शब्दकल्पद्रुमः/मन्तव्यं

विकिस्रोतः तः
पृष्ठ ३/६१५

मन्तव्यं, त्रि, (मन्यते इति । मन + तव्य ।) मन-

नीयम् । भाव्यम् । यथा । “आत्मा वा अरे
द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।”
इत्यादि छान्दोग्योपनिषत् ॥

मन्ता, [ऋ] त्रि, (मन्यते जानातीति । मन् +

“बहुलमन्यत्रापि ।” उणा० २ । ९५ । इति
तृच् ।) विद्वान् । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥ (मननकर्त्ता । यथा । “स हि हेतुः
कारणं निमित्तमक्षरं कर्त्ता मन्ता वेदिता
बोद्धा द्रष्ठा धाता ब्रह्मा विश्वकर्म्मा विश्व-
रूपः पुरुषः प्रभवोऽव्ययो नित्यः गुणी ग्रहणं
प्राधान्यमव्यक्तं जीवो ज्ञः प्रकुलश्चेतनावान्
विभुर्भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति ।”
इति चरके शारीरस्थाने चतुर्थेऽध्याये ॥)

मन्तुः, पुं, (मन्यते इति । मन् + “कमिमनिजनि-

गाभायाहिभ्यश्च ।” उणा ० । १ । ७३ । इति
तुन् ।) अपराधः । (यथा, नैषधचरिते । ६ । ११० ।
“सतीव्रतैस्तीव्रमिमन्तु मन्तु-
मन्तर्वरं वज्रिणि मार्ज्जितास्मि ॥”)
मनुष्यः । प्रजापतिः । इति मेदिनी । ते, ४३ ॥
द्वात्रिंशदपराधा यथा । भगवद्भक्तानां क्षत्त्रिय-
सिद्धान्नभोजनम् १ अनिषिद्धदिने दन्तधावन-
मकृत्वा विष्णोरुपसर्पणम् २ मैथुनं कृत्वा
अस्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरं स्पृष्ट्वा
अस्नात्वा विष्णुकर्म्मकरणम् ४ रजस्वलां स्पृष्ट्वा
अस्नात्वा विष्णुगृहप्रवेशनम् ५ मानवं शवं
स्पृष्ट्वा अस्नात्वा विष्णुसन्निधाववस्थानम् ६
विष्णुं स्पृशतः पायुवायुप्रयोगः ७ विष्णोः कर्म्म
कुर्व्वतः पुरीषत्यागः ८ विष्णुशास्त्रमनादृत्य
शास्त्रान्तरप्रशंसा ९ अतिमलिनं वासः परि-
धाय विष्णुकर्म्माचरणम् १० अविधानेनाचम्य
विष्णोरुपस्पर्शनम् ११ विष्णोरपराधं कृत्वा
विष्णोरुपसर्पणम् १२ क्रुद्धस्य विष्णुस्पर्शनम् १३
निषिद्धपुष्पेण विष्णोरर्च्चनम् १४ रक्तं वासः
परिधाय विष्णोरुपसर्पणम् १५ अन्धकारे दीपेन
विना विष्णोः स्पर्शनम् १६ कृष्णं वस्त्रं परिघाय
विष्णोः कर्म्माचरणम् १७ वायसोद्धृतवस्त्रं
परिधाय विष्णोः कर्म्माचरणम् १८ विष्णवे
कुक्कुरोच्छिष्टदानम् १९ वराहमांसं भुक्त्रा विष्णो-
रुपसर्पणम् २० जालपादशरारिमांसं भुक्त्वा
विष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तमप्रक्षाल्य
विष्णोः स्पर्शनं कर्म्माचरणं वा २२ श्मशानं
गत्वा अस्नात्वा विष्णोरुपसर्पणम् २३ पिण्याकं
भुक्त्वा विष्णोरुपसर्पणम् २४ विष्णवे वराहमांस-
निवेदनम् २५ मद्यमादाय स्पृष्ट्वा पीत्वा वा
विष्णुगृहप्रवेशनम् २६ परकीयेणाशुचिना वा
वस्त्रेण परिहितेन विष्णुकर्म्माचरणम् २७
विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्धपुष्पे
अप्रदाय धूपदीपदानम् २९ उपानहावारुह्य
विष्णुस्थानप्रवेशनम् ३० भेरीशब्देन विना विष्णोः
प्रबोधनम् ३१ अजीर्णे सति विष्णोरुपसर्पणम् ३२ ।
एतदप्युपलक्षणं तथा च नरसिंहपुराणे ।
“अपराधसहस्राणि अपराधशतानि च ।
पद्मेनैकेन देवेशः क्षमते हेलयार्च्चितः ॥”
इत्याह्निकाचारतत्त्वे चतुर्थयामार्द्धकृत्यम् ॥
अपि च ।
वराह उवाच ।
“भुक्त्वा तु परकीयान्नं तत्परस्तन्निवर्त्तनः ।
प्रथमश्चापराधोऽयं धर्म्मविघ्नाय वै भवेत् ॥
अभुक्त्वा दन्तकाष्ठानि यस्तु मामुपसर्पति ।
द्वितीयश्चापराधस्तु कर्म्मविघ्नाय विद्यते ॥
गत्वा मैथुनसंयोगे योऽनु मां स्पृशते नरः ।
तृतीयमपराधन्तु कल्पयामि वसुन्धरे ! ॥
स्पृष्ट्वा रजस्वलां नारीमस्माकं यः प्रपद्यते ।
चतुर्थमपराधन्तु दृष्टे नैव क्षमाम्यहम् ॥
स्पृष्ट्वा तु मृतकञ्चैव असंस्कारकृतन्तु वै ।
पञ्चमञ्चापराधञ्च न क्षमामि वसुन्धरे ! ॥
स्पृष्ट्वा तु मृतकं यस्तु नाचम्य स्पृशते तु माम् ।
षष्ठकञ्चापराधन्तु न क्षमामि वसुन्धरे ! ॥
मामेवार्च्चनकाले तु पुरीषं यस्य गच्छति ।
सप्तमञ्चापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु नीलेन वस्त्रेण प्रावृतो मां प्रपद्यते ।
अष्टमञ्चापराधन्तु कल्पयामि वसुन्धरे ! ॥
मामेवार्च्चनकाले तु यस्त्वसत्यं प्रभाषते ।
नवमञ्चापराधन्तु न रोचामि वसुन्धरे ! ॥
अविधानेन मां स्पृष्ट्वा यस्तु मां प्रतिपद्यते ।
दशमञ्चापराधन्तु मम चाप्रियकारकम् ॥
क्रुद्धस्त्वन्त्यानि कर्म्माणि कुरुते कर्म्मकारकः ।
एकादशापराधन्तु कल्पयामि वसुन्धरे ! ॥
अकर्म्मण्यानि पुष्पाणि यस्तु मामुपकल्पयेत् ।
द्वादशञ्चापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु रक्तेन वस्त्रेण कौसुम्भेनोपगच्छति ।
त्रयोदशापराधन्तु कल्पयामि वसुन्धरे ! ॥
अन्तकालेऽपि मां देवि ! यः स्पृ शेत कदाचन ।
चतुर्द्दशापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु कृष्णेन वस्त्रेण मम कर्म्माणि कारयेत् ।
पञ्चदशापराधन्तु कल्पयामि वरानने ! ॥
अधौतेन च वस्त्रेण यस्तु मामुपकल्पते ।
षोडशन्त्वपराधानां कल्पयामि वरानने ! ॥
स्वयमन्नन्तु यो दद्यादज्ञानाय च माधवि ! ।
सप्तदशापराधन्तु कल्पयामि वसुन्धरे ! ॥
यस्तु मत्स्यानि मांसानि भक्षयित्वा वरानने ! ।
अष्टादशापराधानि अनुजातानि माधवि ! ॥
जालपादं भक्षयित्वा यस्तु मामुपसर्पति ।
एकोनविंशापराधं प्रतिजानामि सुन्दरि ! ॥
यस्तु मे दीपकं स्पृष्ट्वा यो मां स्पृशति माधवि ! ।
विंशकञ्चापराधानां कल्पयामि वरानने ॥
श्मशानं यस्तु वै गत्वा यो मामेवाभिगच्छति ।
एकविंशापराधानि कल्पयामि वसुन्धरे ! ॥
पिण्याकं भक्षयित्वा तु यो मामेवोपचक्रमे ।
द्बाविंशत्यपराधानां तान्यहं चोपकल्पये ॥
यस्तु वाराहमांसानि प्रापणेनोपपादयेत् ।
अपराधं त्रयोविंशं कल्पयामि वसुन्धरे ! ॥
सुरां पीत्वापि यो मर्त्यः कदाचिदुपसर्पति ।
अपराधं चतुर्विंशं कल्पयामि वसुन्धरे ! ! ॥
यः कुसुम्भञ्च मे शाकं भक्षयित्वोपचक्रमे ।
अपराधं पञ्चविंशं कल्पयामि वसुन्धरे ! ॥
परप्रावरणेनैव यस्तु मामुपसर्पति ।
अपराधेषु षड्विंशं कल्पयामि वरानने ! ॥
नवान्नं यस्तु भक्षेत न स देवान् पितॄन् यजेत् ॥
सप्तविंशापराधानि कल्पयामि गुणान्विते ! ॥
उपानहौ च प्रपदे तथा मे वोपचक्रमे ।
अष्टाविंशापराधानि कल्पयामि गुणान्विते ! ॥
शरीरं मण्डयित्वा तु यो मामाप्नोति माधवि ! ।
एकोनत्रिंशमपराधं स स्वर्गेषु न गच्छति ॥
अजीर्णेन समाविष्टो यस्तु मामभिगच्छति ।
त्रिंशकञ्चापराधानां कल्पयामि वसुन्धरे ! ॥
गन्धपुष्पाण्यदत्त्वा तु यस्तु धूपं प्रयच्छति ।
एकत्रिं शापराधन्तु कल्पयामि यशस्विनि ! ॥
विना भेर्य्यादिशब्देन द्वारस्योद्घाटनं मम ।
महापराधं विद्येत तद्द्वात्रिंशापराधकम् ॥”
इति वाराहे द्वात्रिंशदपराधाध्यायः ॥
(त्रि, ज्ञाता । यथा, ऋग्वेदे । १० । ६३ । ८ ।
“य ईशिरे भुवनस्य प्रचेतसो
विश्वस्य स्थातुर्जगतश्च मन्तवः ।”
“मन्तवः सर्व्वस्य वेदितारः ।” इति तद्भाष्ये
सायनः ॥ मननीयः । यथा, ऋग्वेदे ।
१ । १५२ । १ ।
“युवोरच्छिद्रा मन्तवोह सर्गाः ।”
“मन्तवोह मननीयाश्च ।” इति सायनः ॥)

मन्त्रः, पुं, (मन्त्र्यते गुप्तं परिभाष्यते इति ।

मत्रि गुप्तभाषणे + घञ् । यद्वा, मन्त्रयते गुप्तं
भाषते इति । मत्रि गुप्तभाषणे + अच् ।) वेद-
भेदः । स च मन्त्रस्वरूपभागः ॥ (यथा,
ऋग्वेदे । ६७ । ४ । ७४ ।
“प्रनूनं ब्रह्मणपतिर्मन्त्रं वदत्युक्थम् ॥”
यथा च मनुः । २ । १६ ।
“निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य
कस्यचित् ॥”
तन्त्राद्युक्तमन्त्रभागश्च । यथा, मनौ । ७ । २१७ ।
“सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥”)
गुप्तिवादः । स तु रहसि कर्त्तव्यावधारणं मन्त्र-
णेति ख्यातम् । इत्यमरभरतौ ॥ परामर्शः ।
मन्त्रणा । (यथा, माधे । २ । २९ ।
“मन्त्रो योध इवाधीरः सर्व्वाङ्गैः संवृतैरपि ।
चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥”)
व्यङ्गादिभ्यो मन्त्रणाग्रहणस्य निषेधो यथा, --
“व्यङ्गाङ्गहीना वधिराः कुयोनिषु रताश्च ये ।
तेषां मन्त्रो न सुखदः प्रोक्तः कविभिरेव च ॥
कामुकानां जडानाञ्च स्त्रीजितानां तथैव च ।
श्वशुरस्य गृहे नित्यं जासाता कर्म्मकारकः ।
पृष्ठ ३/६१६
तस्यापि न भवेन्मन्त्रः कार्य्यसिद्धौ कदाचन ॥”
इति जैमिनिभारते आश्वमेधिकपर्व्वणि २ अः ॥
अन्यत् मन्त्रणाशब्दे द्रष्टव्यम् ॥ * ॥ देवादीनां
साधनम् । इति मेदिनी । रे, ७४ ॥
“तन्मन्त्राद्यषडक्षीणं यत् तृतीयाद्यगोचरम् ।
रहस्यालोचनं मन्त्रो रहश्छन्नमुपह्वरम् ॥”
इति हेमचन्द्रः ॥
मन्त्रव्याख्याकृदेकनवत्यृषयो यथा, --
“एते मन्त्रकृतः सर्व्वे कृत्स्नशस्तु निबोधत ।
भृगुः काश्यः प्रचेताश्च दधीचो ह्यात्मवानपि ॥
और्व्वोऽथ जमदग्निश्च विदः शारद्वतस्तथा ।
आर्ष्णिषेणो ह्यश्वनश्च वीतहव्यः सवेधसः ॥
वैण्यः पृथुर्द्दिवोदासो बन्ध्यश्वो गृत्सशौनकः ।
एकोनविंशति र्ह्येते भृगवो मन्त्रकृत्तमाः ॥ १९ ॥
अङ्गिरा वेधसश्चैव भरद्बाजो नभात्मकः ।
तथा मृगधरो गर्द्दः सितिः सुकृतिरेव च ॥
गुववीतश्च मान्धाता अम्बरीषस्तथैव च ।
युवनाश्वः पुरुकुत्सः सुमदद्युः सदस्यवान् ॥
अजमीढो ह्युदार्य्यश्च तक्षकः कविरेव च ।
पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः ॥
उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि ।
अयस्योऽथ सुचित्तिश्च वामदेवस्तथैव च ॥
औषिजो बृहशक्तिश्च ऋषिर्दीर्घतपा अपि ।
काक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्याङ्गिरसा
वराः ॥ ३३ ॥
एते मन्त्रकृतः सर्व्वे काश्यपांस्तु निबोधत ।
काश्यपः सहवत्सावो निध्रुवो वैद्य एव च ।
असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥ ६ ॥
अत्रिर्वद्बस्वनश्चैव श्वावाश्वोऽथ गविष्ठिवः ।
वर्णातको ऋषिः सिद्धस्तथा पूर्ब्बातिथिश्च यः ॥
इत्येते अत्रयः प्रोक्ता मन्त्रकृत्सु महर्षयः ॥ ४ ॥
वशिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः ।
ततस्तु इन्द्रप्रमतिः पञ्चमस्तु भवद्बसुः ॥
षष्ठस्तु मित्रावरुणिः सप्तमः कुण्डिनस्तथा ।
इत्येते सप्त विज्ञेया वाशिष्ठा ब्रह्मवादिनः ॥ ७ ॥
विश्वामित्रश्च गाधेयो देवत्रातस्तथोद्दलः ।
तथा विद्वान् मधुच्छन्दो ऋषिश्चान्योऽघमर्षणः ॥
अष्टको लोहितश्चैव भूतकीलश्च ताबुभौ ।
देवश्रवा देवरातः पुराणश्च धनञ्जयः ॥
शिशिरश्च महातेजाः सालङ्कायन एव च ।
त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः ॥ १३ ॥
अगस्त्योऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च ।
ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्त्तयः ॥ ३ ॥
मनुर्वैवस्वतश्चैव इलो राजा पुरूरवाः ।
क्षत्त्रियाणां वरा ह्येते विज्ञेया मनुवादिनः ॥ ३ ॥
भनन्दश्चैव भत्सश्च वत्सलश्चैव ते त्रयः ।
एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः स्मृताः ॥ ३
इत्येकनवतिः प्रोक्ता मन्त्रा यैश्च बहिष्कृताः ।
ब्राह्मणाः क्षत्त्रिया वैश्या ऋषिपुत्त्रास्तथा स्मृताः ।
ऋषीणाञ्च सुता ह्येते ऋषिपुत्त्राः श्रुतर्षयः ॥”
इति मात्स्ये १२१ अध्यायः ॥
कृष्णमन्त्रमाहात्म्यं यथा, --
“तावन्निबद्धः संसारकारागारे विधेर्जनः ।
न यावत् कृष्णमन्त्रञ्च प्राप्नोति गुरुवक्त्रतः ॥
कृतकर्म्मभोगरूपनिगडोच्छेदकारणम् ।
मायाजालोच्छेदकरमाशापाशनिकृन्तनम् ॥
गोलोकमार्गसोपानं निस्तारबीजकारणम् ।
भक्त्यङ्कुरस्वरूपश्च नित्यं वृद्धमनश्वरम् ॥
सारञ्च सर्व्वतपसां योगानाञ्च तथैव च ।
सिद्धीनां वेदपाठानां व्रतादीनाञ्च निश्चितम् ॥
दानानां तीर्थस्नानानां यज्ञादीनां पुरन्दर ! ।
जपानामुपवासानामित्याह कमलोद्भवः ॥
पुंसां लक्षं पितॄणाञ्च शतं मातामहस्य च ।
पूर्ब्बं परञ्च तत्संख्यं पितरं मातरं गुरुम् ॥
सहोदरं कलत्रञ्च बन्धुं शिष्यञ्च किङ्करम् ।
समुद्धरेच्च श्वशुरं श्वश्रूं कन्याञ्च तत्सुतम् ॥
आत्मानञ्च सतीर्थ्यञ्च गुरुपत्नीं गुरोः सुतम् ।
उद्धरेद्बलवान् भक्तो मन्त्रग्रहणमात्रतः ॥
मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ।
तत्स्पर्शपूतस्तीर्थौघः सद्यः पूता वसुन्धरा ॥
अनेकजन्मपर्य्यन्तं दीक्षाहीनो भवेन्नरः ।
तदान्यदेवमन्त्रञ्च लभते पुण्यशेषतः ॥ * ॥
सप्तजन्मोपदेवानां कृत्वा सेवां स्वकर्म्मतः ।
लभते च रवेर्मन्त्रं साक्षिणः सर्व्वकर्म्मणाम् ॥
जन्मत्रयं भास्करञ्च निसेव्य मानवः शुचिः ।
लभेद्गणेशमन्त्रञ्च सर्व्वविघ्नहरं परम् ॥
जन्मत्रयं तं निसेव्य निर्व्विघ्नश्च भवेन्नरः ।
विघ्नेशस्य प्रसादेन दिव्यज्ञानं लभेन्नरः ॥
तदा ज्ञानप्रदीपेन समालोच्य महामतिः ।
अज्ञानान्धतमो हित्वा महामायां भजेन्नरः ॥
विष्णुमायाञ्च प्रकृतिं दुर्गां दुर्गतिनाशिनीम् ।
सिद्धिदां सिद्धिरूपाञ्च परमां सिद्धयोगिनीम् ॥
वाणीरूपाञ्च पद्माञ्च भद्रां कृष्णप्रियात्मिकाम् ।
नानारूपां तां निसेव्य जन्मनां शतकं नरः ॥
तत्प्रासादाद्भवेत् ज्ञानी ज्ञानानन्दं ततो भजेत् ।
कृष्णज्ञानाधिदेवञ्च महाज्ञानं सनातनम् ॥
शिवं शिवस्वरूपञ्च शिवदं शिवकारणम् ।
परमानन्दरूपञ्च परमानन्ददायिनम् ॥
सुखदं मोक्षदञ्चैव दातारं सर्व्वसम्पदाम् ।
अमरत्वप्रदञ्चैव दीर्घायुष्ट्वप्रदं परम् ॥
इन्द्रत्वञ्च मनुत्वञ्च दातुं शक्तञ्च लीलया ।
राजेन्द्रत्वप्रदञ्चैव ज्ञानदं हरिभक्तिदम् ॥
जन्मत्रयं समाराध्य चाशुतोषप्रसादतः ।
सर्व्वदस्य वरेणैव निर्म्मलं ज्ञानमालभेत् ॥
निर्म्मलज्ञानदीपेन सुप्रदीपेन तत्त्ववित् ।
ब्रह्मादितृणपर्य्यन्तं सर्व्वं मिथ्यैव पश्यति ॥
दयानिधेः प्रसादेन शङ्करस्य महात्मनः ।
वरदस्य वरेणैव हरिभक्तिं लभेत् ध्रुवम् ॥
तदा तद्भक्तसंसर्गात् कृष्णमन्त्रं लभेत् ध्रुवम् ।
तदा निवृत्तिमाप्नोति सारात्सारां परात्पराम् ॥
यत्र देहे लभेन्मन्त्रं तद्देहावधि भारते ।
तत् पाञ्चभौतिकं त्यक्त्वा बिभर्त्ति दिव्यरूपकम् ॥
करोति दास्यं गोलोके वैकुण्ठे वा हरेः पदे ।
परमानन्दसंयुक्तो मोहादिषु विवर्ज्जितः ॥
न विद्यते पुनर्जन्म पुनरागमनं सुर ! ।
पुनश्च न पिबेत् क्षीरं धृत्वा मातृस्तनं परम् ॥
विष्णुमन्त्रोपासकानां गङ्गादितीर्थसेविनाम् ।
स्वधर्म्मिणाञ्च भिक्षूणां पुनर्जन्म न विद्यते ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३३ अध्यायः ॥
शिवमन्त्रा यथा, --
“प्रथमं शृणु तन्मन्त्रं ततोऽनुध्यानगोचरम् ।
ततः क्रमन्तु पूजायाः क्रमाद्वित्तं नरर्षभौ ॥
समस्तानां स्वराणान्तु दीर्घाः शेषाः सबिन्दुकाः ।
ऋ ऌ क् शून्याः सार्द्धचन्द्रा उपान्ते नाभि-
संहिताः ॥
एभिः पञ्चाक्षरैर्मन्त्रः पञ्चवक्त्रस्य कीर्त्तितः ।
क्रमात् सम्मदसन्दोहमादगौरवसंज्ञकाः ॥
प्रासादस्तु भवेत् शेषः पञ्चमन्त्राः प्रकीर्त्तिताः ।
एकैकेन तथैवैकं वक्त्वं मन्त्रेण पूजयेत् ॥
एकं समुदितं कृत्वा पञ्चभिर्वा प्रपूजयेत् ।
प्रासादेनाथवा पञ्चवक्त्रं देवं प्रपूजयेत् ।
सम्मदादिषु मन्त्रेषु प्रासादस्तु प्रशस्यते ॥
शम्भोः प्रसादनेनैव यस्माद्वृत्तस्तु मन्त्रकः ।
तेन प्रासादसंज्ञोऽयं कथ्यते मुनिपुङ्गवैः ।
तस्मात् सर्व्वेषु मन्त्रेषु प्रासादः प्रीतिदः प्रभोः ॥
आमोदकारकः शम्भोर्म्मन्त्रः सम्मद उच्यते ।
मनःप्रपूरणश्चापि सन्दोहः परिकीर्त्तितः ॥
आकर्षको भवेन्मादो गुरुत्वाद्गौरवाह्वयः ।
एतद्व्यस्तं समस्तञ्च मन्त्रं शम्भोः प्रकीर्त्तितम् ॥
पञ्चाक्षरञ्च यन्मन्त्रं पञ्चवक्त्रस्य कीर्त्तितम् ।
युवां तेनैव मन्त्रेण आराधय तमीश्वरम् ॥”
इति कालिकापुराणे ५० अध्याये वेताल-
भैरवौ प्रति वशिष्ठवाक्यम् ॥ * ॥
मन्त्रस्य त्रिविधजपो यथा, --
“वाचिकश्च उपांशुश्च मानसश्च त्रिधा स्मृतः ।
त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः ॥
यदुच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः ।
मन्त्रमुच्चारयेद्व्यक्तं जपयज्ञः स वाचिकः ॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् ।
किञ्चित् शब्दं स्वयं विद्यादुपांशुः स जपः स्मृतः ॥
धिया यदक्षरश्रेण्या वर्णार्द्वर्णं पदात् पदम् ।
शब्दार्थचिन्तनाभ्यासः स उक्तो मानसो जपः ॥
तेन स्वरादिसुव्यक्तवर्णोच्चारणवान् वाचिकः ।
स्वयंशब्दग्रहणमात्रयोग्यकिञ्चिच्छब्दवानुपांशुः ।
जिह्वोष्ठचालनमन्तरेण वर्णानुसन्धात्मको-
मानसः ॥” * ॥
वाचिकेऽप्युच्चैर्जपनिषेधमाह शङ्खः ।
“नोच्चैर्जप्यं बुधः कुर्य्यात् सावित्र्यास्तु विशेषतः ।”
योगियाज्ञवल्क्यः ।
“न चंक्रमन् न विहसन् न पार्श्वमवलोकयन् ।
नोपाश्रितो न जल्पंश्च न प्रावृतशिरास्तथा ॥
न पदा पादमाक्रम्य न वै बहिः करौ स्मृतौ ।
नैवंविधं जपं कुर्य्यात् न च संश्रावयेज्जपम् ॥
उत्तिष्ठन् वीक्ष्यमाणोऽर्क्कमासीनः प्राङ्मुखो
जपेत् ।
प्राक् कुशेष्वेवमासीनो वसानो वाससी शुभे ॥”
पृष्ठ ३/६१७
वृद्धमनुः ।
“यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां कुशोपरि समाहितः ॥”
व्यासः ।
“जपकाले न भाषेत व्रतहोमादिकेषु च ।
एतेष्वेवावशक्तस्तु यद्यागच्छेत् द्विजोत्तमः ।
अभिवाद्य ततो विप्रं योगक्षेमञ्च कीर्त्तयेत् ॥”
योगियाज्ञवल्क्यः ।
“यदि वाग्यमलोपः स्यात् जपादिषु कदाचन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥”
गोतमः ।
“क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भितम् ।
दर्शनं वनितानाञ्च वर्ज्जयेज्जपकर्म्मणि ।
आचामेत् सम्भवे चैषां स्मरेद्विष्णुं सुरार्च्चितम् ॥”
बौधायनः ।
“नाभेरधश्च संस्पर्शं कर्म्मकाले विवर्ज्जयेत् ॥”
इत्याह्निकाचारतत्त्वम् ॥ * ॥
मन्त्रशब्दस्य व्युत्पत्तिर्यथा, --
“मननात्त्रायते यस्मात्तस्मान्मन्त्रः प्रकी-
र्त्तितः ॥”
मन्त्रदीक्षारहितानां दोषो यथा, मत्स्यसूक्ते ।
“अदीक्षितानां मर्त्यानां दोषं शृणु वरानने ! ।
अन्नं विष्ठासमं तस्य जलं मूत्रसमं स्मृतम् ।
तत्कृतं तस्य वा श्राद्धं सर्व्वं याति ह्यधो-
गतिम् ॥”
शूद्रस्य मन्त्रविशेषनिषेधमाह तन्त्रे ।
“प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्व्वथा ।
आत्ममन्त्रं गुरोर्म्मन्त्रं मन्त्रं चाजपसं ज्ञकम् ॥
स्वाहाप्रणवसंयुक्तं शूद्रे मन्त्रं ददद्द्विजः ।
शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् ॥”
श्रुतिरपि ।
“सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्रयोर्नेच्छन्ति ।
सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्री शूद्रो यदि
जानीयात् स मृतोऽधो गच्छति ।”
विशेषमाह वाराहीये ।
“गोपालस्य मनुर्देयो महेशस्य तु पादजे ।
तत्पत्न्याश्चापि सूर्य्यस्य गणेशस्य मनुस्तथा ॥
एषां दीक्षाधिकारी स्यादन्यथा पापभाग्-
भवेत् ॥”
मन्त्रदीक्षाप्रशंसा यथा, गोविन्दवृन्दावने ।
“अदीक्षितस्य मरणे प्रेतत्वं न च मुञ्चति ॥”
नवरत्नेश्वरे ।
“सर्व्वासामपि दीक्षाणां मुक्तिः फलमखण्डितम् ।
अविरोधाद्भवन्त्येव प्रासङ्गिक्यस्तु भक्तयः ॥”
तथा ।
“उपपातकलक्षाणि महापातककोटयः ।
क्षणाद्दहति देवेशि ! दीक्षा हि विधिना कृता ॥”
अत्राप्यनुकूलमन्त्रं दीक्षेत ।
“स्वतारराशिकोष्ठानामनुकूलान् भजेन्मनून् ॥”
वाराहीये ।
“ताराचक्रं राशिचक्रं नामचक्रं तथैव च ।
अत्र चेत् सगुणो मन्त्रो नान्यच्चक्रं विचारयेत् ॥”
इति प्राधान्यतया बोध्यम् ॥
तथा च ।
“धनिमन्त्रन्तु गृह्णीयादनुकूलन्तथैव च ।”
इत्यादिदर्शनात्तत्तच्चक्रविचारस्य आवश्यकत्वात्
प्रथमं तन्निरूप्यते । सिद्धसारस्वते ।
“तत्र नृसिं हार्कवराहाणां प्रासादप्रणवस्य च ।
सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥
स्वप्नलब्धे स्त्रिया दत्ते मालामन्त्रे च त्र्यक्षरे ।
वैदिकेषु च मन्त्रेषु सिद्धादीन्नैव शोधयेत् ॥”
मालामन्त्रस्तु वाराहीये ।
“विंशत्यर्णाधिका मन्त्रा मालामन्त्राश्च कीर्त्तिताः ।
नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥
हंसस्याष्टाक्षरस्यापि तथा पञ्चाक्षरस्य च ।
एकद्वित्र्यादिबीजस्य सिद्धादीन्नैव शोधयेत् ॥
तथा । एकाक्षरस्य मन्त्रस्य मालामन्त्रस्य पार्व्वति ! ।
वैदिकस्य च मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥”
तथा चामुण्डातन्त्रे ।
“काली तारा महाविद्या षोडशी भुवनेश्वरी ।
भैरवी छिन्नमस्ता च विद्या धूमावती तथा ॥
वगला सिद्धविद्या च मातङ्गी कमलात्मिका ।
एता दश महाविद्याः सिद्धविद्याः प्रकीर्त्तिताः ॥
नात्र सिद्धाद्यपेक्षास्ति न नक्षत्रविचारणा ।
कालादिशोधनं नास्ति न चामित्रादिदूषणम् ॥
सिद्धविद्यातया नात्र युगसेवापरिश्रमः ।
नास्ति किञ्चिन्महादेवि ! दुःखसाध्यं कथञ्चन ॥”
पृथिव्यां पूर्णफलप्रदा महाविद्या । यथा,
मालिनीविजये ।
“अथ वक्ष्याम्यहं या या महाविद्या महीतले ।
दोषजालैरसंस्पृष्टास्ताः सर्व्वा हि फलैः सह ॥
काली नीला महादुर्गा त्वरिता च्छिन्नमस्तका ।
वाग्वादिनी चान्नपूर्णा तथा प्रत्यङ्गिरा पुनः ॥
कामाख्या वासली बाला मातङ्गीशैलवासिनी ।
इत्याद्याः सकला विद्याः कलौ पूर्णफलप्रदाः ॥
सिद्धमन्त्रतया नात्र युगसेवापरिश्रमः ।
तथा चैता महाविद्याः कलिदोषान्न वाधिताः ॥”
इत्यादिवचनादेषु विचारो नास्ति । वस्तुतस्तु
इदं प्रशंसापरम् । सर्व्वत्र विचारस्यावश्यक-
त्वम् । दुरदृष्टवशात् कदाचिद्वैरिमन्त्रस्य स्वप्नादौ
प्राप्त्या तत्तद्दोषस्य दृष्टत्वात् । इति तु साम्प्र-
दायिकाः ॥ * ॥ मन्त्रोद्धारार्थषट्चक्रप्रमाणानि
चक्रशब्दे द्रष्टव्यानि । तेषां लेखनप्रकारा यथा,
कुलाकुलचक्रम् ।
वायुः अग्निः भूमिः जलम् आकाशः
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ
अं
क्ष
वायुः अग्निः भूमिः जलम् आकाशः
अकथहचक्रम् ।
अ क
थ ह ङ प ख द च फ
ड व झ म ढ श ञ य
घ न ज भ ग ध छ ब
अः अं
त स ठ ल ण ष ट र
नक्षत्रचक्रम् ।
अ आ ई उ ऊ ऋ ॠ ऌ ॡ ओ औ ख ग
देवः मानुषः राक्षसः मानुषः देवः मानुषः देवः देवः राक्षसः
घ ङ छ ज झ ञ ट ठ ढ ण त थ द
१० ११ १२ १३ १४ १५ १६ १७ १८
राक्षसः मानुषः मानुषः देवः राक्षसः देवः राक्षसः देवः राक्षसः
न प फ य र व श ष स ह अं अः
१९ २० २१ २२ २३ २४ २५ २६ ल क्ष २७
राक्षसः मानुषः मानुषः देवः राक्षसः राक्षसः मानुषः मानुषः देवः
ऋणिधनिचक्रम् ।
अं अः


