शब्दकल्पद्रुमः/बाल्यं

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/४२९

बाल्यं, (बालस्य भावः कर्म्म वा । बाल + “पत्यन्त-

पुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इति
यक् ।) बालस्य भावः । तत्पर्य्यायः । शिशु-
त्वम् २ शैशवम् ३ । इत्यमरः ॥ तच्च षोडश-
वर्षपर्य्यन्तम् । आषोडशाद् भवेद्बाल इत्युक्तेः ।
इति भरतः ॥ (यथा मनुः । ५ । १४८ ।
“बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने ॥”
“वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकन्तथा ।
ऊनषोडश वर्षस्तु नरो बालो निगद्यते ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

बा(वा)स्पः (ष्पः) पुं, (बाधते नेत्रे इति । बाध +

“खष्पशिल्पशष्पबास्परूपपर्पतस्पाः ।” उणां ।
३ । २८ । इति पः । निपात्यते च ।) उष्म ।
अश्रु । इत्यमरः । ३ । ३ । १३० ॥ (यथा,
रघौ । ८ । ७० ।
“अकरोत् पृथिवीरुहानपि
स्रुतशाखारसबास्पदूषितान् ॥”)

बाहः, पुं, (बाहुरेव । पृषोदरादित्वात् साधुः ।)

बाहुः । इत्यमरटीकायां रमा-
नाथः ॥ (यथाह उज्ज्वलदत्तः । १ । १८ ।
“अकारान्तोऽपि बाहशब्दो भुजवाचकः ।
यथा च । बाहोऽश्वभुजयोः पुमानिति दामो-
दरः । टाववन्तोप्ययं । बाहुर्बाहा भुजाभुजः ।
सुबाहा इति वासवदत्तायां सुबन्धुश्लेषः ॥”)

बाहा, स्त्री, (बाहुरेव । पृषोदरादित्वात् साधुः ।)

बाहुः । इत्यमरटीकायां रमा-
नाथः ॥ (यथाह उज्ज्वलदत्तः । १ । १८ ।
“अकारान्तोऽपि बाहशब्दो भुजवाचकः ।
यथा च । बाहोऽश्वभुजयोः पुमानिति दामो-
दरः । टाववन्तोप्ययं । बाहुर्बाहा भुजाभुजः ।
सुबाहा इति वासवदत्तायां सुबन्धुश्लेषः ॥”)

बाहाबाहवि, व्य, बाहुभिर्बाहुभिः प्रवृत्तं यद् युद्धं

तत् । इति मुग्धबोधव्याकरणम् ॥

बाहुः, पुं, स्त्री, (बाधते शत्रून् इति । बाध +

“अर्जिदृशिकम्यमिपंसिबाधामृजिपशि तुक् धुक्
दीर्घहकाराश्च ।” उणा० १ । २८ । इति कुप्रत्य-
योऽन्तस्य हकारादेशश्च ।) कक्षाद्यङ्गुल्यग्र-
पर्य्यन्तावयवविशेषः । तत्पर्य्यायः । भुजः २
प्रवेष्टः ३ दोः ४ । इत्यमरः । २ । ६ । ८० ।
दोषः ५ बाहः ६ । इति जटाधरशब्दरत्ना-
वल्यौ ॥ तद्वैदिकपर्य्यायाः । आयती १ च्यवना २
अनीशू ३ अप्लवाना ४ विनंगृसौ ५ गभस्ती ६
कवस्नौ ७ बाहू ८ भूरिजौ ९ क्षिपस्ती १०
शक्करी ११ भरित्रे १२ । इति द्वादश बाहु-
नामानि । इति वेदनिर्घण्टौ २ अध्यायः ॥ * ॥
(यथा ऋग्वेदे । ५ । ५७ । ६ ।
“ऋष्टयो वो मरुतो अंसयोरधि
सह ओजो बाह्वोर्वो बलं हितम् ॥”
नृपत्वसूचकबाहुलक्षणम् । यथा, --
“निर्मांस्रौ चैव भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ ।
आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥”
इति गारुडे ६६ अध्यायः ॥
(अस्य शुभाशुभलक्षणमुक्तं यथा सामुद्रके ।
“उद्वद्धबाहुः पुरुषो वधबन्धनमाप्नुयात् ।
दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा ॥
प्रलम्बबाहुरैश्वर्य्यं प्राप्नुयाद्गुणसंयुतम् ।
ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरस्तथा ॥
वामावर्त्तभुजा ये तु ये च दीर्घभुजा नराः ।
संपूर्णबाहवो ये तु राजानस्ते प्रकीर्त्तिताः ॥
पुरुषस्य दक्षिणबाहुस्पन्दने स्त्रियो वामबाहु-
स्पन्दने शुभं तद्वीपरीते तु अशुभम् । यथा
शाकुन्तले १ अङ्के ।
“शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः
फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्व्वत्र ॥”
बाहुर्दक्षिणबाहुः । फलं वरस्त्रीलाभरूपम् ॥
“वामेतरभुजस्पन्दो वरस्त्रीलाभसूचकः ॥”
इतिवचनात् ॥)
कूर्परस्य ऊर्द्धभागः । यथा, --
“मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥”
अस्य टीका । बाहू प्रबाहू च कूर्परस्य ऊर्द्ध्वा-
धोभागौ । इति विष्णुपुराणे । ५ । ५ ॥

बाहुकः, पुं, नलराजा । तत्पर्य्यायः । पुण्यश्लोकः

२ अश्ववित् ३ नैषधः ४ । इति त्रिकाण्डशेषः ॥
(पुष्करेण हृतराज्यो हि नलः ग्रहवैगुण्यात्
विपिने दमयन्तीमपहाय प्रगच्छन् दावानल-
परीतमनलभयादाक्रोशन्तं कर्कोटकनामानं
नागमवलोक्य तत उद्धृतवान् । अथ प्रसन्न-
स्यास्य पन्नगस्योपदेशात् ऋतुपर्णस्य राज्ञो
नगरं गत्वा बाहुक इत्यभिहितस्तस्यैव राज्ञः
घोटकपरिचर्य्यायां नियुक्तोऽभवत् । यदुक्तं
महाभारते । ३ । ६७ । १-७ ।
“तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।
ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥
स राजानमुपातिष्ठत् बाहुकोऽहमितिब्रुवन् ।
अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।
अन्नसंस्कारमपि च जांनाम्बन्यैर्विशेषतः ॥
यानि शिल्पानि लोकेऽस्मिन् यच्चैवान्यत् सुदु-
ष्करम् ।
सर्व्वं यतिष्ये तत् कर्त्तुमृतुपर्ण ! भरस्व माम् ॥
ऋतुपर्ण उवाच ।
वस बाहुक ! भद्रन्ते सर्व्वमेतत् करिष्यसि ।
शीघ्रयाने सदा बुद्धिर्ध्रियते मे विशेषतः ॥
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम ।
भवेयुरश्वाध्यक्षोऽसि वेतनं ते शतं शताः ॥
त्वामुपस्थास्यतश्चव नित्यं वार्ष्णेयजीवलौ ।
एताभ्यां रंस्यसे सार्द्धं वस वै मयि बाहुक ! ॥”
कौरव्यकुलोद्भवो नागभेदः । यथा महा-
भारते । १ । ५७ । १३ ।
“बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ ।
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यबाहनम् ॥”)

बाहुकुण्ठः, त्रि, (बाहौ बाह्वोर्वावयवयोः कुण्ठः ।)

कुण्ठितबाहुयुक्तः । कोपा इति भाषा । तत्
पर्य्यायः । कुम्पः २ दोर्गडुः ३ इति जटाधरः ॥

बाहुकुन्थः, पुं, (बाहुरिव कुथ्नाति आचरतीति ।

बाहु + कुन्थ + पचाद्यच् ।) पक्षः । यथा, --
“गरुत्पक्षच्छदाः पत्रं पतत्रञ्च तनूरुहम् ।
देहधिर्देहकोषश्च बाहुकुन्थश्च कथ्यते ॥”
इति शब्दचन्द्रिका ॥

