३ अध्यायः ॥

मात्सिकः, त्रि, (मत्स्योऽस्य पण्यम् । “तदस्य

पण्यम् ।” ४ । ४ । ५१ । इति मत्स्य + ठक् ।)
जालिकः । मत्स्यघातकः । इति सिद्धान्त-
कौमुदी ॥

माथ इ कुन्थे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, मान्थ्यते । कुन्थो वधक्लेशौ ।
इति दुर्गादासः ॥

माथः, पुं, (मान्थ्यते पीड्यते जनः अस्मिन् ।

माथ + घञ् । ज्वलादित्वात् णो वा । निपा-
तनात् नुमभावः ।) पन्थाः । इति त्रिकाण्ड-
शेषः ॥ (मथ + भावे घञ् ।) मन्थनम् । इति
शब्दरत्नावली ॥

माथुरः, पुं, (मथुरा + अण् ।) मथुराया

आगतः । इति मुग्धबोधव्याकरणम् ॥ (तत्र
जात इत्यण् वा । मथुराजातः । यथा, कथा-
सरित्सागरे । ३६ । ७३ ।
“ततः स दृष्टबहुलक्लेशस्तां पुरुषोऽब्रवीत् ।
मुग्धे ! पवनसेनाख्यो बणिक्पुत्त्रोऽस्मि
माथुरः ॥”
अन्येन कृता माथुरेण प्रोक्ता । “तेन प्रोक्तम् ।”
४ । ३ । १०४ । इति अण् ङीप् । माथुरी-
वृत्तिः । इति व्याकरणम् ॥)

मादः, पुं, (माद्यत इति मद + घञ् । नुमभावः ।)

दर्पः । इत्यमरः । ३ । २ । १२ ॥ हर्षः । इति
तट्टीकायां भरतः । मत्तता । इति शब्दरत्ना-
वली ॥

मादकः, पुं, (माद्यति वर्षागमे हृष्यतीति । मद +

ण्वुल् ।) दात्यूहपक्षी । इति शब्दमाला ॥
(मादयति स्वगुणेन भूतानीति । मद + णिच्
ण्वुल् ।) मदकारकद्रव्ये, त्रि ॥ (यथा, देवी-
भागवते । १ । १४ । ६४ ।
“इन्द्रियाणि महाभाग ! मादकानि सुनि-
श्चितम् ।
अदारस्य दुरन्तानि पञ्चैव मनसा सह ॥”)

मादनं, क्ली, (मादयति विरहिणः । इति मद +

णिच् + ल्युः ।) लवङ्गम् । इति शब्दचन्द्रिका ॥
(मादयतीति मद + णिच् + ल्युः ।) हर्षकारयि-
तरि, त्रि ॥)

मादनः, पुं, (मादयति चित्तविकारमुत्पादयतीति ।

मद + णिच् + ल्युः ।) कामदेवः । मदनवृक्षः ।
धुस्तूरः । इति केचित् ॥

मादनी, स्त्री, (मादन + स्त्रियां ङीप् ।) माकन्दी ।

इति राजनिर्घण्टः ॥ विजया । इति भाव-
प्रकाशः ॥

मादृशः, त्रि, (अहमिव दृश्यत इति । दृश +

“त्यदादिषु दृशोऽनालोचने कञ्च ।” ३ । २ । ६० ।
इति कञ् ।) मत्सदृशः । इति व्याकरणम् ॥
(यथा, महाभारते । ७ । १०८ । ८९ ।
“तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ।
तादृशस्येदृशे काले मादृशैरभिचोदितः ॥
कथं नु भार्य्या पार्थानां तव कृष्ण ! सखी
विभो ! ।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥”)

माद्री, स्त्री, (मद्रे जाता । मद्र + अण् ङीप् ।

भर्गादित्वात् न प्रत्ययलुक् ।) पाण्डुराजपत्नी ।
सा मृगीभूतस्य मुनेः शापात् मैथुनरहितस्य
स्वामिन आज्ञया अश्विनीकुमाराभ्यां नकुल-
सहदेवौ जनयामास । इति महाभारतश्रीभाग-
वतमतम् ॥ (यथा, महाभारते । १ । ६७ । १५९ ।
“कुन्ती माद्री च जज्ञाते मतिश्च सुबलात्मजा ।”)
अतिविषा । इति राजनिर्घण्टः ॥

माद्रीपतिः, पुं, (माद्र्याः पतिः ।) पाण्डुराजः ।

इति शब्दरत्नावली ॥

माधवः, पुं, (यदुपुत्त्रस्य मुधोरपत्यं पुमान् । इति

मधु + अण् । मा लक्ष्मीस्तस्याः धवः । माया
विद्याया धव इति वा ।) विष्णुः । तस्य व्युत्पत्ति-
र्यथा, --
“मा च ब्रह्मस्वरूपा या मूलप्रकृतिरीश्वरी ।
पृष्ठ ३/६९७
नारायणीति विख्याता विष्णुमाया सनातनी ॥
महालक्ष्मीस्वरूपा च वेदमाता सरस्वती ।
राधा वसुन्धरा गङ्गा तासां स्वामी च
माधवः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥
(यथा, महाभारते । ५ । ७० । ४ ।
“मौनाद्ध्यानाच्च योगाच्च विद्धि भारत !
माधवम् ।”)
तन्नाममाहात्म्यं यथा, --
ओमित्येकाक्षरे मन्त्रे स्थितः सर्व्वगतो हरिः ।
माधवायेति वै नाम धर्म्मकामार्थमोक्षदम् ॥”
इति वह्रिपुराणम् ॥
(मधोर्वसन्तस्यायम् मधूनि मधुमन्ति कुसुमानि
अस्मिन् वा । मधु + “मधोर्ञ च ।” ४ । ४ ।
१२९ । इति ञः ।) वैशाखमासः । इत्यमरः ।
१ । ४ । १६ ॥ (यथा, मार्कण्डेये । ११७ । २७ ।
“स तेन सख्या सहितो जगामाम्रवणं वनम् ।
पत्नीभिः स समं रन्तुं माधवे मासि पार्थिव ! ॥”
(मधु + स्वार्थे अण् ।) वसन्तः । इति विश्वः ॥
(यथा, सुश्रुते । १ । १९ । ९ । “मधुमाधवौ
वसन्तः ।”
“माधवप्रथमे मासि नभस्यप्रथमे पुनः ॥”
इति चरके सूत्रस्थाने सप्तमेऽध्याये ॥
“माधवनभस्यसहस्यानां यथासंख्यं वैशाख-
भाद्रपौषाणां सुश्रुतेऽभिहितत्वात् तेषां प्रथमे-
ऽग्रेऽग्रवर्त्तिनि मासि चैत्रादौ विषय इति
निष्कर्षः । इति चरकटीकाकृदभिप्रायः ॥)
मधुकवृक्षः । कृष्णमुद्गः । इति राजनिर्घण्टः ॥
(भौत्यमन्वन्तरीयसप्तर्षीणामन्यतम ऋषि-
विशेषः । यथा, मार्कण्डेये । १०० । ३१ ।
“अग्नीध्रश्चाग्निबाहुश्च शुचिर्मुक्तोऽथ माधवः ।
शुक्रोऽजितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥”
सायनाचार्य्यस्य भ्राता । यथा, सायनकृतधातु-
वृत्तौ । इति पूर्ब्बदक्षिणपश्चिमसमुद्राधीश्वर-
कम्पराजसुतसङ्गमराजमहामन्त्रिणा सायन-
पुत्त्रेण माधवसहोदरेण सायनाचार्य्येण विर-
चिता माधवीया धातुवृत्तिः ॥)

माधविका, स्त्री, (माधवी + कन् टाप् । पूर्ब्ब-

ह्रस्वश्च ।) माधवीलता । इत्यमरटीकायां
भरतः ॥

माधवी, स्त्री, (मधौ साधुपुष्प्यति । मधु + “कालात्

साधुपुष्प्यत्पच्यमानेषु ।” ४ । ३ । ४३ । इत्यण् ।
ङीप् ।) स्वनामख्यातपुष्पलता । तत्पर्य्यायः ।
अतिमुक्तः २ पुण्ड्रकः ३ वासन्ती ४ लता ५ ।
इत्यमरः । २ । ४ । ७२ ॥ अतिमुक्तकः ६
माधविका ७ माधवीलता ८ । इति तट्टीकायां
भरतः ॥ चन्द्रवल्ली ९ सुगन्धा १० भ्रमरोत्सवा
११ भृङ्गप्रिया १२ भद्रलता १३ भूमिमण्डप-
भूषणा १४ वसन्तीदूती १५ । इति जटाधरः ॥
लतामाधवी १६ । इति शब्दरत्नावली ॥ (यथा,
देवीभागवते । १ । १२ । ७ ।
“आम्रैनींपैर्मधूकैञ्च माधवीमण्डपावृताम् ।”)
अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । कषाय-
त्वम् । मदगन्धित्वम् । पित्तकासव्रणदाहशोष-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“माधवी स्यात्तु वासन्ती पुण्ड्रको मण्डकोऽपि
च ।
अतिमुक्तो विमुक्तञ्च कामुको भ्रमरोत्सवः ॥
माधवी मधुरा शीता लघ्वी दोषत्रयापहा ।”
इति भावप्रकाशः ॥
मिसिः । मधुशर्करा । कुट्टनी । (मधुनो विकार
इत्यण् ङीप् ।) मदिरा । इति मेदिनी । वे,
४६ -- ४७ ॥ (यथा, महाभारते । ४ । १५ । ३ ।
“अस्ति मे शयनं दिव्यं त्वदर्थमुपकल्पितम् ।
एहि तत्र मया सार्द्धं पिबस्व मधुमाधवीम् ॥”
माधवस्येयमित्यण् ङोप् । तत्प्रियत्वात्तथा-
त्वम् ।) तुलसी । इति शब्दमाला ॥ (मधौ वसन्ते
सेव्यार्च्चनीयेति अण् ।) दुर्गा । इति शब्दरत्ना-
वली ॥ माधवस्य पत्नी च ॥ (मधुवंशजा कन्या ।
यथा, महाभारते । १ । ९५ । १२ । ‘जनमेजयः
खल्वनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे
प्राचिन्वान् ॥’)

माधवीलता, स्त्री, (माधव्याख्या लता ।) स्वनाम-

ख्यातपुष्पलता । इत्यमरटीकायां भरतः ॥

माधवेष्टा, स्त्री, (माधवस्य इष्टा ।) वाराहीकन्दः ।

इति राजनिर्घण्टः ॥

माधवोचितं, क्ली, (माधवस्योचितम् । सुगन्धि-

त्वात् तथात्वम् ।) कक्कोलकम् । इति
राजनिर्घण्टः ॥ (विशेषोऽस्य कक्कोलशब्दे
ज्ञातव्यः ॥)

माधवोद्भवः, पुं, (माधवादुद्भवोऽस्य ।) राजा-

दनी । इति राजनिर्घण्टः ॥

माधुकः, पुं, वर्णसङ्करजातिविशेषः । इति जटा-

धरः ॥ (यथा, महाभारते । १३ । ४८ । २० ।
“मैरेयकञ्च वैदेहः सम्प्रसूतेऽथ माधुकम् ॥”)

माधुमताः, पुं, (मधुमत्सु भवाः । मधुमत् +

“कच्छादिभ्यश्च ।” ४ । २ । १३३ । इत्यण् ।)
काश्मीरदेशभवाः । इति हेमचन्द्रः । ४ । २४ ॥

माधुरं, क्ली, (मधु अस्ति अस्य अस्मिन् वेति ।

मधु + “ऊषसुषिमुष्कमधोः रः ।” ५ । २ । १०७ ।
इति रः । ततः स्वार्थेऽण् ।) मल्लिका । इति
त्रिकाण्डशेषः ॥ (मधुरात् सम्प्रभवतीत्यण् ।)
मधुरसम्भवे, त्रि ॥

माधुरी, स्त्री, (माधुर + गौरादित्वात् ङीष् ।)

मद्यम् । इति भूरिप्रयोगः ॥ माधुर्य्यम् । यथा,
“तानि स्पर्शसुखानि ते च तरलाः स्निग्धा
दृशोर्विभ्रमा-
स्तद्बक्त्राम्बुजसौरभं स च सुधास्यन्दी गिरां
वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं
तस्यां लग्नसमाधि हन्त विरहव्याधिः कथं
वर्द्धते ॥”
इति गीतगोविन्दे ३ सर्गेः ॥

माधुर्य्यं, क्ली, (मधुरस्थ भावः : मधुर + “वर्ण-

दृढाभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।)
मधुरस्य भावः । मधुरत्वम् । इति हेमचन्द्रः ।
३ । १७३ । (यथा, सुश्रुते सूत्रस्थाने एका-
दशाध्याधे ।
“माधुर्य्यं भजतेऽत्यर्थं तीक्ष्णभावं विमुञ्चति ॥”)
लावण्यम् । यथा, --
“रूपं किमप्यनिर्व्वाच्यं तनोर्माधुर्य्यमुच्यते ।”
इत्युज्ज्वलनीलमणिः ॥
पाञ्चालीरीतिविशिष्टकाव्यगुणः । यथा, --
“मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ।”
इति साहित्यदर्पणे ९ परिच्छेदः ॥ तस्य लक्षणं
यथा, साहित्यदर्पणे ८ परिच्छेदे ।
“चित्तद्रवीभावमयो ह्लादो माधुर्य्यमुच्यते ।
सम्भोगे करुणे विप्रलम्भे शान्तेऽधिकं क्रमात् ॥
मूर्द्ध्नि वर्गान्त्यवर्णेन युक्ताष्ट ठ ड ढान् विना ।
रणौ लघु च तद्व्यक्तौ वर्णाः कारणतां गताः ॥
अवृत्तिरल्पवृत्तिर्वा मधुरा रचना तथा ।”
(नायिकानामयत्नजोऽलंकारविशेषः । यथा,
साहित्यदर्पणे । ३ । १२९ ।
“सङ्क्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम् ।”
सात्त्विकनायकगुणभेदः । यथा, तत्रैव । ३ । ९१ ।
“सर्वावस्थाविशेषेषु माधुर्य्यं रमणीयता ।”)

माध्यन्दिनं, त्रि, (मध्ये भवम् । मध्य + “अन्तः-

पूर्ब्बपदात् ठञ् ।” ४ । ३ । ६० । इत्यत्रकाशिका
सूत्रवृत्तौ “मध्योमध्यं दिनण् चास्मात् ।”
इति दिनण् ।) मध्यमम् । इति हेमचन्द्रः ।
६ । ९६ ॥ (मध्यन्दिनसम्बन्धि । यथा, ऋग्वेदे ।
३ । २८ । ४ ।
“माध्यन्दिने सवने जातवेदः पुरोडाशमिह
कवे ! जुषस्व ।”
“माध्यन्दिने मध्यन्दिनसम्बन्धिनि” तथा “माध्य-
न्दिने मध्यं दिनस्येदमित्यर्थे उत्सादित्वादञ्
ञित्वादादिवृद्धिः ञित्वादेवाद्युदात्तत्वम् ।” इति
च तद्भाष्ये सायनः ॥ मध्यन्दिनेन प्रोक्ताधीता
वा । इत्यण् ङीप् । शुक्लयजुर्वेदस्य शाखाभेदः ।
यथा, आश्वलायनीयश्रौतसूत्रे । ५ । ५ । १९ ।
“पिबा सोममभियमुग्रतर्द इति तिस्रोऽर्वाङेहि
सोमकामं त्वाहुस्तवायं सोमस्त्वमेह्यर्वाङिन्द्राय
सोमाः प्र दिवो विदाना आ पूर्णो अस्य कलशः
स्वाहेति माध्यन्दिन्यः ।”)

माध्यमं, त्रि, (मध्ये भवं । मध्य + “अन्तःपूर्व्वपदाट्-

ठञ् ।” ४ । ३ । ६० । इत्यस्य काशिकासूत्र-
वृत्तौ “मण्मीयौ च प्रत्ययौ वक्तव्यौ ।” इति
मण् ।) मध्ये भवम् । यथा, --
“मध्यमं माध्यमं मध्यमीयं माध्यन्दिनञ्च तत् ।”
इति हेमचन्द्रः । ६ । ९६ ॥

माध्यस्थं, क्ली, (मध्यस्थ + ष्यञ् ।) मध्यस्थस्य

भावः । मध्यस्थकरणम् । यथा, कुमारसम्भवे ।
१ । ५२ ।
“अयाचितारं नहि देवदेव-
मद्रिः सुतां ग्राहयितुं शशाक ।
पृष्ठ ३/६९८
अभ्यर्थनाभङ्गभयेन साधु-
र्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥”

माध्वकं, क्ली, (माध्वीक । पृषोदरादित्वादीका-

रस्याकारः ।) माध्वीकम् । इत्यमरटीकायां
भानुदीक्षितः ॥

माध्वी, स्त्री, (मधुनो विकारः । मधु + अण् ।

ङीप् । “ऋत्व्यवास्त्व्यवास्त्वमाध्वीति ।” ६ ।
४ । १७५ । अणि स्त्रियां यणादेशो निपा-
त्यते ।) मद्यम् । इति त्रिकाण्डशेषः ॥ मध्वादि-
कृता सुरा । इति राजनिर्घण्टः ॥ (यथा,
मनौ । ११ । ९५ ।
“गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा
सुरा ।”
मधु मधुररसोऽस्त्यस्य कण्टकावच्छेदे अण् ।)
मधुरकण्टकमत्स्यः । इति शब्दरत्नावली ॥
(मधुमति, त्रि । यथा, ऋग्वेदे । ७ । ७१ । २ ।
“दिवानक्तं माध्वी त्रासीथां नः ॥”
हे माध्वी ! मधुमन्तौ ॥ इति तद्भाष्ये सायनः ॥
नदीविशेषः । यथा, मात्स्ये । १२० । ७१ ।
“तेभ्यः शान्ता च माध्वी च द्वे नद्यौ सम्प्रसू-
याताम् ।”)

माध्वीकं, क्ली, (माध्वी + स्वार्थे कन् ।) मधूक-

पुष्पकृतमद्यम् । तत्पर्य्यायः । मध्वासवः २
माधवकः ३ मधु ४ । इत्यमरः । २ । १० । ४१ ॥
मधुमाध्वीकमित्येकं नामेति केचित् ॥ पूर्व्वौ
द्बौ पुष्पमद्ये । (यथा, महाभारते । ३ ।
२७७ । ३९ ।
“कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाध-
वीम् ।
लोभं सौवीरके कुर्य्यान्नारी काचिदिति स्मरे ॥”)
परौ द्वौ द्राक्षाविकारे । इति भरतः ॥ माद्दींक-
मिति वा पाठः । इति रमानाथः । माध्वीक-
स्थाने माध्वकमिति भानुदीक्षितः ॥ (मधु ।
यथा, नैषधे । १९ । ३३ ।
“धयतु नलिने माध्वीकं वा न वाऽभिनवागतः ।
कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः ।
इह तु लिहते रात्रीतर्षं रथाङ्गविहङ्गमा
मधु निजबधूवक्त्राम्भोजेऽधुनाऽधरनामकम् ॥”
“माध्वीकं मकरन्दम् । इति तट्टीकायां नारा-
यणः ॥) तत्पर्य्यायो यथा, --
“मधुमाक्षीकमाध्वीकक्षौद्रसारध्यमीरितम् ।
मक्षिकावरटीभृङ्गवातपुष्परसोद्भवम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

माध्वीकफलः, पुं, (माध्वीकं मधुमत् फलमस्य ।)

मधुनालिकेरिकः । इति राजनिर्घण्टः ॥

माध्वीमधुरा, स्त्री, (माध्वीमदतएव मधुरेति ।)

मधुरखर्ज्जूरिका । इति राजनिर्घण्टः ॥

मान, कि अर्च्चे । इति कविकल्पद्रुमः ॥ (चु०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) कि मानयति
मानति । इति दुर्गादासः ॥

मान, ङ विचारे । अर्च्चे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-सक०-सेट् ।) ङ मीमांसते
शास्त्रं धीरः । अर्च्चायां तिबादयो न स्युरिति
रमानाथः । इति दुर्गादासः ॥

मानं, क्ली, (मीयतेऽनेनेति । मा + करणे ल्युट् ।)

परिमाणम् । तत्पर्य्यायः । यौतवम् २ द्रुव-
यम् ३ पाय्यम् ४ पौतवम् ५ । तत्तु तुलाङ्गुलि-
प्रस्थैस्त्रिविधं भवति । तत्र तुलाग्रहणेनोन्मा-
नाद्युपलक्ष्यते । अङ्गुल्या हस्तादि । प्रस्थेन
द्रोणादि । इत्यमरभरतौ । २ । ९ । ८५ ॥ प्रमाणम् ।
इति मेदिनी । ने, १५ ॥ यत्र तालो विरमति
तत् । तदेव गृहसुच्यते । तच्चतुर्विधम् । समं
विषमं अतीतं अनागतञ्च । इति सङ्गीत-
शास्त्रम् ॥ * ॥
अथ मानपरिभाषा ।
“न मानेन विना युक्तिर्द्रव्याणां जायते क्वचित् ।
अतः प्रयोगकार्य्यार्थं मानमत्रोच्यते मया ॥
चरकस्य मतं वैद्यैराद्यैर्यस्मान्मतं ततः ।
विहाय सर्व्वमानानि मागधं मानमुच्यते ॥
त्रसरेणुर्व्वुधैः प्रोक्तस्त्रिंशता परमाणुभिः ।
त्रसरेणुस्तु पर्य्यायनाम्ना ध्वंसीति गद्यते ॥
जालान्तरगतैः सूर्य्यकरैर्ध्वंसी विलोक्यते ।
षड्ध्वंसीभिर्म्मरीचिः स्यात्ताभिः षड्भिश्च
राजिका ।
तिसृभी राजिकाभिश्च सर्षपः प्रोच्यते बुधैः ।
यवोऽष्टसर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम् ॥
षड्भिस्तु रत्तिकाभिः स्यान्माषको हेम-
धानकौ ।
माषैश्चतुर्भिः शाणः स्याद्धरणः स निगद्यते ॥
टङ्कः स एव कथितस्तद्द्वयं कोलमुच्यते ।
क्षुद्रमो वटकश्चैव द्रङ्क्षणः स निगद्यते ॥
कोलद्बयस्तु कर्षः स्यात् स प्रोक्तः पाणि-
मानिकः ।
अक्षः पिचुः पाणितलं किञ्चित् पाणिश्च तिन्दु-
कम् ॥
विडालपदकञ्चैव तथा षोडशिका मताः ।
करमध्यो हंसपदं सुवर्णं कवलग्नहम् ॥
उडुम्बरञ्च पर्य्यायैः कर्ष एब निगद्यते ।
स्यात् कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा ।
शुक्तिभ्याञ्च पलं ज्ञेयं मुष्टिराम्रं चतुर्थिका ।
प्रकुञ्चः षोडशी विल्वं पलमेमात्र कीर्त्त्यते ॥
पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते ।
प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धसरावकः ॥
अष्टमानञ्च स ज्ञेयः कुडवाभ्याञ्च मानिका ।
सरावोऽष्टपलं तद्वज्ज्ञेयमत्र विचक्षणैः ॥
शरावाभ्यां भवेत् प्रस्थश्चतुःप्रस्थैस्तथाढकः ।
भाजनं कांस्यपात्रञ्च चतुःषष्टिपलश्च सः ॥
चतुर्भिराढकैर्द्रोणः कलशो नल्वणोर्मणः ।
उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥
द्रोणाभ्यां सूर्पकुम्भौ च चतुःषष्टिशरावकः ।
सूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा
स्मृता ॥
द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः ।
चतुःसहस्रपलिका षण्णवत्यधिका च सा ॥
पलानां द्विसहस्रञ्च भार एकः प्रकीर्त्तितः ।
तुलापलशतं ज्ञेया सर्व्वत्रैवैष निश्चयः ॥
माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् ।
राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” * ॥
मागधपरिभाषायां षड्रत्तिको माषश्चतुर्व्विंशति-
रत्तिकष्टङ्कः षण्णवतिरत्तिकः कर्षः । अयं चरक-
सम्मतः ॥ सुश्रुतमते । पञ्चरत्तिको माषो
विंशतिरत्तिकष्टङ्कोऽशीतिरत्तिकः कर्षः । अय-
मेव कलिङ्गपरिभाषायामपि । यतस्तत्राष्ट-
रत्तिको माषो द्बात्रिंशद्रत्तिकष्टङ्कः । सार्द्ध-
टङ्कद्वयमितः कर्षः ।
“गुञ्जादिमानमारभ्य यावत् स्यात् कुडवस्थितिः ।
द्रवार्द्रशुष्कद्रव्याणां तावन्मानं समं मतम् ॥
प्रस्थादिमानमारभ्य द्बिगुणन्तु द्रवार्द्रयोः ।
मानं तथा तुलायास्तु द्विगुणं न क्वचित् स्मृतम् ॥
मृद्वृक्षवेणुलोहादेर्भाण्डं यच्चतुरङ्गुलम् ।
विस्तीर्णञ्च तथोच्चञ्च तन्मानं कुडवं वदेत् ॥”
इति मागधमानम् ॥ * ॥
अथ कालिङ्गमानम् ।
“यतो मन्दाग्नयो ह्रस्वा हीनसत्त्वा नराः
कलौ ।
अतस्तु मात्रा तद्योग्या प्रोच्यते सुज्ञसम्मता ॥
यवो द्वादशभिर्गौरैः सर्षपैः प्रोच्यते बुधैः ।
यवद्वयेन गुञ्जा स्यात्त्रिगुञ्जो वल्ल उच्यते ।
माषो गुञ्जाभिरष्टाभिः सप्तभिर्वा भवेत् क्वचित् ॥
चतुर्भिर्माषकैः शाणः स निष्कष्टङ्क एव च ।
गद्यानो माषकैः षडभिः कर्षः स्याद्दशमा-
षिकः ॥
चतुःकर्षैः पलं प्रोक्तं दशशाणमितं बुधैः ।
चतुःपलैश्च कुडवः प्रस्थाद्याः पूर्ब्बवन्मताः ॥
स्थितिर्नास्त्येव मात्रायाः कालमग्निं वयो
बलम् ।
प्रकृतिं दोषदेशौ च दृष्ट्वा मात्रां प्रकल्पयेत् ॥
नाल्पं हन्त्यौषधं व्याधिं यथाम्भोऽल्पं महा-
नलम् ।
अतिमात्रञ्च दोषाय यथा शस्ये बहूदकम् ॥”
इति मानपरिभाषा । इति भावप्रकाशः ॥

मानः, पुं, (मन्यते बुद्ध्यतेऽनेन इति मन + घञ् ।)

चित्तसमुन्नतिः । इत्यमरः । १ । ७ । २२ ॥
चित्तस्य समुन्नतिरक्षुद्रता मानः । साञ्जे धना-
द्युत्कर्षेणात्मनि चित्तोन्नतिर्मान इति । मत्समो
नास्तीति मननं मानः । इति तट्टीकायां भरतः ॥
(यथा, मनौ । ४ । १६३ ।
“द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”)
आत्मनि पूज्यताबुद्धिः । इति नीलकण्ठः ॥
अनुरक्तयोर्दम्पत्योर्भावविशेषः । यथा, --
“दम्पत्योर्भाव एकत्र सतोरष्यनुरक्तयोः ।
स्वाभीष्टाश्लेषवीक्षादिनिरोधी मान उच्यते ॥”
इत्युज्ज्वलनीलमणिः ॥
पूज्यत्वम् । यथा, --
“अधमाः कलिमिच्छन्ति सन्धिमिच्छन्ति
मध्यमाः ।
पृष्ठ ३/६९९
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
मानो हि मूलमर्थस्य माने म्लाने धनेन किम् ।
प्रभ्रष्टमानदर्पस्य किं धनेन किमायुषा ॥
अधमा धनमिच्छन्ति धनमानौ हि मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां
धनम् ॥”
इति गारुडे ११५ अध्यायः ॥
प्रियापराधसूचिका चेष्टा मानः । स च लघु-
र्मध्यमो गुरुश्चेति । अल्पापनेयो लघुः । कष्टा-
पनेयो मध्यमः । कष्टतमापनेयो गुरुः । असा-
ध्यस्तु रसाभासः । अपरस्त्रीदर्शनादिजन्मा
लघुः । गोत्रस्खलनादिजन्मा मध्यमः । अपर-
स्त्रीसम्भोगदर्शनादिजन्मा गुरुः । अन्यथासिद्ध-
कुतूइलाद्यपनेयो लघुः । अन्यथावादशपथाद्य-
पनेयो मध्यमः । चरणपातभूषणदानाद्यपनेयो
गुरुः । अपरस्त्रीदर्शनादिजन्मा यथा, --
“स्वेदाम्बुभिः क्वचन पिच्छिलमङ्गभूमौ
क्षामोदरि क्वचन कण्टकितञ्चकास्ति ।
अन्यां बिलोकयति भासयति प्रियेऽपि
मानः क्व धास्यति पदं तव तन्न विद्मः ॥”
गोत्रस्खलनादिजन्मा यथा, --
“यद्गोत्रस्खलनं तत्तु भ्रमो यदि न मन्यते ।
रोमालिव्यालसंस्पर्शं शपथं तन्वि ! कारय ॥”
अपरस्त्रीसम्भोगदर्शनादिजन्मा यथा, --
“दयितस्य निरीक्ष्य भालदेशं
चरणालक्तकपिञ्जरं सपत्न्याः ।
सुदृशो नयनस्य कोणभासः
श्रुतिमुक्ताः शिखरोपमा बभूवुः ॥”
इति रसमञ्जरी ॥
ग्रहः । इति मेदिनी । ने, १५ ॥ (परिच्छेदके,
त्रि । यथा, ऋग्वेदे । ७ । ८८ । ५ ।
“बृहन्तं मानं वरुण स्वधावः
सहस्रद्बारं जगमा गृहन्ते ।”
“मान्त्यस्मिन् सर्वाणि भूतानि इति मानं सर्वस्य
भूतजातस्य पुरिच्छेदकमित्यर्थः ।” इति तद्भाष्ये
सायनः ॥ पुं, मन्त्रः । यथा, ऋग्वेदे । १ ।
१८९ । ८ ।
“अवोचाम निवचनान्यस्मिन्मानस्य सूनुः
सहसाने अग्नौ ।”
“मीयत इति मानो मन्त्रः तस्य सूनुरग्निः
मन्त्रेणोत्पद्यमानत्वात् सप्तम्यर्थे प्रथमा ।” इति
तद्भाष्ये सायनः ॥ निर्माता । यथात्रैव ।
१० । १४४ । ५ ।
“यं ते श्येनश्चारुमवृकं पदाभरदरुणं मान-
मन्धसः ।”
“मानं यागद्वारा निर्मातारम् ।” इति तद्भाष्ये
सायनः ॥)