पृष्ठ ३/६१९
देवताभेदे चक्रविचारस्यावश्यकत्वमाह वारा-
हीतन्त्रे यामलादौ च ।
“तारशुद्धिर्वैष्णवानां कोष्ठशुद्धिः शिवस्य च ।
राशिशुद्धिस्त्रैपुरे च गोपालेऽकडमः स्मृतः ॥
अकडमो वामने च गणेशे च तथैव च ।
कोष्ठचक्रं वराहस्य महालक्ष्म्याः कुलाकुलम् ॥
नामादिचक्रे सर्व्वेषां भूतचक्रे तथैव च ।
त्रैपुरं तारचक्रे तु शुद्धमन्त्रं जपेद्बुधः ॥”
तथा ।
“वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं स्मृतम् ।
कालिकायाश्च तारायास्तारचक्रं शुभावहम् ॥
चण्डिकायास्तारकोष्ठे गोपालेऽकडमः स्मृतः ।
हरचक्रे सर्व्वमन्त्रं धनाधिक्ये न चाश्रयेत् ॥
ऋणाधिक्ये शुभं विद्यात् धनाधिक्ये च नो
विधिम् ।
दोषान् संशोध्य गृह्णीयान्मध्यदे शोद्भवस्य च ॥
मन्त्रस्त्वृणी शुभफलोऽप्यशुभो धनी च
तुल्यं यदा समफलः कथितो मुनीन्द्रैः ॥”
अन्यत्रापि ।
“शून्ये मृत्युमवाप्नोति धने च विफलं भवेत् ।
ऋणे च प्राप्तिमात्रेण सर्व्वसिद्धिस्तु जायते ॥”
अथ मन्त्राणां दश संस्काराः । गौतमीये ।
“जननं जीवनं पश्चात् ताडनं बोधनन्तथा ।
अथाभिषेको विमलीकरणाप्यायने पुनः ॥
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ।
स्वर्णादिपात्रे संलिख्य मातृकायन्त्रमुत्तमम् ।
काश्मीरचन्दनेनापि भस्मना वाथ सुव्रत ! ॥
काश्मीरं शक्तिसंस्कारे चन्दनं वैष्णवे मनौ ।
शैवे भस्म समाख्यातं मातृकायन्त्रलेखने ॥
मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् ।
पंक्तिक्रमेण विधिना मुनिभिस्तत्र निश्चितम् ॥ १ ॥
व्योमेन्दौ रसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्
केशरं
वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् ।
आशास्वश्रिषु लान्तलाङ्गलियुजा क्षौणीपुरे-
णावृतं
यन्त्रं वर्णतनोः परं निगदितं सौभाग्यसम्पत्-
करम् ॥”
यन्त्रस्य दिक्षु वं विदिक्षु ठं लिखेत् । तथा च
गौतमीये ।
“कादिमान्ताः पञ्चवर्गा दिक्षु पूर्ब्बादितो
न्यसेत् ।
यादिवान्ताः शादिहान्ता लक्षमीशे प्रविन्यसेत् ॥
चतुरस्रं चतुर्द्वारं दिक्षु वं ठं विदिक्षु च ॥”
इति मातृकायन्त्रम् ॥
“प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः ।
प्रत्येकं शतवारन्तु जीवनन्तदुदाहृतम् ॥ २ ॥
मन्त्रवर्णान् समालिख्य ताडयेच्चन्दनाम्भसा ।
प्रत्येकं वायुबीजेन पूर्ब्बवत्ताडनं मतम् ॥ ३ ॥
विलिख्य मन्त्रवर्णांस्तु प्रसूनैः करवीरजैः ।
तन्मन्त्रवर्णसंख्याकैर्हन्याद्रेफेण बोधनम् ॥” ४ ॥
“तत्तन्मन्त्रोक्तविधिना अभिषेकः प्रकीर्त्तितः ।”
तन्त्रान्तरे ।
“मन्त्रस्य चामुकं वर्णमभिषिञ्चामि हृद्गतम् ।”
इति वचनात् प्रत्येकमभिषिञ्चेत् ।
“अश्वत्थपल्लवैः सिञ्चेत् मन्त्री मन्त्रार्णसंख्यया ॥ ५ ॥
सञ्चिन्त्य मनसा मन्त्रं सुषुम्णामूलमध्यतः ।
ज्योतिर्मन्त्रेण विधिवत् दहेन्मलत्रयं यती ॥
तारं व्योमाग्निमनुयुक् दण्डी ज्योतिर्मनुर्मतः ॥”
तारं प्रणवः व्योम हकारः अग्नी रेफः मनु-
रौकारः दण्डी अनुस्वारः ॥ ६ ॥
“स्वर्णेन कुशतोयेन पुष्पतोयेन वा तथा ।
तेन मन्त्रेण विधिवदाप्यायनविधिः स्मृतः ॥ ७ ॥
मन्त्रेण वारिणा मन्त्रे तर्पणं तर्पणं मतम् ।
मधुना शक्तिमन्त्रेषु वैष्णवे चेन्दुमज्जलैः ॥
शैवे घृतेन दुग्धेन तर्पणं सम्यगीरितम् ॥”
अभिषेकेऽपि तथा ॥ ८ ॥
“तारमायारमायोगो मनोर्द्दीपनमुच्यते ॥ ९ ॥
जप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥ १० ॥
संस्कारा दश संप्रोक्ताः सर्व्वतन्त्रेषु गोपिताः ।
यान् कृत्वा सम्प्रदायेन मन्त्री वाञ्छितमाप्नु-
यात् ।”
मलत्रयमिति आनव्यं मायिकं कार्म्मणञ्च ।
प्रपञ्चसारे ।
“मायिकं नाम योषोत्थं पौरुषं कार्म्मणं मलम् ।
आनव्यं तद्द्वयं प्रोक्तं निषिद्धं तन्मलत्रयम् ॥”
न नवं अनवं तस्य भावः आनव्यं वृद्धत्वमित्यर्थः ।
तारमायारमायोग इति । तारमायारमा-
बीजपुटितम् मन्त्रमष्टोत्तरशतं जपेत् इत्यर्थः ।
तथा च विश्वसारे ।
“तारमायारमाबीजपुटितेन मनुं जपेत् ।
शतमष्टोत्तरञ्चैव दीपयेत् साधकोत्तमः ॥” * ॥
अथ दुर्गामन्त्रः ।
“अथ दुर्गामनुं वक्ष्ये दृष्टादृष्टफलप्रदम् ।
मायाद्रिः कर्णबिन्द्वाढ्यो भूयोऽसौ सर्गवान्
भवेत् ॥
पञ्चान्तकः प्रतिष्ठावान् मारुतो भौतिकासनः ।
तारादिहृदयान्तोऽयं मन्त्रो वस्वक्षरात्मकः ॥”
अद्रिर्दकारः । कर्ण उकारः । पञ्चान्तको
गकारः । प्रतिष्ठा आकारः । मारुतो यकारः ।
भौतिक ऐकारः । ॐ ह्रीं दुं दुर्गायै नमः ॥ * ॥
अथ विष्णुमन्त्रः ।
“तारं नमःपदं ब्रूयात् नरौ दीर्घसमन्वितौ ।
पवनो णायमन्त्रोऽयं प्रोक्तो वस्वक्षरः परः ॥”
ॐ नमो नारायणाय ॥ * ॥ अथ शिवमन्त्रः ।
“सान्तमौकारसंयुक्तं बिन्दुभूषितमस्तकम् ।
प्रासादाख्यो मनुः प्रोक्तो भजतां कामदो मनुः ॥”
हौँ ॥ * ॥ अथ गणेशमन्त्रः ।
“पञ्चान्तकं शशिधरं बीजं गणपतेर्व्विदुः ॥”
पञ्चान्तको गकारः । गँ ॥ * ॥ अथ सूर्य्यमन्त्रः ।
“तारो घृणिर्भृगुः पश्चाद्वामकर्णविभूषितः ।
वह्र्यासनो मरुत्शेषः सनेत्रोऽद्रिस्त्यपश्चिमः ॥
अष्टाक्षरो मनुः प्रोक्तो भानोरभिमतः परः ॥”
ॐ घृणि सूर्य्य आदित्य ॥ * ॥
पञ्चदेवतानामेक एको मन्त्रो लिखितः ।
एतासामन्यासाञ्चान्यमन्त्रा ग्रन्थविस्तारभयान्न
लिखिताः ॥ कलावागमोक्तमन्त्रजपविधि-
र्यथा, --
“आगमोक्तविधानेन कलौ मन्त्रं जपेत् सुधीः ।
नहि देवाः प्रसीदन्ति कलौ चान्यविधानतः ॥”
तथा ।
“कृते श्रुत्युक्तमार्गः स्यात् त्रेतायां स्मृतिसम्भवः ।
द्वापरे तु पुराणोक्तः कलावागमसम्भवः ॥
मन्त्रार्णा देवताः प्रोक्ता देवता गुरुरूपिणी ।
तेषां भिदा न कर्त्तव्या यदीच्छेच्छुभमात्मनः ॥”
पित्रादितो मन्त्रग्रहणनिषेधो यथा, --
“पितुर्मन्त्रं न गृह्णीयात् तथा मातामहस्य च ।
सोदरस्य कनिष्ठस्य वैरिपक्षाश्रितस्य च ॥
न पत्नीं दीक्षयेद्भर्त्ता न पिता दीक्षयेत् सुताम् ।
न पुत्त्रञ्च तथा भ्राता भ्रातरं न च दीक्षयेत् ॥
सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् ।
शक्तित्वेन वरारोहे ! न च सा कन्यकाभवेत् ॥”
तथा गणेशविमर्षिण्याम् ।
“यतेर्द्दीक्षा पितुर्द्दीक्षा दीक्षा च वनवासिनः ।
विविक्ताश्रमिणां दीक्षा न सा कल्याण-
दायिका ॥”
इत्यादिनिषेधवचनादेभ्यो मन्त्रं न गृह्णीयादि-
त्यर्थः । इति तन्त्रसारः ॥ (ज्वरादिनाशक-
मन्त्रो यथा, --
“वानराकृतिमालिख्य खटिकाभिः पुनः शृणु ।
गन्धपुष्पाक्षतैर्धूपैरर्च्चयेद्भिषजां वरः ॥
मन्त्रः ।
ॐ ह्रां ह्रीं श्रीं सुग्रीवाय महाबलपराक्रमाय
सूर्य्यपुत्त्राय अमिततेजसे ऐकाहिक-द्याहिक-
त्र्याहिक-चातुर्थिक-महाज्वर-भूतज्वर-भय-
ज्वर-शोकज्वर-क्रोधज्वर-वेलाज्वर-प्रभृति-
ज्वराणां दह दह हन हन पच पच अवतर
अवतर किलिकिलि वानरराजज्वराणां बन्ध
बन्ध ह्रां ह्रीं हूं फट् स्वाहा ।” इति हारीते
चिकित्सितस्थाने द्वितीयेऽध्याये ॥)

मन्त्रकृत्, पुं, (मन्त्रं कृतवान् । मन्त्र + कृ +

क्विप् । तुगागमश्च ।) मन्त्री । मन्त्रणाकारकः ।
इति सिद्धान्तकौमुदी ॥ (दौत्यकारी । यथा,
श्रीमद्भागवते । ३ । १ । २ ।
“यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः ।
पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ॥”
“मन्त्रकृत् दौत्यकर्त्ता सन् ।” इति तट्टीकायां
श्रीधरखामी ॥ * ॥ त्रि, मन्त्रप्रयोगकारी । यथा,
रघुवंशे । १ । ६१ ।
“तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥”
“मन्त्रकृतः मन्त्राणां स्रष्टुः प्रयोक्तुर्वा ।” इति
तट्टीकायां मल्लिनाथः ॥)

मन्त्रगण्डकः, पुं, (मन्त्रप्रधानो गण्डकः मध्य-

पदलोपी कर्म्मधारयः ।) विद्या । इति हारा-
वली । १९६ ॥
पृष्ठ ३/६२०

मन्त्रगूढः, पुं, (मन्त्रे मन्त्रणाविषये गूढः गुप्तः ।)

चरः । इति शब्दरत्नावली ॥

मन्त्रगृहं, क्ली, (मन्त्रस्य मन्त्रणायाः गृहम् ।)

मन्त्रणागारम् । (यथा, महाभारते । १५ ।
५ । २२ ।
“सुसंवृत्तं मन्त्रगृहं स्थलं चारुह्य मन्त्रयेः ।
अरण्ये निःशलाके वा न च रात्रौ कथञ्चन ॥”)

मन्त्रजा, स्त्री, (मन्त्रात् जायते इति । मन्त्र +

जन् + डः । टाप् ।) मन्त्रशक्तिः । इति पुराणम् ॥

मन्त्रजिह्वः, पुं, (मन्त्र एव जिह्वा यस्य ।) अग्निः ।

इति हेमचन्द्रः । ४ । १६५ ॥ (यथा, माघः ।
२ । १०७ ।
“अमृतं नाम यत् सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥”)

मन्त्रज्ञः, पुं, (मन्त्रं जानातीति । मन्त्र + ज्ञा +

कः ।) चरः । इति हलायुधः ॥ मन्त्रज्ञातरि,
त्रि । (यथा, मनुसंहितायाम् । ८ । ४ ।
“व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् ॥”)

मन्त्रणं, क्ली, (मन्त्र + ल्युट् ।) मन्त्रणा । मन्त्र-

धातोर्भावे अनट्प्रत्ययेन निष्प्रन्नम् ॥ (यथा,
मार्कण्डेयपुराणे । ५० । ८७ ।
“अवस्करे मन्त्रणञ्च यक्षैतदुपकृत्तव ॥”)

मन्त्रणा, स्त्री, (मन्त्र + भावे युच् । टाप् ।)

रहसि कर्त्तव्यावधारणम् । इति मन्त्रशब्द-
टीकायां भरतः ॥ मन्त्रः । यथा, --
“वादी मूकति रङ्कति क्षितिपतिर्वैश्वानरः
शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः
खञ्जति ।
गर्व्वी खर्व्वति सर्व्वविच्च जडति त्वन्मन्त्रणा-
यन्त्रितः
श्रीनित्ये वगलामुखि ! प्रतिदिनं कल्याणि तुभ्यं
नमः ॥”
इति तन्त्रसारे वगलास्तोत्रम् ॥ * ॥
मन्त्रणायां वर्णनीयानि यथा, --
“मन्त्रे पञ्चाङ्गताशक्तिषाड्गुण्योपायसिद्धयः ।
उदयाश्चिन्तनीयाश्च स्थैर्य्योन्नत्यादिसूक्तयः ॥”
इति कविकल्पलता ॥ * ॥
व्यक्तित्रयादिकृतमन्त्रणायां दोषो यथा, --
“षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णश्च धार्य्यते ।
द्विकर्णस्य तु मन्त्रस्य ब्रह्माप्येको न बुध्यते ॥”
इति गारुडे ११४ अध्यायः ॥
राज्ञा विद्यादिगुणयुक्तविप्रा मन्त्रिणः कार्य्याः ।
यथा, --
“मन्त्रिणस्तु नृपः कुर्य्यात् विप्रान् विद्याविशा-
रदान् ।
विशुद्धांश्च कुलीनांश्च धर्म्मार्थकुशलानृजून् ॥
मन्त्रयेत्तैः समं काले नात्यर्थं बहुभिश्चरेत् ।
एकैकेनैव कर्त्तव्यं मन्त्रस्य तु विनिश्चयम् ॥
व्यस्तैश्चैव समस्तैश्च वान्यस्य व्यपदेशतः ।
स्वयं वृत्तं मन्त्रगृहं स्थूल आरुह्य मन्त्रयेत् ॥
अरण्ये निःशलाके वा न यामिन्यां कदाचन ।
शिशून् शाखामृगान् पण्डान् शुकान् वैशा-
रिकांस्तथा ॥
वर्जयेन्मन्त्रगेहेषु मनुष्यानुद्धतांस्तथा ।
दूषणं मन्त्रभेदेषु नृपाणां यत्र जायते ॥
न तत् सम्यक् समाधातुं दक्षैर्नृपशतैरपि ॥”
इति कालिकापुराणे ८५ अध्यायः ॥
अथ मन्त्रनिर्णयः ।
“मन्त्रमूलं यतो राज्यं ततो मन्त्रं सुरक्षितम् ।
कुर्य्याद्राजा सदा मन्त्रान् कर्म्मणामाफलोदयात् ॥
अर्थानर्थौ हि यत्रोभौ संशयश्च परीक्ष्यते ।
स मन्त्र इति विज्ञेयः शेषाश्च खलु विभ्रमाः ॥
एकमेव विषं हन्ति शस्त्रेणैकश्च वध्यते ।
सराष्ट्रं सम्पदं हन्ति राजानं मन्त्रविप्लवः ॥
करिष्यन् न प्रभाषेत कृतान्येव तु दर्शयेत् ।
धर्म्मार्थकामकार्य्याणि कृतो मन्त्रो न भिद्यते ॥
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।
स्वपथे निःशलाके वा तत्र मन्त्रो विधीयते ॥
तत्र साम प्रयोक्तव्यं कार्य्येषु गुणवत्स्वपि ।
दानं लुब्धेऽपि भेदश्च शङ्कितेष्वपि निश्चयः ॥
जडमूकान्धबधिरान् तिर्य्यग्योनीन् वयोऽधि-
कान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले निषेधयेत् ।
इति सम्पततः प्रोक्तो राजनीतिरियं मया ॥
यत्त्रिवर्गाविरुद्धं स्याद्राजनीतिस्तदुच्यते ॥”
इति युक्तिकल्पतरौ नीतियुक्तिः ॥

मन्त्रतः, [स्] व्य, (मन्त्रादिति । मन्त्र +

“पञ्चम्यास्तसिल् ।” ५ । ३ । ७ । इति पञ्चमी-
स्थाने तसिल् ।) मन्त्रात् । इति सिद्धान्त-
कौमुदी ॥

मन्त्रदः, पुं, (मन्त्रं ददातीति । मन्त्र + दा + कः ।)

शिष्यकर्णे तदिष्टदेवमन्त्रप्रदानकर्त्ता । मन्त्र-
दातृगुरुः । यथा, --
“परापरगुरूणाञ्च निर्णयं शृणु पार्व्वति ! ।
आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः ।
परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ॥”
इति बृहन्नीलतन्त्रे २ पटलः ॥ * ॥
तत्पित्रादीनामपि परमगुरुत्वादिर्यथा, --
“मानवस्य महेशानि ! सङ्क्षेपान्निगदामि ते ।
गुरुः परमगुरुश्चैव परापरगुरुस्तथा ।
स्वगुरुः परमेशानि ! साक्षाद्ब्रह्म न संशयः ॥
तत्पिता परमगुरुः स्वयं विष्णुः क्षितौ सदा ।
तत्पिता परापरगुरुर्म्महेश्वरसमः सदा ॥”
इति शाक्तानन्दतरङ्गिणीधृतमहिषमर्द्दिनी-
तन्त्रम् ॥

मन्त्रदाता, [ऋ] त्रि, (मन्त्रं ददातीति । मन्त्र +

दा + तृच् ।) मन्त्रदानकर्त्ता । गुरुः । यथा, --
“सर्व्वेषाञ्च गुरूणाञ्च जन्मदाता परो गुरुः ।
पितुः शतगुणैर्माता पूज्या बन्द्या गरीयसी ॥
विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः ।
पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणैर्गुरुः ॥
मन्त्रमुद्गीरणेनैव गुरुरित्युच्यते बुधैः ।
अन्यो वन्द्यो गुरुरयमन्यश्चारोपितो गुरुः ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥
अदीक्षितस्य मूर्खस्य निष्कृतिर्नास्ति निश्चितम् ।
सर्व्वकर्म्मस्वनर्हस्य नरके तत्पशोः स्थितिः ॥
जन्मदातान्नदाता वा मातान्ये गुरवस्तथा ।
पारं कर्त्तुं न शक्तास्ते घोरे संसारसागरे ॥
विद्यामन्त्रज्ञानदाता निपुणः पारकर्म्मणि ।
न शक्तः शिष्यमुद्धर्त्तुमीश्वरश्चेश्वरोऽपरः ॥
गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः ।
गुरुर्धर्म्मो गुरुः शेषः सर्व्वात्मा निर्गुणो गुरुः ॥
सर्व्वतीर्थाश्रमश्चैव सर्व्वदेवाश्रयो गुरुः ।
सर्व्ववेदस्वरूपश्च गुरुरूपी हरिः स्वयम् ॥
अभीष्टदेवे रुष्टे च गुरुः शक्तो हि रक्षितुम् ।
गुरौ रुष्टेऽभीष्टदेवो नहि शक्तश्च रक्षितुम् ॥
सर्व्वे ग्रहाश्च यं रुष्टा यं रुष्टा देवब्राह्मणाः ।
तमेव रुष्टो भवति गुरुरेव हि दैवतः ॥
न गुरोश्च प्रियश्चात्मा न गुरोश्च प्रियः सुतः ।
धनं प्रियं न च गुरोर्न च भार्य्या प्रिया तथा ॥
न गुरोश्च परो धर्म्मो न गुरोश्च परन्तपः ।
न गुरोश्च परं सत्यं न पुण्यञ्च गुरोः परम् ॥
गुरोः परो न शास्ता च नहि बन्धुर्गुरोः परः ।
देवो राजा च शास्ता च शिष्याणाञ्च सदा
गुरुः ॥
यावत् शक्तो दातुमन्नं तावत् शास्ता तदन्नदः ।
गुरुः शास्ता च शिष्याणां प्रति जन्मनि जन्मनि ॥
मन्त्रो विद्यागुरुर्देवः सर्व्वलब्धो यथा पतिः ।
प्रतिजन्मनिबन्धेन सर्व्वेषामुपरि स्थिताः ॥
पिता गुरुश्च वन्द्यश्च यत्र जन्मनि जन्मदः ।
गुरवोऽन्ये तथा माता गुरुश्च प्रतिजन्मनि ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे शचीकृतगुरु-
स्तोत्रकथनं नाम ५९ अध्यायः ॥ अपि च ।
“मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत् ।
अहो यस्य प्रसादेन सर्व्वान् पश्यति मानवः ॥
जनको जन्मदाता च रक्षणाच्च पिता नृणाम् ।
ततो विस्तीर्णकरणात् कलया स प्रजापतिः ॥
पितुः शतगुणैर्माता पोषणाद्गर्भधारणात् ।
वन्द्या पूज्या च मान्या च प्रसूरूपा वसुन्धरा ॥
मातुः शतगुणैर्वन्द्यः पूज्यो मान्योऽन्नदायकः ।
यद्विना नश्वरो देहो विष्णुश्च कलयान्नदः ॥
अन्नदातुः शतगुणोऽभीष्टदेवः परः स्मृतः ।
गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।
यः सर्व्वार्थं दर्शयति तत्परः कोऽपि बान्धवः ॥
गुरुदत्तेन मन्त्रेण तपसेष्टसुखं लभेत् ।
सर्व्वज्ञत्वं सर्व्वसिद्धिं तत्परः कोऽपि बान्धवः ॥
सर्व्वं जयति सर्व्वत्र विद्यया गुरुदत्तया ।
तस्मात् पूज्यो हि जगति को वा बन्धुस्ततो-
ऽधिकः ॥
विद्यान्धो वा धनान्धो वा यो मूढो न भजेद्-
गुरुम् ।
ब्रह्महत्यादिभिः पापैः स लिप्तो नात्र संशयः ॥
पृष्ठ ३/६२१
दरिद्रं पतितं क्षुद्रं नर-बुद्ध्याचरेद्गुरुम् ।
सोऽशुचिस्तीर्थस्नातोऽपि नाधिकारी च कर्म्मसु ॥
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।
यो न पुष्णाति कापट्यात् स महापातकी
शिव ! ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म गुरुर्भास्कररूपधृक् ॥
गुरुश्चन्द्रस्तथेन्द्रश्च वायुश्च वरुणोऽनलः ।
सर्व्वरूपो हि भगवान् परमात्मा स्वयं गुरुः ॥
नास्ति वेदात् परं शास्त्रं नहि कृष्णात् परः
सुरः ।
नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीपरम् ॥
नास्ति क्षमावती भूमेः पुत्त्रान्नास्ति परः प्रियः ।
न च दैवात् परा शक्तिर्व्रतं नैकादशीं विना ॥
शालग्रामात्परो यन्त्रो न क्षेत्रं भारतात् परम् ।
परं पुण्यस्थलानाञ्च पुण्यं वृन्दावनं यथा ॥
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।
न पार्व्वतीपरा साध्वी न गणेशात् परो वशी ॥
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ।
विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः ॥”
इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४४
अध्यायः ॥