बाहुजः, पुं, (ब्रह्मणो बाहुभ्यां जायते यः ।

बाहु + जन् + ड । “ब्राह्मणोऽस्य मुखमासीत्
बाहू राजन्यः स्मृतः । ऊरुस्तदस्य यद्वैश्यः पद्भ्यां
शूद्रोऽभ्यजायत ॥” इति श्रुतेस्तथात्वम् ।)
क्षत्त्रियः । इत्यमरः । २ । ८ । १ । (यथा, --
“वत्स ! वाराणसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ।
तत्र नाम्ना दिवोदासः काशिराजोऽस्ति-
बाहुजः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कीरः । स्वयंजाततिलः । इति मेदिनी । जे, २७ ।
बाहुजाते त्रि ॥

बाहुत्राणं क्ली, (त्रै + भावे + ल्युट् । बाह्वोस्त्राणं

यस्मात् ।) अस्त्राघातनिवारणार्थबाहुबद्ध-
लौहादि । तत्पर्य्यायः । बाहुलम् २ । इति
हेमचन्द्रः । ३ । ४३३ ॥

बाहुदन्ती, [न्] पुं, (बहवो दन्ता यस्य स बहु-

दन्त ऐरावतः स एव बाहुदन्तः । स्वार्थे अण् ।
बाहुदन्तोऽस्यास्तीति इनिः ।) इन्द्रः । इति
भूरिप्रयोगः ॥

बाहुदा, स्त्री, (बाहू दत्तवती या । बाहु +

दा + आतोऽनुपसर्गेति ।” ३ । २ । १ । इति कः ।
लिखितस्य मुनेर्बाहुप्रदानादस्यास्तथात्वम् ।)
नदीविशेषः । तत्पर्य्यायः । सैतवाहिनी २ । इत्य-
मरः ॥ कदाचिल्लिखिताख्यस्य मुनेर्ज्येष्ठभ्रातुः
शङ्खस्य शून्याश्रमे फलभक्षणाद्राज्ञा बाहू
च्छिन्नौ तौ चास्यां नद्यां तपस्यतस्तस्य पुन-
र्जाताविति । इत्यमरटीकायां भरतः ॥ * ॥
(एतत्कथा यथा, महाभारते । १२ । २३ ।
१७ -- ४० । व्यास उवाच ।
“अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शङ्खश्च लिखितश्चास्तां भ्रातरौ संशितव्रतौ ॥
तयोरावसथावास्तां रमणीयौ पृथक् पृथक् ।
नित्यं पुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ॥
ततः कदाचिल्लिखितः शङ्खस्याश्रममागतः ।
यदृच्छयाथ शङ्खोऽपि निष्क्रान्तोऽभवदाश्रमात् ॥
सोऽभिगम्याश्रमं भ्रातुः शङ्खस्य लिखितस्तदा ।
फलानि पातयामास सम्यक्परिणतान्युत ॥
अभ्युपादाय विश्रब्धो भक्षयामास स द्विजः ।
तस्मिंश्च भक्षयत्येव शङ्खोऽप्याश्रममागतः ॥
भक्षयन्तन्तु तं दृष्ट्वा शङ्खो भ्रातरमब्रवीत् ।
कुतः फलान्यवाप्तानि हेतुना केन खादसि ॥
सोऽब्रवीत् भ्रातरं ज्येष्ठमुपसृत्याभिवाद्य च ।
इत एव गृहीतानि मयेति प्रहसन्निव ॥
तमब्रवीत्तथा शङ्खस्तीव्ररोषसमन्वितः ।
स्तेयं त्वया कृतमिदं फलान्याददता स्वयम् ॥
गच्छ राजानमासाद्य स्वकर्म्म कथयस्व वै ।
अदत्तादानमेवं हि कृतं पार्थिवसत्तम ! ॥
स्तेनं मां त्वं विदित्वा च स्वधर्म्ममनुपालयन् ।
शीघ्रं धारय चौरस्य मम दण्डं नराधिप ! ॥
इत्युक्तस्तस्य वचनात् सुद्युम्नं स नराधिपम् ।
अभ्यगच्छन् महाभागो लिखितः शंसितव्रतः ॥
सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतम् ।
पृष्ठ ३/४३०
अभ्यगच्छत् सहामात्यः पद्भ्यामेव जनेश्वरः ॥
तमब्रवीत् समागम्य स राजा धर्म्मवित्तमम् ।
किमागमनमाचक्षु भगवन् ! कृतमेव तत् ॥
एवमुक्तः स विप्रर्षिः सुद्युम्नमिदमब्रवीत् ।
प्रतिश्रुत्य करिष्येति श्रुत्वा तत्कर्त्तुमर्हसि ॥
अनिसृष्टानि गुरुणा फलानि मनुजर्षभ ! ।
भक्षितानि महाराज ! तत्र मां शाधि मा
चरम् ॥
सुद्युम्न उवाच ।
प्रमाणञ्चेन्मतो राजा भवतो दण्डधारणे ।
अनुज्ञायामपि तथा हेतुः स्याद्ब्राह्मणर्षभ ! ॥
स भवानभ्यनुज्ञातः शुचिकर्म्मा महाव्रतः ।
ब्रूहि कामानतोऽन्यांस्त्वं करिष्यामि हि ते वचः ॥
व्यास उवाच ।
स च्छन्द्यमानो ब्रह्मर्षिः पार्थिवेन महात्मना ।
नान्यं स वरयामास तस्माद्दण्डादृते वरम् ॥
ततः स पृथिवीपालो लिखितस्य महात्मनः ।
करौ प्रच्छेदयामास धृतदण्डो जगाम सः ॥
स गत्वा भ्रातरं शङ्खमार्त्तरूपोऽब्रवीदिदम् ।
धृतदण्डस्य दुर्बुद्धेर्भवांस्तत्क्षन्तुमर्हसि ॥
शङ्ख उवाच ।
न कुप्ये तव धर्म्मज्ञ ! न त्वं दूषयसे मम ।
धर्म्मस्तु ते व्यतिक्रान्तस्ततस्ते निष्कृतिः कृता ॥
स गत्वा बाहुदां शीघ्रं तर्पयस्व यथाविधि ।
देवानृषीन् पितृंश्चैव मा चाधर्म्मे मनः कृथाः ॥
तस्य तद्वचनं श्रुत्वा शङ्खस्य लिखितस्तदा ।
अवगाह्यापगां पुण्यामुदकार्थं प्रचक्रमे ॥
प्रादुरास्तां ततस्तस्य करौ जलजसन्निभौ ।
ततः स विस्मितो भ्रातुर्दर्शयामास तौ करौ ॥”
नदीयं पुरा प्रसेनजिद्भार्य्या गौरी नाम
आसीत् । ततः क्रुद्धेन भर्त्त्राभिशप्ता नदीरूपा
जाता । यथा, हरिबंशे । १२ । ५ ।
“लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम् ।
अभिशप्ता तु सा भर्त्रा नदी वै बाहुदा कृता ॥”
पूरुवंशोद्भवस्य परीक्षिन्नाम्नो नृपतेर्भार्य्येयं
बाहुदा । यथा, महाभारते । १ । ९५ । ४२ ।
“परीक्षित् खलु बाहुदामुपयेमे सुयशां नाम
तस्यामस्य जज्ञे भीमसेनः ॥) बाहुदात्री च ॥

बाहुभूषा, स्त्री, (बाह्वोर्भुजयोर्भूषा भूषणम् ।)

केयूरम् । इति हेमचन्द्रः । ३ । ३२६ ॥ बाहु-
भूषणमात्रञ्च ॥

बाहुभेदी, [न्] पुं, (बाहुं भिनत्तीति । बाहु +

भिद् + णिनिः ।) विष्णुः । इति भूरिप्रयोगः ।
बाहुभेदके त्रि ॥

बाहुमूलं, क्ली, (बाह्वो र्मूलम् ।) कक्षः । वगल

इति भाषा । इत्यमरः । २ । ६ । ३९ ॥ (यथा
साहित्यदर्पणे । ३ । १२३ ।
“कापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम् ॥”)

बाहुयुद्धं, क्ली, (बाह्वो र्बाहुभ्यां वा युद्धम् ।)

