शब्दकल्पद्रुमः/भेकः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/५४२

भेकः, पुं, (बिभेति इति । भी + “इण्भीका-

पाशल्यतीति ।” उणा० । ३ । ४३ । इति कन् ।
जन्तुविशेषः । व्याङ् इति भाषा । तत्-
पर्य्यायः । मण्डूकः २ वर्षाभूः ३ शालूरः ४
प्लवः ५ दर्दुरः ६ । इत्यमरः । १ । १० । २४ ॥ वृष्टिभूः
७ सालूरः ८ । इति तट्टीका ॥ प्लवङ्गमः ९
व्यङ्गः १० प्लवगः ११ शल्लः १२ नन्दनः १३
गूढवर्च्चाः १४ अजिह्वः १५ जिह्ममोहनः
१६ । इति शब्दरत्नावली ॥ नन्दकः १७ कृता-
लयः १८ रेकः १९ । इति त्रिकाण्डशेषः ॥ मण्डः
२० हरिः २१ लुलुकः २२ । क्वचित् पुस्तके
लूलकोऽपि पाठः । शालूकः २३ कटुरवः २४ ।
अस्य मांसगुणाः । सद्योबलकरत्वम् । श्रम-
तृड्दाहप्रमेहक्षयकुष्ठच्छर्द्दिनाशित्वञ्च । इति
राजनिर्घण्टः ॥ मेघः । इति मेदिनी । के, ३० ॥
(यथा, आर्य्यासप्तशत्याम् । ४५१ ।
“संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥”)

भेकटः, पुं, (भेक इव टलति । भेक + टल + डः ।)

मत्स्यभेदः । यथा । तुल्यौ भेकटवेकटौ । इति
द्विरूपकोषः ॥

भेकनिः, पुं, मत्स्यविशेषः । भाङ्गन इति भाषा ।

अस्य गुणाः । मधुरत्वम् । शीतत्वम् । वृष्य-
त्वम् । श्लेष्मकरत्वम् । गुरुत्वञ्च । इति राज-
वल्लभः । भेकलिः । इति च पाठः ॥

भेकपर्णी, स्त्री, (भेकाकृति पर्णमस्याः ङीष् ।)

मण्डूकपर्णी । इति केचित् ॥ (यथा, --
“तत्सर्व्वं कन्यकाद्रावैर्मर्द्दयेद्भावयेत्तथा ।
भेकपर्णीरसेनैव गुञ्जाद्वयवटीं हिताम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे बृहत्सोमनाथ-
रसे ॥)

भेकभुक् [ज्] पुं, (भेकं भुङ्क्ते इति । भुज् +

क्विप् । सर्पः । इति त्रिकाण्डशेषः ॥

भेकी, स्त्री, (भेक + “जातेरस्त्रीविषयादयोप-

धात् ।” ४ । १ । ६३ । इति ङीष् ।) भेकप्रिया ।
तत्पर्य्यायः । शिली २ गण्डुपदी ३ वर्षाभ्वी ४
इत्यमरः । १ । १० । २४ ॥ अन्येऽपीबन्तभेक-
पर्य्याया एतद्वाचकाः । मण्डुकपर्णीवृक्षः । इति
रत्नमाला ॥ (यथास्याः पर्य्यायान्तरम् ।
“भेकी मण्डूकपर्णी च मण्डूकी मूलपर्ण्यपि ॥”
इति रत्नमालायाम् ॥)

भेडः, पुं, (भी + बाहुलकात् डः । अस्येत्त्वम् न

गुणत्वं च ।) मेषः । इति हेमचन्द्रः । ४ । ३४३ ।
अस्य भाषा भेडा ॥

भेडी, स्त्री, (भेड + ङीष् ।) भेडभार्य्या । अवी ।

अस्या दुग्धगुणाः ।
“आकिकं लवण स्वादु स्निग्धोष्णञ्चाश्मरीप्रणुत् ।
अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् ॥
गुरुकासेऽनिलोद्भूते केवले चानिले वरम् ।”
इति भावप्रकाशः ॥

भेत्ता, [ऋ] त्रि, (भिनत्तीति । भिद + तृच् ।)

भेदकर्त्ता । यथा, व्यवहारतत्त्वे ।
“कुद्दालपाणिविज्ञेयः सेतुभेत्ता समीपतः ॥”

भेदः, पुं, (भिद् + घञ् ।) शत्रुवशीकरणोपाय-

चतुष्टयान्तर्गततृतीयोपायः । तत्पर्य्यायः ।
उपजापः २ । इत्यमरः । २ । ८ । २१ ॥ परतो
विश्लेष्य आत्मसात् करणंभेदः । इति भरतः ॥
तद्विशेषो यथा, --
मत्स्य उवाच ।
“परस्परन्तु ये दुष्ठाः क्रुद्धा भीतावमानिताः ।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥
ये तु येनैव दोषेण परस्मान्नापि बिभ्यति ।
ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥
आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् ।
एवं हि दर्शयेद्भिन्नान् यथावद्वशमानयेत् ॥
संहता हि विना भेदं शक्रेणापि सुदुःसहाः ।
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥
स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च ।
परीक्ष्य साधु मन्येत भेदं परमुखाच्छ्रुतम् ॥
भेद्याः स्वकार्य्यमुद्दिश्य कुशलैर्ये हि भेदिताः ।
भेदितास्ते विनिर्द्दिष्टा नैव राजार्थवादिभिः ॥
अन्तःकोपो बहिःकोपो यत्र स्यातां मही-
क्षिताम् ।
अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो मनीषिभिः ।
महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ! ॥
अमात्यमन्त्रिणाञ्चैव राजपुत्त्रात्तथैव च ।
अन्तःकोपो विनिर्द्दिष्टो दारुणः पृथिवीक्षिताम् ॥
वाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ।
शुद्धान्तस्तु महाभाग ! शीघ्रमेव जयी भबेत् ॥
अपि शक्रसमो राजा अन्तःकोपेन नश्यति ।
सोऽन्तःकोपःप्रयत्नेन तस्माद्रक्षेन्महीक्षिता ॥
परतः कोपमुत्पाद्य भेदेन विजिगीषुणा ।
ज्ञातीनां भेदनं कार्य्यं परेषां विजिगीषुणा ॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथात्मनः ।
ज्ञातयः परितप्यन्ते सततं परितप्य यम् ॥
तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा ।
ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥
न ज्ञातिरनुगृह्णाति न ज्ञातिर्दग्धुमिच्छति ।
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ॥
भिन्ना हि शक्या रिपवः प्रभूताः
स्वल्पेन सैन्येन निहन्तुमाजौ ।
सुसंहतानां हि ततस्तु भेदः
कार्य्यो रिपूणां नयशास्त्रविद्भिः ॥”
इति मात्स्ये राजधर्म्मे २२२ अध्यायः ॥ * ॥
द्वैधः । विशेषः । विदारणम् । इति मेदिनी ।
ने, १२ ॥ (तथा च कामन्दकीये । १५ । १६ ।
“पुरश्च पश्चाच्च यदा समर्थ-
स्तदाभियायान्महते फलाय ।
पुनः प्रसर्पन्नविशुद्धपृष्ठः
प्राप्नोति तीव्रं खलु पार्ष्णिभेदम् ॥”)
विरेकः । यथा, हास्यार्णवनाटके ।
“काशे धूमस्तुषाणां बलवति मरुते स्वेदभेदोपवासा
वह्नेर्म्मान्द्ये च पिष्टं सपिशितमनिशं वारिपानं
कफर्त्तौ ॥”

भेदकः, त्रि, (भिद् + ण्वुल् ।) विदारकः । यथा,

मनौ । ९ । २८५ ।)
(“संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः ।
प्रतिकुर्य्याच्च तत् सर्व्वं पञ्च दद्याच्छतानि च ॥”
विरेचकौषधादिः । (विरेचकौधार्थे विषयो यथा,
“नवज्वरे च ये योगा भेदकाः परिकीर्त्तिताः ।
ते तथैव प्रयोक्तव्या वीक्ष्य देहमलादिकम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे विरेकाधिकारे ॥)
पृथक्कारकः । यथा । “भेदयति अन्यपदार्थं
पृथक् करोतीति भेदकं नाम्ना शिवः गोत्रेण
गार्ग्यः ।” इति कारकटीकायां दुर्गादासः ॥
अपि च ।
“भेद्यभेदकयोः श्लिष्टं सम्बन्धोऽन्योन्यमिष्यते ।
द्बिष्ठो यद्यपि सम्बन्धः षष्ठ्यत्पत्तिस्तु भेदकात् ॥”
इति कलापटीकाधृतभर्त्तृहरिकारिका ॥
(“सामान्यस्य भेदको विशेषः प्रकारः ।” इति च
५ । ३ । ६९ । इत्यस्य । काशिकावृत्तिः ॥)

भेदनं, क्ली, (भिद्यतेऽनेनेति भिद् + ल्युट् ।)

हिङ्गु । इति राजनिर्घण्टः ॥ विदारणम् ।
इति भिदधातोर्भावेऽनट् प्रत्ययेन निष्पन्नम् ॥
(भेदकारके, त्रि ॥ यथा, भागवते । ३ । २६ । २ ।
“यदाहुर्वर्णये तत् ते हृदयग्रन्थिभेदनम् ।
“अहङ्कारनिवर्त्तकमिति स्वामिव्याख्यानम् ॥”
विरेचनकारके च । यथा च सुश्रुते । १ । १८८ । १४ ॥
सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम् ।
भेदनं कफवातघ्नं हृद्यं वस्तिविशोधनम् ॥”)

भेदनः, पुं, (“भिद्यतेऽनेनेति ।” भिद + ल्युट् ।)

अम्लवेतसः ॥ (भिनत्ति भूमिमिति । ल्युः ॥
शूकरः । इति राजनिर्घण्टः ॥

भेदितः, त्रि, (भिद + णिच् + कर्म्मणि क्तः ।)

भिन्नः । दारितः । इत्यमरः । ३ । १ । १०० ॥

भेदी, [न्] पुं, (भेत्तुं शीलमस्येति । भिद + णिनिः ।)

अम्लवेतसः । इति राजनिर्घण्टः ॥ (गुणादयो-
ऽस्याम्लवेतसशब्दे विज्ञेयाः ॥)
भेदकर्त्तरि तद्विशिष्टे च त्रि ॥ (यथा भागवते ।
३ । १५ । ३३ ।
“व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥”)

भेदुरं, क्ली, (भिदुर + पृषोदरादित्वात् साधुः ।)

भिदुरम् । वज्रम् । इति द्विरूपकोषः ॥

भेरः, पुं, (बिभेत्यस्मादिति । भी + ऋज्रेन्द्राग्र-

वज्रेति । उणा० । २ । २८ । इति रन् ।)
पटहः । भेरी । दुन्दुभिः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

भेरिः, स्त्री, (बिभ्यति शत्रवोऽस्या इति । भी +

“वङ्क्र्यादयश्च ।” उणा० । ४ । ६६ । इति क्रिन् ।
बाहुलकाद् गुणः ।) बृहड्ढक्का । तत्पर्य्यायः ।
आनकः २ दुन्दुभिः ३ । इत्यमरः । १ । ७ । ६ ॥
भेरी ४ आनकदुन्दुभिः ५ आनकदुन्दुभी ६ ।
इति तट्टीकायां भरतः ॥ (यथा, “यतो भेरि-
वेणुवीणामृदङ्गतालपटहशङ्खकाहलादिभेदेन
शब्दा अनेकविधाः ।” इति पञ्चतन्त्रे प्रथम-
तन्त्रम् ॥)
पृष्ठ ३/५४३

भेरी, स्त्री, (बिभ्यति शत्रवोऽस्या इति । भी +

क्रिन् । कृदिकारादिति पक्षे ङीप् ।) भेरी ।
इत्यमरटीकायां भरतः ॥
वराह उवाच ।
“भेरीशब्दमकृत्वा तु यस्तु मां प्रतिबोधयेत् ।
बधिरो जायते भूमे ! जन्मैकञ्च न संशयः ॥
तस्य वक्ष्यामि सुश्रोणि ! प्रायश्चित्तं मम प्रियम् ।
किल्विषाद् येन मुच्येत भेरीताडनमोहितः ॥
यस्य कस्यचिन्मासस्य शुक्लपक्षे तु द्वादशीम् ।
आकाशशयनं कृत्वा शीघ्रं मुच्येत किल्बिषात् ॥
य एतेन विधानेन वसुधे ! कर्म्म कारयेत् ।
अपराधं न गच्छेत मम लोकाय गच्छति ॥”
इति वराहपुराणे भेरीताडनापराधप्राय-
श्चित्तम् ॥
(यथा च, मुश्रुते । २ । २७६ । ९ ।
“एतेन भेर्य्यः पटहाश्च दिग्धा
नानद्यमाना विषमाशु हन्युः ॥”)

भेरुण्डं, क्ली, गर्भधारणम् । भयानके, त्रि । इति

शब्दरत्नावली ॥

भेरुण्डा, स्त्री, (भेरुण्ड + टाप् ।) देवताविशेषः ।

यक्षिणीभेदः । इति मेदिनी । डे, ३४ ॥ सा
देवता काली । यथा, --
“त्रिकोणनिलया नित्या परमामृतरञ्जिता ।
महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥”
इति कालीकुलसर्व्वस्वे श्रीशिवपरशुरामसंवादे
आद्यायाः सहस्रनामस्तोत्रम् ॥

भेलं, त्रि, (भी + “ऋजेन्द्राग्रवज्रेति ।” उणा० २ ।

२८ । इति रन् रस्य लत्वम् ।) भीरुः । मूर्खः ।
इति मेदिनी । ले, ४३ ॥ चञ्चलः । इति शब्द-
रत्नावली ॥

भेलः, पुं, (भी + रन् लत्वम् ।) प्लवः । मुनिविशेषः ।

इति मेदिनी । ले, ४३ ॥ भेलकम् । इति
संक्षिप्तसारोणादिवृत्तिः ॥

भेलकः, पुं, क्ली, (भेल + स्वार्थे कन् ।) नद्यादि

तरणसाधन्वस्तु । भेला इति भाषा । तत्-
पर्य्यायः । प्लवः २ कोलः ३ उडूपम् ४ उडुपम्
५ तरणः ६ तारणः ७ तारकः ८ । इति
शब्दरत्नावली ॥ तरीषः ९ । इति जटा-
धरः ॥

भेष, ऋ ञ भये । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-अक०-सेट् ।) ऋ अबिभेषत् । ञ भेषति
भेषते बिभेषे । इति दुर्गादासः ॥

भेषजं, क्ली, (भिषजोवैद्यस्येदमित्यण् निपा-

तनादेत्वम् । यद्वा, भेषं रोगं जयतीति । जि +
डः । औषधम् । इत्यमरः । २ । ६ । ५० ॥
(“अस्ति भेषजोजलाषः ।” इति ऋक्संहिता ।
२ । ३३ । ७ ।) अथ भेषजभक्षणसमयाः ।
“भैषज्यमभ्यवहरेत् प्रभाते प्रायशो बुधः ।
कषायांस्तु विशेषेण तत्र भेदस्तु दर्शितः ॥
ज्ञेयः पञ्चविधः कालो भैषज्यग्रहणे नृणाम् ।
किञ्चित् सूर्य्योदये जाते तथा दिवसभोजने ।
सायन्तने भोजने च मुहुश्चापि तथा निशि ॥”
तत्र प्रथमः कालः ।
‘प्रायः पित्तकफोद्रेके विरेकवमनार्थयोः ।
लेखनार्थे च भैषज्यं प्रभाते नान्नमाहरेत् ॥’
अथ द्वितीयः कालः ।
‘भैषज्यं विगुणेऽपाने भोजनाग्रे प्रशस्यते ।
अरुचौ चित्रभोज्यैश्च मित्रं रुचिरमाहरेत् ॥
समानवाते विगुणे मन्देऽग्नौ वह्निदीपनम् ।
दद्याद्भोजनमध्ये च भैषज्यं कुशलो भिषक् ॥
व्यानकोपे तु भैषज्यं भोजनान्ते समाहरेत् ।
हिक्काक्षेपककम्पेषु पूर्ब्बमन्ते च भोजनात् ॥’
अथ तृतीयः कालः ।
‘उदाने कुपिते वाते स्वरभङ्गादिकारिणि ।
ग्रासग्रासादिकं देयं भैषज्यं साध्यभोजने ॥
प्राणे प्रदुष्टे साध्यस्य भुक्तस्यान्ते प्रदीयते ।
औषधं प्रायशो धीरैः कालोऽयं स्यात् तृती-
यकः ॥’
अथ चतुर्थः कालः ।
मुहुर्मुहुश्च तृट्छर्द्दिहिक्काश्वासगदेषु च ।
सान्नञ्च भेषजं दद्यादिति कालचतुर्थकः ॥’
अथ पञ्चमः कालः ।
‘ऊर्द्ध्वगन्तु विकारेषु लेखने वृंहणे तथा ।
पाचने शयने देयमनन्तं भेषजं निशि ॥’
इति पञ्चमः कालः ॥
निरन्नस्य भेषजस्य गुणमाह ।
‘वीर्य्याधिकं भवति भेषजमन्नहीनं
हन्यात्तदामयमसंशयमाशु चैव ॥
तद्बालवृद्धयुवतीमृदुभिश्च पीतं
ग्लानिं परां नयति चाशु बलक्षयञ्च ॥’
सान्नस्य भेषजस्य गुणमाह ।
‘शीघ्रं विपाकमुपपत्तिबलंन हिंस्या-
दन्नावृतं न च मुहुर्वदनान्निरेति ।
एतद्धितं स्थविरबालकृशाङ्गनाभ्यः
प्राग्भोजनाद्यदशितं किल तच्च तद्वत् ॥’
तद्वत् अन्नावृतवत् भेषजमिति शेषः ।
‘औषधशेषे भुक्तं भोजनशेषे यदौषधं पीतम् ।
न करोति गदोपशमं प्रकोपयत्यन्यरोगांश्च ॥’
पीतमित्युपलक्षणम् । लीढादि च ।
‘अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णासुमनः कुतः ।
लघुत्वमिन्द्रियोद्गारशुद्धिजीर्णौषधाकृतिः ॥
क्लमो दाहोऽङ्गसदनं भ्रममूर्च्छाशिरोरुजः ।
अरतिर्बलहानिश्च सावशेषौषधाकृतिः ॥’
अथ भेषजभक्षणविधिमाह चरकः ।
‘देवान् गुरूंस्तथा विप्रान् पूजयित्वा प्रणम्य च ।
आशिषश्च समादाय श्रद्धया भेषजं भजेत् ॥
रसायनमिवर्षीणां देवानामिव चामृतम् ।
सुधैवोत्तमनागानां भैषज्यमिदमस्तु ते ॥
ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ।
ऋषयः सौषधिग्रामा भूमिदेवाश्च पान्तु वः ॥’
इत्याद्याशिषः ॥
‘औषधं हेमरजतमृद्भाजनपरिस्थितम् ।
पिबेदात्मजनस्याग्रे प्रसन्नवदनेक्षणः ॥
प्रशान्तस्तूपविश्याथ पीत्वा पात्रमधोमुखम् ।
निःक्षिप्याचम्य सलिलं ताम्बूलाद्युपयोजयेत् ॥’
अथ भेषजानां विधानानि ।
‘स्वरसश्च तथा कल्कः क्वाथश्च हिमफाण्टकौ ।
ज्ञेयाः कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥’
तत्रादौ स्वरसविधिः ।
‘आहतात्तत्क्षणाकृष्टात् द्रव्यात् क्षुण्णात् समु-
द्भवे ।
वस्त्रनिष्पीडितो यश्च स्वरसो रस उच्यते ॥’
अथ कल्कविधिः ।
‘द्रव्यमार्द्रं शिलापिष्टं शुष्कं वा सजलं भवेत् ।
प्रक्षिप्य गालयेद्वस्त्रे तन्मानं कर्षसम्मितम् ॥
कल्के मधु घृतं तैलं देयं द्विगुणमात्रया ।
सितां गुडं समं दद्याद्द्रवा देयाश्चतुर्गुणाः ॥’
अथ क्वाथविधिः ।
‘पानीयं षोडशगुणं क्षुण्णे द्रव्यपले क्षिपेत् ।
मृत्पात्रे क्वाथयेद्ग्राह्यमष्टमांशावशेषितम् ॥
कर्षादौ तु पलं यावद्दद्यात् षोडशिकं जलम् ॥
षोडशिकं षोडशगुणम् ॥ * ॥
अथ हिमविधिः ।
‘क्षुण्णं द्रव्यपलं सम्यक् षड्भिर्नीरपलैः प्लुतम् ।
निशोषितं हिमः स स्यात्तथा शीतकषायकः ॥
अथ फाण्टविधिः ।
‘क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् ।
मृत्पात्रे कुडवोन्मानं ततस्तु श्रावयेत् पुटात् ॥
स स्यात् चूर्णद्रवः फाण्टस्तन्मानं द्विपलोन्मितम् ।
क्षौद्रं सिता गुडादींस्तु कर्षमात्रान् विनिः-
क्षिपेत् ॥’ * ॥
अथ तण्डुलजलविधिः ।
‘कण्डितं तण्डुलपलं जलेऽष्टगुणिते क्षिपेत् ।
भावयित्वा जलं ग्राह्यं देयं सर्व्वत्र कर्म्ममु ॥’
अथ मन्थविधिः ।
‘जले चतुष्पले शीते क्षुण्णं द्रव्यपलं क्षिपेत् ।
मृत्पात्रे मन्थयेत् सम्यक तस्माच्च द्विगुणं
पिबेत् ॥’
अथ चूर्णविधिः ।
‘अत्यन्तशुष्कं यद्द्रव्यं सुपिष्टं वस्त्रगालितम् ।
तत् स्याच्चूर्णं रजःक्षोदस्तन्मात्राकर्षसम्मिता ॥
चूर्णे गुडः समो देयः शर्करा द्बिगुणा मता ।
चूर्णेषु भर्जितं हिङ्गु देयं नोत्क्लेदकृद्भवेत् ॥’
अथ भावनाविधिः ।
‘द्रवेण यावता सम्यक् चूर्णं सर्व्वं प्लुतं भवेत् ।
भावनायाः प्रमाणन्तु चूर्णे प्रोक्तं भिषग्वरैः ॥’
अथ पुटपाकविधिः ।
‘पुटपक्वस्य कल्कस्य स्वरसो गृह्यते यतः ।
अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ॥
पुटपाकस्य पाकोऽयं लेपस्याङ्गारवर्णता ।
लेपञ्च द्व्यङ्गुलं स्थूलं कुर्य्याद्वाङ्गुष्ठमात्रकम् ॥
काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् ।
पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत् ॥
कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः ॥’
अथोष्णोदकविधिः ।
‘अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा ।
पृष्ठ ३/५४४
अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् ॥’
अथ क्षीरपाकविधिः ।
‘क्षीरमष्टगुणं द्रव्यात् क्षीरान्नीरं चतुर्गुणम् ।
क्षीरावशेषं तत्पीतं शूलमामोद्भवं जयेत् ॥’
अथावलेहविधिः ।
‘क्वाथादेर्यत् पुनः पाकात् घनत्वं सा रसक्रिया ।
सोऽवलेहश्च लेहश्च तन्मात्रा स्यात् पलो-
न्मिता ॥’
अथ वटिकाविधिः ।
‘वटिका अथ कथ्यन्ते तन्नामवटिका वटी ।
मोदको गुटिका पिण्डी गुडो वर्त्तिस्तथोच्यते ॥
लेहवत् साध्यते वह्नौ गुडो वा शर्कराथवा ।
गुग्गुलुर्व्वा क्षिपेत्तत्र चूर्णं तन्निर्म्मिता वटी ॥’
अथ सन्धानविधिः ।
‘द्रवेषु चिरकालस्थं द्रव्यं यत् सन्धितं भवेत् ।
आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितम् ॥’
अथ धातूनां शोधनमारणविधिः । तत्र
शोधनविधिः ।
‘पत्तलीकृत्य पत्राणि हेम्नो वह्नौ प्रतापयेत् ।
निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥
गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा ।
एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥’ * ॥
अथ स्वर्णस्य मारणविधिः ।
‘स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्द्दयेत् ।
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥
गोलकञ्च ततो रुद्ध्वा सरावदृढसंपुटे ।
त्रिंशद्वनोपलैर्दद्यात् पुटान्येवं चतुर्द्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥’
अथ स्नेहपानविधिः ।
स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा ।
मज्जा च तत् पिवेन्मर्त्यः किञ्चिदभ्युदिते रवौ ॥
अथ पञ्चकर्म्माणि ।
प्रथमं वमनं पश्चाद्विरेकश्चानुवासनम् ।
एतानि पञ्च कर्म्माणि निरूहेणोत्तरं तथा ॥
अथ फलवर्त्तिविधिः ।
घृताभ्यक्ते गुदे क्षिप्त्वा श्लक्ष्णा स्वाङ्गुष्ठसन्निभा ।
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥
अथ नस्यग्रहणविधिः ।
नस्यं तत् कथ्यते धीरैर्नासाग्राह्यं यदौषघम् ।
लावणं नस्तकर्म्मेति तस्य नाम द्वयं मतम् ॥
अथ धूमपानविधिः ।
धूमस्तु षड्विधः प्रोक्तः शमनो वृंहणस्तथा ।
रेचनः कासहा चैव वामनो ब्रणधूपनः ॥
अथ गण्डूषकवलप्रतिसारणविधिः ।
तत्र गण्डूषः ।
स्नेहक्षीरकषायादिद्रवैः सम्पूर्णमाननम् ।
आपूर्य्य स्थीयते तावद्विधिर्गण्डूषधारणे ॥
अथ कवलः ।
वातपित्तकफघ्नस्य द्रव्यस्य कवलं मुखे ।
अर्द्धे निःक्षिप्य संचर्व्य निष्ठीवेत् कवले विधिः ॥
अथ प्रतिसारणम् ।
दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहकैः ।
शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥
अथ स्वेदविधिः ।
स्वेदश्चतुर्विधः प्रोक्तस्तापोष्णस्वेदसंज्ञितः ।
उपनाहो द्रवः स्वेदः सर्व्वे वातार्त्तिहारिणः ॥
अथ कर्णपूरणविधिः ।
स्वेदयेत् कर्णदेशन्तु किञ्चित्तु पार्श्वशायिनः ।
मूत्रैः स्नेहै रसैरुक्तैः कोष्णैः श्रोत्रं प्रपूरयेत् ॥
कर्णञ्च पूरितं रक्षेच्छतं पञ्चशतानि वा ।
सहस्रं वापि मात्राणां श्रोत्रकण्ठशिरोगदैः ॥
रसाद्यैः पूरणं कर्णे भोजनात् प्राक् प्रशस्यते ।
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ॥ * ॥
अथालेपविधिः ।
अथालेपस्य नामानि लेपलेपनलिप्तयः ।
दोषघ्नो विषहा वर्ण्यः स च लेपस्त्रिधा मतः ।
न रात्रौ लेपनं कुर्य्यात् शुष्यमाणं न धारयेत् ॥
अथ शोणितस्रावणविधिः ।
शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च ।
प्रस्थं प्रस्थार्द्धमथवा प्रस्थार्द्धार्द्धमथापि वा ॥
शरत्काले स्वभावेन शोणितं स्रावयेन्नरः ।
त्वग्दोषग्रन्थिशोथाद्या न स्यू रुधिरपातनात् ॥
अथाश्च्योतनविधिः ।
क्वाथक्षौद्रासवस्नेहबिन्दूनां यत्तु पातनम् ।
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्च्योतनं हितम् ॥
अथ विडालकविधिः ।
विडालको वहिर्लेपो नेत्रे पक्ष्मविवर्ज्जिते ।
तस्य मात्रा परिज्ञेया मुखालेपविधानवत् ॥
अथ तर्पणविधिः ।
वातातपरजोहीने वेश्मन्युत्तानशायिनः ।
आधारौ माषचूर्णेन क्लिन्नेन परिमण्डितौ ॥
समौ दृढावसम्बाधौ कर्त्तव्यौ नेत्रकोषयोः ।
पूरयेद्घृतमण्डेन विलीनेन सुखोदके ॥
अथाञ्जनविधिः ।
“अथ सम्यगदोषस्य प्राप्तमञ्जनमाचरेत् ।
अञ्जनं क्रियते नेत्रे तद्द्रव्यञ्चाञ्जनं मतम् ॥
अथ प्रत्यञ्जनविधिः ।
गतदोषमपेताश्रु प्रपश्यत् सम्यगम्भसा ।
प्रक्षाल्याक्षि यथादोषं कार्य्यं प्रत्यञ्जनं ततः ॥
इति भावप्रकाशः ॥ * ॥
अथ भेषजकरणभक्षणदिनम् । तत्र तिथयः
विष्टिभिन्नाः शोभनाः । वाराः रविसोमबुध-
बृहस्पतिशुक्राणाम् । नक्षत्राणि पूर्ब्बफल्गुनी-
पूर्व्वाषाढापूर्व्वभाद्रपन्मघाभरण्यश्लेषाविशाखा-
र्द्राभिन्नानि । जन्मर्क्षञ्च निषिद्धम् ।
“लग्नानि मिथुनकन्याधनुर्मीनसंज्ञकानि ।
तत्र गुरुबुधचन्द्रशुक्रेषु सत्सु प्रशस्तानि ॥”
इति ज्योतिषतत्त्वम् ॥
(करणं पुनर्भेषजम् । भेषजं नाम तत् यदुप-
करणाय उपकल्प्यते भिषजो धातुसाम्याभि-
निर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायात्तेभ्यः ।
तद्द्विविधं व्यपाश्रयभेदात् दैवव्यपाश्रयं युक्ति-
व्यपाश्रयञ्च । तत्र दैवव्यपाश्रयं मन्त्रौषध-
मणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोप-
वासस्वस्त्ययनप्रणिपातगमनादि । युक्तिव्यपा-
श्रयं संशोधनोपशमने चेष्टाश्च दृष्टफलाः ।
एतच्चैव भेषजमङ्गभेदादपि द्विविधं द्रव्यभूत-
मद्रव्यभूतञ्च, तत्र यद्द्रव्यभूतं तदुपायाभि-
प्लुतम् । उपायो नाम भयदर्शनविस्मापनक्षो-
भणहर्षणभर्त्सन वधबन्धस्वप्नसंवाहनादिरमूर्त्तो
भावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्य-
भूतं तद्वमनादिषु योगमुपैति । तस्यापीयं
परीक्षा, इदमेवं प्रकृत्या एवंगुणमेवंप्रभाव-
मस्मिन् देशे जातमस्मिन् ऋतौ एवं गृहीतमेवं
निहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन्
ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्ष-
यति उपशमयति वा अन्यदपि चैवंविधं
भेषजमभूत्तच्चानेनानेन वा विशेषेण युक्तमिति ।
इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)