मन्त्रदीधितिः, पुं, (मन्त्रेण दीधितिर्दीप्तिर्यस्य ।)

बह्रिः । इति त्रिकाण्डशेषः ॥

मन्त्रपूतः, त्रि, (मन्त्रेण पूतः ।) मन्त्रेण पवित्री-

कृतः । यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ।
८९ । ३६ ।
“ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥”

मन्त्रपूतात्मा, [न्] पुं, (मन्त्रेण पूतः आत्मा

यस्य ।) गरुडः । इति धरणिः ॥

मन्त्रवित्, [द्] (पुं, मन्त्रं पञ्चाङ्गमन्त्रणां वेत्तीति ।

विद् + क्विप् ।) चरः । इति हेमचन्द्रः । ३ ।
३९७ ॥ (यथा, महाभारते । ५ । १९३ । ५ ।
“एतत् श्रुत्वा द्रुपदो यज्ञसेनः
सर्व्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य ।
मन्त्रं राजा मन्त्रयामास राजन् !
यथायुक्तं रक्षणे वै प्रजानाम् ॥”)
मन्त्रज्ञातरि, त्रि ॥ (यथा, छान्दोग्योपनिषदि ।
७ । १ । ३ ।
“सोऽहं भगवतो मन्त्रविदेवास्मि ॥”
मन्त्रं वेदार्थं वेत्तीति । विद् + क्विप् । वेदार्थ-
वित् । यथा, मनौ । ३ । १३१ ।
“सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ॥”)

मन्त्रस्पृक्, [श्] त्रि, (मन्त्रेण स्पृशतीति ।

“स्पृशोऽनुदके क्विन् ।” ३ । २ । ५८ । इति क्विन् ।)
मन्त्रकरणकस्पर्शकर्त्ता । इति सिद्धान्तकौमुदी ॥

मन्त्रितः, त्रि, मन्त्रेण संस्कृतः । अभिमन्त्रितः ।

मन्त्रोऽस्य जातः । इति मत्रिधातोः क्तप्रत्ययेन
मन्त्रशब्दात् इतप्रत्ययेन च निष्पन्नः ॥ (यथा,
निबन्धे ।
“शिष्यं स्वलङ्कृतं वेद्यामुपाग्निमुपवेशयेत् ।
मन्त्रितं प्रोक्षणीतोयैः शान्तिकुम्भजलैस्तथा ।
मूलमन्त्रेणाष्टशतं मन्त्रितैरभिषेचयेत् ॥”)

मन्त्री, [न्] पुं, (मन्त्रो गुप्तभाषणमस्यास्ति ।

मन्त्र + इनिः । यद्बा, मन्त्रयते इति । मन्त्र +
“नन्दिग्रहीति ।” ३ । १ । १३४ । इति णिनिः ।)
मन्त्रजातकर्त्तव्यनिश्चयकर्त्ता । तत्पर्य्यायः ।
धीसचिवः २ अमात्यः ३ । इत्यमरः । २ । ८ । ४ ॥
सचिवः ४ धीसखः ५ सामवायिकः ६ । इति
हेमचन्द्रः । ३ । ३८३ ॥ तस्य लक्षणं यथा, --
“मन्त्री भक्तः शुचिः शूरोऽनुकृतो बुद्धिमान्
क्षमी ।
आन्वीक्षिक्यादिकुशलः परिच्छेदी सुदेशजः ॥”
इति कविकल्पलता ॥
“बहुभिर्म्मन्त्रयेत् कामं राजा मन्त्रं पृथक्
पृथक् ।
मन्त्रिणामपि नो कुर्य्यान्मन्त्री मन्त्रप्रकाशनम् ॥
न क्वचित् कस्य विश्वासो भवतीह सदा नृणाम् ।
निश्चयश्च सदा मन्त्रे कार्य्य एकेन सूरिणा ॥
भवेद्वा निश्वयावाप्तिः परबुद्ध्यनुजीवनात् ।
एकस्यैव महीभर्त्तुर्भूयः कार्य्यो विनिश्चयः ॥”
इति मत्स्यपुराणे १८९ अध्यायः ॥

मन्थ, कुन्थे । गाहे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) मन्थति । कुन्थः कैश्चिन्न
मन्यते । इति दुर्गादासः ॥

मन्थ, ग गाहे । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-

सक०-सेट् ।) गाहो विलोडनम् । ग, मथाति
दधि वल्लवी । रथं ममन्थ सहयम् । इति दुर्गा-
दासः ॥

मन्थः, पुं, (मथ्यतेऽनेन । मन्थ + करणे घञ् ।)

मन्थदण्डकः । इत्यमरः । २ । ९ । ७४ ॥ (यथा,
महाभारते । १२ । ३४३ । ११ ।
“आमथ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ।
नवनीतं तथा दध्नो मलयाच्चन्दनं यथा ॥”
मथ्यते विलोड्यते इति । मन्थ + कर्म्मणि घञ् ।)
साक्तवः । (मथ्नाति स्वकरेण त्रिभुवनं पीडय-
तीति । मन्थ + अच् ।) दिवाकरः । इति
मेदिनी । थे, ११ ॥ साक्तवो यथा, --
“सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः ।
नात्यच्छो नातिसान्द्रश्च मन्थ इत्यभिधीयते ॥”
इति राजनिर्घण्टः ॥
पेयविशेषः । तस्य विधिर्यथा, --
“जले चतुष्पले शीते क्षुण्णं द्रव्यं पलं क्षिपेत् ।
मृत्पात्रे मन्थयेत् सम्यक् तस्माच्च द्विपलं
पिबेत् ॥”
क्षुण्णं चूर्णीकृतम् । मन्थयेत् मृद्नीयात् । इति
भावप्रकाशः ॥ (मन्थ + भावे घञ् ।) मारणम् ।
इति त्रिकाण्डशेषः ॥ नेत्रमलम् । इति धरणिः ॥
नेत्रामयः । इति विश्वः ॥ अंशुः । इति शब्द-
रत्नावली ॥ कुन्थनम् । विलोडनम् । इति
मन्थधात्वर्थदर्शनात् ॥ (यथा, रघौ । १० । ३ ।
“अतिष्ठत् प्रत्ययापेक्षसन्ततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः ॥”)

मन्थजं, क्ली, (मन्थेन मन्थनेन जायते इति ।

जन् + डः ।) नवनीतम् । इति रत्नमाला ॥
(विवरणमस्य नवनीतशब्दे ज्ञातव्यम् ॥)

मन्थदण्डकः, पुं, (मन्थाय मन्थनाय यो दण्डः ।

ततः स्वार्थे कन् ।) मन्थानदण्डः । छाँचुनी इति
घोलमौनी इति खडेन् इति च भाषा ॥ तत्-
पर्य्यायः । वैशाखः २ मन्थः ३ मन्थानः ४
मन्थाः ५ । इत्यमरः । २ । ९ । ७४ ॥ कर-
हर्षकः ६ मन्थनः ७ भक्ताटः ८ । इति शब्द-
रत्नावली ॥ तक्राटः ९ । इति जटाधरः ॥

मन्थनं, क्ली, (मन्थ + ल्युट् ।) विलोडनम् । कुन्थ-

नम् । इति मन्थधातोर्भावे अनट्प्रत्ययेन
निष्पन्नम् ॥ (यथा, महाभारते । १ । १८ । ३० ।
“चिरारब्धमिदञ्चापि सागरस्यापि मन्थ-
नम् ॥”)

मन्थनः, पुं, (मथ्नात्यनेनेति । मन्थ + करणे ल्युट् ।

यद्वा, मथ्नातीति । मन्थ + ल्युः ।) मन्थानदण्डः ।
इति शब्दरत्नावली ॥ (यथा, हरिवंशे । ८२ । ३६ ।
“गोभिश्च समकीर्णासु व्रजनिर्य्याणभूमिषु ।
मन्थनावर्त्तपूर्णेषु गर्गरेषु नदत्सु च ॥”)

मन्थनघटी, स्त्री, (अल्पो घटः । अल्पार्थे

ङीष् । मन्थनार्था मन्थनस्य वा घटी ।) दधि-
मन्थनपात्रम् । यथा, --
“कलसी मन्थनघटी मन्थनी चापि गर्गरी ॥”
इति जटाधरः ॥

मन्थरं, क्ली, (मन्थति क्लेशयतीति । मन्थ + बाहुल-

कात् अरन् ।) कुसुम्भी । इति मेदिनी । रे, १९८ ॥

मन्थरः, पुं, (मन्थ + बाहुलकात् अरन् ।) कोषः ॥

फलम् । वाधः । मन्थानः । इति मेदिनी । रे,
१९८ ॥ सूचकः । इति विश्वः ॥ मन्दगामि-
योद्धा । इति क्षत्त्रियवर्गे अमरः । २ । ८ । ७२ ।
कोपः । इत्यजयः ॥

मन्थरः, त्रि, (मन्थति पादाविति । मथि +

अरन् ।) मन्दः । (यथा, साहित्यदर्पणे । ३ । ६८
“दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः-
पुरात् ॥”)
पृथुः । वक्रः । इति मेदिनी । रे, १९८ ॥
(निश्चलः । यथा, आर्य्यासप्तशत्याम् । ४८८ ।
“राज्याभिषेकसलिलक्षालितमौलेः कथासु
कृष्णस्य ।
गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥”)
जडः । इति शब्दरत्नावली ॥ नीचः । इति
हेमचन्द्रः । ६ । ६५ ॥ (मन्दगामी । इति
हेमचन्द्रः । ३ । १५९ ॥)

मन्थरा, स्त्री, (मन्थर + स्त्रियां टाप् ।) केकय्या

दासी । यथा, --
“रामाभिषेके विघ्नार्थं यतस्व ब्रह्मवाक्यतः ।
मन्थरां प्रविशस्वादौ कैकेयीञ्च ततः परम् ॥”
इत्यध्यात्मरामायणे अयोध्याकाण्डे २ अध्यायः ॥

मन्थरुः, पुं, (मन्थ + बाहुलकात् अरुः ।)

चामरवातः । तत्पर्य्यायः । कुठेरुः २ । इति
त्रिकाण्डशेषः ॥
पृष्ठ ३/६२२

मन्थशैलः, पुं, (मन्थाय समुद्रमन्थनाय कल्पितः

शैलः ।) मन्दरपर्व्वतः । इति जटाधरः ॥

मन्था, स्त्री, (मथ्यते इति । मन्थ + घञ् । ततः

स्त्रियां टाप् ।) मेथिका । इति राजनिर्घण्टः ॥
(यथा, भावप्रकाशे पूर्ब्बखण्डे ।
“वल्लरी चन्द्रिका मन्था मित्रपुष्पा च कैरती ॥”)

मन्थाः, [थिन्] पुं, (मन्थ + “मन्थः ।” उणा०

४ । ११ । इति इनिः । स च कित् ।) मन्थान-
दण्डः । इत्यमरः । २ । ९ । ७४ ॥ (यथा,
किरातार्ज्जुनीये । ४ । १६ ।
“मुहुः प्रणुन्नेषु मथां विवर्त्तनै-
र्नदत्सु कुम्मेषु मृदङ्गमन्थरम् ॥”)

मन्थानः, पुं, (मथ्यते अनेनेति । मन्थ + बाहुलकात्

आनच् ।) मन्थदण्डकः । इत्यमरः । २ । ९ ।
७४ ॥ (यथा, देवीभागवते । १ । १० । २५ ।
“मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः ।
पावकस्य यथा तद्वत् कथं मे स्यात् सुतोद्भवः ॥”)
आरग्वधः ॥ इति राजनिर्घण्टः ॥ (समुद्र-
मन्थनदण्डकत्वादस्य तथात्वम् । मन्दरपर्व्वतः ।
यथा, रामायणे । १ । ४५ । २७ ।
“प्रविवेशाथ पातालं मन्थानः पर्व्वतोत्तमः ॥”
महादेवः । यथा, महाभारते । १३ । १७ ।
१२८ ।
“मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)

मन्थानकः, पुं, (मन्थान इवेति । “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् ।) तृणभेदः ।
तत्पर्य्यायः । हरितः २ दृढमूलः ३ तृणाङ्-
घ्रिपः ४ । अस्य गुणाः । स्निग्धत्वम् । दोग्ध्रीणां
प्रियत्वम् । मधुरत्वम् । बहुवीर्य्यदत्वञ्च । इति
राजनिर्घण्टः ॥

मन्थिनी, स्त्री, (मन्थो मन्थनमस्त्यस्याम् । मन्थ +

इनिः । ङीप् ।) दधिमन्थनपात्रम् । तत्पर्य्यायः ।
गर्गरी २ कलसी ३ । इति हेमचन्द्रः । ४ ।
८८ ॥

मन्थोदधिः, पुं, (मथ्यतेऽसौ । मन्थ + कर्म्मणि

घञ् । मन्थश्चासौ उदधिश्चेति । मन्थाय उदधि-
रिति वा ।) क्षीरसमुद्रः । इति केचित् ॥

मन्दः, पुं, (मन्दते इति । मदि + अच् ।) शनिः ।

(यथा, ज्योतिषे ।
“शुक्रेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः ।
भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥”)
हस्तिजातिविशेषः । इति मेदिनी । दे, १३ ॥
यमः । इति त्रिकाण्डशेषः ॥ (यथा, कथा-
सरित्सागरे । ३२ । १५५ ।
“तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः ।
पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यतामिति ॥”)
प्रलयः । इत्यजयः ॥ (जठरानलविशेषः । यथा,
हारीते चिकित्सितस्थाने ६ अध्याये ।
“तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः ।
वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥”)

मन्दः, त्रि, (मदि + अच् ।) अतीक्ष्णः । मूर्खः ।

(यथा, रघुवंशे । १ । ३ ।
“मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्य-
ताम् ॥”)
स्वैरः । अभाग्यः । रोगी । अल्पः । इति
मेदिनी । दे, १३ ॥ (यथा, मेघदूते । १ । ४ ।
“मन्दं मन्दं नुदति पवनश्चानुकूलो यथा
त्वाम् ॥”
अलसः । यथा, श्रीमद्भागवते । १ । १ । १० ।
“प्रायेणाल्पायुषः सभ्य ! कलावस्मिन् युगे जनाः ।
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥”
“मन्दाः अलसाः ।” इति तट्टीकायां श्रीधर-
स्वामी ॥)
मदरतः । खलः । इति हेमचन्द्रः । ३ । ४८ ॥

मन्दगः, त्रि, (मन्दं अल्पं गच्छतीति । गम् +

डः ।) मृदुगामी । यथा, --
“मन्दगाश्च शनिज्ञानिवृषहंसगजस्त्रियः ॥”
इति कविकल्पलता ॥
(पुं, शाकद्वीपस्थजनपदभेदः । यथा, महा-
भारते । ६ । ११ । ३३ ।
“तत्र पुण्या जनपदाश्चत्वारो लोकसम्मताः ।
मगाश्च मशकाश्चैव मानसा मन्दगास्तथा ॥”)

मन्दगामी, [न्] त्रि, (मन्दं गच्छतीति । गम्

+ णिनिः ।) मृदुगमनशीलः । तत्पर्य्यायः ।
मन्थरः २ । इत्यमरः । २ । ८ । ७२ ॥ स्वैर-
गामी ३ मन्दः ४ । इति शब्दरत्नावली ॥

मन्दजननी, स्त्री, (मन्दस्य शनेर्ज्जननी माता ।)

शनैश्चरमाता । सूर्य्यपत्नी । इति त्रिकाण्डशेषः ॥

मन्दटः, पुं, (मन्दमटतीति । अट् + अच् । शक-

न्ध्वादित्वात् साधुः ।) पारिभद्रवृक्षः । इति
शब्दरत्नावली ॥

मन्दता, स्त्री, (मन्दस्य भावः । मन्द + भावार्थे

तल् । स्त्रियां टाप् ।) आलस्यम् । इति राज-
निर्घण्टः ॥ (यथा, सुश्रुते शारीरस्थाने ।
“दुर्म्मेधस्त्वं मन्दता च स्वप्ने मैथुननित्यता ।
निराकरिष्णुता चैव विज्ञेयाः पाशवा गुणाः ॥”)
मन्दत्वम् । (यथा, चन्द्रालोके । १ । १ ।
“उच्चैरस्यति मन्दतामरसतामिति ॥”
क्षीणता । यथा, साहित्यदर्पणे । ३ । ६८ ।
“मध्यस्य प्रथिमानमेति जघनं वक्षोजयो-
र्म्मन्दतां
दूरं यात्युदरञ्च रोमलतिका नेत्रार्ज्जवं
धावति ॥”)

मन्दनं, क्ली, (मन्दते स्तौति अनेन । मन्द् +

“कॄपॄवृजिमन्दिनिधाञः क्युः । उणा० २ । ८१ ।
इति करणे क्युः ।) स्तोत्रम् । इति सिद्धान्त
कौमुद्यामुणादिवृत्तिः ॥

मन्दरः, पुं, (मन्द् + बाहुलकात् अरः ।) मन्थ-

शैलः । (यथा, महाभारते । १ । १८ । १३ ।
“मन्थानं मन्दरं कृत्वा तथा नेत्रञ्च वासु-
किम् ॥”)
मन्दारपादपः । इति मेदिनी । रे, १९६ ॥
स्वर्गः । हारभेदः । इति हेमचन्द्रः । ४ । ९६ ॥
मुकुरः । इति शब्दरत्नावली ॥ (कुशद्बीपस्थ-
पर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ६१ ।
“मन्दरः सैव विज्ञेयः सर्व्वधातुमयः शुभः ।
मन्द इत्येष यो धातुरपामर्थे प्रकाशकः ॥
अपां विदारणात् चैव मन्दरः स निगद्यते ॥”)

मन्दरः, त्रि, (मन्द् + अरः ।) बहलः । मन्दः ।

इति मेदिनी । रे, १९६ ॥

मन्दसानः, पुं, (मन्दते स्तुत्यादिकं प्राप्नोतीति ।

मन्द + “ऋञ्जिवृधिमन्दिसहिभ्यः कित् ।” उणा०
२ । ८७ । इति असानच् ।) अग्निः । प्राणः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ निद्रा ।
इत्युणादिकोषः ॥ (त्रि, मोदमानः । यथा,
ऋग्वेदे । १ । १०० । १४ ।
“मन्दसानो मरुत्वान् ।”
“मन्दसानो मोदमानः सन् ॥” इति तद्भाष्ये
सायनः ॥)

मन्दसानुः, पुं, (मन्दं मन्दतां सनोति ददातीति ।

मन्द + सन् + बाहुलकात् उण् ।) स्वप्नः ।
जीवः । इति संक्षिप्तसारोणादिवृत्तिः ॥

मन्दा, स्त्री, (मन्द + स्त्रियां टाप् ।) संक्रान्ति-

विशेषः । सा उत्तरफल्गुन्युत्तराषाढोत्तरभाद्र-
पदारोहिणीनक्षत्रेषु रविसंक्रान्तिश्चेत्तदा
भवति । तस्याः सन्निहितदण्डत्रयस्य पुण्य-
तमत्वम् । यथा, --
“मन्दा मन्दाकिनी ध्मांक्षी घोरा चैव महो-
दरी ।
राक्षसी मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा
नृप ! ॥
मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा ।
क्षिप्रे ध्मांक्षीं विजानीयादुग्रे घोरा प्रकीर्त्तिता ॥
चरैर्म्महोदरी ज्ञेया क्रूरैरृक्षैस्तु राक्षसी ।
मिश्रिता चैव विज्ञेया मिश्रैरृक्षैस्तु संक्रमः ॥”
इत्येतैर्द्वादशस्वेव संक्रान्तिषु ध्रुवादिनक्षत्र-
योगात् मन्दादिरूपतया सप्तधा भिन्नासु
त्रिचतुःपञ्चसप्ताष्टनवद्बादश एव च । क्रमेण
घटिका ह्येतास्तत् पुण्यं पारमार्थिकमिति
देवीपुराण एव त्रिचतुरादिघटिकानां पुण्यत्व-
मुक्तम् । इति तिथ्यादितत्त्वम् ॥

मन्दाकं, क्ली, (मन्द्यते स्तूयते इति । मन्द् +

बाहुलकात् आकः ।) स्तवनम् । इत्युणादि-
कोषः ॥ (स्रोतः । इत्युज्ज्वलदत्तः । ४ । १३ ॥)

मन्दाकिनी, स्त्री, (मन्दाकानि स्रोतांसि सन्त्यस्याः

इति । मन्दाक + णिनिः । यद्बा, “मन्दमकितुं
शीलमस्याः । णिनिः । यद्वा, मन्दनाम्नः सरसः
अकति गच्छतीति । नयनानन्दः ।” इत्यमर-
टीकायां रघुनाथचक्रवर्त्ती ।) स्वर्गगङ्गा ।
तत्पर्य्यायः । वियद्गङ्गा २ स्वर्नदी ३ सुरदी-
र्धिका ४ । इत्यमरः । १ । १ । ५२ ॥ स्वर्गङ्गा ५
देवभूतिः ६ स्वर्णपद्मा ७ सुरेश्वरी ८ । इति
शब्दरत्नावली ॥ (यथा, नैषधचरिते । ६ । ८२ ।
“मन्दाकिनीनन्दनयोर्विहारे
देवे भवद्देवरि माधवे वा ॥”)
तस्या विवरणं यथा, --
पृष्ठ ३/६२३
“प्रधानधारा या स्वर्गे सा च मन्दाकिनी
स्मृता ।
योजनायुतविस्तीर्णा प्रस्थेन योजना स्मृता ॥
क्षीरतुल्यजला शश्वदत्युत्युङ्गतरङ्गिणी ।
वैकुण्ठाद्ब्रह्मलोकञ्च ततः स्वर्गं समागता ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे जाह्रवी-
जन्मप्रस्तावे ३४ अध्यायः ॥ * ॥ संक्रान्ति-
विशेषः । अस्य प्रमाणं मन्दाशब्दे द्रष्टव्यम् ॥
(चित्रकूटस्थनदीविशेषः । यथा, महाभारते ।
३ । ८५ । ५८ ।
“ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते ।
मन्दाकिनीं समासाद्य सर्व्वपापप्रणाशिनीम् ॥”
द्वारकास्थनदीविशेषः । यथा, महाभारते ।
हरिवंशपर्व्वणि । १५५ । २२ ।
“वैदूर्य्यपत्रैर्ज्जलजैस्तथा मन्दाकिनी नदी ।
भाति पुष्करिणी रम्या पूर्ब्बस्यां दिशि
भारत ! ॥”
छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् ।
“न न र र-घटिता तु मन्दाकिनी ॥”
उदाहरणादिकन्तु छन्दःशब्दे द्रष्टव्यम् ॥)

मन्दाक्रान्ता, स्त्री, (मन्दं यथा तथा आक्रान्ता ।)

छन्दोविशेषः । यथा, --
“चत्वारः प्राक् सुतनु गुरवो द्वौ दशैकादशौ चे-
न्मुख्यौ वर्णौ तदनु कुमुदामोदिनि ! द्वादशान्त्यौ ।
तद्बच्चान्त्यौ युगरसहयैर्यत्र कान्ते ! विरामो
मन्दाक्रान्तां प्रवरकवयस्तन्वि ! तां संगिरन्ते ॥”
इति श्रुतबोधः ॥
(अल्पाक्रान्ता । यथा, --
“मन्दाक्रान्ता वितरति रसं नेक्षुयष्टिः सम-
ग्रम् ॥”
इत्युद्भटः ॥)

मन्दाक्षं, क्ली, (मन्दे सङ्कुचिते अक्षिणी नेत्रे यस्मात् ।

“अक्ष्णोऽदर्शनात् ।” ४ । ४ । ७६ । इति समा-
सान्तः अच् ।) लज्जा । इत्यमरः । १ । ७ । २३ ॥
(यथा, नैषधचरिते । ३ । ६१ ।
“मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा
तस्यां समाकुञ्चितवाचि हंसः ।
तच्छंसिते किञ्चन संशयालु-
र्गिरा मुखाम्भोजमयं युयोज ॥”)