मानकं, क्ली, पुं, (मानं बृहत्परिमाणमस्य ।

“शेषाद्विभाषा ।” ५ । ४ । १५४ । इति
कप् ।) माणकम् । माणकचु इति भाषा ।
“कच्वीतु पिच्छिला प्रोक्ता विस्तीर्णपर्णमानके ।”
इति शब्दचन्द्रिका ॥
“स्थलकन्दो ग्राम्यकन्दः स्थलपद्मस्तु मानकः ।”
इति रत्नमाला ॥
अस्य गुणाः ।
“मानकं स्वादु शीतञ्च गुरु शोथहरं कटु ।”
इति राजवल्लभः ॥
अपि च ।
“मानकः स्यान्महापत्रः कथ्यते तद्गुणा अथ ।
मानकः शोथहृच्छीतः पित्तरक्तहरो लघुः ॥”
इति भावप्रकाशः ॥
(विषयोऽस्य यथा, --
“पुराणं मानकं पिष्ट्वा द्विगुणीकृततण्डुलम् ।
साधितं क्षीरतोयाभ्यामभ्यसेत् पायसन्तु तत् ॥
हन्तुं वातोदरं शोथं ग्रहणीं पाण्डुतामपि ।
सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥”
इति वैद्यकचक्रपाणिसंग्रह उदराधिकारे ॥)

मानग्रन्थिः, पुं, (मानस्य ग्रन्थिरिव । बाधकत्वात् ।)

अपराघः । इति हारावली ॥ (मानस्य
ग्रन्थिः । अभिमानवर्द्धनम् । यथा, छन्दोमञ्ज-
र्य्याम् । ५ । ७ ।
“केशववंशजगीतिर्लोकमनोमृगहारिणी जयति ।
गोपीमानग्रन्थेर्विमोचनी दिव्यगायनाश्चर्य्या ॥”)

मानधानिका, स्त्री, कर्कटी । इति शब्दमाला ॥

माननीयं, त्रि, (मान्यते पूज्यत इति । मान +

अनीयर् ।) मान्यम् । यथा, --
“मानो मान्योऽसि वृक्षेषु माननीयः सुरा-
सुरैः ।
स्नापयामि महादेवीं मानं देहि गृहे मम ॥”
इति दुर्गोत्सवपद्धतिः ॥

मानरन्ध्रा, स्त्री, (मानार्थं समयपरिमाणज्ञापकं

रन्ध्रमस्याम् ।) ताम्री । ताँवी । इति भाषा ।
यथा, --
“यामघोषोऽथ ताम्री स्यान्मानरन्ध्रा विका-
लिका ।”
इति त्रिकाण्डशेषः ॥

मानवः, पुं, (मनोरपत्यम् मनोर्गोत्रापत्यं वा

पुमान् । मनु + अण् ।) मनोरपत्यम् । मनुष्यः ।
इत्यमरः । २ । ६ । १ ॥ (यथा, महाभारते ।
१ । ७५ । १२ -- १३ ।
“मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ।
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ॥”)
बालः । इति शब्दरत्नावली ॥ (मनुना प्रोक्तम् ।
मनु + अण् ॥ उपपुराणविशेषः । यथा, देवी-
भागवते । १ । ३ । १३ -- १४ ।
“सनत्कुमारं प्रथमं नारसिंहं ततः परम् ।
नारदीयं शिवञ्चैव दौर्वाससमनूत्तमम् ।
कापिलं मानवञ्चैव तथा चौशनसं स्मृतम् ॥”)

मानवर्जितः, त्रि, (मानेन वर्ज्जितः ।) मान-

रहितः । यथा, महाभारते । ३ । ४६ ।
४८ ।
“तस्मात् त्वं नर्त्तनः पार्थ ! स्त्रीमध्ये मान-
वर्ज्जितः ।”)
नीचः । इति धरणिः ॥

मानवी, स्त्री, (मानव + स्त्रीत्वात् ङीप् ।) मनुष्य-

स्त्रीजातिः । तत्पर्य्यायः । मानुष्यी २ मानुषी ३
नारी ४ । इति शब्दरत्नावली ॥ (यथा,
नैषधे । ९ । ४१ ।
“दिवौकसं कामयत न मानवी
नवीनमश्रावि तवाननादिदम् ।”)
शासनदेवताविशेषः । इति हेमचन्द्रः । १ । ४५ ॥
स्वायम्भुवमनुकन्या । इति महाभारतम् ॥
(यथा, भागवते । ३ । २३ । ३ ।
“स वै देवर्षिवर्य्यस्तां मानवीं समनुव्रताम् ।”)

मानवौघः, पुं, (मानवानां ओघः यस्मिन् ।) तारा-

विद्यायाः पीठस्य उत्तरे वायव्यादीशपर्य्यन्तं
पूज्यगुरुपङ्क्तिविशेषः । यथा । तारावत्यम्बभानु-
मत्यम्बजयाम्बविद्याम्बमहोदर्य्यम्बसुखानन्दनाथ-
परानन्दनाथपारिजातानन्दनाथकुलेश्वरानन्द-
नाथविरूपाक्षानन्दनाथफेरव्यम्बाः पूजयेत् ।
एते मानवौघाः । तथा च तन्त्रे ।
“अथ तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् ।
ऊर्द्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥
दिव्यौघाः सिद्धिदा वत्स ! सिद्धौघान् शृणु
यत्नतः ।
वशिष्ठः कूर्म्मनाथश्च मीननाथो महेश्वरः ॥
हरिनाथो मानवौघान शृण वक्ष्यामि तद्-
गुरून् ।
तारावती भानुमती जयाविद्या महोदरी ॥
सुखानन्दः परानन्दः पारिजातः कुलेश्वरः ।
विरूपाक्षः फेरवी च कथितं तारिणीकुलम् ॥
आनन्दनाथशब्दान्ता गुरुवः सर्व्वसिद्धिदाः ।
स्त्रियोऽपि गुरुरूपाश्च अम्बान्ताः परिकी-
र्त्तिताः ॥”
इति तन्त्रसारः ॥

मानव्यं, क्ली, (मानवानां समूहः इति । “ब्राह्मण-

माणववाडवाद्यन् ।” ४ । २ । ४२ । इति यन् ।)
मानवसमूहः । माणवानां समूहो माणव्यं
विकारसंघेति ष्ण्यः माणवो बालः । मूर्द्धन्य-
मध्यः दन्त्यमध्य इत्येके । इत्यमरटीकायां भरतः ॥
(मनोर्गोत्रापत्यं । “मनु + गोत्रादिभ्यो
यञ् ।” ४ । १ । १०५ । इत्यनेन यञ् । मनु-
वंशीये, त्रि ॥)

मानसं, क्ली, (मन एव । मनस् “प्रज्ञादिभ्यश्च ।”

५ । ४ । ३८ । इति स्वार्थे अण् ।) मनः । इत्य-
मरः । १ । ४ । ३१ ॥ (यथा, मार्कण्डेये । १५ । ६१ ।
“यज्ञदानतपांसीह परत्र च न भूतये ।
भवन्ति तस्य यस्यार्त्तपरित्राणे न मानसम् ॥”)
तस्य गुणा यथा, --
“परापरत्वं संख्याद्याः पञ्च वेगश्च मानसे ।”
इति भाषापरिच्छेदः ॥
(मनसि भवो जातो वा । मनस् + अण् ।)
मनोभवे, त्रि । यथा, सङ्कल्पः कर्म्ममानसम् ॥
इत्यमरः । १ । ५ । २ ॥
“विषयेष्वतिसंरागो मानसो मल उच्यते ।”
इत्येकादशीतत्त्वम् ॥
पृष्ठ ३/७००
“अनूढानङ्गपीडेव ममेयं मानसी व्यथा ॥”
इति प्राञ्चः ॥
मानसतापो यथा, --
“कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्या मात्सर्य्यादिभयन्तथा ॥
मानसोऽपि द्बिजश्रेष्ठ ! तापो भवति नैकधा ॥”
इति विष्णुपुराणे ६ अंशे ५ अध्यायः ॥
त्रिविधमानसकर्म्म । यथा, --
“परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥”
इति तिथ्यादितत्त्वम् ॥
मानसरोगा यथा, --
कामक्रोधलोभमोहभयाभिमानदैन्यपैशुन्य-
विषादेर्ष्यासूयामात्सर्य्यप्रभृतयः । अथवा ।
उन्मादापस्मारमूर्च्छाभ्रमतमःसंन्यासप्रभृतयः ।
इति भावप्रकाशः ॥ * ॥ (मनसा सङ्कल्पेन कृत-
मित्यण् ।) सरोवरविशेषः । इति मेदिनी ।
से, ३१ ॥ स च कैलासे ब्रह्मणा निर्म्मितः ।
यथा, --
“कैलासश्चापि दुष्कम्पो दानवेन्द्रेण कम्पितः ।
यक्षराक्षसगन्धर्व्वैर्नित्यं सेवितकन्दरः ॥
श्रीमान्मनोहरश्चैव नित्यं पुष्पितपादपः ।
हेमपुष्करसंछन्नं तेन वैखानसं सरः ॥
कम्पितं मानसञ्चैव राजहंसनिषेवितम् ॥”
इति महाभारते हरिवंशे नारसिंहे २२८ अः ॥
अपि च ।
“कैलासपर्व्वते राम ! मनसा निर्म्मितं परम् ।
ब्रह्मणा नरशार्दूल ! तेनेदं मानसं सरः ॥
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ।
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ॥”
इति रामायणे आदिकाण्डे २४ सर्गः ॥ * ॥
(पुं, नागविशेषः । यथा, महाभारते । १ । ५७ । १६ ।
“अमाहठः कामठकः सुषेणो मानसो व्ययः ।”
शाल्मलीद्वीपस्य वर्षविशेषः । यथा, मात्स्ये ।
५३ । २३ ।
“श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्यतो मानसश्चैव केतुमान् सप्तमस्तथा ॥”
पुष्करद्वीपस्थपर्व्वतविशेषः । यथा, मात्स्ये ।
“द्वीपार्द्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः ।”)

मानसजपः, पुं, (मानसेन कृतो जपः ।) धिया

वर्णश्रेण्युच्चारणम् । यथा,
“धिया यदक्षरश्रेणीं वर्णस्वरपदात्मिकाम् ।
उच्चरेदर्थमुद्दिश्य मानसः स जपः स्मृतः ॥
तज्जपे नियमो नास्त्येव । तथा च ।
“अशुचिर्वा शुचिर्वापि गच्छंस्तिष्ठन् स्वप-
न्नपि ।
मन्त्रैकशरणो विद्वान् मनसैव समभ्यसेत् ॥
न दोषो मानसे जाप्ये सर्व्वदेशेऽपि सर्व्वदा ॥”
इति तन्त्रसारः ॥

मानसतीर्थं, क्ली, (मानसं तीर्थमिव । रागाद्य-

मावात् तथात्वम् ।) रागादिरहितं मनः ।
यथा,
सूत उवाच ।
“तीर्थानि कथितान्येवं भौमानि मुनिसत्तम ! ।
मानसानीह तीर्थानि फलदानि विशेषतः ॥
मनो निर्म्मलतीर्थं हि रागादिभिरनाविलम् ॥”
इति नारसिंहपुराणे ४६ अध्यायः ॥

मानसपूजा, स्त्री, (मानसकृता पूजा । शाक-

पार्थिववत् समासः ।) मनोरचितद्रव्यकरणक-
सपर्य्या । यथा, हृत्पद्ममध्ये देवीं विभाव्य
कुण्डलीपात्रसंस्थेन स्रहस्रारामृतेन पाद्यं देव्या-
श्चरणे दद्यात् । ततो मनश्चार्घ्यं दत्त्वा सहस्र-
दलपद्मभृङ्गारललितपरमामृतजलेन आचम-
नीयं मुखे । पञ्चविंशति तत्त्वेन गन्धञ्च ।
अहिंसां विज्ञानं क्षमां दयां अलोभं अमोहं
अमात्सर्य्यं अमायां अनहङ्कारं अरागं अद्वेषं
इन्द्रियाणि द्बादश एतानि पुष्पाणि च प्रदाप-
येत् । ततस्तेजोरूपं दीपं वायुरूपं धूपं दद्यात्
अम्बरं चामरं दर्पणं सूर्य्यं चन्द्रं छत्रं पद्मन्तु
मेखलां आनन्दं हारमुत्तमं अनाहतध्वनिमयीं
घण्टां निवेदयेत् । ततः सुधारसाम्बुधिं मांस-
पर्व्वतं ब्रह्माण्डपूरितं पायसञ्च दत्त्वा ।
“मनोनर्त्तनसत्तालैः शृङ्गारादिरसोद्भवैः ।
नृत्यैर्गीतैश्च वाद्यैश्च तोषयेत् परमेश्वरीम् ॥”
एवं संपूज्य अभेदेन जपः कार्य्यः । इति तन्त्र-
सारे त्रिपुराप्रकरणम् ॥ * ॥ मानसैर्गु रुपूजा
यथा, नीलतन्त्रे ।
“ततो मानसगन्धाद्यैः पूजयेत् स्वस्वमुद्रया ।
कनिष्ठा पृथिवीतत्त्वं तद्योगाद्गन्धयोजनम् ॥
अङ्गुष्ठो गगनं तत्त्वं तेनैव पुष्पयोजनम् ।
तर्ज्जनी वायुतत्त्वं स्याद्धूपं तेनैव योजयेत् ॥
अनामा जलतत्त्वं स्यात्तेनैव योजयेच्च कम् ।
ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः ॥
जपं समर्प्य भक्त्या च प्रणमेद्दण्डवद्भुवि ॥”
अपि च ।
“मिथुनं चिन्तयित्वा तु मानसैरुपचारकैः ।
भौतिकैः पूजयेद्बिद्वान् मुद्रामन्त्रसमन्वितैः ॥
भूभ्याकाशमरुद्वह्निवारिमन्त्रैः सबिन्दुकैः ।
कनिष्ठाङ्गुलितर्ज्जन्यौ मध्यमानामिके तथा ॥
अङ्गुष्ठेन समायोगान्मुद्राः पञ्च प्रकीर्त्तिताः ।
पृथिव्यात्मकगन्धः स्यादाकाशात्मकपुष्पकम् ॥
धूपो वाय्वात्मकः प्रोक्तो दीपो वह्न्यात्मकः परः ।
रसात्मकञ्च नैवेद्यं पूजा पञ्चोपचारिका ॥
ततस्तु वाग्भवं जप्यादष्टोत्तरशतं सुधीः ॥”
इत्यन्नदानकल्पः ॥
अन्यच्च ।
“मानसैरुपचारैश्च संपूज्य कल्पयेन्मुदा ।
गन्धं भूम्यात्मकं दद्याद्भावपुष्पं ततः परम् ॥
धपं वाय्वात्मकं देयं तेजसा दीपमेव च ।
नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् ॥
अम्बरं मुकुरं दद्याच्चामरं छत्रमेव च ।
तत्रन्मुद्राविधानेन संपूज्यात्मगुरुं जपेत् ॥
यथाशक्ति जपं कृत्वा समाप्य कवचं पठेत् ॥”
इति कङ्कालमालिनीतन्त्रम् ॥
पूजाक्रमस्तु । निजगुरुं ध्यात्वामुकानन्दनाथा-
मुकशक्ताम्बाश्रीपादुकां पूजयामीति मानसै-
र्गन्धाक्षतकुसुमैरर्च्चयेत् । कनिष्ठाभ्यां लं पृथि-
व्यात्मकं गन्धं समर्पयामि नमः । अङ्गुष्ठाभ्यां हं
आकाशात्मकं पुष्पं समर्पयामि नमः । तर्ज्ज-
नीभ्यां यं वाय्वात्मकं धूपं समर्पयामि नमः ।
मध्यमाभ्यां रं वह्न्यात्मकं दीपं समर्पयामि
नमः । अनामिकाभ्यां वं अमृतात्मकं नैवेद्यं
समपैयामि नमः । इति कुलमूलावतारकल्प-
सूत्रटीकायां तृतीयकाण्डम् ॥

मानसव्रतं, क्ली, (मानसकृतं व्रतम् । शाकपार्थिव-

वत् समासः ।) अहिंसादि । यथा, --
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यमकल्कता ।
एतानि मानसान्याहुर्व्रतानि तु घराधरे ॥”
इति वराहपुराणम् ॥

मानसालयः, पुं, (मानसे आलयो यस्य ।) हंसः ।

इति राजनिर्घण्टः ॥

मानसिकं, त्रि, (मानस + ठञ् ।) मनोभवम् ।

मानसशब्दात् ष्णिकप्रत्ययेन निष्पन्नम् ॥ (पुं,
विष्णुः । यथा, महाभारते । १२ । ३३८ । ४ ।
“नमस्ते देवदेवेश ! निष्क्रिय !
निर्गुण ! मानसिक ! नामनामिक ! ।”)

मानसी, स्त्री, (मानस + स्त्रीत्वात् ङीप् ।) विद्या-

देवीविशेषः । इति हेमचन्द्रः । २ । १५ ॥ मनो-
भवा च ॥ (यथा, बिष्णुपुराणे । १ । ७ । १ ।
“ततोऽभिध्यायतस्तस्य जज्ञिरे मानसीः प्रजाः ॥”)

मानसूत्रं, क्ली, (मानस्य गात्रप्रमाणस्य तन्

मानार्थं वा सूत्रम् ।) स्वर्णादिनिर्म्मितकटि-
सूत्रम् । इति धनञ्जयः । गोट् इति भाषा ॥

मानसौकाः, [स्] पुं, (मानसं सर ओको वासस्थानं

यस्य ।) हंसः । इत्यमरः । २ । ५ । २३ ।
(यथा, महाभारते । ८ । ४१ । १३ ।
“वयं हंसाश्चरामेमां पृथिवीं मानसौकसः ।”)

मानिका, स्त्री, (मानयति गर्व्वीकरोतीति । मन +

णिच् + ण्वुल् टाप् अकारस्येत्वञ्च ।) मद्यम् ।
इति शब्दरत्नावली ॥ (माने प्रभवतीति । मान
+ ठक् ।) शरावः । इति वैद्यकपरिभाषा ।
शेर इति भाषा ॥

मानिनी, स्त्री, फली वृक्षः । इति मेदिनी । ने,

१०९ ॥ (मानं अस्त्यस्याः । मान + इनिः । ङीप् ।
मानवती च ॥ (यथा, गीतगोविन्दे । ९ । २ ।
“हरिरभिसरति वहति मृदुपवने ।
किमपरमधिकसुखं सखि ! भवने ॥
माधवे माकुरु मानिनि ! मानमये ॥”
अभिमानवती च । यथा, कुमारे । ५ । ५३ ।
“इयं महेन्द्रप्रभृतीनधिश्रिय-
श्चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्य्यं मदनस्य निग्रहात्
पिनाकपाणिं पतिमाप्तुमिच्छति ॥”
“मानिनीन्द्राणीप्रभृतीरतिशय्य वर्त्तितव्यमित्यभि-
मानवती ।” इति तट्टीकायां मल्लिनाथः ॥)
राज्यवर्द्धनस्य पत्नी । यथा, मार्कण्डेये । १०९ । १० ।
पृष्ठ ३/७०१
“विदूरथस्य तनया दाक्षिणात्यस्य भूभृतः ।
तस्य पत्नी बभूवाथ मानिनी नाम मानिनी ॥”)

मानी, [न्] त्रि, (मानोऽस्यास्तीति । मान + इनिः ।)

मानविशिष्टः । इति मेदिनी । ने, १०९ ॥
(यथा, मार्कण्डेये । १२३ । २२ ।
“ततस्ते भूभृतः सर्वे बहुशस्तेन मानिना ।
निराकृताः सुनिर्विन्नाः प्रोचुरन्योन्यमाकुलाः ॥”)
सिंहः । इति राजनिर्घण्टः ॥

मानुषः, पुं, (मनोर्जातः । मनु + “मनोर्जाता-

वञ् यतौ षुक् च ।” ४ । १ । १६१ । इत्यञ्
षुगागमश्च ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥
(यथा, मनौ । ९ । २८४ ।
“चिकित्सकानां सर्व्वेषां मिथ्याप्रचरतां दमः ।
अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥”
मनुष्यस्येदम् । अण् । मनुष्यसम्बन्धिनि, त्रि ।
यथा, महाभारते । १३ । ६ । २० ।
“अकृत्वा मानुषं कर्म्म यो दैवमनुवर्त्तते ।
वृथा श्राम्यति संप्राप्य पतिं क्लीवमिवाङ्गना ॥”)

मानुषिकं, त्रि, (मनुष्यस्य भावः कर्म्म वा ।

मनुष्य + ठञ् ।) मनुष्यस्य कर्म्मादि । मनुष्य-
स्येदमितीदमर्थे ष्णिकप्रत्ययेन निष्पन्नम् ॥

मानुषी, स्त्री, (मानुषस्य स्त्री । मानुष + जातित्वात्

ङीष् ।) मनुष्यस्त्रीजातिः । यथा, --
मनुष्यी मानुषी नारी मानवी मानुषस्त्रियाम् ।
इति शब्दरत्नावली ॥
(मनुष्य + अण् + ङीष् ।) चिकित्साविशेषः ।
यथा, --
“आसुरी मानुषी दैवी चिकित्सा सा त्रिधा
मता ।”
इति शब्दचन्द्रिका ॥

मानुष्यं, क्ली, (मनुष्यस्य भावः । मनुष्यस्येदमिति

वा । मनुष्य + अण् ।) मनुष्यस्य भावः । मनु-
ष्यत्वम् । (यथा, भागवते । ४ । २३ । २८ ।
“स वञ्चितो वतात्मध्रुक् कृच्छ्रेण महता भुवि ।
लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥”)
मनुष्यशरीरम् । यथा, --
“मानुष्ये कदलीस्तम्भे निःसारे सारमार्गणम् ।
यः करोति स संमूढो जलवुद्वुदसन्निभे ॥”
इति शुद्धितत्त्वे याज्ञवल्क्यवचनम् ॥
(मनुष्यसम्बन्धिनि, त्रि । यथा, महाभारते ।
१ । १५३ । ११ ।
“गच्छ जानीहि के न्वेते शेरते वनमाश्रिताः ।
मानुष्यो बलवान् गन्धो घ्राणं तर्पयतीव मे ॥”)

मानुष्यकं, क्ली, (मनुष्याणां समूहः । मनुष्य +

“गोत्रोक्षोष्ट्रोरभ्रेति ।” ४ । २ । ३९ । इति वुञ् ।)
मनुष्यसमूहः । इत्यमरः । ३ । २ । ४३ । (मनुषस्येदं
मानुष + यत् । स्वार्थे कन् । (मनुष्यसम्बन्धिनि,
त्रि । यथा, महाभारते । ५ । ७७ । ८ ।
“सुमन्त्रितं सुनीतञ्च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म्म दैवेनापि विरुध्यते ॥”)

मानोज्ञकं, क्ली, (मनोज्ञस्य भावः कर्म्म वेति ।

“द्बन्द्बमनोज्ञादिभ्यश्च ।” ५ । १ । १३३ । इति
वुञ् ।) मनोज्ञता । मनोज्ञस्य भाव इत्यर्थे
कण् प्रत्ययेन निष्पन्नम् ॥

मान्द्यं, क्ली, (मन्दस्य मावः कर्म्म वा । मन्द +

“पत्यन्तपुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इति
यक् ।) रोगः । इति हेमचन्द्रः ॥ मन्दता च ।
(यथा, कथासरित्मागरे । २४ । १३५ ।
“विश्वस्ते च ततस्तस्मिन् पुरोधसि चकार
सः ।
मान्द्यमल्पतराहारकृशीकृततनुर्मृषा ॥”)

मान्धाता, [ऋ] पुं, (मां धास्यतीति । घेट् +

तृच् ।) युवनाश्वराजपुत्त्रः । तत्पर्य्यायः ।
युवनाश्वजः २ । इति हेमचन्द्रः । ३ । ३६४ ।
तद्बिवरणं यथा । ‘तस्मात् प्रसेनजित् ततो युव-
नाश्वोऽमवत् । तस्य च पुत्त्रस्यातिनिर्व्वेदान्-
मुनीनामाश्रममण्डले निवसतः कृपालुभिस्तै-
र्मुनिभिरपत्योत्पादनायेष्ठिः कृता । तस्याञ्चार्द्ध-
रात्रे निवृत्तायां मन्त्रपूतजलपूर्णकलसं वेदी-
मध्ये निवेश्य ते मुनयः सुषुपुः । सुप्तेषु च तेष्व-
तीवतृट्परीतः स भूपालस्तमाश्रममण्डलं
विवेश । सुषुप्तांश्च तानृषीन् नैवोत्थापयामास ॥
तच्च कलसजलमपरिमेयमाहात्म्यं मन्त्रपूतं
पपौ । प्रबुद्धाश्च ऋषयः पप्रच्छुः । केनैतन्मन्त्र-
पूतं वारि पीतम् । अत्र हि पीते राज्ञोऽस्य
युवनाश्वस्य पत्नी महाबलपराक्रमं पुत्त्रं जन-
यिष्यति । इत्याकर्ण्य स राजा अजानता मया
पीतमित्याह । गर्भश्च युवनाश्वोदरेऽभवत् ।
क्रमेण च ववृधे । प्राप्तसमयश्च दक्षिणं कुक्षि-
मवनीपतेर्निभिद्य निश्चक्राम । न चासौ राजा
ममार । जातो नामैष कं धास्यतीति ते मुनयः
प्रोचुः । अथागम्य देवराडब्रवीत् । मामयं
धास्यति । ततोऽसौ मान्धाता नामतोऽभवत् ।
वक्त्रे चास्य प्रदेशिनी देवेन्द्रेण न्यस्ता तां पपौ ।
ताञ्चामृतस्राविणीमासाद्याह्नैवैकेन व्यवर्द्धत ।
स तु मान्धाता चक्रवर्त्ती सप्तद्बीपां महीं
बुभुजे । भवति चात्र श्लोकः ।
“यावत् सूर्य्य उदेतिस्म यावच्च प्रतितिष्ठति ।
सर्व्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥”
मान्धाता शशबिन्दुदुहितरं बिन्दुमतीमुपयेमे ।
पुरुकुत्समम्बरीषं मुचुकुन्दञ्च तस्यां पुत्त्रत्रय-
मुत्पादयामास । पञ्चाशच्च दुहितरस्तस्यामेव
तस्य नृपतेर्ब्बभूवुः ।” इति विष्णुपुराणे ४ अंशे
२ अध्यायः ॥

मान्यः, त्रि, (मान्यत इति । मान + कर्म्मणि

ण्यत् ।) अर्च्च्यः । तत्पर्य्यायः । पूज्यः २
प्रतीक्ष्यः ३ भगवान् ४ भट्टारकः ५ । इति
जटाधरः ॥ (यथा च मनौ । २ । १३९ ।
“तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ ।”
प्रार्थनीयः । यथा, रामायणे । २ । ८ । १८ ।
“यथा वै भरतो मान्यस्तथा भूयोऽपि राघवः ।
कौशल्यातोऽतिरिक्तञ्च मम सुश्रूषते बहु ॥”
“मान्यः प्रार्थनीयः श्रेयस्करः । तथा तद्बत् ।”
इति तट्टीकायां रामानुजः ॥)

मान्यस्थानं, क्ली, (मान्यस्य स्थानं ।) पूज्यत्व-

कारणम् । यथा, --
“वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सोऽत्र मानार्हः शूत्रोऽपि दशमीं
गतः ॥”
इति मानवे २ अध्यायः । कौर्म्म ११ अध्याये-
ऽप्येवम् ॥