भेषजाङ्गं, क्ली, (भेषजस्य औषधस्य अङ्गमवयव-

इव ।) अनुपानम् । इति शब्दचन्द्रिका ॥

भैक्षं, क्ली, (भिक्षाणां समूह इति । भिक्षा +

भिक्षादिभ्योऽण् ।” ४ । २ । ७८ । इत्यण् ।)
भिक्षासमूहः । इत्यमरः । २ । ७ । ४७ ॥
अपि च ।
“भिक्षाशनमनुद्योगात् प्राक्केनाप्पनिमन्त्रितम् ।
अयाचितन्तु तद्भैक्षं भोक्तव्यं मनुरब्रवीत् ॥”
इति प्रायश्चित्ततत्त्वधृतोशनसो वचनम् ॥
(भिक्षैव स्वार्थे अण् । भिक्षा ॥ भिक्षाभवे
भिक्षालब्धे वा त्रि ॥)

भैक्षजीविका, स्त्री, (भैक्षेण जीविका ।) भिक्षया

जीवनोपायः । तत्पर्य्यायः । पैण्डिन्यम् २ ।
इति त्रिकाण्डशेषः ॥

भैक्षभुक् [ज्] त्रि, भैक्षाशी । भिक्षाशी ।

भैक्षं भुङ्क्ते यः । इति कर्त्तरि क्विप्प्रत्ययेन ।
निष्पन्नं ॥ (यथा, महाभारते । १४ । ४६ । ३ ।
“गुरुणा समनुज्ञातो भुञ्जितान्नमकुत्सयन् ।
हविष्यभैक्ष्यभुक् चापि स्थानासनविहार-
वान् ॥”)

भैमी, स्त्री, (भीमेनोपासिता भीमस्य इयं वेति ।

भीम + अण् ङीप् ।) भीमैकादशी । यथा,
अथ भैमी । विष्णुधर्म्मोत्तरे ।
“मृगशीर्षे शशधरे माधे मासि प्रजापते ! ।
एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः ।
द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते ॥
तिलस्नायी तिलोद्वर्त्ती तिलहोमी तिलोदकी ।
तिलस्य दाता भोक्ता च षट्तिली नावसी-
दति ॥”
मत्स्यपुराणे ।
“यद्यष्टम्यां चतुर्द्दश्यां द्बादश्यामथ भारत ! ।
अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥
ततः पुण्यामिमां भीमतिथिं पापप्रणाशि-
नीम् ।
उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥
भीमतिथिं भैमीत्वेन ख्यातां एकादशीम् ॥
इत्येकादशीतत्त्वम् ॥ * ॥
पृष्ठ ३/५४५
अपि च ।
पितामह उवाच ।
“माघमासे शुक्लपक्षे सूर्य्यर्क्षेण युता पुरा ।
एकादशी तथा चैषा भीमेन समुपोषिता ॥
आश्चर्य्यन्तु व्रतं कृत्वा पितॄणामनृणो भवेत् ।
भीमद्वादशीति विख्याता प्राणिनां पुण्यवर्द्धिनी ॥
नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत् ।
विनिहन्ति महापापं कुनृपो विषयं यथा ।
कुपुत्त्रस्तु कुलं यद्वत् कुभार्य्या च पतिं यथा ।
अधर्म्मञ्च यथा धर्म्मः कुमन्त्री च यथा नृपम् ॥
अज्ञानेन यथा ज्ञानं शौचञ्चाशौचता यथा ।
अश्रद्धया यथा श्राद्धं सत्यञ्चैवानृतैर्यथा ॥
हिमं यथोष्णमादद्यादनर्थञ्चार्थसञ्चयः ।
यथा प्रकीर्त्तनाद्दानं तपो वै विस्मयाद्यथा ॥
अशिक्षया यथा पुत्त्रो गावो दूरगतेर्यथा ।
क्रोधेन च यथा शान्तं यथा वित्तमवर्द्धनात् ॥
यथा समीहनाज्ज्ञानं फलानाञ्च यतव्रताः ।
तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्व्वङ्गनागमः ।
युगपदुपजातानि नहि हन्ति त्रिपुष्करम् ॥
न चापि नैमिषक्षेत्रं कुरुक्षेत्रं प्रभासकम् ।
कालिन्दी यमुना गङ्गा न रेवा न सरस्वती ॥
न चैव सर्व्वतीर्थानि एकादश्याः समानि च ।
न दानं न जपो होमो न चान्यसुकृतं क्वचित् ॥
एकतः पृथिवीदानमेकतो हरिवासरः ।
ततोऽप्येका महापुण्या इयमेकादशी परा ॥
अस्मिन् वराहवपुषः कृत्वा देहन्तु हाटकम् ।
घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने ॥
सर्व्वबीजन्तु ते विप्राः सितवस्त्रावगुण्ठिते ।
सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्नतः ॥
वराहाय नमः पादौ क्रोडाकृति नमः कटिम् ।
नाभिं गम्भीरघोराय उरःश्रीवत्सधारिणे ॥
बाहुं सहस्रशिरसे ग्रीवां सर्व्वेश्वराय च ।
मुखं सर्व्वात्मने पूज्य ललाटं प्रभवाय च ।
केशाः शतमयूखाय पूज्या देवस्य चक्रिणः ॥
विधिना पूजयित्वा तु कृत्वा जागरणं निशि ।
श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् ॥
प्रातर्विप्राय दत्त्वा तु याचकाय शुभाय च ।
कनकक्रोडसहितं सन्निवेद्य परिच्छदम् ॥
पश्चात्तु पारणं कुर्य्यान्नातितृप्तः सुहृद्वृतः ।
एवं कृत्वा नरो विप्रा न भूयः स्तनपो भवेत् ॥
उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् ।
मनोऽभिलषितावाप्तिः कृत्वा सर्व्वव्रतादिकम् ॥”
इति गारुडे एकादशीमाहात्म्ये १२७
अध्यायः ॥ (भीमस्य राज्ञः अपत्यं अण् स्त्री ।
भीमराजनन्दिनी दमयन्ती । यथा, महा-
भारते । ३ । ६४ । ११ ।
“नाबिभ्यत् सा नृपसुता भैमी तत्राथ कस्य-
चित् ।”)

भैरवं, त्रि, (भीरोरिदं त्रासकृत् । भीरु + अण् ।)

भयानकम् । इत्यमरः । १ । ७ । २० । (यथा,
महाभारते । १ । १६४ । २७ ।
“सव्येन च कटीदेशे गृह्य वाससि पाण्डवः ।
तद्रक्षो द्विगुणं चक्रे रुवन्तं भैरवं रवम् ॥”)
अस्य पर्य्यायाः भयङ्करशब्दे द्रष्टव्याः ॥

भैरवः, पुं, (भीर्भयङ्करो रवो यस्य । इति भीरव ।

ततः स्वार्थे अण् ।) शङ्करः । इति मेदिनी । वे
४६ ॥ भयानकरसः । इत्यमरटीकायां भरतः ॥
नदविशेषः । इति शब्दरत्नाबली ॥ रागभेदः ।
इति हेमचन्द्रः ॥ * ॥ अष्टभैरवाणामुत्पत्तिर्यथा,
“दैत्याधिपः समुत्पत्य हरोरसि गदां क्षिपत् ।
संस्थितस्तु महायोगी सर्व्वाधारः प्रजापतिः ॥
गदापातक्षताद्भूरि चतुर्धासृगथापतत् ।
पूर्ब्बधारासमुद्भूतो भैरवोऽग्निसमप्रभः ॥
विद्याराजेति विख्यातः पद्ममालाविभूषितः ।
तथा दक्षिणधारोत्थो भैरवः प्रेतमास्थितः ॥
कामराजेति विख्यातः कृष्णाञ्जनसमप्रभः ।
नागराजेति विख्यातश्चक्रमालाघिभूषितः ॥
क्षतजाद्रुधिराज्जातो भैरवः शूलभूषितः ।
सच्छन्दराजेति विख्यात इन्द्रायुधसमप्रभः ॥
भूयिष्ठाद्रुधिराज्जातो भैरवः फलभूषितः ।
ख्यातो लम्बितराजेति शोभाञ्जनसमप्रभः ॥
ततोऽभूद्देवराजेति भैरवः क्षतजादथ ।
उग्रराजो बभूवाथ क्षतजाद्भैरवोऽपरः ॥
एवं हि सप्तरूपोऽसौ कथ्यते भैरवो मुने ! ।
विघ्नराजोऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते ॥”
इति वामनपुराणे अन्धकवरप्रदाने भैरवप्रादु-
र्भावे ६७ अध्यायः ॥ * ॥
शारदीयदुर्गापूजायां अष्टौ पूज्यभैरवा यथा,
“आदौ महाभैरवञ्च संहारभैरवं तथा ।
असिताङ्गभैरवञ्च रुरुं भैरवमेव च ॥
ततः कालं भैरवञ्च क्रोधभैरवमेव च ।
ताम्रचूडं चन्द्रचूडं अन्ते च भैरवद्वयम् ॥
एतान् संपूज्य मध्ये च नवशक्तीश्च पूजयेत् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे दुर्गोपाख्याने ६१
अध्यायः ॥
ताम्रचूडचन्द्रचूडयोः स्थाने कपालभैरवरुद्र-
भैरवौ ज्ञेयौ । इति तत्रैव गणपतिखण्डे ४१
अध्यायः ॥ * ॥ अपि च ।
“असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तसंज्ञकः ।
कपाली भीषणश्चैव संहारश्चाष्टमः स्मृतः ॥”
इति तन्त्रसारः ॥ * ॥
शिवगणाधिपभैरवो यथा, --
“नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा ।
अङ्गं भूत्वा महेशस्य वीतभीतास्तपोधनाः ॥
यैर्मानुषशरीरेण प्रापिरे तपसो बलात् ।
गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ॥”
इति कालिकापुराणे ४४ अध्यायः ॥ * ॥
करवीरपुरराजचन्द्रशेखरपत्नीतारावतीगर्भे
महादेवाज्जातपुत्त्रः । स च पुरा भृङ्गी बभूव
पार्व्वतीशापात् वानरमुखो भूत्वा भैरव इति
नाम्ना ख्यातः । यथा, --
“प्रविवेश ततो देवी स्वयं तारावतीतनौ ।
महादेवोऽपि तस्यान्तु कामार्थं समुपस्थितः ॥
कामावसाने तस्यान्तु सद्यो जातं सुतद्वयम्
अभवन्नृपशार्दूल ! तथा शाखामृगाननम् ॥
ततस्तयोर्नाम चक्रे नारदो वचनान्नृप ! ।
ज्येष्ठो भैरवनामाभूत् भीरोः पुत्त्रो भयङ्करः ।
वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः ॥”
इति कालिकापुराणे ४९ अध्यायः ॥ * ॥
अपि च ।
“योऽसौ भृङ्गी हरसुतां महाकालोऽपि भर्गजः ।
तावेव गौरीशापेन सम्भूय नरयोनिजौ ॥
वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ।
यथा भृङ्गिमहाकालावुत्पन्नौ प्राक् तथा शृणु ।
योऽसौ महाभैरवाख्यः सकायः शारभो हरः ।
भैरवः पृथगेवायं गणाध्यक्षो हरात्मजः ॥”
इति कालिकापुराणे ४५ अध्यायः ॥ * ॥
दुर्जयाख्यगिरिस्थभैरवो यथा, --
“तन्मध्ये भैरवो देवो भर्गसङ्गमसम्भवः ।
दुर्जयाख्ये वरगिरौ स्वर्गस्योपमभूमिगः ॥
योऽसौ शरभरूपस्य मध्यखण्डादिभैरवः ।
स एव भैरवाख्योऽयं पञ्चवक्त्रस्य मन्त्रकैः ।
संपूज्य तत्र मतिमान् स याति शिवलोकताम् ॥”
इति कालिकापुराणे ८१ अध्यायः ॥ * ॥
भैरवस्य मन्त्रो यथा, --
“केवलः सपरो हादिः षष्ठस्वरसमन्वितः ।
चन्द्रबिन्दुसमायुक्तं हयग्रीवस्य बीजकम् ॥
भैरवं पाण्डुनाथन्तु वनमालिस्वरूपिणम् ।
वाराहेण तु बीजेन पूजयेत्तु विधानतः ॥
सपरौ द्वावनुस्वारविसर्गाभ्यां समन्वितौ ।
महाभैरवमन्त्रोऽयं भैरवं तेन पूजयेत् ॥”
इति कालिकापुराणे ६२ अध्यायः ॥ * ॥
अस्य ध्यानं यथा, --
“भैरवः पाण्डुनाथश्च रक्तगौरश्चतुर्भुजः ।
गदां पद्मञ्च शक्तिञ्च चक्रञ्चापि करेण च ।
बिभ्रद्देव्याः पुरोभागे पूज्योऽयं विष्णुरूपधृक् ॥”
इति तत्रैव ६० अध्यायः ॥ * ॥
अस्य गायत्त्री यथा, --
“महाभैरव विद्महे केलिरूपाय धीमहि ।
तन्नः कामो भैरवस्तु देवी नित्यं प्रचोदयात् ॥
एषा भैरवरूपस्य गायत्त्री मे प्रतिष्ठिता ।
यथेष्टमांसमद्यादिभोजनाय मया धृतः ॥
महाभैरवरूपोऽयं तथा स्त्रीरतिसङ्गमे ।
अयन्तु वाम्यभावेन पूज्यो मद्यादिभिः सदा ॥”
इति कालिकापुराणे ७७ अध्यायः ॥
अथ महाविद्यादीनां भैरवनिरूपणं यथा, --
शिव उवाच ।
“शृणु चार्व्वङ्गि शुभगे ! कालिकायाश्च भैरवम् ।
महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् ॥
महाकालेन वै सार्द्धं दक्षिणा रमते सदा ।
ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत ॥
समुद्रमथने देवि ! कालकूटं समुत्थितम् ।
सर्व्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः ॥
क्षोभादिरहितं यस्मात् पीतं हालाहलं विषम्
अतएव महेशानि ! अक्षोभ्यः परिकीर्त्तितः ॥
पृष्ठ ३/५४६
तेन सार्द्धं महामाया तारिणी रमते सदा ।
महात्रिपुरसुन्दर्य्या दक्षिणे पूजयेत् शिवम् ॥
पञ्चवक्त्रं त्रिनेत्रञ्च प्रतिवक्त्रे सुरेश्वरि ! ।
तेन सार्द्धं महादेवी सदा कामकुतूहला ॥
अतएव महेशानि ! पच्चमीति प्रकीर्त्तिता ।
श्रीमद्भुवनसुन्दर्य्या दक्षिणे त्र्यम्बकं यजेत् ॥
स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी ।
एतया रमते तेन त्र्यम्बकस्तेन कथ्यते ॥
सशक्तिश्च समाख्यातः सर्व्वतन्त्रे प्रपूजितः ।
भैरव्या दक्षिणे भागे दक्षिणामूर्त्तिसंज्ञकम् ॥
पूजयेत् परयत्नेन पञ्चवक्त्रं तमेव हि ।
छिन्नमस्तादक्षिणांशे कबन्धं पूजयेत् शिवम् ॥
कबन्धपूजनाद्देवि ! सर्व्वसिद्धीश्वरो भवेत् ।
धूमावती महाविद्या विधवारूपधारिणी ॥
वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् ।
महारुद्रेति विख्यातं जगत्संहारकारकम् ॥
मातङ्गीदक्षिणांशे च मतङ्गं पूजयेत् शिवम् ।
तमेव दक्षिणामूर्त्तिं जगदानन्दकारकम् ॥
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् ।
पूजयेत् परमेशानि ! स सिद्धो नात्र संशयः ॥
पूजयेदन्नपूर्णाया दक्षिणांशे च रूपकम् ।
महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् ॥
दुर्गाया दक्षिणे देशे नारदं परिपूजयेत् ॥
नकारः सृष्टिकर्त्ता च दकारः पालकः सदा ।
रेफः संहाररूपत्वान्नारदः परिकीर्त्तितः ॥
अन्यासु सर्व्वविद्यासु ऋषिर्यः परिकीर्त्तितः ॥
स एव तस्या भर्त्ता च दक्षभागे प्रपूजयेत् ॥”
इति तोडलतन्त्रप्रथमपटले ॥
(भैरवबलिविषयः । यथा, कालिकापुराणे ।
पक्षिणः कच्छपाग्राहा मत्स्या नवविधा मृगाः ।
महिषा गोधिका गावश्छागो वभ्रुश्च शूकरः ।
खड्गश्च कृष्णसारश्च गोधिका शरभो हरिः ।
शार्द्दूलश्च नरश्चैव स्वगात्ररुधिरन्तथा ॥
चण्डिकाभैरवादीनां बलयः परिकीर्त्तिताः ।
बलिभिः साध्यते मुक्तिर्बलिभिः साध्यते दिवम् ॥)
अथ भैरवरागस्य विवरणम् । हनूमन्मते षड्-
रागमध्ये प्रथमरागः । महादेवमुखान्निर्गतः ।
अस्य जातिः औडवः । अर्थात् धैवतनिषाद-
षड्जगान्धारमध्यममिति पञ्चस्वरमिलितः ।
अस्य गृहं धैवतस्वरः । शरदृतौ प्रातःकालः
अस्य गानसमयः । रागमालायाम् अस्या-
कारः महादेवाकारवत् । अर्थात् सुन्दर-
सन्न्यासी । भस्ममृक्षितवदनः । जटामस्तकः ।
जटापतद्गङ्गाजलः । कङ्कणभूषितहस्तः । लला-
टार्द्धचन्द्रः । त्रिनेत्रः । सर्पवेष्टितस्कन्धबाहुः ।
भालतिलकः । स्कन्धस्थहस्तिचर्म्मा । अथवा
द्वीपिचर्म्मोपविष्टः । गलमुण्डमालः । त्रिशूल-
हस्तः । अथवा सम्मुखप्रोथितत्रिशूलः ।
पार्श्वस्थवृषश्च । अस्य रागिण्यः पञ्च । यथा ।
भैरवी वैराटी मघुमाधवी सिन्धवी वङ्गाली
च । अस्याष्टौ पत्त्राः । यथा । हर्षः तिलकः
पुरीयः माधवः सूहः बलनेहः मधुः पञ्चमश्च ।
कल्लिनाथमते तु भैरवश्चतुर्थरागः । अस्य
रागिण्यः षट् । यथा । भैरवी गुज्जरी भाषा
वेलावली कर्णाटी रगतंसा वडहंसीति च
केचित् । एतन्मते पूर्ब्बवत् अष्टौ पुत्त्राः । किन्तु
तिलकपुरीयपञ्चमसूहस्थानेषु देवशाखललित-
मालकौशविलाबला लिखिताः । सोमेश्वर-
मतेऽपि रागिण्यः षट् । यथा । भैरवी गुज्जरी
रेवा गुणकली वङ्गाली बहुली च । तन्मते
रागिण्या सहास्य गानसमयो ग्रीष्मर्त्तुः ॥
भरतमते तु अस्य रागिण्यः पञ्च यथा । मधु-
माधवी ललिता वरारी वाहाकली भैरवी च ।
तन्मतेऽपि अस्याष्टौ पुत्त्राः । यथा देवशाखः
ललितः हर्षः विलावलः माधवः वङ्गालः
वेभासः पञ्चमश्च । एषामष्टौ भार्य्या यथा ।
सूहा वेलावली सोरठी कुम्भारी अन्दाही
बहुलगुज्जरी पटमञ्जरी मिरवी च । इति सङ्गीत-
शास्त्रम् ॥ * ॥ मतान्तरे भैरवरागस्य भार्य्या
यथा । भैरवी वङ्गाली वरारी मध्यमा मधु-
माधवी सिन्धवी च । तत्पुत्त्रा यथा । कोशकः
अजयपालः श्यामः खरतापः शुद्धः ढोलश्च ।
तत्पुत्त्रबध्वो यथा । अष्टी रेवा बहुला सोहिनी
रम्भेली सूहा च । अत्र शोभा इति साधुः
पाठः । इति नारदपुराणम् ॥
(नागभेदः । यथा, महाभारते । १ । ५७ । १६ ।
“भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)

भैरवी, स्त्री, (भैरव + ङीप् ।) चामुण्डा । यथा,

“चामुण्डा चर्चिका चर्म्ममुण्डा मार्जारकर्णिका ।
कर्णमोटी महागन्धा भैरवी च कपालिनी ॥”
इति हेमचन्द्रः । २ । १२० ॥
भैरवीविशेषा यथा । त्रिपुरभैरवी १ सम्पत्-
प्रदा भैरवी २ कौलेशभैरवी ३ सकलसिद्धिदा
भैरवी ४ भयविध्वंसिनी भैरवी ५ चैतन्यभैरवी
६ कामेश्वरी भैरवी ७ षट्कूटा भैरवी ८ नित्या
भैरवी ९ रुद्रभैरवी १० भुवेनेश्वरी भैरवी ११
त्रिपुरबाला भैरवी १२ नवकूटा भैरवी १३
अन्नपूर्णा भैरवी १४ । आसां मन्त्रा यथा, --
अथ त्रिपुरभैरवी ।
“वियद्भृगुहुताशस्थो भौतिको बिन्दुशेखरः ।
वियत्तदादिकेन्द्राग्निस्थितं वामाक्षिबिन्दुमत् ॥
आकाशभृगुवह्निस्थो मनुः सर्गेन्दुखण्डवान् ।
पञ्चकूटात्मिका विद्या वेद्या त्रिपुरभैरवी ॥” १ ॥
अथ सम्पत्प्रदा भैरवी ।
यथासौ त्रिपुरा बाला तथा त्रिपूरभैरवी ।
सम्पत्प्रदा नाम तस्याः शृणु निर्म्मलमानसे ॥
शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् ।
कामराजं तथा देवि ! शिवचन्द्रान्वितं ततः ॥
पृथ्वीबीजान्तवह्न्याट्यं तार्त्तीयं शृणु वल्लभे ! ।
शक्तिबीजे महेशानि ! शिववह्नी नियोजयेत् ॥
कुमार्य्याः परमेशानि ! हित्वा सर्गन्तु बैन्दवम् ।
त्रिपुरा भैरवी देवी महासम्पत्प्रदा प्रिये ! ॥ २ ॥
अथ कौलेशभैरवी ।
सम्पत्प्रदाभैरवीवद्विद्धि कौलेशभैरवीम् ।
हसाद्या सैव देवेशि ! त्रिषु बीजेषु पार्ब्बति ! ।
इयन्तु सहराद्या स्यात् पूजाध्यानादिकं
तथा ॥ ३ ॥
अथ सकलसिद्धिदा भैरवी ।
एतस्या एव विद्याया आद्यन्ते रेफवर्जिते ।
तदेयं परमेशानि ! नाम्ना सकलसिद्धिदा ।
सम्पत्प्रदाभैरवीवत् ध्यानपूजादिकं तथा ॥ ४ ॥
अथ भयविध्वंसिनी भैरवी ।
सम्पत्प्रदा भैरवी आद्यन्ते रेफरहिता चेत्तदा
भयविध्वंसिनी भैरवी भवति । दक्षिणामूर्त्तौ
तथादर्शनात् । पूजादिकन्तु सम्पत्प्रदावत् ॥ ५ ॥
अथ चैतन्यभैरवी ।
“वागभवं बीजमुच्चार्य्य जीवप्राणसमन्वितम् ।
सकला भुवनेशानी द्वितीयं बीजमुद्धृतम् ॥
जीवं प्राणं वह्निसंस्थं शक्रस्वरसमन्वितम् ।
विसर्गाढ्यंमहेशानि ! विद्या त्रैलोक्यमातृका ॥”
ऋष्यादिन्यासः । शिरसि दक्षिणामूर्त्तये ऋषये
नमः । मुखे पङ्क्तिच्छन्दसे नमः । हृदि
चैतन्यभैरव्यै देवतायै नमः ॥ ६ ॥
अथ कामेश्वरी भैरवी ।
“कामेश्वरी च रुद्रार्णा पूर्ब्बसिंहासने स्थिता ।
एतस्या एव विद्याया बीजद्वयमुदाहृतम् ॥
तदन्ते परमेशानि ! नित्यक्लिन्ने मदद्रवे ।
एतस्या एव तार्त्तीयं रुद्रार्णा परमेश्वरि ! ॥ ७ ॥
अथ षट्कूटा भैरवी ।
डाकिनी राकिणी बीजे लाकिनी काकिनी-
युगम् ।
शाकिनी हाकिनी बीजे आहृत्य सुरसुन्दरि ! ॥
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ।
शक्रस्वरान्वितं देवि ! तार्त्तीयं बीजमालिखेत् ।
बिन्दुनादकलाक्रान्तं त्रितयं शैलसम्भवे ! ॥ ८ ॥
अथ नित्या भैरवी ।
एतस्या एव विद्यायाः षड्वर्णान् क्रमशः स्थितान् ।
विपरीतान् वद प्रौढे ! विद्येयं भोगमोक्षदा ।
न्यासपूजादिकं सर्व्वमस्याः पूर्ब्बवदाचरेत् ॥ ९ ॥
अथ रुद्रभैरवी ।
शिवचन्द्रौ मादनान्तं फान्तं वह्निसमन्वितम् ।
शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये ! ॥
सम्पत्प्रदाया भैरव्याः कामराजं तदेव हि ।
सदाशिवस्य बीजन्तु महासिंहासनस्य च ।
एषा विद्या महेशानि ! वर्णितुंनैव शक्यते ॥ १०
अथ भुवनेश्वरी भैरवी ।
हसाद्यं वाग्भवञ्चाद्यं हसकान्ते सुरेश्वरि ! ।
भूबीजं भुवनेशानी द्बितीयं बीजमुद्धृतम् ।
शिवचन्द्रौ महेशानि ! भुवनेशी च भैरवी ॥ ११ ॥
अथ त्रिपुरबाला भैरवी ।
अधरो बिन्दुनामाद्यं ब्रह्मेन्द्रस्थः शशी युतः ।
द्वितीयं भृगुसर्गाढ्यो मनुस्तार्त्तीयमीरितम् ।
एषा बालेति विख्याता त्रैलोक्यवशकारिणी ॥ १२
अथ नवकूटा बाला ।
बालाबीजत्रयं देवि ! कूटत्रयं नवाक्षरी ।
वियत्कूठत्रयं देवि ! भैरव्या नवकूठकम् ॥ १३ ॥
पृष्ठ ३/५४७
अयान्नपूर्णा भैरवी ।
प्रणवं भुवनेशानि ! श्रीबीजं कामबीजकम् ।
हृदन्ते भगवत्यन्ते माहेश्वरिपदं ततः ।
अन्नपूर्णे ठयुगलं विद्येयं विंशदक्षरी ॥ १४ ॥”
इति तन्त्रसारे भैरवीमन्त्रपरिच्छेदः ॥ रागिणी-
विशेषः । सा च भैरवरागस्य पत्नी । यथा, --
“भैरवी कौशिकी चैव भाषा वेलाबली तथा ।
वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः ॥”
मतान्तरे मालवरागस्य पत्नी । यथा, --
धानसी मालसी चैव रामकीरी च सिन्धुडा ।
आशावरी भैरवी च मालवस्य प्रिया इमाः ॥”
अस्या ध्यानं यथा, --
“सरोवरस्था स्फटिकस्य मन्दिरे
सरोरुहैः शङ्करमर्च्चयन्ती ।
तालप्रयोगप्रतिबद्धगीति-
र्गौरीतनूर्नारद भैरवीयम् ॥”
अस्या गानसमयः पूर्ब्बाह्णकालः । यथा, --
“विभाषा ललिता चैव कामोदी पठमञ्जरी ।
रामकीरी रामकेली वेलोयारी च गुज्जरी ॥
देशकारी च शुभगा पञ्चमी च गडा तुडी ।
भैरवी चाथ कौमारी रागिण्यो दश पञ्च च ।
एताः पूर्ब्बाह्णकाले तु गीयन्ते गायनोत्तमैः ॥”
इति सङ्गीतदामोदरः ॥ * ॥
हनूमन्मते एषा सम्पूर्णजातिः । अस्याः सप्त-
स्वरविन्यासक्रमः मध्यमपञ्चमधैवतनिषादषड्-
जर्षभगान्धारान्तः । अस्या गृहं मध्यमस्वरः ।
शरदृतौ प्रभाते अस्या गानसमयः । राग-
मालायां अस्याः स्वरूपम् । अल्पवयस्का ।
सुरूपा । सुनेत्रा । विस्तारवदना । पिङ्गल-
केशा । कोमलाङ्गी । रक्तवर्णा । श्वेतवसना ।
गलशोभितचम्पकमाला । प्रफुल्लपद्मयुक्तपर्व्वत-
गुहायां शिवपूजापरायणा । तत्र मञ्जीर-
वादका गायन्ति च ॥ * ॥ कल्लिनाथसोमे-
श्वरभरतमतेष्वेवम् ॥