मन्दाग्निः, पुं, (मन्दः पाचनासमर्थश्चासावग्नि-

श्चेति ।) कफद्वाराल्पजठरानलः । तस्य निदा-
नादि यथा, --
“मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्व्विधः ।
कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ॥
विषमो वातजान् रोगांस्तीक्ष्णः पित्तसमुन्न-
तान् ।
करोत्यग्निस्तथा मन्दो विकारान् कफसम्भवान् ॥
समा समाग्नेरशिता मात्रा सम्यग्विपच्यते ।
अल्पापि नैव मन्दाग्नेर्विषमाग्नेस्तु देहिनः ।
कदाचित् पच्यते सम्यक् कदाचिच्च न पच्यते ॥”
इति माधवकरः ॥ * ॥
तस्यौषधं यथा, --
“चित्रकस्याष्टभागानि शूरणस्य च षोडश ।
शुण्ठ्याश्चत्वारि भागानि मरीचानां द्वयं
तथा ॥
पिप्पली पिप्पलीमूलं विडङ्गानां चतुष्टयम् ।
अष्टौ मुप्तलिभागाश्च त्रिफलायाश्चतुष्टयम् ॥
द्विगुणेन गुडेनैषां मोदकानि हि कारयेत् ।
तद्भक्षणमजीर्णं हि पाण्डुरोगञ्च कामलाम् ।
अतिश्रोणितमन्दाग्निप्लीहाद्यञ्च निवारयेत् ॥”
इति गारुडे १९८ अध्यायः ॥ * ॥
अथ जठराग्निविकाराधिकारः । तत्र सन्नि-
कृष्टनिदानपूर्ब्बकान् उदराग्निविकारानाह ।
“कफपित्तानिलाधिक्यात्तत्साम्याज्जाठरोऽनलः ।
मन्दस्तीक्ष्णोऽथ विषमः समश्चेति चतुर्विधः ॥”
तत्र मन्दस्याग्नेर्लक्षणमाह ।
“स्वल्पापि नैव मन्दाग्नेर्मात्रा भुक्तापि पच्यते ।
छर्द्दिर्दाहः प्रसेकः स्याच्छिरोगौरवजाठरम् ॥”
मन्दाग्निजन्यान् विकारानाह ।
“मन्दोऽग्निर्द्देहिनां कुर्य्याद्विकारान् कफसम्भ-
वान् ॥” * ॥
अथ चिकित्सा ।
“हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा ।
सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी ॥ १ ॥
गुडेन शुण्ठीमथवोपकुल्यां
पथ्यातृतीयामथ दाडिमं वा ।
आमेष्वजीर्णेषु गुदामयेषु
वर्च्चोविबन्धेषु च नित्यमद्यात् ॥ २ ॥
व्योषं दन्ति त्रिवृच्चित्रं कृष्णामूलं विचूर्णितम् ।
तच्चूर्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥
एतद्गुडाष्टकं नाम बलवर्णाग्निवर्द्धनम् ।
शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहम् ॥”
सर्व्वचूर्णसमो गुडो देयः । गुडाष्टकम् ॥ ३ ॥
“दहनाजमोदसैन्धवनागरमरिचानि चाम्ल-
तक्रेण ।
सप्ताहादग्निकरं पाण्ड्वर्शोनाशनं परमम् ॥” * ॥
वैश्वानरः क्षारः ।
“सामुद्रलवणं ग्राह्यमष्टकर्षमितं बुधैः ।
सौवर्च्चलं पञ्चकर्षं विडसैन्धवधान्यकम् ॥
पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकम् ।
तालीशं केशरं चव्यमम्लवेतसकं तथा ।
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद्-
बुधः ॥ ५ ॥
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकम् ।
दाडिमं स्याच्चतुष्कर्षं त्वगेले वार्द्धकर्षके ।
एतच्चूर्णीकृतं सर्व्वं लवणं भास्कराभिधम् ॥
भक्षयेच्छाणमानं तत् तक्रमस्तुककाञ्जिकैः ।
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयम् ॥
अर्शांसि ग्रहणी कुष्ठं विबन्धञ्च भगन्दरम् ।
शूलं शोथं श्वासकासावामदोषञ्च हृद्रुजम् ॥
अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि ।
मन्दाग्निं नाशयेदेतद्दीपनं पाचनं परम् ॥
हिताय सर्व्वलोकानां भास्करेणैतदीरितम् ।
हन्यात् सर्व्वाण्यजीर्णानि भुक्तमात्रमसंशयम् ॥
निम्बुरसादिकं दत्त्वा गुटिकामप्येके कुर्व्वन्ति ॥ ६ ॥
टङ्गणं रसगन्धौ च समं भागं त्रयं विषात् ।
कपर्द्दः सर्ज्जिकाक्षारो मागधी विश्वभेषजम् ॥
पृथक् पृथक् कर्षमात्रं वसुभागमिहोषणम् ।
जम्बीराम्लैर्दिनं घृष्टं भवेदग्निकुमारकः ॥
विशुचीशूलवातादिवह्निमान्द्यप्रशान्तये ॥”
क्षारो यवक्षारः । अग्निकुमारो रसो विशु-
च्याद्यजीर्णे ॥ ७ ॥
“पारदामृतलवङ्गगन्धकं
भागयुग्ममरिचेन मिश्रितम् ।
तत्र जातिफलमर्द्धभागिकं
तिन्तिडीफलरसेन मर्द्दितम् ॥
वह्रिमान्द्यदशवक्त्रनाशनो
रामबाण इति विश्रुतो रसः ।
संग्रहग्रहणिकुम्भकर्णकं
सामवातखरदूषणञ्जयेत् ॥
दीयते तु चणकानुमानतः
सद्य एव जठराग्निदीपनः ।
रोचकः कफकुलान्तकारकः
श्वासकासवमिजन्तुनाशनः ॥” ८ ॥
पारदभागः १ विषभागः १ लवङ्गभागः १
गन्धकभागः १ मरिचभागः २ जातीफलभागः
॥ ० । रामबाणो रसोऽजीर्णे । इति भाव-
प्रकाशः ॥ (विवरणमस्य यथा, --
“अग्निश्चतुर्व्विधः प्रोक्तः समो विषमतीक्ष्णकः ।
मन्दस्तदापरः प्रोक्तः शृणु चिह्रानि साम्प्रतम् ॥
वातपित्तकफे साम्यात् समत्वं जायतेऽनलः ।
तैरेव विषमं प्राप्ते विषमो जायतेऽनलः ॥
तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः ।
वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥”
इति हारीते चिकित्सितस्थाने षष्ठेऽध्याये ॥
“अन्नमण्डं पिबेदुष्णं हिङ्गुसौवर्च्चलान्वितम् ।
विषमोऽपि समस्तेन मन्दो दीप्येत पावकः ॥”
“सिन्धूत्थहिङ्गुत्रिफलायमानी-
व्योषैर्गुडांशैर्गुडिकां प्रकुर्य्यात् ।
तैर्भक्षितैस्तृप्तिमवाप्नुवन्ना
भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥”
इति वैद्यकचक्रपाणिसंग्रहेऽग्निमान्द्याधिकारे ॥
मन्दः अग्निर्यस्येति । अल्पाग्निविशिष्टे, त्रि ।
यथा, मार्कण्डेये । १५ । १३९ ।
“सोऽजीर्णव्याधिदुःखार्त्तो मन्दाग्निः संप्र-
जायते ।
परनिन्दा कृतघ्नत्वं परमर्म्मावघट्टनम् ॥”)

मन्दायुः, [स्] त्रि, (मन्दमल्पमायुर्यस्य ।)

अल्पायुः । यथा, श्रीभागवते । १ । १६ । १० ।
“मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्म्मभिः ॥”

मन्दारः, पुं, (मन्द्यते स्तूयते प्रशस्यते वेति । मदि

+ “अङ्गिमदिमन्दिभ्य आरन् ।” उणा० ३ ।
१३४ । इति आरन् ।) स्वर्गीयपञ्चवृक्षान्त-
र्गतदेवतरुविशेषः । यथा, अमरकोषे । ११ । ५३ ।
“पञ्चैते देवतरवो मन्दारः पारिजातकः ।
पृष्ठ ३/६२४
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥”
(यथा, अभिज्ञानशकुन्तले ७ अङ्के ।
“अन्तर्गतप्रार्थनमन्तिकस्थं
जयन्तमुद्वीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का
मन्दार-माला हरिणा पिनद्धा ॥”)
पारिभद्रवृक्षः । पालिता मादार इति भाषा ।
यथा, अमरकोषे । २ । ४ । २६ ।
“पारिभद्रे निम्बतरुर्म्मन्दारः पारिजातकः ॥”
अर्कवृक्षः । आकन्द इति भाषा । यथा, --
“अर्काह्ववसुकास्फोतगणरूपविकीरणाः ।
मन्दारश्चार्कपर्णेऽत्र शुक्लेऽलर्कप्रतापसौ ॥”
इत्यमरः । २ । ४ । ८१ ॥
हस्तः । धूर्त्तः । इति मेदिनी । रे, १९७ ॥
तीर्थविशेषः । यथा, --
वराह उवाच ।
“शृणु सुन्दरि ! यत्नेन यन्मां त्वं परिपृच्छसि ।
कथयिष्यामि ते गुह्यां मन्दारस्य महाक्रियाम् ॥
क्रीडमानोऽस्म्यहं तत्र दृष्ट्वा मन्दारपुष्पितम् ।
मन्दारपुष्पमादाय मनोज्ञं न्यस्य वै हृदि ॥
तत्रैकादशकुण्डानि निःसृतानि गिरौ धरे ।
बिन्ध्ये च मत्प्रभावेन मन्दारश्च महाद्रुमः ॥
स्थितोऽहं तत्र सुगगे ! भक्तानुग्रहकाम्यया ।
दर्शनीयतमं स्थानं मनोज्ञं तु शिलातलम् ॥
यत्र तिष्ठाम्यहं देवि ! मन्दारद्रुममास्थितः ।
विस्मयं शृणु सुश्रोणि ! मन्दारेऽस्मिन् द्रुमे तथा ॥
द्बादश्याञ्च चतुर्द्दश्यां स पुष्प्यति द्रुमोत्तमः ।
तत्र मध्याह्रवेलायां वीक्ष्यमाणो जनैस्ततः ।
ततोऽन्यदिनमासाद्य दृश्यते न कदाचन ॥
तस्मिन् मन्दारकुण्डे तु एकभक्तोषितो नरः ।
स्नानं करोति शुद्धात्मा स गच्छेत् परमां
गतिम् ॥
अथ प्राणान् प्रमुच्येत कुण्डे मन्दारसंस्थिते ।
तपः कृत्वा वरारोहे ! मम लोकाय गच्छति ॥
तस्य चोत्तरपार्श्वे तु प्रापणं नाम तं गिरिम् ।
तिस्रोधाराः पतन्त्यत्र दक्षिणां दिशमास्थिताः ॥
स्नानकुण्डमिति ख्यातं तस्मिन् क्षेत्रे परं मम ।
दक्षिणे पतते धारा श्रवते चोत्तरामुखम् ॥
तत्र स्नातो वरारोहे ! एकरात्रोषितो नरः ।
मोदते दक्षिणे शृङ्गे तस्मिन् मेरौ शिलोच्चये ॥
तत्राथ मुञ्चते प्राणान् मम कर्म्मपरायणः ।
सर्व्वं सङ्गं परित्यज्य मम लोकं प्रपद्यते ॥
नाकपृष्ठं समासाद्य मोदते दैवतैः सह ।
तथात्र मुञ्चते प्राणान् कृतकृत्यः सुनिश्चितः ।
तारयित्वा कुलं सर्व्वं मम लोकं प्रपद्यते ॥
तस्य दक्षिणपूर्व्वेण समश्रोतो वराङ्गने ! ।
पतते बिन्ध्यशृङ्गेषु अगाधश्च महाह्रदः ॥
तत्र स्रानन्तु यः कुर्य्यादेकभक्तोषितो नरः ।
मोदते पूर्ब्बपार्श्वे तु तस्मिन्मेरौ शिलोच्चये ॥
अथात्र मुञ्चते प्राणान् मम चित्तव्यवस्थितः ।
छित्त्वा यै सर्व्वसंसारं मम लोकाय गच्छति ॥
मन्दारस्य तु पूर्ब्बेण गुह्यं कोटरसंस्थितम् ।
यत्र धारा पतत्येका मुषलेन समन्विता ॥
तत्र स्नानं प्रकुर्व्वीत पञ्चभक्तोषितो नरः ।
मोदते पूर्ब्बपार्श्वे तु तस्मिन् मेरौ शिलोच्चये ॥
तत्राथ मुञ्चते प्राणान् कृत्वा कर्म्म सुदुष्करम् ।
मेरुशृङ्गं समुत्सृज्य मम लोकञ्च गच्छति ॥
तस्य दक्षिणपार्श्वे तु गुह्यं बिन्ध्यविनिःसृतम् ।
पञ्च धाराः पतन्त्यत्र मुषलेन समन्विताः ॥
तत्र स्नानन्तु कुर्व्वीत अहोरात्रोषितो नरः ।
मोदते दक्षिणे शृङ्गे महामेरौ शिलोच्चये ॥
अथात्र मुञ्चते प्राणान् कृत्वा कर्म्म सुदुष्करम् ।
मेरुशृङ्गं परित्यज्य मम लोकं प्रपद्यते ॥
दक्षिणे पश्चिमे भागे मन्दारस्य यशस्विनि ! ।
तत्र धारा पतत्येका आदित्यसमतेजसा ॥
तत्र स्नानन्तु कुर्व्वीत अहोरात्रोषितो नरः ।
मोदते पश्चिमे भागे ध्रुवो यत्र प्रवर्त्तते ॥
अथात्र मुञ्चते प्राणान् मम कर्म्मव्यवस्थितः ।
सर्व्वपापविनिर्मुक्तो मम लोके च मादते ॥
तस्य पश्चिमपार्श्वे तु गुह्यं देवसमन्वितम् ।
चक्रावर्त्त इति ख्यातमगाधश्च महाह्रदः ॥
स्नानं करोति यस्तत्र पञ्चभक्तोषितो नरः ।
मोदते सर्व्वशृङ्गेषु स्वच्छन्दगमनालयः ॥
अथ वै मुञ्चते प्राणान् चक्रावर्त्ते महायशाः ।
शृङ्गान् सर्व्वान् परित्यज्य मोदते मम सन्निधौ ॥
देशं वायव्यमाश्रित्य तस्मिन् बिन्ध्यशिलोच्चये ।
तिस्रो धाराः पतन्त्यत्र मुषलाकृतयः शुभाः ।
तत्र स्नानं प्रकुर्व्वीत मम चित्तव्यवस्थितः ।
मोदते सर्व्वशृङ्गेषु एकचित्तसमाश्रितः ।
तथात्र मुञ्चते प्राणांश्चास्मिन् गुह्ये यशस्विनि ! ।
सर्व्वसङ्गं षरित्यज्य मम लोकाय गच्छति ॥
तस्य त्रिक्रोशमात्रेण दक्षिर्णा दिशमाश्रितः ।
गुह्यं गम्भीरकं नाम अगाधञ्च महाह्रदम् ॥
तत्र स्नानन्तु कुर्व्वीत अष्टभक्तोषितो नरः ।
मोदते सर्व्वद्बीपेषु सर्व्वत्र गमनालयः ॥
अथैवं मुञ्चते प्राणान् मम कर्म्मव्यवस्थितः ।
सर्व्वद्वीपान् परित्यज्य मम लोकं प्रपद्यते ॥
तस्य पश्चिमपार्श्वे तु गुह्यं मे परमं महत् ।
सप्त धाराः पतन्त्यत्र अगाधश्च महाह्रदः ॥
तत्र स्नानन्तु कुर्व्वीत अहोरात्रोषितो नरः ।
मोदते शक्रलोकन्तु स्वच्छन्दगमनालयः ॥
अथ वै मुञ्चते प्राणान् स्वकर्म्मपरिनिष्ठितः ।
सर्व्वसङ्गं परित्यन्य मम लोकं प्रपद्यते ॥
मण्डलं तस्य क्षेत्रस्य कथ्यमानं मया शृणु ।
स्यमन्तपञ्चकञ्चैव मन्दारस्य गिरौ मम ॥
तत्र तिष्ठामि सुश्रोणि ! बिन्ध्यस्य गिरिमूर्द्धनि ।
मन्दारे परमं गुह्यं तस्मिन् गुह्यशिलोच्चये ॥
दक्षिणे संस्थितं चक्रं वामे स्थाने च वै गदा ।
लाङ्गलं मुषलञ्चैव शङ्खं तिष्ठति चाग्रतः ॥
य एतत् शृणुयान्नित्यं गुह्यं मन्दारसंहितम् ।
तव चैव प्रियार्थाय मम भक्तसुखावहम् ॥
एतन्न जानते कश्चिन्मम मायाविमोहितः ।
मुच्य भागवतान् शुद्धान् ये च वाराहसंश्रि-
तान् ॥”
इत्यादि वाराहपुराणे भगवच्छास्त्रे मन्दार-
गुह्यवर्णनं नामाध्यायः ॥