मान्या, स्त्री, (मान्य + स्त्रियां टाप् ।) मरुन्माला ।

यथा, --
“अनिर्मान्या तु मान्या च मरुन्माला च
मोहना ॥”
इति शब्दमाला ॥
पूज्या च ॥

मापत्यः, पुं, (मा विद्यतेऽपत्यमस्य ।) कामः ।

इति हलायुधः ॥

मापनः, पुं, (मापयति स्वर्णादिकमनेनेति । मा +

णिच् + करणे ल्युट् ।) तूलः । इति शब्द-
चन्द्रिका ॥ परिमाणे, क्ली ॥ (स्त्रियामप्यत्र ।
यथा, महाभारते । १ । ५१ । १५ ।
“यस्मिन् देशे च काले च मापनेयं प्रवर्त्तिता ॥”)

मामकं, त्रि, (ममेदम् । अस्मद् + “तवकममका-

वेकवचने ।” ४ । ३ । ३ । इति अण् ममका-
देशश्च ।) मदीयम् । इति मेदिनी । के, १३८ ॥
(यथा, महाभारते । १ । १०५ । १२ ।
“ततो मामाह स मुनिर्गर्भमुत्सृज मामकम् ॥”)
ममतायुक्तः । इति शब्दमाला ॥ यथा च
महाभारते । ४ । ५० । १७ ।
“अत्र या मामिका बुद्धिः श्रूयतां यदि रोचते ॥”)

मामकः, पुं, (माम + स्वार्थे कन् ।) मातुलः ।

इति मेदिनी ॥ के, १३८ ॥ ममायं वा ममेदमिति
बुद्धिर्यस्य । कप् ।) कृपणः । इति शब्दमाला ॥

मामकीनं, त्रि, (ममेदम् । अस्मद् + “तवकमम-

कावेकवचने ।” ४ । ३ । ३ । इति खञ् । ममका-
देशश्च ।) मदीयम् । ममेदमित्यर्थे णीने क्तेर्लुकि
अस्मद एकत्वान्मदादेशे अस्य च ममकादेशे
वृद्धौ मामकीनम् । इति दुर्गादासः ॥ (यथा,
कथासरित्सारे । ३२ । १४५ ।
“एतच्च मे कियत् किं हि न बुद्ध्या साधयाम्य-
हम् ।
प्रज्ञानं मामकीनं च श्रूयतां वर्णयामि ते ॥”)

मायः, पुं, (माया अस्यास्तीति । माया + अर्श

आदित्वादच् ।) पीताम्बरः । (यथा, महा-
भारते । १३ । २४ । ३११ ।
“नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै
नमः ॥”)
(मयस्यापत्यं पुमान् । मय + अण् ।) अमुरः ।
इति मेदिनी ॥ ये, ४६ ॥

माया, स्त्री, (मीयते अपरोक्षवत् प्रदर्श्यतेऽनया

इति । मा + “माच्छाससिसूभ्यो यः ।” उणा०
४ । १०९ । इति यः टाप् ।) इन्द्रजालादिः ।
पृष्ठ ३/७०२
तत्पर्य्यायः । शाम्बरी २ । इत्यमरः । २ । १० ।
११ ॥ इन्द्रजालिः ३ कुहकम् ४ कुसृतिः ५
शाम्बरिः ६ । इति जटाधरः । साम्बरी ७ ।
इति शब्दरत्नावली ॥ माति विश्वमस्यां मनी-
षादिः । शम्बरस्य दैत्यस्य इयं शाम्बरी तेन
प्राङ्निर्म्मितत्वात् । इति भरतः ॥ * ॥ बुद्धिः ।
इति मेदिनी । ये, ४६ । (मीमिते जानाति
संख्यात्यनयेति । मा + यः टाप् ।) कृपा ।
दम्भः । इति नानार्थे हेमचन्द्रः ॥ शठता ।
यथा, --
“माया तु शठता शाठ्यं कुसृतिर्निकृतिश्च सा ॥”
(प्रज्ञा । यथा, ऋग्वेदे । २ । १७ । ५ ।
“अधारयत् पृथिवीं विश्वधायस मस्तभ्नान्
मायया द्यामवस्रसः ।”
“मायया प्रज्ञया ।” इति तद्भाष्ये सायनः ॥)
राज्ञां क्षुद्रोपायविशेषः । यथा, --
“मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रयः ॥”
लक्ष्मीः । इति च हेमचन्द्रः ॥ बुद्धमाता ।
इत्यमरकोषे मायादेवीसुतशब्ददर्शनात् ।
दुर्गा । यथा, --
“दुर्गे शिवेऽभये माये नारायणि सनातनि ।
जये मे मङ्गलं देहि नमस्ते सर्व्वमङ्गले ॥
राजन् ! श्रीवचनो माश्च याश्च प्रापणवाचकः ।
तां प्रापयति या सद्यः सा माया परिकीर्त्तिता ॥
माश्च मोहार्थवचनो याश्च प्रापणवाचनः ।
तं प्रापयति या नित्यं सा माया परिकीर्त्तिता ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २७ अध्यायः ॥
अपि च ।
“विचित्रकार्य्यकारणा अचिन्तितफलप्रदा ।
स्वप्नेन्द्रजालवल्लोके माया तेन प्रकीर्त्तिता ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
विसदृशप्रतीतिसाधनं माया । इति नागोजी-
भट्टः ॥ अघटनघटनपटीयसी माया । इति
केचित् ॥ ईश्वरशक्तिः । तस्या नामान्तरं यथा ।
प्रकृतिः २ अविद्या ३ अज्ञानम् ४ प्रधानम् ५
शक्तिः ६ अजा ७ । सृष्टिकाले भगवान् आदौ
मायां प्रकाशयामास । सा द्रष्टृदृश्यानुसन्धानरूपा
कार्य्यकारणरूपा च । सत्वरजस्तमोगुणमयी ।
तस्याः शक्तिद्बयं आवरणं विक्षेपश्च । तस्या
मायाया महत्तत्त्वं जातम् । तस्मादहङ्कारः ।
तस्मात् पञ्चभूतम् । तस्मात् ब्रह्माण्डम् । इति
श्रीभागवतमतम् ॥ (मायास्वरूपम् । यथा च
पञ्चदश्याम् । ६ । १२२ -- १४१ ।
“तत्त्वनिश्चयकामेन न्यायागमविचारिणाम् ।
एकैव प्रतिपत्तिः स्यात् साप्यत्र स्फुटमुच्यते ॥
मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् ।
अस्यावयवभूतैस्तु व्याप्तं सर्व्वमिदं जगत् ॥
इति श्रुत्यनुसारेण न्यायो निर्णय ईश्वरे ।
तथा सत्यविरोधः स्यात् स्थावरान्तेशवादिनाम् ॥
माया चेयं तमोरूपा तापनीये तदीरणात् ।
अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम् ॥
जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः ।
आबालगोपं स्पष्टत्वादानन्त्यं तस्य साब्रषीत् ॥
अचिदात्मघटादीनां यत् स्वरूपं जडं हि तत् ।
यत्र कुण्ठीभवेद् बुद्धिः स मोह इति लौकिकाः ॥
इत्थं लौकिकदृष्ट्यैतत् सर्वैरप्यनुभूयते ।
युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदिति श्रुतेः ॥
नासदासीद् विभातत्वान्नो सदासीच्च बाधनात् ।
विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः ॥
तुच्छानिर्व्वचनीया च वास्तवी चेत्यसौ त्रिधा ।
ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः ॥
अस्य सत्त्वमसत्त्वञ्च जगतो दर्शयत्यसौ ।
प्रसारणाच्च सङ्कोचात् यथा चित्रपटस्तथा ॥
अस्वतन्त्रा हि माया स्यादप्रतीतेर्व्विना चितिम् ।
स्वतन्त्रापि तथैव स्यादसङ्गस्यान्यथाकृतेः ॥
कूटस्थासङ्गमात्मानं जडत्वेन करोति सा ।
चिदाभासस्वरूपेण जीवेशावपि निर्म्ममे ॥
कूटस्थमनपाकृत्य करोति जगदादिकम् ।
दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः ॥
द्रवत्वमुदके वह्रावौष्ण्यं काठिन्यमश्मनि ।
मायाया दुर्घटत्वञ्च स्वतः सिध्यति नान्यथा ॥
न वेत्ति मायिनं लोको यावत् तावच्चमत्कृतिम् ।
धत्ते मनसि पश्चात्तु मायैषेत्युपशाम्यति ॥
प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु ।
न चोदनीयं मायायां तस्याश्चोद्यैकरूपतः ॥
चोद्येऽपि यदि चोद्यं स्यात् तच्चोद्ये चोद्यते मया ।
परिहार्य्यं ततश्चोद्यं न पुनः प्रतिचोद्यताम् ॥
विस्मयैकशरीराया मायायाश्चोद्यरूपतः ।
अन्वेष्यः परिहारोऽस्या बुद्धिमद्भिः प्रयत्नतः ॥
मायात्वमेव निश्चेयमिति चेत् तर्हि निश्चिनु ।
लोकप्रसिद्धमायाया लक्षणं यत् तदीक्ष्यताम् ॥
न निरूपयितुं शक्या विस्पष्टं भासते च या ।
सा मायेतीन्द्रजालादौ लोकाः सम्प्रतिपेदिरे ॥”)
विष्णुमायास्वरूपं यथा, --
“यामेतां भाषसे देव ! मम मायेति नित्यशः ।
का माया कीदृशी विष्णो ! किं वा मायेति
चोच्यते ।
ज्ञातुमिच्छामि मायार्थं रहस्यं परमुत्तमम् ॥
ततस्तस्या वचः श्रुत्वा विष्णुर्मायाकरण्डकः ।
प्रहस्य मधुरं वाक्यं प्रत्युवाच वसुन्धराम् ॥
भूमे ! मा पृच्छ मायां मे यन्मां पृच्छसि सादरम् ।
वृथा क्लेशं किमर्थं त्वं प्राप्स्यसे मद्विलोकनात् ।
अद्यापि मां न जानन्ति रुद्रेन्द्राः सपितामहाः ॥
मम माया विशालाक्षि ! किं पुनस्त्वं वसुन्धरे ! ॥
पर्ज्जन्यो वर्षते यत्र तज्जलेन प्रपूर्य्यते ।
देशो निर्ज्जलतां याति एषा माया मम प्रिये ! ॥
सोमोऽपि हीयते पक्षे पक्षे वापि विवर्द्धते ।
अमायां स न दृश्येत मायेयं मम सुन्दरि ! ॥
हेमन्ते सलिलं कूपे उष्णं भवति तत्त्वतः ।
भवेच्च शीतलं ग्रीष्मे मायेयं मम तत्त्वतः ॥
पश्चिमां दिशमास्थाय यदस्तं याति भास्करः ।
उदेति पूर्ब्बतः प्रातर्मायेयं मम सुन्दरि ! ॥
शोणितञ्चेव शुक्रञ्च उभे प्राणिषु संस्थिते ।
गर्भे च जायते जन्तुर्मम मायैव चोत्तमा ॥
जीवः प्रविश्य गर्भे तु सुखदुःखानि बिन्दति ।
जातश्च विस्मरेत् सर्व्वमेषा माया ममोत्तमा ॥
आत्मकर्म्माश्रितो जीवो नष्टसंज्ञो गतस्पृहः ।
कर्म्मणा नीयतेऽन्यत्र मायैषा मम चोत्तमा ॥
शुक्रशोणितसंयोगाज्जायन्ते यदि जन्तवः ।
अङ्गुल्यश्चरणौ चैव भुजौ शीर्षं कटिस्तथा ॥
पृष्ठं तथोदरञ्चैव दन्तौष्ठपुटनासिका ।
कर्णौ नेत्रकपोलौ च ललाटं जिह्वया सदा ॥
एतया मायया युक्ता जायन्ते यदि जन्तवः ।
तस्यैव जीर्य्यते जन्तोर्भुक्तं पीतञ्च वह्निना ।
अयञ्च स्रवते जन्तुरेषा माया ममोत्तमा ॥
शब्दः स्पर्शश्च रूपञ्च रसो गन्धश्च पञ्चमः ।
अन्नात् प्रवर्त्तते जन्तुरेषा माया मम प्रिये ! ॥
सर्व्वर्त्तुषु निजाकारः स्थावरे जङ्गमे तथा ।
तत्त्वं न ज्ञायते तस्य मायैषा मम सुन्दरि ! ॥
आपो विद्यास्तथा भौमा आपो येषु प्रतिष्ठिताः ।
न च वृद्धिं प्रयान्त्यत्र मायैषा परमा मम ॥
वृष्टौ बहूदकाः सर्व्व पल्वलानि सरांसि च ।
ग्रीष्मे सर्व्वाणि शुष्यन्ति एतन्मायाबलं मम ॥
हिमवच्छिखरान्मुक्ता नाम्ना मन्दाकिनी नदी ।
गाङ्गता सा भवेद्गङ्गा मायैषा मम कीर्त्तिता ॥
मेघा गृह्णन्ति सलिलं लवणात् सलिलार्णवात् ।
वर्षन्ति मधुरं लीके सर्व्वं भायाबलं मम ॥
रोगार्त्ता जन्तवः केचित् भक्षयन्ति महौषधम् ।
तस्य वीर्य्यं समाश्रित्य मायां तु विसृजाम्यहम् ॥
औषधे दीयमाने तु जन्तुः पञ्चत्वमेति यत् ।
निर्वीर्य्यमौषधं कृत्वा कालो भूत्वा हराम्यहम् ॥
प्रथमं जायते गर्भः पश्चाज्जायत वै पुमान् ।
जायते मध्यमं रूपं ततोऽपि जरया पुनः ।
तत इन्द्रियनाशश्च एतन्मायाबलं मम ॥
एकबीजात् प्रकीर्णाद्वै जायन्ते तानि भूरिशः ।
तत्रामृतं विसृजामि मायायोगेन माधवि ! ॥
लोक एवं विजानाति गरुडो वहतेऽच्युतम् ।
भूत्वा वेगेन गरुडो वहाम्यात्मानमात्मना ॥
या एता देवताः सर्व्वा यज्ञभागेन तोषिताः ।
मायामेतामहं कृत्वा तोषयामि दिवौकसः ॥
लोकाः सर्व्वे विजानन्ति देवा नित्यं मखाशिनः ।
मायामेतामहं कृत्वा यक्ष्यामि त्रिदशान् सदा ॥
सर्व्वोऽपि यजते लोको यष्टारञ्च बृहस्पतिम् ।
मायामाङ्गिरसीं कृत्वा याजयामि दिघोकसः ॥
सर्व्वे लोका विजानन्ति वरुणः पाति सागरम् ।
मायान्तु वारुणीं कृत्वाहं रक्षामि महोदधिम् ॥
सर्व्वे लोका विजानन्ति कुवेरोऽयं धनेश्वरः ।
कुवेरमायामादाय अहं रक्षामि तद्धनम् ॥
एवं लोका विजानन्ति वृत्रः शक्रेण सूदितः ।
शाक्रीं मायां समास्थाय मया वृत्रो निसूदितः ॥
एवं लोका विजानन्ति आदित्यश्च ध्रुवो महान् ।
मेरुं मायामयं कृत्वा वहाम्यादित्यमेव च ॥
एवं चाभाषते लोको जलं किन्नश्यतेऽखिलम् ।
बडवामुखमास्थाय पिबामि तदहं जलम् ॥
वायुं मायामयं कृत्वा मेधेषु विसृजाम्यहम् ।
यदिदं भाषते लोकः कुत्रैवं तिष्ठते जलम् ॥
पृष्ठ ३/७०३
देवा अपि न जानन्ति अमृतं कुत्र तिष्ठति ।
मम मायानियोगेन तिष्ठते ह्यौषधं वने ॥
लोको ह्येवं विजानाति राजा पालयते प्रजाः ।
राजमायामहं कृत्वा पालयामि वसुन्धराम् ॥
ये तु वै द्बादशादित्या उदेष्यन्ति युगक्षये ।
प्रविश्य तानहं भूमे ! मायां लोके सृजाम्यहम् ॥
वर्षञ्च पांशुना भूमिलोकेषु यतते सदा ।
मायां पांशुमयीं कृत्वा पूरयाम्यखिलं जगत् ॥
वर्षते यत्र सं बर्त्तो धाराभिर्मुषलाकृति ।
मायां सांवर्त्तकीं गृह्य पूरयाम्यखिलं जगत् ॥
यत् स्वपामि वरारोहे ! शेषस्योपरि वारिणि ।
अनन्तमायया चाहं धारयामि स्वपामि च ॥
वराहमायामादाय भूमे ! जानामि किन्न वै ।
देवा यत्र निलीयन्ते सा माया मम कीर्त्तिता ॥
त्वञ्चापि वैष्णवीं मायां कृत्वा जानासि किन्न
तत् ।
धारितासि च सुश्रोणि ! वारान् सप्तदशैव तु ॥
माया तु मम देवीयं कृत्वा ह्येकार्णवां महीम् ।
मम मायाबलं ह्येतद्येन तिष्ठाम्यहं जले ॥
प्रजापतिं शतं रुद्रं सृजामि च हरामि च ।
तेऽपि मायां न जानन्ति मम मायाविमो-
हिताः ॥
अथ पितृगणाश्चैव य एते सूर्य्यवर्च्चसः ।
मायां पितृमयीं ह्येतां गृह्णामि हि च तत्त्वतः ॥
किन्तु मायैव सुश्रोणि ! अन्यच्च शृणु
सुन्दरि ! ॥”
इति वाराहे मायाचक्रम् ॥ * ॥
अथ मायास्तोत्रम् ।
शौनक उवाच ।
“शशिध्वजो महाराजः स्तुत्वा मायां गतः
कुतः ।
का वा मायास्तुतिः सूत ! वद तत्त्वविदांवर ! ।
या त्वत्कथा विष्णुकथा वक्तव्या सा विशुद्धये ॥”
सूत उवाच ।
“शृणुध्वं मुनयः सर्व्वे मार्कण्डेयाय पृच्छते ।
शुकः प्राह विशुद्धात्मा मायास्तवमनुत्तमम् ॥
तत् शृणुष्व प्रवक्ष्यामि यथाधीतं यथाश्रुतम् ।
सर्व्वकामप्रदं नॄणां पापतापविनाशनम् ॥”
शुक उवाच ।
“भल्लाटनगरं त्यक्त्वा विष्णुभक्तः शशिध्वजः ।
आत्मसंसारमोक्षाय मायास्तवमलं जगौ ॥”
शशिध्वज उवाच ।
“ॐ ह्रींकारां सत्त्वसारां विशुद्धां
ब्रह्मादीनां मातरं वेदबोध्याम् ।
तन्वीं स्वाहां भूततन्मात्रकक्षां
बन्दे बन्द्यां देवगन्धर्व्वसिद्धैः ॥
लोकातीतां द्वैतभीतां समीडे
भूतैर्भव्यां व्याससामासिकार्थैः ।
नानारूपैर्देवतिर्य्यङ्मनुष्यै-
स्तामाधारां ब्रह्मरूपां नमामि ॥
यस्या भाषा त्रिजगद्भाति भूतै-
र्न भात्येतत्तदभावे विधातुः ।
विद्वद्गीतां कालकल्लोललोलां
नीलापाङ्गीं क्षिप्तसंसारदुर्गाम् ॥
पूर्णां प्राप्यां द्वैतलभ्यां शरण्या-
माद्ये शेषे मध्यतो या विभाति ।
कालो दैवं कर्म्म सोपाधयो ये
तस्यां तासां तां विशिष्टां नमामि ॥
भूमौ गन्धो रसताप्सु प्रतिष्ठा
रूपं तेजस्येव वायौ स्पृशत्वम् ।
खे शब्दो वै यद्भिदा भाति नाना
तामाद्यां तां विश्वरूपां नमामि ॥
साबित्री त्वं ब्रह्मरूपा भवानी
भूतेशस्य श्रीपतेः श्रीस्वरूपा ।
शची शक्रस्यापि नाकेश्वरस्य
पत्नी श्रेष्ठा भासि माये ! जगत्सु ॥
बाल्ये बाला युवती योवने त्वं
वार्द्धक्ये या स्थविरा कालकल्पा ।
नानाकारैर्यागयोगैश्च धर्म्मो
भक्त्या वै त्वं कामवज्रा विभासि ॥
वरेण्या त्वं वरदा लोकसिद्धा
साध्वी धन्या लोकमान्या सुकन्या ।
चण्डी दुर्गा कालिका कालिकाख्या
नानादेशे रूपवेशैर्विभासि ॥
तव चरणसरोजं देवि ! देवादिवन्द्यं
यदि हृदयसरोजे भावयन्तीह भक्त्या ।
शुककृतमतिशुद्धं हृत्सरोजे स्मरन्ति
श्रुतियुगकुहरे वा संश्रुतं धर्म्मसम्पत् ॥
जनयति जगदाद्ये सर्व्वसिद्धिञ्च तेषाम् ॥
मायास्तवमिदं पुण्यं शुकदेवेन भाषितम् ।
मार्कण्डेयादयश्चापि सिद्धिं लेभे शशिध्वजः ॥
कोकामुखे तपस्तप्त्वा हरिं ध्यात्वा वना-
न्तरे ।
सुदर्शनेन निहतो वैकुण्ठशरणं ययौ ॥”
इति श्रीकल्किपुराणेऽनुभागवते भविष्ये माया-
स्तव ऊनत्रिंशोऽध्यायः ॥ (शक्तिः सामर्थ्यं वा ।
यथा, ऋग्वेदे । ४ । ३ । २१ ।
“दासानामिन्द्रो मायया ।”
“मायया स्वकीयया शक्त्या ।” इति तद्भाष्ये
सायणः ॥)

मायाकारः, पुं, (मायां इन्द्रजालव्यापारं करो-

तीति । कृ + अण् ।) ऐन्द्रजालिकः । वाजी-
कर इति भाषा । तत्पर्य्यायः । प्रातिहारिकः
२ । इत्यमरः । २ । १० । ११ ॥ मायां स्थल-
जलादौ जलस्थलादिज्ञानं करोतीति माया-
कारः षण् । प्रतिहरणं प्रतिहारो व्याजः भावे
घञ् स प्रयोजनमस्य प्रातिहारिकः ष्णिकः
णित्त्वे व्रिरिति वृद्धिः । प्रतिहारक इत्यपि
पाठः । तत्र प्रति प्रथमं सुष्ठु मनो नयने च
हरति ज्ञाते न किञ्चिदिति प्रतिहारकः ॥
णकान्तात् स्वार्थे ष्णे प्रातिहारकश्च घञि प्रति-
हारश्च । इति तट्टीकायां भरतः ॥

मायाकृत्, पुं, (मायां स्थलजलादौ जलस्थलादि

ज्ञानं करोति कारयतीति । कृ + क्विप् । तुगा-
गमश्च । करोतिरत्रान्तर्भूतण्यर्थः ।) माया
कारः । यथा, --
“शाम्बरी साम्बरी माया मायाकृत् भिक्षुके
नटे ।”
इति शब्दरत्नावली ॥

मायाजीवी, [न्] पुं, (मायया इन्द्रजालविद्यया

जीवति जीवनयात्रां सम्पादयति इति ।
जीव + णिनिः ।) प्रातिहारिकः । इति हेम-
चन्द्रः । ३ । ५८९ ॥

मायातिः, पुं, (मायया सह अतति । यद्बा, मा

अततीति । अत + “अज्यतिभ्यां च ।” उणा०
४ । १३० । इति इण् ।) नरबलिः । यथा, --
“मायातीनाञ्च निर्णीतं श्रूयतां मुनिसत्तम ! ।
वक्ष्याम्यथर्व्ववेदोक्तं फलहानिर्व्यतिक्रमे ॥
पितृमातृविहीनञ्च युवकं व्याधिवर्जितम् ।
विवाहितं दीक्षितञ्च परदारविहीनकम् ॥
अजारिकं विशुद्धञ्च सच्छूद्रं मूलकं वरम् ।
तद्बन्धुभ्यो धनं दत्त्वा क्रीतं मूल्यातिरेकतः ॥
स्नापयित्वा च तं धर्म्मी संपूज्य वस्त्रचन्दनैः ।
माल्यैर्धूपैश्च सिन्दूरैर्दधिगोरोचनादिभिः ॥
तञ्च वर्षं भ्रामयित्वा चरद्वारेण यत्नतः ।
वर्षान्ते च समुत्सृज्य दुर्गायै तं निवेदयेत् ॥
अष्टमीनवमीसन्धौ दद्यान्मायातिमेव च ।
इत्येवं कथितं सर्व्वं बलिदानप्रसङ्गतः ॥
बलिं दत्त्वा च स्तुत्वा च धृत्वा च कवचं बुधः ।
प्रणम्य दण्डवद्भूमौ दद्याद्बिप्राय दक्षिणाम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १६ अध्यायः ॥

मायादः, पुं, (मायया छलेन धृत्वेत्यर्थः अत्ति

भक्षयतीति । अद + अच् ।) कुम्भीरः । इति
त्रिकाण्डशेषः ॥

मायादेवीसुतः, पुं, (मायादेव्याः सुतः ।) बुद्धः ।

इत्यमरः । १ । १ । १५ ॥

मायाफलं, क्ली, फलविशेषः । माइफल इति

भाषा । तत्पर्य्यायः । मायिफलम् २ मायिकम् ३
छिद्राफलम् ४ मायि ५ । अस्य गुणाः । वात-
हरत्वम् । कटुत्वम् । उष्णत्वम् । शैथिल्यसङ्को-
चककेशकार्ष्ण्यदातृत्वञ्च । इति राजनिर्घण्टः ॥

मायामोहः, पुं, (मायया मोहयति असुरानिति ।

मुह + णिच् + अच् । माया च मोहश्च तौ
यस्येति वा ।) विष्णुदेहनिर्गतासुरमोहक-
पुरुषविशेषः । यथा, --
श्रीपराशर उवाच ।
“इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः ।
तमुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥”
श्रीभगवानुवात्त ।
“मायामोहोऽयमखिलान् दैत्यांस्तान्
मोहयिष्यति ।
ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥
स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः ।
ब्रह्मणो येऽधिकारस्य देवदैत्यादिकाः सुराः ॥
तद्गच्छत न भीः कार्य्या मायामोहोऽयमग्रतः ।
गच्छत्वद्योपकाराय भवतां भविता सुराः ॥”
पृष्ठ ३/७०४
श्रीपराशर उवाच ।
“इत्युक्त्वा प्रणिपत्यैनं ययुर्देवा यथागतम् ।
मायामोहोऽपि तैः सार्द्धं ययौ यत्र महा-
सुराः ॥”
इति विष्णुपुराणे ३ अंशे १७ अध्यायः ॥

मायावती, स्त्री, (मायास्यास्तीति । माया +

मतुप् । मस्य वः । उगित्त्वान् ङीप् ।) रतिः ।
कामपत्नी । इति जटाधरः ॥ तस्या नामकारणं
यथा, --
श्रीपराशर उवाच ।
“एतस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः ।
अन्तःपुरचरीं देवीं रुक्मिणीं प्राह हर्षयन् ॥
एष ते तनयः सुभ्रु ! हत्वा शम्बरमागतः ।
हृतो येनाभवद्बालो भवत्याः सूतिकागृहात् ॥
इयं मायावती भार्य्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्य्येयं श्रूयतामत्र कारणम् ॥
मन्मथे तु गते नाशं तदुद्भवपरायणा ।
शम्बरं मोहयामास मायारूपेण रूपिणी ॥
व्यवायाद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥”
इति विष्णुपुराणे ५ अंशे २७ अध्यायः ॥
(विद्याधरीविशेषः । यथा, कथासरित्सागरे ।
१३ । ३५ ।
“अहं मायावती नाम राजन् ! विद्याधराङ्गना ।
इयन्तं कालमभवं शापदोषेण हस्तिनी ॥”
राजकन्याविशेषः । यथात्रैव । ११२ । ११२ ।
“अभून्मलयसिंहाख्यो राजा राजगृहे पुरा ।
तस्य मायावतीत्यासीद्रूपेणाप्रतिमा सुता ॥”)

मायावसिकः, त्रि, (मायया वसं आच्छादनं

करोतीति ठन् ।) परप्रतारकः । इति शब्द-
माला ॥ (मायारसिक इति वा पाठः ॥)

मायावान्, [त्] पुं, (माया अस्त्यस्य । माया +

“अस्मायामेधास्रजो विनिः ।” ५ । २ । १२१ ।
इति पक्षे मतुप् । मस्य वः ।) कंसराजः ।
इति शब्दरत्नावली ॥ मायायुक्ते, कपटयुक्ते
च त्रि । (यथा, ऋग्वेदे । ४ । १६ । ९ ।
“ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावान-
ब्रह्मा दस्युरर्त्त ।”
“मायावान् कपटवान् ।” इति तद्भाष्ये
सायणः ॥)