भुजाभ्यां संग्रामः । मल्लयुद्धम् । तत्पर्य्यायः ।
नियुद्धम् २ ॥ तस्य क्रमो यथा, --
“कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥”
इति विराटपर्व्वणि १२ अध्यायः ॥
सकङ्कटः कङ्कटः करघर्षणजः किणस्तत्सहि-
तैरित्यर्थः । कृतप्रतिकृतैः परप्रयुक्तिप्रतिकृतैः ।
चित्रैर्विचित्रैर्बन्धैरिति शेषः । सन्निपातेत्यादि ।
एते मल्लानां शिक्षाविशेषाः । सन्निपातैः
परस्परसङ्घघातैः । अवधूतैर्बद्धमुष्टिभुजाघातैः ।
प्रमाथैः पातयित्वा पेषणैः । उन्मथनैः अन्त-
रीक्षे भुजाभ्यां मथनैः । क्षेपणैः स्थानात्
प्रच्यावनैः । बद्धाङ्गुलिकरो मुष्टिः ।
“अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः ।
क्षिप्तस्य शब्दः स भवेद्बराहोद्धूतनिस्वनः ॥
तर्जन्यङ्गुष्ठमध्यन प्रसारितकरो हि यः ।
सम्प्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते ॥”
अद्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः ।
“प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता ।
द्बिगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम् ॥
प्रहारः स शलाका स्यात् पादोद्धूतः पदा-
हतम् ॥”
जानुभिश्चाश्मनिघोषैः पाषाणघोरसदृशध्व-
निभिः करणैर्यान्यवघट्टनानि तैः । बलप्राणेन
बलोत्कर्षेण । इति तट्टीका ॥ (यथा, मार्क-
ण्डेयपुराणे । ८३ । १३ ।
“ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥”)

बाहुलं, क्ली, बाहुत्राणम् । इति हेमचन्द्रः । ३ ।

४३३ ॥ (बहुल + अण् ।) बहुलभावश्च ॥

बाहुलः, पुं, अग्निः । इति शब्दरत्नावली ॥

(बहुला कृत्तिका तया युक्ता पौर्णमासी
बाहुली । बाहुली पौर्णमासी यस्मिन् । सास्मिन्
पौर्णमासीत्यण् ।) कार्त्तिकमासः । इत्यमरः ।
१ । ४ । १८ ॥

बाहुलेयः, पुं, (बहुलानां कृत्तिकादीनामपत्यं

पुमान् बहुला + ढक् ।) कार्त्तिकेयः । इत्य-
मरः । १ । १ । ४२ ॥

बाहुसहस्रभृत्, पुं, (बाहूनां सहस्रं बिभर्त्तीति ।

क्विप् । “ह्रस्वस्य पिति किति तुक् । ६ । १ ।
७१ । इति तुक् च ।) कार्त्तवीर्य्यार्ज्जुनः । इति
त्रिकाण्डशेषः ॥ (अस्य बाहुसहस्रप्राप्तिकथा
यथा, महाभारते । १३ । १५२ । ७-८ ॥
“स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।
सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥
मम बाहुसहस्रन्तु पश्यन्तां सैनिका रणे ।
विक्रमेण महीं कृस्नां जयेयं संशितव्रतः ॥”
परशुरामो हि अस्य बाहुसहस्रं परशुना
चिच्छेद । अस्य विवरणादिकं कार्त्तवीर्य्यशब्दे
द्रष्ठव्यम् ॥)

बाहूबाहवि व्य, बाहुभिर्बाहुभिर्यद् युद्धं वृत्तं तत् ।

हाताहाति इति भाषा । इति मुग्धबोधव्याक-
रणम् ॥

बिद इ अंशे । अवयव इत्यर्थः । इति कविकल्प-

द्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।) इ बिन्द्यते ।
बिन्दुरितिशब्दव्युत्पत्त्यर्थमेवायं धातुपारायणम् ।
इति दुगादासीयटीका ॥

बिल क श विभेदने । इति कविकल्पद्रुमः ॥

(चुरा०-तुदा०-च-परं०-सक०-सेट् ।) क, बेल-
यति । श बिलति । इति दुर्गादासः ॥

बिस इर् य क्षेपे । इति कविकल्पद्रुमः । (दिवा०-

पर०-सक०-सेट् ।) य विस्यति । इर् अविसत्
अवेसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये ।
इति दुर्गादासः ॥

बीभत्सः, पुं, (बीभत्स्यतेऽनेन । वध + सन् + करणे

घञ् ।) अर्ज्जुनः । इति मेदिनी । से, २९ ॥

बीभत्सः, त्रि, (बीभत्सा घृणास्त्यत्र । अर्श-

आद्यच् ।) क्रूरः ॥ (यथा महाभारते । १ ।
१ । २१० ।
“यदाश्रौषं द्रोणपुत्त्रादिभिस्तै-
र्हतान् पाञ्चालान् द्रौपदेयांश्च सुप्तान् ।
कृतं बीभत्समयशस्यञ्च कर्म्म
तदा नाशंसे विजयाय सञ्जय ! ॥”)
घृणात्मा ॥ (यथा, मार्कण्डेये । १६ । १८ ।
“तथापि प्रणता भार्य्या तममन्यत दैवतम् ।
तं तथाप्यतिबीभत्सं सर्व्वश्रेष्ठममन्यत ॥”)
विकृतिः । इति मेदिनी । से, २९ ॥ (यथा, --
“दुष्टेर्दोषैः पृथक्सर्व्वैर्बीभत्सालोकनादिभिः ।”
इति माधवकरकृतरुग्विनिश्चये छर्द्द्यधिकारे ॥
बीभत्सालोकनं विकृतिदर्शनमिति तट्टीकायां
विजयरक्षितेनोक्तम् ॥) पापी । इत्यजयः ॥
शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तत्पर्य्यायः ।
विकृतम् २ । इत्यमरः ॥ तस्य लक्षणादि यथा,
साहित्यदर्पणे । ३ । २६३ ।
“जुगुप्सा स्थायिभावस्तु बीभत्सः कथ्यते रसः ।
नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥
दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् ।
तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥
निष्ठीवनास्यबलननेत्रसङ्कोचनादयः ।
अनुभावास्तत्र मतास्तथास्युर्व्यभिचारिणः ॥
मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः ॥”
अस्य रसस्योदाहरणं यथा तत्रेव ।
“उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथ-
भ्रूयांसि मांसा
न्यंसस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि
जग्ध्वा ।
अन्तःपर्यस्तनेत्रः प्रकटीतदशनः प्रेतरङ्कः
कराङ्का
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र-
मत्ति ॥”)
पृष्ठ ३/४३१
वैकृतञ्च । यथा । अतिशीलितपारुष्यमभि-
शिक्षितवैकृतमित्यभिनन्दः । द्वयमिदं रसे
क्लीवम् । तदालम्बने तु मांसशोणितादौ त्रिषु ।
इति तट्टीकायां भरतः ॥

वीभत्सुः, पुं, (बीभत्सतीति । वध + सन् + उ ।

युद्धे न्यायपथेन शत्रुहननादस्य तथात्वम् ।
एतन्निरुक्तिरुक्ता । यथा, महाभारते ४ ।
४२ । १८ ।
“न कुर्य्यां कर्म्म बीभत्सं युध्यमानः कथञ्चन ।
तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः ॥”)
अर्ज्जुनः । यथा, --
अर्ज्जुनः फाल्गुनो जिष्णुः किरीटी श्वेत-
वाहनः ।
बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ॥
इति महाभारते । ४ । ४२ । ९ ॥

बुक्क, कि श्वादिशब्दे । इति कविकल्पदुमः ॥

(चुरा०-पक्षे भ्वा०-पर०-सक०-पक्षे अक०-
सेट् ।) पञ्चमस्वरी कोपधः । चुरादिपक्षे कथने
भ्वादिपक्षे कुक्कुरादिशब्देऽयमिति रमानाथः ।
कि, बुक्कयति वाचा बहुलोकः । बुक्कति श्वा ।
इति दुर्गादासः ॥