भैषजं, क्ली, (भेषजमेव संज्ञायां स्यार्थे वा अण् ।)

लावकपक्षी । इति जटाधरः ॥ भेषजञ्च ॥

भैषज्यं, क्ली, (भेषजमेवेति । भेषज + “अनन्ता-

वसथेतिहभेषजाञ् ञ्यः ।” ५ । ४ । २३ । इति
ञ्यः ।) औषधम् । इत्यमरः । २ । ६ । ५० ॥
(अस्य पर्य्यायो यथा, --
“भैषज्यं भेषजञ्चायुर्द्रव्यमगदमौषधम् ॥”
इति वैद्यकरत्नमालायाम् ॥
“तदेव युक्तं भैषज्यं यदारोग्याय कल्पते ।”
इति चरके सूत्रस्थाने द्वितीयेऽध्याये ॥)

भोः, [स्] व्य, (भातीति । भा + बाहुलकाद्

डोसिः ।) सम्बोधनम् । तत्पर्य्यायः । प्याट् २ पाट्
३ अङ्ग ४ हे ५ है ६ । इत्यमरः । ३ । ४ । ७ ॥ हंहो
७ हुम् ८ हो ९ अरे १० अये ११ अयि १२ ।
इति भरतः ॥ (यथा, मार्कण्डेये । ३ । ५२ ।
“भो भो विप्रेन्द्र ! बुध्यस्व बुद्ध्या बोध्यं बुधा-
त्मक ! ।”)
प्रश्वः । विषादः । इति शब्दरत्नावली ॥

भोक्तव्यं त्रि, (भुज + कर्म्मणि तव्यत् ।) भोज-

नीयम् । भोज्यम् । यथा, --
“यन्नेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ।”
इति तिथ्यादितत्त्वम् ॥
“अलावू वर्त्तुलाकारा वार्त्ताकी दुग्धवर्णिका ।
प्राणान्तेऽपि न भोक्तव्या दुग्धवर्णा कलम्बिका ॥”
इति कर्म्मलोत्तनञ्च ॥
(कर्म्मजन्ये अनुभवनीये । यथा च देवीभाग-
वते । ११ । ७ । २८ ।
“प्रारब्धं किल भोक्तव्यं शुभं वाप्यथवा शुभम् ।
उद्यमस्तद्वशे नित्यं कारयत्येव सर्व्वथा ॥”)

भोक्ता [ऋ] त्रि, (भुज् + कर्त्तरि तृच् ।)

भोजनकर्त्ता । यथा, --
“यज्ञेश्वरो हव्यसमस्तकव्य-
भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।”
इति श्राद्धप्रयोगतत्त्वम् ॥
सुखादिभोगकर्त्ता यथा, --
“कर्त्ता च देही भोक्ता च आत्मा भोजयिता
सदा ।
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥”
इति ब्रह्मवेवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
अथ भोक्तुर्लक्षणं यथा, पाकराजेश्वरे ।
“स्नातः सुधौतमृदुसुन्दरशुक्तवासा-
स्तत्कालधौतचरणः सह पुत्त्रमित्रैः ।
स्रग्वी प्रसन्नहृदयो रसपाकवेद्यां
भोक्ता विशेच्च सततं हि सहात्मवैद्यैः ॥
मृदुतूलमये स्थूले चारुवस्त्रावगुण्ठिते ।
आसने प्राङ्मुखो भोक्तोपविशेद्बाप्युदङ्मुखः ॥”
(भोजनकर्त्रर्थे यथा, --
“यदा कारणमासाद्य भोक्तृणां छन्दतोऽपि वा ।
अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥
“भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ ।
सुगन्धिपुष्परचिते रम्ये देशेऽथ भोजयेत् ॥”
इति च तत्रैव तदध्याये ॥
यथा च सांख्यशास्त्रे भोक्ता भोगकर्त्ता पुरुषः ।
सति भोगज्ञाने भोक्तृज्ञानं भवतीति तल्लक्षण-
माह । “चिदवसानो भोगः ।” इति सांख्यसूत्रम् । १ ।
१०४ ॥ पुरुषस्वरूपे चैतन्ये पर्य्यवसानं यस्यैतादृशो
भोगः सिद्धिरित्यर्थः । राज्ञो भृत्यवर्गः यथा,
स्वामिने भोग्यजातमर्पयति, तथा, इन्द्रियाणि
विषयजातं स्वस्वशक्त्या गृहीत्वा अन्तःकरण-
प्रतिविम्बिताय पुरुषाय अर्पयति, स च पुरुषः
प्रतिविम्बग्रहणमात्रेण विषयजातं भुङ्क्ते
प्रकाशयतीत्यर्थः । पुरुषस्य भोगः प्रतिविम्बा-
दानमात्रं अन्येषान्तु पुष्ट्यादिः । ईदृशः परि-
णामरूपो भोगः पुरुषे निषिध्यते । “बुद्धे
र्भाग इवात्मनि ।” इत्यादिभिरिति । एतादृक्
तया पुरुषः भोगकर्त्ता वा भोक्ता ॥” इति
तद्भाष्ये विज्ञानभिक्षुः ॥

भोक्ता [ऋ] पुं, (भुङ्क्ते जीवरूपेणेति, भुनक्ति

पालयतीति वा भुज + तृच् ।) विष्णुः । यथा, --
“भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।”
इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥
भर्त्ता । इति हेमचन्द्रः । ३ । ९१ ॥

भोगः, पुं, (भुज्यतेऽसौ इति । भुज + घञ् ।)

सुखम् । स्त्र्यादिभृतिः । पण्यस्त्रीणां भृति-
र्भाडिः । आदिना हस्त्यश्वादिकर्म्मकराणाञ्च
भृतिः । सर्पस्य फटा । सर्पशरीरम् । इत्यमर-
भरतौ । ३ । ३ । २३ ॥ (यथा, रघौ । ११ । ५९ ।
“लक्ष्यते स्म तदनन्तरं रविः
बद्धभीमपरिवेशमण्डलः ।
वैनतेयशमितस्य भोगिनः
भोगवेष्टित इव च्युतो मणिः ॥”)
धनम् । (यथा, ऋग्वेदे । ३ । ३४ । ९ ।
“हिरण्ययमुतभोगं ससान हत्वी दस्यून् प्रार्य्यं
वर्णमावत् ॥”
“हिरण्ययं सुवर्णमयं भोगं धनम् ॥” इति
तद्भाष्ये सायनः ॥) गृहम् । (यथामुस्मिन्नेव
मन्त्रे । “भोगशब्दव्याख्याने भुज्यतेऽस्मिन्निति
भोगो गृहं वा ससान अर्थिभ्यो ददौ ।” इति
सायनः ॥) पालनम् । अभ्यवहारः । इति
मेदिनी । गे, १६ ॥ सर्पः । देहः । मानम् ।
इति शब्दरत्नावली ॥ * ॥ पुण्यपापजननयोग्य-
कालः । यथा, --
“अतीतानामतो भोगो नाड्यः पञ्चदश
स्मृतः ॥”
इति तिथ्यादितत्त्वे संक्रान्तिप्रकरणम् ॥
(पुरम् । यथा, ऋग्वेदे । ५ । २९ । ६ ।
“नव यदस्य नवतिञ्च भोगान्
साकं वज्रेण मघवा विवृश्वत् ।”
भोगान् पुराणि । इति तद्भाष्ये सायनः ।)
भूम्यादीनां भोगो यथा । त्रिपुरुषभोगमाह
व्यासः ।
“प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तत् ।
तौ विना यस्य पित्रा च तस्य भागस्त्रिपौरुषः ॥
पिता पितामहो यस्य जीवेच्च प्रपतामहः ।
त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥
नारदः ।
तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्त्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्त्तयेत् ॥”
इति व्यवहारतत्त्वम् ॥
विभवभेदः । यथा, --
“कर्त्ता च देही भोक्ता च आत्मा भोजयिता
सदा ।
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
(व्यूहभेदः । यथा, कामन्दकीयनीतिसारे ।
१९ । अध्याये । ४१ । ४८ । ५४ । श्लोकेषु ॥
“यदि स्याद्दण्डबाक्षुल्यं तदा चापः प्रकीर्त्तितः ।
मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिभिः ॥
गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा ।
भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥
असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा ॥”)
पृष्ठ ३/५४८

भोगगृहं, क्ली, (भोगार्थं गृहम् ।) वासगृहम् ।

यथा, --
“वासागारं भोगगृहं कन्यापत्न्याटनिष्कुटाः ।”
इति हेमचन्द्रः ॥

भोगदेहः, पुं, (भोगहेतुको भोगसाधको वा देहः ।)

स्वर्गनरकभोगार्थं सूक्ष्मशरीरम् । यथा, --
“कृते सपिण्डीकरणे नरः संवत्सरात् परम् ।
प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥”
इति श्राद्धतत्त्वम् ॥
अपि च ।
“शृणु देहविवरणं कथयामि यथागमम् ।
पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ।
देहिनां देहबीजञ्च स्रष्टुः सृष्टिविधौ परम् ॥
पृथिव्यादिपञ्चभूतैर्यो देहो निर्म्मितो भवेत् ।
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ॥
वृद्धाङ्गुष्टप्रमाणश्च यो जीवपुरुषः कृतः ।
बिभर्त्ति सूक्ष्मदेहन्तं तद्रूपं भोगहेतवे ॥
स देहो न भवेद्भस्म ज्वलदग्नौ यमालये ।
जले न नष्टो देही वा प्रहारे सुचिरे कृते ॥
न शस्त्रे च न चास्त्रे च न तीक्ष्णकण्टके तथा ।
तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ॥
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्द्ध्वपतनेऽपि च ।
न च दग्धो न भग्नश्च भुङ्क्ते सन्तापमेव च ।
कथितं देहवृत्तान्तकारणञ्च यथागमम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २९ अध्यायः ॥

भोगपालः, पुं, (भोगं भोगसाधनमश्वादिकं पाल-

यतीति । भोग + पालि + अण् । अश्व-
रक्षकः । इति शब्दमाला ॥ भोगरक्षके त्रि ॥

भोगपिशाचिका, स्त्री, (भोगे पिशाचिका इव,

तद्वदतृप्तत्वात् ।) क्षुधा । इति हारावली ॥

भोगमूमिः, स्त्री, (भोगार्थैव भूमिः ।) सुख-

स्थानम् । भारतवर्षातिरिक्तवर्षम् । यथा, --
“तत्रापि भारतं श्रेष्ठं जम्बुद्बीपे महामुने ! ।
यतो हि कर्म्मभूरेषा ततोऽन्या भोगभूमयः ॥”
इति विष्णुपुराणे २ अंशे ३ अध्यायः ॥

भोगवती, स्त्री, (भोगः सर्पशरीरं भूम्ना अस्त्यस्या

मिति । भोग + मतुप् मस्य वः । “शार्ङ्गर-
वाद्यञो ङीन् ।” ४ । १ । ७३ । इति ङीन् ।)
पातालगङ्गा । नागपुरी । इति मेदिनी । ते,
२१४ ॥ (नागपत्नी । यथा महाभारते ।
१ । १७२ । ३२ ।
“नच भोगवतीं मन्ये न गन्धर्व्वीं न मानुषीम् ।”
गङ्गा । यथा, च काशीखण्डे । २९ । १२८ ॥
“भव्या भोगवती भद्रा भवानी भूतभाविनी ।”
तीर्थभेदः । यथा, महाभारते । ३ । ८५ । ७५ ॥
“तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः ।”)

भोगवान्, [त्] पुं, (भोगः फणः कायो वा भूम्ना

अस्त्यस्येति । भोग + मतुप् मस्य च वत्वम् ।)
सर्पः । इति मेदिनी । ते, २१४ ॥ नाट्यम् ।
गानम् । इति त्रिकाण्डशेषः ॥ भोगविशिष्टे त्रि ॥

भोगसद्म, [न्] क्ली, (भोगार्थं उपभोगार्थं सद्म ।)

वासगृहम् । यथा, --
“गर्भागारं वासगृहं भोगसद्मापवाधकम् ।”
इति शब्दरत्नावली ॥

भोगार्ह्यं, क्ली, (भोगाय अर्ह्यते इति अर्ह +

“ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।)
धान्यम् । इति राजनिर्घण्टः ॥

भोगावली, स्त्री, (भोगानां आवली श्रेणि-

र्यस्याम् ।) स्तुतिपाठकस्य स्तुतिः । इति जटा-
धरः ॥ (यथा माघे । ५ । ६७ ।
“भोगावलीः कलगिरोऽवसरेषु पेठुः ।”
भोगावलीः प्रबन्धान् । इति तट्टीकायां मल्लि-
नाथः ॥) नागपुरी । इति हेमचन्द्रः ॥

भोगावासः, पुं, (आवसत्यस्मिन् इति । आ + वस्

+ अधिकरणे घञ् । भोगार्थोवा आवासः ।)
वासगृहम् । इति हारावली ॥

भोगिकः, पुं, (भोगे अश्वभोगे नियुक्त इति ।

भोग + बाहुलकात् ठन् ।) अश्वरक्षकः ।
इति शब्दमाला ॥

भोगिकान्तः, पुं, (भोगिनां कान्तः प्रियः ।) वायुः ।

इति त्रिकाण्डशेषः ॥

भोगिनी, स्त्री, (भोगः अस्या अस्तीति ।

भोग + इनिः । ङीप् ।) महिषीभिन्ननृपपत्नी ।
इत्यमरः । २ । ६ । ५ ॥

भोगिवल्लभं, क्ली, (भोगिनां वल्लभं प्रियम् ।)

चन्दनम् । इति राजनिर्घण्टः ॥

भोगी, [न्] पुं, (भोगोऽस्यास्तीति । भोग +

इनिः ।) सर्पः । इत्यमरः । १ । ७ । ८ । (यथा,
विष्णुपुराणे । १ । ३ । २३ ।
“एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यागतः शेते त्रैलोक्यग्रासबृंहितः ॥”
भोगयुक्तः । यथा, आर्य्यासप्तशत्याम् । ४१४ ।
“भवतालिङ्गि भुजङ्गी जातः किल भोगिचक्र-
वर्त्ती त्वम् ॥”)
ग्रामपात्रः । नृपः । इति मेदिनी । ने । १०२ ।
नापितः । इति विश्वः ॥ वैयावृत्तिकरः । इति
हेमचन्द्रः ॥

भोगीन्द्रः, पुं, (भोगिनामिन्द्रः ।) अनन्तदेवः ।

इति शब्दरत्नावली ॥

भोगीशः, पुं, (भोगिनामीशः ।) अनन्तदेवः ।

इति शब्दरत्नावली ॥

भोग्यं, क्ली, (भुज + ण्यत् ।) धनम् । धान्यम् ।

इति राजनिर्घण्टः ॥ भोगमर्हतीति । भोग +
यत् । भोगार्हेत्रि ॥ (यथा, कामन्दकीये । ५ । ८१ ।
“यथा रक्षेच्च निपुणं शस्यं कण्टकिशाखया ।
फलाय लगुडः कार्य्यस्तद्बद्भोग्यमिदं जगत् ।”)
आधिभेदः । यथाह नारदः ।
“विश्रम्भहेतू द्वावत्र प्रतिभूराधिरेव च ।
अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ॥
कृतकालोपनेयश्च यावद्देयोद्यतस्तथा ।
स पुनर्द्विविधः प्रोप्यो गोप्यो भोग्यस्तथैव च ॥”
गोप्यो रक्षणीयः । भोग्यस्यार्थः फलभोग्यपदे
द्रष्टव्यः । तद्यथा, --
“काले कालकृतो नश्येत् फलभोग्यो न नश्यति ।”
फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः
स न कदाचिदपि नश्यति । इति मिताक्षरायां
व्यवहाराध्यायः ॥

भोग्या, स्त्री, (भुज् + कर्म्मणि ण्यत् टाप् ।) वेश्या ।

इति राजनिर्घण्टः ॥ भोग्या भूः । इति वोप-
देवः ॥ (तत्र त्रि ।)

भोजः, पुं, (भोजस्येदमिति । भोज + “तस्ये-

दम् ।” ४ । ३ । १२० । इत्यण् । अणो लोपः ।)
स्वनामख्यातदेशः । भोजपुर इति भाषा ।
तत्पर्य्यायः । भोजकटः २ । इति शब्द-
रत्नावली ॥ धारानगरस्य राजविशेषः ।
तस्य वृत्तान्तो यथा । धारानामनगर्य्यां सिन्धुल-
संज्ञो राजा आसीत् । तस्य राज्ञी
सावित्री, तयोर्वृद्धावस्थायां भोजनामपुत्त्रो
जातः । स यदा पञ्चवर्षवयस्कस्तदा तत्पिता
आत्ममरणकालं विदित्वा भ्रात्रे मुञ्जाय राज्यं
ददौ, तदुत्सङ्गे भोजञ्च मुमोच । ततो राज्ञि
परलोकं प्राप्ते कियत्कालानन्तरं सभायां
कश्चिदुदरम्भरिर्ज्योतिर्विदागत्य मुञ्जं प्राह
राजन् ! भोजस्य भाग्योदयं वक्तुं विरिञ्चिरपि
न समर्थः कोऽहं वराक उदरम्भरिर्ब्राह्मणः
तथापि वदामि भोजमितः प्रेषय । ततो
राजाज्ञया भोजेऽध्ययनशालां प्राप्ते आह
यथा, --
“पञ्चाशत्पञ्चवर्षाणि सप्तमासा दिन त्रयम् ।
भोगराजेन भोक्तव्यं सगौडं दक्षिणापथम् ॥”
इति श्रुत्वा मुञ्जराजोऽचिन्तयत्, यदि राज-
लक्ष्मीर्भोजं गमिष्यति ततोऽहं जीवन्नपि मृतः ।
ततो राजा मन्त्रयित्वा वङ्गालाधीश्वरं महा-
बलं वत्सराजमाहूय निर्जने तं प्राह, वत्स-
राज ! त्वया भोजस्त्रिभुवनेश्वरीविपिने हन्तव्यः ।
वत्सराजः भोजकुमारोपाध्यायमाहूय प्राह,
विप्र ! भोजमानय । ततो विदितवृत्तान्तो भोजः
कुपितः प्राह, आः पाप ! राज्ञः कुमारं वहि-
रानेतुं तव का शक्तिः, ततो वामचरणपादु-
कामादाय भोजेन भालदेशे हतो वत्सराजः
प्राह, भोजकुमार ! वयं राजादेशकारिणः ।
इत्युक्त्वा वधार्थं बलात् वत्सराजेन निशायां
विपिनं भोजे नीते वत्सराजस्य भ्रात्रा भोजस्य
वधोद्यमसमये ।
“एक एव सुहृद्धर्म्मो निधनेऽप्यनुयाति यः ।
शरीरेण समं नाशं सर्व्वमन्यच्च गच्छति ॥”
इत्युक्तं निशम्य वत्सराजो वैराग्यमापन्नो भोजं
क्षमस्वेत्युक्त्वा प्रणम्य तं रथे निवेश्य गृहमागत्य
भूमिगृहान्तरे भोजं रक्षित्वा कृत्रिमं भोज-
मस्तकं कारयित्वा राजानमागत्य नत्वा प्राह
श्रीमता यदादिष्टं तन्मया कृतम् । राजपुत्त्रबधं
ज्ञात्वा राजा तं प्राह वत्सराज ! पुत्त्रेण
खड्गप्रहारावसरे किमपि उक्तम् । वत्सराजः
प्राह देव ! किमपि पत्रं प्रेषितमस्ति तदिदं
गृहाण शिरश्च दर्शयति । ततो भोजमस्तकं
दृष्ट्वा राजा रुरोद ।
पृष्ठ ३/५४९
“मान्धातेति महीपतिः कृतयुगेऽलङ्कारभूतो
गतः
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्या
न्तकः ।
अन्ये चापि युधिष्ठिरप्रभृतयो यावद्भवान्
भूपते !
नैकेनापि समं गता वसुमती मन्ये त्वया
यास्यति ॥”
इति भोजकृतश्लोकं पठित्वा पपात च ।
ततो राजा पण्डितमानीय मया पुत्त्रो हतः
प्रायश्चित्तमुच्यतामित्युवाच । ततस्ते ऊचुः
राजन् ! सवासा वह्निमाविश । ततो राज्ञो
वह्निप्रवेशे निश्चिते सति तद्वार्त्तां श्रुत्वा नृपद्वार-
मागत्य वत्सराजो बुद्धिसागरं प्राह तात !
मया भोजो न मारितः वुद्धिसागरश्च तस्य कर्णे
किमपि कथयति । ततो वत्सराजो निष्क्रान्तः ।
ततस्तन्मुहूर्त्तेन साक्षान्महेश्वर इव एकः
कापालिक आगतः । तं वीक्ष्य बुद्धिसागरः
प्राह योगिन् ! कुत आगम्यते कापालिके त्वयि
जगच्चमत्कारी कलाविशेषश्चौषधिविशेषो वा
अस्ति । ततो राजाप्याह मया सहसा हतं
पुत्त्रं रक्ष । कापालिकः प्राह राजन् ! मा भैषीः
पुत्त्रस्ते नाथप्रसादेन न मरिष्यति प्रातस्तव गृहं
स्वयमेव समेष्यति परं श्मशानभूमौ बुद्धिसागर-
मन्त्रिणा सह होमद्रव्यं प्रेषय । कापालिकेन
यदुक्तं तत् सर्व्वं राज्ञा सम्पाद्य बुद्धिसागरः
प्रेषितः ततश्च रात्रौ गूढतया वत्सराजगृहात्
भोजस्तत्र नदीपुलिनं नीतः योगिना भोजकु-
मारो जीवित इति किम्बदन्ती सर्ब्बतोऽप्य-
जायत । ततः पौरामात्यैः परिवृतो भोजो
राजभवनमागतः । ततस्तमालिङ्ग्य रुदन्तं
मुञ्जं निवार्य्य भोजः स्तौति । ततो राजा
लज्जावनतग्रीवः सन् निजसिंहासने भोजमुप-
वेश्य राज्यं दत्त्वा वनं गतः । ततो मुञ्जे वनं
प्राप्ते बुद्धिसागरं मुख्यामात्यं विधाय भोजः
स्वयं राज्यसुखं बुभुजे । ततो राजसभायां
सहस्रशो बुधवरा दिग्भ्य समागग्मुः ततो
राजा अमात्यमाह ।
“लक्षं महाकवेर्द्देयं तदर्द्ध्वं विबुधस्य च ।
देयं ग्राम्यकवेर्वत्स ! तस्याप्यर्द्धं त्वयान्वहम् ॥”
इति ॥
ततः क्रमेण वररुचिसुबन्धुबाणामररामदेवहरि-
वंशशङ्करकलिङ्गकर्पूरविनायकमदनविद्याविनोद
कोकिलतारेन्द्रप्रमुखाः सर्व्वशास्त्रविचक्षणाः
सर्व्वज्ञा इव राजसभामहर्निशमलंकुर्व्वन्ति ।
कियत्कालानन्तरं कालिदासकवौ समागते
तेन सार्द्ध्वं राज्ञः परमा प्रीतिरजायत । अन्ये
विद्धांसः कालिदासं वेश्यालम्पटं विदित्वा सर्व्व-
भावेन वैरञ्चक्रुः न कश्चित् सभायां स्पृशति न
कोऽपि वदति । किन्तु भोजनृपतिस्तेन सार्द्धं
परमप्रीतो बभूव । अन्येषां पण्डितानामाग-
मनं तेषां पद्यानि समस्यापूरणानि तेभ्यो
बहुलक्षमुद्रादानादिवर्णनञ्च ग्रन्थशेषपर्य्यन्त-
मस्ति । तद्ग्रन्थविस्तरभयात् न लिखितम् ।
इति भोजप्रबन्धपुस्तकात् सङ्कलितम् ॥ * ॥ ऐन्द्र-
जालिकविद्यां भोजविद्यां वदन्ति ॥