मायावी, [त्] पुं, (प्रशस्ता मायाकापट्यमस्त्य-

स्येति । माया + “अस्मायामेधास्रजो विनिः ।”
५ । २ । १२१ । इति विनिः ।) मायाकारः ।
तत्पर्य्यायः । व्यंसकः २ मायी ३ मायिकः ४
ऐन्द्रजालिकः ५ । इति जटाधरः ॥ (यथा,
मार्कण्डेये । २२ । ७ ।
“मायावी दानवः सोऽथ मुनिरूपं समास्थितः ।
स प्राह राजपुत्त्रं तं पूर्ब्बवैरमनुस्मरन् ॥”)
विडालः । इति राजनिर्घण्टः ॥ (मोहन-
शक्तियुक्तः परमात्मा । यथा, पञ्चदश्याम् । ६ । ४ ।
“स्ततश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः ।
सूत्रात्मा स्थूलसृष्ट्यैव विराडित्युच्यते परः ॥”)

मायासीता, स्त्री, (मायाकल्पिता सीता ।) योगेन

अग्निकृतसीताप्रतिकृतिः । यथा, --
अग्निरुवाच ।
“भगवन् ! श्रूयतां वाक्यं कालेन यदुपस्थितम् ।
सीताहरणकालोऽयं तत्रैव समुपस्थितः ॥
दैवञ्च दुर्निवारञ्च न च दैवात् परं बलम् ।
मत्प्रसूं मयि संन्यस्य छाया रक्ष्यान्तिकेऽधुना ॥
दास्यामि सीतां तुभ्यञ्च परीक्षासमये मम ।
देवैः प्रस्थापितोऽहञ्च न च विप्रो हुता-
शनः ॥
रामस्तद्बचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।
स्वीचकार च स्वच्छन्दं हृदयेन विदूयता ॥
वह्निर्योगेन सीताया मायासीतां चकार सः ।
तद्रूपगुणसर्व्वांशां ददौ रामाय नारद ! ॥
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च ।
लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥
लङ्कां गत्वा रघुश्रेष्ठो जघान शायकेन च ।
सबान्धवं रावणञ्च सीतां संप्राप दुःखिताम् ॥
ताञ्च वह्निपरीक्षाञ्च कारयामास सत्वरम् ।
हुताशस्तत्र काले च वास्तवीं जानकीं ददौ ॥
उवाच छाया वह्निञ्च रामञ्च विनयान्विता ।
करिष्यामीति किमहं तदुपायं वदस्व मे ॥”
वह्निरुवाच ।
“त्वं गच्छ तपसे देवि ! पुष्करञ्च सुपुण्यदम् ।
कृत्वा तपस्यां तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥
सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः ।
दिव्यं त्रिलक्षवर्षञ्च स्वर्गलक्ष्मीर्ब्बभूव ह ॥
सा च कालेन तपसा यज्ञकुण्डसमुद्भवा ।
कामिनी पाण्डवानाञ्च द्रौपदी द्रुपदात्मजा ॥
कृते युगे वेदवती कुशध्वजसुता शुभा ।
त्रेतायां रामपत्नी सा सीतेति जनकात्मजा ॥
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।
त्रिहायंणीति सा प्रोक्ता विद्यमाना युगत्रये ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्यायः ॥

मायासुतः, पुं, (मायायाः मायादेव्याः सुतः ।)

बुद्धः । इति हेमचन्द्रः । १ । १५१ ॥

मायिकं, क्ली, (माया मोहनगुणः विद्यतेऽस्मिन् ।

माया + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति
ठन् ।) मायाफलम् । इति राजनिर्घण्टः ॥
ग्रन्थान्तरे मायिका माद्रका इत्यपि पाठः ॥

मायिकः, पुं, (माया अस्त्यस्य । माया + “ब्रीह्यादि-

भ्यश्च ।” ५ । २ । ११६ । इति ठन् ।) माया-
कारः । इति जटाधरः ॥ (यथा, देवीभाग-
वते । ४ । १९ । ४ ।
“यन्मायामोहितश्चाहं सदा वर्त्ते परात्मनः ।
परवान् दारुपाञ्चाली मायिकस्य यथा वशे ॥”
मायाविशिष्टे, त्रि ॥)

मायी, [न्] पुं, (मायाऽस्त्यस्य । माया +

“ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।)
मायाकारः । तत्पर्य्यायः । धूर्त्तः २ वञ्चकः ३
व्यंसकः ४ कुहकः ५ दाण्डाजिनिकः ६
जालिकः ७ । इति हेमचन्द्रः । ३ । ४१ ॥
(मायायुक्ते, त्रि । यथा, कुमारे । २ । ४६ ।
“यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥”
मायोपाधिके परमेश्वरे च । यथा, पञ्चदश्याम् ।
६ । १२३ ।
“मायान्तु प्रकृतिं विद्यान् मायिनन्तु महे-
श्वरम् ॥”)

मायुः, पुं, (मिनोति प्रक्षिपति देहे उष्माणमिति ।

मिञ् प्रक्षेपणे + “कृवापाजिमिस्वदिसाध्यशूभ्य
उण् ।” उणा० १ । १ । इति उण् । “मीनाति
मिनोतिदीङां लपि च ।” ६ । १ । ५० । इत्या-
त्वम् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ ।
इति युक् ।) पित्तम् । इत्यमरः । २ । ६ । ६२ ॥
(शब्दः । यथा, ऋग्वेदे । १ । १६४ । २८ ।
“सृक्काणं घर्म्ममभिवावशाना मिमाति मायुं
पयते पयोभिः ॥”
“मायुं शब्दं मिमाति निर्म्माति करोति ।” इति
तद्भाष्ये सायणः ॥ वाक् । इति निरुक्ते । १ । ११ ॥)

मायुराजः, पुं, कुवेरपुत्त्रः । इति त्रिकाण्डशेषः ॥

मायूरं, क्ली, (मयूराणां समूहः । मयूर + “प्राणि-

रजतादिभ्योऽञ् ।” ४ । ३ । १५४ । इत्यञ् ।)
मयूरसमूहः । इत्यमरः । २ । ५ । ४३ ॥
(मयूराणामिदमित्यण् ।) तत्सम्बन्धिनि, त्रि ॥
यथा, महाभारते । १३ । १०४ । ९० ।
“आजं गव्यं तथा मांसं मायूरञ्चैव वर्ज्जयेत् ॥)

मायूरिकः, पुं, (मयूरं हन्ति । मयूर + “पक्षि-

मत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति
ठक् । मयूरग्राही । इति सिद्धान्तकौमुदी ॥

मायूरी, स्त्री, अजमोदा । इति राजनिर्घण्टः ॥

मारः, पुं, (मृ + भावे घञ् ।) मृतिः । (यथा,

बृहत्संहितायाम् । ३ । ३१ ।
“क्षुन्मारकृद्घटनिभः खण्डो नृपहा विदी-
धितिर्भयदः ।”)
म्रियन्ते प्राणिनोऽनेन । मृ + घञ् ।) काम-
देवः । (यथा, नैषधे । ४ । ७९ ।
“अनुममार न मार ! कथं नु सा
रतिरतिप्रथितापि पतिव्रता ।
विरहिणीशतघातनपातकी
दयितयापि तयासि किमुज्झितः ॥”)
विघ्नः । इति मेदिनी । रे, ७६ ॥ (मृ + णिच् +
घञ् ।) मारणम् । इति हेमचन्द्रः । २ । ३६ ॥
धुस्तूरः । इति शब्दचन्द्रिका ॥ मारगणोत्पत्ति-
र्यथा, --
माकेण्डेय उवाच ।
“मनोभवस्य वचनं श्रुत्वाथ चतुराननः ।
विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारकम् ॥
सर्व्वस्य मोहने ब्रह्मा चिन्ताविष्टोऽभवन्नहि ।
समर्थो मोहितुमिति निशश्वास मुहुर्मुहुः ॥
निश्वासमारुतात्तस्य नानारूपा महाबलाः ।
जाता गणा लोलजिह्वा लोलाश्चातिभयङ्कराः
तुरङ्गवदनाः केचित् केचिद्गजमुखास्तथा ।
सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः ॥
पृष्ठ ३/७०५
ऋक्षमार्ज्जारवदनाः शरभास्याः शुकाननाः ।
प्लवगोमायुवक्त्राश्च सरीसृपमुखाः परे ॥
गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे ।
महादीर्घा महाह्रस्वा महास्थूला महाकृशाः ॥
पिङ्गाक्षा विरलाक्षाश्च त्र्यक्षैकाक्षा महो-
दराः ।
एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथापरे ।
स्थूलकर्णा दीर्घकर्णा बहुकर्णा विकर्णकाः ।
दीर्घाक्षा स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः ॥
चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा ।
ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः ॥
एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा ।
विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे ॥
मनुष्याकृतयः केचित् शिशुमारमुखाः परे ।
क्रौञ्चाकारा बकाकारा हंससारसरूपिणः ॥
तथैव मद्गुरबककङ्ककाकमुखास्तथा ।
अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा ॥
नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः ।
अवादयन्त ते शङ्खान् पटहान् परिवादिनः ॥
मृदङ्गान् डिण्डिमांश्चैव गोमुखान् पणवांस्तथा ।
सर्व्वे जटाभिः पिङ्गाभिस्तुङ्गाभिश्च करान्विताः ॥
निरन्तराभिर्व्विप्रेन्द्रा गणाः स्यन्दनगामिनः ।
शूलहस्ताः पाशहस्ताः खड्गहस्ता धनुर्धराः ॥
शक्त्यङ्कुशगदाबाणपट्टिसप्रासपाणयः ।
नानायुधा महानादं कुर्व्वन्तस्ते महाबलाः ॥
मारय च्छेदयेत्यूचुर्ब्रह्मणः पुरतो गणाः ।
तेषान्तु वदतां तत्र मारय च्छेदयेत्युत ।
योगनिद्राप्रभावात् स विधिर्वक्तुं प्रचक्रमे ॥
अथ ब्रह्माणमाभाष्य तान् दृष्ट्वा मदनो गणान् ।
उवाच वारयन् वक्तुं गणानामग्रतः स्मरः ॥
मदन उवाच ।
किं कर्म्मैते करिष्यन्ति कुत्र स्थास्यन्ति वा
विधे ! ।
किं नामधेया एते वा तत्रैतान् विनियोजय ॥
नियुज्यैतान् निजे कृत्ये स्थानं दत्त्वा च नाम च ।
कृत्वा पश्चान्महामायाप्रभावं कथयस्व मे ॥”
मार्कण्डेय उवाच ।
“अथ तद्वाक्य माकर्ण्य सर्व्वलोकपितामहः ।
गणान् समदनानाह तेषां कर्म्मादिकं दिशन् ॥
ब्रह्मोवाच ।
“एते तूत्पन्नमात्रा हि मारयेति यदब्रुवन् ।
मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ॥
मारात्मकत्वादप्येते माराः सन्तु च नामतः ।
सदैव विघ्नं जन्तूनां करिष्यन्ति विनार्च्चनम् ।
तवानुगमनं कर्म्म मुख्यमेषां मनोभव ! ॥
यत्र यत्र भवान् याता स्वकर्म्मार्थं यदा यदा ।
गन्तारस्तत्र तत्रैते साहाय्याय तदा तदा ॥
चित्तोद्भ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्त्तिनाम् ।
ज्ञानिनां ज्ञानमार्गञ्च विघ्नयिष्यन्ति सर्व्वदा ॥
यथा सांसारिकं कर्म्म सर्व्वे कुर्व्वन्ति जन्तवः ।
तथा चैते करिष्यन्ति सविघ्नमपि सर्व्वतः ॥
इमे स्यास्यन्ति सर्व्वत्र वेगिवः कामरूपिणः ।
त्वमेवैषां गणाध्यक्षः पञ्चयज्ञाङ्गभोजिनः ।
नित्यक्रियावतां तोयभोगिनोऽपि भवन्त्विमे ॥”
इति कालिकापुराणे ६ अध्यायः ॥

मारकः, पुं, (म्रियन्ते प्राणिनः यस्मिन् येनेति वा ।

मृ + घञ् । ततः संज्ञायां कन् ।) मरकः । तत्-
पर्य्यायः । मारिः २ उत्पातः ३ । इति त्रिकाण्ड-
शेषः ॥ पक्षिविशेषः । वाज् इति भाषा ।
तत्पर्य्यायः । घातिपक्षी २ ग्राहकः ३ । इति
भूरिप्रयोगः ॥ मारणकर्त्तरि त्रि ॥

मारजित्, पुं, (मारं कामं जितवान् । जि +

क्विप् । तुगागमः ।) बुद्धः । इत्यमरः । १ ।
१ । १३ ॥

मारणं, क्ली, (मार्य्यते इति । मृ + णिच् + भावे

ल्युट् ।) वधः । इत्यमरः । २ । ८ । ११४ ॥
(यथा, मनौ । ५ । ३८ ।
“यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥”)
अभिचारविशेषः । यथा, --
“एवन्तु मारणं देवि ! विशेषात् कथयामि
ते ।
सान्तं वह्निसमायुक्तं वामनेत्रविभूषितम् ॥
कूर्च्चयुग्मं ततो देवि ! अमुकं मारय मारय ।
चतुर्दशाक्षरो मन्त्रो स्वाहान्तः शत्रुनाशकः ॥
खदिराङ्गारमादाय कुजाष्टम्यां विशेषतः ।
लेखयेत् पुत्तलीं शत्रुस्वरूपां लौहपत्रके ॥
निशायां मस्तके नेत्रे ललाटे हृदये करे ।
नाभौ गुह्ये कटौ पृष्ठे क्रमोक्तेन पदद्वये ॥
मन्त्रवर्णान् समालिख्य प्रतिष्ठां तत्र कारयेत् ।
संहारमुद्रां बद्ध्वा तु ध्यायेद्देवीं जयप्रदाम् ॥
दीर्घाकारां कृष्णवर्णां सदार्द्धस्तनमस्तकाम् ।
नृमुण्डयुगलं हस्तं चर्व्वयन्तीं दिगम्बरीम् ॥
शत्रुनाशकरीं देवीं ध्यायेत् शत्रुक्षयाय च ।
एवं ध्यात्वेष्टिकाचूर्णैर्व्वामहस्तेन शङ्करि ! ॥
ॐशत्रुनाशकर्य्यै नमः इति दत्त्वा महेश्वरि ! ।
हरिद्राचूर्णसहितां धारां दद्यादनेन तु ॥
अमुकस्य शोणितं पिब पिबेति तत्परम् ।
मांसं खादय खादय ह्रीँ नम इति मन्त्रम् ॥
मध्याह्ने मध्यरात्रौ तु पूजयित्वा शताष्टकम् ।
जपेदेकादशाहे च रोगः स्यान्नात्र संशयः ॥
दण्डाधिकैकविंशाहे मृत्युरेव रिपोर्भवेत् ॥ * ॥
अथवान्यप्रकारेण शत्रुक्षयमहं वदे ।
पुंगोशकृत् समादाय पूजयेदुष्णवारिणा ॥
विपरीतक्रमेणैव जपपूजादिकं चरेत् ।
महादेवाय नम इति पुंगोशकृत् समाहरेत् ॥
शिवाय नम इति मन्त्रेण घटनञ्च समाचरेत् ।
पशुपतये नम इति प्राणान् संस्थापयेत्ततः ॥
लौहपात्र महेशानि ! खदिराङ्गारयोगतः ।
शत्रुप्रतिकृतिं लिख्य तत्र संस्थापयेत् शिवम् ॥
ततो ध्यायेन्महारुद्रं ध्यानन्तु सुसमाहितः ।
शत्रोर्व्वक्षःस्थितं रुद्रं ज्वलदग्निसमप्रभम् ॥
वामहस्तधरं केशं दक्षिणं प्राणकर्षणम् ।
नरचर्म्माम्बरं देवं महाव्यालादिवेष्टितम् ॥
पिनाकधृक् इहागच्छागच्छ इत्यादिनावाह्य
यत्नतः ।
शूलपाणये नम इति स्नापयेत् साधकोत्तमः ॥
महेश्वराय नम इति पाद्यादिना प्रपूजयेत् ।
ईशानादिस्तथा मूर्त्तिर्व्युत्क्रमेण प्रपूजयेत् ॥
अग्निकोणादिपर्य्यन्तं पूर्ब्बरीत्या महेश्वरि ! ।
नमः शिवायेति मूलमष्टाविंशति संजपेत् ।
हुँ क्षमस्वेति वामेन करेण तु विसर्ज्जयेत् ॥
अजित केशव विष्णो हरे सत्य जनार्द्दन ।
हंस नारायण स्वाहा मन्त्रमेव सकृज्जपेत् ॥
हुँ नमो भगवते वासुदेवाय स्वाहा नम इत्यपि
सकृज्जपेत् ।
एवमेकादशाहेन शत्रूच्छेदनमञ्जसा ।
अवश्यं जायते देवि ! सत्यं सत्यं त्रिलोचने ! ॥”
इति योगिनीतन्त्रे पूर्ब्बखण्डे ४ पटलः ॥
अपि च ।
“गृध्रास्थिञ्च गवास्थिञ्च मूत्रनिर्म्माल्यमेव च ।
अरेर्यो निखनेत् द्वारे पञ्चत्वमुपयाति सः ॥”
इति गारुडे १८६ अध्यायः ॥

मारिः, स्त्री, (मार्य्यते इति । मृ + णिच् + इन् ।)

मारणम् । वर्षः । इति मेदिनी । रे, ७७ ॥
जनक्षयः । तत्पर्य्यायः । मारकः २ मरकः ३
उत्पातः ४ । इति त्रिकाण्डशेषः ॥

मारिचिकं, त्रि, (मरिच + “संस्कृतम् ।” ४ । ४ । ३

इति ठक् ।) मरिचेन संस्कृतम् । इति सिद्धान्त्र-
कौमुदी ॥

मारितः, पुं, (मार्यते नाश्यते भस्मीक्रियत इति ।

मृ + णिच् + कर्मणि क्तः ।) नष्टीकृतः । भस्मी-
कृतः । यथा, भावप्रकाशे ।
“असम्यङ्मारितं स्वर्णं बलं वीर्य्यञ्च नाशयेत् ।
करोति रोगान् मृत्युञ्च तद्धन्यात् यत्नतस्ततः ॥”
अपि च ।
“पूर्ब्बं वङ्गसमं तालं क्षिप्त्वाम्लेन विमर्द्दयेत् ।
ततो गजपुटे पक्त्वा पुनरम्लेन मर्द्दयेत् ॥
तालेन दशमांशेन याममेकं ततः पुटेत् ।
एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥”
अपरञ्च ।
आर्द्रत्वञ्च घनत्वञ्च तेजो गौरवचापलम् ।
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥”
अन्यच्च ।
“शुद्धो रसो भवेद्ब्रह्मा मूर्च्छितस्तु जनार्द्दनः ।
मारितो रुद्ररूपी स्यात् बद्धः साक्षात् सदा-
शिवः ॥”
इति वैद्यदर्पणः ॥

मारिव्यसनवारकः, पुं, (मारिजन्यं व्यसनं तद्वारय-

तीति । वृ + णिच् + अण् ।) राजर्षिविशेषः ।
यथा, --
“कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ।
मृतस्वमोक्ता धर्म्मात्मा मारिव्यसनवारकः ॥”
इति हेमचन्द्रः । ३ । ३७७ ॥

मारिषः, पुं, (मर्षति दोषानिति । मृष + अच् ।

निपातनात् सिद्धम् । यद्वा, मा रिष्यति हिनस्ति
पृष्ठ ३/७०६
कञ्चिदपीति । रिष + कः ।) नाट्योक्तौ श्रेष्ठः ।
इत्यमरः । १ । ७ । १४ ॥ (क्वचित् पुराणा-
दावपि । यथा, देवीभागवते । १ । ११ । ६५ ।
“साहार्य्य ते करिष्यामि मन्त्रशक्त्या महा-
मते ! ।
भविता यदि संग्रामस्तव चेन्द्रेण मारिष ! ॥”
तथा च महाभारते । ७ । २६ । १२ ।
“दार्य्यमाणाञ्चमूं दृष्ट्वाभगदत्तेन मारिष ! ॥”)
तण्डुलीयशाकविशेषः । मरसा इति हिन्दी
भाषा । तत्पर्य्यायः । कन्धरः २ मार्षिकः ३ ।
(शाकार्थे पर्य्यायो गुणाश्च यथा ॥ [अथ श्वेत-
मरुसा । लोहितमरुसा नवडा इति च लोके ।]
“मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः ।
मारिषो मधुरः शीतो विष्टम्भी पित्तनुद्गुरुः ॥
वातश्लेष्मकरो रक्तपित्तनुद्विषमग्निजित् ।
रक्तमार्षो गुरुर्नाति सक्षारो मधुरः सरः ।
श्लेष्मलः कटुकः पाके स्वल्पदोष उदीरितः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मारिषा, स्त्री, (मारिष + टाप् ।) दक्षमाता ।

इति मेदिनी । षे, ४४ ॥ (यथा, मत्स्यपुराणे ।
४ । ४९ ।
“सोमकन्याभवत् पत्नी मारिषा नाम विश्रुता ।
तेभ्यस्तु दक्षमेकं सा पुत्त्रमग्र्यमजीजनत् ॥”
अस्या जन्मवृत्तान्तो यथा, विष्णुपुराणे ।
प्रथमांशे १५ अध्याये ।
“कण्डुर्नाम मुनिः पूर्ब्बमासीद्वेदविदांवरः ।
सुरम्ये गोमतीतीरे स तेपे परमं तपः ॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥”
इत्यारभ्य --
“यावदित्थं स विप्रर्षिस्तां ब्रवीति सुमध्यमाम् ।
तावद्गलत्स्वेदजला सा बभूवातिवेपथुः ॥
प्रवेपमाणां सततं स्विन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज्ज तरुपल्लवैः ॥
वृक्षाद्वृक्षं ययौ बाला तदग्रारुणपल्लवैः ।
निर्मार्ज्जमाणा गात्राणि गलत्स्वेदजलानि वै ॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्ज्जगाम स रोमाच्च स्वेदरूपी तदङ्गतः ॥
तं वृक्षा जगृहुर्गर्भं एकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववृधे शनैः ॥
वृक्षाग्रगर्भसंभूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥”
शूरस्य पत्नी । यथा, भागवते । ९ । २४ । २७ ।
“देवमीढस्य शूरस्य मारिषा नाम पत्न्य-
भूत् ॥”)

मारी, स्त्री, (मारि + कृदिकारादिति पक्षे

ङीष् ।) चण्डी । जनक्षयः । इति मेदिनी ।
रे, ७६ । माहेश्वरी शक्तिः । यथा, --
“मारी त्रिशूलेन जघान चान्यान्
खट्वाङ्गपातैरपरांश्च कौशिकी ।”
इति वामने ५२ अध्यायः ॥

मारीचः, पुं, (मरीचेरपत्यं पुमान् । मरीचि +

अण् ।) राक्षसविशेषः । स च तारकाराक्षसी-
पुत्त्रः रावणस्यानुचरः सीताहरणकाले माया-
मृगरूपोऽसौ श्रीरामेण हतश्च । इति रामा-
यणम् ॥ अस्य विवरणं यथा, --
“एतस्मिन्नन्तरे रामो ददर्श कनकं मृगम् ।
सीता तं प्रेरयामास तदर्थे यत्नपूर्ब्बकम् ॥
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने ।
स्वयं जगाम तूर्णं तं विव्याध शायकेन च ॥
हा लक्ष्मणेति शब्दञ्च कृत्वाथ मायया मृगः ।
प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ॥
मृगदेहं परित्यज्य दिव्यं देहं विधाय च ।
रत्ननिर्म्माणयानेन वैकुण्ठं स जगाम ह ॥
वैकुण्ठद्बारे द्बार्य्यासीत् किङ्करो द्वारपालयोः ।
जयश्च विजयश्चैव बलवांश्चाजिताभिधः ॥
शापेन शनकादीनां संप्राप्य राक्षसीं तनुम् ।
पुनर्जगाम च द्बारमादौ च द्वारपालयोः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १२ अध्यायः ॥
कश्यपः । यथा, --
“इति संचिन्त्य भगवान् मारीचः कुरुनन्दन ! ।
उवाच किञ्चित् कुपित आत्मानञ्च विगर्हयन् ॥”
इति श्रीभागवते ६ स्कन्धे १८ अध्यायः ॥
(तथा च महाभारते । १३ । ८५ । १०७ ।
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपोऽह्य
भूत् ॥”)
कक्कोलकम् । याजकब्राह्मणः । इति मेदिनी ।
चे, १७ ॥ राजहस्ती । इति जटाधरः ॥

मारीची, स्त्री, (मरीचेरियम् । इत्यण् । ङीप् ।)

देवताभेदः । इति मेदिनी । चे, १७ ॥ सा तु
मायादेवी । तत्पर्य्यायः । त्रिमुखा २ वज्र-
कालिका ३ विकटा ४ वज्रवाराही ५ गौरी ६
पोत्रिरथा ७ । इति त्रिकाण्डशेषः ॥

मारुण्डः, पुं, सर्पाण्डः । पन्थाः । गोमयमण्डलम् ।

इति मेदिनी । डे, ३५ ॥

मारुतः, पुं, (मरुदेव । मरुत् + “प्रज्ञादिभ्यश्च ।”

५ । ४ । ३८ । इति स्वार्थेऽण् ।) वायुः ।
इत्यमरः । १ । १ । ६५ ॥ म्रियतेऽनेन क्रुद्धेन
नाम्नीति मृ ङ उत् मरुत् मरुदेव मारुतः
स्वार्थे ष्णः । इति तट्टीकायां भरतः ॥
(यथा, मनौ । ४ । १२२ -- १२३ ।
“अतिथिञ्चाननुज्ञाप्य मारुते वाति वा भृशम् ।
रुचिरे च श्रुते गात्राच्छस्त्रेण च परिक्षते ।
सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥)
अस्योत्पत्तिर्यथा, --
कश्यप उवाच ।
“पुत्त्रस्ते भविता भद्रे ! इन्द्रहा देवबान्धवः ।
संवत्सरं व्रतमिदं यद्यञ्जो धारयिष्यसि ॥”
अञ्जो यथावत् ।
“संवत्सरं पुंसवनं व्रतमेतदविप्लुतम् ।
धारयिष्यसि चेत्तुभ्यं शक्रहा भविता सुतः ॥
वाढमित्यभ्युपेत्याथ दिती राजन् ! महामनाः ।
कश्यपाद्गर्भमाधत्त व्रतञ्चाञ्जो दधार सा ।
मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद ! ॥
शुश्रूषणेनाश्रमस्थां दितिं पर्य्यचरत् कविः ।
एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप ! ॥
प्रेप्सुः पर्य्यचरत् जिह्मो मृगस्येव मृगाकृतिः ।
नाध्यगच्छद्व्रतच्छिद्रं तत्परोऽथ महीपते ! ॥
चिन्तां तीव्रां गतः शक्रः केन मे स्याच्छिवं
त्विह ॥
एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्षिता ।
अस्पृष्टवार्य्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥
लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः ।
दितेः प्रविष्ट उदरं योगेशो योगमायया ॥
चकर्त्त सप्तधा गर्भं वज्रेण कनकप्रभम् ॥
रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ।
तमूचुः पाट्यमानास्ते सर्व्वे प्राञ्जलयो नृप ! ॥
किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।
मा भैष्ट भ्रातरो मह्यं यूयमित्याह कौशिकः ॥
अनन्यभावान् पार्षदानात्मनो मरुतां गणान् ।
न ममार दितेर्गर्भः श्रीनिवासानुकम्पया ॥
सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतोऽभवन् ।
व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥
दितिरुत्थाय ददृशे कुमाराननलप्रभान् ।
इन्द्रेण सहितान्देवी पर्य्यतुष्यदनिन्दिता ॥
अथेन्द्रमाह ताताहमादित्यानां भयावहम् ।
अपत्यमिच्छन्त्यचरं ब्रतमेतं सुदुष्करम् ॥
एकः सङ्कल्पितः पुत्त्रः सप्तसप्ताभवन् कथम् ।
यदि ते विदितं पुत्त्र ! सत्यं कथय मा मृषा ॥
इन्द्र उवाच ।
अम्ब ! तेऽहं व्यवसितमुपधार्य्य गतोऽन्तिकम् ।
लब्ध्वान्तरोऽच्छिनं गर्भमर्थबुद्धिर्न धर्म्मदृक् ॥
कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः ।
तेऽपि चैकैकशो वृक्नाः सप्तधा नापि मम्रिरे ॥
ततस्तत्परमाश्चर्य्यं वीक्ष्य व्यवसितं मया ।
महापुरुषपूजायाः सिद्धिः काप्यानुषङ्गिकी ॥
तदिदं मम दौर्ज्जन्यं बालिशस्य महीयसि ! ।
क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥
श्रीशुक उवाच ।
इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया ।
मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥”
इति श्रीभागवते ६ स्कन्धे १८ अध्यायः ॥
(जनपदविशेषः । यथा, महाभारते । ६ ।
४७ । ४९ -- ५० ।
“मारुता धेनुकाश्चैव तङ्गणाः परतङ्गणाः ।
वाह्लीकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च
भारत ! ॥
एते जनपदा राजन् ! दक्षिणं पक्षमा-
श्रिताः ॥”
अग्निभेदः । यथा, गृह्यसंग्रहपरिशिष्टे । १ । २ ।
“अग्निस्तु मारुतो नाम गर्भाधाने विधीयते ॥”
मरुत्सम्बन्धिनि, त्रि । यथा, ऋग्वेदे । २ । ११ । १४ ।
पृष्ठ ३/७०७
“रासि क्षयं रासि मित्रमम्मे रासि शर्ध इन्द्र
मारुतं नः ॥”
“मारुतं मरुतां देवविशां सम्बन्धि ।” इति
तद्भाष्पे सायणः ॥)