बुक्कं, त्रि, (बुक्कयति बुक्बुक् इत्यव्यक्तशब्दं करो-

तीति । बुक्क + पचाद्यच् ।) वक्षोऽभ्यन्तरमांस-
विशेषः । तत्पर्य्यायः । अग्रमांसम् २ हृदयम् ३
हृत् ४ । इत्यमरः । २ । ६ । ६४ ॥ केचित्तु
बुक्कात् पृथगेव हृदयान्तर्गतमांसविशेषे पद्मा-
कारे हृदयादिद्वयमाहुः । धातोरनेकार्थत्वात्
बुक्क्यते स्वादुत्वात् मृग्यते बुक्कं बुक्क किं श्वादि-
शब्दे घञ् । नान्तः पुंलिङ्गोऽप्ययम् । स्त्रीलि-
ङ्गाऽपीत्येके । इति स्वामी ॥ बुक्का स्त्री बुक्कः
पुमानपि । शोणितेषु स्त्रियां बुक्का बुक्कस्तु
समये द्वयोरिति रभसात् । नदादित्वात् स्त्रियां
बुक्वीत्यन्ये । बुक्कनान्तं क्लीवमव्युत्पन्नमितिरुद्र-
कलिङ्गादयः ॥ उरस्यपि च बुक्कायां हृदयं
मानसेऽपि चेति त्रिकाण्डशेषः ॥ बुक्कशब्दस्य
उकारस्य ऋकारादेशे तथैव बृक्कादिरूपञ्च ।
अग्रञ्च तन्मांसञ्चेति अग्रमांसं बुक्कस्याग्रं
संमुखीभूतं मांसं बुक्काग्रमांसमित्येकं नामे-
त्यन्ये । इति तट्टीकायां भरतः ॥

बुक्कः, पुं, (बुक्कयति शब्दायते इति । बुक्क +

अच् ।) छागः । इति त्रिकाण्डशेषः ॥ समये
पुं, स्त्री । इति रभसः ॥

बुक्कनं, क्ली, (बुक्क कि श्वादिशब्दे + भावे ल्युट् ।)

कुक्कुरशब्दः । तत्पर्य्यायः । भषणम् २ । इति
हेमचन्द्रः । ६ । ४३ ॥

बुक्का, स्त्री, (बुक्क + टाप् ।) बुक्कम् । इत्य-

मरटीकायां भरतः । शोणितम् । इति
रभसः ॥

बुक्का, [न्] (बुक्क + कनिन् ।) पुं, बुक्कम् । इत्यमर-

टीकायां भरतः ॥

बुक्काग्रमांसं, क्ली, (बुक्कस्याग्रमांसं ।) हृदयम् ।

इत्यमरटीकायां रायमुकुटः ॥

बुक्कारः, पुं, (बुक्क कि श्वादिशब्दे भावे घञ् । बुक्कं

निनादस्तस्य कारः करणम् । “एकवर्ग्यत्रयो
यत्र मध्यमस्तत्र लुप्यते” इति न्यायात् मध्यस्थ
ककारस्य लोपः ।) सिंहध्वनिः । इति हारा-
वली । १९४ ॥

बुक्की, स्त्री, (बुक्क + गौरादित्वात् ङीष् ।) बुक्कम् ।

इत्यमरटीकायां भरतः ॥

बुट, कि हिंसे । इति कविकल्पद्रुमः ॥ (चुरा०-

पक्षे भ्वा०-पर०-सक०-सेट् ।) कि बोटयति
बोटति । इति दुर्गादासः ॥

बुड, शि उत्सर्गे । संवृतौ । इति कविकल्प-

द्रुमः ॥ (कुटा०-तुदा०-पर०-सक०-सेट् ।)
शि बुडति अबुडीत् बुबोड इति दुर्गादासः ॥

बुद, इर् ञ उ निशामने । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-सक०-सेट् ।) पञ्चमस्वरी । इर्
अबुदत् अबोदीत् । ञ बोदति बोदते । उ
बोदित्वा बुत्त्वा निशामनमालोचनं प्रणि-
धानमिति यावत् । इति दुर्गादासः ॥