भोजकटः, पुं, भोजदेशः । इति शब्दरत्नावली ॥

(रुक्मिनिर्म्मिते पुरे, क्ली । यथा, विष्णुपुराणे ।
५ । २६ । १३ ।
“इत्युक्तेन परित्यक्तः कृष्णणाक्लिष्टकर्म्मणा ।
रुक्मी भोजकटं नाम पुरं कृत्वावसत्तदा ॥”)

भोजनं, क्ली, (भुज् + “ल्युट् च ।” ३ । ३ । ११५ ।

इति भावे ल्युट् ।) भक्षणम् । कठिनद्रव्यस्य
गलाधःकरणम् । तत्पर्य्यायः । जग्धः २
जेमनम् ३ लेपः ४ आहारः ५ निघसः ६
न्यादः ७ । इत्यमरः । २ । ९ । ५५ ॥ जमनम् ८
विघसः ९ । इति तट्टीका ॥ अभ्यवहारः १०
प्रत्यवसानम् ११ अशनम् १२ स्वदनम् १३
निगरः १४ । इति राजनिर्घण्टः ॥ * ॥
अथ भोजनगुणविधानादि ।
“भोजनाग्रे सदा पथ्यं जिह्वाकण्ठविशोधनम् ।
अग्निसन्दीपनं हृद्यं लवणार्द्रकभक्षणम् ॥
आयुर्घृते गुडे रोगा मृत्युर्लीनो विदाहिषु ।
आरोग्यं कटुतिक्तेषु बलं मांसे पयःसु च ॥
अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः ।
पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् ॥
घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ।
आहारः प्रीणनः सद्यो बलकृद्देहधारणः ॥ * ॥
आयुष्यं प्राङ्मखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते
ह्युदङ्मुखः ॥
कुक्षेरन्नेन भागौ द्वावेकं पानेन पूरयेत् ।
वायोः सञ्चारणार्थञ्च चतुर्थमवशेषयेत् ॥
दन्ते चावगतं चान्नं सौचेनैवाहरेज्जलैः ।
कुर्य्यादनिर्गतं तद्धि सुखस्यानिष्टगन्धताम् ॥
भुक्त्रा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥
भुक्त्वाचम्य करं वामं दत्त्वा कुक्षौ ततः पठेत् ।
भुक्तं महेन्द्रहस्तेन वैश्वानरसुखेन च ॥
गरुडस्य च कण्ठेन समुद्रस्य च वह्निना ।
वातापिर्भक्षितो येन पीतो येन महोदधिः ॥
यन्मया खादितं पीतं तदगस्त्यो जरिष्यति ।
पठित्वैतत् सुखासीनः क्षणं तिष्ठेदनाकुलः ॥
भुक्त्रा पादशतं गत्वा वामपार्श्वेन संविशेत् ।
एवं ह्यधोगतं चान्नं सुखं तिष्ठति जीर्य्यति ॥
भुक्त्वोपविशतस्तुन्दं शयानस्य वपुर्भवेत् ।
आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः ॥”
इति राजवल्लभः ॥ * ॥
अपि च ।
“ततो भोजनवेलायां कुर्य्यान्मङ्गलदर्शनम् ।
तस्य प्रदक्षिणं नित्यमायुर्धर्म्मविवर्द्धनम् ॥
लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ॥
पादुकारोहणं कुर्य्यात् पूर्ब्बं भोजनतः परम् ।
पादरोगहरं वृष्यं चक्षुष्यं चायुषे हितम् ॥ * ॥
शरीरे जायते नित्यं वाञ्छा नॄणां चतुर्विधा ।
बुभुक्षा च पिपासा च सुषुप्सा सुरतस्पृहा ॥
भोजनेच्छाविघातात् स्यादङ्गमर्द्दोऽरुचिः श्रमः ।
तन्द्रा लोचनदौर्ब्बल्यं धातुदाहो बलक्षयः ॥
विघातेन पिपासायाः शोषः कण्ठास्ययोर्भवेत् ।
श्रवणस्यावरोधश्च रक्तशोषो हृदि व्यथा ॥
निद्राविघाततो जम्भा शिरोलोचनगौरवम् ।
अङ्गमर्द्दस्तथा तन्द्रा स्यादन्नापाक एव च ॥
बुभुक्षितो न योऽश्नाति तस्याहारेन्धनक्षयात् ।
मन्दीभवति कायाग्निर्यथा चाग्निर्निरिन्धनः ॥
आहारं पचति शिखी दोषाननाहारः पचति ।
दोषक्षये च धातून् पचति धातुक्षये प्राणान् ॥
आहारः प्रीणनः सद्यो बलकृद्देहधारणः ।
स्मृत्यायुःशक्तिवर्णौजःसत्त्वशोभाविवर्द्ध्वनः ॥
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ।
विचार्य्य दोषकालादीन् कालयोरुभयोरपि ॥”
उभयोः कालयोः प्रातः सायञ्च । तथा च ।
“सायं प्रातर्मनुष्याणामशनं श्रुतिबोधितम् ।
नान्तरा भोजनङ्कुर्य्यादग्निहोत्रसमो विधिः ॥”
प्रातः प्रथमयामात् उपरि द्वितीययामात्
अर्व्वाक् । तथा च ।
“याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेत् ।
याममध्ये रसोत्पत्तिर्यामयुग्माद्बलक्षयः ॥”
अन्यच्च ।
“क्षुत् सम्भवति पक्वेषु रसदोषमलेषु च ।
काले वा यदि वाकाले सोऽन्नकाल उदाहृतः ॥”
रसादीनां पाकं ज्ञातुमाह ।
“उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितः ।
लघुता क्षुत्पिपासा च यदा कालः स भोजने ॥”
स्थानमाह ।
“आहारं विजने कुर्य्यान्निर्हारमपि सर्व्वदा ।
उभाभ्यां लक्ष्म्युपेतः स्यात् प्रकाशे हीयते
श्रिया ॥
निर्हारो मलमूत्रोत्सर्गः । अन्यच्च ।
“आहारनिर्हारविहारयोगाः
सदैव सद्भिर्व्विजने विधेया इति ॥” * ॥
भोजने येषां दृष्टिर्निवारणीया तानाह ।
“हीनदीनक्षुधार्त्तानां पापषण्डैणरोगिणाम् ।
कुक्कुटादिशुनां दृष्टिर्भोजने नैव शोभना ॥”
येषां दृष्टिः शुभदा तानाह ।
“पितृमातृसुहृद्बैद्यापापकृद्धंसवर्हिणाम् ।
सारसस्य चकोरस्य भोजने दृष्टिरुत्तमा ॥”
कथञ्चित्तद्दुष्टदृष्टिपाते तद्दोषशान्तये ब्रह्मा-
दीन् स्मरेत् । तद्यथा, --
“अन्नं ब्रह्म रसो विष्णुर्भोक्ता देवो महेश्वरः ।
इति सञ्चिन्त्य भुञ्जानो दृष्टिदोषो न बाधते ॥
अञ्जनागर्भसम्भूतं कुमारं ब्रह्मचारिणम् ।
दृष्टिदोषविनाशाय हनूमन्तं स्मराम्यहम् ॥”
भाजनमाह ।
“दोषहृद्दृष्टिदं पथ्यं हैमं भोजनभाजनम् ।
रौप्यं भवति चक्षुष्यं पित्तहृत् कफवातकृत् ॥
पृष्ठ ३/५५०
कांस्यं बुद्धिप्रदं रुच्यं रक्तपित्तप्रसादनम् ।
पैत्तलं वातकृद्रूक्षमुष्णं कृमिकफप्रणुत् ॥
आयसे कान्तपात्रे च भोजनं सिद्धिकारकम् ।
शोथपाण्डुहरं बल्यं कामलापहमुत्तमम् ॥
शैलजे मृण्मये पात्रे भोजनं श्रीनिवारणम् ।
दारूद्भवे विशेषेण रुचिदं श्लेष्मकारि च ॥
पात्रं पत्रमयं रुच्यं दीपनं विषपापनुत् ॥
जलपात्रन्तु ताम्रस्य तदभावे मृदो हितम् ॥
पवित्रं शीतलं पात्रं घटितं स्फटिकेन यत् ।
काचेन रचितं तद्वत्तथा वैदूर्य्यसम्भवम् ॥ * ॥
भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणम् ।
अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम् ॥”
लवणं सैन्धयं ज्ञेयम् । आर्द्रकन्तु कटुकमपि न
पित्तविरोधि मधुरपाकित्वात् ॥
“अश्नीयात्तन्मना भूत्वा पूर्ब्बन्तु मधुरं रसम् ।
मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान् ॥
फलान्यादौ समश्नीयात् दाडिमादीनि बुद्धिमान् ॥
विना मोचाफलं तद्वद्वर्ज्जनीया च कर्क्कटी ॥
मृणालविसशालूककन्देक्षुप्रभृतीन्यपि ।
पूर्ब्बमेव हि भोज्यानि न तु भुक्त्रा कदाचन ॥
गुरु पिष्टमयं द्रव्यं तण्डुलान् पृथुकानपि ।
न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभु-
क्षितः ॥
घृतपूर्ब्बं समश्नीयात् कठिनं प्राक् ततो मृदु ।
अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥”
अयमर्थः । प्राक् घृतपूर्ब्बं कठिनं समश्नीयात् ।
यथा काश्यादिवासिनः प्रथमं सव्यञ्जनां घृतपूर्ब्बां
रोटिकां भुञ्जते । ततो मृदुसपूपादिकमोदनं
भुञ्जते । अन्ते पुनर्द्रबाशी भोजनान्ते दधितक्र-
दुग्धादि भुञ्जते ।
“यद्यत् स्वादुतरं तद्धि विदध्यादुत्तरोत्तरम् ।
भुक्त्वा यत् प्रार्थ्यते भूयस्तदुक्तं स्वादु भोजनम् ॥”
स्वाद्वन्नस्य गुणमाह ।
“सौमनस्यं बलं पुष्टिमुत्साहं रसनासुखम् ।
स्वादु सञ्जनयत्यन्नमस्वादु च विपर्य्ययम् ॥
अत्युष्णान्नं बलं हन्ति शीतं शुष्कञ्च दुर्ज्जरम् ।
अतिक्लिन्नं ग्लानिकरं युक्तियुक्तं हि भोजनम् ॥
अतिद्रुताशिताहारो गुणान् दोषान्न बिन्दति ।
भोज्यं शीतमहृद्यञ्च स्याद्बिलम्बितमश्नतः ॥”
गुरु त्रिविधं तन्निवारयन्नाह ।
“मन्दानलो नरो द्रव्यं मात्रागुरु विवर्ज्जयेत् ।
स्वभावतश्च गुरु यत्तथा संस्कारतो गुरु ॥
मात्रागुरुस्तु मुद्गादिर्माषादिः प्रकृतेर्गुरुः ।
संस्कारगुरु पिष्टान्नं प्रोक्तमित्युपलक्षणम् ॥ * ॥
आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च ।
भोज्यं भक्ष्यं तथा चर्व्यं गुरु विद्याद्यथोत्तरम् ॥”
चूष्यं इक्षुदाडिमादि । पेयं पानकशर्करोद-
कादि । लेह्यं रसालाक्वथितादि । क्वथिता
कटी इति लोके । भोज्यं भक्तसूपादि । भक्ष्यं
लड्डुकमण्डकादि । चर्व्व्यं चिपिटचणकादि ॥
स्वभावगुरुसंस्कारगुरुणोः स्वभावलघुनश्च
भक्ष्यस्य भोजनपरिमाणमाह ।
“गुरूणामर्द्धसौहित्यं लघूनां तृप्तिरिष्यते ।”
अयमर्थः । माषपिष्टान्नादिभिरर्द्धं सौहित्यं
कर्त्तव्यं मुद्गादिभिः स्वाभाविक्या मात्रया तृप्तिः
कर्त्तव्येत्यर्थः ।
“द्रवो द्रवोत्तरश्चापि न मात्रागुरुरिष्यते ।”
द्रवः पेयादि । द्रवोत्तरः तक्राद्यधिक ओद-
नादिर्मात्रातोऽधिकोऽपि मात्रागुरुर्न मन्तव्यः ।
पेयस्य सर्व्वतो लघुत्वात् ! उक्तञ्च सुश्रुतेन ।
पेयलेह्याद्यभक्ष्याणां गुरु विद्याद्यथोत्तरमिति ।
पेयं पय आदि । लेह्यं रसालादि । अद्यं
ओदनसूपादि । भक्ष्यं मोदकादि ।
“द्रवाढ्यमपि शुष्कन्तु सम्यगेवोपपद्यते ।
विशुष्कमन्नमभ्यस्तं न पाकं साधु गच्छति ॥”
अयमर्थः । शुष्कमपि स्रोतोरोधकरमपि
द्रवाढ्यं सम्यक् पाकं याति । केवलस्य शुष्क-
स्यान्नस्य दोषमाह । विशुष्कमन्नभित्यादि ॥
अपक्वं तत् किं भवतीत्यपेक्षायामाह ।
“पिण्डीकृतमसंक्लिन्नं विदाहमुपगच्छति ।”
पिण्डीकृतं अष्ठीलावद्भूतम् । असंक्लिन्नं
असम्यगार्द्रम् । विदाहमुपगच्छति विदग्धं
भवतीत्यर्थः ॥ शुष्कादीनां वैगुण्यमाह ।
शुष्कं विरुद्ध्वं विष्ठम्भि वह्निव्यापादमावहेत् ।”
शुष्क चिपिटादि । विरुद्धं क्षीरमत्स्यादि ।
विष्टाम्भि चणकमसूरादि वह्निमान्द्यं कुर्य्यात् ।
“न भुक्त्वा न रदैश्छित्त्वा न निशायां न वा
बहून् ।”
न जलान्तरितान्न द्विः शक्तूनद्यान्न केवलान् ॥
पुनर्द्दानं पृथक् पानं सामिषं पयसा निशि ।
दन्तच्छेदनमुष्णञ्च सप्त शक्तुषु वर्ज्जयेत् ॥”
विषमाशनस्य लक्षणमाह ।
“बहुस्तोकमकाले वा ज्ञेयं तद्विषमाशनम् ।”
बहुलाल्पस्य भक्षितस्य दोषमाह ।
“आलस्यगौरवाटोपशब्दांश्च कुरुतेऽधिकम् ।
हीनमात्रं तनोः कार्श्यं करोति च बलक्षयम् ॥”
अधिकं अन्नम् ॥ अकाले भुक्तस्य दोषमाह ।
“अप्राप्तकालो भुञ्जानोऽप्यसमर्थतनुर्नरः ।
तांस्तान् व्याधीनवाप्नोति मरणञ्चाधिगच्छति ॥”
अप्राप्तकालः कालादतिप्राक् भुञ्जानोऽसमर्थ-
शरीरो भवति । तथा सति तांस्तान् व्याधीन्
शिरोव्यथाविसूचिकालसकबिलम्बिकादीन्
प्राप्नोति । तेषामाधिक्ये मरणमपि प्राप्नो-
तीत्यर्थः ।
“कालेऽतीतेऽग्रतो जन्तोर्व्वायुनापहतेऽनले ।
कृच्छ्राद्विपच्यते भुक्तं न स्याद्भोक्तुं पुनः स्पृहा ॥
कुक्षेर्भागद्वयं भोज्यैस्तृतीयं वारि पूरयेत् ।
वायोः सञ्चरणार्थाय चतुर्थमवशेषयेत् ॥
रसेनान्नस्य रसना प्रथमेनोपतर्पिता ।
न तथा स्वादुमाप्नोति ततः सेच्याम्बुनान्तरा ॥
अत्यम्वुपानान्न विपच्यतेऽन्न-
मनम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्द्धनाय
मुहुर्मुहुर्व्वारि पिबेदभूरि ॥
भुक्तस्यादौ जलं पीतं कार्श्यमन्दाग्निदोषकृत् ।
मध्येऽग्निदीपनं श्रेष्ठमन्ते स्थौल्यकफप्रदम् ॥”
अन्यच्च ।
“समस्थूलकृशा भुक्तमध्यान्तप्रथमाम्बुपाः ।”
इति वाग्भटः ॥ भुक्तं भोजनम् ।
“तृषितस्तु न चाश्नीयात् क्षुधितो न पिबेज्जलम् ।
तृषितस्तु भवेद्गुल्मी क्षुधितस्तु जलोदरी ॥”
ननु शिष्टा भोजनान्ते दुग्धं पिबन्ति तत् कथ-
मुचितम् । यतस्त्रिधा विभक्तस्य भोजन-
कालस्य प्रथमो भागो वातस्य द्वितीयः पित्तस्य
तृतीयः कफस्य । अतएवाह ।
“अश्नीयात्तन्मना भूत्वा पूर्ब्बन्तु मधुरं रसम् ।
मध्येऽम्ललवणौ पश्चात् कटुतिक्तकषायकान् ॥”
अस्यायमभिप्रायः । भोजने पूर्ब्बं भुक्तो मधुरो
रसो बुभुक्षितस्य वातपित्तयोः शमको भवति ।
“भोजनमध्ये भुक्तावम्ललवणौ
पित्ताशये च वह्निवृद्धिं कुरुतः ।
भोजनान्त्यसमये भुक्ताः कटुतिक्त-
कषाया रसा कफं शमयन्तीति ।”
अतो भोजनावसानसमयस्य कफकाल-
त्वात्तत्र कथं श्लेष्मजनकं दुग्धं पातुमुचितं
भवति । यत उक्तम् ।
“दुग्धं स्वादुरसं स्निग्धमोजस्यं धातुवर्द्धनम् ।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलमिति ॥”
उच्यते ।
“विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः ।
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिबेत् ॥”
अतएव ब्रह्मपुराणे ।
“कुर्य्यात् क्षीरान्नमाहारं दध्यन्नं न कदाचनेति ॥
लवणाम्लकटूष्णानि विदाहीन्यति यानि तु ।
तद्दोषं हर्त्तुमाहारं मधुरेण समापयेत् ॥”
भोजनावसानसमये दुग्धादिमधुरभोजनेनैव
वर्द्धितकफो लवणाम्लकटुभोजनजनितां पित्तस्य
वृद्धिं नाशयति पित्तवृद्धिनाशनेन कफस्यापि
वृद्धिरुपक्षीणा भवति क्षीणकफवृद्धिरग्निमान्द्या-
दीन् व्याधीन् उत्पादयितुं न शक्नोति ॥
“एवं भुक्त्वा समाचामेत् रूक्षग्रहणपूर्ब्बकम् ।
भोजने दन्तलग्नानि निर्हृत्याचमनञ्चरेत् ॥
दन्तलग्नमनिर्हार्य्यं लेपं मन्येत दन्तवत् ।
न तत्र बहुशः कुर्य्याद्यत्नं निर्हरणं प्रति ॥
आचम्य जलयुक्ताभ्यां पाणिभ्यां चक्षुषीस्पृशेत् ।
भुक्त्वा पाणितले घृष्ट्वा चक्षुषोर्यदि दीयते ।
अचिरेनैव तद्वारि तिमिराणि व्यपोहति ॥
भुक्त्रा च संस्मरेन्नित्यमगस्त्यादीन् सुखावहान् ।
विष्णुरात्मा तथैवान्नं परिणामश्च वै यथा ।
सत्येन तेन यद्भुक्तं जीर्य्यत्यन्नमिदं तथा ॥
अगस्तिरग्निर्वडवानलश्च
भुक्तं ममान्नं जरयत्वशेषम् ।
सुखञ्च मे तत् परिणामसम्भवं
यच्छत्वरोगं मम चारुदेहे ॥
अङ्गारकमगस्तिञ्च पावकं सूर्य्यमश्विनौ ॥
यश्चैतान् संस्मरेन्नित्यं भुक्तं तस्याशु जीर्य्यति ॥
पृष्ठ ३/५५१
इत्युच्चार्य्य स्वहस्तेन परिमार्ज्य तथोदरम् ।
अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः ॥”
अतन्द्रितः जाग्रत्तिष्ठेन्न तु सुप्यात् । भुक्त-
मात्रस्य तु स्वप्नान्मन्दाग्निः कुपितः कफ इति
वचनात् ।
“जीर्णेऽन्ने वर्द्धते वायुर्विदग्धे पित्तमेधते ।
भुक्तमात्रे कफश्चापि क्रमोऽयं भोजनोपरि ॥”
विदग्धे किञ्चित्पक्वे पित्तमेधते किञ्चिदपक्वेकफः ॥
भुक्तमात्रे संजातकफस्य प्रतीकारमाह ।
“धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः ॥
पूगकर्पूरकस्तूरी लवङ्गसुमनःफलैः ।
फलैः कटुकषायैर्वा मुखवैषद्यकारिभिः ।
ताम्बूलपत्रसहितैः सुगन्धैर्वा विचक्षणः ॥”
धूभेन अगुर्व्वादिधूमेन । अपोह्य कफं दूरी-
कृत्य । कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरी-
लवङ्गादिभिः । पूगैः क्रमुकैः । सुमनःफलैः
जातीफलैः ॥ फलैः एलाहरीतक्यादिफलैः ।
“रते सुप्तोत्थिते स्नाते भुक्ते वान्ते च सङ्गरे ।
सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूलभक्षणम् ॥
भुक्त्वा शतपदीं गच्छेच्छनैस्तेन तु जायते ।
अन्नसंघातशैथिल्यं ग्रीवाजानुकटीसुखम् ॥
भुक्त्रोपविशतस्तुन्दं शयानस्य तु पुष्टता ।
आयुश्चंक्रममाणस्य मृत्युर्धावति धावतः ॥”
चंक्रममाणस्य पदशतं शनैर्गच्छतः ॥ * ॥
“श्वासानष्टौ समुत्तानस्तान् द्विः पार्श्वे तु दक्षिणे ।
ततस्तद्द्विगुणान् वामे पश्चात् सुप्यात् यथासुखम् ।
वामदिशायामनलो नाभेरूर्द्ध्वोऽस्ति जन्तूनाम् ।
तस्मात्तु वामपार्श्वे शयीत भुक्तप्रपाकार्थम् ॥
त्रिदोषशमनी खट्वा तूली वातकफापहा ।
भूशय्या वृं हणी वृष्या काष्ठपट्टी तु वातुला ॥”
इति भावप्रकाशः ॥ * ॥
अन्यच्च ।
“स्नातो यथावत् कृत्वा च देवर्षिपितृतर्पणम् ।
प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥
कृते जप्ये हुते वह्नौ शुद्धवस्त्रधरो नृप ! ।
दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय तु ॥
पुण्यगन्धधरः शस्तमाल्यधारी नरेश्वर ! ।
नैकवस्त्रधरोऽथार्द्रपाणिपादो नरेश्वर ! ॥
विशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ।
प्राङ्प्रखोदङ्मुखो वापि न चैवान्यमना नरः ॥”
“अन्नं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः ।
न कुत्सिताहृतञ्चैव जुगुप्सावदसंस्कृतम् ॥
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ।
प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो नृप ! ॥
नासन्दीसंस्थिते पात्रे नादेशे च नरेश्वर ! ।
नाकाले नातिसङ्कीर्णे दत्त्वाग्रञ्च नरोऽग्नये ॥
आसन्दी दारुमयत्रिपदी ।
“मन्त्राभिमन्त्रितं शस्तं न च पर्य्युषितं नृप ! ।
अन्यत्र फलमांसेभ्यः शक्तुशाकादिकान्तथा ॥
तद्वद्धरितकेभ्यश्च गुडपक्वेभ्य एव च ।
भुञ्जीतोद्धृतसाराणि न कदाचिन्नरेश्वर ! ॥”
हरितकेभ्यः अपक्वलेह्यादिभ्यः ॥
“नाशेषं पुरुषोऽश्नीयादन्यत्र जगतीपते ! ।
मध्वम्बुदधिसर्पिभ्यः शक्तुभ्यश्च विवेकवान् ॥
अश्नीयात्तन्मयो भूत्वा पूर्ब्बन्तु मधुरं रसम् ।
लवणाम्ले तथा मध्ये कटुतिक्तादिकांस्ततः ॥
प्राक् द्रवं पुरुषोऽश्नीयान्मध्ये च कठिनाशनम् ।
अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ।
अनिन्द्यं भक्षयेदित्थं वाग्यतोऽन्नमकुत्सयन् ।
पञ्चग्रासं महामौनं प्राणाद्याप्यायनादि तत् ॥
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा ।
यथावत् पुनराचामेत् पाणी प्रक्षाल्य मूलतः ॥
स्वस्थः प्रशान्तचित्तश्च कृतासनपरिग्रहः ।
अभीष्टदेवतानाञ्च कुर्व्वीत स्मरणं नरः ॥
अग्निराप्याययत्वन्नं पार्थिवं पवनेरितः ।
दत्तावकाशं नभसा जरयत्वस्तु मे सुखम् ॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्वेतत्परिणतौ ममास्त्वव्याहतं सुखम् ॥
प्राणापानसमानानामुदानव्यानयोस्तथा ।
अन्नं पुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम् ॥
अगस्तिरग्निर्वडवानलश्च
भुक्तं मयान्नं जरयत्वशेषम् ।
सुखञ्च मे तत्परिणामसम्भवं
यच्छत्वरोगं मम चास्तु देहे ॥
विष्णुः समस्तेन्द्रियदेहदेहि-
प्रधानभूतो भगवान् यथैकः ।
सत्येन तेनान्नमशेषमेत-
दारोग्यदं मे परिणाममेतु ॥
विष्णुरत्ता तथैवान्नं परिणामश्च वै तथा ।
सत्येन तेन मे भुक्तं जीर्य्यत्वन्नमिदं तथा ॥
इत्युच्चार्य्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप्रदायीनि कुर्य्यात् कर्म्माण्यतन्द्रितः ॥
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।
दिनं नयेत्ततः सन्ध्यामुपतिष्ठेत् समाहितः ॥”
इति विष्णुपुराणे ३ अंशे ११ अध्यायः ॥ * ॥
अपरञ्च ।
“भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती ॥
भैक्षेण वृत्तिनो वृत्तिरुपवाससमा स्मृता ।
पूजयेदशनं नित्यमद्याच्चैनदकुत्सयन् ॥
दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्व्वशः ।
अनारोग्यमनायुष्यमस्वर्ग्यञ्चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत् परिवर्जयेम् ॥
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा ।
नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥
प्रक्षाल्य पाणी पादौ च भुञ्जानो द्विरुपस्पृशेत् ।
शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥
नाश्नीयाद्भार्य्यया सार्द्धं नैनामीक्षेत मेहतीम् ।
न भक्षयेदभक्ष्याणि नापेयं वा पिबेद्द्विजः ॥”
अभक्ष्यान्नन्तु भक्तशब्दे द्रष्टव्यम् ॥ * ॥
“भुञ्जीत बन्धुभिः सार्द्धं वाग्यतोऽन्नमकुत्सयन् ।
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तम ! ।
भुञ्जीत चेदमूढात्मा तिर्य्यग्योनिं स गच्छति ॥
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रियाक्षया ।
नाशयत्याशु पापानि देवानामर्च्चनन्तथा ॥
यो मोहादथवालस्यादकृत्वा देवतार्च्चनम् ।
भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥
तस्मात् सर्व्वप्रयत्नेन कृत्वा कर्म्माणि वै द्विजः ।
भुञ्जीत स्वजनैः सार्द्धं स याति परमां गतिम् ॥”
इति कौर्म्मे उपविभागे १७ अध्यायः ॥ * ॥
व्यास उवाच ।
“प्राङ्मुखोऽन्नानि भुञ्जीत सूर्य्याभिमुख एव वा ।
आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु ॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ॥
श्रियं प्रत्यङ्मुखो भुङ्क्ते हृयतं भुङ्क्ते उदङ्मुखः ॥
पञ्चार्द्रो भोजनं कुर्य्याद्भूमौ पात्रं निधाय तु ।
उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।
आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनञ्चरेत् ॥
महाव्याहृतिकं भिन्नं परिधायोदकेन तु ।
अमृतोपस्तरणमसीत्यापोऽशानक्रियाञ्चरेत् ॥
खाहाप्रणवसंयुक्तां प्राणापानाहुतिन्ततः ।
अपानाय ततः कृत्वा व्यानाय तदनन्तरम् ॥
उदानाय ततः कुर्य्यात् समानायेति पञ्चमीम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥
शेषमन्नं यथोक्तञ्च भुञ्जीत व्य्यञ्जनैर्युतम् ।
ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचान्तः पुनराचामेदायं गौरीतिमन्त्रतः ॥
द्रुपदां वा त्रिरावाह्य सर्व्वपापप्रणाशिनीम् ।
प्राणानां ग्रन्थिरसीत्यालभेद्धृदयन्ततः ॥
आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठेऽथ दक्षिणे ।
निःस्रावयेद्धस्तजलं मूर्द्धहस्तः समाहितः ॥
हुत्वान्नमन्त्रणं कुर्य्यात् सन्ध्यायामिति मन्त्रतः ।
अथाक्षरेण स्वात्मानं योजयेद्ब्राह्मणोऽति हि ॥
सर्व्वेषामेव योगानामात्मयोगः परः स्मृतः ।
योऽनेन विधिना कुर्य्यात् स याति ब्रह्मणः
क्षयम् ॥
यज्ञोपवीती भुञ्जीत स्रग्गन्धालङ्कतो नरः ।
सायं प्रातर्नान्तरा वै सन्ध्यायान्तु विशेषतः ॥
नाद्यात् सूर्य्यग्रहात् पूर्ब्बमह्नि सायं शशिग्रहात् ।
ग्रहकाले तु नाश्नीयात् स्नात्वाश्नीयात्तु मुक्तयोः ।
मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ॥
अमुक्तयोरस्तं गतयोः स्नात्वा दृष्ट्वा परेऽहनि ।
नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्म्मतिः ॥
नायज्ञशिष्टादन्यद्वा न क्रुद्धो नान्यमानसः ॥
आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।
वृत्त्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥
यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्व्वं विद्यात्तदासुरम् ॥
नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।
न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥
न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।
नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ॥
न ब्रह्म कीर्त्तयेद्वापि न निःशेषं न भार्य्यया ।
नान्धकारे च नाकाशे न च देवालयादिषु ॥
पृष्ठ ३/५५२
नैकवस्त्रस्तु भुञ्जीत न च यानस्थितोऽपि वा ।
न पादुकानुगतो वा न हसन् विलपन्न हि ॥
भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् ॥”
इति कूर्म्मे उपविभागे १८ अध्यायः ॥ * ॥
अपरञ्च ।
“दत्त्वा च हुत्वा पितृदेवताभ्यो
भृत्वातिथीन् भृत्यजनावशिष्टम् ।
तुष्टः शुचिः श्रद्दधानोऽत्ति योऽन्नं
तस्यामृतं स्यात् स पुमान् भुनक्ति ॥”
सायं प्रातर्मनुष्याणामशनं देवनिर्म्मितम् ।
धैदिके लौकिकेऽग्नौ तु प्रत्यक्षे जाठरे तथा ॥
उपलिप्ते समे देशे शुचिः श्रद्धासमन्वितः ।
पात्रेष्वर्थानुरूपेषु पुत्त्रशिष्यादिभिर्वृतः ॥
सुसंस्कृतं हितं स्निग्धं भुञ्जीतान्नमकुत्सयन् ।
यवगोधूमशाल्याट्यं मांसशाकादिभिर्युतम् ॥
कट्वम्ललवणैस्तिक्तैर्व्यञ्जनैस्तु सुगन्धिभिः ।
भक्ष्यप्रकारान् विविधान् कन्दमूलफलानि च ॥
पात्रं भूमौ प्रतिष्ठाप्य यो भुङ्क्ते वाग्यतः शुचिः ।
भोजने भोजने चैव त्रिरात्रफलमश्नुते ॥
यत्नेन धारयेद्विप्रः पवित्रं दक्षिणे करे ।
भुञ्जानस्तु विशेषेण अन्नदोषैर्न लिप्यते ॥
यातुधानाः पिशाचाश्च असुरा राक्षसास्तथा ।
घ्नन्ति केबलमन्नस्य मण्डलस्य विवर्ज्जनात् ॥
आदित्या वसवो रुद्रा ब्रह्मा चैव पितामहः ।
मण्डलान्युपजीवन्ति तस्मात् कुर्व्वीत मण्डलम् ॥
चतुष्कोणं द्बिजाग्रस्य त्रिकोणं क्षत्त्रियस्य तु ।
द्विकोणाकृति वैश्यस्य शूद्रस्य वर्त्तुलं सदा ॥
न लौहे मृण्मये पात्रे भिन्नेऽश्नीयात् कटेऽम्बरे ।
आपः पुनन्त्वितिमन्त्रेण भुव्यास्तीर्य्य समासनम् ॥”
ध्रुवा द्यौरित्युपविश्य पात्रं प्रक्षाल्य मूर्द्धानं
दिवोऽरतिमितिपात्रमभिमन्त्र्य भूम्यावृत्वायनेति
भूमौ पात्रं प्रतिष्ठापयेत् । आहतवासाः शुक्ल-
वासा वा पवित्रात्मा क्षान्तात्मा प्राङ्मुख
आसीनः पाणी प्रक्षाल्य दशहोतारन्निगद्येति
ध्यायेदव्यक्तं पुरुषम् । तत ओजोऽसीत्यन्नाद्य-
माह्रियमाणं प्रतिपत्तयेत् । ओजोसीत्यादिना
प्रतिगृह्य अहमस्म्यग्निरश्मीत्यृग्भ्यामभिमन्त्रयेत् ।
उद्बुध्यस्वेति जाठराग्निमन्तरस्थं प्रबोधयेत् ।
भूतपतये नमः भुवनपतये नमः भूतानां पतये
नमः इति नमस्कारान्ते बलित्रयं भूमौ दद्यात् ।
अथात्रैवात्मानं चिन्तयेत् ।
“प्राणस्य हृदयं स्थानमपानस्य गुदं स्मृतम् ।
समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥
पञ्चमः स तु विज्ञेयो व्यानः सर्व्वाङ्गसन्धिषु ।
राजीवसदृशः प्राणो हृदये नित्यसंस्थितः ॥
तस्याधस्तादपानस्तु स वै गोक्षीरसन्निभः ।
नाभ्या मध्ये समानस्तु विद्युज्ज्वालासमप्रभः ॥
प्राणस्योपर्य्युदानस्तु इन्द्रनीलसमप्रभः ।
उभाभ्यामथ शाखाभ्यामथवाप्येकशाखया ।
अशून्यं पात्रं कुर्व्वीत एवं हानिर्न जायते ॥
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुख ! ।
त्वं यज्ञस्त्वं वषट्कारस्त्वं विष्णोः परमं पदम् ॥”
अभृतोपस्तरणमसीत्यपः स्पृश्योपस्थाय वाचं
नियच्छेत् । न्यस्तं महाव्याहृतिभिरद्भिः प्रदक्षिणं
परिषिच्य सव्येन पाणिना पात्रमविमुञ्चन्नमृतो-
पस्तरणमसीति पुरस्तादपः पीत्वा पञ्चभिस्तैः
प्राणाहुतीर्ज्जुहोति । प्राणे निविष्टोऽमृतं जुहोमि
शिवोमाविशाप्रदाहाय प्राणाय स्वाहा ।
अपाने निविष्टोऽमृतं जुहोमि शिवोमाविशा-
प्रदाहायापानाय स्वाहा । व्याने निविष्टोऽमृतं
जुहोमि शिवोमाविशाप्रदाहाय समानाय
स्वाहा । इति तूष्णीं भूयो व्रतयेत् । प्रजापतिं
मनसा ध्यायेत् ॥ * ॥ प्राणाय स्वाहेति प्राण-
स्तृप्यति । प्राणे तृप्यति चक्षुस्तृप्यति । चक्षुषि
तृप्यति आदित्यस्तृप्यति । आदित्ये तृप्यति
द्यौस्तृप्यति । दिवि तृप्यन्त्यां यत्किञ्चिद्द्यौ-
श्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनु-
तृप्यति । व्यानाय स्वाहेति व्यानस्तृप्यति ।
व्याने तृप्यति श्रोत्रं तृप्यति । श्रोत्रे तृप्यति चन्द्र-
मास्तृप्यति । चन्द्रमसि तृप्यति दिशस्तृप्यन्ति ।
दिक्षु तृप्यन्तीषु यत्किञ्चिद्दिशः खं चन्द्रमा-
श्चाधितिष्ठन्ति । तत्तृप्यति तस्यानुतृप्तिं अनु-
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्च-
सेनेति । अपानाय स्वाहेत्यपानस्तृप्यति । अपाने
तृप्यति वाक् तृप्यति । वाचि तृप्यन्त्यां अग्नि-
स्तृप्यति । अग्नौ तृप्यति पृथिवी तृप्यति ।
पृथिव्यां तृप्यन्त्यां यत्किञ्चित् पृथिवी वाग्नि-
श्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनुतृप्यति ।
तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्च-
सेनेति । समानाय स्वाहा इति समानस्तृप्यति ।
समाने तृप्यति मनस्तृप्यति । मनसि तृप्यति
पर्य्यन्यस्तृप्यति । पर्य्यन्ये तृप्यति विद्युत्तृप्यति ।
विद्युति तृप्यन्त्यां यत्किञ्चिद्धिद्युत्पर्य्यन्यश्चाधि-
तिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं अनुतृप्यति
प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्च्चसेनेति ।
उदानाय स्वाहेति उदानस्तृप्यति । उदाने
तृप्यति वायुस्तृप्यति । वायौ तृप्यति आकाश-
स्तृप्यति । आकाशे तृप्यति यत्किञ्चिद्वायु-
श्चाकाशश्चाधितिष्ठतस्तत्तृप्यति । तस्यानुतृप्ति-
मनुतृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
ब्रह्मवर्च्चसेनेति ॥ * ॥
“भुक्तेऽन्नेकेचित्काङ्क्षन्ति भुक्तशेषं भुविक्षिपेत् ।
केचित काङ्क्षन्त्यनाजीवाः केचित् कर्म्मवशा-
नुगाः ॥
भुञ्जन्तु मम चोत्सृष्टं पात्रे वाथ मुवि स्थिते ।
अमृतापिधानमसीत्युपरिष्टात् पयः पिबेत् ॥
अह्नि पूर्ब्बोपरिष्टाच्च वस्त्रं प्राणस्य निर्णयेत् ।
भुक्त्रा पीत्वा च यः कश्चित् शून्यं पात्रं समुत्
सृजेत् ॥
स पुनः क्षुत्पिपासार्त्तो भवेज्जन्मनि जन्मनि ।
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ॥”
अपः पीत्वाचान्तः प्राणस्थानान्यद्भिः स्पृशति ।
प्राणानां ग्रन्थिरसीति हृदयमालभ्य जपति
प्राणानां ग्रन्थिरसि इति प्राणदेशम् । विष्णो-
र्जठरमसीतिनाभिदेशम् । यो देवानामधि-
पतीति पुनरपि हृदयदेशमालभ्य जपति ।
सावित्रीञ्चानुभाष्य त्रिरापो रसानां रसभुक्
तत्रात्मा कर्म्मेष्टिः प्रीयतां विश्वभुगिति ध्यायेद-
व्यक्तं पुरुषम् ॥ * ॥
“आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम् ॥
गृहस्थो ब्रह्मचारी च योऽनश्नंस्तु तपश्चरेत् ।
प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः ॥
अन्तराप्रातराशञ्च सायमाशन्तथैव च ।
सदोपवासी भवति यो न भुड्क्ते कदाचन ॥
प्राणाग्निहोत्रमन्त्राणां निरुद्धे भोजने जपेत् ।
त्रेधाग्निहोत्रमन्त्रांस्तु द्रव्यालाभेन तर्पयेत् ॥
यथाहि नलमैषीकमग्निप्रोतं प्रहूयते ।
तद्वत् सर्व्वाणि पापानि निर्दहन्त्यात्मयाजिनः ॥
यथेह क्षुधिता बाला मातरं पर्य्युपासते ।
एवं सर्व्वाणि भूतानि अग्निहोत्रमुपासते ॥”
इति ॥ * ॥
“भोजनस्य निषेधन्तु प्रवक्ष्याम्यनुपूर्ब्बशः ।
नोच्छ्रितो भक्षयेत् किञ्चिन्न गच्छन् वा कदाचन ॥
खट्वारूढो न भुञ्जीत न पाणिस्थं कदाचन ।
चन्द्रसृर्य्योपरागे च ग्रस्तास्ते चन्द्रसूर्य्ययोः ॥
गोब्राह्मणोपवासेन न वाजीर्णे तु भोजने ।
निशीथे नैकवासास्तु न लग्नोच्छिष्टभाजने ॥
न रात्रौ तिलसम्बद्धं दधि शक्तून्न माक्षिकम् ॥
कोविदारवटाश्वत्थफलानि न कदाचन ।
चणकञ्च कौसुम्भं करमथितञ्च यद्दधि ॥
वेद्या बहिः पुरोडाशं तुल्यं गोमांसभक्षणे ।
नोच्छिष्टेन घृतं ग्राह्यं शक्तून् वापद्गतोऽपि सन् ।
पलाण्डुं लशुनं वापि भुञ्जंस्तत्पापमाप्नुयात् ॥
नानार्द्रमुखपाणिस्तु चन्द्रतारार्कमीक्षयेत् ।
भुञ्जन् कुर्व्वन् स्वमूर्द्धानं स्पृशेद् ब्रह्म न कीर्त्तयेत् ॥
नार्द्रवासाः शिरःक्लिन्नः सोपानत्को निरासनः ।
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकम् ॥
नाश्नीयान्न पिबेच्चैव कृत्वा पर्य्यस्तिकां नरः ।
पादप्रसारणं कृत्वा न च वेष्टितमस्तकः ॥
न च श्राद्धस्य यच्छिष्टं ग्रहे पर्य्युषितञ्च यत् ।
दम्पत्योर्भुक्तशेषन्तु न भुञ्जीत कदाचन ॥
नातिचरितमश्नीयात् भुक्त्रा शेषं विवर्ज्जयेत् ।
न भक्षयेत्तु निःशेषमन्यत्र दधिसर्पिषोः ॥
पयसो मधुशक्तूनां तिलानामोदनस्य च ।
न चैको मिष्टमश्नीयान्न बहूनाञ्च पश्यताम् ॥
बहवस्तु न भुञ्जन्ति तथा चकस्य पश्यतः ।
ओष्ठौ च न लिहेत् पाणिं नाङ्गुलिं पात्रमेव च ॥
शून्यालयेऽग्निशालायां देवागारे तथैव च ।
आयुर्निरस्यते तस्य मिष्टैकस्य बुभुक्षतः ॥
अदत्त्वा गोऽग्निविप्रेभ्यः कुमारायानुयायिषु ।
एकोऽन्नं मिष्टमश्नाति ततोऽन्यो नास्त्यपुण्यकृत् ॥
यस्त्वेकपङ्क्त्यां विषमं ददाति
स्नेहाद्भयाद्वा यदि वार्थहेतोः ।
वेदेषु दृष्टामृषभिस्तु गीतां
तां ब्रह्महत्यां मुनयो वदन्ति ॥
पृष्ठ ३/५५३
एकपङ्क्त्युपविष्टानां दुष्कृतानां दुरात्मनाम् ।
सर्व्वेषां तत्समं तावद्यावत् पङ्क्तिर्न भिद्यते ॥
एवं यो ब्राह्मणो भुङ्क्ते सन्तर्प्य पितृदेवताः ।
स द्वे कुले समुद्धृत्य ब्रह्मसायुज्यमाप्नुयात् ॥”
इति वह्निपुराणे भोजनविधानम् ॥ * ॥
त्रिविधभोजनं यथा, --
“उच्छिष्टमवशिष्टं वा पथ्यं पूतमभीप्सितम् ।
भक्तानां भोजनं विष्णोर्नैवेद्यं सात्त्विकं मतम् ॥
इन्द्रियप्रीतिजननं शुक्रशोणितवर्द्धनम् ।
भोजनं राजसं शुद्धमायुरारोग्यवर्द्धनम् ॥
अतः परं तामसानां कट्वम्लोष्णाविदाहिकम् ।
पूतिपर्य्युषितं ज्ञेयं भोजनं तामसप्रियम् ॥”
इति कल्किपुराणे २५ अध्यायः ॥ * ॥
श्राद्धादिषु निमन्त्रितस्यान्यत्र भोजने दोषो
यथा, --
“निमन्त्रितोऽन्यतो भुङ्क्ते श्राद्धे दैवे सपैतृके ।
स द्विजो नरके वासं लभते नात्र संशयः ॥”
देवतादिष्वभुक्तवत्सु भोजने दोषा यथा, --
“देवतापितृमर्त्येषु महत्सु ब्राह्मणेषु च ।
अभुक्तवत्सु येऽश्नन्ति बालपित्रग्निमातृषु ॥
दुष्टास्ते पूयनिचये निपात्यन्तेऽधमाधमाः ।
सूचीमुखाश्च जायन्ते क्षुधार्त्ताः किरिविग्रहाः ॥”
“एकपङ् क्त्युपविष्टाश्च समुत्थाय प्रयान्ति ये ।
विड्भोजनं राक्षसेन्द्र ! नरकन्ते प्रयान्ति हि ॥
एकसार्थप्रयातञ्च तथान्यञ्चार्थितं नराः ।
असंविभज्य भुञ्जन्ति ते यान्ति श्लेष्मभोजनम् ॥
पायसं कृशरं मांसं वृथा भुक्तञ्च यैर्नरैः ।
तेषामयोगुडास्तप्ताः क्षिप्यन्ते वदनेऽद्भुताः ॥”
इति वामनपुराणे १२ अध्यायः ॥ * ॥
औषधातिरिक्तकिञ्चिद्भोजनवतो नित्यनैमित्तिक-
क्रियानिषेधो यथा, --
“द्रव्ये भुक्ते त्वजीर्णे च नैव भुक्त्रा च किञ्चन ।
कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा ॥
पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् ।
कणादिपिप्पल्यन्तञ्च फलं भुक्वा न चाचरेत् ॥
जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृतें ।
नित्यक्रिया बिवर्त्तेत सह नैमित्तिकैः सदा ॥”
इति कालिकापुराणे ५४ अध्यायः ॥
भोजने पाकविधौ दिङ्नियमो यथा, --
“पूर्ब्बाशाभिमुखो भूंत्वा उत्तराशामुखेन वा ।
पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्ज्जयेत् ॥
अग्न्याशाभिमुखे पक्त्वा अमृतान्नं विजानीहि ।
पूर्ब्बामुखो धर्म्मकामः शोकहानिश्च दक्षिणे ॥
श्रीकामश्चोत्तरमुखे पतिकामश्च पश्चिमे ।
ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः ॥”
पाकपात्रनिरूपणं यथा, --
“यदा तु आयसे पात्रे पक्त्वा अश्नाति वै द्विजः ।
स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥
ताम्रे पक्त्वा चक्षुर्हानिर्मणौ भवति वै क्षयः ।
पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! ॥
पुण्डरीकस्य यज्ञस्य लभते फलमीप्सिंतम् ।
वातुलेन तु यत् पक्वं भगिन्या च कनिष्ठया ।
असगोत्रेण यत् पक्वं शोणितं तदपि स्मृतम् ॥
अभक्तेन च यत् पक्वं स्त्रिया पक्वं तथैव च ।
पक्वपात्रे च यत् पक्वं तत् सर्व्वं निष्फलं भवेत् ॥”
पाककाष्ठनिरूपणं यथा, --
“उडुम्बरेण काष्ठेन कदम्बस्य दलेन च ।
शालेन करमर्द्देन उदरावर्त्तकेन च ॥
पक्त्वान्नं नैव भुञ्जीत भुक्त्रा रात्रिमुपावसेत ॥”
निषिद्धान्नं यथा, --
“गर्हितान्नमवीरान्नं भुक्त्वा चान्द्रायणञ्चरेत् ।
अप्रजा या तु वनिता नाश्नीयादेव तद्गृहे ॥
शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि ।
कालचण्डातकस्यैव वज्रवारणकस्य च ॥
भेरण्डशाल्मलैर्वापि पक्वान्नं गर्हितं स्मृतम् ॥”
पाकपात्रत्यागकालो यथा, --
“यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् ।
मासें पक्षे तथाष्टासु तत्पात्रं विसृजेद् गृही ॥
धनुःपाके तथा सिंहे मीने चैव वरानने ! !
यः कुर्य्याद्भोजनं देवि ! कृच्छ्रेणेव विशुद्ध्यति ॥”
पाकार्थजलदानं यथा, --
“एकदा तु जलं दद्याद् द्बिवारं न प्रदापयेत् ।
त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत् ॥”
भोजनस्थानादि यथा, --
“उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वाग्यतः ।
प्राङ्मुखोऽन्नानि भुञ्जीत शुचिः पीठमव-
स्थितः ॥”
पीठनिरूपणं यथा, --
“सार्द्धहस्ते चतुष्कोणे सहकारविनिर्मिते ।
चामभद्रदारुमये प्रादेशोच्छ्रायसंयुते ॥
वरुणासने भवेद्वृद्धिर्भद्रके श्रियमाप्नुयात् ।
चामे धनविवृद्धिः स्याद्धर्म्मवृद्धिस्तु भद्रके ।
शालासने कशेरुके किंशुके मरणं भवेत् ॥”
भोजने दीपनिरूपणं यथा, --
“घृतदीप्त्या यज्ञफलं तैले धेनुफलं लभेत् ॥”
भोजने चाण्डालादिदृष्टिनिषेधो यथा, --
“यदा भोजनकाले तु चाण्डालैः पतितैस्तथा ।
श्वकुक्कुटवराहैश्च म्लेच्छैश्च अन्त्यजैरपि ।
अन्नं वाप्यथ पानं वा दृष्टमात्रं परित्यजेत् ॥”
“रजस्वलायाः संस्पृष्टीर्वाचं श्रुत्रा प्रमादतः ।
व्रतस्थो वर्ज्जयेद्देवि ! अव्रते प्रोक्षणञ्चरेत् ॥
देवालये तथा तीर्थे सिद्धक्षेत्रे च शङ्करि ! ।
ब्राह्मणानां समाजे तु भुक्त्वा क्रतुफलं लभेत् ॥
आचान्ती भोजनं कुर्य्यादनामायां हिरण्ययुक् ।
सुवर्णेन स्पृशेदन्नं तदन्नञ्चामृतं विदुः ॥
रजःस्पृशं यदन्नञ्च भुक्त्रा भवति किल्विषी ।
पौष्पकेण स्पृशेदन्नमन्नं विष्ठासमं भवेत् ॥
वैदूर्य्येण माणिक्येन स्फटिकेन स्पृशेदपि ।
स्वर्णेन संस्पृशेदन्नं तदन्नं शुचितामियात् ॥”
भोजने दिङ्नियमो यथा, --
“आयुष्यं प्राङ्मुखो भुङ्क्ते रात्रौ चैव उदङ्-
मुखः ।
यशस्वी दक्षिणे चैव पश्चिमे तु विवर्ज्जयेत् ॥”
भोजने मण्डलानि यथा, --
“मण्डलं भोजने काले चतुष्कोणं द्विजस्य च ।
क्षत्त्रियस्य भवेद्दैर्घं वैश्यस्य कूर्म्मपृष्टकम् ।
स्त्रीशूद्राणां भवेद्वृत्तं शकटाकारमेव वा ॥”
अथ भोजनकालः ।
“सायं प्रातर्द्विजातीनामशनं देवनिर्म्मितम् ।
नित्यमह्नि तमस्विन्यां सार्द्धप्रहरयामतः ॥
रात्रौ यामत्रयान्ते च सन्ध्ययोर्न कदाचन ।
अकालभोजनं कृत्वा प्राणायामेन शुद्ध्यति ।
अहोरात्रेश्च सन्ध्यायां भुक्त्वा कृच्छ्रं समाचरेत् ॥”
मोदकादिभक्षणानन्तरमन्नभोजनविधिर्यथा, --
मोदकं कन्दुपक्वञ्च गव्याढ्यं घृतसंयुतम् ।
पुनः पुनर्भोजने च पुनरन्नं न दुष्यति ।
त्रिसन्ध्यं भुक्तवान् यस्तु न स स्वार्थं द्विजः
क्वचित् ॥
भुक्त्वा रात्रिमुपगमे कृच्छ्रेणैकेन शुद्ध्यति ॥
कोलं हरिद्रा सौवीरं मरीचं जातिकोषकम् ।
ग्रन्थिपर्णादिकं सर्व्वं गन्धद्रव्यं तथौषधिः ।
प्रशस्तमेषामामान्नं स्विन्नञ्चापि न दुष्यति ॥
कुटुम्बभरणार्थाय पाकं पश्चान्निवेदयेत् ।
वैश्वदेवान्नमुद्धत्य भोजयेन्न विचारयेत् ॥
नाश्नीयात् केवलं रात्रौ विल्वञ्चैव तथा दधि ।
अङ्केन तृणगुच्छेन काष्ठखण्डेन वह्निना ॥
पङ्क्तिभेदं ततः कुर्य्यात् पश्चाद्भुञ्जीत वाग्यतः ।
हस्तदत्तं यदन्नञ्च शूद्रादत्तं न भक्षयेत् ॥
घृततैलञ्च लवणं पानीयं पायसं दधि ।
रविवारे तथा षष्ठ्यां भौमवारे दिनक्षये ।
पर्व्वकाले च द्वादश्यां द्विजस्तिक्तं न भक्षयेत् ॥
न वामेन पिबेत्तोयं न रसं तक्रमेव च ।
भेकाखुशिशुमार्ज्जारैस्तथा पारावतैरपि ॥
कलविङ्कैः पन्नगैश्च पाके स्पृष्टेऽपि सुन्दरि ! ।
गोधया बनमार्ज्जारैः पाकं न विसृजेत् क्वचित् ॥
स्वर्णरौप्यमये पात्रे पाषाणे ब्रह्मपत्रके ।
सकृद्भुक्त्वा तु देवेशि ! पराकस्य फलं लभेत् ॥
पूर्ब्बायां स्वर्णपात्रे च भोजनं यः समाचरेत् ।
पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम् ॥
स्वर्णपात्रे पश्चिमायां उत्तराभिमुखेन वा ।
तदन्नं शौकरं मांसं भुक्त्वा चान्द्रायणञ्चरेत् ॥
सर्व्वकामः स्वर्णपात्रे यशस्वी खर्परेषु च ।
पद्मपत्रे भवेत् पुष्टिर्हविष्याशी तु पुण्यवान् ॥
क्षयी भवति ताम्रे च काचपात्रे दरिद्रता ।
तूतपत्रे भवेदायुः कदले कीर्त्तिमाप्नुयात् ॥
मधुपत्रे च रोगः स्याद्वटपत्रे तु वैष्णवः ।
शालपत्रे भवेत्कामी पनसे चैव स्वर्गतिः ।
निशापत्रे प्ररोहे च पुनः संस्कारमर्हति ॥”
इति मत्स्यसूक्ततन्त्रे ४२ पटलः ॥
अथ स्मृत्युक्तभोजनविधिः । बहिःप्रक्षालित-
पाणिपादवदनो रत्नपाणिर्द्विवासा द्विराचान्तो
गोमयोपलिप्ते प्रावृते देशे शुद्धः शुद्धनीचासनो-
पविष्टो धर्म्मवृद्धिकामः प्राङ्मुख उदङ्मुखो
वा यशस्कामो जीवत्पितृमातृकेतरो दक्षिणा-
मुखो धनकामः प्रत्यङ्मुखो भूमिस्पृष्टदक्षिण-
पाद आसनारूढसव्यपादोऽन्तर्जानुकरो दक्षि-
पृष्ठ ३/५५४
णदिक्कृतपानीयपात्रो दक्षिणावर्त्तेन चतु-
ष्कोणमण्डलं कृत्वा लोहताम्रमृण्मयभवादि-
दुष्टभग्नकांस्यकदल्यादिपत्रपृष्ठपद्मपलाशपत्रेतर-
पात्रं विधाय प्रक्षाल्य च आत्मानं पात्रञ्च
दक्षिणक्रमेण जलेन वेष्टयित्वा तदुपरि लोहे-
तरपात्रान्तरेण हस्ताभ्यां प्रतिषिद्धेतरमन्ना-
दिकं स्थापयित्वा अन्नं दृष्ट्वा प्रहृष्येत् । अस्माकं
नित्यमेवास्तु इत्यभिलप्य संप्रोक्ष्य आचाराच्चतु-
ष्कोणमण्डलाभ्यन्तरे जललिखितचक्रोपरि ॐ
नारायणाय नम इत्यन्नं सजलं मध्ये दद्यात् ।
तत्पार्श्वे ॐ भुवः पतये स्वाहा ॐ भुवनपतये
स्वाहा ॐ भूतानां पतये स्वाहा । इति बलि-
चतुष्टयं दद्यात् । तदिदं सोपकरणमन्नं ॐ
विष्णवे नम इत्युत्सृज्य तदग्रं किञ्चित् ॐ
विश्वकसेनाय नम इति दत्त्वा अन्नोपरि विष्णु-
निर्म्माल्यतुलसीपत्रं प्रक्षिप्य विष्णुपादोदकं पुरा
न गृहीतञ्चेदिदानीम् ।
“ॐ कृष्ण कृष्ण महाबाहो भक्तानामार्त्ति-
नाशन ! ।
सर्व्वपापप्रशमनं पादोदकं प्रयच्छ मे ॥”
इति गृहीत्वा इष्टदेवतानामपरेरितं श्रुत्वा
स्वयं त्रिरुच्चार्य्य वा ॐ अमृतोपस्तरणमसि
स्वाहा इत्यनेन पीत्वा ।
“ॐ अकालमृत्युहरणं सर्व्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पुण्यं शिरसा धारयाम्यहम् ॥”
इत्यनेन पादोदकशेषं शिरसि दद्यात् ।
“ॐ उच्छिष्टभोजिनस्तस्य वयमुच्छिष्टकाङ्क्षिणः ।
येन लीलावराहेण हिरण्याक्षो निपातितः ॥”
इत्युक्त्वा अङ्गुष्ठानामिकाभ्यां घृतप्लुतस्तोकमन्न-
मादाय महामौनी साङ्गुष्ठसर्व्वाङ्गुलिभिर्व्वा ॐ
प्राणाय स्वाहा इत्यनेन मुखे दत्त्वा अदन्तच्छिन्नं
निगिरेत् । एवं ॐ अपानाय स्वाहा ॐ समा-
नाय स्वाहा ॐ उदानाय स्वाहा ॐ
व्यानाय स्वाहा । ततो वीर्य्यकामो मौनी
भुञ्जीत । ततः प्रथमं द्रवयुक्तमधुरं मध्ये कठि-
नाम्ललवणानि अन्ते द्रवयुक्तकटतिक्तानि
यथालाभं क्षीरान्तं साङ्गुष्ठैदक्षकरसर्व्वाङ्गु-
लिभिः अनतितृप्तं भुञ्जीत । पश्चादधिकं जला-
दिकं न पातव्यम् । जलक्षीरदधिघृतमधुशाक-
शक्तुमांसेतरद्रव्याणां शेषं रक्षणीयम् । भोजने
संपूर्णे तु मांसभोजने करं प्रक्षाल्य तदभोजने
तु करमप्रक्षाल्यैव सान्नेन हस्तेन जलं गृहीत्वा
ॐ अमृतापिधानमसि स्वाहा इति जलगण्डूषं
गृहीत्वा सान्नं तज्जलशेषं ॐ रौरवेऽपुण्य-
निलये पद्मार्व्वुदनिवासिनाम् । उच्छिष्टभागि-
नामन्नमक्षय्यमुपतिष्ठतामिति भूमौ निक्षिपेत् ।
भोजनकाले तु विडालकर्म्मकस्पर्शत्यागः ।
विडालकर्त्तृकस्पर्शे न दोषः । ततः स्थानान्तरं
न गच्छेत् । परावृत्य मृद्भिर्मुखहस्तलेपमपनीय
तृणादिना जिह्वाघर्षणयोग्यं दन्तेभ्यो गृहीत-
रसद्रव्यं रक्तपातक्षतादिकं विना अपनयेत् ।
यत्ने कृते यदि न निःसरति तदा न दोषः ।
ततो जिह्वाञ्च संघृष्य जलगण्डूषैर्मुखाभ्यन्तरं
संशोध्य पाणी पादौ च प्रक्षाल्य आसनस्थ एव
भूमौ पादौ दत्त्वा द्विराचम्य मुखं तुलसी-
पत्रादिना संशोध्य दक्षिणपादाङ्गुष्ठे दक्षिण-
हस्तेन --
“ॐ अङ्गुष्ठमात्रपुरुषो ह्यङ्गुष्ठञ्च समाश्रितः ।
ईशः सर्व्वस्य जगतः प्रभुः प्रीणातु विश्वधृक् ॥”
इति मन्त्रेण जलं दद्यात् । ततो महीमार्ज्जना-
भावे अशुचित्वादविलम्बमेव भोजनपात्रमुद्धृत्य
तत् स्थानं उच्छिष्टमपनीय गोमयोदकाभ्यां
संमृज्य सिञ्चेत् । सुस्थः प्रशान्तचित्त आसने
उपविश्याभीष्टदेवतानाम स्मृत्वा --
“ॐ अग्निराप्याययत्वन्नं पार्थिवं पवनेरितः ।
दत्तावकाशो नभसा जरयत्वस्तु मे सुखम् ॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्वेतत्परिणतौ ममास्त्वव्याहतं सुखम् ॥
प्राणापानसमानानामुदानव्यानयोस्तथा ।
अन्नं तुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम् ॥
अगस्तिरग्निर्व्वडवानलश्च
भुक्तं ममान्नं जरयत्वशेषम् ।
सुखं ममैतत्परिणामसम्भवं
यच्छत्वरोगं मम चास्तु देहे ॥
विष्णुः समस्तेन्द्रियदेहदेहि-
प्रधानभूतो भगवान् यथैकः ।
सत्येन तेनान्नमशेषमेत-
दारोग्यदं मे परिणाममेतु ॥
विष्णुरत्ता तथैवान्नं परिणामश्च वै यथा ।
सत्येन तेन मद्भुक्तं जीर्य्यत्वन्नमिदं तथा ॥”
इत्युच्चार्य्य वामहस्तेनोदरं परिमृजेत् । ततः
पादशतव्रजनानन्तरं वामपार्श्वेन किञ्चित्कालं
शयितव्यम् । ततस्ताम्बूलादि मुखवासद्रव्यं
भोक्तव्यम् । इत्याह्निकाचारे पञ्चमयामार्द्ध-
कृत्यम् ॥ * ॥ अथ भोजनादिदानफलम् ।
“भोजनाच्छादनं दत्त्वा दत्त्वा चोपानहौ द्विज ! ।
स स्वर्गलोकं संभुज्य सर्व्वकामोऽत्र जायते ॥
विद्यां भक्त्या प्रयच्छेद्यः परंब्रह्मण्यसौ विशेत् ।
विद्यार्थिने च विप्राय यो दद्याद्भोजनं नरः ॥
अन्नं प्राणो जलं प्राणः प्राणश्चौषधमुच्यते ।
तस्मादौषधदानेन दत्ताः स्युरसवो द्विजाः ॥
इति पराशरस्मृतिः ॥
भोजने प्रतिषेधो यथा, --
“ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।
दुग्धे च लवणं दद्यात् सद्यो गोमांसभक्षणम् ॥
यः शूद्रेण समाहूतो भोजनं कुरुते द्बिजः ।
सुरापश्च स विज्ञेयः सर्व्वधर्म्मबहिष्कृतः ॥
स्नानं रजकतीर्थेषु भोजनं गणिकालये ।
शयनं पूर्ब्बपादे च ब्रह्महत्या दिने दिने ॥”
इति कर्म्मलोचनम् ॥
अथ शिशूनां प्रथमान्नभोजनदिनादि । यथा,
यमः ।
“ततोऽन्नप्राशनं मासि षष्ठे कार्य्यं यथाविधि ।
अष्टमे वाथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले ॥”
षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् । कृत्य-
चिन्तामणौ ।
“अन्नस्य प्राशनं प्रोक्तं मासि षष्ठेऽष्टमे बुधैः ।
स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः ॥
द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्व्वसु ।
बलमायुर्यशो हन्यात् शिशूनामन्नभोजनम् ॥”
भुजबलभीमे ।
“षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वै
तिथौ
सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे ।
प्राजेशादितिपौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-
राग्नेयाप्पतिपित्रभैश्च नितरामन्नादिभक्षे
शुभम् ॥”
युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते अत्रापि
तिथ्यङ्गादिविद्धर्क्षं विवर्जयेत ।
“वृषद्वन्द्वधनुर्मीनकन्यालग्नेऽन्नभक्षणम् ।
त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथा फलम् ॥
दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे ॥”
मार्कण्डेयपुराणम् ।
“देवतापुरतस्तस्य पितुरङ्कगतस्य च ।
अलङ्कृतस्य दातव्यमन्नं पात्रे च काञ्चने ॥
मध्वाज्यकणकोपेतं प्राशयेत् पायसन्ततः ।
कृतप्राशनमुत्सङ्गे मातुर्बालन्तु तं त्यजेत् ॥
देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्व्वशः ।
शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम् ॥
प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ।
जीविका तस्य बालस्य तेनैव तु भविष्यति ॥”
सोमवारे दोषमाह भोजराजः ।
“वाचालो बलवान् दिने दिनपतेरत्यन्तदीप्तानलो
देही हीनहुताशनः शिशिरगौ कौजे रुजा
पीडितः ।
बौधे भोगसुखोदयी प्रथमभुग्जीवे चिरायुः
सुखी
शुक्रे सौख्यबलान्वितोऽतिसुभगो मन्दे च
मन्दानलः ॥”
इति ज्योतिस्तत्त्वम् ॥
तद्वैदिकपर्य्यायाः । आवयति १ भर्वति २ बभस्ति
३ वेति ४ वेवेष्टि ५ अविष्यन् ६ वप्सति ७
भसथः ८ वब्धाम् ९ ह्वरति १० । इति दशाति-
कर्म्माणः । इति वेदनिघण्टौ २ अध्यायः ॥
(तथा च सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“वक्ष्याम्यतः परं कृत्स्नमाहारस्योपकल्पनाम् ।
घृतं कार्ष्णायसे देयं पेया देया तु राजते ॥
फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्वैदलेषु च ।
परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ॥
प्रद्रवाणि रसांश्चैव राजतेषूपहारयेत् ।
कट्वराणि खडांश्चैव सर्व्वान् शैलेषु दापयेत् ॥
दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः ।
पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् ॥
काचस्फटिकपात्रेषु शीतलेषु शुभेषु च ।
दद्याद्वैदूर्य्यपात्रेषु रागषाडवसट्टकान् ॥
पृष्ठ ३/५५५
पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे ।
सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥
फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च ।
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥
प्रद्रवाणि रसांश्चैव पाणीयं पानकं पयः ।
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥
सर्व्वान् गुडविकारांश्च रागषाडवसट्टकान् ।
पुरस्तात् स्थापयेत्प्राज्ञो द्वयोरपि च मध्यतः ॥
एवं विज्ञाय मतिमान् भोजनस्योपकल्पनाम् ।
भोक्तारं विजने रम्ये निःसम्बाधे शुभे शुचौ ॥
सुगन्धिपुष्परचिते समे देशेऽथ भोजयेत् ।
पूर्ब्बं मधुरमश्नीयान्मध्येऽम्ललवणौ रसौ ॥
पश्चाच्छेषान् रसान् वैद्यो भोजनेष्ववचारयेत् ।
आदौ फलानि भुञ्जीत दाडिमादीनि बुद्धिमान् ॥
ततः पेयांस्ततो भोज्यान् भक्ष्यांश्चित्रांस्ततःपरम् ।
घनपूर्ब्बं समश्नीयात् केचिदाहुर्विपर्य्ययम् ॥
आदावन्ते च मध्ये च भोजनस्य तु शस्यते ।
अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ॥
तेषु तत्प्रत्यनीकाढ्यं भुञ्जीत प्रातरेव तु ।
येषु चापि भवेयुश्च दिवसा भृशमायताः ॥
तेषु तत्कालविहितमपराह्णे प्रशस्यते ।
रजन्यो दिवसाश्चैव येषु चापि समाः स्मृताः ॥
कृत्वासममहोरात्रं तेषु भुञ्जीत भोजनम् ।
तस्मात् सुसंस्कृतं युक्त्या दोषैरेतैर्विवर्ज्जितम् ।
यथोक्तगुणसम्पन्नमुपसेवेत भोजनम् ॥”