मारुतव्रतं, क्ली, (मारुतस्य व्रतमिव व्रतं नियमो-

ऽस्य ।) राजधर्म्मविशेषः । यथा, --
“प्रविश्य सर्व्वभूतानि यथा चरति मारुतः ।
तथा चरैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥”
इति मात्स्ये २०० अध्यायः ॥

मारुतात्मजः, पुं, (मारुतस्यात्मजः ।) हनूमान् ।

इति जटाधरः ॥ (भीमश्च ॥)

मारुतापहः, पुं, (मारुतमपहन्ति । हन + डः ।)

वरुणवृक्षः । इति राजनिर्घण्टः ॥ वायुनाशके,
त्रि ॥

मारुताशनः, पुं, (मारुतोऽशनमस्य । अश्नातीति ।

अश + ल्युः । मारुतानां अशनो भक्षकः ।)
सर्पः । पवनाशन इत्यमरदर्शनात् । (यथा,
महाभारते । ५ । १०६ । १३ ।
“भक्तः प्रगृह्य मूर्द्ध्ना वै बाहुभ्यां संशितव्रतः ।
स्थितः स्थाणुरिवाभ्यासे निश्चेष्टो मारुता-
शनः ॥”)
वायुमात्रभक्षके, त्रि ॥ (कार्त्तिकेयसैनिक-
विशेषः । यथा, महाभारते । ९ । ४५ । ६० ।
“विद्युताक्षो धनुर्वक्त्रो जाठरो मारुताशनः ॥”)

मारुतिः, पुं, (मारुतस्यापत्यं पुमान् । मरुत +

“अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
हनूमान् । इति शब्दरत्नावली ॥ (यथा,
रघौ । १२ । ६० ।
“प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात् ।
मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥”)
भीमसेनः । इति जटाधरः ॥ (यथा, देवी-
भागवते । २ । ७ । २१ ।
“तच्छ्रुत्वा वचनं भ्रातुर्ज्येष्ठस्यामिततेजसः ।
संग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥”)

मार्कः, पुं, भृङ्गराजः । इति रत्नमाला ॥

मार्कण्डः, पुं, (मृकण्डोरपत्यम् । मृकण्डु + अण् ।)

मार्कण्डेयमुनिः । इति शब्दरत्नावली ॥

मार्कण्डिका, स्त्री, लताविशेषः । भूइ खखसा इति

हिन्दीभाषा ॥ सा तु काकरोलभेदः । तत्-
पर्य्यायः । भूमिचरी २ मार्कण्डी ३ मृदुरचनी
४ । अस्या गुणाः । कुष्ठहरत्वम् । ऊर्द्ध्वाधः-
कायशोधनत्वम् । विषदुर्गन्धकासगुल्मोदरना-
शित्वञ्च । इति भावप्रकाशः ॥

मार्कण्डीयं, क्ली, भूम्याहुल्यम् । इति राज-

निर्घण्टः ॥

मार्कण्डेयः, पुं, (मृकण्डोरपत्यं । मृकण्डु + शुभ्रा-

दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।) मृकण्डु-
मुनिपुत्त्रः । जन्मतिथ्यादौ पूजायां तस्य ध्यानं
यथा,
“द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् ।
मार्कण्डेयं नरो भक्त्या पूजयेच्च चिरायुषम् ॥”
तस्य प्रार्थनामन्त्रः ।
“चिरजीवी यथा त्वं भो भविष्यामि तथा
मुने ! ।
रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥
मार्कण्डेय महाभाग ! सप्तकल्पान्तजीवन ! ।
आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो भव ॥”
इति तिथ्यादितत्त्वम् ॥
तस्योत्पत्त्यादिर्यथा,
मार्कण्डेय उवाच ।
“देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियञ्च देवदेवस्य पत्नी नारायणस्य या ॥
आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।
भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥
प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ।
मनस्विन्यामहं तस्मात् पुत्त्रो वेदशिरा मम ॥
धूम्रवत्यां समभवत् प्राणस्यापि निबोध मे ॥”
इति श्रीमार्कण्डेयपुराणे रुद्रसर्गाध्यायः ॥
अपि च ।
पुलस्त्य उवाच ।
“अथ ते संप्रवक्ष्यामि मार्कण्डोत्पत्तिमुत्तमाम् ।
पुरा कल्पे मुनिः पूर्ब्बं मृकण्डुर्नाम विशुतः ॥
भृगोः पुत्त्रो महाभागः सभार्य्यस्तप्तवांस्तपः ।
तस्य पुत्त्रस्तदा जातो वसतस्तु वनान्तरे ॥
स पञ्चवर्षको जातो बाल एव गुणान्वितः ।
ज्ञानिना स तदा दृष्टो भ्रमित्वा लघुप्राङ्गणे ॥
स्थित्वा स सुचिरं कालं जीवनञ्च ततो दितम् ।
वीक्ष्य चिन्तापरो ज्ञानी किं वर्षो बालकस्तव ॥
दितं खण्डितम् ।
संख्यया चाष्टवर्षाणि जातानीति न्यवेदयत् ।
मृकण्डुनैव मुक्तस्तु स ज्ञानी वाक्यमब्रवीत् ॥
मासमायुश्च पुत्त्रस्य तेऽवशिष्टं मुनीश्वर ! ।
नैव शोकस्त्वया कार्य्यः सत्यमेतदुदाहृतम् ॥
एतत् श्रुत्वा वचो भीष्म ! ज्ञानिना यदुदाहृतम् ।
व्रतोपनयनं चक्रे बालकस्य पिता तदा ॥
आह चैनं पिता पुत्त्रमृषिं त्वमभिवादय ।
एवमुक्तः स वै पित्रा ऋषिं भक्त्या ननाम सः ॥
एतस्मिन्नन्तरे तत्र प्रदीप्ताः पावकोपमाः ।
मार्गेणापि समायातास्तेन सप्तर्षयोऽमलाः ॥
बालेन तेन दृष्टास्ते सर्व्वे समभिवादिताः ।
आयुष्मान् भव तैरुक्तः स जहौ दण्डमेखलाम् ॥
उक्तास्ते च पुनर्व्वाणीं पश्यन्तः क्षीणजीवितम् ।
दिनानि पञ्च ते चायुर्ज्ञात्वा भीताभवन् पुनः ॥
तमुत्क्षिप्य ब्राह्मणा वै गतास्ते ब्रह्मणोऽन्तिकम् ।
प्रतिमुच्य च तं बालं प्रणिपेतुः पितामहम् ॥
आयुष्मान् भव इत्याह तेन ब्रह्माभिवादितः ।
चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ ॥
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् ।
पितामहस्तु सप्तर्षीन् दृष्ट्वा प्रोवाच विस्मितान् ॥
कार्य्येण येन वा याताः कोऽयं बालो निवेद्यताम् ।
ततः सप्तर्षयो राजन् ! सर्व्वं तस्मै न्यवेदयन् ॥
भृगोः सूनुर्मृकण्डुस्तु क्षीणायुस्तस्य बालकः ।
अल्पायुषस्ततस्तस्य बद्धास्तेनास्य मेखलाः ॥
यज्ञोपवीतं दण्डञ्च दत्त्वा तेन प्रबोधितः ।
यं कञ्चित् पश्यसे लोकं भ्रमन्तं भूतले जनम् ॥
तस्याभिवादनं कार्य्यमेवमाह पितामहः ।
तावद्बयमनेनाथ क्षितौ दृष्टाः परिभ्रमन् ॥
एकत्वमार्षम् ।
तीर्थयात्राप्रसङ्गेन दैवयोगात् पितामह ! ।
चिरायुर्भव वै विप्र ! बालेत्यस्माभिरीरितम् ॥
कथं चिरायुः स्याद्बिप्रबालकः साम्प्रतं प्रभो ! ।
कथं नानृतिनो देव ! भवामो भवता वयम् ॥
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः ।
ऋतवाचो भविष्यामः सर्व्वे एव वयं स्थिताः ॥
मत्समश्चायुषा बालो मार्कण्डेयो भविष्यति ।
ऋषीणां मुख्यतश्चासौ मत्सहायो भविष्यति ।
कल्पस्यादौ तथा चान्ते वृतो मुनिभिरुत्तमैः ॥
एवन्ते मुनयो बालं ब्रह्मा लोकपितामहः ।
स्रम्बोध्य प्रेषयामास भूयोऽप्येवं परन्तप ! ॥
तीर्थयात्रां गता विप्रा मार्कण्डेयो निजं गृहम् ।
जगाम गत्वा तं विप्रं पितरं स तथाब्रवीत् ॥”
इति पाद्मे सृष्टिखण्डे ३० अध्यायः ॥
अपरञ्च ।
व्यास उवाच ।
“मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः ।
तथा ते कथयिष्यामि शृणु वत्स ! महामते ! ॥
भृगोः पौत्त्रो महाभागो बालत्वे च महाद्युतिः ।
ववृधे वल्लभो बालः पिता तस्य कृतक्रियः ॥
स तस्मिन् वै जातमात्रे आदेशी कश्चिदब्रवीत् ।
वर्षे द्बादशमे पूर्णे मृत्युरस्य भविष्यति ॥
शुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः ।
तौ दृष्ट्वा दुःखसम्पन्नौ मार्कण्डेयो महामतिः ॥
उवाच वचनं तत्र किमर्थं दुःखमीदृशम् ।
वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः ॥
कथयामास तत् सर्व्वमादेशी यदुवाच ह ।
तत् श्रुत्वा तौ मुनिः प्राह मातरं पितरं पुनः ॥
पित्रा सार्द्धं त्वया मातर्न कार्य्यं दुःखमन्वहम् ।
अपनेष्यामि मे मृत्युं तपसा नात्र संशयः ।
यथा चाहं चिरायुः स्यां तथा कुर्य्यामहं तपः ॥
सूत उवाच ।
इत्युक्त्वा तौ समाश्वास्य पितरौ वनमभ्यगात् ।
तत्र विष्णुं प्रतिष्ठाप्य गन्धपुष्पादिभिः क्रमात् ।
पूजयामास देवेशं मार्कण्डेयो महामुनिः ॥
पूजयित्वा हरिं तत्र तपस्तेपे सुदुष्करम् ।
निराहारो मुनिस्तत्र वर्षमेकमतन्द्रितः ॥
मात्रोक्तमरणासन्नदिने तत्र महामतिः ।
स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्च्चनम् ॥
हृदि कृत्वेन्द्रियग्रामं विशुद्धेनान्तरात्मना ।
आसनं स्वस्तिकं बद्ध्वा कृत्वासौ प्राणसंयमम् ॥
ॐकारीच्चारणाद्धीमान् हृदि पद्मं विकाशयन् ।
तन्मध्ये रविसोमाग्निमण्डलानि यथाक्रमम् ॥
कल्पयित्वा हरेः पीठं तस्मिन्नेव सनातनम् ।
पीताम्बरधरं विष्णुं शङ्खचक्रगदाधरम् ।
ब्रह्मरूपं हरिं ध्यायंस्ततो मनुमुदीरयन् ॥
इत्येवं ध्यायतस्तस्य मार्कण्डेयस्य धीमतः ।
मनस्तत्रैव संलग्नं देवदेवजगत्पतौ ॥
पृष्ठ ३/७०८
ततो यमालयात्तत्र आगता यमकिङ्कराः ।
पाशहस्तास्तु तं नेतुं विष्णुदूतैस्तु ते हताः ॥
मुषलैर्हन्यमानास्ते इदमुक्त्वा पुनः पुनः ।
वयं निवृत्ता गच्छामो मृत्युरेवागमिष्यति ॥
आगत्य स्वयमेवात्र मृत्युः पार्श्वे महात्मनः ।
मार्कण्डेयस्य बभ्राम विष्णुकिङ्करशङ्कया ॥
ते चाप्युद्गम्य मुषलान्यभ्ययुर्विष्णुकिङ्कराः ।
विष्ण्वाज्ञया हनिष्यामो मृत्युमस्येति संस्थिताः ॥
ततो विष्ण्वर्पितमना मार्कण्डेयो महामतिः ।
तुष्टाव प्रणतो भूत्वा देवदेवं जनार्द्दनम् ॥
विष्णुनैवोपदिष्टन्तु स्तोत्रं कर्णे महात्मनः ।
स्वभावितेन मनसा तेन तुष्टाव माधवम् ॥
ॐ नमो भगवते वासुदेवाय ।
नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।
प्रणतोऽस्मि हृषीकेशं किन्नो मृत्युः करिष्यति ॥
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।
केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥
वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् ।
दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् ।
अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
बाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् ।
माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
पुरुषं पुष्करं बीजं क्षेमबीजं जगत्पतिम् ।
लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।
विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।
महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
इत्युदीरितमाकर्ण्य स्तोत्रं तत्र महात्मनः ।
अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ।
प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥
मृत्य्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।
मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥”
श्रीभगवानुवाच ।
“य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।
नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥”
व्यास उवाच ।
“हृत्पद्ममध्ये पुरुषं पुराणं
नारायणं शाश्वतमादिदेवम् ।
सञ्चिन्त्य सूर्य्यादपि राजमानो
मृत्युं स योगी जितवांस्तदैव ॥”
इति नारसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम
अध्यायः ॥ (मार्कण्डेयेन प्रोक्तम् । मार्कण्डेय
+ अण् । पुराणविशेषः । यथा, देवीभाग-
वते । १ । ३ । १ -- ३ ।
“शृण्वन्तु संप्रवक्ष्यामि पुराणानि मुनीश्वराः ।”
इत्यारभ्य --
तथा ग्रहसहस्रन्तु मार्कण्डेयं महाद्भुतम् ॥”)

मार्करः पुं, भृङ्गराजः । इत्यमरः । २ । ४ । १५१ ।

मर्कति केशरञ्जनार्थं गच्छति मर्कवः ।

मार्कवः पुं, भृङ्गराजः । इत्यमरः । २ । ४ । १५१ ।

मर्कति केशरञ्जनार्थं गच्छति मर्कवः ।
मर्क सर्पे नाम्नीति अवः निपातनाद्वृद्धिः ।
मार्कवोऽन्तःस्थचतुर्थान्तः मर्केर्विशादित्वाद्बः
पृषोदरादित्वांददागमो दीर्घश्चेति परेण साधि-
तत्वात् । (यथा, सुश्रुते चिकित्सास्थाने । १७अः ।
मर्क सर्पे नाम्नीति अवः निपातनाद्वृद्धिः ।
मार्कवोऽन्तःस्थचतुर्थान्तः मर्केर्विशादित्वाद्बः
पृषोदरादित्वांददागमो दीर्घश्चेति परेण साधि-
तत्वात् । (यथा, सुश्रुते चिकित्सास्थाने । १७अः ।
“स्यान्मार्कवस्य च रसेन निहन्ति तैलं
नाडीं कफानिलकृतामपचीं व्रणांश्च ।”)
मार्करो रेफान्त इति केचित् । इति तट्टीकायां
भरतः ॥ (अथानयोः पर्य्याया यथा, --
“भृङ्गराजः केशराजो भृङ्गः पत्तङ्गमार्कवम् ।
इति वैद्यकरत्नमालायाम् ॥
भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एवच ।
अङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
मार्करः केशराजश्च भृङ्गराजो निगद्यते ॥”
इति गारुडेऽष्टाधिकद्विशततमेऽध्याये ॥)

मार्ग, क संस्कारे । सर्पणे । इति कविकल्प-

द्रुमः ॥ (चु०-पर०-सक०-सेट् ।) क मार्गयति ।
इति दुर्गादासः ॥

मार्ग कि अन्वेषे । इति कविकल्पद्रुमः ॥ (चु०-पक्षे

भ्वा०-पर०-सक०-सेट् ।) अन्वेषः प्रतिसन्धा-
नम् । कि मार्गयति मार्गति गुणं गुणी ।
मार्गन्तां हे देहभावानित्यात्मनेपदं गणकृता-
नित्यत्वात् । इति दुर्गादासः ॥

मार्गः, पुं, (मार्ग्यते संस्क्रियते पादेन मृग्यते

गमनायान्विष्यते इति वा । मार्ग वा मृग +
+ घञ् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥
तत्परिमाणं यथा, --
“त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः ।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥
धनूंषि दशविस्तीर्णः श्रीमान्राजपथः कृतः ।
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥
धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ।
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥
जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् ।
व्रतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥
अवकरः परिवारः पादमात्रः समन्ततः ।
प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि ॥
इति देवीपुराणे त्रैलोक्याभ्युदये गोपुरद्बार-
लक्षणाध्यायः ॥ * ॥ (यथा, महाभारते । ३ ।
६७ । १७ ।
“एका बालानभिज्ञा च मार्गाणामतथोचिता ।
क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥”)
गुदम् । तत्पर्य्यायः । पायुः २ तनुह्रदः ३ ।
इति त्रिकाण्डशेषः ॥ अपानम् ४ । इत्यमरः ।
२ । ६ । ७३ ॥ मृगमदः । (मृगस्येदम् । मृग
+ अण् । मृगसम्बन्धिनि, त्रि । यथा, सुश्रुते ।
शारीरे ३ अः ।
“मार्गाद्बिक्रान्तजङ्घालं सदा वनचरं सुतम् ।”
यथा च मार्कण्डेये । ३२ । १७ ॥
“तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि ।
मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥”
(मृगो मृगशिरास्तद्युक्ता पौर्णमास्यत्र ।
मृग् + अण् ।) मार्गशीर्षमासः । अन्वेषणम् ।
इति मेदिनी ॥ गे, १७ । मृगशिरो नक्षत्रम् ।
इति हेमचन्द्रः ॥ विष्णुः । इति तस्य सहस्रनाम
स्तोत्रम् ॥ (यथा, महाभारते । १३ । १९९ । ५३ ।
“विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥”)

मार्गकः, पुं, (मार्ग । स्वार्थे कन् ।) अग्रहायण-

मासः । इति शब्दमाला ॥

मार्गणं, क्ली, (मार्ग्यते अन्विष्यत इति । मार्ग +

भावे ल्युट् ।) अन्वेषणम् । तत्पर्य्यायः । सम्बी-
क्षणम् २ विचयनम् ३ मृगणा ४ मृगः ५
इत्यमरः । ३ । २ । ३० ॥ याच्ञा । इति
मेदिनी ॥ णे, ७१ । प्रणयः । इति जटाधरः ॥
(मार्गयतीति । मार्ग + ल्युः ।) याचके, त्रि ।
इत्यमरः । ३ । १ । ४९ ॥

मार्गणः, पुं, (मार्गयति लक्ष्यमिति । मार्ग + ल्युः ।)

शरः । इत्यमरः । २ । ८ । ८७ ॥ यथा, महा-
भारते । ६ । ११५ । ४४ ।
“ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः ।
बहुधा भीष्ममानर्च्छुर्मार्गणैः कृतमार्गणैः ॥
मार्गयति धनाथ दातारमिति । मार्ग + ल्युः ।)
याचकः । इति मेदिनी । णे, ७१ ॥

मार्गणकः, पुं, (मार्गण + स्वार्थे कन् ।) याचकः ।

इति हलायुधः ॥

मार्गधेनुः, पुं, (मार्गस्य धेनुः परिमाणम् ।)

योजनपरिमाणम् । इति शब्दमाला ॥

मार्गधेनुकं, क्ली, (मार्गधेनु + स्वार्थे कन् ।)

योजनम् । इति त्रिकाण्डशेषः ॥

मार्गपाली, स्त्री, (मार्गं पालयति हिंस्रेभ्यो

रक्षतीति । पाल + अच् । गौरादित्वात् ङीष् ।)
स्तम्भः । यथा,
“ततोऽपराह्नसमये पूर्ब्बस्यां दिशि नारद ! ।
मार्गपालीं प्रबध्नीयाद्दुर्गस्तम्भे च पादपे ॥
कुशकाशमयैर्दिव्यां संस्कारैर्ब्बहुभिर्मुदा ।
भूषयित्वा गजानश्वानङ्कुशग्राहिसंयुतान् ॥
गोवृषान् महिषांश्चैव घण्टाभरणभूषितान् ।
भेरीमृदङ्गपटहवादित्रध्वनिनादितान् ।
तस्याः स्थाने नयेत् सायं शान्तिपाठादि-
नन्दितः ॥
मार्गपालि नमस्तुभ्यं सर्व्वानन्दप्रवर्षिके ।
तले तव सुखेनाश्वा गजा गावः प्रयान्तु मे ॥
राजानो राजपुत्त्राश्च ब्राह्मणाः शूद्रजातयः ।
मार्गपालीं समालिख्य वार्त्ताः स्युश्च सदैव हि ॥
ततो गावश्च संपूज्या गन्धपुष्पादिभिः क्रमात् ।
आत्मनः श्रेयसे भूप इति पूजां करोति हि ॥
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ।
गावो मे सर्व्वतः सन्तु गवां मध्ये वसाम्यहम् ॥
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ।
क्षीरं वहति यज्ञार्थे मम पापं व्यपोहतु ॥
या कामधेनुर्भवने च विष्णो-
र्या कामधेनुर्यमदग्निगेहे ।
या सौरभेयी तु वशिष्ठगेहे
सा कामधेनुर्वरदा ममास्तु ॥
पृष्ठ ३/७०९
कृत्वैतत् सर्व्वमानन्दाद्रात्रौ दैत्यपतेर्बलेः ।
पूजां कृत्वा ततः पश्चात् सम्यग्दूतं समारभेत् ॥”
इति पाद्मे उत्तरखण्डे कार्त्तिकमाहात्म्ये
१२४ अध्यायः ॥

मार्गशिरः, पुं, (मृगाशरानक्षत्रयुक्ता पौर्ण-

मास्यत्र । मृगशिरा + अण् ।) मार्गशीर्ष-
मासः । इति शब्दरत्नावली ॥ (यथा, भाग-
वते । ६ । १९ । २ ।
“शुक्ले मार्गशिरे पक्षे योषिद्भर्त्तुरनुज्ञया ।
आरभेत ब्रतमिदं सर्व्वकामिकमादितः ॥”)

मार्गशीर्षः, पुं, (मार्गशीर्षी + अण् ।) अग्र-

हायणमासः । मृगशीर्षेण युक्ता पौर्णमासी
मार्गशीर्षी सास्मिन् मासे भवति मार्गशीर्षः
ष्णः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः ।
सहाः २ मार्गः ३ आग्रहायणिकः ४ । इत्य-
मरः । १ । ४ । १४ ॥ मार्गशिरः ५ सहः ६ ।
इति शब्दरत्नावली ॥ वृश्चिकस्थरविप्रारब्ध-
शुक्लप्रतिपदादिदर्शान्तोऽयं मुख्यचान्द्रः । एता-
दृशमुख्यचान्द्रमासीयपौर्णमास्यन्तः अयं गौण-
चान्द्रः । वृश्चिकराशिरविकोऽयं सौरः । इति
स्मृतिः ॥ * ॥ तत्र जातफलम् ।
“यस्य प्रसूतिः खलु मार्गमासे
तीर्थे प्रवासे सततं मतिः स्यात् ।
परोपकारी धृतसाधुवृत्तिः
सद्वृत्तियुक्तो ललनाभिलाषी ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
(तथास्य विषयः ॥ कार्त्तिकमार्गशीर्षौ शरत् ।
इति सुशुते सूत्रस्थाने षष्ठेऽध्याये ॥)
अथ मार्गशीर्षकृत्यम् ।
आश्विनशुक्लपक्षे नवान्नश्राद्धाकरणे मार्ग-
शीर्षस्य विंशतिदण्डाधिकत्रयोविंशतिदिनाभ्य-
न्तरे शुक्लपक्षे तत् श्राद्धं कर्त्तव्यम् । तत्र मार्ग-
शीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रयेतरेषु
कुजशनिशुक्रवारेतरेषु नन्दारिक्तात्रयोदशीतर-
तिथिषु जन्माष्टमचन्द्रजन्मतिथिजन्मनक्षत्रत्रय-
पञ्चमतारात्रयेतरेषु पूर्ब्बात्रयमघाभरण्यश्लेषा-
र्द्रेतरेषु नक्षत्रेषु श्राद्धं तच्छेषभोजनञ्च कुर्य्यात् ।
श्राद्धानधिकारिणा तु प्रागुक्तकाले देवादिभ्यो
नवान्नं दत्त्वा भोक्तव्यम् । किन्तु अश्लेषाकृत्तिका-
ज्येष्ठामूलापूर्ब्बभाद्रपदकेषु अपि नवान्नभोजनं
न कर्त्तव्यम् । चन्दताराद्यशुद्धौ प्रतीकारमाह
देवलः ।
“कर्म्म कुर्य्यात् फलावाप्त्यै चन्द्रादिशोभने बुधः ।
सुस्थकाले त्विदं सर्व्वं नार्त्तः कालमपेक्षते ॥
चन्द्रे च शङ्खं लवणञ्च तारे
तिथावभद्रे सिततण्डुलांश्च ।
धान्यञ्च दद्यात् करणर्क्षवारे
योगे तिलान् हेममणिञ्च लग्ने ॥
राजमार्त्तण्डे ताराभेदाल्लवणपरिमाणमाह ।
“एकत्रिपञ्चसप्त च द्बिजाय दद्यात् पलानि
लवणस्य ।
क्रमशो जन्मविपत्प्रत्यरिमरणाख्यतारासु ॥
पलन्तु लौकिकैर्मानैः साष्टरत्तिद्विमाषकम् ।
तोलकत्रितयं ज्ञेयं ज्योतिर्ज्ञैः स्मृतिसम्मतम् ॥
तत एवं दध्याज्यसंयुक्तं नवं विप्राभिमन्त्रितम् ।
मन्त्रानादेशे गायत्त्रीति गायत्त्र्यभिमन्त्रितम् ॥
नवमन्नं ब्राह्मणानुज्ञां गृहीत्वा प्राश्नीयात् ।
नूतनधान्यासम्भवे पुरातनेनापि श्राद्धं कर्त्तव्यम् ।
वृश्चिके शुक्लपक्षे तदकरणे हरिशयनात् पूर्ब्बं
मीनधनुस्थरवीतरत्र माघादौ कर्त्तव्यम् ॥ * ॥
वृश्चिकस्थरवौ शुक्लचतुर्द्दश्यां सौभाग्यकामः
पाषाणाकारपिष्टकैर्देवीं पूजयेत् तदपि भक्षये-
न्नक्तम् ॥ * ॥ अग्रहायण्यां पौर्णमास्यां पार्व्वण-
विधिना श्राद्धमावश्यकम् ॥ * ॥ भविष्यपुराणे ।
“रोहिण्या प्रतिपद्युक्ता मार्गे मासि सितेतरा ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥”
इति कृत्यतत्त्वम् ॥
(स्त्रियां आग्रहायणी पूर्णिमा । यथा, महा-
भारते । ३ । ९३ । २६ ।
“मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥”)

मार्गिकः, त्रि, (मृगान् हन्तीति । मृग + “पक्षि-

मत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।)
मृगहन्ता । (मार्गो गम्यत्वेनास्त्यस्य । ठन् ।)
पथिकः । इति सिद्धान्तकौमुदी ॥

मार्गितं, त्रि, (मार्ग अन्वेषणे + क्तः ।) अन्वे-

षितम् । इत्यमरः । ३ । १ । १०५ ॥

मार्ग्यं, त्रि, (मृज्यते इति । मृज् + “मृजे-

र्विभाषा ।” ३ । १ । ११३ । इति पक्षे ण्यत् ।
वृद्धिश्च । “चजोः कुघिण्ण्यतोः ।” ७ । ३ । ५२ ।
इति कुत्वम् ।) मार्ज्जनीयम् । इति सिद्धान्त-
कौमुदी ॥ (यथा, भट्टिकाव्ये । ६ । ५६ ।
“मन्युस्तस्य त्वया मार्ग्यो मृज्यः शोकश्च
तेन ते ।”)
अन्वेषणीयञ्च ॥

मार्ज्ज क मार्ज्जने । ध्वनौ । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) क मार्ज्जयति ।
इति दुर्गादासः ॥

मार्ज्जः, पुं, (मार्ज्जयति पापमलं प्रक्षाल्य उद्धरति

जनानिति । मार्ज्ज + णिच् + अच् ।) विष्णुः ।
इति हेमचन्द्रः । २ । ४४ ॥ (मार्ज्जयति वसन-
मलमिति । मार्ज्ज् + अच् ।) रजकः । इति
शब्दमाला ॥ मार्जनम् । इत्यमरटीकायां
भरतः ॥