बुद्धः, पुं, (बुध्यते स्म इति । बुध + क्त । यद्वा भावे

क्त बुद्धं ज्ञानमस्यास्तीति अर्शआद्यच् ।)
भगवदवतारविशेषः । स तु दशावतारान्तर्गत-
नवमावतारः । यथा, --
“ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् ।
बुद्धो नाम्नाञ्जनमुतः कीकटेषु भविष्यति ॥”
इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥
अञ्जनस्य सुतः । अजिनसुत इति पाठे अजि-
नोऽपि स एव । कीटकेषु मध्ये गयाप्रदेशे ।
इति श्रीधरस्वामी ॥ तत्पर्य्यायः । सर्व्वज्ञः २
सुगतः ३ धर्म्मराजः ४ तथागतः ५ समन्त-
भद्रः ६ भगवान् ७ मारजित् ८ लोकजित् ९
जिनः १० षडभिज्ञः ११ दशबलः १२ अद्वय-
वादी १३ विनायकः १४ मुनीन्द्रः १५ श्रीघनः १६
शास्ता १७ मुनिः १८ । इत्यमरः । १ । १ । १३ ॥
धर्म्मः १९ त्रिकालज्ञः २० धातुः २१ बोधि-
सत्त्वः २२ महाबोधिः २३ आर्य्यः २४ पञ्च-
ज्ञानः २५ दशार्हः २६ दशभूमिगः २७ चतु-
स्त्रिंशज्जातकज्ञः २८ दशपारमिताधरः २९
द्वादशाक्षः ३० त्रिकायः ३१ संगुप्तः ३२ दया-
कूर्च्चः ३३ खजित् ३४ विज्ञानमातृकः ३५
महामैत्रः ३६ । इति हेमचन्द्रः । २ । १४६ ॥
धर्म्मचक्रः ३७ महामुनिः ३८ असमः ३९
खसमः ४० मैत्री ४१ बलः ४२ गुणाकरः ४३
अकनिष्ठः ४४ त्रिशरणः ४५ बुधः ४६ वक्री ४७
वागाशनिः ४८ जितारिः ४९ अर्हणः ५०
अर्हन् ५१ महासुखः ५२ । इति शब्दरत्ना-
वली ॥ महाबलः ५३ । इति जटाधरः ॥ * ॥
ईश्वरनिरूपणे बुद्धविशेषाणां मतमाह । सर्व्वज्ञ
इति सौगताः । निरावरण इति दिगम्बराः ।
लोकव्यवहारसिद्ध इति चार्व्वाकाः । शरीराण्येव
चेतनानि गौरोऽहं जानामीत्यादिज्ञानेन गौर
वत्त्वज्ञानवत्त्वयोः सामानाधिकरण्यानुभवा-
दिति चार्व्वाकाणां मतञ्च । तेषां मते जगतः
क्षणभङ्गुरत्वं नन्वस्तु क्षणभङ्गः पूर्ब्बपुञ्जाच्चोत्तर-
पुञ्जोत्पत्तिस्तथा च पुञ्जनिष्ठ एव कुर्व्वद्रूप-
त्वाख्यजातिविशेषः स्मरणजनकतावच्छेदक
इति न दोषः । इति कुसुमाञ्जलिप्रथमस्तवक-
टीकायां रामभद्रः ॥ * ॥ बुद्धानां दशविध
मतभेदमाह ।
“वदन्ति पुत्त्र आत्मेति १ दृढप्राकृतबुद्धयः ।
देह आत्मेति २ चार्व्वाका इन्द्रियाण्यपरे ३
च ते ॥
तेऽन्ये प्राण ४ स्ततोऽन्ये ते मन ५ आत्मेति
वादिनः ।
बुद्धिरात्मेति ६ बौद्धा वै शून्यमात्मेति ७ तेऽपरे ॥
याज्ञिका यज्ञपुरुषं सर्व्वज्ञं ८ स्रौगता विदुः ।
निरावरण ९ माहुर्यं दिगम्बरमतानुगाः ॥
चार्वाकाश्चापि लोकानां व्यवहारप्रसिद्ध-
कम् १० ॥”
इत्यात्मप्रकाशः ॥ * ॥
पण्डितः । बुधिते, त्रि । इति मेदिनी । धे, १० ॥
(बुद्धावतारस्य विवरणं यथा, --
इह खलु बौद्धशास्त्रसमूहेषु सम्प्रोक्ताः
पञ्चविंशतिर्बुद्धा दृश्यन्ते । तेषां शुद्धोदनौरसात्
मायादेवीगर्भजातः शाक्यसिंहसर्व्वार्थसिद्धार्क-
बन्धुगौतमेति नामचतुष्टयेन प्रसिद्धोऽन्तिम-
तमः लोकविश्रुतो बुद्धः कपिलवस्तुनगरे
कलेश्चतुःशतषडशीत्यधिकद्विसहस्रमितेषु गते-
ष्वब्देषु शुक्रवासरे सुरद्विषां सम्मोहनाय
साक्षाद् विवेकमूर्त्तिः स्वेच्छाविग्रहेण प्रादुर्बभूव ।
अथ स वयसा सह क्रमेण शीलगुणसाहस-
रूपौदार्य्यबलवीर्य्यादिभिर्वर्द्धते स्म । उदिते यौधने
पित्राज्ञया स शाक्यान्वयजां मनोज्ञां रूप-
लावण्यवतीं दण्डपाणितनयां गोपानाम्नीमनु-
मतामुपयेमे ।
जननसमयेऽस्य गणकाच्छ्रुतवान् नरेश्वरः
शुद्धोदनः व्याधिग्रस्तजराजर्ज्जरसन्न्यासिमृतजन-
दर्शनाज्जातवैराग्यः पुत्त्रस्ते गृहं सन्त्यक्ष्य-
तीति । तस्मात् सञ्जातशङ्को राजा शिल्पिभि-
रुपवनपरिवृतं सुगुप्तं रम्यं हर्म्म्यत्रयं भूभूषणं
निर्म्मापयामास । तत्रासौ युवतीजनपरिवेष्टित-
मुपच्छन्दितं विषयविमुग्धचेतसं तनयं निवृत्त-
निर्गमनम् स्वच्छन्देनान्ववासयत् । अथ गच्छति
कालेऽस्य शिथिलीबभूव भोगसन्तर्षः । ततः
कारागारमिव प्रतीयमानं निष्कुटनिकेतं विहा-
यास्य धरण्या नानास्थानं द्रष्टुमिच्छा सञ्जाता ।
ततः सोऽस्मै पित्रे शुद्धोदनाय सम्बोधया-
मास पर्य्यट्य नगरं प्रजानामृद्धिमवस्थाञ्च विलो-
कयितुं वासना मे बलवतीति । राजा प्रथमं
निवारयितुमियेष प्रलोभनेन । स नैव तु
ततो विरराम । अथ विज्ञाय निर्बन्धं पुत्त्रस्य
मन्त्रिणमादिदेश, कुमारे शाक्यसिंहे भ्रमितु-
मारब्धे राष्ट्रे मे जरातुरसन्न्यासिमृतमानवाः
केनापि कारणेन राजवर्त्मनि नोपतिष्ठन्तामिति
विघोषयेति । तथानुष्ठिते कुमारः रथमारुह्य
पृष्ठ ३/४३२
सारथिना सह बहिर्निगत्य भ्रमितुमारब्ध-
वान् । ततश्चतुर्दिक्षु प्रकृतिभिस्तारस्वरैर्जयोऽस्य
प्राघोषि । नगरं वीक्ष्यासौ मनसि परां मुदं
प्राप्तवान् ।
अथ स जरया जर्ज्जरतनुं मानवमेकं दृष्ट-
वान् । इतः प्राक् कदाचिदपि स शाक्यसिंहो
जगतो दुःखं नानुभूतवान् इदानीं निरीक्ष्य
प्रथमं तं जराग्रस्तं विवरणमस्य विज्ञातुं कुतू-
हली सारथिं पप्रच्छ । तदुक्तं यथा, --
“किं सारथे ! पुरुष दुर्ब्बल अल्पस्थाम
उच्छुष्कमांस रुधिरत्वचस्नायुनद्धः ।
श्वेतशिरो विरलदन्तकृशाङ्गरूप
आलम्ब्य दण्ड व्रजतेऽसुखं स्खलन्त ॥
सारथिराह ।
एषो हि देव ! पुरुषो जरयाभिभूतः
क्षीणेन्द्रियः सुदुःखितो बलवीर्य्यहीनो ।
बन्धुजनेन परिभूत अनाथभूतः
कार्य्यासमर्थ अपविद्ध वनेव दारुः ॥
वोधिसत्त्व आह ।
कुलधर्म्म एष अयमस्य हितं भणाहि
अथवापि सर्व्वजगतोऽस्य ह्यवस्था ।
शीघ्रं भणाहि वचनं यथभूतमेत-
च्छ्रुत्वा तथार्थमिह योनि सञ्चिन्तयिष्ये ॥
सारथिराह ।
नैतस्य देव ! कुलधर्म्म न राष्ट्रधर्म्मः
सर्व्वे जगस्य जरयौवनधर्षयाति ।
तुभ्यंपि मातृपितृबान्धवज्ञातिसंघो
जरया अमुक्तं न हि अन्यगतिर्जनस्य ॥”
बोधिसत्त्व आह ।
धिक् सारथे ! अबुधबालजनस्य बुद्धि-
र्यद्यौवनेन मदत्त जरां न पश्यी ।
आवर्त्तयाश्विह रथं पुनरहं प्रवेक्ष्ये