मन्दास्यं, क्ली, (मन्दं आस्यमस्मादिति ।) लज्जा ।

इति शब्दरत्नावली ॥

मन्दिकुकुरः, पुं, मत्स्यविशेषः । इति भूरि-

प्रयोगः ॥ ग्रन्थान्तरे मल्लिकुकुडोऽपि पाठः ॥

मन्दिरं, क्ली, (मन्द्यते सुप्यतेऽत्र मन्द्यते स्तूयते

इति वा । मदि ङ स्वपने स्तुतौ + “इषि
मदिमुदीति ।” उणा० १ । १५२ । इति किरच् ।)
गृहम् । इत्यमरः । २ । २ । ५ ॥ “मन्द्यते
सुप्यतेऽत्र मन्दिरम् । मदि ङ स्वपने जाड्ये मदे
मोदे स्तुतौ गतौ नाम्नीति इरः । नगरं मन्दिरं
पुरमिति पुंनपुंसकयोररुणेन पठ्यते । स्त्रियां
मन्दिरा च प्रयोगश्च मन्दिरायास्त्वरावानिति
मधुमुकुटादयः ।” इति तट्टीकायां भरतः ॥ * ॥
अथ भगवन्मन्दिरनिर्म्माणमाहात्म्यम् ।
“यः कारयेन्मन्दिरं केशवस्य
पुण्याँल्लोकान् स जयेच्छाश्वतान् वै ।
दत्त्वावासान् पुष्पफलाभिपन्नान्
भोगान् भुङ्क्ते कामतः श्लाघनीयान् ॥
आसप्तमं पितृकुलं तथा मातृकुलं नरः ।
तारयेदात्मना सार्द्धं विष्णोर्म्मन्दिरकारकः ॥
इमाश्च पितरो दैत्यगाथा गायन्ति योगिनः ।
पुरतो यदुसिंहस्य ह्यनघस्य तपस्विनः ॥
अपि नः स्वकुले कश्चिद्विष्णुभक्तो भविष्यति ।
हरिमन्दिरकर्त्ता यो भविष्यति शुचिव्रतः ॥”
इति वामने शेषाध्यायः ॥ * ॥
अपि च । अग्निपुराणे ।
“ये ध्यायन्ति सदा बुद्ध्या करिष्यामो हरे-
र्गृहम् ।
तेषां विलीयते पापं पूर्ब्बजन्मशतोद्भवम् ॥”
किञ्च ।
“समतीतं भविष्यञ्च कुलानामयुतं नरः ।
विष्णुलोकं नयत्याशु कारयेद्वा हरेर्गृहम् ॥”
किञ्च ।
“लक्षेणाथ सहस्रेण शतेनार्द्धेन वा हरेः ।
तुल्यं फलं समाख्यातमिहेश्वरदरिद्रयोः ॥”
विष्णुधर्म्मोत्तरे तृतीयकाण्डे ।
“कृत्वा वासगृहं तस्य देवस्य परमेष्ठिनः ।
राजसूयाश्वमेधानां फलेन सह युज्यते ॥
प्रासादे मृण्मये पुण्यं मयैतत् कथितं
द्विजाः ।
तस्माद्दारुमये पुण्यं कृते शतगुणं भवेत् ॥
ततो दशगुणं पुण्यं तथा शैलमये भवेत् ।
ततो दशगुणं लौहे ताम्रे शतगुणं ततः ॥
सहस्रगुणितं रौप्ये तस्मात् फलमपाश्नुते ।
ततः शतसहस्रं वै सौवर्णे द्बिजसत्तमाः ॥
अनन्तं फलमाप्नोति रत्नचित्रे मनोहरे ॥”
स्कान्दे ।
“आरम्भे कृष्णधिष्ण्यस्य सप्तजन्मनि यत् कृतम् ।
पापं विलयमाप्नोति नरकादुद्धरेत् पितॄन् ॥
प्रासादपादे कृष्णस्य यावत्तिष्ठन्ति रेणुकाः ।
पृष्ठ ३/६२५
तावद्वर्षसहस्राणि वसते विष्णुसद्मनि ॥
प्रासादे कृष्णदेवस्य चित्रकर्म्म करोति यः ।
वसते विष्णुलोके तु यावत्तिष्ठन्ति सागराः ॥”
नारसिंहे ।
“यः कुर्य्याच्छोभनं वेश्म नरसिंहस्य भक्तिमान् ।
सर्व्वपापविनिर्म्मुक्तो विष्णुलोकमवाप्नयात् ॥”
हयशीर्षे ।
“देवागारं करोमीति मनसा यस्तु चिन्तयेत् ।
तस्य कायगतं पापं तदह्रा विप्र ! नश्यति ।
कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु ॥
अष्टेष्टकासमायुक्तं यः कुर्य्याद्वैष्णवं गृहम् ।
न तस्य फलसम्पत्तिर्व्वर्क्तुंशक्येत केनचित् ॥
अनेनैवानुमेयन्तु फलं प्रासादविस्तरात् ।
मरणञ्च व्रजेन्मर्त्यो यः कृत्वा प्रथमेष्टकाम् ॥
स समाप्तस्य यज्ञस्य फलं प्राप्नोत्यसं शयम् ॥”
विष्णुरहस्ये ।
“बाल्ये च क्रीडमाना ये पांशुभिर्भवनं हरेः ।
वासुदेवस्य कुर्व्वन्ति तेऽपि तल्लोकगामिनः ॥”
आदिपुराणे ।
“लेपनाच्छदनञ्चैव यः करोति पुनर्नरः ।
देवस्यायतनं कृत्वा न भवेत् कीटजं भयम् ॥”
अथ मन्दिरनिर्म्माणकालः । मात्स्ये ।
“चैत्रे व्याधिमवाप्नोति यो गृहं कारयेन्नरः ।
वैशाखे धनरत्नानि ज्यैष्ठे मृत्यं तथैव च ॥
आषाढे भृत्यरत्नानि पशुवर्णमवाप्नुयात् ।
श्रावणे मित्रलाभन्तु हानिं भाद्रपदे तथा ॥
पत्नीनाशञ्चाश्वयुगे कार्त्तिके धनधान्यकम् ।
मार्गशीर्षे तथा भक्तं पौषे तस्करजं भयम् ।
लाभन्तु बहुशो विद्यादग्निं माघे विनिर्द्दिशेत् ॥
काञ्चनं फाल्गुने पुत्त्रानिति कालबलं स्मृतम् ।
अश्विनी रोहिणी मूलमुत्तरा-त्रयमैन्दवम् ॥
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ।
आदित्यभौमवर्ज्जञ्च सर्व्वे वाराः शुभावहाः ॥
वज्रव्याघातशूलानि व्यतीपातातिगण्डके ।
विष्कम्भगण्डपरिघान् वर्ज्य योगेषु कारयेत् ॥
श्वेतमैत्रे च माहेन्द्रे गान्धर्व्वाभिजिद्रौहिणे ।
तथा वैराजसावित्रे मुहूर्त्ते गृहमारभेत् ॥
चन्द्रादित्यबलं लब्ध्वा लग्नं शुभनिरीक्षितम् ।
स्तम्भोच्छ्रादि प्रकर्त्तव्यमन्यत्र परिवर्ज्जयेत् ॥”
हयशीर्षे ।
“वास्तुकर्म्म न चारभ्यं वर्षाकाले विजानता ।
कृष्णपक्षे त्रिभागान्ते शुक्लपादौ द्वितीयके ॥
चतुर्थी नवमी वर्ज्ज्या तिथिश्चापि चतुर्द्दशी ।
भौमस्य तु दिनं वर्ज्ज्यं करणं विष्टिसंज्ञितम् ॥
क्षित्यन्तरीक्षदिव्योत्थैरुत्पातैर्भयपीडितम् ।
उपस्पृष्टं ग्रहैर्भञ्च व्यतिपातहतं तथा ॥
चन्द्रतारानुकूले च कार्य्यं कर्म्म विजानता ।
ध्रुवाणि चात्र शस्तानि नैरृतं शक्रदैवतम् ॥
पुष्यं पौष्णञ्च सावित्रं वायव्यं वैष्णवं तथा ।
स्थिरांशे च स्थिरे लग्ने कर्त्तुश्चोपचयात्मके ॥
केन्द्रे सौम्यग्रहो यस्य त्रिकोणे तु सुरोत्तम ! ।
पापश्चोपचयस्थाने तदा कार्य्यं समारभेदिति ॥”
अथ प्रासादस्थानम् । हयशीर्षे ।
“पूर्ब्बं देवकुलं पीड्य प्रासादं स्वल्पकन्तथा ।
समं वाप्यधिकं वापि न कर्त्तव्यं विजानता ॥
उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रायसंमि-
ताम् ।
प्रासादं कारयेदन्यं नोभयं पीडयेद्बुधः ॥” * ॥
अथ स्थानशोधनानि । देवीपुराणे ।
“देवो विष्णुस्तथा रुद्रो ब्रह्माद्याः सुरसत्तमाः ।
प्रतिष्ठाप्याः शुभे स्थाने अन्यथा ते भयावहाः ॥
गर्त्तादिलक्षणा धात्री गन्धस्वादेन या भवेत् ।
वर्णेन च सुरश्रेष्ठ ! सा मही सर्व्वकामदा ॥”
मात्स्ये ।
“पूर्ब्बं भूमिं परीक्षेत पश्चात् वास्तुं प्रकल्पयेत् ।
श्वेता रक्ता तथा पीता कृष्णा चैवानुपूर्ब्बशः ॥
विप्रादेः शस्यते भूमिरतः कार्य्यं परीक्षणम् ।
विप्राणां मधुरास्वादा कषाया क्षत्त्रियस्य च ॥
कषाये कटुता तद्वद्वैश्यशूद्रेषु शस्यते ।
अरत्निमात्रे वै गर्त्ते स्वनुलिप्ते च सर्व्वतः ॥
घृतमामशरावस्थं कृत्वा वर्त्तिचतुष्टयम् ।
ज्वालयेद्भूपरीक्षार्थं पूर्णं तत् सर्व्वदिङ्मुखम् ॥
दीप्त्या पूर्ब्बादि गृह्णीयाद्वर्णानामनुपूर्ब्बशः ।
वास्तुः समूहिको नाम दीप्यते सर्व्वतस्तु यः ॥
शुभदः सर्व्ववर्णानां प्रासादेषु गृहेषु च ।
अरत्निमात्रकं गर्त्तं परीक्ष्यं खातपूरणे ॥
अधिके श्रियमाप्नोति न्यूने हानिं समे समम् ।
फालकृष्टेऽथवा देशे सर्व्वबीजानि रोपयेत् ॥
त्रिपञ्चसप्तरात्रेण यत्र रोहन्ति तान्यपि ।
ज्येष्ठा मध्या कनिष्ठा भूर्व्वर्ज्जनीयेतरा सदा ॥”
हयशीर्षे ।
“सुरभीणां रतिर्यत्र सवत्सानां वृषः सह ।
सुन्दरीणां रतिर्यत्र पुरुषैः सह सत्तम ! ॥
राज्ञां पूर्ब्बं गृहं यस्यामग्नीनां यज्विनां तथा ।
काश्मीरचन्दनामोदा कर्पूरागुरुगन्धिनी ॥
कमलोत्पलगन्धा च जातीचम्पकगन्धिनी ।
पाटलामल्लिंकागन्धा नागकेशरगन्धिनी ॥
दधिक्षीराज्यगन्धा च मदिरासवगन्धिनी ।
सुगन्धिब्रीहिगन्धा च शुभद्रव्यस्वना च या ॥
सर्व्वेषां वर्णिनां भूमिः सर्व्वसाधारणा मता ।
दुर्गन्धा दुःस्वना या च नानावर्णा च दुर्भगा ॥
वृत्तार्द्धचन्द्रसदृशा विस्ताराद्द्विगुणायता ।
विवर्णा वर्णहीना च वक्रा शुचिमुखी तथा ॥
द्विवर्णा सूर्पसदृशी गोमुखी च त्रिकोणिका ।
षडस्रा शूलसदृशी दन्तिपृष्ठोपमा च या ॥
सरीसृपसमा या च दिङ्मुखा शकटाकृतिः ।
एवं प्रकारा या भूमिर्व्वर्ज्ज्या यत्नेन देशिकैः ॥”
किञ्च ।
“प्रासादस्य विशेषेण प्रोक्ता भूमिश्चतुर्व्विधा ।
सुपद्मा भद्रिका पूर्णा धूभ्रा रागिण्यथापरा ॥
तिलकैर्नारिकेलैश्च वर्हिःकाशैश्च शोभिता ।
पद्मेन्दीवरसंयुक्ता सा सुपद्मेति विश्रुता ॥
नदीसमुद्रायतनतीर्थपर्य्यन्तशोभिता ।
पुष्पवृक्षसमाकीर्णा क्षीरवृक्षोपशोभिता ॥
वनोद्यानलतागुल्मफुल्लस्तम्बसमावृता ।
यज्ञीयवृक्षसुक्षेत्रयुक्ता भद्रेति कीर्त्तिता ॥
बकुलाशोकबहुला तथा प्लक्षाम्रलोहितैः ।
माधवीवेष्टिता या च मुद्गनिष्पावकोद्रवैः ॥
शूकधान्यैश्च पुन्नागैर्गिरिपार्श्वगता च या ।
तोयञ्च स्वल्पकं यस्यां सा पूर्णा परिकीर्त्तिता ॥
विल्वार्कस्नुहिपीलूनां वनैर्य्या पारतो वृता ।
सशर्करा च कठिना युक्ता कण्टकिभिर्द्रुमैः ॥
गृध्रगोमायुकाकानां श्येनानां या कुलाकुलैः ।
धूम्रेति कीर्त्तिता सा तु तां यत्नात् परिवर्ज्जयेत् ॥
ततो भूमिं परीक्षेत पूर्ब्बोदक्प्लवनां शुभाम् ।
असङ्कटां तथाच्छन्नामल्पतोयां परिप्लुताम् ॥
संपूर्य्यमाणे खाते तु तथाधिकमृदं शुभाम् ।
कुसुम्भसदृशं वर्णं यस्यां न म्लानिमृच्छति ॥
न निर्व्वाति तथा दीपस्तीयं शीघ्रं न जीर्य्यते ।
श्वेतारुणा पीतकृष्णा विप्रादीनां प्रशस्यते ॥
आज्यसद्गन्धमद्यानां तुल्यगन्धा तु या भवेत् ।
मधुरा च कषाया च अम्ला च कटुका च या ॥
कुशैः शरैस्तथा काशैः दूर्व्वाभिर्या च संवृता ।
तस्यां पुण्येऽथ नक्षत्रे कुर्य्याद्भूमिपरिग्रहम् ॥”
अथ भूमिपरिग्रहः । तत्रैव ।
“प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत् ।
मांसं हरिद्राचूर्णञ्च सलाजदधिशक्तवः ॥
एभिर्भूतबलिं दत्त्वा सूत्रमष्टाक्षरेण तु ।
पातयित्वा ततः शङ्कूनष्टदिक्षु निवेशयेत् ॥
राक्षसाश्चापि भूताश्च येऽस्मिंस्तिष्ठन्ति भूतले ।
ते सर्व्वे व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः ॥
इत्यनुज्ञाप्य भूतादीन् तां भूमिं परिशोधयेत् ।
आदित्यादिग्रहाणाञ्च लोकपालैः समं कृती ॥
आर्य्यमिष्टविधानेन ततो वै होममाचरेत् ।
चतुर्होमं ततः कुर्य्यान्मूलमन्त्रेण देशिकः ॥
दद्यात् पूर्णाहुतिं पश्चात् वौषडन्तेन देशिकः ।
वृषभौ कपिलौ गृह्य सवर्णौ वा विचक्षणः ।
योजनार्थं हलञ्चैव गृह्णीयादसनोद्भवम् ॥
प्राङ्मुखं योज्य मन्त्रज्ञो वस्त्रालङ्कारभूषितः ।
आसनीं यष्टिमादाय द्वादशाक्षरविद्यया ॥
संमर्द्देन समीकृत्य शुभबीजानि वापयेत् ।
संप्राप्ते शुभकाले तु गोभिस्तत् खादयेद्बुधः ।
पुनस्तं कर्षयित्वा तु समीकृत्य गृहं गुरुः ॥”
मात्स्ये च ।
“हीनाधिकां गतां वास्तोः सर्व्वतः परिवर्ज्जयेत् ।
नगरग्रामदेशेषु सर्व्वत्रैव विवर्ज्जयेत् ॥” * ॥
अथ दिक्साधनम् । हयशीर्षे ।
“बाह्यवास्तु समं कृत्वा चतुरस्रं समन्ततः ।
भूमिं तोयसमां कृत्वा दर्पणोदरसन्निभाम् ॥
द्वादशाङ्गुलमानेन चाष्टौ वारांस्तु भ्रामयेत् ।
मध्ये सुनिश्चलं शङ्कुं स्थाप्य च्छायां निरी-
क्षयेत् ॥
प्रवेशे निष्क्रमे तस्यां शङ्कुच्छायां निरूपयेत् ।
वैषुवे विमले व्योम्नि शङ्कुना साधयेद्दिशम् ॥
शरद्वसन्तयोरेवमादित्यात् साधयेद्दिशम् ।
प्राचीं वा पुष्पवेधेन विचित्रामन्तरेण वा ॥
पृष्ठ ३/६२६
उदीचीं ध्रुववेधेन मध्ययोगेन चोन्नयेत् ।
चतुरस्रां शिलां गृह्य इष्टकां वा सुशोभनाम् ॥
चतुर्द्दिक्षु निवेश्याथ सूत्रचिह्रन्तु कारयेत् ।
एवं कृत्वा सूत्रचिह्रं ब्राह्मणांस्तत्र भोजयेत् ।
वैष्णवान् पायसेनाग्र्यान् द्वादशैव समाहितः ॥”
अथ शल्योद्धरणम् । मात्स्ये ।
“गृहारम्भेति कण्डूतिः स्वाम्यङ्गे यत्र जायते ।
शल्यन्त्वपनयेत्तत्र प्रासादे भवनेऽथवा ।
सशल्यं भयदं यस्मादशल्यं भयनाशनम् ॥”
हयशीर्षे ।
“आदिशेद्वास्तुनः शल्यं गृहिणोऽङ्गविकारतः ।
शकुनो दृश्यते वापि यस्य वा श्रूयते ध्वनिः ।
कीर्त्त्यते यस्य वै नाम शल्यं तस्य विनिर्द्दिशेत् ॥”
अथ वास्तुमण्डलम् । मात्स्ये ।
“पञ्चगव्यौषधिजलैः परीक्षित्वावसेचयेत् ।
एकाशीतिपदं कुर्य्याद्रेखाभिः कनकेन तु ॥
पश्चाल्लेप्येन चालिप्य सूत्रेणालोड्य सर्व्वतः ।
दश पूर्ब्बायता रेखा दश चैवोत्तरायताः ॥
सर्व्ववास्तुविभागेषु विज्ञेया नवका नव ।
एकाशीतिपदं कृत्वा वास्तुवित् सर्व्ववास्तुषु ॥
पदस्थान् पूजयेद्देवान् त्रिंशत् पञ्चदशैव च ।
द्बात्रिंशद्वाह्यतः पूज्याः पूज्याश्चान्ते त्रयोदश ॥
नामतस्तान् प्रवक्ष्यामि स्थानानि च निबोध
मे ।
ईशकोणादिषु सुरान् पूजयेच्च विधानतः ॥
शिखी चैवाथ पर्ज्जन्यो जयन्तः कुलिशायुधः ।
सूर्य्यः सत्यो भृशश्चैव आकाशो वायुरेव च ॥
पूषा च वितथश्चैव गृहक्षतयमाबुभौ ।
गन्धर्व्वो भृङ्गराजश्च मृगाः पितृगणस्तथा ॥
दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः ।
असुरः शोषपापौ च रोगोऽहिर्मुख्य एव च ॥
भल्लाटः सोमसूर्य्यौ च अदितिश्च दितिस्तथा ।
वहिर्द्वात्रिंशदेते तु तदन्तश्च सुरान् शृणु ॥
ईशानादिश्चतुष्कोणे संस्थितान् पूजयेद्बुधः ।
आपश्चैवाथ सावित्रो जयो रुद्रस्तथैव च ॥
मध्ये नवपदो ब्रह्मा तस्याष्टौ च समीपगाः ।
सर्व्वानेकोत्तरान् विद्यात् पूर्ब्बादीन्नामतः शृणु ॥
अर्य्यमा सविता चैव विवखान् विबुधाधिपः ।
मित्रोऽथ राजयक्ष्मा च तथा पृथ्वीधरः
क्रमात् ॥
अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।
अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ॥
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः ।
आपश्चैवापवत्सश्च पर्ज्जन्योऽग्निर्द्दितिस्तथा ॥
पदिकानाञ्च वर्गोऽयमेवं कोणेष्वशेषतः ।
तन्मध्ये तु वहिर्व्विंशद्द्विपदास्ते तु सर्व्वतः ॥
अर्य्यमा च विवस्वांश्च मित्रः पृथ्वीधरस्तथा ।
ब्रह्मणः परितो दिक्षु त्रिपदास्ते तु सर्व्वतः ॥
वंशानिदानीं वक्ष्यामि रज्जूरपि पृथक् पृथक् ।
वायुं यावत्तथा रोगात् पितृभ्यः शिखिनन्तथा ॥
मुख्याद्भृशं तथा शोषाद्बितथं यावदेव तु ।
सुग्रीवाददितिं यावत् भृङ्गात् पर्ज्ज्यन्यमेव च ॥
एते वंशाः समाख्याताः क्वचिद्रज्जव एव तु ।
एतेषां यस्तु सम्पातः पदमध्यं समं तथा ॥
समं चैतत् समाख्यातं त्रिशूलं कोणगञ्च यत् ।
स्तम्भन्यासेषु वर्ज्यानि तुलाविधिषु सर्व्वदा ॥
कीलोत्सृष्टोपधानादि वर्ज्जयेद्यत्नतो नरः ।
सर्व्वत्र वास्तुनिर्द्दिष्टः पितृवंशोत्तरायतः ॥
मूर्द्धन्यग्निः समाविष्टो मुखे चापः समास्थितः ।
पृथ्वीधरोऽर्य्यमा चैव स्तनयोस्तावधिष्ठितौ ॥
वक्षःस्थले त्वापवत्सः पूजनीयः सदा बुधैः ।
नेत्रयोर्द्दितिपर्ज्जन्यौ श्रोत्रे दितिजयन्तकौ ॥
सर्पेन्द्रा वंशसंस्थौ तु पूजनीयौ प्रयत्नतः ।
सूर्य्यः सोमादयस्तद्वद्बाह्वोः पञ्च च पञ्च च ॥
रुद्रश्च राजयक्ष्मा च वामहस्तं समाश्रितौ ॥
सावित्रः सविता तद्वद्धस्तं दक्षिणमाश्रितौ ।
विवस्वानथ मित्रश्च जठरे संव्यवस्थितौ ।
पूषा च पापयक्ष्मा च हस्तयोर्म्मणिबन्धने ॥
तथैवासुरशोषौ च वामपार्श्वं समाश्रितौ ।
पार्श्वे तु दक्षिणे तद्वद्वितथः सगृहक्षतः ॥
उर्व्वोऽर्य्यमाम्बुपौ ज्ञेयौ जान्वोर्गन्धर्व्वपुष्पकौ ।
जङ्घयोर्मृगसुग्रीवौ स्फिक्स्थौ दौवारिको मृगः ॥
जयः शक्तस्तथा मेढ्रे पादयोः पितरस्तथा ।
मध्ये नवपदो ब्रह्मा हृदये तु स पूज्यते ॥
चतुःषष्टिपदो वास्तु प्रासादे ब्रह्मणः स्मृतः ।
ब्रह्मा चतुष्पदस्तद्वत् कोणेष्वेकपदास्तथा ॥
बहिःकोणेषु चाष्टौ तु सार्द्धाश्चोभयतः स्मृताः ।
विंशतिर्द्विपदास्तेषां चतुःषष्टिपदे स्मृतः ॥” * ॥
हयशीर्षे ।
“वास्त्वङ्गं सूत्रयेत् प्राज्ञः श्वेताम्बरधरः शुचिः ।
श्वेतगन्धानुलिप्ताङ्गः सर्व्वालङ्कारभूषितः ॥
चतुःषष्टि तु प्रासादे एकाशीति गृहे सदा ।
चतुरस्रीकृते क्षेत्रे अष्टधोभयभाजिते ॥
कोणरेखां ततो दत्त्वा सुरभागांस्तु कल्पयेत् ।
शिवः कोणार्द्धतो ज्ञेयः पर्ज्जन्यः पदसंस्थितः ॥
द्विपदस्थो जयो ज्ञेयः सुरेशश्चैकपादिकः ।
भास्करस्तु पदे ज्ञेयो द्विपदः सत्य इष्यते ॥
भृशः पदस्थो विज्ञेयो व्योमश्चैव पदार्द्धगः ।
हुताशनः पदार्द्धश्च पूषा च पदसंस्थितः ॥
वितथो द्विपदस्थश्च पदैकश्च गृहक्षतः ।
वैवस्वतः पदैकस्थो गन्धर्व्वो द्विपदस्थितः ॥
भृङ्गश्चैकपदो ज्ञेयो मृगश्चार्द्धपदे स्थितः ।
पितरश्चार्द्धतो ज्ञेयाः पदे दौवारिकस्तथा ॥
सुग्रीवश्च पदे ज्ञेयो ह्येकस्थः पुष्पदन्तकः ।
यादसाम्पतिरेकस्थो ह्यसुरस्तु हि संस्थितः ॥
शोषश्चैकपदे ज्ञेयो ह्यर्द्धगः पाप इष्यते ।
रोगश्चार्द्धपदे ज्ञेयो नागश्चापि पदे स्थितः ॥
मुख्यश्च द्विपदे ज्ञेयो भल्लाटः पदसंस्थितः ।
यज्ञेश्वरः पदे ज्ञयो नागस्तु द्बिपदे स्थितः ।
पदस्था श्रीमहादेवी अदितिश्चार्द्धसंस्थिता ।
आपो ज्ञेयास्तु पदगा बली द्विपदसंस्थितः ॥
चतुष्पदस्थो विज्ञेयस्त्वर्य्यमा पूर्ब्बमध्यगः ।
सविता तु पदे ज्ञेयः सावित्री च पदे स्थिता ॥
ततो विवस्वान् विज्ञेयश्चतुष्टयपदे स्थितः ।
इन्द्रश्चन्द्रो जयश्चैव एकैके संव्यवस्थिताः ॥
मित्रश्चतुष्पदस्थश्च पश्चिमे तु व्यवस्थितः ॥
रुद्रः पदैकसंस्थो वै यक्ष्मा वैकपदे स्थितः ।
धराधरश्च विज्ञेयो ह्युत्तरे च चतुष्पदः ।
चतुर्मुखश्चतुष्कस्थो मध्ये ज्ञेयः प्रजापतिः ॥”
अथ वास्तुपूजा । मात्स्ये ।
“अथातः संप्रवक्ष्यामि प्रासादविधिनिर्णयम् ।
वास्तौ परीक्षिते सम्यग्वास्तुदेहविचक्षणाः ॥
वास्तूपशमन कुर्य्यात् पूर्ब्बमेव विचक्षणः ।
एकाशीतिपदं लिख्य वास्तुमध्ये तु पिष्टकैः ॥
होमस्त्रिमेखले कार्य्यः कुण्डे हस्तप्रमाणके ।
यवैः कृष्णतिलैस्तद्वत् समिद्भिः क्षीरवृक्षजैः ॥
पालाशैः खादिरैर्व्वापि मार्गोडम्बरसम्भवैः ।
कुशदूर्व्वामयैर्व्वापि मधुसर्पिःसमन्वितैः ॥
कार्य्यस्तु पञ्चभिर्व्विल्वैर्व्विल्वबीजैरथापि वा ।
होमान्ते भक्ष्यभोज्यैश्च वास्तुदेशे बलिं हरेत् ॥
तद्बद्बिशेषनैवेद्यमिदं दद्यात् क्रमेण तु ।
ईशकोणे घृतान्नन्तु शिखिने विनिवेदयेत् ॥
ओदनं सफलं दद्यात् पर्ज्जन्याय घृतान्वितम् ।
जयन्ताय ध्वजं पीतं पैष्टं कूर्म्मञ्च संत्यजेत् ॥
इन्द्राय पञ्च रत्नानि पैष्टकं कुलिशं तथा ।
वितानकञ्च सूर्य्याय धूम्रं रक्तं तथैव च ॥
सत्याय घृतगोधूमं मत्स्यान् दद्याद्भृशाय च ।
शष्कुलीं चान्तरीक्षाय दद्याच्छक्तुञ्च वायवे ॥
पूष्णे लाजास्तु दातव्या वितथे चणकोदनम् ।
गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥
गन्धौदनञ्च गन्धर्व्वे भृङ्गे मेषस्य शृङ्गकम् ।
मृगाय यावकं दद्यात् पितृभ्यः कृशरा मताः ॥
दौवारिके दन्तकाष्ठं पैष्टं कृष्णं बलिं तथा ।
सुग्रीवे पूपकं दद्यात् पुष्पदन्ताय पायसम् ॥
कुशस्तम्बेन सहितं दद्यात् पद्मञ्च वारुणे ।
पैष्टं हिरण्मयं दद्यादसुराय सुरा मता ॥
घृतौदनं च शोषाय गोधां वै पापयक्ष्मणे ।
घृतलड्डुकांश्च रोगाय नागे पुष्पं फलान्वि-
तम् ॥
सर्पिर्मुख्याय दातव्यं मुद्गौदनमतः परम् ।
भल्लाटाय ततो दद्यात् सोमाय घृतपायसम् ॥
सर्पाय पैष्टं शालूकमदित्यै लोपिकास्तथा ।
दित्यै तु पूरिकां दद्यात् इत्येवं बाह्यतो बलिम् ॥
क्षीरमापाय दातव्यमापवत्साय वै दधि ।
सवित्रे लड्डुकान् दद्यात् समरीचान् कुशौ-
दनम् ।
सवितुर्गुडपूपांश्च जयाय घृतचन्दनम् ।
विवस्वते तथा दद्यात् रक्तचन्दनपायसम् ॥
हरितालौदनं दद्यादिन्द्राय घृतसंयुतम् ।
घृतौदनञ्च मित्राय रुद्राय घृतपायसम् ॥
आमं पक्वं तथा मांसं देयं स्याद्राजयक्ष्मणे ।
पृथ्वीधराय मांसानि कुष्माण्डाय च दापयेत् ॥
सशर्करान्नं संदद्यादर्य्यम्ने सर्व्वतः क्रमात् ।
नमस्कारान्तयुक्तेन मन्त्रेण पुनरेव च ॥
पञ्चगव्यं यवांश्चैव तिलाक्षतहविश्चरून् ।
भक्ष्यं भोज्यञ्च विविधं ब्रह्मणे विनिवेदयेत् ॥
पृष्ठ ३/६२७
एवं सम्पूजिता देवाः शान्तिं कुर्व्वन्ति ते सदा ।
सुरेभ्यः काञ्चनं दद्याद्ब्रह्मणे गां पयस्विनीम् ॥
राक्षसीनां बलिर्द्देयः अपि यादृक् तथा शृणु ।
मांसौदनं घृतं पद्मं केशरं हविषान्वितम् ।
ईशानभागमाश्रित्य चरक्यै विनिवेदयेत् ॥
दध्योदनं सरुधिरमस्थिखण्डैश्च संयुतम् ।
पीतरक्तबलिं दद्यात् पूतना या तु राक्षसी ॥
वायव्ये पापराक्षस्यै मत्स्यमांससुरासवम् ।
पायसं वापि दातव्यं स्वनाम्ना सर्व्वतः क्रमात् ।
नमस्कारान्तयुक्तेन प्रणवाद्येन सर्व्वतः ॥” * ॥
ततः सर्व्वौषधिस्नानं यजमानस्य कारयेत् ।
द्विजांस्तु पूजयेद्भक्त्या ये चान्ये गृहमागताः ॥
एतद्बास्तपशमनं कृत्वा कर्म्म समारभेत् ।
प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ॥
परवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ।
इति वास्तूपशमनं कृत्वा सूत्रेण वेष्टयेत् ॥
रक्षोघ्नपवमानेन सूत्रेण भवनादिकम् ।
नृत्यमङ्गलवाद्येन कुर्य्याद्ब्राह्मणवाचनम् ॥
अनेन विधिना यस्तु प्रतिसंवत्सरं बुधः ।
गृहे वायतने कुर्य्यान्न स दुःखमवाप्नुयात् ॥
न च व्याधिभयं तस्य न च बन्धुधनक्षयः ।
जीवेद्वर्षशतं स्वर्गे कल्पमेकं वसेन्नरः ॥” * ॥
हयशीर्षपञ्चरात्रे ।
“एवं प्रगृह्य काष्ठानि रजसापूर्य्य देशिकः ।
एतेषामेव देवानां बलिं दद्यात्तु कामिकम् ॥
ईशानाय प्रदातव्यं पायसं मधुना सह ।
पर्ज्जन्याय जलं देयं पुष्पगन्धादिवासितम् ॥
जयन्ताय प्रदातव्या पताका पीतवर्णिका ।
सुरेशाय च रत्नानि भाष्कराय घृतं तथा ॥
धूम्रकं पीतवर्णं वा सत्ये दद्याद्वितानकम् ।
दद्याद्भृशे पक्षिमांसं व्योमाय त्वचमग्नये ॥
पूष्णे धानाः सलाजास्तु सुवर्णं वितथे तथा ।
गृहक्षताय मध्वन्नं यमाय पिशितौदनम् ॥
गन्धं गन्धर्व्वदेवाय भृङ्गे दद्यात्तु शाकुनम् ।
मृगे तिलयवांश्चैव पितृभ्यः कृशरं तथा ॥
दौवारिके दन्तकाष्ठं सुग्रीवे यावकं तथा ।
पुष्पदन्ते कुशा देया वरुणे पद्ममुत्पलम् ॥
असुरायैक्षवं देयं रसं शोषे घृतौदनम् ।
यवास्तु देयाः पापाय रोगाय घृतमण्डकम् ॥
नागाय नागपुष्पाणि भक्ष्यान् मुख्याय दापयेत् ।
चित्रौदनञ्च भल्लाटे सोमाय मधुपायसम् ॥
नागाय चापि शालूकं श्रिये सरसपायसम् ।
अदित्यै पूरिका देया क्षीरं चाद्भ्यो ददेद्वलिम् ॥
दधि क्षीरं चापवल्ल्यै अर्य्यम्ने लड्डुकं बलिम् ।
कुशोदकं सवित्रे च सावित्र्यै गुडपूर्ब्बकम् ॥
विवस्वते रक्तपुष्पं रक्तचन्दनमेव च ।
हरिद्रान्नं तथेन्द्राय साज्यामन्तु जयाय च ॥