मार्ज्जनं, क्ली, (मार्ज्ज्यते इति । मार्ज्ज् + भावे

ल्युट् ।) प्रोञ्छनादिना अङ्गनिर्म्मलीकरणम् ।
माजा इति भाषा । तत्पर्य्यायः । मार्ष्टिः २
मार्ष्टी ३ मार्ज्जना ४ मृजा ५ । इति शब्द-
रत्नावली ॥ मार्ज्जः ६ मार्ज्जा ७ । इत्यमर-
टीकायां भरतः ॥ (यथा, श्रीमद्भागवते । ९ ।
४ । १८ ।
“स वै मनः कृष्णपदारबिन्दयो
र्वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्ज्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥”)
स्नानकाले शरीरमार्ज्जनगुणाः ।
“दौर्गन्ध्यं गौरवं कण्डूं कच्छुं मलमरोचकम् ।
स्वेदं वीभत्सतां हन्ति शरीरपरिमार्ज्जनम् ॥
इति राजवल्लभः ॥
देवीगृहमार्ज्जनफलं यथा, --
“देव्या गृहन्तु यः शुक्र ! संमार्ज्जयति नित्यशः ।
स भवेद्बलवान् सौख्यसर्व्वसम्पत्तिसंयुतः ॥
देव्या गृहन्तु यः शुक्र ! गोमयेनानुलेपयेत् ।
स्त्रियो वा यदि वा पुंसः षण्मासन्तु निरन्तरम् ।
स लभेदीप्सितान् कामान् देव्या लोकञ्च
गच्छति ॥”
इति देवीपुराणे ४२ अध्यायः ॥
अथ भगवन्मन्दिरमार्जनमाहात्म्यम् ।
“नरसिंहगृहे नित्यं यः संमार्जनमाचरेत् ।
समस्तपापनिर्मुक्तो विष्णुलोके स मोदते ॥”
इति नृसिंहपुराणम् ॥
“संमार्जनन्तु यः कुर्य्यात् पुरुषः केशवालये ।
रजस्तमोभ्यां निर्मुक्तः स भवेन्नात्र संशयः ॥
पांशूनां यावतां राजन् ! कुर्य्यात् संमार्जनं
नरः ।
तावन्त्यब्दानि स सुखी नाकमासाद्य मोदते ॥”
इति विष्णुधर्म्मोत्तरम् ॥
“यावत्कानि प्रवाहाणि भूमिसंमार्जने ददुः ।
तावद्बर्षसहस्राणि शाकद्बीपे महीयते ॥
जायते मम भक्तश्च सर्व्वधर्म्मसमन्वितः ।
शुचिर्भागवतः शुद्धो ह्यपराधविवर्जितः ॥
ततो भुक्त्वा सर्व्वभोगान् तीर्त्वा संसारसागरम् ।
शाकद्वीपात् परिभ्रष्टः स्वर्गलोकं स गच्छति ॥
नन्दनं वनमाश्रित्य मोदते चाप्सरैः सह ।
नन्दनाच्च परिभ्रष्टो मम कर्म्मव्यवस्थितः ।
सर्व्वसङ्गान् परित्यज्य मम लोकन्तु गच्छति ॥”
इति वराहपुराणम् ॥ * ॥
स्नानविशेषः । यथा । आतुराणान्तु ।
“अशिरस्कं भवेत् स्नानं स्नानाशक्तौ तु
कर्म्मिणाम् ।
आर्द्रेण वाससा वापि मार्ज्जनं दैहिकं विदुः ॥”
इति जावालवचनाच्छिरो विहाय गात्रप्रक्षा-
लनं तदशक्तौ सर्व्वगात्रमार्ज्जनं आर्द्रेण वाससा
कुर्य्यात् । इत्याह्निकाचारतत्त्वम् ॥ * ॥ वैदिक-
सन्ध्योपासनान्तर्गतमार्जनं यथा । छन्दोगपरि-
शिष्टम् ।
“शिरसो मार्जनं कुर्य्यात् कुशैः सोदक-
बिन्दुभिः ।
प्रणवो भूर्भुवः स्वश्च गायत्त्री च तृतीयिका ॥
अब्दैवत्यं त्र्यृचञ्चैव चतुर्थमिति मार्जनम् ॥”
ओङ्कारो भूरादिव्याहृतित्रयं तृतीया च गायत्त्री
चतुर्थमापोहिष्ठेति ऋक्त्रयम् । इतीदं मार्जनं
मार्जनक्रियाकरणमित्यर्थः । रामायणम् ।
“ऋगन्ते मार्जनं कुर्य्यात् पादान्ते वा समाहितः ।
आपोहिष्ठेत्यृचा कार्य्यं मार्जनन्तु कुशोदकैः ॥
प्रतिप्रणवसंयुक्तं क्षिपेन्मुर्द्ध्नि पदे पदे ।
त्र्यृचस्यान्तेऽथवा कुर्य्यादृषीणां मतमीदृशम् ॥
पृष्ठ ३/७१०
आपोहिष्ठेतिसूक्तस्य सिन्धुद्बीप ऋषिः स्मृतः ।
आपो वै देवता च्छन्दो गायत्त्री मार्जनं
स्मृतम् ॥”
इत्याह्निकाचारतत्त्वम् ॥

मार्ज्जनः, पुं, (मार्ज्ज्यतेऽनेनेति । मार्ज्ज + ल्युट् ।)

लोध्रवृक्षः । इत्यमरः । २ । ४ । ३३ ॥ श्वेतलोध्रः ।
इति सुभूतिः ॥ रक्तलोध्रः । इति स्वामी ॥

मार्जना, स्त्री, (मार्ज्ज्यत इति । मार्ज्ज + भावे

युच् ।) मार्जनम् । इत्यमरः । २ । ६ । १२१ ॥
मुरजध्वनिः । इति हेमचन्द्रः । ३ । ३०० ॥

मार्जनी, स्त्री, (मार्ज्ज्यते अनयेति । मार्ज्ज + करणे

ल्युट् + स्त्रियां ङीप् ।) सम्मार्जनी । झाँटा
इति भाषा । यथा, --
“नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् ।
मार्जनीकलसोपेतां शूर्पालङ्कृतमस्तकाम् ॥”
इति स्कान्दे शीतलास्तोत्रम् ॥

मार्जनीयः, त्रि, (मार्ज्ज्यते इति । मृज् + अनी-

यर् ।) मार्जनयोग्यः । मार्ज्यः ॥ इति मृज-
धातोः कर्म्मण्यनीयप्रत्ययेन निष्पन्नः । अग्निः ।
शोधनम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

मार्जारः, पुं, (मृज् + “कञ्जिमृजिभ्यां चित् ।”

उणा० ३ । १३७ । इति आरन् चित् । “मृजे-
र्वृद्धिः ।” इत्युज्ज्वलदत्तोक्तेर्वृद्धिश्च ।) रक्त-
चित्रकः । इति राजनिर्घण्टः ॥ विडालः ।
इत्यमरः । २ । ५ । ६ ॥ (यथा, महाभारते ।
५ । १५९ । १६ ।
“मार्ज्जारः किल दुष्टात्मा निश्चेष्टः सर्व्व-
कर्म्मसु ॥”)
खट्टासः । इति हेमचन्द्रः । ४ । ३६७ ॥ * ॥
मार्जारस्पर्शने दोषो यथा, --
“अभोज्यसूतिकाषण्डमार्जाराखुश्च कुक्कुरान् ।
पतितापविद्धचण्डालमृतहारांश्च धर्म्मवित् ।
संस्पृश्य शुध्यते स्नानादुदक्याग्रामशूकरौ ॥”
इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ * ॥
पारिभाषिकमार्जारो यथा, --
“दम्भार्थं जपते यश्च तप्यते यजते तथा ।
न परत्रार्थमुद्युक्तो मार्जारः परिकीर्त्तितः ॥”
तस्यान्नमभोज्यं यथा, --
‘अभोज्याः सूतिकाषण्डमार्जाराख्वश्वकुक्कुटाः ॥’
इति वामनपुराणे १५ अध्यायः ॥

मार्जारकः, पुं, (मृज् + आरन् वृद्धिश्च ।

“संज्ञायां कन् ।” ४ । ३ । १४७ । इति कन् च ।)
मयूरः । इति त्रिकाण्डशेषः ॥ (मार्ज्जार +
स्वार्थे कन् । विडालः । यथा, महाभारते ।
१ । २३३ । २४ ।
“इमे मार्ज्जारकाः शुक्र ! नित्यमुद्वेजयन्ति
नः ॥”)

मार्जारकण्ठः, पुं, (मार्ज्जारस्येव कण्ठः कण्ठ-

स्वरो यस्य । यद्वा मार्ज्जारो मसृणः कण्ठो
यस्य ।) मयूरः । इति शब्दरत्नावली ॥

मार्जारकर्णिका, स्त्री, (मार्ज्जारस्य कर्णौ इव

कर्णौ यस्याः । स्त्रियां ङीप् स्वार्थे कन् । ठाप्
पूर्ब्बस्य ह्रस्वत्वञ्च ।) चामुण्डा । यथा, --
“चामुण्डा चर्च्चिका चर्म्ममुण्डा मार्जार-
कर्णिका ॥”
इति हेमचन्द्रः ॥

मार्जारकर्णी, स्त्री, मार्ज्जारस्येव कर्णावस्याः ।

ङीप् । चामुण्डा । यथा, --
“मार्जारकर्णी चामुण्डा कर्णमोटिश्च चर्च्चिका ॥”
इति त्रिकाण्डशेषः ॥

मार्जारगन्धा, स्त्री, (मार्ज्जारस्येव गन्धोऽस्याः ।)

मुद्गपर्णीविशेषः । इति रत्नमाला ॥

मार्जारगन्धिका, स्त्री, (मार्ज्जारगन्ध । कन् ।

टाप् । अत इत्वञ्च ।) मुद्गपर्णी । इति राज-
निर्घण्टः ॥ (तथास्याः पर्य्यायः ।
“मुद्गपर्णी काकपर्णी सूर्य्यपर्ण्यल्पिका सहा ।
काकमुद्गा च सा प्रोक्ता तथा मार्जारगन्धिका ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मार्जारी, स्त्री, (मार्ष्टि शोधयति केशादिकम-

नया । मृज् + आरन् । स्त्रियां ङीष् ।) कस्तूरी ।
जन्तुविशेषः । गन्धगकुला इति खाटासी इति
च भाषा । तत्पर्य्यायः । पूतिका २ पूतिकजः ३
गन्धचेलिका ४ । अस्या गुणाः । वान्तिधार-
कत्वम् । चक्षुष्यत्वम् । कफवातनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

मार्जारीयः, पुं, (मार्ज्जारस्यायम् । मार्जार +

“गहादिभ्यश्च ।” ४ । २ । १३८ । इति छः ।)
विडालः । शूद्रः । कायशोधनम् । इति मेदिनी ।
ये, १२७ ॥

मार्जालः, पुं, मार्जारः । रलयोरेकत्वात् ॥

मार्जालीयः, पुं, (मृज् + “स्थाचतिमृजेरा-

लच् वालञालीयचः ।” उणा० १ । ११५ । इति
आलीयच् ।) विडालः । शूद्रः । कायशोध-
नम् । इति हेमचन्द्रः ॥ (महादेवः । यथा,
महाभारते । ३ । ३९ । ७७ ।
“ललाटाक्षाय सर्व्वाय मीढुषे शूलपाणये ।
पिनाकगोप्त्रे सूर्य्याय मार्जालीयाय वेधसे ॥”)

मार्जिता, स्त्री, (मार्ज्यते घृष्यते पाणिनेति । मृज्

+ णिच् + कर्म्मणि क्तः । स्त्रियां टाप् ।) रसाला ।
इत्यमरः । २ । ९ । ४४ ॥ सा तु दधिखण्डमधु-
सर्पिर्मरिचादिकृतकर्पूरादिवासितसद्भक्ष्य-
विशेषः । इत्यमरटीकायां भरतः ॥ (गुणादयो-
ऽस्या रसालाशब्दे ज्ञातव्याः ॥) शोधिते, त्रि ॥

मार्त्तण्डः, पुं, (मृतश्चासौ अण्डश्चेति । मृताण्डे

भवतीति । मृताण्ड + “तत्र भवः ।” ४ । ३ ।
५३ । इति अण् ।) सूर्य्यः । (तन्निरुक्तिश्च ।
यथा, --
“अनिष्पन्नेषु गात्रेषु पुत्त्रं दृष्ट्वा पिताब्रवीत् ।
आर्त्तस्त्वं भव माण्डेति मार्त्तण्डस्तेन स स्मृतः ॥”
यथा, मार्कण्डेये । ७७ । १ ।
“मार्त्तण्डस्य रवेर्भार्य्या तनया विश्वकर्म्मणः ।
संज्ञा नाम महाभाग ! तस्यां भानुरजीजनत् ॥”
अर्कवृक्षः । इत्यमरः ॥ शूकरः । इति मेदिनी ।
ते, ३५ ॥ मार्त्तण्डोत्पत्तिर्यथा, --
मार्कण्डेय उवाच ।
“एवं सा नियता देवी चक्रे स्तोत्रमहनिशम् ।
निराहारा विवस्वन्तमारिराधयिषुर्मुने ! ॥
ततः कालेन महता भगवांस्तपनो मुने ! ।
प्रत्यक्षतामगात्तस्या दाक्षायण्या द्विजोत्तम ! ॥
सा ददर्श महाकूटं तेजसोऽम्बरसंस्थितम् ।
भूमौ च संस्थितं भास्वज्ज्वालामालातिदुर्द्दृशम् ॥
तञ्च दृष्ट्वा ततो देवी साध्वसं परमं गता ।
जगादाद्य ! प्रसीदेति न त्वां पश्यामि गोपते ! ॥
यथा दृष्टवती पूर्ब्बमम्बरस्थं सुदुर्दृशम् ।
संघातं तेजसस्तस्मादिह पश्यामि भूतले ॥
प्रसादं कुरु पश्येयं यद्रूपं ते प्रभाकर ! ।
भक्तानुकम्पन ! विभो ! भक्ताहं पाहि मे
सुतान् ॥”
श्रीमार्कण्डेय उवाच ।
“ततः स तेजसस्तस्मादाविर्भूतो विभावसुः ।
अदृश्यत तदादित्यस्तप्तताम्रोपमप्रभः ॥
अथ तां प्रागतां देवीं तस्य सन्दर्शनान्मुने ! ।
प्राह भास्वान् वृणुष्वेष्टं वरं मत्तो यमिच्छसि ॥
प्रणता शिरसा सा च जानुपीडितमेदिनी ।
प्रत्युवाच विवस्वन्तं वरदं समुपस्थितम् ॥
देव ! प्रसीद पुत्त्राणां हृतं त्रिभुवनं मम ।
यज्ञभागाश्च दैतेयैर्दानवैश्च बलाधिकैः ॥
तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते ! ।
अंशेन तेषां भ्रातृत्वं गत्वा नाशय तद्रिपून् ॥
यथा मे तनया भूयो यज्ञभागभुजः प्रभो ! ।
भवेयुरधिपाश्चैव त्रैलोक्यस्य दिवाकर ! ॥
तथानुकम्पां पुत्त्राणां सुप्रसन्नो रवे ! मम ।
कुरु प्रसन्नार्त्तिहर ! स्थितिकर्त्ता त्वमद्य मे ॥”
मार्कण्डेय उवाच ।
“ततस्तामाह भगवान् भास्करो वारितस्करः ।
प्रणतामदितिं विप्र ! प्रसादसुमुखो विभुः ॥
सहस्रांशेन ते गर्भे सम्भूयाहमशेषतः ।
तत्पुत्त्रशत्रूनदिते ! नाशयाम्याशु निर्वृता ॥
इत्युक्त्रा भगवान् भास्वानन्तर्द्धानमुपागमत् ।
निवृत्ता सापि तपसः संप्राप्ताखिलवाञ्छिता ॥
ततो रश्मिसहस्रान्तः सुषुम्नाख्यो रवेः करः ।
विप्रावतारं संचक्रे देवमातुरथोदरे ॥
कृच्छ्रचान्द्रायणादीनि सा चक्रे सुसमाहिता ।
शुचिः सन्धारयाम्येनं दिव्यं गर्भमिति द्बिज ! ॥
ततस्तां कश्यपः प्राह किञ्चित्कोपप्लुताक्षरम् ।
किं मारयसि गर्भाण्डमिति नित्योपवासिनी ॥
सा च तं प्राह गर्भाण्डमेतत् पश्येति कोपना ।
न मारितं विपक्षाणां मृत्यवे यद्भविष्यति ॥
इत्युक्त्रा तं तदा गर्भमुत्ससर्ज्ज सुरारणिः ।
जाज्वल्यमानं तेजोभिः प्रत्युवाच न कोपिता ।
तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्च्चसम् ।
तुष्टाव प्रणतो भूत्वा ऋग्भिराद्याभिरादरात् ॥
संस्तूयमानः स तदा गर्भाण्डात् प्रकटोऽभवत् ।
पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः ॥
अथान्तरीक्षादाभाष्य कश्यपं मुनिसत्तमम् ।
सतोयमेघगम्भीरा वागुवाचाशरीरिणी ॥
पृष्ठ ३/७११
मारितञ्च यतः प्रोक्तमेतदण्डं त्वयादितिम् ॥
तस्मान्मुने ! सुतस्तेऽयं मार्त्तण्डाख्यो भविष्यति ॥
सूर्य्याधिकारञ्च विभुर्जगत्येष करिष्यति ।
हनिष्यत्यसुरांश्चायं यज्ञभागहरानरीन् ॥
देवा निशम्येति वचो गगनात् समुपागतम् ।
प्रहर्षमतुलं याता दानवाश्च हतौजसः ॥
ततो युद्धाय दैतेयानाजुहाव शतक्रतुः ।
सह देवैर्मुदायुक्तो दानवाश्च तमाययुः ॥
तेषां युद्धमभूद्घोरं देवानामसुरैः सह ।
शस्त्रास्त्रदीप्तिसन्दीप्तसमस्तभुवनान्तरम् ॥
तस्मिन् युद्धे भगवता मार्त्तण्डेन निरीक्षिताः ।
तेजस्रा दह्यमानास्तु भस्मीभूता महासुराः ॥
ततः प्रहर्षमतुलं प्रापुः सर्व्वे दिवौकसः ॥
तुष्टवुस्तेजसां योनिं मार्त्तण्डमदितिन्तथा ॥
स्वाधिकारं ततः प्रापुर्यज्ञभागांश्च पूर्ब्बवत् ।
भगवानपि मार्त्तण्डः स्वाधिकारमथाकरोत् ॥
कदम्बपुष्पवद्भास्वानधश्चोर्द्ध्वञ्च रश्मिभिः ।
वृत्तोऽग्निपिण्डसदृशो दध्रे नातिस्फुटं वपुः ॥”
इति मार्कण्डेयपुराणे सूर्य्यमाहात्म्ये मार्त्त-
ण्डोत्पत्तिनामाध्यायः ॥

मार्त्तण्डबल्लभा, स्त्री, (मार्त्तण्डस्य बल्लभा प्रिया ।

यद्बा, मार्त्तण्डो वल्लभः प्रियोऽस्याः ।) आदित्य-
भक्ता । इति राजनिर्घण्टः ॥ सूर्य्यपत्नी च ॥

मार्त्तिकः, पुं, (मृत्तिकाया विकार इति ।

मृत्तिका + “तस्य विकारः ।” ४ । ३ । १३४ ।
इति ठक् ।) शरावः । इति शब्दरत्नावली ॥
मृत्तिकानिर्म्मिते, त्रि ॥

मार्द्दङ्गं, क्ली, (मृत् अङ्गमस्य । ततः स्वार्थे

अण् ।) पत्तनम् । इति हारावली ॥ (मृदङ्ग-
वादनं शिल्पमस्येति । अण् ।) मृदङ्गवादके,
त्रि ॥

मार्द्दङ्गिकः, त्रि, (मृदङ्गवादनं शिल्पमस्य ।

मृदङ्ग + “शिल्पम् ।” ४ । ४ । ५५ । इति
ठक् ।) मृदङ्गवादकः । तत्पर्य्यायः । मौर-
जिकः २ । इत्यमरः । २ । १० । १३ ॥ सार्ङ्किकः ३
और्द्धिकः ४ । इति शब्दरत्नावली ॥ (यथा,
रामायणे । २ । ९१ । ४९ ।
“बिल्वा मार्द्दङ्गिका आसंश्छम्याग्राहा विभी-
तकाः ।
अश्वत्था नर्त्तकाश्चासन् भरद्बाजस्य तेजसा ॥”)

मार्द्दवं, क्ली, (मृदोर्भाव इति । मृदु + “पृथ्वादिभ्य

इमणिज् वा ।” ५ । १ । १२२ । इत्यत्र । “वावचन-
मणादेः समावेशार्थम् ।” इति काशिको-
क्तेरण् ।) परदुःखप्रदर्शनात् पीडाबुद्धिः ।
मृदुता । यथा, --
“मार्द्दवं कोमलस्यापि संस्पर्शासहतोच्यते ।
उत्तमं मध्यमं प्रोक्तं कनिष्ठञ्चेति तत्त्रिधा ॥”
उत्तमं यथा, --
“अभिनवमालिकामियं साशय-
नववंशिराधिका विशिष्ये ।
न कुसुमपटलं दरापि जग्लौ
तदनुभवात्तनुरेव सव्रणासीत् ॥”
मध्यमं यथा, --
“चित्रं धनिष्ठे तनुवाससोऽपि
चीनस्य पीनस्तनि ! सङ्गमेन ।
लिप्तेन तल्लोहितचन्दनेन
मूर्त्तिर्दिदूना सखि ! लोहितासीत् ॥
कनिष्ठं यथा, --
रससुधाकरे आमोदमामोदन-
मादधानं निलीननीलालकचञ्चरीकम् ।
क्षणेन पद्मामुखपद्ममासीत्
त्विषा रवेः कोमलयापि ताम्रम् ॥”
इत्युज्ज्वलनीलमणिः ॥
(अकाठिन्यम् । यथा, रघौ । ८ । ४३ ।
“विललाप सवाष्पगद्गदं
सहजामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्द्दवं
भजते कैव कथा शरीरिषु ॥”)

मार्द्दवः, पुं, (मार्द्दवं मृदुत्वमस्यास्तीति । मार्द्दव +

अर्श आद्यच् ।) वर्णसङ्करजातिविशेषः ।
“माधुको मार्दवश्चञ्चुकारुषा हिण्डिकादयः ।”
इति जटाधरः ॥

मार्षः, पुं, (मृष्यति क्षमते जनानिति । मृष् +

“इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ ।
इति कः । मृषः । ततः । स्वार्थे अण् ।)
नाठ्योक्तौ श्रेष्ठः । इति हेमचन्द्रः । २ । २४ ॥
मारिषशाकः । इत्यमरटीकायां भरतः ॥
(शाकार्थे पर्य्यायो यथा, --
“मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः ।”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मार्षिकः, पुं, (मार्ष + ठक् ।) मारिषशाकः ।

इति राजनिर्घण्टः ॥

मार्ष्टिः, स्त्री, (मृज् + क्तिन् । “मृजेर्वृद्धिः ।”

७ । २ । ११४ । इति वृद्धिश्च ।) मार्जनम् ।
इत्यमरः । २ । ६ । १२१ ॥ तैलम्रक्षणम् । यथा,
“तैलमल्पं यदङ्गेषु न भवेत् बाहुसङ्गतम् ।
सा मार्ष्टिः पृथगभ्यङ्गो मस्तकादौ प्रकीर्त्तितः ॥”
इत्याह्णिकतत्त्वम् ॥

मालं, क्ली, (माति मानहेतुर्भवतीति । मा +

“ऋज्रेन्द्राग्रवज्रेत्यादि ।” उणा० २ । २८ । इति
रण् । पृषोदरादित्वाद्रस्य लत्वम् ।) क्षेत्रम् ।
इति मेदिनी ॥ ले, ४५ । (यथा, मेघदूते । १६ ।
“सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥”)
कपटम् । वनम् । इति हेमचन्द्रः ॥ (हरि-
तालम् । यथा, --
“हरितालं तालमालं मालं शैलूषभूषणम् ।
पिञ्जकं रोमहरणं तालकं पातमित्यपि ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाद्य-
धिकारे ।)

मालः, पुं, (मातीति । मा + रन् । रस्य लत्वम् ।)

जातिविशेषः । इति मेदिनी ॥ ले, ४५ । स च
म्लेच्छजातिः । यथा, --
“माला भिल्लाः किराताश्च सर्व्वेऽपि म्लेच्छजातयः ॥”
(यथा, महाभारते । ६ । ९ । ३९ ।
“तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ।
शूरसेनाः पुलिन्दाश्च योधा मालास्तथैव च ॥”)
जनः । इति च हेमचन्द्रः । ३ । ५९८ ॥ देश-
विशेषः । स च मेदिनीपुरप्रदेशे मालभूमित्वेन
ख्यातः । विष्णुः । यथा, --
‘मां लक्ष्मीं लातीति मालो विष्णुः तं अत-
तीति मालती ।’
इति मालतीशब्दटीकायां भरतः ॥

मालकं, क्ली, (मलते धारयति शोभामिति ।

मलधारणे + ण्वुल् ।) स्थलपद्मम् । इति जटा-
धरः ॥

मालकः, पुं, (मलते धारयत्युग्रवीर्य्यं रोगनाशने

इति । मलधारणे + ण्वुल् ।) निम्बवृक्षः । इत्य-
मरः । २ । ४ । ६२ ॥ (निम्बशब्देऽस्य विवरणं
ज्ञातव्यम् ॥)

मालका, स्त्री, (मलते धारयति शोभाम् । मल +

ण्वुल् । स्त्रियां टाप् ।) माल्यम् । इति शब्द-
रत्नावली ॥

मालकौशः, पुं, (मालस्य हरेः कोशात् कण्ठा-

न्निर्गत इति । अण् ।) रागविशेषः । तस्य
नामान्तरं कौशिकः । स च हनूमन्मते षड्-
रागाणां मध्ये द्बितीयरागः । हरस्य हरेर्वा
कण्ठान्निर्गतः । अस्य जातिः सम्पूर्णा तत्र सप्त-
स्वरक्रमः ष ऋ ग म प ध नि । अस्य गृहं
षड्जस्वरः । शरदृतौ रात्रिशेषे गानसमयः ।
रागमालायामस्य स्वरूपम् । पाटलवर्णपुरुषः ।
नीलपरिच्छदः । यष्टिहस्तः । यौवनमदमत्तः
स्त्रीभिः सह हास्यकौतुकान्वितः शत्रुमस्तक-
माल्यगलोऽथवा बृहन्मुक्तामाल्यगलः । अस्य
रागिण्यः पञ्च यथा । टोडी १ गौरी २ गुण-
करी ३ खम्भावती ४ कोकभा ५ । अस्याष्टौ
पुत्त्रा यथा । मारुः १ मेवाडः २ वडहंसः ३
प्रबलः ४ चन्द्रकः ५ नन्दः ६ भ्रमरः ७ खुखरः ८
अत्र मिष्टाङ्गोऽपि पाठः । भरतमते तस्य
रागिण्यः पञ्च यथा । गौरी १ दयावती २
देवदाली ३ खम्भावती ४ कोकभा ५ । तन्मते
अष्टौ पुत्त्रा यथा । गान्धारः १ शुद्धः २ मकरः ३
त्रिञ्छनः ४ सहानः ५ शक्तबल्लभः ६ माली-
गौरः ७ कामोदः ८ । अष्टपुत्त्रभार्य्या यथा ।
धनाश्रीः १ मालश्रीः २ जयतश्रीः ३ सुघोरायी ४
दुर्गा ५ गान्धारी ६ भीमपलाशी ७ कामोदी
८ । इति सङ्गीतशास्त्रम् ॥

मालचक्रकं, क्ली, (माला समूहः अस्थ्नामस्त्य-

स्येति । अर्श आदित्वादच् । स चक्रमिवेति ।
कन् ।) सक्थ्यूरुपर्व्वसन्धिः । इति शब्द-
चन्द्रिका । मालाइचाकि इति भाषा ॥