किं मह्य क्रीडरतिभिर्जरयाश्रितस्य ॥”
इति ललितविस्तरे १४ अध्याये ।
अथ शाक्यसिंहः सारथिं सन्दिदेश रथं
सञ्चालयेति । गत्वा नगरस्य दक्षिणे द्वारि
व्याधिग्रस्तं यातनापरीतपुरुषमेकमीक्षाञ्चक्रे ।
ततः स सारथिं पप्रच्छ । तदुक्तं यथा, --
“किं सारथे ! पुरुष रूपविवर्णगात्रः
सर्व्वेन्द्रियेभि विकलो गुरु प्रश्वसन्तः ।
सर्व्वाङ्गशुष्क उदराकुल प्राप्तकृच्छ्रा
मूत्रे पुरीष स्वकि तिष्ठति कुत्सनीये ॥”
सारथिराह ।
एषो हि देवपुरुषः परमं गिलानो
व्याधीभयं उपगतो मरणान्तप्राप्तः ।
आरोग्यतेजरहितो बलविप्रहीनो
अत्राणवीप्रशरणो ह्यपरायणश्च ॥”
बोधिसत्त्व आह ।
“आरोग्यता च भवते यथ स्वप्नक्रीडा
व्याधिर्भयञ्च इम ईदृश घोररूपम् ।
को नाम विजपुरुषो इम दृष्ट्व यस्थां
क्रोडारतिञ्च जनयेच्छुभसंज्ञितां वा ॥”
अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्त्य
रथवरं पुनरपि पुरवरे प्राविशत् ।
इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसम-
येन पश्चिमेन नगरद्वारेणोद्यानभूमिमभिनि
ष्क्रमन्महता व्यूहेन सोऽद्राक्षीत् पुरुषं मृतं
कालगतं मार्गे समारोपितं चेलवितानीकृतं
ज्ञातिसङ्घपरिवृतं सर्व्वैरुदद्भिः क्रन्दद्भिः परि-
देवमानैः प्रकीर्णकेशैः पार्श्वावकीर्णशिरोभि-
रुरांसि ताडयद्भिरुत्क्रोशद्भिः पृष्ठतोऽनुग-
च्छद्भिः । दृष्ट्वा च पुनर्बोधिसत्त्वो जानन्नेव
सारथिमिदमवोचत् ।
“किं सारथे ! पुरुष मञ्चोपरिगृहीतो
उद्वूत केशनख पांशु शिरे क्षिपन्ति ।
परिचारयित्व विहरन्तुरस्ताडयन्तो
नानाविलापवचनानि उदीरयन्तः ॥”
सारहिराह ।
“एषो हि देवपुरुषो मृतु जम्बुद्बीपे
न हि भूय मातृपितृ द्रक्ष्यति पुत्त्रदाराम् ।
अपहाय भोगगृहमातृपितृमित्रज्ञातिसङ्घं
परलोक प्राप्तु न हि द्रक्ष्यति भूय ज्ञातिम् ॥”
बोधिसत्त्व आह ।
“धिग्यौवनेन जरया समभिद्रुतेन
आरोग्य धिग्विविधव्याधिपराहतेन ।
धिग्जीवितेन पुरुषो न चिरस्थितेन
धिक्पण्डितस्य पुरुषस्य रतिप्रसङ्गैः ॥
यदि जर न भवेया नैव व्याधिर्न मृत्यु-
स्तथपि च महदुःखं पञ्चस्कन्धं धरन्तो
किं पुन जरव्याधिमृत्यु नित्यानुबद्धाः
साधु प्रतिनिवर्त्त्य चिन्तयिष्ये प्रमोचम् ॥
अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्त्य तं
रथवरं पुनरपि पुरं प्राविशत् ॥ इति हि
भिक्षवो बोधिसत्त्वस्यापरेण कालसमयेनोत्तरेण
नगरद्वारेणोद्यानभूमिमभिनिष्क्रामतस्तरेव देव
पुत्त्रैर्बोधिसत्त्वस्यानुभावेनैव तस्मिन् मार्गे
भिक्षुरभिनिर्म्मितोऽभूत् ॥ अद्राक्षीद्बोधिसत्त्वस्तं
भिक्षुं शान्तं दान्तं संयतं ब्रह्मचारिणमनति
क्षिप्तचक्षुर्युगमात्रप्रेक्षिणं प्रासादिकेनेर्ष्यापथेन
सम्पन्नं प्रासादिकेनाभिक्रमप्रतिक्रमेण सम्पन्नं
प्रासादिकेनालोकितव्यवलोकितेन प्रासादिकेन
सङ्घाटीपिण्डपात्रचीवरधारणेन मार्गे स्थितम् ।
दृष्ट्रा च पुनर्बोधिसत्त्वो जानन्नेव सारथिमिद-
मवोचत् ।
“किं सारथे ! पुरुष शान्त प्रशान्तचित्तो
नोत्क्षिप्तचक्षु व्रजते युगमात्रदर्शी ।
काषायवस्त्रवसनो सुप्रशान्तचारी
पात्रं गृहीत्व न च उद्धत उन्नतो वा ॥
सारथिराह ।
एषो हि देवपुरुष इति भिक्षुनामा
अपहाय कामरतयः सुविनीतचारी ।
प्रव्रज्यप्राप्तः सममात्मन एषमाणो
संरागद्वेषविगतो तिष्ठति पिण्डचर्य्या ॥
बोधिमत्त्व आह ।
साधु सुभाषितमिदं मम रोचते च
प्रव्रज्य नाम विदुभिः सततं प्रशस्ता ।
हितमात्मनश्च परमत्त्वहितञ्च यत्र
सुखजीवितं सुमधुरममृतं फलञ्च ॥”
इति ललितविस्तरे १४ अः ।
ततः संक्षुब्धचित्तोऽसौ स्वकीयं शुद्धान्तं
विवेश । दिवसेऽस्मिन् राहुलनामा पुत्त्रोऽस्य
समजनि । राजा शुद्धोदनः स्वाङ्गजस्य भ्रमण-
वृत्तान्तं सर्व्वं निशम्यास्य सन्न्यासग्रहणं शङ्क-
मानः चतुर्षु नगरद्वारेषु सेनाव्यूहान् सन्निवेश-
यति स्म तस्य परिरक्षणार्थम् ।
रतिरसाभिज्ञान् युवतिजनानन्तःपुरेषु बहु-
तरान् प्रेषयामास बोधिसत्त्वस्य प्रमोहनाय ।
अथागता रजनी, सिद्धार्थस्य तु चित्तं व्याकु-
लितमतीव गेहात् प्रव्रज्य भैक्ष्यग्रहणार्थम् ।
ततो नृत्यादिप्रमोदात् परं निद्रिताः सर्व्वा युवती
र्विलोक्य शयनात् शनैः शनैरुत्थितो व्यलोकयत् ।
“तत्र काश्चिद्व्यपकृष्टवस्त्राः काश्चिद्-
विधुतकेश्यः काश्चिद्विकीर्णाभरणाः काश्चिद्-
विभ्रष्टमुकुटाः काश्चिद्बिहतैरंशैर्विगोपितगात्र्यः
काश्चिद्विसंस्थितमुखाः काश्चिद्बिपरिवर्त्तित-
नयनाः काश्चित् प्रस्रवन्त्यो लालाभिः काश्चि-
द्धसन्त्यः काश्चित् प्रहसन्त्यः काञ्चित्प्रलपन्त्यः
काश्चिद्दन्तान् कटकटायन्त्यः काश्चिद्बिवर्ण-
वदनाः काश्चिद्विसंस्थितरूपाः काश्चित् प्रल-
म्बितबाहवः काश्चिद्विक्षिप्तवदनाः काश्चिदुद्-
घाटितशीर्षाः काश्चिदवगुण्ठितशीर्षाः काश्चि-
द्विपरीतवर्त्तितमुखमण्डलाः काश्चित् प्रध्वस्त-
शरीराः काश्चिद्बिभग्नगात्र्यः काश्चिन्निकुब्जाः
खुरुखुरायमानाः काश्चिन्मृदङ्गमुपगुह्य परि-
वर्त्तितशीर्षशरीराः काश्चिद्बीणावल्लक्याद्यपरि-
बुद्धपाणयः काश्चिद्वेणुं दन्तैः कटकटायन्त्यः
काश्चित् किम्पलनकुलसम्पताडावकर्षितवाद्य-
भाण्डाः काश्चिन्निमेषोन्मेषपरिवर्त्तनयनाः काश्चि-
द्विवृत्तास्या एवं तद्विकृतं धरणीतलगतमन्तः-
पुरं निरीक्षमाणो बोधिसत्त्वः श्मशानसंज्ञा-
मुत्पादयति स्म ।” तत्रेदमुच्यते ।
“तां दृष्ट्व उद्विग्न स लोकनाथः
करुणं विनिश्वस्य इदं जगाद ।
अहो वता कृच्छ्रगता व्रजेयं
कथं रतिं बिन्दति राक्षसीगणैः ॥
अतिमोहतमावृते दुर्म्मति-
कामगुणैर्निर्गुणसंज्ञिनः ।
विहगपञ्जरगत्रा यथा नहि
लभन्ति कदाचिद् विनिःसृतम् ॥”
इति ललितविस्तरे । १५ अध्याये ॥
अतीतेऽथ निशीधे सिद्धार्थाऽश्वपालमाहूयाह