भोजनपात्रं, क्ली, (भोजनस्य पात्रम् ।) भक्ष्यद्रव्या-

धारः । यथा, --
“तिष्ठन्ति यत्र नवकाञ्चननिर्म्मितानि
श्रेणीकृतानि परितस्तु कटोरकाणि ।
राकाशशाङ्कनवमण्डलभास्करं यत्
क्षौणीभृतां रजतनिर्म्मितथालकं स्यात् ॥”
अथोर्द्ध्वप्रतिमादर्शिकांस्यमादर्शवत् शुचि ।
पात्रं दृढं सुविस्तीणें स्त्रीणामत्यन्तदुर्लभम् ॥
पत्रावली भवति वा नृपभोजनाय
निर्जन्तुजालरहितामलवारिधौता ।
पालाशभूरुहदलैरचिता मनोज्ञा
तादृग्विपर्णकगणैः परिवेष्टिता च ॥”
इति पाकराजेश्वरः ॥

भोजपतिः, पुं, (भोजानां भोजवंशीयानां पतिः ।)

कंसराजः । यथा, --
“मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो
मूर्त्तिमान्
गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता
स्वपित्रोः शिशुः ।
मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां
वृष्णीनां परदेवतेति विदितो रङ्गंगतः साग्रजः ॥”
इति श्रीभागवते १० स्कन्धे ४३ अध्याये १७ श्लोकः ॥

भोजपुरं, क्ली, (भोजस्य भोजराजस्य पुरम् ।)

स्वनामख्यातदेशः ।
“आजिरभूद्भोजपुरे साकमसुरवरैः ।
हरे रेवापारे सवलो नूनं ते लघीयांसः ॥”
इति विदग्धमुखमण्डनम् ॥

भोजयिता, [ऋ] त्रि, (भुज् + णिच् + कर्त्तरि

तृच् ।) भोजनकारयिता । भोगप्रयोजकः । यथा,
“कर्त्ता च देही भोक्ता च आत्मा भोजयिता
सदा ।
भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्याये ॥

भोजाधिपः, पुं, (भोजस्य अधिपः ।) कंसराजः ।

इति शब्दरत्नावली ॥

भोज्यं, त्रि, (भुज्यते इति । भुज् + कर्म्मणि +

ण्यत् । “भोज्यं भक्ष्ये ।” ७ । ३ । ६९ । इति
निपातनात् न कुत्वम्) भोजनीयद्रव्यम् । यथा,
“भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराः स्त्रियः ।
विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥”
इति चाणक्ये ५१ श्लोकः ॥
अपि च ।
“आहारं षड्विधं चूष्यं पेयं लेह्यं तथैव च ।
भोज्यं भक्ष्यं तथा चर्व्व्यं गुरु विद्याद्यथोत्तरम् ॥”
चूष्यं इक्षुदण्डादि । पेयं पानकशर्करीदकादि ।
लेह्यं रसालाक्वथितादि । भोज्यं भक्तसूपादि ।
भक्ष्यं लड्डुकमण्डकादि । चर्व्व्यं चिपिटचण-
कादि । इति भावप्रकाशः ॥ (पितॄणां तृप्त्यर्थं
देये अन्नादौ च ॥)
भोज्यदानस्येतिकर्त्तव्यता यथा । ॐ अद्यामुके
मासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्य
पितुरमुकदेवशर्म्मण एकोद्दिष्टविधिकसाम्बत्-
सरिकश्राद्धवासरे अमुकगोत्रस्य पितुरमुक-
देवशर्म्मणोऽक्षयस्वर्गकाम इदं सघृतसवस्त्रोप-
करणामान्नभोज्यमर्च्चितं श्रीविष्णुदैवतं यथा-
सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । ततो
दक्षिणा । ॐ अद्येत्यादि कृतैतत्सघृत-
सवस्त्रोपकरणामान्नभोज्यदानकर्म्मणः साङ्गतार्थं
दक्षिणामिदं काञ्चनमूल्यं श्रीविष्णुदैवतं यथा-
सम्भवगोत्रनाम्ने ब्राह्मणायाहं ददानि । कृतै-
तत्सघृतसवस्त्रोपकरणामान्नभोज्यदानकर्म्मा-
च्छिद्रमस्तु । इति श्राद्धप्रयोगतत्त्वम् ॥

भोज्यसम्भवः, पुं, (सम्भवत्यस्मादिति सम्भव उत्-

पत्तिकारणम् । भोज्यं सम्भवोऽस्य ।) शरीरस्थ-
रसधातुः । इति शब्दचन्द्रिका ॥

भोटाङ्गः, पुं, (भोटस्तज्जातिरङ्गमस्य ।) देश-

विशेषः । इति शब्दरत्नावली । भोटान् इति
भाषा ॥ (भोटान्तोऽपि पाठः ॥)

भोभो, व्य, सम्बोधनम् । इति हलायुधः ॥ (यथा,

महानाटके । १ । १४ ।
“भोभो भुजङ्ग ! तरुपल्लवलोलजिह्व ! ॥”)

भोलानाथः, पुं, शिवः । यथा, --

“ब्रह्मणो वचनं श्रुत्वा भोलानाथः कृपानिधिः ।
संहृत्य तां महाज्वालां सगणोऽन्तरगान्मुने ! ॥”
इति श्रीशिवपुराणोत्तरखण्डे तुण्डिवामदेवसंवादे
वाराणसीमाहात्म्ये पञ्चक्रोशीयात्रायां महा-
कालगणोत्पत्तिर्नाम २५ अध्यायः ॥ * ॥
पुस्तकान्तरे भोलानाथ इत्यत्र महादेव इति
पाठः ॥

भोलिः, पुं, उष्ट्रः । इति त्रिकाण्डशेषः ॥

भौतः, पुं, (भूतानि प्राणिनोऽधिकृत्य प्रवृत्तः ।

भूत + अण् ।) भूतयज्ञः । बलिकर्म्म । यथा, --
“होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूज-
नम् ॥”
इत्याह्निकतत्त्वम् ॥ देबलः । इति शब्दमाला ॥
(भिक्षादिभ्योऽण् । भूतसङ्घः । तस्येदमित्यण् ।)
भूतसम्बन्धिनि, त्रि ॥

भौतिकं, क्ली, (भूतानां विकार इति ठक् ।)

मुक्ता । इति राजनिर्घण्टः ॥ त्रि, भूतसम्बन्धि ॥
(भूतानि क्षित्यादीनि तद्विकारश्च गोघटवृक्षा-
दयः ।
“आहङ्कारिकत्वश्रुतेर्न भौतिकानि ।” इति ।
२ । २० । सांख्यसूत्रम् ॥ सृष्टिविशेषश्च ।
तथाच । “ईश्वरकृष्णकृतसांख्यकारिकायाम् ।
अष्ट विकल्पो दैवस्तैर्य्यग्योनश्च पञ्चधा भवति ।
मानुष्यश्चैकविधः समासतो भौतिकः सर्गः ॥
अत्र च सर्गे चैतन्योत्कर्षापकर्षविशेषात् तार-
तम्यम् । यथा, तत्रैव । ऊर्द्धं सत्त्वविशालस्तमो-
विशालश्च मूलतः सर्गः । मध्ये रजोविशालो
ब्रह्मादिस्तम्बपर्य्यन्तः ॥

भौतिकः, पुं, महादेवः । इति त्रिकाण्डशेषः ॥

(उपद्रवः । व्याध्यादिः । चक्षुरादि । शरी-
रादि ॥ (भूतेषु महदादिक्षित्यन्तेषु आत्मबुद्ध्या
उपासकाः भौतिकाः । बौद्धविशेषाः ।
“भौतिकास्तु शतं पूर्णं सहस्रन्त्वाभिमानिकाः ॥”
इति पातञ्जलयोगसूत्रव्यासभाष्यटीकायां वाच-
स्पतिमिश्रधृतवचनम् । १ । १९ ॥)

भौती, स्त्री, (भूतानां भूतयोनीनामियमिति ।

भूत + अण् । ङीप् । तस्यां भूतानामधिका-
रित्वविद्यमानत्वात्तथात्वम् ।) रात्रिः । इति
हेमचन्द्रः । १४२ ॥

भौत्यः, पुं, (भूतेरपत्यं पुमान् । भूतिः + अप-

त्यार्थे ष्यञ् ।) भूतिमुनिपुत्त्रश्चतुर्द्दशो मनुः ।
यथा, --
मार्कण्डेय उवाच ।
“अतः परन्तु भौत्यस्य त्वमुत्पत्तिं निशामय ।
देवानृषींस्तथा पुत्त्रांस्तथैव वसुधाधिपान् ॥
बभूवाङ्गिरसः पुत्त्रो भूतिर्नाम्नातिकोपनः ।
तस्य भ्राता सुवर्च्चाभूद् यज्ञे तेन निमन्त्रितः ॥
यियासुः शान्तिनामानं शिष्यमाह महामुनिः ।
सदोद्युक्तं सदाचारमुदारं मुनिसत्तमम् ॥
भूतिरुवाच ।
अहं यज्ञं गमिष्यामि भ्रातुः शान्ते ! सुवर्च्चसः ।
तेनाहूतस्त्वया चेह यत् कर्त्तव्यं शृणुष्व तत् ॥
अतिजागरणं वह्नेस्त्वया कार्य्यं ममाश्रमे ।
तथा तथाप्रमत्तेन यथाग्निर्न शमं व्रजेत् ।
इत्याज्ञप्ते तथेत्युक्तः स तु शिष्येण शान्तिना ।
जगाम यज्ञं तं भ्रातुराहूतः सन् यवीयसा ॥
प्रशान्तस्तावदनलो योऽसौ भूतिपरिग्रहः ।
तं दृष्ट्वा सोऽनलं शान्तं शान्तिरत्यन्तदुःखितः ।
भीतश्च भूतेर्बहुधा चिन्तयन् स महाद्युतिः ॥
पृष्ठ ३/५५६
मार्कण्डेय उवाच ।
बहुधैवं विचिन्त्यासौ भीतस्तस्य तदा गुरोः ।
ययौ मतिमतां श्रेष्ठः शरणं जातवेदसम् ॥
स चकार ततः स्तोत्रं सप्तार्च्चेर्यतमानसः ।
भूत्वैकचित्तो मेदिन्यां न्यस्तजानुः कृताञ्जलिः ॥
स एवं संस्तुतस्तेन भगवान् हव्यवाहनः ।
ज्वालामालावृततनुस्तस्यासीदग्रतो मुने ! ॥
परितुष्टोऽस्मि ते विप्र ! भक्त्या यत्ते स्तुतिः कृता ।
वरं ददामि भवतः प्रार्थ्यतां यत्तवेप्सितम् ॥
भगवन् ! कृतकृत्योऽस्मि यत्त्वां पश्यामि रूपिणम् ।
तथापि भक्तिनम्रस्य भगवन् ! श्रूयतां मम ॥
ममापराधात् संत्यक्तं यत्तेऽधिष्ट्यं विभावसो ! ।
तत्त्वयाधिष्ठितं सोऽद्य पूर्ब्बवत् पश्यतां द्बिजः ॥
तथान्यदपि मे देव ! प्रसादं कुरुषे यदि ।
पुत्त्रो विशिष्टो भवतु निरपत्यस्य मे गुरोः ॥
यथा च मैत्रीं तनये स करिष्यति मे गुरुः ।
तथा समस्तसत्त्वेषु भवत्वस्य मनो मृदु ॥
अग्निरुवाच ।
गुरोरर्थं त्वया ब्रह्मन् ! याचितं यद्वरद्वयम् ।
नात्मार्थे तेन मे प्रीतिस्त्वय्यतीव महामुने ! ॥
भविष्यत्येतदखिलं गुरोर्यत् प्रार्थितं त्वया ।
मैत्री समस्तभूतेषु पुत्त्रस्तस्य भविष्यति ॥
मन्वन्तराधिपः पुत्त्रो भौत्यो नाम भविष्यति ।
महाबलो महावीर्य्यो महाप्राज्ञो गुरोस्तव ॥
इत्युक्त्वा भगवानग्निः पश्यतस्तस्य वै मुने ! ।
वभूवादर्शनः सद्यः प्रदीपो निर्वृतो यथा ॥
एतस्मिन्नन्तरे सोऽपि गुरुस्तस्य महात्मनः ।
भ्रातुर्यवीयसो यज्ञादाजगाम स्वमाश्रमम् ॥
तस्यागतस्य शिष्योऽसौ चक्रे पादाभिबन्दनम् ।
गृहीतासनपूजश्च तमाह स तदा गुरुः ॥
वत्सातिहार्द्दं त्वयि मे तथान्येष्वपि जन्तुषु ।
न वेद्मि किमिदं त्वञ्चेद्वत्सैतत् कथयाशु मे ॥
ततः स शान्तिस्तत् सर्व्वमाचार्य्याय महात्मने ।
अग्निनाशादिकं विप्र ! समाचष्ट यथातथम् ॥
तच्छ्रुत्वा स परिष्वज्य स्नेहार्द्रनयनो गुरुः ।
शिष्याय प्रददौ वेदान् साङ्गोपाङ्गान् महात्मने ॥
भौत्थो नाम मनुस्तस्य पुत्त्रो भूतेरजायत ।
तस्य मन्वन्तरे देवानृषीन् भूपांश्च मे शृणु ॥
भविष्यस्य भविष्यांस्तु गदतो मम विस्तरात् ।
देवेन्द्रो यश्च भविता तस्य विख्यातकर्म्मणः ॥
चाक्षुषाश्च कनिष्ठाश्च पवित्रा भ्राजिरास्तथा ।
रजोवृकाश्च इत्येते पञ्च देवगणाः स्मृताः ॥
शुचिरिन्द्रस्तथा तेषां त्रिदशानां भविष्यति ।
महाबलो महावीर्य्यः सर्व्वैरिन्द्रगुणैर्युतः ॥
अग्नीधश्चाग्निबाहुश्च शुचिर्युक्तोऽथ माधवः ।
शुक्रो जितश्च सप्तैते तदा सप्तर्षयः स्मृताः ॥
गुरुर्गभीरो ब्रध्नश्च भरश्चानुग्र एव च ।
स्त्रीमानी च प्रवीरश्च विष्णुः संक्रन्दनस्तथा ॥
तेजस्वी सुवलश्चैव भौत्यस्यैते मनोः सुताः ।
चतुर्द्दशं मयैतत्ते मन्वन्तरमुदाहृतम् ॥”
इति मार्कण्डेयपुराणे मन्वन्तरानुवर्णननामा-
ध्यायः ॥

भौमः, पुं, (भूमेरपत्यं । भूमि + शिवादित्वादण् ।)

मङ्गलग्रहः । (यथा, वृहत्संहितायाम् । ५ । ६० ।
“पश्यन् ग्रस्तं सौम्यो
घृतमधुतैलक्षयाय राज्ञां च ।
भौमः समरविमर्द्दं
शिखिकोपं तस्करभयञ्च ॥”)
नरकराजः । (यथा, हरिवंशे । १२० । १४ ।
“तासां पुरवरं भौमोऽकारयन्मणि-
पर्व्वतम् ॥”)
तस्येदमित्यण् । भूमिभवे, त्रि । इति मेदिनी ।
मे, २२ ॥ (यथा, महाभारते । १ ।
१३६ । २० ।
“भौमेन प्राविशद्भूमिं पार्व्वतेनाभवद्गिरिः ।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥”)
अम्बरः । इति धरणिः ॥ रक्तपुनर्नवा । इति
राजनिर्घण्टः ॥