मालती, स्त्री, (मलते शोभां धारयतीति । मल् +

“भृदृशियजीत्यादि ।” उणा० ३ । ११० । इत्यत्र
“बाहुलकात् मलतेरतच् । गौरादिनिपातना-
दुपधाया दीर्घत्वम् ।” इत्युज्ज्वलदक्तोक्तेः अतच्
उपधाया दीर्घत्वम् ङीष् च । मां लक्ष्मीं
पृष्ठ ३/७१२
लातीति मालो विष्णुः तं अततीति । अच् ।
इत्यमरटीकायां भरतः ॥) स्वनामख्यात-
पुष्पलता । तत्पर्य्यायः । सुमना २ जातिः ३ ।
इत्यमरः ॥ सुमनाः ४ जाती ५ । इति भरतः ॥
(यथा, शिशुपालवधे । ११ । १७ ।
“ज्वलयति मदनाग्निं मालतीनां रजोभिः ।”)
अस्या गुणाः । कफपित्तमुखरोगव्रणक्रिमिकुष्ठ-
नाशित्वम् । इति राजबल्लभः ॥ तस्या उत्-
पत्तिर्यथा, --
आद्याशक्तिरुवाच ।
‘अहमेतत्त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः ।
गौरी लक्ष्मीः स्वधा चेति रजःसत्त्वतमोगुणैः ॥
तत्र गत्वा तथा कार्य्यं विधास्यन्ते च ताः
सुराः ॥
नारद उवाच ।
शृण्वतामिति तां वाचमन्तर्द्ध्वानभगान्महः ।
देवानां विस्मयोत्फुल्लनेत्राणाञ्च तदा नृप ! ॥
ततः सर्व्वेऽपि ते देवा गत्वा तद्वाक्यचोदिताः ।
गौरीं लक्ष्मीं स्वधाञ्चैव प्रणेमुर्भक्तितलराः ॥
तास्तथा तान् सुरान् दृष्ट्वा प्रणतान् भक्तवत्-
सलाः ।
बीजानि प्रददुस्तेभ्यो वाक्यानि जगदुस्तथा ॥
देव्य ऊचुः ।
इमानि देवा बीजानि विष्णुर्यत्रावतिष्ठति ।
निर्व्वपस्व ततः कार्य्यं भवतां सिद्धिमेष्यति ॥
नारद उवाच ।
ततः प्रहृष्टाः सुरसिद्धसंघाः
प्रगृह्य बीजानि विचिक्षिपुश्च ।
विन्दारिकाभूमितले स यत्र
विष्णुः सदा तिष्ठति सौख्यवृत्तिः
नारद उवाच ।
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ।
धात्री च मालती चैव तुलसी च नृपोत्तम ! ॥
धात्र्युद्भवा स्मृता धात्री माभवा मालती
स्मृता ।
गौरीभवा च तुलसी रजःसत्त्वतमोगुणाः ॥”
इति पाद्मे उत्तरखण्डे १४९ । १५० अध्यायौ ॥ * ॥
युवती । काचमाली । विशल्या । ज्योत्स्ना ।
निशा । नदीविशेषः । इति हेमचन्द्रः । ४ । २१३ ।
(सुवर्च्चला मालतीत्यर्थः । तत्पर्य्यायो यथा, --
“चणको मालती क्षौमी रुद्रपत्नी सुवर्च्चला ॥”
पुष्पार्थे पर्य्यायो यथा, --
“मालती सुमना जातिः ।” इत्युभे वैद्यकरत्न-
मालायाम् ॥ तथाच ।
जातिर्जाती च सुमना मालती राजपुत्त्रिका ।
चेतिका हृद्यगन्धा च सा पीता स्वर्णजातिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मालतीतीरजः, पुं, (मालती तदाख्या नदी तस्या-

स्तीरे जायते इति । जन् + डः ।) टङ्कणः । इति
हेमचन्द्रः । ४ । १० ॥

मालतीतीरसम्भवं, क्ली, (मालत्या तीरे सम्भवो-

ऽस्य ।) श्वेतटङ्कणम् । इति राजनिर्घण्टः ॥

मालतीपत्रिका, स्त्री, (मालत्याः पत्रीव । मालती-

पत्र + प्रतिकृतौ कन् टाप् अत इत्वम् ।)
जातीपत्री । इति राजनिर्घण्टः ॥ (जाती-
पत्रीशब्देऽस्य विषयो द्रष्टव्यः ॥)

मालतीफलं, क्ली, (मालत्याः फलम् ।) जाती-

फलम् । इति राजनिर्घण्टः ॥ (तथास्य पर्य्यायः ।
“जातीफलं जातिकोशं मालतीफलमित्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मालयः, पुं, (मा शोभा तस्याः लयः आस्पदम् ।)

चन्दनवृक्षः । इति त्रिकाण्डशेषः ॥ मलय-
सम्बन्धिनि, त्रि ॥ (यथा, नलोदये । २ । ३७ ।
“तनुच्छटोत्तमालया तया भुवोत्तमालया ।
अहारि शीतमालयानिलाबधूतमालया ॥”
क्ली, अभिसारस्थानभेदः । यथा, साहित्य-
दर्पणे । ३ । अभिसारिकाप्रकरणे ।
“क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालयञ्च श्मशानञ्च नद्यादीनां तटी
तथा ॥”)

मालवः, पुं, (मालः उन्नतक्षेत्रमस्त्यत्र । माल +

“केशाद्वोऽन्यतरस्याम् ।” ५ । २ । १०९ । इत्यत्र
“अन्येभ्योऽपि दृश्यन्ते ।” इति काशिकोक्तेः
वप्रत्ययः ।) अवन्तिदेशः । इति हेमचन्द्रः ।
४ । २२ ॥ मालओया इति हिन्दीभाषा ॥
(यथा, मात्स्ये । ११३ । ४४ ॥
“अङ्गा वङ्गा मद्गुरका अन्तर्गिरि बहि-
र्गिरी ।
सुह्मोत्तराः प्रविजया मार्गवागेयमालवाः ॥”
मालवेषु जात इत्यण् । तद्देशजे, त्रि ॥)
रागविशेषः । स च षड्रागाणां मध्ये प्रथम-
रागः । मतान्तरे भैरवरागोऽयम् । यथा, --
“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः ।
श्रीरागस्तस्य पश्चाद्वै वसन्तस्तदनन्तरम् ॥
हिल्लोलश्चाथ कर्णाट एते रागाः प्रकी-
र्त्तिताः ॥
तस्य स्वरूपं यथा, --
“नितम्बिनीचुम्बितवक्त्रपद्मः
शुकद्युतिः कुण्डलवान् प्रमत्तः ।
सङ्गीतशालां प्रविशन् प्रदोषे
मालाधरो मालवरागराजः ॥”
इति सङ्गीतदामोदरः ॥
(मालव्यां तन्नामिकायां सावित्रीमातरि जातः
इत्यण् । अश्वपतेराज्ञो मालव्यां जातः पुत्त्र
गणः । यथा, महाभारते । ३ । २९६ । ५८ ।
“पितुश्च ते पुत्त्रशतं भविता तव मातरि ।
मालव्यां मालवा नाम शाश्वताः पुत्त्रपौत्त्रिणः ॥
भ्रातरस्ते भविष्यन्ति क्ष्यत्रियास्त्रिदशोपमाः ॥”
स्त्री, नदीविशेषः । यथा, महाभारते । १३ ।
१६५ । २५ ।
“हिरण्वती वितस्ता च तथा प्लक्षवती नदी ।
वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि ॥”)

मालविका, स्त्री, (मालवेषु जाता । मालव + ठक्

टाप् ।) त्रिवृत् । इति राजनिर्घण्टः ॥

मालसी, स्त्री, (मल + स्वार्थे अण् । मलं स्यति-

नाशयति । सो + डः । ङीप् ।) केशपुष्पवृक्षः ।
यथा, --
‘मालसी दुर्गपुष्पी च बालाक्षी केशधारिणी ॥’
इति शब्दचन्द्रिका ॥
रागिणीविशेषः । सा तु मालवरागस्य पत्नी ।
यथा, --
“धानुषी मालसी रामकिरी च सिन्धुडा तथा ।
अश्ववारी भैरवी च मालवस्य प्रिया इमाः ॥”
इति हारीतः ॥
मतान्तरे मेघरागस्य पत्नी । यथा, --
“ललिता मालसी गौडी नाटी देवकिरी तथा ।
मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥”
तस्याः स्वरूपं यथा, --
“नीलारविन्दस्य दलानि बाला
विधारयन्ती तनुदेहयष्टिः ।
मालूरवृक्षस्य तले निषण्णा
शोणा मृदुर्मालसिका प्रदिष्टा ॥”
तस्या गानसमयो यथा, --
“इन्द्रोत्थानात् समारभ्य यावद्दुर्गामहोत्सवम् ।
गेया भवेद्बुधैर्नित्यं मालसी सा मनोहरा ॥”
अपि च ।
“गान्धारी दीपिका चैव कल्याणी पुरवी तथा ।
अश्ववारी कानडा च गौरी केदारपाहिडा ॥
माधवी मालसी नाटी भूपाली सिन्धुडा तथा ।
सायाह्ने रागिणीरेताः प्रगायन्ति चतुर्द्दश ॥”
इति सङ्गीतदामोदरः ॥

माला, स्त्री, (माति मानहेतुर्भवतीति । मा +

“ऋज्रेन्द्राग्रवज्रे ।” उणा० २ । २८ । इति रन्
रस्य लत्वम् टाप् च । यद्वा, मां शोभां लाति इति ।
ला + कः टाप् ।) श्रेणी । तत्पर्य्यायः । राजिः २
लेखा ३ तती ४ वीची ५ आली ६ आवलिः ७
पङ्क्तिः ८ धारणी ९ । इति हेमचन्द्रः । ३ । ३१५ ।
मूर्द्ध्नि न्यस्तपुष्पदाम । अन्यत्राप्युपचारात् ॥
तत्पर्य्यायः । माल्यम् २ स्रक् ३ । इत्यमरः । २ ।
६ । १३५ ॥ मालिका ४ मालाका ५ मालका ६ ।
इति शब्दरत्नावली ॥ गणनिका ७ गुणा-
न्तिका ८ । इति वराहपुराणम् ॥ सा त्रिविधा
यथा, --
“माला तु त्रिविधा देवि ! वर्णाक्षपर्व्वभेदतः ।”
इति मत्स्यसूक्तवचनम् ॥ * ॥
अथ मालानिर्णयः । तत्र करमाला । सनत्-
कुमारसंहितायाम् ।
‘तर्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ॥
तिस्रोऽङ्गुल्यस्त्रिपर्व्वाणो मध्यमा चैकपर्व्विका ।
पर्व्वद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत् ॥
क्रममाह ।
अनामामध्यमारभ्य कनिष्ठादित एव च ।
तर्जनीमूलपर्य्यन्तं दशपर्व्वसु संजपेत् ॥
तथा, --
अनामामूलमारभ्य कनिष्ठादित एव च ।
तर्जनीमध्यपर्य्यन्तमष्टपर्व्वम संजपेत् ॥
पृष्ठ ३/७१३
एतद्वचनन्तु अष्टोत्तरशतादिविषयम् ॥ * ॥
शक्तिविषये पुनः । श्रीक्रमे ।
अनामिकात्रयं पर्व्व कनिष्ठादित्रिपर्व्विका ।
मध्यमायाश्च त्रितयं तर्जनीमूलपर्व्वणि ।
तर्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत् ॥
हंसपारमेश्वरे ।
पर्व्वद्बयमनामायाः परिवर्त्तेन वै क्रमात् ।
पर्व्वत्रयं मध्यमायास्तर्जन्येकं समाहरेत् ॥
पर्व्वद्बयन्तु तर्जन्या मेरुं तद्बिद्धि पार्व्वति ! ।
शक्तिमाला समाख्याता सर्व्वतन्त्रप्रदीपिका ॥
तथा ।
अनामामूलमारभ्य प्रादक्षिण्यक्रमेण च ।
मध्यमामूलपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥ * ॥
श्रीविद्यायामयं विशेषः ।
अनामाया मध्यमाया मूलाग्रञ्च द्वयं द्बयं ।
कनिष्ठायाश्च तर्जन्यास्त्रयं पर्व्व सुरेश्वरि ! ॥
अनामामध्यमायाश्च मेरुः स्याद्द्वितयं शुभम् ।
प्रदक्षिणक्रमाद्देवि ! जपेत्त्रिपुरसुन्दरीम् ॥”
इति यामलवचनात् ॥
मुण्डमालातन्त्रे ।
“अनामिका द्वयं पर्व्वप्रादक्षिण्यक्रमेण तु ।
तर्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता ॥
कनिष्ठामूलमारभ्य प्रादक्षिण्यक्रमेण च ।
तर्जनीमूलपर्य्यन्तमष्टपर्व्वसु संजपेत् ॥”
इदमपि अष्टोत्तरशतादिविषयम् ॥ * ॥
अङ्गुलीर्न वियुञ्जीत किञ्चिदाकुञ्चिते तले ।
अङ्गुलीनां वियोगाच्च छिद्रे च स्रवते जपः ॥
अन्यत्रापि ।
अङ्गुल्यग्रेषु यज्जप्तं यज्जप्तं मेरुलङ्घने ।
पर्व्वसन्धिषु यज्जप्तं तत्सर्व्वं निष्फलं भवेत् ॥
गणनाविधिमुल्लङ्घ्य यो जपेत्तज्जपं यतः ।
गृह्णन्ति राक्षसास्तेन गणयेत् सर्व्वथा बुधः ॥
तत्राङ्गुलिजपं कुर्व्वन् साङ्गुष्ठाङ्गुलिभिर्जपेत् ।
साङ्गुष्ठेन विना कर्म्म कृतं तदफलं भवेत् ॥
विश्वसारे ।
जपसंख्या तु कर्त्तव्या नासंख्यातं जपेत् सुधीः ।
नसंख्याकारकस्यास्य सर्व्वं भवति निष्फलम् ॥
तन्त्रे ।
हृदये हस्तमारोप्य तिर्य्यक् कृत्वा कराङ्गुलीः ।
आच्छाद्य वाससा हस्तौ दक्षिणेन सदा जपेत् ॥
इति करमाला ॥ * ॥
जपसंख्यायां निषिद्धद्रव्यमाह यामले ।
नाक्षतैर्हस्तपर्व्वैर्वा न धान्यैर्नच पुष्पकैः ।
न चन्दनैर्मृत्तिकया जपसंख्यां न कारयेत् ॥
विहितद्रव्यमाह ।
लाक्षाकुशीदसिन्दूरगोमयञ्च करीषकम् ।
एभिर्निर्म्माय गुटिकां जपसंख्यान्तु कारयेत् ॥
अथ वर्णमाला । सनत्कुमारे ।
क्रमोत्क्रमगतैर्मालामातृकार्णैः क्षमेरुकैः ।
सबिन्दुकैः साष्टवर्गैरन्तर्यजनकर्म्मणि ॥
आदिकु चु टु पु यु शवोऽष्टौ वर्गाः प्रकीर्त्तिताः ।
तद्यंथा । अकारादिवर्णान् सबिन्दून् प्रत्येकं
कृत्वा शतं संजप्य अकारादीनां वर्णानां
कवर्गादीनाञ्चान्तिमं वर्णं सानुस्वारं कृत्वा पूर्ब्ब-
मुच्चार्य्य शेषाष्टवारमन्त्रजपः कार्य्यः । अनेन
प्रकारेण अष्टोत्तरशतसंख्यो जपो भवति ।
अन्तर्यजनेत्युपलक्षणम् । तथा ।
सबिन्दुं वर्णमुच्चार्य्य पश्चान्मन्त्रं जपेद्बुधः ।
अकारादिक्षकारान्तं बिन्दुयुक्तं विभाव्य च ।
वर्णमाला समाख्याता अनुलोमविलोमतः ॥
इति नारदवचनात् ।
विशुद्धेश्वरे ।
अनुलोमविलोमेन वर्गाष्टकविभेदतः ।
मन्त्रेणान्तरितान् वर्णान् वर्णेनान्तरितान्
मनून् ।
कुर्य्याद्वर्णमयीं मालां सर्व्वतन्त्रप्रकाशिनीम् ॥ * ॥
मालिनीविजये सूत्रनियमः ।
अन्तर्विद्रुमभासमानभुजगीसूत्रोतवर्णोज्ज्वलाम् ।
आरोहप्रतिरोहतः शतमयीं वर्गाष्टकाष्टोत्त-
राम् ॥
इति वर्णमाला ॥ * ॥
अथाक्षमाला । तत्र मालायां मणिनिर्णयः ।
पद्मबीजादिभिर्माला बहिर्यागे शृणुष्व ताः ।
रुद्राक्षशङ्खपद्माक्षपुत्त्रजीवकमौक्तिकैः ॥
स्फाटिकैर्मणिरत्नैश्च सुवर्णैर्विद्रुमैस्तथा ।
राजतैः कुशमूलैश्च गृहस्थस्याक्षमालिका ॥ * ॥
अङ्गुलीगणनादेकं पर्व्वण्यष्टगुणं भवेत् ।
पुत्त्रजीवैर्दशगुणं शतं शङ्खैः सहस्रकम् ॥
प्रबालैर्मणिरत्नैश्च दशसाहस्रकं मतम् ।
तदेव स्फाटिकैः प्रोक्तं मौक्तिकैर्लक्षमुच्यते ॥
पद्माक्षैर्द्दशलक्षं स्यात् सौवर्णैः कोटिरुच्यते ।
कुशग्रन्थ्या कोटिशतं रुद्राक्षैः स्यादनन्तकम् ॥
सर्व्वैर्व्विरचिता माला नृणां मुक्तिफलप्रदा ।
कालिकापुराणे ।
रुद्राक्षैर्व्वा यदि जपेत् इन्द्राक्षैः स्फाटिकैस्तथा ।
नान्यन्मध्ये प्रयोक्तव्यं पुत्त्रजीवादिकञ्च यत् ॥
यद्यन्यत्तु प्रयुञ्जीत मालायां जपकर्म्मणि ।
तस्य कामञ्च मोक्षञ्च न ददाति प्रियङ्करी ॥
मुण्डमालायाम् ।
श्मशानधुस्तुरैर्माला ज्ञेया धूमावतीविधौ ।
नराङ्गुल्यस्थिभिर्माला ग्रथिता सर्व्वकामदा ॥
नाड्या संग्रथनं कार्य्यं रक्तेन वाससा प्रिये ! ।
सदा गोप्या प्रयत्नेन जनन्या जारवत् प्रिये ! ॥
कामनाविशेषे तु ।
पद्माक्षैर्व्विहिता माला शत्रूनाशकरी मता ।
कुशग्रन्थिमयी माला सर्व्वपापप्रणाशिनी ॥
पुत्त्रजीवफलैः कॢप्ता कुरुते पुत्त्रसम्पदम् ।
निर्म्मिता रूप्यमणिभिर्जपमालेप्सितप्रदा ।
प्रबालैर्विहिता माला प्रयच्छेत् विपुलं धनम् ॥
भैरवीविद्यायान्तु वाराहीतन्त्रे ।
सुवर्णमणिभिर्म्मालां स्फाटिकीं शङ्खनिर्म्मि-
ताम् ।
प्रबालैरेव वा कुर्य्यात् पुत्त्रजीवं विवर्ज्जयेत् ।
पद्माक्षञ्चैव रुद्राक्षमिन्द्राक्षञ्च विशेषतः ॥ * ॥
त्रिपुरामन्त्रजपादौ तु रक्तचन्दनबीजादिभि-
रतिप्रशस्ता । तथा च तन्त्रराजे ।
रक्तचन्दनमाला तु भोगदा मोक्षदा भवेत् ॥
तथा ।
वैष्णवे तुलसीमाला गजदन्तैर्गजानने ।
त्रिपुराया जपे शस्ता रुद्राक्षै रक्तचन्दनैः ॥ * ॥
कुमारीकल्पे ।
रुद्राक्षैः शक्तिमन्त्रञ्च मन्त्री यः प्रजपेत् प्रिये ! ।
स दुर्गतिमवाप्नोति निष्फलस्तस्य तज्जपः ॥
कालिका च्छिन्नमस्ता च त्रिपुरा तारिणी तथा ।
एताः सर्व्वा न दुष्यन्ति जपे रुद्राक्षमालया ॥
दिवा नैव प्रजप्तव्यं रुद्राक्षमालयापि च ।
पुरश्चर्य्यामृते चात्र दूषणन्तु वरानने ! ॥
महाशङ्खमयी माला नीलसारस्वते विधौ ।
नृललाटास्थिखण्डेन रचिता जपमालिका ॥
महाशङ्खमयी माला ताराविद्याजपे प्रिये ! ।
कर्णनेत्रान्तरालास्थि महाशङ्खः प्रकीर्त्तितः ॥
मणिनियमस्तु मुण्डमालायाम् ।
अन्योन्यसमरूपाणि नातिस्थूलकृशानि च ।
कीटादिभिरदुष्टानि न जीर्णानि नवानि वै ॥
तथा गौतमीये ।
पञ्चाशल्लिपिभिर्माला विहिता सर्व्वकर्म्मसु ।
अकारादिक्षकारान्ता वर्णमाला प्रकीर्त्तिता ॥
क्षार्णं मेरुमुखं तत्र कल्पयेन्मुनिसत्तम ! ।
अनया सर्व्वमन्त्राणां जपः सर्व्वसमृद्धिदः ॥ * ॥
चामुण्डातन्त्रे ।
नित्यं जपं करे कुर्य्यात् न तु काम्यमबोधनात् ।
काम्यमपि करे कुर्य्यात् मालाभावेऽपि सुन्दरि ! ॥
तेन मालायाः प्राधान्यम् ॥ * ॥ कामनाभेदे तु
गौतमीये ।
समासेनाक्षसूत्रस्य विधानमिह कथ्यते ।
पञ्चविंशतिभिर्मोक्षं त्रिंशद्भिर्धनसिद्धये ॥
सर्व्वार्थाः सप्तविंशत्या पञ्चदश्यभिचारके ।
पञ्चाशद्भिः काम्यसिद्धिः स्यात्तथा चतुरुत्तरैः ।
अष्टोत्तरशतैः सर्व्वसिद्धिरुक्ता मनीषिभिः ॥
अथ मालासंस्कारः । तत्र सनत्कुमारीये ।
‘कार्पाससम्भवं सूत्रं धर्म्मकामार्थमोक्षदम् ।
तच्च विप्रेन्द्रकन्याभिर्निर्म्मितञ्च सुशोभनम् ॥’
यद्वा ।
‘शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा ।
शान्तिवश्याभिचारेषु मोक्षैश्वर्य्यजयेषु च ॥
शुक्लं रक्तं तथा पीतं कृष्णं वर्णेषु च क्रमात् ।
सर्व्वेषामेव वर्णानां रक्तं सर्व्वेप्सितप्रदम् ॥
आश्रमेषु तथा चैवं रक्तं सर्व्वसुसिद्धिदम् ।
त्रिगुणं त्रिगुणीकृत्य ग्रथयेत् शिल्पशास्त्रतः ॥
एकैकं मातृकावर्णं सतारं प्रजपन् सुधीः ।
मणिमादाय सूत्रेण ग्रथयेन्मध्यमध्यतः ॥
ब्रह्मग्रन्थिं विधायेत्थं मेरुञ्च ग्रन्थिसंयुतम् ।
ग्रथयित्वा पुरो मालां ततः संस्कारमारभेत् ॥
कस्यचिन्मते मूलविद्यया ग्रथयेत् । तथा च
एकवीराकल्पे ।
‘मातृकामन्त्रतो ग्रन्थिं विद्यया वाथ कारयेत् ।
पृष्ठ ३/७१४
सुवर्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः ॥
ब्रह्मग्रन्थिं ततो दद्यान्नागपाशमथापि वा ।
कवचेनावबध्रीयान्मालां ध्यानपरायणः ॥
सर्व्वशेषं ततो मेरुं सूत्रद्बयसमन्वितम् ।
ग्रथयेत्तारयोगेण बध्नीयात् साधकोत्तमः ।
एवं निष्पाद्य देवेशि ! प्रतिष्ठाञ्च समाचरेत् ॥’
गौतमीये ।
‘मुखे मुखञ्च संयोज्य पुच्छे पुच्छं नियोजयेत् ।
गोपुच्छसदृशी माला यद्बा सर्पाकृतिः शुभा ।
एवं निर्म्माय मालां वै शोधयेन्मुनिसत्तमः ॥
अश्वत्थपत्रनवकैः पद्माकारन्तु कारयेत् ।
तन्मध्ये स्थापयेन्मालां मातृकां मूलमुच्चरन् ।
क्षालयेत् पञ्चगव्येन सद्यीजातेन सज्जलैः ॥’
सद्योंजातस्तु ।
‘ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमः ।
भवेऽभवेऽनादिभवे भजस्व मां भवोद्भवाय नमः ॥
चन्दनागुरुकर्पूरैर्षामदेवेन घर्षयेत् ॥’
वामदेवमन्त्रस्तु । ॐ वामदेवाथ नमो ज्येष्ठाय
नमो रुद्राय नमः कालाय नमः कलविकरणाय
नमो बलविकरणाब नमो बलप्रमथनाय नमः
सर्व्वभूतदमनाय नमो मनोन्मनाय नमः ।
धूपयेत्तामघोरेण । अघोरमन्त्रस्तु । अघोरेभ्यो-
ऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्व्वतः सर्व्व-
सर्व्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः । लेपयेत्तत्-
पुरुषेण तु । तत्पुरुषमन्त्रस्तु । ॐ तत्पुरुषाय
विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचो-
दयात् ।
‘मन्त्रयेत् पञ्चमेनव प्रत्येकन्तु शतं शतम् ।
मेरुञ्च मन्त्रयेच्चैव मनुना च शतं शतम् ॥’
मन्त्रस्तु । ॐ ईशानः सर्व्वविद्यानामीश्वरः
सर्व्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः शिरो
मेऽस्तु सदाशिवोम् । प्रत्येकन्तु सकृत् सकृत् ।
इति वा । तथा च तत्रैव ।
‘प्रत्येकं मन्त्रयेन्मन्त्री पञ्चमेन सकृत् सकृत् ।’
तथा च गौतमीये समुदायमालामधिकृत्य ।
‘पञ्चमेनैव सूक्तेन शतान्यूनेन मन्त्रयेत् ।’
इति दर्शनान्मालायां वा शतजपः ।
तत्रावाह्य यजेद्देवं यथाविभवविस्तरैः ।
मालायाः प्राणप्रतिष्ठानन्तरं देवतां पूजयेत् ॥
तथा सनत्कुमारे ।
‘संस्कृत्यैवं बुधो मालां तत्प्राणांस्तत्र स्थापयेत् ।
मूलमन्त्रेण तां मालां पूजयेद्द्विजसत्तम ! ॥’
वाराहीतन्त्रे ।
‘माले माले महामाले सर्व्वतत्त्वस्वरूपिणि ! ।
चतुर्व्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
मायाबीजादिकां कृत्वा रक्तपुष्पैः समर्च्चयेत् ॥’
इति शक्तिविषये ॥
विष्णुविपये तु रुद्रयामले ।
‘वागभवञ्च तथा लक्ष्मीमक्षादिमालिकां ततः ।
ङेऽन्तां हृदयवर्णान्तां मन्त्रेणानेन पूजयेत् ॥
मन्त्रयेन्मूलमन्त्रेण क्रमेणोत्क्रमयोगतः ।
तथैव मातृकावर्णैर्मन्त्रयेत्तान्तु मन्त्रवित् ॥’
योगिनीतन्त्रे ।
‘होमकर्म्म ततः कुर्य्याद्देवताभावसिद्धये ।
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिःक्षिपेत् ।
होमकर्म्मण्यशक्तश्चेत् द्विगुणं जपमाचरेत् ॥
नान्यमन्त्रं जपेन्मन्त्री कम्पयेन्न विधूनयेत् ।
कम्पनात् सिद्धिहानिः स्याद्धूननं बहुदुःखदम् ॥
शब्दे जाते भवेद्रोगः करभ्रष्टा विनाशिका ।
छिन्ने सूत्रे भवेन्मृत्युस्तत्माद्यत्नपरो भवेत् ॥
जपान्ते कर्णदेशे वा उच्चदेशे तथा न्यसेत् ।
त्वं माले सर्व्वभूतानां सर्व्वसिद्धिप्रदा मता ॥
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ।
इत्युक्त्रा परिपूज्याथ गोपयेद्यत्नतो गृही ॥’
मालासंस्कारस्य नित्यतामाह रुद्रयामले ।
‘अप्रतिष्ठितमालाभिर्मन्त्रं जपति यो नरः ।
सर्व्वं तद्विफलं विद्यात् क्रुद्धा भवति देवता ॥’
कामनाभेदे तु अङ्गुलिनियमः । गौतमीये ।
‘तर्जन्यङ्गुष्ठयोगेन शत्रूच्चाटनमुत्तमम् ।
अङ्गुष्ठमध्यमायोगात् मन्त्रसिद्धिः सुनिश्चिता ॥
अङ्गुष्ठानामिकायोगादुच्चाटोत्सादने मते ।
ज्येष्ठाकनिष्ठायोगेन शत्रूणां नाशनं मतम् ॥’
वैशम्पायनसंहितायाम् ।
‘अङ्गुष्ठमध्यमाभ्याञ्च चालयेन्मध्यमध्यतः ।
तर्जन्यां न स्पृशेदेनां मुक्तिदो गणनक्रमः ॥
जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् ।
प्रमादात् पतिता हस्तात् शतमष्टोत्तरं जपेत् ॥
जपेन्निषिद्धसंस्पर्शे क्षालयित्वा यथोदितम् ।
छिन्नेऽप्यष्टोत्तरशतजपः कार्य्यः । करभ्रष्ट-
च्छिन्नयोस्तुल्यत्वात् ॥ * ॥ प्रकारान्तरं आगम-
कल्पद्रुमे ।
‘भूतशुद्ध्यादिकां पूजां समाप्य तत्र पूजयेत् ।
गणेशसूर्य्यविष्ण्वीशान् दुर्गामावाह्य मन्त्रवित् ॥
पञ्चगव्ये ततः क्षिप्त्वा ह्सौर्मन्त्रेण मन्त्रवित् ।
तस्मादुत्तोल्य तां मालां स्वर्णपात्रे विधाय च ॥
पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् ।
तोयधूपान्तरैः कृत्वा पञ्चामृतविधिं बुधः ॥
क्रमादत्रैव संस्थाप्य स्थापयेच्छीतले जले ॥
ततश्चन्दनसौगन्धिकस्तूरीकुङ्कुमादिभिः ।
तामालिप्य हसौर्मन्त्रमष्टोत्तरशतं जपेत् ॥
तस्यां नवग्रहांश्चैव दिक्पालांश्च प्रपूजयेत् ।
ततः संपूज्य च गुरुं गृह्णीयान्मालिकां शुभाम् ॥
अक्षमालाञ्च मुद्राञ्च गुरोरपि न दर्शयेत् ।
भूतराक्षसवेतालाः सिद्धगन्धर्व्वचारणाः ।
हरन्ति प्रकटं यस्मात्तस्माद्गुप्तं समाचरेत् ॥’
इति अक्षमाला । इति तन्त्रसारः ॥
अपि च ।
‘विद्याधराप्सरोयक्षा विबुधासुरराक्षसाः ।
भूतानि किन्नराः सिद्धाः प्रेताश्च चारणादयः ॥
हरन्ति जपफलान्येते यानि तानि च नारद ! ।
अतूष्णीं चेद्वहिर्जानु चार्द्रवासादिभिर्जपेत् ॥
वृन्दाटवीन्धनमयी तुलसीकाष्ठसम्भवा ।
हस्ताङ्गुलिमयी हैमी दर्भग्रन्थिमयी तथा ॥
भद्राक्षेन्द्राक्षरुद्राक्षपद्मबीजभवाप्यथ ।
धात्रीपुत्त्रजीवफलैर्माला या परिकीर्त्तिता ॥
मुक्तामणिमयी रौप्या स्फाटिकी वैद्रुमी तथा ।
जपकर्म्मसु सर्व्वेषु चाक्षमाला प्रकीर्त्तिता ॥ * ॥
कृष्णमन्त्रजपे माला बृन्दारण्यसमुद्भवा ।
नान्या माला अनन्यानां हस्ताङ्गुलिमयीं विना ॥
हैमी मणिमयी माला प्रशस्ता कमलाजपे ।
सरस्वत्या मन्त्रजपे रौप्या मुक्ताविनिर्म्मिता ॥
प्रजापतिजपे माला पुत्त्रजीवसमुद्भवा ।
पुत्त्रकामनराणाञ्च सदा पुत्त्रप्रदा तु सा ॥
राममन्त्रजपे माला पद्मबीजसमुद्भवा ।
धात्रीफलमयी माला विष्णोः कामनया जपे ॥
रुद्राक्षेन्द्राक्षभद्राक्षवृक्षबीजसमुद्भवा ।
महेशानमन्त्रजपे त्वेता मालाः फलप्रदाः ॥
कुशग्रन्थिमयी शुद्धा गायत्त्री वेष्णवी जपे ।
स्फाटिकी सर्व्वदेवानामथवा तरणेर्जपे ।
श्रीहरेरङ्गुलिमयी जपे माला द्बिजन्मनाम् ॥’
इति पाद्मोत्तरखण्डे १०८ अध्यायः ॥
अपरञ्च ।
‘जपादौ पूजयेन्मालां तोयैरभ्युक्ष्य यत्नतः ।
निधाय मण्डलस्यान्तः सव्यहस्तगताञ्च वा ॥
ॐ मां माले महामाये सर्व्वशक्तिस्वरूपिणि ! ।
चतुर्व्वर्गस्त्वयि न्यस्तस्तस्मान्मे सिद्धिदा भव ॥
पूजयित्वा ततो मालां गृहीत्वा दक्षिणे करे ।
मध्यमाया मध्यभागे वर्ज्जयित्वा तु तर्ज्जनीम् ॥
अनामिकाकनिष्ठाभ्यां युताया नम्रभावतः ।
स्थापयित्वा तत्र मालामङ्गुष्ठाग्रेण तद्गतम् ॥
प्रत्येकं बीजमादाय जपं कुर्य्यात्तु भैरव ! ।
प्रतिवारं पठेन्मन्त्रं शनैरोष्ठं न चालयेत् ॥
मालाबीजन्तु जप्तव्यं स्पृशेन्न हि परस्परम् ।
पूर्ब्बजापप्रयुक्तेनैवाङ्गुष्ठाग्रेण भैरव ! ॥
पूर्ब्बबीजं जपन् यस्तु परबीजन्तु संस्पृशेत् ।
अङ्गुष्ठेन भवेत्तस्य निष्फलस्तस्य तज्जपः ॥
मालां स्वहृदयासन्ने धृत्वा दक्षिणपाणिना ।
देवीं विचिन्तयन् जप्यं कुर्य्याद्वामेन न स्पृशेत् ॥
स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्त्रजीवसमुद्भवैः ।
सुवर्णमणिभिः सम्यक् प्रबालैरथवाब्जकैः ॥
अक्षमाला तु कर्त्तव्या देवी प्रीतिकरा परा ।
जपेदुपांशु सततं कुशग्रन्थ्या तु पाणिना ॥
नानाबीजेषु सर्व्वेषु रुद्राक्षो मत्प्रियात्प्रियः ।
रुद्रप्रीतिकरो यस्मात्तस्माद्रुद्राक्षको बली ॥
प्रबालैरथवा कुर्य्यादष्टाविंशति बीजकैः ।
पञ्चपञ्चशता वापि न न्यूनैर्नाधिकैश्च वा ॥
रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फाटिकैस्तथा ।
नान्यं मध्ये प्रयोक्तव्यं पुत्त्रजीवादिकञ्च यत् ॥
यदन्यत्तु प्रयुज्येत मालायां जपकर्म्मणि ।
तस्य कामञ्च मोक्षञ्च न ददाति प्रियङ्करी ॥
जन्मान्तरे जायते स वेदवेदाङ्गपारगः ।
मित्रीभावं तदा याति चाण्डालैः पापकर्म्मभिः ॥
एको मेरुस्तत्र देयः सर्व्वेभ्यः स्थूलसम्भवः ।
आद्यं मूलं ततस्तस्मात् न्यूनं न्यूनतरं तथा ॥
विन्यसेत् क्रमतस्तस्मात् सर्पाकारा हि सा यतः ।
ब्रह्मग्रन्थियुतं कुर्य्यात् प्रतिबीजं यथा स्थितम् ॥
पृष्ठ ३/७१५
अथवा ग्रन्थिरहितं दृढरज्जुसमन्वितम् ।
त्रिरावृत्त्याथ मध्येनैवार्द्धावृत्त्यान्तदेशतः ॥
ग्रन्थिः प्रदक्षिणावर्त्तः स ब्रह्मग्रन्थि संज्ञकः ।
नात्मना योजयेन्मालां नामन्त्रो योजयेद्बुधः ॥
दृढं सूत्रं नियुञ्जीत जपे त्रुठ्यति नो यथा ।
यथा हस्तान्न च्यवते जपतः स्रक् तथाचरेत् ।
हस्ताच्च्यतायां विघ्नः स्याच्छिन्नायां मरणं
भवेत् ।
एवं यः कुरुते मालां जप्यं च मयकोदितम् ।
स प्राप्नोतीप्सितं कामं हीने स्यात्तु विपर्य्ययः ॥
अन्यत्रापि जपेन्मालां जप्यं देवमनोहरम् ।
ईदृशं साधकः कुर्य्यात् नान्यथा तु कदाचन ॥
यथाशक्ति जपं कुर्य्यात् संख्ययैव प्रयत्नतः ।
असंख्यातन्तु यज्जप्तं तत् सर्व्वं निष्फलं भवेत् ।
जप्त्वा मालां शिरोदेशेप्रांशुस्थानेऽथवा न्यसेत् ॥
इति कालिकापुराणे ५४ अध्यायः ॥ * ॥ * ॥
अथ मालादिधारणम्
ततः कृष्णार्पिता माला धारयेत्तुलसीदलैः ।
पद्माक्षैस्तुलसीकाष्ठैः फलैर्धात्र्याश्च निर्म्मिता ॥
धारयेत्तुलसीकाष्ठभूषणानि च वैष्णवः ।
मस्तके कर्णयोर्बाह्वोः करयोश्च यथारुचि ॥ * ॥
अथ मालाधारणविधिः ।
स्कान्दे ।
संनिवेद्यैव हरये तुलसीकाष्ठसम्भवाम् ।
मालां पश्चात् स्वयं धत्ते स वै भागवतोत्तमः ॥
हरये नार्पयेद्यस्तु तुलसीकाष्ठसम्भवाम् ।
मालां धत्ते स्वयं मूढः स याति नरकं ध्रुवम् ॥
क्षालितां पञ्चगव्येन मूलमन्त्रेण मन्त्रिताम् ।
गायत्त्र्या चाष्टकृत्वो वै मन्त्रितां धूपयेच्च ताम् ।
विधिवत् परया भक्त्या सद्योजातेन पूजयेत् ॥
तुलसीकाष्ठसम्भूते माले कृष्णजनप्रिये ।
बिमर्म्मि त्वामहं कण्ठे कुरु मां कृष्णवल्लभम् ॥
यथा त्वं वल्लभा विष्णोर्नित्यं विष्णुजनप्रिया ।
तथा मां कुरु देवेशि ! नित्यं विष्णुजनप्रियम् ॥
दाने मा धातुरुद्दिष्टो लासि मां हरिवल्लभे ! ।
भक्तेभ्यश्च समस्तेभ्यस्तेन माला निगद्यसे ॥
एवं संप्रार्थ्य विधिवन्मालां कृष्णगलेऽर्पिताम् ।
धारयेद्वैष्णवो यो वै स गच्छेद्वैष्णवं पदम् ॥” * ॥
अथ मालाधारणनित्यता ।
तत्रैव स्कान्दे कार्त्तिकप्रसङ्गे ।
“धात्रीफलकृतां मालां कण्ठस्थां यो वहेंन्न हि ।
वैष्णवो न स विज्ञेयो विष्णुपूजारतो यदि ॥”
गारुडे ।
“घारयन्ति न ये मालां हैतुकाः पापबुद्धयः ।
नरकान्न निवर्त्तन्ते दग्धाः कोपाग्निना हरेः ॥”
अतएव स्कान्दे तत्रैव ।
“न जह्यात्तुलसीमालां धात्रीमालां विशेषतः ।
महापातकसंहन्त्रीं धर्म्मकामार्थदायिनीम् ॥ * ॥
अथ मालामाहात्म्यम् ।
अगस्त्यसंहितायाम् ।
“निर्म्माल्यतुलसीमालायुक्तो यश्चार्च्चयेद्धरिम् ।
यद्यंत् करोति तत् सर्व्वमनन्तफलदं भवेत् ॥
यः कुर्य्यात्तुलसीकाष्ठैरक्षमालास्वरूपिणीम् ।
कण्ठमालाञ्च यत्नेन कृतं तस्याक्षयं भवेत् ॥”
नारदीये ।
“ये कण्ठलग्नतुलसीनलिनाक्षमाला
ये वा ललाटफलके लसदूर्द्ध्वपुण्ड्राः ।
ये बाहुमूलपरिचिह्नितशङ्खचक्रा-
स्ते वैष्णवा भुवनमाशु पवित्रयन्ति ॥”
किञ्च ।
“भुजयुगमपि चिह्नैरङ्कितं यस्य विष्णोः
परमपुरुषनाम्नां कीर्त्तनं यस्य वाचि ।
ऋजुतरमपि पुण्ड्रं मस्तके यस्य कण्ठे
सरसिजमणिमाला यस्य तस्यास्मि दासः ॥”
विष्णुधर्म्मोर्त्तरे श्रीभगवदुक्तौ ।
“तुलसीकाष्ठमालाञ्च कण्ठस्थां वहते तु यः ।
अप्यशौचोऽप्यनाचारो मामेवैति न संशयः ॥”
स्कान्दे ।
“धात्रीफलकृता माला तुलसीकाष्ठसम्भवा ।
वृश्यते यस्य देहे तु स वै भागवतो नरः ॥
तुलसीदलजां मालां कण्ठस्थां वहते तु यः ।
विष्णूत्तीर्णां विशेषेण स नमस्यो दिवौकसाम् ॥
तुलसीदलजा माला धात्रीफलकृतापि वा ।
ददाति पापिनां मुक्तिं किं पुनर्विष्णुसेविनाम् ॥
तत्रैव कार्त्तिकप्रसङ्गे ।
यः पुनस्तुलसीमालां कृत्वा कण्ठे जनार्द्दनम् ।
पूजयेत् पुण्यमाप्नोति प्रतिपुष्पं गवायुतम् ॥
अयुतसंख्यगोदानफलमित्यर्थः ।
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।
तावत्तस्य शरीरे तु प्रीत्या लुठति केशवः ॥
स्पृशेच्च यानि लोमानि धात्रीमाला कलौ
नृणाम् ।
तावद्वर्षसहस्राणि वसते केशवालये ॥
यावद्दिनानि वहते धात्रीमालां कलौ नरः ।
तावद्युगसहस्राणि वैकुण्ठे वसतिर्भवेत् ॥
मालायुग्मञ्च यो नित्यं धात्रीतुलसिसम्भवम् ।
वहते कण्ठदेशे च कल्पकोटिं दिवं वसेत् ॥”
तुलसिसम्भवमिति ह्रस्वश्छान्दसः । गारुडे च
मार्कण्डेयोक्तौ ।
“तुलसीदलजां मालां कृष्णोत्तीर्णां वहेत्तु यः ।
पत्रे पत्रेऽश्वमेधानां दशानां लभते फलम् ॥ * ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
फलं यच्छति दैत्यारिः प्रत्यहं द्वारकोद्भवम् ॥
निवेद्य केशवे मालां तुलसीकाष्ठसम्भवाम् ।
वहते यो नरो भक्त्या तस्य वै नास्ति पातकम् ।
सदा प्रीतमनास्तस्य कृष्णो देवकिनन्दनः ॥
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
प्रायश्चित्तं न तस्यास्ति नाशौचं तस्य विग्रहे ।
तुलसीकाष्ठसम्भूतां यो मालां वहते नरः ।
तुलसोकाष्ठसम्भूतं शिरसो बहुभूषणम् ।
बाह्वोः करे च मर्त्यस्य देहे तस्य सदा हरिः ॥
तुलसीकाष्ठमालाभिर्भूषितः पुण्यमाचरेत् ।
पितॄणां देवतानाञ्च कृतं कोटिगुणं कलौ ॥
तुलसीकाष्ठमालान्तु प्रेतराजस्य दूतकाः ।
दृष्ट्वा नश्यन्ति दूरेण वातोद्धूतं यथादलम् ॥
तुलसीकाष्ठमालाभिर्भूषितो भ्रमते यदि ।
दुःस्वप्नं दुर्निमित्तञ्च न भयं शस्त्रजं क्वचित् ॥”
गौतमीये पुरश्चरणप्रसङ्गे ।
“तथामलकसम्भूतैस्तुलसीकाष्ठनिर्म्मितैः ।
इत्यादि ॥ * ॥ तत्रैव ।
पुण्डरीकभवा माला गोपालमनुसिद्धिदा ।
आमलकीभवा माला सर्व्वसिद्धिप्रदा मता ।
तुलसीसम्भवा या तु मोक्षं वितनुतेऽचिरात् ॥
इति हरिभक्तिविलासः ॥ * ॥ * ॥
अथ रुद्राक्षमालाधारणफलादि ।
लिङ्गपुराणे ।
विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालबा ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥
संवत्सरप्रदीपे ।
त्रिपुरस्य वधे काले रुद्रस्याक्ष्णोऽपतंस्तु ये ।
अश्रुणो बिन्दवस्ते तु रुद्राक्षा अभवन् भुवि ॥
यद्यप्येकादिचतुर्द्दशमुखरुद्राक्षेषु मन्त्रफल-
विशेषाः सन्ति तथापि सुलभत्वात् पञ्चवक्त्रस्य
फलमन्त्रावभिधीयेते । यथा, स्कान्दे ।
“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् ।
मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥”
इति तिथ्यादितत्त्वम् ॥