“जरामरणपञ्जरनियतसत्त्वपरिमोचनस्य सम-
यो ह्युपस्थितो मे ।” अतएव ग्रहीष्यामि
सन्न्यासम् । विस्मितोऽश्वपालोऽब्रवीत् राज-
पुत्त्रस्य ते सन्न्यासग्रहणमनुचितं न समर्थोऽसि
सन्न्यासाश्रमस्य कष्टानि सोढुम् ।
पृष्ठ ३/४३३
सिद्धार्थ आह ।
“विवर्जिताः सर्पशिरा यथा बुधै-
र्विगर्हिता मीढघटा यथाशुचिः ।
विनाशकाः सर्व्वसुखस्य छन्दक
ज्ञात्वा हि कामान्न विजायते रतिः ॥”
छन्दक शृणु यानि दुःखशतामार्षिता पूर्व्व-
जन्मान्तरे ।
बन्धनारुन्धनास्ताडनास्तर्ज्जनाः कामहेतो-
र्मया नो च निर्व्विदभूत् ॥
संस्कृतमानसं प्रमदवसगतञ्च
मोहाकुलं दृष्टिजालावृतम् ।
अन्धभूतं पुरा आत्मसंज्ञा-
ग्रहाकारका वेदनावीतिवृत्ता इमे ॥
घर्म्माज्ञानतः सम्भूता चलचपलाऽ-
नित्यमेघैः समा विद्युद्भिः सदृशाः ।
ओसबिन्दूपमा ऋक्ततुच्छा असाराः
अनात्मा च शून्यस्वभावा इमे सर्व्वशः ॥
स्वयमहमभिरुह्य नावामिमात्मानाऽवतीर्य्य
संसार ओघैरहं तारयिष्येऽनन्तं जगत् ।
शोकसंसारकान्ताररोषोर्म्मिरागग्रहा-
व्याकुले वैराकुले दुस्तरे एव चित्तं मम ॥
तदात्मनोत्तीर्य्य इदं भवार्णवं
सर्वैरदृष्टिर्ग्रहक्लेशराक्षसम् ।
स्वयं तरित्वा च अनन्तरं जगत्
स्थलेऽन्तरीक्षे अजरामरे शिवे ॥”
ललितविस्तरे १५ अध्याये ।
अतश्छन्दक ! प्रव्रजाम्यधुनैव सत्वरमानयाश्वम् ।
तथानुष्ठिते सिद्धार्थोऽसौ स्त्रीतनयगुरुजनान्
सर्व्वान् राज्यमैश्वर्य्यञ्च विहायाश्वमारुह्य
निर्गतः । निजनगराद्द्वादशयोजनदूरस्थितं
मल्लराज्यं प्राप्य तत्रैव वशिष्ठाश्रमसन्निधौ
छन्दकमश्वसहितं विसृज्य कौषेयमपहाय
पिधाय बल्कलवाससमेकाकी वैशालीं नाम-
नगरीमुपतस्थे । तत्र आराढकालामनामा
जिनपुरुषस्त्रिशतकशिष्यैरवात्सीत्, सिद्धार्थो-
ऽस्य शिष्योऽभूत् । आहैकदा गुरुः, पवित्रचेता
ऋजुर्भक्तिमान् पुरुष एवालं ब्रह्मचर्य्यं ग्रहीतुम्,
लब्धुञ्च सर्व्वमैश्वर्य्यम् । हृदि यस्य विमलो
निर्व्वाणप्रदीपः प्रदीप्तस्तमः स्तोमग्रसनपटुर्भवस्य ।
न तस्य सुखदमैश्वर्य्यविजृम्भितगुरुवचनम् ।
ततः सप्तशतीं शिष्यततिन्दधानस्य रुद्रकनाम्नः
साधोः समीपं गत्वा कृत्वानेन सम्भाषणं गय-
शीर्षं जगाम । तत्रोद्भावितमनेन यद् ब्राह्मणाः
श्रमणाश्च बोधस्वरूपं लब्घुमविशुद्धं कायमानसं
नियोजयन्ति तदग्निमुत्पादयितुमार्द्रकाष्ठद्बय-
घर्षणमिव वैफल्यं भजते । शुष्ककाष्ठखण्डद्वय-
घर्षणेन यथा लब्धमनोरथा मानवास्तद्वत्
कायमनसोर्विशुद्धयोः सतोः स्वतश्च बोध-
लाभः शक्यः । ततःपरमसौ बोधिसत्त्वो गत्या
ग्राममुरुविल्वाख्यं विजनं तत्रैवोषितुं मनो
दघे । परमयत्नेनात्रैव कायशुद्धिं चित्तशुद्धिञ्च
विधाय आस्फालनाख्यं दुर्द्धरं ध्यानं दधार ।
अत्रासौ कस्मिंश्चिद्दिवसे वदरीमेकिकां कस्मिं-
श्चिद्वा तण्डुलमेकं कदाचिद्बैकमात्रं कलायं
भक्षयित्वा कस्मिंश्चिदुपोषणेन वा कालं
विलङ्घ्य शुष्कच्छविर्मसीवर्णो बभूव । ततोऽसौ
देहमित्थं निभज्य लब्धुं सम्बोधं न समर्थोभवेय-
मिति विचिन्त्य पोषणकरमाहारं जग्राह ।
दिवसेऽस्मिन् शुद्धोदनः स्वप्नं ददर्श प्रियः पुत्त्रो
मे मणिमुक्तादिविभूषितवारणरूपेण उदुम्बर-
तरुमारुरोह । त्रैलोक्यलोकाः पूजनायास्या-
गच्छन्तीव, यशोघरापि गोपापरनाम्नी ददर्श
स्वप्नं विविधम् स्वयं शाक्यसिंहश्च पञ्च,
यथा जगदखिलं शय्या मे, विम्बफलमिव सुमेरु-
शिखरमुपधानीभूतं मे, वामदक्षिणकरद्वयं मे
प्राच्यपश्चिमसमुद्रोपरि पादावुभौ मे दक्षि-
णाब्धौ प्लवन्ते, नाभिकमलान् मे समुत्थितैः
स्थिरिकातृणैश्चापूरितमखिलं नभः । ततश्चो-
त्थायासौ ऊरुविल्वोषितायाः सुजातानामि-
काया नार्य्याः सकाशात् भिक्षां जग्राह ।
इतः सिद्धार्थो ध्यानं दधार, निर्व्वाणे पथि तस्य
सततं परिपन्थी सन्नपि दुर्निवारो मारः परा-
जितो ध्यानवीरेण योगिसिंहेन पलायनं चक्रे ।
ततस्तस्यैव कन्दर्पस्य तनये यतेते तन्द्रा रतिश्च
योगिप्रवरस्य मोहनाय, विफलानि तु जाता-
न्यनयोर्मनोरथानि । ततः सर्व्वेभ्यः कृच्छ्रेभ्यो
विसुक्तः सिद्धार्थो बोधञ्च विमलं लेभे । तदासा-
वधिरूढयोगः मनस्यस्य मुकुरे प्रतिफलितं
सकारणमखिलं जगत् । ततश्च चिन्तयामास सः
जीवानां जन्म, तेषु च जीषस्य संयोगो वियोग-
श्चैव दुःखदुःखान्येतानि । न जानीते मानवस्तन्
मोहजालेनावृतो दुर्व्विषहं दुःखं सहत इति ।
ततः कस्मादागतं जरामरणमिति चेतसा कृते
प्रश्नेतेनैव निश्चिनोति सः, यज्जन्मन एवागच्छति
जरामरणमिति, कुतस्तर्हि ह्यागतं जन्म
किमस्य वा कारणम् ? संसारादस्माज्जाति-
रतएव भव एव कारणमत्र । भवस्तर्हि कुत
आयतः किमस्य वा कारणं ? उपादानादागतो
भवस्तदुपादानमेवास्य कारणम् । कस्मादुपा-
दानमायातन्तर्हि किमस्य वा कारणं ? तृष्णाया
आगतमुपादानमतस्तृष्णैव कारणमस्येति । तर्हि
कुत आयाता तृष्णा कारणं वा किमस्याः ?
वेदनाया आगता तृष्णा अतो वेदनव कारण-
मस्याः । कुत आयाता वेदना, अस्या वा किं
कारणम् ? स्पर्शादायाता वेदना, अतः स्पर्श
एव कारणं वेदनाया इति । स्पर्शस्तर्हि कुत
आयातः किं वा कारणमस्य ? । षडायतना
दागतः स्पर्शस्ततोऽस्य कारणं स एवेति ।
कुत आयातं षडायतनं कारणं वा किमस्य ?
नामरूपाभ्यामागतं षडायतनम् अतएवास्य
कारणमेव तैति । कुतस्तर्ह्यायाते नामरूपे
कारणं वा किमनयोः ? विज्ञानादागते नाम-
रूपेऽतोऽनयोः कारणं विज्ञानमिति । कुत
आयतं विज्ञानन्तर्हि कारणं वा किमस्य ?
संस्कारादागतं विज्ञानमतोऽस्य कारणं स
एवेति । संस्कारस्तर्हि कुत आयातः कारणं
वा किमस्य ? अविद्याया आगतः संस्कार
स्ततोऽस्य कारणमविद्यैवेति ।
स्फुटमिदानीमविद्यैव कारणं जगतोऽखिलस्य ।
ततो विलोमेन प्रकटीभूतं यत् अविद्यायाः
संस्कारः संस्काराद् विज्ञानम्, विज्ञानान्नाम-