भौमजलं, क्ली, (भूमि + अण् ।) भूमिसम्बन्धि-

सलिलम् । तत् त्रिविधं यथा, --
“भौममम्भो निगदितं प्रथमं त्रिविधं बुधैः ।
जाङ्गलं परमानूपं ततः साधारणं क्रमात् ॥”
तेषां लक्षणानि गुणाश्च ।
“अल्पोदकोऽल्पवृक्षश्च पित्तरक्तामयान्वितः ।
देशोऽनूप इति ख्यात आनूपं तद्भवं जलम् ॥
मिश्र चिह्नस्तु यो देशः स हि साधारणः स्मृतः ।
तम्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥
जाङ्गलं सलिलं रूक्षं लवणं लघु तत्तनु ।
वह्निकृत् कफहृत् पथ्यं विकारान् कुरुते बहून् ॥
आनूपं वार्य्यभिष्यन्दि स्वादु स्निग्धं घनं गुरु ।
वह्निकृत् कफहृन्नित्यं विकारान् कुरुते बहून् ॥
साधारणन्तु मधुरं दीपनं शीतलं लघु ।
तर्पणं रोचनं तृष्णादाहदोषत्रयप्रणुत् ॥”
अथ भौमानामेव नादेयादीनां लक्षणानि
गुणाश्च । तत्र नादेयस्य लक्षणं गुणाश्च ।
“नद्या नदस्य वा नीरं नादेयमिति कीर्त्तितम् ।
नादेयमुदकं रूक्षं वातलं लघु दीपनम् ।
अनभिष्यन्दि विशदं कटुकं कफपित्तनुत् ॥
नद्यः शीघ्रवहा लघ्य्वः सर्व्वा याश्चामलौदकाः ।
गुर्व्व्यः शैवलसंछन्ना मन्दगाः कलुषाश्च याः ॥
नदीसरस्तडागस्थे कूपप्रस्रवणादिजे ।
उदके देशभेदेन गुणान् दोषांश्च लक्षयेत् ॥”
इति भावप्रकाशः ॥

भौमनः, पुं, (आदिसर्गे भवतीति भू + कर्त्तरि

मन् । भूमा ब्रह्मा । तस्यापत्यम् । अण् । मन-
न्तत्वात् न टेर्लोपः ।) विश्वकर्म्मा । इति
पुराणम् ॥ (यथा, महाभारते । १ । २२६ । १२ ।
“ससर्ज्ज यं सुतपसा भौमनो भुवनप्रभुः ।
प्रजापतिरनिर्द्देश्यं यस्य रूपं रवेरिव ॥”

भौमरत्नं, क्ली, (भूमौ जातं । भूमि + अण् ।

तादृशं रत्नम् ।) प्रबालम् । इति राजनिर्घण्टः ॥

भौमिकः, त्रि, भूम्यधिकारी । भूमिमधिकरोति

यः । इत्यर्थे ष्णिकप्रत्ययेन निष्पन्नः ॥ (भूमि-
स्थितः । यथा, मनौ । ५ । १४२ ।
“स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
भौमिकैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥”)

भौमी, स्त्री, (भूम्यां जाता । भूमिः + अण् +

स्त्रीत्वात् ङीष् ।) सीता । इति शब्दरत्नावली ॥

भौरिकः, पुं, (भूरि सुवर्णमधिकरोतीति ठक ।)

कनकाध्यक्षः । इत्यमरः । २ । ७ ॥

भ्राश, ऋ ण टु ङ भासि । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) ऋ अवभ्नाशत् ।
ण भ्नेशे बभ्नाशे । टु भ्नाशथुः । ङ भ्नाशते ।
इति दुर्गादासः ॥

भ्नाश, य ङ भासि । इति कविकल्पद्रुमः ॥ (दिवा०

आत्म०-अक०-सेट् ।) य ङ भ्नाश्यते । इति
दुर्गादासः ॥

भ्रास, ऋ ण ङ टु भासि । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट्० ।) ऋ अवभ्नासत् ।
ण भ्नेसे वभ्नासे । ङ भ्नासते । टु भ्नासथुः । इति
दुर्गादासः ॥

भ्नास, य ङ भासि । इति कविकल्पद्रुमः ॥ (दिवा०-

आत्म०-अक-०सेट् ।) य ङ भ्नाश्यते । इति
दुर्गादासः ॥

भ्यस, ङ भये । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-अक०-सेट् ।) अन्तःस्थाद्ययुक्तः । ङ
भ्यसते । इति दुर्गादासः ॥

भ्रंशः, पुं, (भ्रन्श + भावे घञ् ।) अधःपतनम् ।

यथा । भ्रेषो भ्रंशो यथोचितात् । इत्यमरः ।
२ । १८६ । २३ ॥ यथोचितात् यथाप्राप्तात्
भ्रंशोऽधःपतनम् । इति भ्रेषशब्दटीकायां
भरतः ॥ (यथा, कामन्दकीये नीतिसारे । २ । ३९ ।
“उद्वेजनादधर्म्मस्तु तस्माद् भ्रंशो महीपतेः ॥”
नाशः । यथा, बृहत्संहितायाम् । ४६ । २५ ।
“शाखाभङ्गेऽकस्मात्
वृक्षाणां निर्द्दिशेद्रणोद्योगम् ।
हसने देशभ्रंशं
रुदिते च व्याधिबाहुल्यम् ॥”)

भ्रकुंशः, पुं, (भ्रुवा कुंसो भाषणं यस्य । पृषोदरा-

दित्वात् सस्य शः ।) स्त्रीवेशधारी नर्त्तकपुरुषः ।
इत्यमरटीकायाम् ॥ (अस्यं विशेषो भ्रकुंसशब्दे
द्रष्टव्यः ॥)

भ्रकुंसः, पुं, (भ्रुवा कुंसो भाषणं शोभा वा यस्य

सः । ६ । ३ । ६१ । इत्यस्य “भ्रुकुंसादीनामकारो
भवतीति वक्तव्यम् ।” इति वार्त्तिकोक्त्या उका-
रस्यात्वम् ।) स्त्रीवेशधारी नर्त्तकपुरुषः । तत्-
पर्य्यायः । भ्रुकुंसः २ भ्रूकुंसः ३ । इत्यमरः ।
१ । ७४४ ॥ भृकुंसः ४ भ्रकुंशः ५ । इति तट्टीका ॥

भ्रकुटिः, स्त्री, (भ्रुवोः कुटिः कौटिल्यम् । “भ्रु कुं-

सादीनामकारो भवतीति वक्तव्यम् ।” ६ । ३ । ६१ ।
इत्यस्य वार्त्तिकोक्त्या । उकारस्यात्वम् ।) क्रोधा-
दिना भ्रुवः कौटिल्यम् । इत्यमरः । १ । ७ । ३७ ॥
अस्या रूपान्तराणि । भ्रुकुटिः । भ्रूकुटिः ।
भृकुटिः । भ्रकुटी । भ्रुकुटी । (यथा, माघे । १५ । ८ ।
“भ्रुकुटीकठोरितललाटमाननम् ।”)
भ्रूकुटी । भृकुटी । इति भरतः ॥
पृष्ठ ३/५५७

भ्रण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) रेफयुक्तः । भ्रणति । इति दुर्गा-
दासः ॥

भ्रन्श, इर् य उ अधःपते । इति कविकल्पद्रुमः ॥

(दिवा०-पर०-अक०-सेट् ।) भ्रश्यति । इर्
अभ्रशत् । अभ्रंशीत् ॥

भ्रन्श, ऌ उ ङ अधःपते । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक० सेट् ।) ॡ अभ्रशत् । उ
भ्रंशित्वा भ्रष्ट्वा । ङ भ्रंशते । इति दुर्गादासः ॥

भ्रम, इर् चाले । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) इर् अभ्रमत् अभ्रमीत् ।
इति दुर्गादासः ॥

भ्रम, भ य चाले । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-सेट् ।) भ य भ्राम्यति । इति
दुर्गादासः ॥

भ्रम, उ ज ण चाले । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-अक०-सेट् ।) उ भ्रमित्वा भ्रान्त्वा ।
ज भ्रामः भ्रमः । ज्वलादित्वाण्णप्रत्ययेऽपि
जनबध इत्यादिना ह्रस्वे भ्रम इत्येव । तेन
ज्वलादावस्य पाठो निष्फल इति धातुप्रदीपा-
दयः । वस्तुतस्तु । ज्वलादिपाठसामर्थ्यान्न
ह्रस्वः । ण भ्रेमतुः बभ्रमतुः । य भ्रम्यति
भ्रमति । चाल इह पादविहरणम् ।
“न जाने को हेतुर्भ्रमति विपिने भिक्षुक इव ।”
भ्रेमुः शिलोच्चयान् भीमानित्यत्र गत्यर्थविवक्षया
सकर्म्मकत्वम् । इति दुर्गादासः ॥

भ्रमः, पुं, (भ्रमु अनवस्थाने इति । भ्रम + भावे

घञ् ।) मिथ्याज्ञानम् । (यथा, राजतरङ्गि-
ण्याम् । ३ । ४२३ ।
“देवो जगाद तं भद्र ! कोऽयं ते मनसि भ्रमः ॥”)
तत्पर्य्यायः । भ्रान्तिः २ मिथ्यामतिः ३ । इत्य-
मरः । १ । ५ । ४ । अम्बुनिर्गमः । कुन्दः ।
(यथा, रघौ । ६ । ३२ ।
“अवन्तिनाथोऽयमुदग्रबाहु-
र्विशालवक्षास्तनुवृत्तमध्यः ।
आरोप्य चक्रभ्रममुष्णतेजाः
त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥”
“चक्रभ्रमं चक्राकारशस्त्रोत्तेजनयन्त्रम् ।
भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्रके ॥”
इति तट्टीकायां मल्लिनाथः ॥)
भ्रमणम् । इति मेदिनी । मे, २० ॥ (यथा,
कथासरित्सागरे । २७ । ४६ ।
“एवं किलोक्त्वा व्यसृजत् तं भ्रमाय बणिक्-
सुतम् ।”)
न्यायमते भ्रमस्य नामान्तरं अप्रमा । भ्रमो-
द्विविधः । विपर्य्यासः संशयश्च । आद्यो यथा ।
देहे आत्मबुद्धिः । शङ्खादौ पीततामतिः । सा
निश्चयरूपा । द्वितीयो यथा । किंस्विन्नरो
वा स्थाणुर्वा इत्यादिबुद्धिः । तस्य कारणम् ।
पित्तदूरत्वमोहभयादिनानाविधदोषः । यथा,
“अप्रमा च प्रमा चेति ज्ञानं द्विविधमुच्यते ।
तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥
तत्प्रपञ्चो विपर्य्यासः संशयोऽपि प्रकीर्त्तितः ।
आद्यो देहे यात्मबुद्धिः शङ्खादौ पीततामतिः ॥
भवेन्निश्चयरूपा सा संशयोऽथ प्रदर्श्यते ।
किंस्विन्नरो वा स्थाणुर्व्वेत्यादिबुद्धिस्तु संशयः ॥
तदभावप्रकारा धीस्तत्प्रकारा तु निश्चयः ।
स संशयो भवेद् या धीरेकत्राभावभावयोः ॥
साधारण्यादिधर्म्मस्य ज्ञानं संशयकारणम् ।
दोषोऽप्रमाया जनकः प्रमायास्तु गुणो भवेत् ॥
पित्तदूरत्वादिरूपो दोषो नानाविधः स्मृतः ।”
इति भाषापरिच्छेदः । १२७ -- १३२ ॥
(भ्रमणशीले, त्रि ॥ यथा, ऋग्वेदे । ६ । ६ । ४ ।
“अधभ्रमस्त उर्व्विया विभाति
यातयमानो अधिसानुपृश्नेः ॥”
“भ्रमो भ्रमणशीलो ज्वालासमूहः ॥” इति
तद्भाष्ये सायनः ॥ रोगविशेषः । तद्यथा, --
“मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद्भ्रमः ।
चक्रवद्भ्रमतो गात्रं भूमौ पतति सर्व्वदा ।
भ्रमरोग इति ज्ञेयो रजःपित्तानिलात्मकः ॥”
इति वैद्यकमाधवकृतरुग्विनिश्चये मूर्च्छाधिकारे ॥
तथाचास्य चिकित्सा ॥
“शतावरी बलामूलद्राक्षासिद्धं पयः पिबेत् ।
ससितं भ्रमनाशाय बीजं वाट्यालकस्य च ॥
पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये ।
त्रिफलायाः प्रयोगो वा प्रयोगः पयसोऽपि वा ॥
इति वैद्यकचक्रपाणिसंग्रहे मूर्च्छाद्यधिकारे ॥)

भ्रमणं, क्ली, (भ्रम + भावे ल्युट् ।) गमनवि-

शेषः । पर्य्यटनम् । (यथा, भाषापरिच्छेदे । ७ ।
“भ्रमणं रेचनं स्यन्दनोर्द्ध्वज्ज्वलनमेव च ॥”
पुनःपुनर्गमनम् । यथा, देवीभागवते । १ । १४ । ४६ ॥
“संसारेऽस्मिन्महाघोरे भ्रमणं नभचक्रवत् ॥”
तथाच, कामन्दकीये । १४ । २४ ।
“नवाग्निधूमसंरोधो दिङ्मोहो भ्रमणानि च ॥”
“भ्रमणानि दिग्भ्रमात् दुर्गमप्रदेशेषु चंक्रमणानि ।”
भ्रमत्यस्मिन्ननेनेति वा । भ्रम + ल्युट् ।) मण्ड-
लम् । यथा, सूर्य्यसिद्धान्ते । १२ । ७६ ।
“कालेनाल्पेन भ्रमणं भुङ्क्तेऽल्पभ्रमणाश्रितः ।
ग्रहः कालेन महता मण्डले महति भ्रमन् ॥”
अल्पभ्रमणं स्वल्पपरिधिमण्डलमानमित्यर्थः ।
उत्तरपदे मण्डले महतीति दर्शनात् ॥”)
हस्त्यश्वरथदोलादिद्बारा भ्रमणगुणाः । वात-
कोपनत्वम् । अङ्गस्थैर्य्यकरत्वम् । बलाग्निविवर्द्धन-
त्वञ्च । इति राजवल्लभः ॥

भ्रमणी, स्त्री, (भ्राम्यति अनयेति भ्रम + करणे

ल्युट् । ङीप् ।) कारण्डिका । अधीशितुः
क्रीडाट्या । इति मेदिनी । ने, ६९ ॥

भ्रमत्कुटी, स्त्री, (भ्रमन्ती चलन्ती कुटी क्षुद्र-

गृहमिव ।) तृणादिच्छत्रम् । तत्पर्य्यायः ।
कावारी २ जङ्गलकुटी । इति त्रिकाण्डशेषः ॥

भ्रमरः, पुं, (भ्रमति प्रतिकुसुममिति ॥ अर्त्ति-

कमीत्यादिना । “उणा० ३ । १३२ । इति अरः ।)
कीटविशेषः । (यथा, रघुवंशे । ८ । ३८ ।
“भ्रमरैः कुसुमानुसारिभिः ।”)
तत्पर्य्यायः । मधुव्रतः २ मधुकरः ३ मधुलिट् ४
मधुपः ५ अली ६ द्विरेफः ७ पुष्पलिट् ८ भृङ्गः ९
षट्पदः १० अलिः ११ । इत्यमरः । २ । ५ । २९ ॥
कलालापः १२ शिलीमुखः १३ पुष्पन्धयः १४ मधु-
कृत् १५ द्विपः १६ भसरः १७ चञ्चरीकः १८
सुकाण्डी १९ मधुलोलुपः २० इन्दिन्दिरः २१ मधु-
मारकः २२ । इति राजनिर्घण्टः ॥ मधुपरः २३
लम्बः २४ पुष्पकीटः २५ मधुसूदनः २६ भृङ्गराजः
२७ मधुलेही २८ रेणुवासः २९ । इति शब्द-
रत्नावली ॥ कामुकः । इति मेदिनी । रे, १९१ ॥

भ्रमरकः, पुं, (भ्रमर इवेति भ्रमर + “इवे प्रति-

कृतौ ।” ५ । ३ । ९६ । इति कन् ।) ललाट-
लम्बितचूर्णकुन्तलः । इत्यमरः । २ । ६९६ ॥
(स्वार्थे कन् । भृङ्गः । बालमूषिकः । इति ।
मेदिनी । के, २०४ ॥ अम्बुभ्रमः । इति विश्वः ॥

भ्रमरकीटः, पुं, (भ्रमर इव कीटः ।) कीट-

विशेषः । कुम्रे पोका इति भाषा ॥ यथा, --
“जीवन्मुक्तिस्तु तद्विद्वान् पूर्ब्बोपाधिगुणांस्त्य-
जेत् ।
सच्चिदानन्दधर्म्मत्वाद्भजेद्भ्रमरकीटवत् ॥”
इत्यात्मबोधः ॥

भ्रमरच्छली, स्त्री, (भ्रमरान् छलयतीति । छलि +

अच् । गौरादित्वात् ङीष् ।) लताविशेषः । तत्-
पर्य्यायः । भृङ्गाह्वा २ भ्रमरा ३ भृङ्गमूलिका ४ ।
अस्या गुणाः । यथा, राजनिर्घण्टे ।
“भृङ्गच्छल्ली च कटुका तिक्ता दीपनरोचनी ।”

भ्रमरप्रियः, पुं, (भ्रमरस्य प्रियः ।) धाराकदम्बः ।

इति रत्नमाला ॥

भ्रमरमारी, स्त्री, (भ्रमरान् मारयति गन्धोत्कर्षेण

व्याकुलयतीति । मृ + णिच् + अण् । गौरादि-
त्वात् ङीष् ।) मालवदेशप्रसिद्धपुष्पवृक्ष-
विशेषः । तत्पर्य्यायः । भ्रमरारिः २ भृङ्गारिः ३
भृङ्गमारी ४ मांसपुष्पिका ५ कुष्ठारिः ६
भ्रमरी ७ षष्टिलता ८ । अस्या गुणाः । तिक्त-
त्वम् । पित्तश्लेष्मज्वरनाशित्वम् । शोफकण्डूति-
कुष्ठब्रणदोषत्रिदोषनाशित्वञ्च । इति राज-
निर्घण्टः ॥

भ्रमरा, स्त्री, (भ्रमर + अजादित्वात् टाप् ।)

भ्रमरच्छल्ली । इति राजनिर्घण्टः ॥

भ्रमरातिथिः, पुं, (भ्रमरः अतिथिरभ्यागतो

यस्य ।) चम्पकः । इति राजनिर्घण्टः ॥

भ्रमरानन्दः, पुं, (मधुबाहुल्यात् भ्रमराणा-

मानन्दो यस्मात् सः ।) वकुलः । अतिमुक्तकः ।
रक्ताम्लानः । इति राजनिर्घण्टः ॥

भ्रमरालकः, पुं, (भ्रमर इव अलति भूषयतीति ।

अल + ण्वुल् ।) ललाटस्थितचूर्णकुन्तलः । तत्-
पर्य्यायः । भ्रमरकः २ कुरुलः ३ । इति
हेमचन्द्रः । ३ । २३३ ॥

भ्रमरी, स्त्री, (भ्रमर + ङीष् ।) जतुका । पुत्त्र-

दात्री । षट्पदी । इति राजनिर्घण्टः ॥

भ्रमरेष्टः, पुं, (भ्रमराणामिष्टः ।) श्योनाक-

प्रभेदः । इति राजनिर्घण्टः ॥
पृष्ठ ३/५५८

भ्रमरेष्टा, स्त्री, (भ्रमराणामिष्टा ।) भार्गी ।

भूमिजम्बूः । इति राजनिर्घण्टः ॥

भ्रमरोत्सवा, स्त्री, (भ्रमराणां उत्सवः प्रमोदो

यस्याः ।) माधवी । इति राजनिर्घण्टः ॥

भ्रमासक्तः, पुं, (भ्रमे भ्रमणे आसक्तः युक्तः ।)

शस्त्रमार्जकः । इति हेमचन्द्रः । ३ । ५८० ॥

भ्रमिः, स्त्री, (भ्रम + बाहुलकात् इः ।) भ्रमणम् ।

तत्पर्य्यायः । भ्रमः २ । इत्यमरः । ३ । २ । ९ ॥ भ्रमी
३ । इति भरतः ॥ (मण्डलाकारगतिः ४ । तथाच
नैषधचरिते । १ । ७३ ।
“अचीकरच्चारुहयेन या भ्रमी-
र्निजातपत्रस्य तलस्थले नलः ।”)
मण्डलाकारसैन्यरचना । यथा, --
“वीरान् सहस्रशो दृष्ट्वा भ्रमिभिः पर्य्यवस्थितान् ।
लवो लवेन सन्धाय शरान् रोषप्रपूरितः ॥
भ्रमिराद्या सहस्रेण द्वितीयायुतसङ्ख्यया ।
तृतीयायुतयुग्मेन तुरीयायुतपञ्चभिः ॥
पञ्चमी लक्षयोधानां षष्ठी योधायुताधिकैः ।
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्युतान् ॥
मध्ये लवो भ्रमिव्याप्तः सञ्चरन् बह्निवत्तदा ।
दाहयामास सर्व्वान् वै सैनिकान् भ्रमिकार-
कान् ॥”
इति पाद्मे पातालखण्ड ६१ अध्यायः ॥

भ्रमी, [न्] त्रि, (भ्रम + इनि ।) भ्रमविशिष्टः । भ्रमो

विद्यते अस्येति अस्त्यर्थे इन्प्रत्ययेन निष्पन्नः ॥

भ्रश य उ अधःपतने । इति कविकल्पद्रुमः ॥

(दिवां-पर०-अक०-सेट् ।) य भ्रश्यति । उ
भ्रशित्वा भ्रष्ट्वा । इति दुर्गादासःः ॥

भ्रष्टं, त्रि, (भ्रश् + कर्त्तरि + क्तः ।) च्युतम् । अस्य

पर्य्याया गलितशब्दे द्रष्टव्याः ॥
“अर्थाद्भ्रष्टस्तीर्थयात्रान्तु गच्छेत्
सत्याद्भ्रष्टो रौरवं वै ब्रजेच्च ।
योगभ्रष्टः सत्यधृतिञ्च गच्छेत्
राज्याद्भ्रष्टो मृगयां वै व्रजेच्च ॥”
इति गारुडे नीतिसारे १०९ अध्यायः ॥

भ्रस्ज, औ ञ श पाके । इति कविकल्पद्रुमः ॥

(तुदा०-उभ०-सक०-अनिट् ।) रेफयुक्तादि-
र्दन्त्योपधः । क्विपि संयोगादिलोपे भृट् । पाक
इह भर्ज्जनम् । ञश भृज्जति भृज्जते मत्स्यं
सूपकारः । औ अभ्राक्षीत् । इति दुर्गादासः ॥

भ्राज, ङ ण ऋ टु भासि । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट्, ।) रेफयुक्तः । ङ
भ्राजते ण भ्रेजे बभ्राजे । अनुबन्धबलात् संयो-
गादित्वेऽप्याकारस्याप्येत्वम् ॥ ऋ अबिभ्रजत्
अवभ्राजत् । टु भ्राजथुः । इति दुर्गा-
दासः ॥

भ्राजकं, क्ली, (भ्राज् + “ण्वुल् तृचौ ।” ३ । १ ।

१३३ । इति ण्वुल् ।) पित्तम् । इति शब्द-
चन्द्रिका ॥

भ्राजिष्णुः, त्रि, (भ्राज् + इष्णुच् ।) अलङ्कारा-

दिना दीप्तियुक्तः । इत्यमरः । २ । ६ । १०१ ॥
(यथा, भागवते । २ । ९ । १२ ।
“भ्राजिष्णुभिर्यः परितो विराजते
लसद्विमाना बलिभिर्महात्मनाम् ॥”)
विष्णौ, पुं । यथा, तस्य सहस्रनामस्तोत्रे ।
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ॥

भ्रातरौ, पुं, (भ्राता च भगिनी च । भ्रातृस्वस्रो-

रित्यादिना एकशेषः ।) भ्रातृभगिन्यौ । नित्य-
द्विवंचनान्तोऽयम् । इत्यमरः । २ । ६ । ३६ ॥

भ्राता, [ऋ] पुं, (भ्राजते इति । भ्राज + “नप्तृ-

नेष्टृत्वष्टृहोत्रिति । उणा० । २ । ९६ । इति
तृन् । निपात्यते च ।) एकगर्भजातः । “भाइ”
इति भाषा । तत्पर्य्यायः । सहोदरः २
समानोदर्य्यः ३ सोदर्य्यः ४ सगर्भः ५ सहजः ६
सोदरः ७ । इति हेमचन्द्रः ॥ पितरि मृते
ज्येष्ठभ्रातुः पितृतुल्यत्वम् । यथा, --
“ज्येष्ठो भ्राता पितृतुल्यो मृते पितरि शौनक ! ।
सर्व्वेषां स पिता हि स्यात् सर्व्वेषामनुपालकः ॥
कनिष्ठस्तेषु सर्व्वेषु समत्वेनानुवर्त्तते ।
समोपभोगजीवेषु यथैव तनयस्तथा ॥”
इति गारुडे ११४ अध्यायः ॥
तस्य भार्य्याहरणे तस्मै दायादाने च दोषो
यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्याये ।
“भ्रातृजायापहारी च मातृगामी भवेन्नरः ।
ब्रह्महत्यासहस्रञ्च लभते नात्रसंशयः ॥
स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ ।
तस्मादुर्त्तीर्य्य पापी च विष्ठायां जायते कृमिः ॥
वर्षकोटिसहस्राणि तत्र स्थित्वा च पातकी ।
ततो भवेन्महापापी वर्षकोटिसहस्रकम् ॥
पुंश्चलीयोनिगर्भे च कृमिश्चैव पुरन्दर ! ।
गृघ्रः कोटिसहस्राणि शतजन्मानि कुक्कुरः ।
भ्रातृजायापहरणात् शतजन्मानि शूकरः ॥”
“यो ददाति न दायञ्च बलिष्ठो दुर्ब्बलाय च ।
स याति कुम्भीपाकञ्च यावच्चन्द्रदिवाकरौ ॥
भ्रातुरन्वेषणे भ्राता न गच्छेत् । यथा, --
नारद उवाच ।
“हे हर्य्यश्वा महावीर्य्याः प्रजा यूयं करिष्यथ ।
ईदृशो लक्ष्यते यत्नो भवतां श्रूयतामिदम् ॥
वालिशा वत यूयं ये नास्या जानीत वै भुवः ।
अन्तरूर्द्धमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥
ऊर्द्ध्वं तिर्य्यगधश्चैव यदाप्रतिहता गतिः ।
तदा कस्माद्भुवो नान्तं सर्व्वे द्रक्ष्यथ वालिशाः ॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्व्वतो दिशम् ।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ॥
हर्य्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ।
वैरिण्यामथ पुत्त्राणां सहस्रमसृजद्विभुः ॥
विवर्द्धयिषवस्ते तु सवलाश्वाः प्रजाः पुनः ।
पूर्ब्बोक्तं वचनं ब्रह्मन्नारदेन प्रचोदिताः ॥
अन्योन्यमूचुस्ते सर्व्वे सम्यगाह महामुनिः ।
भ्रातॄणां पदवी चैव गन्तव्या नात्र संशयः ॥
ज्ञात्वा प्रमाणं पृथ्य्वास्तु प्रजाः स्रक्ष्यामहे पुनः ।
तेऽपि तेनैव मार्गेण प्रयाताः सर्व्वतो दिशम् ।
अद्यापि न निवर्त्तन्ते समुद्रेम्य इवापगाः ॥
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ! ।
प्रयातो नश्यति तथा तन्न कार्य्यं विजानता ॥”
इति विष्णुपुराणे १ अंशे १६ अध्यायः ॥
अपि च, मात्स्ये ५ अध्याये ।
“ततः प्रभृति न भ्रातुः कनीयान् मार्गमिच्छति ।
अन्विषन् दुःखमाप्नीति तेन तं परिवर्जयेत् ॥”
ज्येष्ठभ्रात्त्रादेर्गुरुत्वं यथा, --
“उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।
मातुलः श्वशुरस्त्राता मातामहपितामहौ ।
बन्धुर्ज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥
विभक्तानां तेषां धर्म्मवृद्धिर्यथा, --
व्यासः ।
“भ्रातॄणां जीवतोः पित्रोः सहवासो विधीयते ।
तदभावे विभक्तानां धर्म्मस्तेषां विवर्द्धते ॥
भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्म्मणा ।
स निर्भाज्यः स्वकादंशात् किञ्चिद्दत्त्वोप-
जीवनम् ॥”
ज्येष्ठभ्रातृप्रशंसा यथा, --
“बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथा
पिता ।
भ्राता शक्तः कनिष्ठो वा शक्त्यपेक्षा कुले
स्थितिः ॥
कुटुम्बार्थेषु चोद्युक्तस्तत् कार्य्यं कुरुते तु यः ।
स भ्रातृभिर्बृंहणीयो ग्रासाच्छादनवाहनैः ॥
अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ! ।
भवत्यानन्दकृद्देव ! द्बिषतां नात्र संशयः ॥” * ॥
भ्रातृसंस्कारस्यावश्यकत्वम् । यथा, नारदः ।
“येषान्तु न कृताः पित्रा संस्कारविधयः क्रमात् ।
कर्त्तव्या भ्रातृभिस्तेषां पैतृकादेव तद्धनात् ॥
अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः ।
अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्ब्बसंस्कृतैः ॥”
विभक्तानां तेषां साक्षित्वादि यथा, --
“साक्षित्वं प्रतिभाव्यञ्च दानं ग्रहणमेव च ।
विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥”
इति दायतत्त्वम् ॥