घृतपूरन्तु मित्राय रुद्राय गुडपायसम् ।
आमपक्वानि मांसानि प्रदद्याद्राजयक्ष्मणे ॥
पृथ्वीधरायाममांसं खड्गिमांसं बलिं हरेत् ।
साक्षतं सलिलञ्चैव पञ्चगव्यं तथा चरुम् ॥
कुशान् गन्धं तथा पुष्पं ब्रह्मस्थाने निवेशयेत् ।
आममांसं पूर्ब्बभागे सर्व्वस्कन्धे तुषोदकम् ॥
सितपद्मं घृतं मांसं विदार्य्यै चाग्निकोणके ।
कुशं वा पूपकं मांसमर्य्यम्णयेव दक्षिणे ॥
पिण्डञ्चैव तथा रक्तं पूतन्यै नैरृते तथा ।
सासृङ्मांसं प्रदातव्यं जृम्भकायैव पश्चिमे ॥
अग्निखण्डेन सहितं रक्तपिण्डेन मिश्रितम् ।
प्रदेयं पापराक्षस्यै वायव्यां मांसमेव च ॥
उत्तरे पिलिपिच्छायै सान्द्रं रक्तं बलिं हरेत् ।
वाराह्यै छागमांसानि ऐशान्यां दिशि दापयेत् ॥
ततो भूतगणानान्तु राक्षसानां सुरोत्तम ! ।
पिशाचानां गणानान्तु बलिर्देयस्तु कामिकः ॥
एतान् वा पूजयेत् सर्व्वान् कुशपुष्पाक्षतैर्बुधः ।
एवं संपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् ॥
अपूजिता विहिंसन्ति कारकं स्थापकं तथा ।
तस्मादेतांस्तु संपूज्य गन्धपुष्पैर्मनोहरैः ।
प्रासादं कारयेद्विद्वान् गृहं वा सुरसत्तम ! ॥”
अथ प्रासादमूलारम्भः । तत्रैव ।
“ब्रह्मस्थाने ततः कुर्य्याद्वासुदेवस्य पूजनम् ।
श्रियः संपूजनं कुर्य्यात् हृषीकेशगणस्य च ॥
पूजनन्तु ततः कुर्य्याद्वासुदेवगणस्य च ।
गन्धाढ्यपुष्पनैवेद्यधूपदीपैः सुरोत्तम ! ॥
ततः संपूजयेत्तस्मिन् सर्व्वलोकधरां महीम् ।
सुरूपां प्रमदारूपां विद्याभरणभूषिताम् ॥
ध्यात्वा समर्च्चयेद्देवीं परितुष्टां स्मिताननाम् ।
ततः प्रणम्य विज्ञाप्य तन्मयत्वेन चिन्तयेत् ॥
ततः स्वनाममन्त्रेण सर्व्वदेवमयं परम् ।
ध्यात्वा समर्च्चयेत्तत्र यत्तद्वास्तुमयं नरः ॥
ब्रह्मस्थाने ततो विद्वान् कुर्य्यादाधारमक्षतैः ।
तस्मिन् संस्थापयेत् कुम्भं वर्द्धन्या सह पूजि-
तम् ॥
हेमं वा राजतं वापि मृण्मयं वा दृढं नवम् ।
सर्व्ववीजौषधीयुक्तं सुवर्णरजतान्वितम् ॥
रत्नगर्भं सुसंपूर्णं वस्त्रपूतेन वारिणा ।
प्रशस्तपल्लवोपेतं श्वेतचन्दनचर्च्चितम् ॥
पुष्पैः सुमालितं कृत्वा गन्धपुष्पैर्व्विधूपितम् ।
आहतेन च शुक्लेन वस्त्रयुग्मेन वेष्टितम् ॥
ब्रह्मस्थाने ततो मन्त्री कलसं स्थाप्य पूजयेत् ।
तस्मिंश्चतुर्मुखं देवं प्रजेशं मन्त्रविग्रहम् ॥
गन्धपुष्पैश्च नैवेद्यैः पूजयेत् सुमनोहरैः ।
ततो मण्डलबाह्ये तु प्राच्यां वा प्राङ्मुख-
स्थितः ॥
आचार्य्यो गृह्य संभारान् ग्रहादींस्तर्पयेत्
सुरान् ।
घृतैस्तैलैर्यवैर्म्मन्त्रैर्ब्रह्मादींस्तर्पयेत्ततः ॥
प्रजेशं तर्पयेद्विद्वानाहुतीनां शतेन च ।
इतरान् दशभिर्द्देवानाहुतिभिः प्रतर्पयेत् ॥
दद्यात् पूर्णाहुतिं पश्चात् वौषडन्तेन मन्त्रवित् ।
तत्र प्रणम्य विज्ञाप्य कृत्वा वै स्वस्तिवाचनम् ॥
प्रगृह्य कर्करीं सम्यङ्मण्डलन्तु प्रदक्षिणम् ।
सूत्रमार्गेण दिव्येन तोयधारान्तु भ्रामयेत् ॥
पूर्ब्बवत्तेन मार्गेण सूत्रबीजानि भ्रामयेत् ।
सुशोभनं शुभं स्थानं तथा खातस्य कारयेत् ॥
ततो गर्त्तं खनेन्मध्ये हस्तमात्रप्रमाणकम् ।
चतुरङ्गुलमात्रं तदधः खन्यात् सुसम्मितम् ॥
गोमयेनोपलिप्याथ चन्दनेन च भूषयेत् ।
मध्ये दत्त्वा तु पुष्पाणि शुक्लान्यक्षतमेव च ॥
आचार्य्यः प्राङ्मुखो भूत्वा ध्यायेद्देवं चतु-
र्भुजम् ।
तूर्य्यमङ्गलघोषेण ब्रह्मघोषरवेण च ॥
अर्घ्यं दद्यात् सुरश्रेष्ठ ! कुम्भतोयेन मन्त्रवित् ।
प्रगृह्य कर्क्करीं तावच्छ्वभ्रं प्रपूरयेज्जलैः ॥
सर्व्वरत्नसमाकीर्णैर्व्विमलैः सुसुगन्धिभिः ।
तस्मिन् शुक्लानि पुष्पाणि प्रक्षिपेदोमिति
स्मरन् ॥
तदावर्त्तं परीक्षेत वेदाद्येनाक्षतं क्षिपेत् ।
शुभं स्याद्दक्षिणावर्त्तेऽशुभं वामे भवेत्ततः ॥
बीजैः शालियवादीनां तं गर्त्तं पूरयेद्बुधः ।
क्षत्त्रजाभिः पवित्राभिर्मृद्भिर्गर्त्तं प्रपूरयेत् ॥
एवं पुष्पाद्यविधिना चार्घ्यदानं सुरोत्तम ! ।
सुवर्णं गां वस्त्रयुगमाचार्य्याय निवेदयेत् ॥
कालज्ञस्थपती पूज्यौ वैष्णवान् शक्तितोऽर्च्चयेत् ।
ब्राह्मणान् भोजयित्वा च गेयनृत्यादि कारयेत् ॥
ततस्तं खातयेद्यत्नाज्जलान्तं याषदेव तु ।
पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत् ॥
प्रासादे दोषदं शल्यं भवेद्यावज्जलान्तिकम् ।
तस्मात् प्रासादिकी भूमिः शोध्या यावज्जला-
न्तिकम् ॥
शिवान्तं कर्क्करान्तं वा यावद्वा भूः कुमारिका ।
आकोट्यतां समीकृत्य ततो योगं समाचरेत् ॥”
किञ्च ।
“पूरयेत् खातकं यत्नात् पादं पादं यथाक्रम् ।
आष्टाङ्गुलं मृत्तिकया स्वस्तिकं चेष्टिकादिभिः ॥
सिक्त्वा सिक्त्वा तु तोयेन कलसैः काञ्चनादिभिः ।
आकोटनं ततः कुर्य्यात् मुद्गरैर्ब्रह्मवृक्षजैः ॥
पादोनं पूरयेत् खातं सुषमं चैव कारयेत् ।
देशिकः पञ्चगव्येन तां भूमिं प्रोक्षयेद्बुधः ॥
सुवर्णब्रीहिगर्भेण चूतपल्लवशोभिना ।
तीर्थतोयसुपूर्णेन स्वर्णताम्रमयेण वा ॥
सेचयेदभिजप्तेन वारिणा कलसेन तु ।
ततः शुद्वा भवेद्भूमिर्दोषयुक्तापि या भवेत् ॥”
अथ शिलालक्षणं मात्स्ये ।
“आदावेवं समासेन शिलालक्षणमुत्तमम् ।
शिलान्यासविधानञ्च प्रोच्यते तदनन्तरम् ।
शिला वाथेष्टका वापि चतस्रो लक्षणान्विताः ।
प्रासादादौ विधानेन न्यस्तव्याः सुमनोहराः ॥
चतुरस्राः समाः कृत्वा समन्तादथ वेष्टकाः ।
शिलारूपाः स्मृता विद्या नन्दाद्याश्चेष्टका-
त्मिकाः ॥
संपूर्णाः सुतलाः स्निग्धाः सुषमा लक्षणा-
न्विताः ।
कुशदूर्व्वाङ्किता धन्याः सध्वजच्छत्रचामराः ॥
साङ्कुशास्तोरणोपेताः कूर्म्ममत्स्यफलान्विताः ।
दर्पणा हस्तिवज्राङ्काः प्रशस्तद्रव्यलाञ्छिताः ॥
शस्तपक्षिमृगाङ्काश्च वृषाङ्काः सर्व्वदा हिताः ।
पृष्ठ ३/६२८
स्वस्तिका वेदिका शुक्ला नन्द्यावर्त्तकलाञ्छिताः ॥
पद्मादिलक्षणोपेताः शिलाः सर्व्वार्थसिद्धिदाः ।
तथा गोवाजिपादाङ्काः शिला धन्याः सुखा-
वहाः ॥
क्रव्यादमृगपादाङ्का न शस्ताः पक्षिणस्तथा ।
दिङ्मूढा दिग्विहीनाश्च दीर्घह्रस्वाः क्षता-
न्विताः ॥
विवर्णाः स्फुटिता भग्नाः संत्याज्या लक्षणच्युताः ।
प्रशस्तपाणिरूपाङ्काः प्रशस्तद्रव्यलाञ्छिताः ॥
यथोक्तलक्षणोपेताः शिला नित्यहितावहाः ॥”
अथ इष्टकालक्षणम् । तत्रैव ।
“इष्टकानां समासेन लक्षणं शृणु सांप्रतम् ।
एकवर्णाः सुपक्वाश्च सुप्रमाणा मनोरमाः ॥
नन्दाद्याश्चेष्टकाः कार्य्याश्चतुरस्राः सुसंमिताः ।
अस्थ्यङ्गारान्विता नेष्टाः कृष्णवर्णाः सशर्कराः ॥
मन्दपक्वा विपक्वाश्च वहुदिन्याश्च वर्ज्जिताः ।
भग्नाश्च विषमा हीना वर्ज्जनीयाः प्रयत्नतः ॥”
हयशीर्षपञ्चरात्रे ।
“इष्टकानां प्रमाणञ्च लक्षणं सांप्रतं शृणु ।
सुतला लक्षणोपेता द्वादश्यङ्गुलसम्मिताः ॥
सुविस्तारविभागेन नैपुण्येन च सम्मिताः ।
सुपक्वाः सुप्रमाणास्ता एकवर्णा मनोहराः ।
विमला इष्टकाः कार्य्याश्चतुरस्राः सुसम्मिताः ।
छिन्नकर्णाश्चाप्रशस्ताः पाणिपादविवर्ज्जिताः ॥
सशर्कराः कृष्णवर्णा अस्थ्यङ्गारचिताश्च याः ।
विवर्णा मन्दगन्धाश्च याः पीनाः पिण्डिकाश्च
याः ॥
हीनाश्च विषमा भग्ना जर्ज्जराश्च विवर्ज्जिताः ॥”
अथ शिलादिन्यासव्यवस्था । मात्स्ये ।
“शिलान्यासस्तु कर्त्तव्यः प्रासादे तु शिलामये ।
इष्टकानान्तु विन्यासः प्रासादे चेष्टकामये ॥
शैलजे शैलजः पीठ ऐष्टिके ऐष्टिकः स्मृतः ।
शिलान्यासादिको भद्रे मूलपादो विधीयते ॥”
हयशीर्षपञ्चरात्रे ।
“कर्त्तव्यश्चेष्टकान्यासः प्रासादे चेष्टकामये ।
शैले शिलानां विन्यासः कार्करे कर्करा न्यसेत् ॥
कृत्वा शिलादिन्यासे च प्राक्शिलाभ्यधिवा-
सनम् ।
इष्टकानां प्रतिष्ठाञ्च गर्भाधानञ्च कारयेत् ॥
गुरवे दक्षिणां दत्त्वा पीठबन्धञ्च साधयेत् ।
स्वयं श्रीहयशीर्षेण प्रोक्तस्तत्तद्विधिः स्फुटम् ॥”
अथ पीठबन्धनम् । हयशीर्षे ।
“पीठबन्धं ततः कुर्य्यान्महाप्रासादमानतः ।
पीठोत्तमं चोच्छ्रयेण प्रासादस्योर्द्ध्वमानतः ॥
यादहीनं मध्यमं स्यात् कन्यसं चार्द्धमानतः ।
उत्तमं वासुदेवस्य कुर्य्यात् पीठं विचक्षणः ॥
अथ प्रासादलक्षणानि । मातृस्ये ।
एवं वास्तुबलिं कृत्वा भजेत् षोडशभागिकम् ।
तस्य मध्ये चतुर्भिस्तु भागैर्गर्भञ्च कारयेत् ॥
भागद्वादशकं तत्र भित्त्यर्थं परिकल्पयेत् ।
चतुर्भागेन भित्तीनामुच्छ्रायः स्यात् प्रमा-
णतः ॥
द्विगुणः शिखरोच्छ्रायो भित्त्युच्छ्रायात् प्रमा-
णतः ।
शिखरार्द्धस्य चार्द्धेन विधेया तु प्रदक्षिणा ॥
चतुर्दिक्षु तदा ज्ञेयो निर्गमस्तु तथा बुधैः ।
गर्भसूत्रद्वयं भागो विस्तारो मण्डपस्य तु ॥
आयतः स्यात्त्रिभिर्भागैर्भद्रयुक्तः सुशोभनः ।
पञ्चभागेन संभज्य गर्भमानं विचक्षणः ॥
भागमेकं गृहीत्वा तु प्राग्ग्रीवं कल्पयेद्बुधः ।
गर्भसूत्रसमो भागादग्रतो मुखमण्डपः ।
एतत् सामान्यमुद्दिष्टं प्रासादस्येह लक्षणम् ॥
किञ्च ।
मेरुमन्दरकैलासकुम्भसिंहमृगास्तथा ।
विमानच्छन्दकस्तद्वच्छ्रीवृक्षोऽथ मृगाधिपः ॥
बलभिच्छन्दकस्तद्बद्बर्त्तुलः सर्व्वभद्रकः ।
गजश्च नन्दनश्चैव नन्दिवर्द्धन एव च ॥
हंसो वृषः सुपर्णश्च पद्मकोऽथ समुद्गकः ।
प्रासादा नामतः प्रोक्ता विभागं शृणुत द्विजाः ॥
शतशृङ्गश्चतुर्द्वारो भूमिकाषोडशोच्छ्रितः ।
नानाविचित्रशिखरो मेरुप्रासाद उच्यते ॥
मन्दरो द्वादशः प्रोक्तः कैलासो दशभूमिकः ।
विमानच्छन्दकस्तद्बदनेकशिखराननः ॥
स चाष्टभूमिकस्तद्वत् सप्तभिर्नन्दिवर्द्धनः ।
विंशाण्डकसमायुक्तो नन्दनः समुदाहृतः ॥
षोडशाण्डकसंयुक्तो नानारूपसमन्वितः ।
अनेकशिखरस्तद्बत् सर्व्वतोभद्र उच्यते ॥
चन्द्रशालसमोपेतो विज्ञेयः पञ्चभूमिकः ।
बलभिच्छन्दकस्तद्वच्छुकनासात्रयान्वितः ॥
वृषस्योच्छ्रयतस्तुल्यो मण्डलश्चास्रिवर्ज्जितः ।
सिंहः सिंहगतिर्ज्ञेयो मृगो मृगसमस्तथा ॥
कुम्भः कुम्भाकृतिस्तद्वद्भूमिकानवकोच्छ्रयः ।
अङ्गुलीपुटसंस्थानपञ्चाण्डकविभूषितः ॥
षोडशास्रः समन्तात्तु विज्ञेयः स समुद्गकः ।
पार्श्वयोश्चन्द्रशालस्य उच्छ्रायो भूमिकाद्वयम् ॥
षोडशास्रः स विज्ञेयो विचित्रशिखरः शुभः ।
मृगराजस्तु विख्यातश्चन्द्रशालाविभूषितः ॥
प्राग्ग्रीवेण विशालेन भूमिकासु षडुन्नतः ।
अनेकचन्द्रशालस्तु गजः प्रासाद उच्यते ॥
पर्य्यन्तगृहराजो वै गरुडो नाम नामतः ।
सप्तभूम्युच्छ्रयस्तद्बच्चन्द्रशालात्रयान्वितः ॥
भूमिकाषडशीतिस्तु वाह्यतः सर्व्वतो भवेत् ।
तथान्यो गरुडस्तद्वदुच्छ्रायाद्दशभूमिकः ॥
पद्मकः षोडशास्रस्तु भूमिद्वयसमन्वितः ।
पद्मतुल्यप्रमाणेन श्रीवृक्षक इति स्मृतः ॥
पञ्चाण्डकस्त्रिभूमिस्तु गर्भे हस्तचतुष्टयम् ।
वृषो भवति नाम्ना यः प्रासादः सर्व्वकामिकः ॥
सप्ताष्टौ पञ्चकाश्चैव प्रासादा ये मयोदिताः ।
सिंहस्य ते समा ज्ञेया ये चान्ये तत्प्रमाणतः ॥
चन्द्रशालैः समोपेताः सर्व्वे प्राग्ग्रीवसंयुताः ।
ऐष्टका दारवाश्चैव शैला वा स्युः सुतोरणाः ॥
मेरुः पञ्चाशद्धस्तः स्यात् मन्दरः पञ्चहीनकः ।
चत्वारिंशत्तु कैलासश्चतुस्त्रिंशद्विमानकः ॥
नन्दिवर्द्धनकस्तद्वद्द्वात्रिंशत् समुदाहृतः ।
त्रिंशता नन्दनः प्रोक्तः सर्व्वतोभद्रकस्तथा ॥
वर्त्तुलः पद्मकश्चैव त्रिंशद्धस्त उदाहृतः ।
मृगः सिंहश्च कुम्भश्च बलभिच्छन्दकस्तथा ॥
एते षोडशहस्ताः स्युश्चत्वारो देववल्लभाः ।
श्रीवृक्षो मृगराजश्च समुद्गकगजौ तथा ॥
एते द्वादशहस्ताः स्युरेतेषां हंसकः समः ।
गरुडोऽष्टकरो ज्ञेयो वृषो दश उदाहृतः ॥
एवमेते प्रमाणेन कर्त्तव्याः शुभलक्षणाः ।
यक्षराक्षसनागानां मातृहस्तः प्रशस्यते ॥
तथा मेर्व्वादयः सप्त ज्येष्ठलिङ्गे सुखावहाः ।
श्रीवृक्षकादयश्चाष्टौ मध्यमस्य उदाहृताः ॥
तथा हंसादयः पञ्च कन्यसे सुभदा मताः ॥”
हयशीर्षपञ्चरात्रे ।
“प्रासादं संप्रवक्ष्यामि सर्व्वसाधारणं शृणु ।
चतुरस्रीकृतं क्षेत्रं भवेत् षोडशधा पुनः ॥
मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम् ।
द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत् ॥
जङ्घोच्छ्रायन्तु कुर्व्वीत चतुर्भागेन चायतम् ।
जङ्घयोर्द्विगुणोच्छ्रायं मञ्जर्य्याः कल्पयेद्बुधः ॥
चतुर्भागेन मञ्जर्य्याः कार्य्या सम्यक् प्रदक्षिणा ।
तन्मानं निर्गमं कार्य्यमुभयोः पार्श्वयोः समम् ॥
शिखरेण समं कार्य्यमग्रे जगति विस्तरम् ।
त्रिगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः ॥
विस्तरं मण्डपस्याग्रे गर्भसूत्रद्वयेन तु ।
दैर्व्यात् पादाधिकं कुर्य्यान्मध्ये स्तम्भैर्व्विभूषि-
तम् ॥
प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम् ।
एकाशीतिपदैर्वास्तुं यष्ट्वा मण्डपमारभेत् ॥
शुकाढ्यद्वारि विन्यासे पादान्तस्थान् यजेत्
सुरान् ।
तथा प्राकारविन्यासे यजेद्द्वात्रिंशदन्तगान् ॥
सर्व्वसाधारणञ्चैतत् प्रासादस्य तु लक्षणम् ।
मानेन प्रतिमाया वा प्रासादमपरं शृणु ॥
प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा ।
गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः ॥
भित्तेरायाममानेन उच्छ्रायन्तु प्रकल्पयेत् ।
भित्त्युच्छ्रायात्तद्द्विगुणं शिखरं कल्पयेद्गुरु ! ।
शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत् ॥
शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम् ।
अष्टकांशेन गर्भस्य रथकानान्तु निर्गमः ॥
परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ।
तत्तृतीयेन वा कुर्य्याद्रथकानान्तु निर्गमम् ॥
वासत्रयं स्थापनीयं रथकत्रितये सदा ।
शिखरार्थञ्च सूत्राणि रत्नानि विनिपातयेत् ॥
शिखरस्यार्द्धभागस्थं सिंहं तत्र च कारयेत् ।
शुकनासां स्थिरीकृत्य मध्यसन्धौ विवर्ज्जयेत् ।
अपरे च तथा पार्श्वे तद्वत् सूत्रं निधापयेत् ॥
तदर्द्धन्तु भवेंदंशः कण्ठे श्यामलसारवान् ।
स्कन्धभग्नन्तु कर्त्तव्यं विकरालं तथैव च ।
ऊर्द्धन्तु वेदिकामानात् कलसं परिकल्पयेत् ॥”
किञ्च ।
“गरुत्मन्तं तथा कुर्य्यादुपरिष्टाच्चतुर्गुणम्
पृष्ठ ३/६२९
कुर्य्याद्दिक्प्रतिमायामान् दिक्षु चाष्टासु
चोपरि ॥
महावराहमैन्द्र्यान्तु नरसिंहन्तु दक्षिणे ।
प्रतीच्यां श्रीधरं देवमुदीच्यां हयशीर्षकम् ॥
आग्नेय्यां यामदग्न्यञ्च नैरृते राममेव च ।
वामनञ्चैव वायव्यां वासुदेवमथापरे ॥” * ॥
किञ्च ।
“पूर्ब्बभूमौ तु शयनं द्वितीये चासनं भवेत् ।
स्थानमेव तृतीये तु चतुर्थे यानमेव च ॥
पञ्चमे योगनिद्रा तु षष्ठे योगासनं भवेत् ।
स्थानं योगसमायुक्तं सप्तमे परिकल्पयेत् ॥
नानागवाक्षकैर्यत्नात् पत्रवल्ल्यादिभूषितम् ।
नानाप्रकारपुष्पाद्यैर्यथाशोभं प्रकल्पयेत् ॥
कनिष्ठमध्यज्येष्ठानां प्रासादानां यथाक्रमम् ।
वसुभागा च ऋत्विग्भिः प्रदेया रचना बुधैः ॥
द्वारस्य चाष्टमे युक्ते नवमे दशमे तथा ।
ललाटवेधो नैवं स्यादायस्य शृणु साम्प्रतम् ॥
यावद्धस्तैरभिप्रेतः प्रासादकर्त्तृणानघ ! ।
तावद्भिरङ्गुलैरायो वसुभागेन वा भवेत् ॥
एकस्तम्भो ध्वजो ज्ञेयो द्विस्तम्भा वेदिका मता ।
दशभूम्यन्तरे नित्यं चतुस्तम्भं प्रकल्पयेत् ॥” * ॥
अथ मण्डपलक्षणविशेषः । मात्स्ये ।
“अथातः सम्प्रवक्ष्यामि मण्डपानान्तु लक्षणम् ।
मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥
विविधा मण्डपाः कार्य्या ज्येष्ठमध्यकनीयसः ।
नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ! ॥
पुष्पकः पुष्पभद्रश्च सुवृत्तो मृतनन्दनः ।
कौशल्यो बुद्धिसङ्कीर्णो राजभद्रो जयावहः ॥
श्रीवृक्षो विजयश्चैव वास्तुजीर्णः श्रुतिं धरः ।
यज्ञभद्रो विंशालश्च संश्लिष्टः शत्रुमर्द्दनः ।
भागपञ्चो नन्दनश्च मानवो मानभद्रकः ।
सुग्रीवो हर्षणश्चैव कर्णिकारः पदार्द्धकः ॥
सिंहश्च श्यामभद्रश्च सुभद्रश्च तथैव च ।
सप्तविंशतिर्व्याख्याता लक्षणं शृणुत द्विजाः ॥
स्तम्भा यत्र चतुःषष्टिः पुष्पकः स उदाहृतः ।
द्बाषष्टिः पुष्पभद्रस्तु षष्टिः सुवृत्त उच्यते ॥
अष्टपञ्चाशकस्तम्भः कथ्यते मृतनन्दनः ।
कौशल्यः षट्पञ्चाशच्चतुःपञ्चाशता पुनः ॥
नाम्ना तु बुद्धिसङ्कीर्णो द्विहीनो राजभद्रकः ।
जयावहस्तु पञ्चाशच्छ्रीवृक्षस्तु द्बिहीनकः ॥
विजयस्तद्द्विहीनः स्यात् वास्तुसङ्कीर्णकस्तथा ।
द्वाभ्यामेव प्रहीयेत ततः श्रुतिधरोऽपरः ॥
चत्वारिंशद्यज्ञभद्रो द्विहीनोऽथ विशालकः ।
षट्त्रिंशच्चैव संश्लिष्टो द्विहीनः शत्रुमर्द्दनः ॥
द्वात्रिंशद्गागपञ्चस्तु त्रिंशता नन्दनः स्मृतः ।
अष्टाविंशन्मानवस्तु मानभद्रो द्विहीनकः ॥
चतुर्व्विंशस्तु सुग्रीवो द्वाविंशद्धर्षणो मतः ।
विंशतिः कर्णिकारः स्यादष्टादशः पदार्द्धकः ।
सिंहो भवेद्द्विहीनश्च श्यामभद्रो द्विहीनकः ॥
सुभद्रस्तु तथा प्रोक्तो द्वादशस्तम्भसंवृतः ।
मण्डपाः कथिता ह्येते यथाषल्लक्षणान्विताः ।
त्रिकोणं वृत्तमर्द्धेन्दुमष्टकोणं द्बिरष्टकम् ॥
चतुष्कोणञ्च कर्त्तव्यं संस्थानं मण्डपस्य तु ।
राज्यञ्च विजयश्चैवमायुर्वर्द्धनमेव च ॥
पुत्त्रलाभः श्रियः पुष्टिस्त्र्यस्रादिषु भवेत् क्रमात् ।
एवन्तु शुभदाः प्रोक्ता अन्यथा तु भयावहाः ॥”
अथ तत्र द्वारनिर्णयः । हयशीर्षपञ्चरात्रे ।
“ग्राममध्ये च पूर्ब्बे च प्रत्यग्द्बारं प्रकल्पयेत् ।
विदिशासु च सर्व्वासु तथा प्रत्यङ्मुखं भवेत् ॥
दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखं भवेत् ॥”
किञ्च ।
“विस्ताराद्द्विगुणं द्वारं कर्त्तव्यन्तु सुशोभनम् ।
जातरूपं सरजतं तद्वदुडुम्बरैर्वृतम् ॥
औडम्बरोर्द्धतः स्वर्णं दत्त्वा शाखां न्यसेद्बुधः ।
तूर्य्यमङ्गलघोषेण ब्राह्मणान् स्वस्तिवाच्य च ॥
द्वारस्य च चतुर्थांशे कार्य्यौ चण्डप्रचण्डकौ ।
दण्डहस्तौ तु कर्त्तव्यौ विष्वक्सेनोपमावुभौ ॥
शाखोर्द्धं न्यस्य रत्नानि न्यसेदूर्द्धमुडम्बरम् ।
तस्य मध्ये स्थिता देवी साक्षाल्लक्ष्मीः सुरेश्वरी ॥
कर्त्तव्या दिग्गजैः सा तु स्नाप्यमाना घटेन तु ।
शाखोडुम्बरकौ कार्य्यौ पत्रवल्ल्यादिभूषितौ ॥
एकशाखं त्रिशाखं वा षट्शाखं द्वारमिष्यते ।
नवशाखञ्च कुर्व्वीत अत ऊर्द्ध्वं न कारयेत् ।
विष्ण्ववताररूपाद्यैः शाखां रत्नेन भूषयेत् ॥”
मात्स्ये ।
“चतुःषष्टिपदं कृत्वा मध्ये द्वारं प्रकल्पयेत् ।
विस्ताराद्द्विगुणोच्छ्रायस्तत्त्रिभागा कटिर्भवेत् ॥
विस्तारार्द्धो भवेद्गर्भो भित्तयोऽन्याः समन्ततः ।
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमायतम् ॥
उच्छ्रायात् पादविस्तीर्णा शाखा तद्वदुडुम्बरः ।
विस्तारपादप्रतिमं बाहुल्यं शाखयोः स्मृतम् ॥
त्रिपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्यते ।
कनिष्ठं मध्यमं ज्येष्ठं यथायोगं प्रकल्पयेत् ॥
अङ्गुलानां शतं सार्द्धं चत्वारिंशद्भिरुत्तमम् ।
धन्यमुत्तममायुष्यं धनधान्यदमेव च ॥
शतं चाशीतिसहितं वातनिर्गमनं भवेत् ।
अधिकं दशभिस्तद्वत्तथा षोडशभिः शतम् ॥
शतमानं द्वितीयन्तु भवत्यशीतिभिस्तथा ।
दशद्वाराणि चैतानि क्रमेणोक्तानि सर्व्वदा ॥
अन्यानि वर्ज्जनीयानि मानसोद्बेगदानि तु ।
द्वारवेधन्तु यत्नेन सर्व्ववास्तुषु वर्ज्जयेत् ॥
वृक्षकोणाच्च भूद्वारात् स्तम्भकूपध्वजादपि ।
कुल्याश्वभ्रेण वा विद्धं न द्वारं शुभदं भवेत् ॥
क्षयश्च दुर्गतिश्चैव प्रवासः क्षुद्भयं तथा ।
दौर्भाग्यं बन्धनं रोगो दारिद्र्यं कलहं तथा ।
विरोधश्चार्थनाशश्च सर्व्वं वेधे भवेत् क्रमात् ॥”
अथ प्राकारादिनिर्णयः । हयशीर्षपञ्चरात्रे ।
“प्रासादस्य चतुर्भागैः प्राकारस्योच्छ्रयो भवेत् ।
पञ्चहस्तस्य देवस्य एकहस्ता तु पीठका ॥
तस्मात्तु द्विगुणः प्रोक्तस्तथा गरुडमण्डपः ।
एकहस्तादि कुर्व्वीत त्रिंशद्धस्तान्तमेव च ॥”
अथ वृक्षरोपणनिर्णयः । मात्स्ये ।
“पूर्ब्बेण फलिनो वृक्षाः क्षीरवृक्षास्तु दक्षिणे ।
पश्चिमेन जलं श्रेष्ठं पद्मोत्पलविभूषितम् ॥
उत्तरेण नलैस्तालैः शुभा स्यात् पुष्पवाटिका
सर्व्वतस्तु जलं श्रेष्ठं स्थिरमस्थिरमेव च ॥
सर्व्वतश्चापि कर्त्तव्यं परिखाबलयादिकम् ।
याम्ये तपोवनस्थानमुत्तरे मातृकागृहम् ॥
महानसं तथाग्नेये नैरृते तु विनायकः ।
वारुणे श्रीनिवासश्च वायव्ये ग्रहमालिका ॥
उत्तरे यज्ञशाला तु निर्म्माल्यस्थानमुत्तरे ।
वारुणे सोमदैवत्ये बलिनिर्व्वपणं स्मृतम् ॥
पुरतो गरुडस्थानं तथान्येषां यथोचितम् ।
एवमायतनं कुर्य्या च्छुभमण्डपसंयुतम् ॥
घण्टावितानकसतोरणचित्रयुक्तं
नित्योत्सवप्रमुदितेन जनेन सार्द्धम् ।
यः कारयेत् सुरगृहं विविधध्वजाढ्यं
श्रीस्तं न मुञ्चति सदा दिवि पूज्यते च ॥”
अथ जीर्णोद्धारः । विष्णुधर्म्मे तृतीयकाण्डे ।
“यस्य राज्ञस्तु विषये देववेश्म विशीर्य्यते ।
तस्य सीदति तद्राज्यं देववेश्म यथा तथा ॥
कृत्वा जीर्णस्य संस्कारं तथा देवेशवेश्मनः ।
द्विगुणं फलमाप्नोति नात्र कार्य्या विचारणा ॥”
विष्णुरहस्ये ।
“पतितस्य च यः कर्त्ता पतमानस्य रक्षिता ।
विष्णोरायतनस्येह स नरो विष्णुलोकभाक् ॥”
अग्निपुराणे ।
“पतितं पतमानन्तु तथार्द्धस्फुटितं नरः ।
समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात् ॥”
देवीपुराणे ।
“मूलाच्छतगुणं पुण्यं प्राप्नुयाज्जीर्णकारकः ।
तस्मात् सर्व्वप्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥”
हयशीर्षपञ्चरात्रे ।
“वापीकूपतडागानां सुरधाम्नां तथानघ ! ।
प्रतिमानां सभानाञ्च संस्कर्त्ता यो नरो भुवि ।
पुण्यं शतगुणं तस्य भवेन्मूलान्न संशयः ॥
प्रतिष्ठाया विधिः कार्य्यस्तथा मन्दिरनिर्म्मिते ।
प्रायः श्रीहयशीर्षोक्तेरनुसारेण वैष्णवैः ॥
देवालयप्रतिष्ठा च ख्याता तल्लिखनेन किम् ।
श्रीमूर्त्तिस्थापनेनैव संपूर्णा सा विशेषतः ॥”
इति श्रीहरिभक्तिविलासे २० विलासः ॥