मालाकण्टः, पुं, (मालाकाराः कण्टाः कण्टका

अस्य ।) अपामार्गः । इति राजनिर्घण्टः ॥

मालाकन्दः, पुं, (माला गण्डमाला नाशकः कन्दः ।

शाकपार्थिववत् मध्यपदलोपी ।) मूलविशेषः ।
तत्पर्य्यायः । आविलकन्दः २ त्रिशिखिदला ३
ग्रन्थिदला ४ पादिकन्दः ५ कन्दलता ६ । अस्य
गुणाः । सुतीक्ष्णत्वम् । गण्डमालानाशित्वम् ।
दीपनत्वम् । गुल्महारित्वम् । वातश्लेष्मापकर्ष-
कारित्वञ्च । इति राजनिर्घण्टः ॥

मालाका, स्त्री, (माला एव । माला + स्वार्थे कन्

टाप् ।) माला । इति शब्दरत्नावली ॥

मालाकारः, पुं, (मालां करोतीति । कृ + अण् ।)

वर्णसङ्करजातिविशेषः । मालिंकः । माली
इति ख्यातः । तत्पर्य्यायः । मालिकः २ । इत्य-
मरः । २ । १० । ५ । मालाकरः ३ पुष्पा-
जीवी ४ वनार्च्चकः ५ पुष्पलावः ६ । इति जटा-
धरः ॥ पुष्पलावकः ७ । इति शब्दरत्नावली ॥
स तु शूद्रायां विश्वकर्म्मणो जातः । इति ब्रह्म-
वैवर्त्तपुराणम् ॥ अपि च ।
“तैलिक्यां कर्म्मकाराच्च मालाकारस्य सम्भवः ॥
इति पराशरपद्धतिः ॥
तद्गृहस्थितपुष्पस्य पर्य्युषितदोषाभावो यथा,
“न पर्य्युषितदोषोऽस्ति तुलसीविल्वचम्पके ।
जलजे बकुलेऽगस्त्ये मालाकारगृहेषु च ॥”
इति मेरुतन्त्रे ५ प्रकाशः ॥
(यथा, बृहत्संहितायाम् । १० । ९ ।
“हस्ते नापितचाक्रिक-
चौरभिषक्सूचिकद्वीपग्राहाः ।
पृष्ठ ३/७१६
बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥”
स्त्रियां ङीप् । यथा तत्रैव । ७८ । ९ ।
“भिक्षुणिका प्रव्रजिता दासी धात्री कुमारिका
रजिका ।
मालाकारी दुष्टाङ्गना सखी नापिती दूत्यः ।”)

मालाग्रन्थिः, पुं, (मालेव ग्रन्थिरस्य ।) माला-

दूर्व्वा । इति राजनिर्घण्टः ॥

मालातृणं, क्ली, (मालाकारं तृणम् ।) भूतृणम् ।

इति राजनिर्घण्टः ॥

मालातृणकं, क्ली, (मालातृण । स्वार्थे कन् ।)

भूस्तृणम् । इत्यमरः । २ । ४ । १६७ ॥ द्वे गन्धखड
इति ख्याते । मालारूपं तृणं मालातृणं स्वार्थे
कः । भुवस्तृणं भूलग्नत्वात् भूस्तृणं मनीषादित्वात्
सागमः । मालातृणकभूस्तृणे । इति क्लीवे ।
इति सुभूत्यादयः ॥ मालातृणकभूस्तृणाविति
पुंसि पठन्ति केचित् ॥ स्वामी तु । छत्राति-
च्छत्रादिभूस्तृणान्तं पर्य्यायमाह यथा, --
“भूस्तृणो रौहिषो भूतिर्भूमिकोऽथ कुटुम्बकः ।
मालातृणश्च पालघ्नश्छत्रातिच्छत्रकस्तथेति ॥”
रामकर्पूरं बहुपत्रकाण्डं कर्पूरसुगन्धि ।
इदन्तु शतपुष्पिकावदुत्कटगन्धं भूलग्नञ्च भवती-
त्यनयोर्भेदः । इति तट्टीकायां भरतः ॥ (तथास्य
पर्य्यायः ।
“गुह्यबीजन्तु भूतीकं सुगन्धं जम्बुकप्रियम् ।
भूतृणन्तु भवेच्छत्रा मालातृणकमित्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

मालादूर्व्वा, स्त्री, (माला इव ग्रन्थियुक्ता दूर्वा ।)

दूर्व्वाविशेषः । गाठिया दूर्व्वा इति भाषा ।
तत्पर्य्यायः । वल्लिदूर्व्वा २ अलिदूर्व्वा ३ माला-
ग्रन्थिः ४ ग्रन्थिला ५ ग्रन्थिदूर्व्वा ६ शूलग्रन्थिः ७
वेल्लनी ८ ग्रन्थिमूला ९ रोहत्पर्व्वा १० पर्व्व-
वल्ली ११ शिवाख्या १२ । अस्या गुणाः ।
मुमधुरत्वम् । तिक्तत्वम् । शिशिरत्वम् । पित्त-
दोषप्रशमनत्वम् । कफवान्तितृषापहत्वञ्च ।
इति राजनिर्घण्टः ॥

मालारिष्टा, स्त्री, पाची । इति राजनिर्घण्टः ॥

मालालिका, स्त्री, (मालां अलतीति । अल + ण्वुल्

टाप् अत इत्यञ्च ।) पृक्का । इति राजनिर्घण्टः ॥

मालाली, स्त्री, (मालामलति । अल + अच् ।

ङीप् ।) पृक्का । इति राजनिर्घण्टः ॥

मालिः, पुं, सुकेशराक्षसपुत्त्रः । यथा, --

“ग्रामणीर्नाम गन्धर्व्वो विश्वावसुसमप्रभः ।
तस्य देववती नाम द्बितीया श्रीरिवात्मजा ॥
त्रिषु लोकेषु विख्याता रूपयौवनशालिनी ।
तां सुकेशाय धर्म्मात्मा ददौ रक्षःश्रियं
यथा ॥
वरदानकृतैश्वर्य्यं सा तं प्राप्य पतिं प्रियम् ।
आसीद्देववती तुष्टा धनं प्राप्येव निर्द्धनः ॥
स तया सह सन्तुष्टो रराज रजनीचरः ।
ततः काले सुकेशस्तु जनयामास राघव ! ॥
त्रीन् पुत्त्रान् जनयामास त्रेताग्निसमविग्र-
हान् ।
माल्यवन्तं सुमालिञ्च मालिञ्च बलिनांवरम् ॥”
इति रामायणे उत्तरकाण्डे ५ सर्गः ॥

मालिकः, पुं, (मालास्य पण्यम् । माला + “तदस्य

पण्यम् ।” ४ । ४ । ५१ । इति ठक् । यद्बा,
मालाग्रथनं शिल्पमस्येति । “शिल्पम् ।” ४ ।
४ । ५५ । इति ठक् ।) मालाकारः । इत्य-
मरः । २ । १० । ५ ॥ (यथा, राजतरङ्गिण्याम् । ६ । १९ ।
“निदाघे पुष्पताम्बूलीपर्णाद्यत्रातिशीतले ।
न्यस्यद्भिर्मालिकैर्दत्तात् सा जीवेद्भाटकादिति ॥”)
पक्षिभेदः । इति मेदिनी । के, १३९ ॥ रञ्जकः ।
इति शब्दरत्नावली ॥

मालिका, स्त्री, (मालैव । माला + कन् टाप् अत

इत्वञ्च ।) सप्तला । पुत्त्री । ग्रीवालङ्करणम् ।
पुष्पमाल्यम् । नदीविशेषः । इति मेदिनी ।
के, १३९ ॥ मुरा । इति हारावली ॥ क्षुमा ।
इति शब्दचन्दिका ॥

मालिनी, स्त्री, (माला मुण्डमालास्त्यस्याः

अस्यां वा । माला + “ब्रीह्यादिभ्यश्च ।” ५ । २ ।
११६ । इति इनिः ङीप् ।) मातृकाभेदः ।
वृत्तभेदः । (मालिन् + ङीष् ।) मालिकपत्नी ॥
गौरी । चम्पानगरी । (यथा, महाभारते । १२ ।
५ । ६ -- ७ ।
“प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ ।
अङ्गेषु नरशार्द्दूल ! स राजासीत् सपत्नजित् ॥
पालयामास चम्पाञ्च कर्णः परबलार्द्दनः ॥”)
मन्दाकिनी । नदीभेदः । इति मेदिनी ॥ (यथा,
महाभारते । १ । ७२ । ८ ।
“जनयामास मुनिर्मेनकायां शकुन्तलाम् ।
प्रस्थे हिमवतो रम्ये मालिनीमभितो नदीम् ।”)
अग्निशिखावृक्षः । दुरालभा । इति शब्द-
चन्द्रिका ॥ स च वृत्तभेदः पञ्चदशाक्षरपाद-
च्छन्दः । यथा, --
“न न म य य युतेयं मालिनी भोगिलोकैः ।
मृगमदकृतचर्च्चा पीतकौशेयवासा
रुचिरशिखिशिखण्डाबद्धधम्मिल्लपाशा ।
अनृजुनिहितमंसे वंशमुत्क्वाणयन्ती
धृतमधुरिपुलीला मालिनी पातु राधा ॥”
इति छन्दोमञ्जरी ॥
अप्सरोविशेषः । यथा, कथासरित्सागरे ।
४५ । ३५२ ।
“पिङ्गलाच्च गणाज्जाता दशमी केशरावली ।
एकादशी मालिनीति नाम्ना कम्बलनन्दिनी ॥
स्कन्दमातॄणामन्यतमा । सैव शिशुमातॄणा-
मन्यतमा । यथात्रैव । ३ । २२७ । १० ।
“काकी च हलिमा चैव मालिनी बृंहिला
तथा ।
आर्य्या पलाला वैमित्रा सप्तैताः शिशुमातरः ॥”
मालाग्रथनं शिल्पमस्याः । इनिः । ङीप् ।
द्रौपद्या नामान्तरम् । यथा, महाभारते । ४ ।
८ । २१ ।
“मालिनीत्येव भे नाम स्वयं देवि चकार सा ।
साहमभ्यागता देवि ! सुदेष्णे ! त्वन्निवेशनम् ॥”
राक्षसीभेदः । सा च विभीषणस्य माता ।
यथा, महाभारते । ३ । २७४ । ३ -- ८ ।
“स राजराजो लङ्कायां निवसन्नरवाहनः ।
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥
ताः सदा तं महात्मानं सन्तोषयितुमुद्यताः ।
ऋषिं भरतशार्द्दूल ! नृत्यगीतविशारदाः ॥
पुष्पोत्कटा च राका च मालिनी च विशाम्पते ! ।
अन्योन्यस्पर्द्ध्वया राजन् ! श्रेयस्कामा सुमध्यमाः ॥
स तासां भगवांस्तुष्टो महात्मा प्रददौ वरान् ।
लोकपालोपमान् पुत्त्रानेकैकस्या यथेप्सितान् ॥
पुष्पोत्कटाया जज्ञाते द्वौ पुत्त्रौ राक्षसेश्वरौ ।
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥
मालिनी जनयामास पुत्त्रमेकं विभीषणम् ।
राकायां मिथुनं यज्ञे खरः शूर्पणखा तथा ॥”
रौच्यमनुमाता । यथा, मार्कण्डेये । ९८ । ५ -- ७ ।
“तथेति तेन साप्युक्ता तस्मात्तोयाद्बपुष्मतीम् ।
उज्जहार ततः कन्यां मालिनीं नाम नामतः ॥
नद्याश्च पुलिने तस्मिन् स रुचिमुंनिसत्तमः ।
जग्राह पाणिं विधिवत् समानाय्य महामुनीन् ॥
तस्यां तस्य सुतो जज्ञे महावीर्य्यो महामतिः ।
रौच्योऽभवत् पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥”
श्वेतकर्णस्य पत्नी । यथा, हरिवंशे । १८५ । ७ ।
“तस्माद्वनगताद्गर्भं यादवी प्रत्यपद्यत ।
सुचारोर्दुहिता सुभ्रूर्मालिनी भ्रातृमालिनी ॥”)

मालिन्यं, क्ली, (मलिन + “वुञ् छण् कठजिलसेनिर-

ढञ् ण्येति ।” ४ । २ । ८० । इति संकाशादित्वात्
ण्यप्रत्ययः ।) मलिनत्वम् । मलिनस्य भाव इत्यर्थे
ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (यथा, राजतरङ्गि-
ण्याम् । १ । १७८ ।
“भोगयोगेन मालिन्यं नेतुं मध्यगतोऽपि सः ।
न शक्यते स्म पङ्केन प्रतिमेन्दुरिवामलः ॥”)

माली, [न्] पुं, (माला पण्यत्वेनास्त्यस्य । माला +

“ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।)
मालाकारः । इति मालिनीशब्ददर्शनात् ॥
सुकेशराक्षसपुत्त्रः । यथा, --
“सुकेशपुत्त्रैर्भगवन् ! पितामहवरोद्धतैः ।
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् ॥
अहं यमश्च वरुणश्चन्द्रोऽहं रविरप्यहम् ।
इति माली सुमाली च माल्यवांश्चैव राक्षसः ।
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः ॥”
इति रामायणे उत्तरकाण्डे ६ सर्गः ॥
(अस्थिमाला अस्त्यस्येतीनिः । महादेवः ।
यथा, महाभारते । १३ । १७ । ६० ।
“व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ।”
माला अस्त्यस्येतीनिः । मालायुक्ते, त्रि । यथा,
रामायणे । २ । ५६ । ६ ।
“आदीप्तानिव वैदेहि ! सर्व्वतः पुष्पितान्नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरा-
त्यये ॥”)