भ्रातृकः, त्रि, (भ्रातुरागत इति । भ्रातृ + “ऋत-

ष्ठञ् ।” ४ । ३ । ७८ । इति ठञ् । भ्रातुरागत-
धनादि ।) भ्रातृयोग्यः । इति सिद्धान्तकौमुदी ॥

भ्रातृजः, पुं, (भ्रातुः सहोदरात् जायते इति ।

जन् + “पञ्चम्यामजातौ ।” ३ । २ । ९८ । इति डः ।)
भ्रातुरपत्यम् । तत्पर्य्यायः । भ्रात्रीयः २ । इत्य-
मरः । २ । ६ । ३६ ॥ भ्रातृव्यः ३ भ्रातृपुत्त्रः ४ ।
इति शब्दरत्नावली ॥ (स्त्रियां टाप् । भ्रातृजा ।
भ्रातुष्पुत्त्र्याम् ॥)

भ्रातृजाया, स्त्री, (भ्रातुर्जाया ।) भ्रातृभार्य्या ।

(यथा, मेघदूते । १ । १० ।
“अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।”)
तत्पर्य्यायः । प्रजावती २ । इत्यमरः । २ । ६ । ३० ॥

भ्रातृद्वितीया, स्त्री, (भ्रातृमङ्गलार्था भ्रातृभोज-

नार्था वा द्वितीया इति मध्यपदलोपी कर्म्म-
धारयः ।) कार्त्तिकशुक्लद्बितीया । तद्विवरणं
यथा । यमद्बितीया तु प्रतिपद्युता ग्राह्ये-
पृष्ठ ३/५५९
त्युक्तं निर्णयामृतादौ । यमद्बितीया मध्याह्न-
व्यापिनी पूर्ब्बविद्धा चेति हेमाद्रिः । अत्र
विशेषो हेमाद्रौ स्कान्दे ।
“ऊर्ज्जे शुक्लद्वितीयायामपराह्णेऽर्च्चयेत् यमम् ।
स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ॥
ऊर्ज्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः ।
वेष्टितः किन्नरैर्हृष्टैस्तस्मै यच्छति वाञ्छितम् ॥”
तथा भविष्ये ।
“प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा ।
तृतीयाश्वयुजे मासि चतुर्थी कार्त्तिके भवेत् ॥
श्रावणे कलुषा नाम तथा भाद्रे च गीर्म्मता ।
आश्विने प्रेतसञ्चारा कार्त्तिके याम्यका मता ॥”
इत्युक्त्वा प्रथमायां व्रतं द्बितीयायां सरस्वती-
पूजा तृतीयायां श्राद्धमुक्त्वा चतुर्थ्यामुक्तम् ।
“कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर ! ।
यमो यमुनया पूर्ब्बं भोजितः स्वगृहेऽर्च्चितः ॥
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ।
अस्यां निजगृहे विप्र ! न भोक्तव्यं ततो नरैः ॥
स्नेहेन भगिनीहस्तात् भोक्तव्यं पुष्टिवर्द्धनम् ।
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ॥
स्वर्णालङ्कारवस्त्रान्नपूजासत्कारभोजनैः ।
सर्व्वा भगिन्यः संपूज्या अभावे प्रतिपन्नकाः ॥
प्रतिपन्ना माताभगिन्य इति हेमाद्रिः ॥
पितृव्यभगिनीहस्तात् प्रथमायां युधिष्ठिर ! ।
मातुलस्य सुताहस्तात् द्वितीयायां तथा नृप ! ॥
पितुर्म्मातुः स्वसुः कन्ये तृतीयायां तयोः करात् ।
चतुर्थ्यां सहजायाश्च भगिन्या हस्ततः परम् ।
सर्व्वासु भगिनीहस्तात् भोक्तव्यं बलवर्द्धनम् ॥
यस्यां तिथौ यमुनया यमराजदेवः
सम्भोजितः प्रतिजगत्स्वसृसौहृदेन ।
तस्यां स्वसुः करतलादिह यो भुनक्ति
प्राप्नोति रत्नसुखधान्यमनुत्तमं सः ॥
गौडास्तु ।
यमञ्च चित्रगुप्तञ्च यमदूतांश्च पूजयेत् ।
अर्घ्यश्चात्र प्रदातव्यो यमाय सहजद्वयैः ॥
मन्त्रस्तु ।
एह्येहि मार्त्तण्डज ! पाशहस्त !
यमान्तकालोकधरामरेश ! ।
भ्रातृद्वितीयाकृतदेवपूजां
गृहाण चार्घ्यं भगवन्नमस्ते ॥
भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।
प्रीतये यमराजस्य यमुनाया विशेषतः ॥”
ज्येष्ठाग्रजातेति वदेदिति स्मार्त्ताः ॥ इत्यन्न-
दानमित्यप्याहुः । ब्रह्माण्डपुराणेऽपि ।
“या तु भोजयते नारी भ्रातरं युग्मके तिथौ ।
अर्च्चयेच्चापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् ॥
भ्रातुरायुःक्षयो राजन् ! न भवेत्तत्र कर्हिचित् ॥”
इति निर्णयसिन्धौ २ परिच्छेदः ॥

भ्रातृपत्नी, स्त्री, (भ्रातापतिर्यस्या इति भ्रातुः पत्नीति

वा । ऋन्नेभ्यो ङीप् । इति ङीप् । ततः + “नित्यं
सपत्न्यादिषु ।” इति नान्तादेशः ।) भ्रातृजाया ।
इति शब्दरत्नावली ॥

भ्रातृपुत्त्रः, पुं, स्त्री, (भ्रातुः पुत्त्रः ।) भ्रातृजः । इति

शब्दरत्नावली । भाइपो इति भाषा ॥

भ्रातृभगिन्यौ, स्त्री, (भ्राता च भगिनी च । इति

इतरेतरद्वन्द्वसमासः ।) भ्रातरौ । द्बिवचना-
न्तोऽयम् । इत्यमरः । २ । ६ । ३६ ॥

भ्रातृव्यः, पुं, (भ्रातुरपत्यमिति । “भ्रातुर्व्यच्च ।”

४ । १ । १४४ । इति व्यत् ।) भ्रातृपुत्त्रः । (यथा,
राजतरङ्गिण्याम् । ८ । २८४२ ।
“जयराजानुजं राज्ञा यशोराजं बिवेशितम् ।
तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥”
भ्रातृ + “व्यन् सपत्ने ।” ४ । १ । १४५ । इति
व्यन् ।) शत्रुः । इति हेमचन्द्रः ॥ (यथा,
भागवते । ५ । ११ । १७ ।
“भ्रातृव्यमेतं त्वमदभ्रवीर्य्य-
मुपेक्षयाध्येधितमप्रमत्तः ॥”
“तस्मात् भ्रातृव्यम् शत्रुम् ।” इति तट्टीकायां
स्वामी ॥)

भ्रातृश्वशुरः पुं, (पत्युर्ज्येष्ठभ्राता श्वशुर इव पूज्य-

त्वात् ।) पतिज्येष्ठभ्राता । भाशुर इति भाषा ।
तत्पर्य्यायः । श्वशुरकः २ । इति शब्दरत्ना-
वली ॥ (भ्रातुः श्वशुरः ।) भ्रातुःपत्न्याः पिता च ॥

भ्रात्रीयः, पुं, (भ्रातुरपत्यं पुमानिति । भ्रातृ +

“भ्रातुर्व्यच्च ।” ४ । १ । १४४ । इत्यत्र ‘चकारा-
च्छश्च ।’ इति काशिकोक्तेः छः ।) भ्रातृपुत्त्रः ।
इत्यमरः । २ । ६ । ३६ ॥ भ्रातृसम्बन्धिनि, त्रि ॥

भ्रान्तः, त्रि, भ्रमणयुक्तः । भ्रान्तिविशिष्टः ।

(अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने ॥” इति
सांख्यसूत्रम् । २ । २३ ॥)
भ्रमधातोः कर्त्तरि क्तप्रत्ययेन निष्पन्नः ॥ भ्रमणे,
क्ली । यथा, वाभटपशुपतिभ्यां व्याख्यातम् ।
“भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्
फलम् ।”

भ्रान्तः, पुं, (भ्रम् + कर्त्तरि क्तः । “अनुनासिक-

स्येति । ६ । ४ । १५ । इति दीर्घः ।) राज-
धूस्तूरः । मत्तहस्ती । इति राजनिर्घण्टः ॥

भ्रान्तिः, स्त्री, (भ्रम् + क्तिन् । “अनुनासिकस्य

किज्झलोः क्ङिति । ६ । ४ । १५ । इति दीर्घः ।)
भ्रमः । इत्यमरः । १ । ५ । ४ ॥
(“युक्तिहीनप्रकाशत्वाद् भ्रान्तेर्नह्यस्ति लक्षणम् ।
यदि स्याल्लक्षणं किञ्चिद्भ्रान्तिरेव न सिध्यति ॥”
इति तार्किकाः ॥)
सा तु नराणां षष्ठमासे जायते । यथा, --
“षाण्मासिके तु संप्राप्ते भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ॥”
इति ज्योतिस्तत्त्वम् ॥
भ्रमणम् । इति मेदिनी ॥ अनवस्थितिः । इति
विश्वः ॥

भ्रान्तिहरः, पुं, (भ्रान्तिं हरतीति । हृ + कर्त्तरि

पचाद्यच् ।) मन्त्री । इति शब्दमाला ॥ भ्रम-
नाशके, त्रि ॥

भ्रामकः, पुं, (भ्रामयति भ्रमं जनयतीति । भ्रम्

+ णिच् । “ण्वुल् तृचौ ।” ३ । १ । १३३ ।
इति ण्वुल् ।) शृगालः । धूर्त्तः । सूर्य्यावर्त्तः ।
प्रस्तरभेदः । इति मेदिनी । के, १३३ ॥ चुम्बक
पातर इति भाषा । भ्रमजनके, त्रि ॥

भ्रामरं, क्ली, (भ्रमरैः कृतं सम्भृतमिति । भ्रमर

+ “क्षुद्राभ्रमरवटरपादपादञ् ।” ४ । ३ । ११९ ।
इति अञ् ।) मधु । इति मेदिनी । रे, १९१ ॥
तत्तु भ्रमरजमधु । तस्य गुणाः । पिच्छलत्वम् ।
रूक्षत्वम् । मधुरत्वम् । मुखजाड्यनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ अपि च ।
पैच्छिल्यात् स्वादु भूयस्त्वात् भ्रामरं गुरु
कीर्त्तितम् ।”
इति राजवल्लभः ।
अन्यच्च ।
“किञ्चित् सूक्ष्मैः प्रसिद्धेभ्यः षट्पदेभ्यीऽलिभि-
श्चितम् ।
निर्म्मलं स्फटिकाभं यत्तन्मधु भ्रामरं स्मृतम् ॥
भ्रामरं रक्तपित्तघ्नं मूत्रजाड्यकरं गुरु ।
स्वादुपाकमभिष्यन्दि विशेषात् पिच्छिलं
हिमम् ॥”
इति भावप्रकाशः ॥
नृत्यविशेषः । तत्पर्य्यायः । रासः २ मण्डल-
नृत्यम् ३ हल्लीसम् ४ । इति शब्दमाला ॥
भ्रमरसम्बन्धिनि त्रि । यथा, --
“तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ।”
इति देवीमाहात्म्यम् ॥
(यथा च हारीते प्रथमे स्थाने एकादशेऽध्याये ।
मध्वर्थे लक्षणं गुणाश्च ।
“शीतं कषायं मधुरं लघु स्यात्
सन्दीपनं लेखनमेव शस्तम् ।
संशोधनन्तु व्रणशोधबञ्च
संरोपणं हृद्यतमञ्च बल्यम् ॥
त्रिदोषनाशं कुरुते च पुष्टिं
कासे क्षये वा क्षतजे च छर्द्दौ ।
हिक्काभ्रमे शोषसपीनसानां
रक्तप्रमेहे च तथातिसारे ॥
रक्तातिसारे च सरक्तपित्ते
तृण्मोहहृत् पार्श्वगदेऽपि शस्तम् ।
नेत्रामये वा ग्रहणीगदे वा
विषे प्रशस्तं भ्रमरैश्चितं यत् ॥”
भ्रामरं सघनं जाड्यं भूयिष्ठं मधुरञ्च यत् ।
रूक्षं विशेषतो ज्ञेयं शीतलं लघुलेखनम् ॥”)

भ्रामरः, पुं, (भ्रामयति लौहमिति । भ्रामि +

“अर्त्तिकमिभ्रमिदेवीति ।” उणा० ३ । १३२ ।
इति अरः । बाहुलकात् दीर्घश्च ।) प्रस्तरभेदः ।
मेदिनी । रे, १९१ ॥ चुम्बक पातर इति भाषा ॥
(अपस्माररोगः । इनि भ्रामरी त्रि । यथा,
मनौ । ३ । १६१ ।
“भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥”
“भ्रामरी अपस्मारी ।” इति तद्भाष्ये मेधा-
तिथिः ॥)

भ्रामरी, स्त्री, (भ्रमरस्यायं भ्रामरो भ्रमरवद्-

वर्णः । सोऽस्या अस्तीति । अर्श आद्यत्त ।
पृष्ठ ३/५६०
ङाप् ।) पार्व्वती । इति त्रिकाण्डशेषः ॥
यथा, मार्कण्डेये । ९१ । ४७-४९ ।
“यदारुणाक्षस्त्रैलोक्ये महाबाधां करिष्यति ।
तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ॥
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्व्वतः ॥”

भ्राश, ऋ ङ ण टु भासि । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्राश्यते । ऋ अबभ्राशत् । स्वमते अनयोर्ञ्यङि
ह्रस्वविकल्पनेऽपि सप्तमस्वरानुबन्धोऽन्येषामनु-
रोधात् । ण भ्रेशे बम्राशे । टु भ्राशथुः । ङ
भ्राशते । भासि दीप्तौ । इति दुर्गादासः ॥

भ्राश, य ङ भासि । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्राश्यते । ऋ अबभ्राशत् । स्वमते अनयोर्ञ्यङि
ह्रस्वविकल्पनेऽपि सप्तमस्वरानुबन्धोऽन्येषामनु-
रोधात् । ण भ्रेशे बम्राशे । टु भ्राशथुः । ङ
भ्राशते । भासि दीप्तौ । इति दुर्गादासः ॥

भ्राष्ट्रं, क्ली, (भ्रस्ज + ष्ट्रन् ।) आकाशम् ।

अम्बरीषम् । इति संक्षिप्तसारोणादिवृत्तिः ॥

भ्राष्ट्रः, पुं, (भृज्ज्यते अत्रेति । भ्रस्ज + “भ्रस्जि-

गमिनमिहनिविश्यशां वृद्धिश्च ।” उणा० । ४ ।
१५९ । इति । ष्ट्रन् ।) यत्र कलायचणकादिकं
भृज्यते सः । भाजना स्वोला इति ख्यातः ।
(यथा, नैषधचरिते । ३ । १२८ ।
“रौद्रे चक्षुषि तज्जितस्तनुमनुभ्राष्टं च य-
श्चिक्षिपे ॥”
“अनुभ्राष्टं भर्ज्जनपात्रसदृशेन ।” इति तट्टीका ।)
तत्पर्य्यायः । अम्बरीषम् २ । इत्यमरः । २ । ९ । ३० ॥

भ्रास, ऋ ङ ण टु भासि । इति कविकल्पद्रुमः ॥

भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्रास्यते । ङ भ्रासते । ऋ अबभ्रासत् । ण
भ्रेसे बभ्रासे । टु भ्रासथुः । इति दुर्गादासः ॥

भ्रास, य ङ भासि । इति कविकल्पद्रुमः ॥

भ्वा०-आत्म०-अक०-सेट् ।
द्वितीयस्तु दिवा०-आत्म०-अक०-सेट् ।) य ङ
भ्रास्यते । ङ भ्रासते । ऋ अबभ्रासत् । ण
भ्रेसे बभ्रासे । टु भ्रासथुः । इति दुर्गादासः ॥

भ्रुकुंसः, पुं, (भ्रकुंसः । भ्रुकुंसः । भ्रूकुंसः । भृकुंसः ।

इति रूपचतुष्टयम् । “चुरादौ पठपुटेत्यादि-
दण्डके कुसिर्भाषार्थः । यः स्त्रीवेशं धारयित्वा
भ्रुवः कुंसयतीति । एरच् प्रत्ययः । ह्रस्वश्च
वा । इति अमरटीकायां रघुनाथचक्रवर्त्ती ॥)
स्त्रीवेशधारिनर्त्तकपुरुषः । इत्यमरः । १ । ७ । ११ ॥

भ्रुकुटिः, स्त्री, (भ्रुवः कुटि कौटिल्यमिति षष्टी-

समासः । अभ्रुकुं सादीनामिति वा ह्रस्वः ।)
क्रोधादिना भ्रुवः कौटिल्यम् । इत्यमरः ।
१ । ७ । ३७ ॥ (यथा, महाभारते । ७ । ७६२ ।
बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य परिलक्षणम् ॥”)

भ्रकुटी, स्त्री, (भ्रुकुटि । कृदिकारादिति पक्षे

ङीष् ।) क्रोधादिना भ्रवः कोटिल्यम् । इत्य-
मरः । १ । ७ । ३७ ॥ (यथा, माघे । १५ । ९ ।
“भ्रुकुटीकठोरितललाटमाननम् ॥”)

भ्रूः, स्त्री, (भ्राम्यति नेत्रोपरि इति । भ्रम् +

“भ्रमेश्च डूः ।” उणा० २ । ६८ । इति डूः ।)
दृग्भ्यामूर्द्ध्वभागः । तत्पर्य्यायः । चिल्लिका २
नयनोर्द्ध्वभागरोमराजी ३ । इति राजनिर्घण्टः ॥
तल्लक्षणम् यथा, गारुडे ६६ अध्याये ।
“विशालोन्नता सुखिनि दरिद्रा विषमभ्रुवः ।
धनी दीर्घा संसक्तभ्रूर्बालेन्दून्नतसभ्रुवः ।
आव्या निस्वश्च खड्गभ्रूर्मध्याश्च विनतभ्रुवः ॥”
अत्र षट्चक्रान्तर्गताज्ञाख्य चक्रमस्ति । तत्तु
हक्षवर्णद्बययुक्तद्बिदलपद्माकारम् । तन्मध्ये मन-
स्तिष्ठति । यथा, --
“आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यान-
धामप्रकाशं
हस्ताभ्यां वै कलाभ्यां प्रविलसितवपुर्नेत्रपत्रं
सुशुभ्रम् ।
तन्मध्ये हाकिनी सा शशिसमधवला वक्त्रषट्कं
दधाना
विद्यां मुद्रां कपालं डमरुजपवटीं बिभ्रती
शुद्धचित्ता ॥
एतत्पद्मान्तराले निवसति च मनः सूक्ष्मरूपं
प्रसिद्धम् ॥”
इति श्रीतत्त्वचिन्तामणौ षष्ठप्रकाशः ॥
(विषयोऽस्या यथा, --
“भ्रुवोर्वा यदि वा मूर्द्ध्नि सीमन्तावर्त्तकान् बहून् ।
अपूर्ब्बानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत् ॥
त्र्यहमेते न जीवन्ति लक्षणेनातुरा नराः ।
अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ॥”
इति चरके इन्द्रियस्थाने अष्टमेऽध्याये ॥
कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तनवृषपार्श्व-
स्किग् जानुबाहूरूप्रभृतयो द्वे द्वे विंशतिरङ्गु-
लयः । इति सुश्रुते शारीरस्थाने पञ्चमेऽध्याये ॥)

भ्रूकुंसः, पुं, (भ्रू + कुंस + अच् । स्त्रीवेशधारी

नर्त्तकपुरुषः । इत्यमरः । १ । ७ । ११ ।

भ्रूकुटिः, स्त्री, (भ्रुवः कुटिः कौटिल्यम् । क्रोधा-

दिना भ्रुवः कोटिल्यम् । इत्यमरः ॥

भ्रूण, क ङ आशाविशङ्कयोः । इति कविकल्प-

द्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।) रेफ-
युक्तषष्ठस्वरी । क ङ भ्रूणयते भद्रं लोकः ।
आशाविषयं करोतीत्यर्थः । इति दुर्गादासः ॥

भ्रूणः, पुं, (भ्रूण्यते आशस्यते इति । भ्रूण +

घञ् ।) बालकः । स्त्रीगर्भः । इत्यमरः २ । ६ । ३९ ॥
(क्लीवमपि । यथा, ऋग्वेदे । १० । १५५ । २ ।
“चत्तो इतश्चत्तामुतः सर्व्वाभ्रूणान्यारुषी ॥”)
अथ गर्भाधानदिनम् । रजोदर्शनावधिषोडश-
दिनपर्य्यन्तं ऋतुकालः । तत्राद्याश्चतस्रो निशाः
परित्यज्य चतुर्द्दश्यष्टमी अमावास्या पूर्णिमा
सूर्य्यसंक्रान्तिः पर्व्वाण्येतानि परित्यज्य च
अन्यासुरात्रिपु चन्द्रादिशोभने काले भार्य्यामुप-
गच्छेत् । युग्मरात्रिषु गमने पुत्त्रो भवेत् । अयुग्म-
रात्रिषुगमने कन्या भवेत् । तत्र प्रशस्तनक्षत्राणि
पुष्यः हस्ता मृगशिरा आर्द्रा पुनर्व्वसुः पूर्ब्बा-
षाढा उत्तराषाढा श्रवणा पूर्ब्बभाद्रपदुत्तर-
भाद्रपत् । तत्र निषिद्धनक्षत्राणि । ज्येष्ठाश्लेषा
मघा मूला रेवती कृत्तिकाश्विनी उत्तरफल्-
गुनी । तत्र तिथयः नन्दा भद्राः प्रशस्ताः ।
रिक्ता निषिद्धाः । तत्र रविमङ्गलबृहस्पतिवाराः
प्रशस्ताः । इति समयप्रदीपः ॥

भ्रूणहत्या, स्त्री, (हननं हत्या । हन् + भावे

क्यप् । भ्रूणस्य हत्या इति षष्ठीसमासः ।)
गर्भस्थबालकहननम् । यथा, --
“त्रिविवाहं कृतं येन न करोति चतुर्थकम् ।
कुलानि पातयेत् सप्त भ्रूणहत्याब्रतञ्चरेत् ॥”
इत्युद्वाहतत्त्वम् ॥

भ्रूणहा, [न्] त्रि, (भ्रूणं हन्तीति । भ्रूण + हन् +

“ब्रह्मभ्रूणवृत्तेषु ।” ३ । २ । ८७ । इति क्विप् ।)
गर्भस्थबालकहन्ता । भ्रूणं हन्ति इति भ्रूण-
शब्दोपपदहनधातोष्टप्रत्ययेन निष्पन्नः । इति
संक्षिप्तसारव्याकरणम् ॥ (यथा, महाभारते ।
१ । ८३ । ३४ ।
“ऋतुं वै याचमानाया न ददाति पुमानृतुम् ।
भ्रूणहेत्युच्यते ब्रह्मन् ! स इह ब्रह्मवादिभिः ॥”)
तस्य प्रायश्चित्तम् । तत्र पुंस्त्वेन ज्ञाते पुंवध-
प्रायश्चित्तम् । स्त्रीत्वेन ज्ञाते स्त्रीबधप्रायश्चि-
त्तम् । अविज्ञाते तु पुंबधप्रायश्चित्तमाह मनुः ।
“हत्वा गर्भमविज्ञातमेतदेव ब्रतञ्चरेत् ।
गर्भहा च यथावर्णं तथात्रेयीनिसूदनः ॥”
इति प्रायश्चित्तविवेकः ॥
(ब्रह्महन्ता । यथा, मनुः । ८ । ३२७ ।
“अन्नादेर्भ्रूणहा मार्ष्टि पत्यौ भार्य्यापचारिणी ॥”
“भ्रूणहा ब्रह्महा ।” इति तद्भाष्ये मेधातिथिः ॥)

भ्रूभङ्गः, पुं, (भ्रुवो भङ्गः ।) भ्रुवः कौटिल्यम् । यथा,

“क्षुद्राः सन्त्रासमेते विजहत हरयो भिन्नशक्रेभ-
कुम्भा
युष्मद्देहेषु लज्जां दधति परममी शायका
निष्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वमपि नहि रुषां नन्वहं
मेघनादः
किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वे-
षयामि ॥”
इति काव्यप्रकाशः ॥

भ्रेज, ऋ ङ भासि । इति कविकल्पद्रुमः ॥ (भ्वा०

आत्म०-अक०-सेट् ।) रेफयुक्तः । ऋ अबि-
भ्रेजत् । ङ बिभ्रेजे । इति दुर्गादासः ॥

भ्रेष, ऋ ञ चले । भये । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-अक०-सेट् ।) रेफयुक्तः । ऋ
अबिभ्रेषत् । ञ भ्रेषति भ्रेषते घर्म्मात् खलः ।
बिभ्रेषे । इति दुर्गादासः ॥

भ्रेषः, पुं, (भ्रेष् चलने + भावे घञ् ।) तथाच

यथोचिताद्भ्रंशः । इत्यमरः ॥ (यथा, पातञ्जल-
भाष्ये । ३ । १२ । “आसमाषिभ्रेषात् ।” इति ।)
चलनम् । इति भ्रेषधात्वर्थदर्शनात् ॥

भ्रेषणं, क्ली, (भ्रेष् + भाबे ल्युट् ।) चलनम्

इति भ्रेषधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥

भ्लक्ष, ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०-

उभ०-सक०-सेट् ।) अन्तःस्थतृतीयोपधः । ञ
भ्लक्षति भ्लक्षते । लस्थाने सप्तमस्वर इति दुर्ग-
सिंहः । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/भेकः&oldid=44032" इत्यस्माद् प्रतिप्राप्तम्