मन्दिरं, क्ली, पुं, (मन्दन्ते मोदन्ते लोका यत्र । मदि

+ “इषिमदिमुदीति ।” उणा० १ । ५२ । इति
किरच् ।) नगरम् । इति मेदिनी । रे, १९७ ॥
पुंलिङ्गोऽप्ययं शब्दः । यथा । नगरं मन्दिरं
पुरमिति पुंनपुंसकयोररुणेन पठ्यते । इत्य-
मरटीकायां भरतः ॥ (अश्वजानुपश्चिमभागः ।
यथा, अश्ववैद्यके । २ । २१ ।
“अधरे च ततो जानु निर्द्दिष्टं शास्त्रकोविदैः ।
मन्दिरं पश्चिमो भागः कलाची जानुनोऽग्रिमः ॥”)

मन्दिरः, पुं, (मदि + किरच् ।) समुद्रः । इति

मेदिनी । रे, १९७ ॥ जानुपश्चाद्भागः । इति
हेमचन्द्रः । ३ । २७८ ॥

मन्दिरपशुः, पुं, (मन्दिरचरः मन्दिरपालितो वा

पशुः । मध्यपदलोपी कर्म्मधारयः ।) विडालः ।
इति शब्दचन्द्रिका ॥
पृष्ठ ३/६३०

मन्दिरा, स्त्री, (मन्दिर + स्त्रियां टाप् ।) मन्दि-

रम् । यथा, मन्दिरायास्त्वरावानिति मधुमुकु-
टादयः ॥

मन्दुरा, स्त्री, (मन्दन्ते स्वपन्ति मोदन्ते वा अश्वा

यत्र । मन्द + “मन्दिवाशिमथीति ।” उणा०
१ । ३९ । इति उरच् । स्त्रियां टाप् ।) वाजि-
शाला । इत्यमरः । २ । २ । ७ ॥ (यथा, नैषध-
चरिते । १ । ५७ ।
“उपाहरन्नश्वमजस्रचञ्चलैः
क्षुराञ्चलैः क्षोभितमन्दुरोदरम् ॥”)
शयनीयार्थवस्तु । इति मेदिनी । रे, २०० ॥
मादुर इति भाषा ॥

मन्दोदरी, स्त्री, (मन्दं उदरं यस्याः । स्त्रियां

ङीष् ।) रावणमहिषी । सा तु मयदानवकन्या ।
इति रामायणम् ॥ (यथा, महाभारते । ३ ।
२८० । १६ ।
“भार्य्या मे भव सुश्रोणि ! यथा मन्दोदरी
तथा ॥”
कुमारानुचरमातृगणभेदः । यथा, महा-
भारते । ९ । ४६ । १७ ।
“मन्दोदरी तुहुण्डी च कोटरा मेघवाहिनी ॥”)

मन्दोदरीशः, पुं, (मन्दोदर्य्याः ईशः पतिः ।)

रावणः । इति त्रिकाण्डशेषः ॥

मन्दोदरीसुतः, पुं, (मन्दोदर्य्याः सुतः ।) इन्द्रजित् ।

इति जटाधरः ॥

मन्दोष्णं, क्ली, (मन्दं अल्पं च तदुष्णञ्चेति ।) ईष-

दुष्णम् । तद्वति, त्रि । इत्यमरः । १ । ४ । २५ ॥

मन्द्रः, पुं, (मन्द्यते बुध्यते अनेन । मदि + “स्फायि-

तञ्चीति ।” उणा० २ । १३ । इति रक् ।)
गम्भीरध्वनिः । इत्यमरः । १ । ७ । २ ॥ (यथा,
मेघदूते । १०० ।
“मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्-
सुकानि ॥”)
वाद्यविशेषः । तत्पर्य्यायः । मड्डः २ मृदङ्गकः
३ । इति शब्दरत्नावली ॥ (त्रि, हृष्टः । यथा,
ऋग्वेदे । १ । ५ । ७ ।
“होता मन्द्रो वरेण्यः ॥”
“मन्द्रो हृष्टः ।” इति तद्भाष्ये सायनः ॥
मादनशीलः । यथा, ऋग्वेदे । १ । १४४ । ७ ।
“अग्ने ! जुवस्व प्रतिहर्य्यतद्वचो
मन्द्र स्वधावऋतजात सुक्रतो ॥”
“मन्द्र ! मादनशील ! ।” इति तद्भाष्ये सायनः ॥)

मन्मथः, पुं, (मनो मथ्नाति विकरोतीति । मन्थ् +

पचाद्यच् । पृषोदरादित्वात् साधुः । अस्य
नामनिरुक्तिर्यथा, ब्रह्मवैवर्त्ते । १ । ४ । ७ ।
“मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनाम् ।
तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥”)
कामदेवः । (यथा, नैषधचरिते । ८ । २९ ।
“न मन्मथस्त्वं स हि नास्तिमूर्त्तिः ॥”)
कपित्थवृक्षः । इत्यमरः । १ । ४ । २१ ॥ काम-
चिन्ता । इति मेदिनी । थे, २२ ॥ * ॥ काम-
देवस्योत्पत्तिर्यथा, --
“एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः ।
मनसः पुरुषो वल्गुराविर्भूतो विनिःसृतः ॥
काञ्चनीचूर्णपीताभः पीनोन्नतसुनासिकः ।
सुवृत्तोरुकटीजङ्घो नीलावल्लितकेशकः ॥
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।
कपाटविस्तीर्णहृदि रोमराजीविराजितः ॥
शुभ्रमातङ्गकरवत्पीननिस्तलबाहुकः ।
आरक्तपाणिनयनमुखपादकरोद्भवः ॥
क्षीणमध्यश्चारुदन्तः प्रमत्तगजकन्धरः ।
प्रफुल्लपद्मपत्राक्षः केशरघ्राणतर्पणः ॥
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।
पञ्चपुष्पायुधो योगी पुष्पकोदण्डमण्डितः ॥
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।
सुगन्धिमारुताभ्रान्तं शृङ्गाररससेवितम् ॥
वीक्ष्य तं तादृशं दक्षप्रमुखा मानसाश्च ते ।
मरीच्याद्या दश ततो विस्मयाविष्टचेतसः ॥
औत्सुक्यं परमं जग्मुरापुर्व्वैकारिकं मनः ।
स चापि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।
प्रणम्य पुरुषः प्राह विनयानतकन्धरः ॥
श्रीपुरुष उवाच ।
किं करिष्याम्यहं कर्म्म ब्रह्मंस्तत्र नियोजय ।
मानाय्ये पुरुषो यस्मादुचिते शोभिते विधे ॥
अभिधानञ्च यद्योग्यं स्थानं पत्नी च या मम ।
तन्मे कुरुव्व लोकेश ! स्रष्टा त्वं जगतां यतः ॥
मार्कण्डेय उवाच ।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।
क्षणं न किञ्चित् प्रोवाच स्वसृष्टावपि विस्मितः ॥
ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।
उवाच पुरुषं ब्रह्मा तत्कर्म्मोद्देशमावहन् ॥
ब्रह्मोवाच ।
अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः ।
मोहयन् पुरुषांस्त्रींश्च कुरु सृष्टिं सनातनीम् ॥
न देवा न च गन्धर्व्वा न किन्नरमहोरगाः ।
नासुरा न च दैत्या वा न विद्याधरराक्षसाः ॥
न यक्षा न पिशाचाश्च न भूता न विनायकाः ।
न गुह्यका न सिद्धाश्च न मनुष्या न पक्षिणः ॥
पशवो न मृगाः कीटाः पतङ्गा जलजाश्च ये ।
न ते सर्व्वे भविष्यन्ति न लक्ष्या ये शरस्य ते ॥
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तम ! ।
भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः ॥
प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदये सदा ।
सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् ॥
त्वत्पुष्पबाणस्य सदा मुख्यं लक्ष्यं मनोऽस्तु च ।
सर्व्वेषां प्राणिनां नित्यं मदमोदकरो भवान् ॥
इति ते कर्म्म कथितं सृष्टिप्रावर्त्तकं पुनः ।
नामानि च गदिष्यामि यत्ते योग्यं भवि-
ष्यति ॥
मार्कण्डेय उवाच ।
इत्युक्त्वाथ सुरश्रेष्ठो मानसानां मुखानि च ।
आलोक्य चासने पद्मे सूपविष्टोऽभवत् क्षणात् ॥”
इति कालिकापुराणे कामप्रादुर्भावो नाम १
अध्यायः ॥
मार्कण्डेय उवाच ।
“ततस्ते मुनयः सर्व्वे तदभिप्रायवेदिनः ।
चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा ॥
मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः ।
दक्षादयश्च स्रष्टारः स्थानं पत्नीञ्च ते ददुः ॥
ततो निश्चित्य नामानि मरीचिप्रमुखा द्बिजाः ।
ऊचुः सङ्गतमेतस्मै पुरुषाय द्बिजोत्तमाः ॥
ऋषय ऊचुः ।
यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः ।
तस्मान्मन्मथनान्मा त्वं लोके गेयो भविष्यसि ॥
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।
अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥
मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः ।
तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥
त्वदाशुगानां यद्बीर्य्यं तद्वीर्य्यं न भविष्यति ।
वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ॥
स्वर्गो मर्त्यश्च पातालं ब्रह्मलोकः सनातनः ।
अवस्थानानि सर्व्वाणि सर्व्वव्यापी भवान् यतः ॥
किंवा चापि विशेषेण सामान्ये नास्ति ते समः ।
यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा ॥
तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् ।
दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभ-
नाम् ॥”
इति कालिकापुराणे २ अध्यायः ॥

मन्मथानन्दः, पुं, (मन्मथं आनन्दयतीति । आ +

नन्द + णिच् + पचाद्यच् । कामवर्द्धकत्वादस्य
तथात्वम् ।) महाराजचूतः । इति राज-
निर्घण्टः ॥

मन्मथालयः, पुं, (मन्मथस्य आलय इव । काम-

वर्द्धकत्वादेवास्य तथात्वम् ।) आम्रः । इति
राजनिर्घण्टः ॥

मन्मनः, पुं, गद्गदध्वनिः । इति त्रिकाण्डशेषः ॥

(दम्पत्योः कथनविशेषः । यथा, चिन्तामणि-
धृतवचनम् ।
“सुरते कर्णमूले तु निजदेशीयभाषया ।
दम्पत्योः कथनं यत्तु मन्मनं तं विदुर्बुधाः ॥”)

मन्या, स्त्री, (मन्यते ज्ञायते स्तम्मदुःखादिकमनया ।

मन् + करणे क्यप् । स्त्रियां टाप् ।) ग्रीवायाः
पश्चात् शिरा । इत्यमरः । २ । ६ । ६५ ॥ (यथा,
सुश्रुते उत्तरतन्त्रे २५ अध्यायः ।
“दोषास्तु दुष्टास्त्रय एव मन्यां
संपीड्य घाटां सुरुजां मुतीव्राम् ।
कुर्व्वन्ति साक्षिभ्रुवशङ्खदेशे
स्थितिं करोत्याशु विशेषतस्तु ॥”)

मन्याका, स्त्री, (मन्यैवेति । मन्या + स्वार्थे कन् ।

स्त्रियां टाप् । सुकन्याक इति वत् न विभाषया
ह्रस्वः ।) मन्या । इति शब्दरत्नावली ॥

मन्युः, पुं, (मन्यते ज्ञायतेऽसौ । मन + “यजिमनि-

शुन्धिदसिजनिभ्यो युच् ।” उणा० ३ । २० । इति
युच् ।) शोकः । (यथा, भट्टिकाव्ये । ६ । ३० ।
“मन्युर्म्मन्ये ममास्तम्भीद्बिषादोऽस्तभदुद्य-
तिम् ॥”)
पृष्ठ ३/६३१
दैन्यम् । क्रतुः । (यथा, राजतरङ्गिण्याम् । १ ।
१७४ ।
“आविर्बभूवाभिमन्युः शतमन्युरिवापरः ॥”)
क्रोधः । इत्यमरः । ३ । ३ । १५३ ॥ (यथा,
महाभारते । १ । ७९ । ५ ।
“यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते ।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥”)
अहङ्कारः । इति शब्दरत्नावली ॥ (क्रोधाभि-
मानिदेवः । यथा, ऋग्वेदे । १० । ८३ । १ ।
“यस्ते मन्यो ! विधद्वज्र सायक
सह ओजः पुष्यति विश्वमानुषक् ॥”
वितथपुत्त्रः । यथा, भागवते । ९ । २१ । १ ।
“वितथस्य सुतान् मन्योर्बृहत्क्षत्त्रो जय-
स्ततः ॥”
रुद्रदेवः । यथा, भागवते । ४ । ५ । ५ ।
“आज्ञप्त एव कुपितेन मन्युना
स देवदेवं परिचक्रमे विभुम् ॥”)

मन्वन्तरं, क्ली, (मनोरन्तरमस्मिन्निति ।) दिव्यानां

युगानामेकसप्ततिः । इत्यमरः । १ । ४ । २२ ॥ देव-
मानेनैकसप्ततियुगानि मन्वन्तरमुच्यते मनो-
रन्तरमवकाशोऽवधिर्वा अस्मिन्निति मन्वन्तरम् ।
“एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ।
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ॥”
इति लिङ्गपुराणम् ॥
मनवः स्वायम्भुवादयस्तेषामन्तरमवकाशोऽ-
वधिर्वा मन्वन्तरमिति वा । एकसप्ततिरिति
यद्यपि गणनया अर्द्धयुगेनाधिका ।
“दैविकानां युगानान्तु सहस्रं ब्रह्मणो दिनम् ।
मन्वन्तरं तथैवैकं तस्य भागाश्चतुर्द्दश ॥”
तत्किञ्चिदधिका दिव्ययुगानामेकसप्ततिरिति
नामविधाने सर्व्वज्ञनारायणेनोक्तत्वात् तथापि
अल्पत्वादिह नोक्तम् । मन्वन्तरस्य संख्यात-
वर्षाणि यथा, --
“त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः ।
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ॥
विंशतिस्तु सहस्राणि कालो यः साधिकां विना ।
मन्वन्तरस्य संख्यैषा लिङ्गेऽस्मिन् कथिता
द्विजाः ॥”
एतदङ्का यथा, ३०६,७२०,००० । एवं चतुर्दश-
मन्वन्तरैर्ब्रह्मदिनम् । युगानि यथा लैङ्गे ।
“पूर्ब्बं कृतयुगं नाम ततस्त्रेता विधीयते ।
द्वापरश्च कलिश्चैव युगान्येतानि सुव्रताः ॥”
युगमानानि यथा, --
“चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
दिव्याब्दानां सहस्राणि युगेष्वाहुः पुराविदः ॥”
इति ॥
अन्यत्र च ।
“चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।
तस्य तावत् सती सन्ध्या सन्ध्यांशश्च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।
एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥”
इति ॥
अस्यार्थः । देवमाने सत्यस्य वर्षाणि ४०००
चतुःसहस्राणि सन्ध्यावर्षाणि ४०० चत्वारि
शतानि सन्ध्यांशवर्षाणि ४०० चत्वारि शतानि ।
एवं देवमाने सत्यस्य वर्षाणि अष्टशताधिकचतुः-
सहस्राणि ४८०० एवं त्रेतायाः षट्शताधिक-
त्रिसहस्रं ३६०० एवं द्वापरस्य चतुःशताधिकं
द्विसहस्रम् २४०० एवं कलेः शतद्वयाधिकमेक-
सहस्रम् १२०० समुदायेन द्बादशसहस्राणि
१२००० । मानुषमानेन सत्यादीनां मानं यथा,
ज्योतिषे ।
“वस्वश्विमैत्रा ऋतुरन्ध्रमासा
वेदा रसाष्टौ भुजवह्निवेदाः ।
एतानि शून्यत्रयताडितानि
युगाब्दसंख्याः परिकीर्त्तितानि ॥”
एतदङ्कैर्दृश्यते सत्यस्य यथा, १,७२८,००० ।
त्रेताया यथा, १, २९६, ००० । द्वापरस्य यथा,
८६४,००० । कलेर्यथा, ४३२,००० । समुदायेन
४,३२०,००० । अपरं ब्राह्मवर्षादिमानं बाहुल्य-
भिया नोक्तम् । इति तट्टीकायां भरतः ॥
अपि च । ब्रह्मणो दिनमध्ये चतुर्द्दशमन्वन्त-
राणि भवन्ति । एको मनुर्यावदधिकारी भवति
स कालो मन्वन्तरसंज्ञको भवति । तत्र मनूनां
नामानि । प्रथमः स्वायम्भुवो मनुः । द्वितीयः
स्वारोचिषो मनुः । तृतीय उत्तमो मनुः ।
चतुर्थस्तामसो मनुः । पञ्चमो रैवतो मनुः ।
षष्ठश्चाक्षुषो मनुः । सप्तमो वैवस्वतो मनुः ।
वर्त्तमानोऽयम् ॥ अष्टमः सावर्णिर्मनुः । नवमो
दक्षसावर्णिर्मनुः । दशमो ब्रह्मसावर्णिर्मनुः ।
एकादशो धर्म्मसावर्णिर्मनुः । द्वादशो रुद्र-
सावर्णिर्मनुः । त्रयोदशो देवसावर्णिर्मनुः ।
चतुर्दश इन्द्रसावर्णिर्मनुः । प्रतिमन्वन्तरं भग-
वदवतारेन्द्रदेवगणसप्तर्षिमनुमनुपुत्त्रादयः पृथक्
पृथग्भवन्ति । यथा । स्वायम्भुवे मन्वन्तरे
यज्ञोऽवतारः स एवेन्द्रः । यमादयो देवाः ।
मरीचिप्रभृतयः सप्तर्षयः । स्वायम्भुवो मनुः ।
प्रियव्रतोत्तानपादौ मनुपुत्त्रौ ॥ १ ॥ स्वारोचिषे
विभुरवतारः । रोचन इन्द्रः । देवास्तुषिता-
दयः । ऊर्ज्जस्तम्भादयः सप्तर्षयः । अग्निसुतः
स्वारोचिषो मनुः । द्युमत्सेनरोचिष्मत्प्रमुखा
मनुपुत्त्राः ॥ २ ॥ उत्तमे सत्यसेनोऽवतारः ।
सत्यजिदिन्द्रः । सत्यवेदश्रुतभद्रादयो देवाः ।
वशिष्ठसुताः सप्तर्षयः प्रमदादयः । प्रियव्रतसुत
उत्तमो मनुः । पवनसृञ्जययज्ञहोत्राद्यास्तत्-
सुताः ॥ ३ ॥ तामसे हरिरवतारः । त्रिशिख
इन्द्रः । वैधृतादयो देवाः । ज्योतिर्धामादयः
सप्तर्षयः । तामसो मनुः । वृषख्यातिनरादय-
स्तत्सुताः ॥ ४ ॥ रैवते विकुष्ठोऽवतारः । विभु-
रिन्द्रः । भूतरयादयो देवाः । हिरण्यरोमा-
दयः सप्तर्षयः । रैवतो मनुः । बलिबिन्ध्यादय
स्तत्सुताः ॥ ५ ॥ चाक्षुषे अजितोऽवतारः ।
मन्दद्रुम इन्द्रः । अप्यादयो देवाः । हर्य्यश्व-
द्वीरकादयः सप्तर्षयः । चाक्षुषो मनुः । पुरु-
पुरुषसुद्युम्नादयस्तत्सुताः ॥ ६ ॥ वैवस्वते
वामनोऽवतारः । पुरन्दर इन्द्रः । आदित्या
वसवो रुद्रा विश्वेदेवा मरुद्गणा अश्विनावृषभ
इत्याद्या देवाः । कश्यपोऽत्रिर्वशिष्ठो विश्वा-
मित्रो गोतमो जमदग्निर्भरद्वाज एते सप्तर्षयः ।
वैवस्वतो मनुः । इक्ष्वाकुः नृगः शर्यातिः दृष्टः
धृष्टः करूषकः नरिष्यन्तः पृषध्रः नाभागः
कविः एते मनुपुत्त्रा दश ॥ ७ ॥ अथ भवि-
ष्याणि । सावर्णिके सार्व्वभौमोऽवतारः । वलि-
रिन्द्रः । सुतपसो विरजा अमृतप्रभा देवाः ।
गालवः दीप्तिमान् परशुरामः अश्वत्थामा कृपः
ऋष्यशृङ्गः व्यासः एते सप्तर्षयः । सावर्णिर्मनुः ।
निर्म्मोकविरजस्काद्यास्तत्सुताः ॥ ८ ॥ दक्ष-
सावर्णिके ऋषभोऽवतारः । श्रुत इन्द्रः । पार-
मरीचिगर्भाद्या देवाः । द्युतिमदाद्याः सप्तर्षयः ।
दक्षसावर्णिर्मनुः । भूतकेतुदीप्तिकेत्वाद्यास्तत्-
सुताः ॥ ९ ॥ ब्रह्मसावर्णिके विव्वक्सेनोऽव-
तारः । शम्भुरिन्द्रः । सुरसेनविरुद्धाद्या देवाः ।
हविष्मदाद्याः सप्तर्षयः । ब्रह्मसावर्णिर्मनुः ।
भूरिसेनाद्यास्तत्सुताः ॥ १० ॥ धर्म्मसावर्णिके
धर्म्मसेतुरवतारः । वैधृत इन्द्रः । विहङ्गम-
कामगमाद्या देवाः । अरुणादयः सप्तर्षयः ।
धर्म्मसावर्णिर्मनुः । सत्यधर्म्मादयस्तत्सुताः ॥ ११ ॥
रुद्रसावर्णिके । सुधामाख्योऽवतारः । ऋत-
धामा इन्द्रः । हरितादयो देवाः । तपोमूर्त्त्या-
दयः सप्तर्षयः । रुद्रसावर्णिर्मनुः । देववदुपदेवा-
दयस्तत्सुताः ॥ १२ ॥ देवसावर्णिके योगेश्वरो-
ऽवतारः । दिवस्पतिरिन्द्रः । सुकर्म्मसूत्राद्या
देवाः । निर्म्मोकतत्त्वदर्शाद्याः सप्तर्षयः । देव
सावर्णिर्मनुः । चित्रसेनविचित्राद्यास्तत्सुताः ॥
१३ ॥ इन्द्रसावर्णिके बृहद्भानुरवतारः । शुचि-
रिन्द्रः । पवित्रचाक्षुषादयो देवाः । अग्नि-
बाहुशुचिशुद्धमागधाद्याः सप्तर्षयः । इन्द्र-
सावर्णिर्मनुः । उरुगम्भीरवृध्नाद्यास्तत्सुताः ॥
१४ ॥ अथैतेषां कर्म्मोच्यते । इन्द्रो देवराट्
यथावर्षी च । मनुरादौ पृथिव्यां राजा भवति
तत्पुत्त्रपौत्त्रादयो मन्वन्तरसमाप्तिपर्य्यन्तं
राजानो भवन्ति । देवताः पुजानां यज्ञादि-
कर्म्मतुष्टास्तत्फलं प्रयच्छन्ति । सप्तर्षयो धर्म्म-
शास्त्राणि प्रकाशयन्ति । भगवदवतारा एतान्
स्वस्वकर्म्मणि नियोजयन्ति दैत्यराक्षसादीन्
धर्म्मद्रुहो घ्नन्ति च । चतुर्द्दशमन्वन्तरैर्ब्रह्मण
एकं दिनं भवति तन्मनुष्यमानेनैकः कल्पः ।
त्रिंशत्कल्पैर्ब्रह्मण एको मासो भवति । इति
श्रीभागवतमतम् ॥ * ॥ अन्यच्च ।
“वर्षलक्षाणि चत्वारि भवेत् कलियुगं क्रमे ।
द्वात्रिंशत्या सहस्रैस्तु सहितान्यपि संख्यया ॥
चतुःषष्टिसहस्राणि लक्षाण्यष्टौ च संख्यया ।
वर्षाणां द्वापरं प्रोक्तं युगं पूर्ब्बनिदर्शनात् ॥
त्रेता द्वादशलक्षाणि वर्षाणां परिकीर्त्तिता ।
षण्णवत्या सहस्रैस्तु संयुक्तानि भवन्ति हि ॥
दश सप्त च लक्षाणां वर्षाणाञ्च कृतं युगम् ।
पृष्ठ ३/६३२
सहस्रैरष्टविंशत्या संयुतान्यपि संख्यया ॥
त्रिचत्वारिंशल्लक्षाणि सहस्राणि च विंशतिः ।
मानुषेण प्रमाणेन भवेत् चातुर्युगं क्रमात् ॥
सप्तषष्टिश्च लक्षाणि त्रिंशत्कोट्यस्तथैव च ।
विंशतिश्च सहस्राणि मन्वन्तरमिहोच्यते ॥
चतुर्युगैकसप्तत्या मन्वन्तरमिति श्रुतिः ।
कल्पो मन्वन्तरैरेभिश्चतुर्द्दशभिरुच्यते ॥
कोट्यो द्बादश षट्त्रिंशल्लक्षाणि तु भवन्ति च ।
अष्टाशीतिसहस्राणि जीवेत् स्वायम्भुवो मनुः ॥”
इति वह्निपुराणम् ॥
अपरञ्च ।
मार्कण्डेय उवाच ।
“मन्वन्तरं मनोः कालो यावत् पालयते प्रजाः ।
एको मनुः स कालस्तु मन्वन्तरमिति श्रुतम् ॥
तदेकसप्ततियुगैर्देवानामिह जायते ।
तैश्चतुर्द्दशभिः कल्पो दिनमेकन्तु वेधसः ॥”
इति कालिकापुराणे २७ अध्यायः ॥
अन्यदपि ।
“मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ।
मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् ।
भवता कथितानेतान् श्रोतुमिच्छाम्यहं गुरो ! ॥
श्रीपराशर उवाच ।
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक् कथयामि समासतः ॥
स्वायम्भुवो मनुः पूर्ब्बं मनुः स्वारोचिषस्तथा ।
औत्तमिस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥
षडेते मनवोऽतीताः साम्प्रतन्तु रवेः सुतः ।
वैवस्वतोऽयं तस्यैतत् सप्तमं वर्त्ततेऽन्तरम् ॥
स्वायम्भुवन्तु कथितं कल्पादावन्तरं मया ।
देवास्तत्रर्षयश्चैव यथावत् कथिता मया ॥ १ ॥
अत ऊर्द्धं प्रवक्ष्यामि मनोः स्वारोचिषस्य तु ।
मन्वन्तराधिपान् सम्यग्देवर्षी स्तत्सुतांस्तथा ॥
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चित्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥
ओजस्तम्भस्तथा प्राणो दत्तोलिरृषभस्तथा ।
विश्वरश्चार्व्वरीवांश्च तत्र सप्तर्षयोऽभवन् ॥
चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु ।
द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ २ ॥
तृतीयेऽप्यन्तरे ब्रह्मन्नौत्तमिर्नाम यो मनुः ।
सुशान्तिर्नाम तत्रेन्द्रो मैत्रेयाभूत् सुरेश्वरः ॥
सुधामानस्तथा सत्याः शिवाश्चाथ प्रतर्द्दनाः ।
वशवर्त्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥
वशिष्ठतनयास्तत्र सप्त सप्तर्षयोऽभवन् ।
अजः परशुदिव्याद्यास्तथौत्तमिमनोः सुताः ॥ ३ ॥
तामसस्यान्तरे देवाः स्वरूपा हरयस्तथा ।
मत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥
शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षणः ।
सप्तर्षयश्च ये तत्र तेषां नाम्मनि मे शृणु ॥
ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्व्वतक-
स्तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥
नरः ख्यातिः शान्तहयो जानुजङ्गादयस्तथा ।
पुत्त्रास्तु तामसस्यासन् राजानः सुमहा-
बलाः ॥ ४ ॥
पञ्चमे चापि मैत्रेय ! रैवतो नाम नामतः ।
मनुर्विभुश्च तत्रेन्द्रो देवांश्चैवान्तरे शृणु ॥
अमिताभा भूतरया वैङ्कुटाश्च सुमेधसः ।
एते देवगणास्तत्र चतुर्द्दश चतुर्द्दश ॥
हिरण्यरोमा वेदश्रीरूर्द्धबाहुस्तथापरः ।
वेदबाहुः सुधामा च पर्ज्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्र ! तत्रासन् रैवतान्तरे ॥
बलबन्धुः सुसम्भाव्यः सत्यकामाश्च तत्सुताः ।
नरेन्द्राः सुमहावीर्य्या बभूवुर्मुनिसत्तम ! ॥
स्वारोचिषश्चौत्तमिस्तु तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेतान् लब्धवानात्मवंशजान् ॥ ५ ॥
षष्ठे मन्वन्तरे चासीच्चाक्षुषाख्यस्तदा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥
आर्य्याः प्रसूता भव्याश्च पृथुगाश्च दिवौकसः ।
महानुभावा लेखाश्च पञ्चैतेऽप्यष्टका गणाः ॥
मुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥
ऊरुः पूरुः शतद्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्यं मनोः पुत्त्राः पृथिवीपतयोऽभवन् ॥ ६ ॥
विवस्वतः सुतो विप्र ! श्राद्धदेवो महाद्युतिः ।
मनुः स वर्त्तते धीमान् साम्प्रतं सप्तमेऽन्तरे ॥
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ! ।
पुरन्दरस्तथैवात्र मैत्रेय ! त्रिदशेश्वरः ॥
वशिष्ठः कश्यपोऽथाग्निर्जमदग्निः सगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽत्र च ॥
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभ उदिष्ट एव च ॥
करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्त्रास्तु धार्म्मिकाः ॥ ७ ॥
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता ।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥
अंशेन तस्य यज्ञोऽसौ जज्ञे स्वायम्भुवेऽन्तरे ।
आकूत्यां मानसो देव उत्पन्नः प्रथमेऽन्तरे ॥
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे ।
तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह ॥
औत्तमेरन्तरे चापि तुषितस्तु पुनः स वै ।
सत्यायामभवत् सत्यः सत्यैः सह सुरोत्तमैः ॥
तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि ।
हर्य्यायां हरिभिः सार्द्धं हरिरेव बभूव ह ॥
रैवतेऽप्यन्तरे देवः सम्भूत्यां मानसोऽभवत् ।
सम्भूतो राजसैः सार्द्धं देवैर्देववरो हरिः ॥
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठे दैवतैः सह ॥
मन्वन्तरे तु संप्राप्ते तथा वैवस्वते द्विजः ।
वामनः कश्यपाद्विष्णुरदित्यां संबभूव ह ॥
त्रिभिः क्रमैरिमान् लोकान् जित्वा येन महा-
त्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥
इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै ।
सप्तस्वेवाभवन् विप्र ! याभिः संरक्षिताः प्रजाः ॥
यस्माद्विष्टमिदं सर्व्वं तस्य शक्त्या महात्मनः ।
तस्मात् संप्रोच्यते विष्णुर्व्विशेर्धातोः प्रवेशनात् ॥
सर्व्वे च देवा मनवः समस्ताः
सप्तर्षयो ये मनुसूनवश्च ।
इन्द्रश्च यो यस्त्रिदशेशभूतो
विष्णोरशेषास्तु विभूतयस्ताः ॥”
इति विष्णुपुराणे ३ अंशे मन्वन्तराख्यानं नाम
१ अध्यायः ॥ * ॥
श्रीमैत्रेय उवाच ।
प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै ।
भविष्याण्यपि विप्रर्षे ! ममाख्यातुं त्वमर्हसि ॥
श्रीपराशर उवाच ।
“छायासंज्ञासुतो योऽसौ द्वितीयः कथितो
मनुः ।
पूर्ब्बजस्य सवर्णोऽस्य सावर्णिस्तेन कथ्यते ॥
तस्य मन्वन्तरं ह्येतत् सावर्णिकमथाष्टमम् ।
तच्छृणुष्व महाभाग ! भविष्यं कथयामि ते ॥
सावर्णिस्तु मनुर्योऽसौ मैत्रेय ! भविता ततः ।
सुतपाश्चामिताभाश्च मुख्याश्चापि तदा सुराः ॥
तेषां गणस्तु देवानामेकैको विंशकः स्मृतः ।
सप्तर्षीनपि वक्ष्यामि भपिष्यानथ सप्त च ॥
दीप्तिमान् गालवो रामः कृपो द्रौणिस्तथापरः ।
मत्पुत्त्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥
विष्णुप्रसादादनघः पातालान्तरगोचरः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥
विरजाश्चार्व्वरीवांश्च निर्मोहाद्यास्तथापरे ।
सावर्णस्य मनोः पुत्त्रा भविष्यन्ति नरेश्वराः ॥ ८ ॥
नवमो दक्षसावर्णिर्मैत्रेय ! भविता मनुः ।
पारा मरीचिगर्भाश्च सुधर्म्माणस्तथा त्रिधा ॥
भविष्यन्ति तदा देवा एकैको द्वादशो गणः ।
तेषामिन्द्रो महावीर्य्यो भविष्यत्यद्भुतो द्बिज ! ॥
सवनो द्युतिमान् हव्यो वसुर्मेधातिथिस्तथा ।
ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥
धृतिकेतुर्दीप्तिकेतुः पञ्चहस्तो निरामयः ।
पृथुस्तवाद्याश्च तथा दक्षसावर्णिकात्मजाः ॥ ९ ॥
दशमो ब्रह्मसावर्णिर्भविष्यति मुने ! मनुः ।
सुधामानोऽनिरुद्धाश्च शतसंख्यास्तथा सुराः ॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ।
सप्तर्षयो भविष्यन्ति ये तदा तान् शृणुष्व च ॥
हविष्मान् सुकृतिः सत्यो ह्यपां मूर्त्तिस्तथापरः ।
नाभागो प्रतिमौजाश्च सत्यकेतुस्तथैव च ॥
सुक्षेत्रश्चोत्तमौजाश्च भूरिषेणादयो दश ।
ब्रह्मसावर्णिपुत्त्राश्च रक्षिष्यन्ति वसुन्धराम् ॥ १० ॥
एकादशश्च भविता धर्म्मसावर्णिको मनुः ।
विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥
गणास्त्वेते तदा मुख्या देवानां हि भविष्यताम् ।
एकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै वृषः ॥
निश्चरश्चाग्नितेजाश्च वपुष्मान् वृष्टिवारुणिः ।
हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥
सर्व्वत्रगः सर्व्वधर्म्मा देवानीकादयस्तथा ।
पृष्ठ ३/६३३
भविष्यन्ति मनोस्तस्य तनयाः पृथिवीश्वराः ॥ ११ ॥
रुद्रपुत्त्रस्तु सावर्णिर्भविता द्वादशो मनुः ।
ऋतधामा च तत्रेन्द्रो भविता शृणु मे सुरान् ।
हरिता लोहिता देवास्तथा सुमनसो द्विज ! ।
सुकर्म्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥
तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ॥
देववानुपदेवश्च देवश्रेष्ठादयस्तथा ।
भविष्यन्ति मनोस्तस्य महावीर्य्याः सुता
नृपाः ॥ १२ ॥
त्रयोदशो रौच्यनामा भविष्यति मुने ! मनुः ।
सुत्रामणिः सुकर्म्माणः सुधर्म्माणस्तथापरः ॥
त्रयस्त्रिंशद्बिभेदास्ते देवानां ये तु वै गणाः ।
दिवस्पतिर्महावीर्य्यस्तेषामिन्द्रो भविष्यति ॥
निर्मोहस्तत्त्वदर्शी च निष्प्रकम्पो निरुत्सुकः ।
धृतिमानव्ययश्चान्यः सप्तमः सुतपा मुनिः ॥
सप्तर्षयस्त्विमे तस्य पुत्त्रानपि निबोध मे ।
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षितः ॥ १३ ॥
भौत्यश्चतुर्दशश्चात्र मैत्रेय ! भविता मनुः ।
शुचिरिन्द्रः सुरगणास्तत्र पञ्च शृणुष्व तान् ॥
चाक्षुषश्च पवित्राश्च कनिष्ठा भ्राजिनस्तथा ।
वातावृद्धाश्च वै देवाः सप्तर्षीनपि मे शृणु ॥
अग्निबाहुः शुचिः शुक्रो मागधोऽग्नीध्र एव च ।
युक्तस्तथाजितश्चान्यो मनुपुत्त्रानतः शृणु ॥
उरुगम्भीररन्ध्राद्या मनोस्तस्य सुता नृपाः ।
कथिता मुनिशार्दूल ! पालयिष्यन्ति मेदि-
नीम् ॥ १४ ॥
चतुर्युगान्ते वेदानां जायते किल विप्लवः ।
प्रवर्त्तयन्ति तानेत्य भुवि सप्तर्षयो दिवः ॥
कृते कृते स्मृतेर्विप्र ! प्रणेता जायते मनुः ।
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरन्तु तत् ॥
भवन्ति ये मनोः पुत्त्रा यावन्मन्वन्तरं हि तैः ।
तदन्वयोद्भवैश्चैव तावद्भूः परिपाल्यते ॥
मनुः सप्तर्षयो देवा भूपालाश्च मनोः सुताः ।
मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिणः ॥
चतुर्द्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज ! ।
सहस्रयुगपर्य्यन्तः कल्पो निःशेष उच्यते ।
तावत्प्रमाणा च निशा ततो भवति सत्तम ! ॥”
इति विष्णुपुराणे ३ अंशे २ अध्यायः ॥ * ॥
मन्वन्तरश्रवणफलं यथा, --
“श्रुते मन्वन्तरे पूर्ब्बे धर्म्ममाप्नोति मानवः ।
खारोचिषस्य श्रवणात् सर्व्वान् कामानवा-
प्नुयात् ॥
औत्तमे धनमाप्नोति ज्ञानञ्चाप्नोति तामसे ।
रैवते च श्रुते बुद्धिं सुरूपां विन्दते स्त्रियम् ॥
आरोग्यञ्चाक्षुषे पुंसां श्रुते वैवस्वते बलम् ।
गुणवत् पुत्त्रपौत्त्रांश्च सूर्य्यसावर्णिके श्रुते ॥
माहात्म्यं ब्रह्मसावर्णेर्धर्म्मसावर्णिके शुभाम् ।
मतिमाप्नोति मनुजो रुद्रसावर्णिके जयम् ॥
जातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।
विशातयत्यरिबलं रौच्यं श्रुत्वा मनूत्तमम् ॥
देवप्रासादमाप्नोति भौत्ये मन्वन्तरे श्रुते ।
तथाग्निदीप्तिं पुत्त्रांश्च गुणयुक्तानवाप्नुते ॥
सर्व्वाण्यनुक्रमाद्यस्तु शृणोति मुनिसत्तम ! ।
मन्वन्तराणि तस्यापि श्रूयतां फलमुत्तमम् ॥
तत्र देवानृषीन् विप्रान्मनूंस्तत्तनयान् नृपान् ।
इन्द्रांश्च श्रुत्वा सर्व्वेभ्यः पापेभ्यो विप्रमुच्यते ॥
देवेन्द्रर्षिनृपाश्चान्ये ये तन्मन्वन्तराधिपाः ।
ते प्रीयन्ते तथा प्रीताः प्रयच्छन्ति शुभां मतिम् ॥
ततः शुभां मतिं प्राप्य कृत्वा कर्म्म तथा शुभम् ।
शुभां गतिमवाप्नोति यावदिन्द्राश्चतुर्द्दश ॥
सर्व्वे स्युरृतवः सौम्याः सर्व्वे सौम्यास्तथा
ग्रहाः ।
भवन्त्यसंशयं श्रुत्वा क्रमान्मन्वन्तरस्थितिम् ॥”
इति मार्कण्डेयपुराणे मन्वन्तरानुवर्णनं नामा-
ध्यायः ॥

मपष्टः, पुं, (मयुष्टकः । पृषादरादित्वात् साधुः ।)

वनमुद्गः । इत्यमरटीकायां भरतः । २ । ९ । १७ ॥

मपष्टकः, पुं, (मपष्ट एव । मपष्ट + स्वार्थे कन् ।)

वनमुद्गः । इत्यमरटीकायां भरतः । २ । ९ । १७ ॥

मपुष्टकः, पुं, (मयुष्टकः । पृषोदरादित्वात् साधुः ।)

वनमुद्गः । इत्यमरटीकायां भरतः । २ । ९ । १७ ॥

मभ्र, गतौ । इति कविकल्पद्रुमः । (भ्वा०-पर०-

सक०-सेट् ।) ओष्ठ्यवर्गचतुर्थोपधः । मभ्रति ।
इति दुर्गादासः ॥

मम, व्य, मदीयम् । आमार इति भाषा । यथा,

“ममत्वं मम राज्यस्य राज्याङ्गेष्वखिलेष्वपि ।
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ! ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥
“तेषु अमदीयत्वं जानतोऽपि मम यथाज्ञस्य
अज्ञस्येव राज्यादिषु ममत्वमेतत् कि किं निब-
न्धनमित्यर्थः ।” इति तट्टीकायां नागोजीभट्टः ॥
अस्याव्ययत्वेन स्पष्टप्रमाणं ममत्वशब्दे द्रष्टव्यम् ।
अस्मच्छब्दस्य षष्ठ्येकवचनान्तस्येदं रूपं तत्पदं
त्रिषु लिङ्गेषु सदृशम् ॥

ममता, स्त्री, (मम + भावे तल् । टाप् ।) दर्पः ।

अभिमानः । इति हेमचन्द्रः । २ । २३१ ॥
ममत्वम् । यथा, --
“तथापि ममतावर्त्ते मोहगर्त्ते निपातिताः ॥”
इति देवीमाहात्म्यम् ॥
(उतथ्यपत्नी । सा तु दीर्घतमोमाता । यथा,
ऋग्वेदे । ६ । १० । २ ।
“स्तोमं यमस्मै ममतेव शूषं
घृतं न शुचि मतयः पवन्ते ॥”
“ममता नाम ब्रह्मवादिनी दीर्घतमसो माता ।”
इति तद्भाष्ये सायनः ॥)

ममतायुक्तः, पुं, (ममतया युक्तः ।) कृपणः । इति

शब्दमाला ॥ अभिमानादिविशिष्टे, त्रि ॥

ममत्वं, क्ली, (मम + भावे त्व ।) मदीयत्वम् ।

यथा, मार्कण्डेयपुराणे ।
“दुःखायतनभूतो हि ममत्वालम्बनो गृही ॥”
स्नेहः । यथा, --
“सोऽचिन्तत्तदा तत्र ममत्वाकृष्टचेतनः ।”
इति देवीमाहात्म्यंम् ॥
“ममत्वेन स्रेहेन आकृष्टा चेतना मतिर्यस्य ।
ममेति षष्ठ्यन्तरूपमव्ययं तस्य भावः ममत्वम् ॥”
इति तट्टीकायां काशीरामः ॥

ममापतालः, पुं, (मव्यति बध्नाति जनानिति ।

मव्य बन्धने + “मव्यतेर्यलोपो मश्चापतुट्
चालः ।” उणा० ५ । ५० । इति आलप्रत्ययः ।
धातोर्यलोपः मकारश्चान्तस्य प्रत्ययस्यापतुडा-
गमश्च ।) विषयः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

मय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-सक०-सेट् ।) ङ, मयते । इति दुर्गा-
दासः ॥

मयः, पुं, (मयते द्रुतं गच्छतीति । मय् + पचाद्य-

च् ।) उष्ट्रः । इत्यमरः । २ । ९ । ७५ ॥ अश्वतरः ।
दानवविशेषः । स तु दैत्यानां शिल्पी । इति
मेदिनी । ये, ४४ ॥ (अयं हि युधिष्ठिरस्य
राज्ञः सभां विरचितवान् । यथा, शिशुपाल-
वधे । १३ । ५० ।
“उपनीय बिन्दुसरसो मयेन या
मणिदारुचारु किल वार्षपर्व्वणम् ।
विदधेऽवधूतसुरसद्मसम्पदं
समुपासदत् सपदि संसदं स ताम् ॥”)
तस्य सप्तापत्यानि यथा, वह्निपुराणे ।
“मयस्य जाता हेमायां पुत्त्राः सप्त महाबलाः ।
मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ।
बालिका वज्रकन्या च कन्या मन्दोदरी तथा ॥”
(सुखम् । त्रि, गन्ता । यथा, वाजसनेयसंहि-
तायाम् । २२ । १९ ।
“हयोऽस्यत्योऽसि मयोऽस्यर्व्वासि ।” “मयोऽसि
मयते गच्छति मयः मय गतौ पचाद्यच् । यद्वा
मय इति सुखनाम सुखरूपोऽसि ।” इति
तद्भाष्ये महीधरः ॥)

मयटः, पुं, (मयते गच्छत्यत्रेति । मय + “शका-

दिभ्योऽटन् ।” उणा० ४ । ८१ । इति अटन् ।)
तृणयुक्तहर्म्यः । इति हारावली ॥ हलन्तश्चेत्
तद्रूपार्थे प्राचुर्य्यार्थे च मयट् इति प्रत्ययो
भवति ॥

मयष्टकः, पुं, (मयुष्टकः । पृषोदरादित्वात् साधुः ।)

वनमुद्गः । इत्यमरटीकायां भरतः ॥

मया, स्त्री, (मयते गच्छति रोगोऽनया । मय् +

कः । स्त्रियां टाप् ।) चिकित्सा । इति शब्द-
चन्द्रिका ॥ त्रि, तृतीयेकवचनान्तास्मच्छब्दस्य
रूपम् ॥ (यथा, हितोपदेशे । १ । २२१ ।
“इहैव दृष्टानि मयैव तानि
जन्मान्तराणीव दशान्तराणि ॥”)

मयी, स्त्री, (मय + “पुंयोगादिति ।” ४ । १ ।

४८ । इति ङीष् ।) मयस्य स्त्रीजातिः । उष्ट्री ।
इति व्याकरणम् ॥

मयुः, पुं, (मयङ् गतौ + न्यङ्क्वादित्वात् कुः । इत्यमर-

टीकायां रघुनाथः ॥ यद्वा, मिनोति सुशब्दं
करोतीति । मि + “भृमृशीतॄचरित्सरितनिध-
निमिमस्जिभ्य उः ।” उणा० १ । ७ । इति उः ।)
पृष्ठ ३/६३४
किन्नरः । इत्यमरः । १ । १ । ७४ ॥ मृगः ।
इति मेदिनी । मे, ४३ ॥ (यथा, वाजसनेय-
संहितायाम् । १३ । ४७ ।
“मयुं पशुं मेधमग्ने ! जुषस्व
तेन चिन्वानस्तन्वो निषीद ।”
“मयुं पशुं तुरङ्गवदनं किम्पुरुषं पशुं मयुं
कृष्णमृगं वा जुषस्व ।” इति तद्भाष्ये महीधरः ॥)

मयुराजः, पुं, (मयूनां किन्नराणां राजा ।

“राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति
टच् ।) कुवेरः । इति शब्दरत्नावली ॥

मयुष्टकः, पुं, (मयून् मृगान् स्तकति प्रीणयतीति ।

स्तक् + अच् । षत्वम् ।) वनमुद्गः । इत्यमर-
टीका ॥

मयूखः, पुं, (मापयन् गगनं प्रमाणयन् ओखति

गच्छतीति । पृषोदरादिः । इत्यमरटीकायां
रधुनाथः । यद्वा, माति परिमातीव । मा +
“माङ ऊखो मय च ।” उणा० ५ । २५ । इति
ऊखः । मयादेशश्च ।) किरणः । (यथा,
महाभारते । ३ । ३९ । ४३ ।
“व्यसृजच्छतधा राजन् ! मयूखानिव
भास्करः ॥”)
दीप्तिः । ज्वाला । इत्यमरः । १ । ४ । ३३ ॥
(यथा, रघौ । २ । ४६ ।
“अथान्धकारं गिरिगह्वराणां
दंष्ट्रामयूखैः शकलानि कुर्व्वन् ।
भूयः स भूतेश्वरपार्श्ववर्त्ती
किञ्चिद्विहस्यार्थपतिं बभाषे ॥”)
शोभा । इति मेदिनी । खे, ११ ॥ कीलः ।
इत्यजयः ॥ (पर्व्वतः । यथा, ऋग्वेदे । ७ । ९९ । ३ ।
“दाधर्थ पृथिवीमभितो मयूखैः ॥”
“मयूखैः पर्व्वतैः ।” इति तद्भाष्ये सायनः ॥”)

मयूरः, पुं, (मयुरिव राति शब्दायते इति । रा +

कः । पृषोदरादित्वात् साधुः । यद्वा, मीनाति
हन्ति सर्पानिति । मी + “मीनातेरूरन् ।”
उणा० १ । ६८ । इति ऊरन् ।) स्वनामख्यातपक्षि-
विशेषः । तत्पर्य्यायः । बर्हिणः २ बर्ही ३ नील-
कण्ठः ४ भुजङ्गभुक् ५ शिखाबलः ६ शिखी ७
केकी ८ मेघनादानुलासी ९ । इत्यमरः । २ ।
५ । ३० ॥ प्रचलाकी १० चन्द्रकी ११ सितापाङ्गः
१२ । इति शब्दरत्नावली ॥ ध्वजी १३ मेघा-
नन्दी १४ कलापी १५ शिखण्डी १६ चित्र-
पिच्छिकः १७ भुजगभोगी १८ मेघनादानु-
लासकः १९ । तस्य पक्षस्य विचित्रताकारणं
यथा, --
“प्रविष्टायां हुताशन्तु वेदवत्यां स रावणः ।
पुष्पकन्तु समारुह्य परिचक्राम मेदिनीम् ॥
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।
उशीरबीजमासाद्य ददर्श स तु रावणः ॥
संवर्त्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः ।
याजयामास धर्म्मज्ञः सर्व्वैर्देवगणैर्वृतः ॥
दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् ।
तिर्य्यग्योनिं समाविष्टास्तस्य धर्षणभीरवः ॥
इन्द्रो मयूरः संवृत्तो धर्म्मराजस्तु वायसः ।
कृकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥”
इत्यादि ॥
“हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।
प्रीतोऽस्मि तव धर्म्मज्ञ ! भुजगाद्धि न ते
भयम् ॥
इदं नेत्रसहस्रन्तु यत्त्वद्वर्हे भविष्यति ।
वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ॥
एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ।
नीलाः किल पुरा बर्हा मयूराणां नराधिप ! ।
सुराधिपाद्वरं प्राप्य गताः सर्व्वे विचित्रताम् ॥”
इत्यन्तं वाल्मीकीये रामायणे उत्तरकाण्डे १८
सर्गः ॥ अस्य मांसगुणाः ।
“मयूरः श्रोत्रनेत्राग्निमेधावर्णस्वरायुषाम् ।
हितो बल्यो गुरुश्चोष्णो वातघ्नः शुक्रमांसदः ॥
हेमन्तकाले शिशिरे वसन्ते
सेव्यं हि मायूरमुशन्ति मांसम् ।
उष्णो हि बर्ही विषभोजनैश्च
वर्षाशरद्ग्रीष्ममुखेष्वपथ्यः ॥”
इति राजनिर्घण्टः ॥
एतन्मांसमेरण्डतैलभृष्टं विषतुल्यम् । इति
राजवल्लभः ॥ * ॥ मयूरशिखाक्षुपः । तत्पर्य्यायः ।
खराश्वा २ कारवी ३ दीपः ४ लोचमस्तकः ५ ।
इत्यमरः । २ । ४ । १११ ॥ अपामार्गः । इति
मेदिनी । रे, १९९ ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने २३ अः । “पिप्पलीपिप्पलीमूलं
चव्यचित्रकमयूरवर्षाभूसिद्धं वा क्षीरं पिबेत् ॥”
असुरविंशेषः । यथा, महाभारते । १ । ६७ । ३६ ।
“मयूर इति विख्यातः श्रीमान् यस्तु महासुरः ।
स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥”
सुमेरोरुत्तरवर्त्ती पर्व्वतविशेषः । यथा, मार्क-
ण्डेये । ५५ । १३ ।
“स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्व्वतः ।
विरजाक्षो वराहाद्रिर्मयूरो दारुधिस्तथा ॥”
कविविशेषः । स च मयूरभट्ट इति लोके
प्रसिद्धः । अयं खलु बाणभट्टस्य श्वशुरः
उज्जयिन्यां वृद्धभोजमहीपतेः सभायामा-
सीदिति मानतुङ्गाचार्य्यप्रणीतभक्तामराख्य-
स्तोत्रटीकाप्रारम्भे मेरुतुङ्गप्रणीतप्रबन्धचिन्ता-
मणौ च समुपलभ्यते । प्रबन्धचिन्तामणौ
बाणभट्टो मयूरस्य भगिनीपतिरासीदित्युक्त-
मस्ति । अथ च ।
“अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः ।
श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः ॥”
इति शार्ङ्गपद्धत्यादिप्रसिद्धराजशेखरपद्येनापि
बाणमयूरयोः समकालत्वं प्रतीयते ।
अयं हि कुष्ठरोगग्रस्तः सूर्य्यमारिरात्सुः सूर्य्य-
शतकं नाम स्तोत्रग्रन्थं प्रणीय ततः सम्यक्
निष्कृतिमवाप । सूर्य्यशतकस्यान्तिमः श्लोको
यथा, --
“श्लोका लोकस्य भूत्यै शतमिति रचिताः
श्रीमयूरेण भक्त्या
युक्तश्चैतान् पठेद् यः सकृदपि पुरुषः सर्व्वपापै-
र्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुः-
प्रकर्षं
विद्यामैश्वर्य्यमर्थं सुखमपि लभते सोऽत्र सूर्य्य-
प्रसादात् ॥”)

मयूरकं, क्ली, (मयूरः मयूरग्रीवेव प्रतिकृतिरिति ।

मयूर + “इवे प्रतिकृतौ ।” ५ । ३ । ९६ । इति
कन् । अस्य मयूरकण्ठकान्तितुल्यद्युतित्वा-
त्तथात्वम् ।) अञ्जनविशेषः । तुतिया इति
भाषा । तत्पर्य्यायः । तुत्थाञ्जनम् २ शिखिग्रीवम्
३ वितुन्नकम् ४ । इत्यमरः । २ । ९ । १०१ ॥
(यथा, भावप्रकाशे । १ ।
“तुल्यं वितुन्नकं चापि शिखिग्रीवं मयूरकम् ॥”)

मयूरकः, पुं, (मयूर + इवार्थे कन् ।) अपा-

मार्गः । इत्यमरः । २ । ९ । १०१ ॥ (यथा,
सुश्रुते सूत्रस्थाने । ३६ । १६ ।
“मयूरको राजवृक्षो निम्बः कोषातकी
तिलाः ॥”)
तुत्थकम् । (स्वार्थे कन् ।) मयूरः । इति विश्वः ॥
मयूरशिखा । इति जटाधरः ॥

मयूरग्रीवकं, क्ली, (मयूरस्य ग्रीवायाः कन्धरस्य

वर्णं इव वर्णो यस्य । बहुव्रीहौ कन् । ह्नस्वश्च ।)
तुत्थम् । इति राजनिर्घण्टः ॥

मयूरचटकः, पुं, (मयूर इव चटकः ।) गृह-

कुक्कुटः । इति हारावली । ९० ॥

मयूरचूडं, क्ली, (मयूरस्येव चूडा अग्रभागो यस्य

तत् ।) स्थौणेयकम् । इति राजनिर्घण्टः ॥

मयूरचूडा, स्त्री, (मयूरस्य चूडेव चूडा शिखा

यस्याः ।) मयूरशिखा । इति वैद्यकम् ॥

मयूरजङ्घः, पुं, (मयूरस्य जङ्घेव जङ्घा यस्य ।)

श्योनाकः । इति राजनिर्घण्टः ॥

मयूरतुत्थं, क्ली, (मयूर इव तुत्थम् । मयूरवर्ण-

त्वादस्य तथात्वम् ।) तुत्थम् । इति राज-
निर्घण्टः ॥

मयूरपदकं, क्ली, (मयूरस्येव पदकं स्थानम् ।)

नखाघातः । यथा, शब्दमालायाम् ।
“तथावकेरकोली च नखाघाते तु सुण्डनम् ।
मयूरपदकं व्याघ्रनखकोत्पलपत्रके ॥”

मयूरविदला, स्त्री, (मयूरान् विशेषेण दलति

स्वपुष्पादिशोभया तिरस्करोतीति । वि + दल +
अच् । स्त्रियां टाप् ।) अम्बष्ठा । इति वैद्यकम् ॥

मयूरशिखा, स्त्री, (मयूरस्य शिखेव शिखा अग्रं

यस्याः ।) स्वनामख्यातक्षुपविशेषः । तत्पर्य्यायः ।
बर्हिचूडा २ शिखिनी ३ शिखालुः ४ सुशिखा
५ शिखा ६ शिखाबला ७ केकिशिखा ८ ।
अस्या गुणाः । रसे स्वादुत्वम् । मूत्रकृच्छ्र-
बालग्रहादिदोषनाशित्वम् । वश्यकर्म्मणि शस्त-
त्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“मयूराह्वा शिखा प्रोक्ता सहस्राङ्घ्रिर्मरुच्छदा ।
नीलकण्ठशिखा लघ्वी पित्तश्लेष्मातिसारजित् ॥”
इति भावप्रकाशः ॥

मयूरिका, स्त्री, (मयूरवत् वर्णोऽस्त्यस्याः । मयूर

+ ठन् । टाप् ।) अम्बष्ठा । इति राज-
निर्घण्टः ॥