रूपे ताभ्यां नामरूपाभ्यां षडायतनम्, षडाय-
तनात् स्पर्शः, स्पर्शाद् वेदना, वेदनायास्तृष्णा
तृष्णाया उपादानम् उपादानात् संसारः
संसाराज्जातिः जातेर्जरामरणमिति ।
प्रकारेणानेनोत्पन्नो दुःखद्रुमो जीवानाम् ।
तदिदानीं प्रतिभातं अविद्यैव मूलमस्य पाद-
पस्य निरस्तायामविद्यायां कुतो दुःखप्रसङ्गः
क्रमेण तस्मात् जन्मजरामरणं दुःखं चिन्ता-
क्लेशः पीडा च सर्व्वे दूरे पलायन्ते । एवं
जीवानामुदेति चित्ताकाशे धर्म्मालोकः ।
उदिते तस्मिन् मनःसंयोगेन ज्ञानं दर्शनं विद्या
स्मृतिर्बुद्धिश्च सर्व्वं प्रत्यक्षीभवति । तत इदानीं
सिद्ध्वार्थो बुद्धः सञ्जातः ।
ततश्चागतोऽत्र म्बकानगर्य्या राजा बुद्धस्य
श्रीपादपद्मसन्दर्शनाय । सोऽस्मै ह्युपदिदेश
“अहिंसा परमो धर्म्मः ।” इत्यतस्त्वमनुतिष्ठ
तद्धर्म्मं निर्व्वाणमोक्षञ्चान्विष्येति ।
ततोऽसौ बुद्धो नैरञ्जननाम्नीं नदीं क्षिरिका-
वनञ्च त्यक्त्वा उज्ज्वलमुपवनं प्रतस्थे । अत्र स
ऊनपञ्चाशद्वासरानुपोषणमङ्गीकृतवान् । तत
स्तस्मात् स्थानान्निर्गत्य गयां नाहालं बुन्दद्विरं
लोहितवस्तुकं गन्धपुरं सारथिपुरञ्च क्रमेण
गत्वा त्यक्त्वा च काशिकामुपतस्थे, अत्रास्य
कौण्डिन्यः सिद्धः शिष्योऽभूत् बुद्धस्तं नाम्ना
ज्ञानकौण्डिन्यं चकार । कालेऽस्मिन् बहु-
संख्यका लोका आगत्यागत्य बुद्धस्य शिष्या
अभवन् ।
ततः काशीघाम्नः स ऊरुविल्वास्थितं सेनानी-
नामकं ग्रामं प्रययौ तत्र नैरञ्जनतीरे नाम्ना
उरुविल्वाकाश्यपः शताधिकविंशतिवयाः पञ्च-
शतशिष्यैरनुगतः प्रतिवसति स्म । लोका जान-
न्त्यमुमहन्निति । बुद्धो गत्वास्य समीपं प्रदा-
यास्मै ज्ञानोपदेशं विमलं शिष्यं तं चकार ।
दृष्ट्वा शक्तिमलौलिकीं बहवो लोका विस्मिता
धर्म्मं बौद्धं गृहीतवन्तः ।
तदा विम्बसारो मगधराजः शुश्राव गयशीर्षं
बुद्धदेवः प्राप्त इति । गत्वा समीपं प्रपूज्य च
परमया भक्त्यास्य शिष्यत्वं स्वीचकार । ततो
मागधो स्वीयां नगरीं गन्तुं निमन्त्रयामास
तम् । जग्राहास्य प्रणयं बुद्धः । शारीपुत्त्रोऽत्र
मौद्गलायनोऽस्य शिष्योऽभवत् ।
श्रुतवान् कोशलपतिः प्रसेनजित् बुद्धो देवो
राजगृहे जेतवने प्रतिषसत्यधुनेति । गत्वा च
तत्र त्वरितं बुद्धसन्निधिमुवाच, पूर्णकाश्यपः
परिव्राजकगोशालः वैरापुत्त्रसञ्जयः अजितकेशः
पृष्ठ ३/४३४
कम्बल इत्यते अन्ये च बहवो बुद्धर्षयस्तिष्ठन्ति,
न ते लोके कदापि बुद्धनाम्ना परिचाययितुं
शेकुस्तर्हि भवान् किं न लज्जते अहं बुद्ध
इत्यात्मानं परिचाययितुम् । बुद्धस्तम् ‘कुमार-
दृष्टान्तसूत्रं, श्रावयामास तेनोन्मीलितचक्षुः
शिष्योऽभूत्तस्य ततः प्रसेनजित् कोशलराजः ।
दीक्षिते राज्ञि कोशलेश्वरे बुद्धः शुद्धोदनाय
संवादं प्रेषयामास “राजन् ! पुत्त्रस्ते पपावि-
दानीं मृत्युनिवारणममृतम् । तेनैव सोऽखिलस्य
जगतस्तृष्णां पापीयसीं वारयामास, शुद्धोदनः
शाक्यपतिराकर्ण्य वृत्तान्तं परां मुदमवाप ।
आनेतुं पुत्त्रं कपिलवस्तुनगर्य्यामस्मै दूतं पुनः
पुनः प्रेषितवान् यो यः प्रयाति दूतोऽस्य
सकाशं न स पुनः प्रतिनिवृत्तः स्थितोऽस्य
दोक्षितस्तत्रैव । शुद्धोदनः साधुं कालुदायीति-
नामानं पत्रेण सह प्रेषितवान् । उदायी
प्राग्गमनादङ्गीचकार यदि चाहं दीक्षितोऽप्य-
भविष्यम् वारमेकमपि प्रतिन्यवर्त्तिष्ये । उदायी
बुद्धस्य समीपं गत्वैव दीक्षितः । बुद्धस्तं प्रतिज्ञा-
परिपूरणाय शुद्धोदनस्यान्तिकं प्रेषयामास ।
उदायी गत्वाह राजानं भो भूप ! देवो बुद्धो
ऽत्राजिगमिषुर्नत्ववस्थातुमिच्छुर्नगर्य्याम् विहारे-
ऽवस्थातुमियेष सः । राजा जेतवनस्थमिव
न्यग्रोधारामं कपिलवस्तुनगरे विरचय्यागमन-
मस्य प्रतीक्षाञ्चक्रे । तत्रागत्य बुद्ध्वो न्यग्रोधारामे
तस्मिन्नुवास । अत्रागत्य पितृव्यौ शुद्धोदनोऽमृ-
तोदनश्चास्य लक्षं लक्षं शाक्यसन्ततयश्च शिष्या
अभूवन् । तत्रावस्थानसमये बुद्धस्य पालयित्री
गौतमी वनिता यशोधरा च भैक्षाश्रमं गृहीत-
वत्यौ पुत्त्रोऽपि राहुलोऽजातकनिष्ठो जनकेन
दीक्षितः ।
ततो बुद्धो गृध्रकूटमागत्य वसतिञ्चक्रे । समये-
ऽस्मिन् देवदत्तोऽस्य ज्ञातिजः शत्रुः शिल्पिनं
दाक्षिणात्यादानिनाय । तेन च निहन्तुं बुद्धं
कूटयन्त्रं निरमायि । अनेनाहतो बुद्धो व्यथां
प्राप निक्षेपणावसरे यन्त्रस्य तं बुद्धं रिरक्षिषुः
कुम्भीरस्तत्प्रहारेण प्राणांस्त्यत्याज ।
कालेऽस्मिन् विम्बसारे मागधे पञ्चत्वं गते
अजातशत्रुर्लुब्धो दुर्द्दान्तो मगधं शशास, देव-
दत्तोऽस्य मित्रमासीत् । एकदाजातशत्रुर्बुद्ध-
सन्निधावागत्य पप्रच्छ तं “नानाकर्म्मसु व्यासक्तो
मनुष्यो धनमभीष्टमुपार्ज्जयितुं यतते, प्राप्य
तु वाञ्छितं धनं सुखी च भवति, धर्म्मे तथा तु
निधाय मनस्तद्रूपं मुखं प्रत्यक्षमाप्नुयात् किम् ?
बुद्धः प्रत्युवाच किं कर्म्मणा यागेन होमेन वा ।
न्यायान्यायौ विफलौ अधमानामुत्तमानाञ्च
तिरस्कारपुरस्कारौ च तद्बन् निष्फलौ । पितरौ
नात्मीयौ च योऽस्मिन् जगति प्राप्तवान् महा-
सत्यम्, सत्ये पथि प्रविष्टवांश्च जानाति स एव
जन्मैव मृत्युरिति । सोऽस्मिन् जन्मन्येवाक्षयो-
ऽव्ययो निर्व्वाणं मोक्षं लभते न पुनरायाति सः ।
पृथिव्यादिभूतचतुष्टयेऽस्य यथाक्रमं भूतान्ये-
कीभवन्ति । इत्थमुपदेशेन बुद्धस्य अजातशत्रो-
र्मानसं तत् क्षणादेव प्रवणं बभूव । योऽस्य
जुगुप्सापात्रमासीत् स इदानीं भक्तिपात्रमस्या-
भूत् । अजातशत्रुर्बुद्धाद् दीक्षां जग्राह ।
गृध्रकूटाद्बुद्धः पाटलीग्राममाजगाम । कपि-
लनामात्र साधुर्बाह्मणोऽनेन व्यलोकि । सम्भाष्य
तं पथि गच्छन्नसौ चतुर्द्दिशं निरीक्षाञ्चक्रे,
आनन्दोऽस्य परिचरो जिज्ञासयामास किमित्थं
निरीक्षसे व्यापारयंश्चक्षुषीति । बुद्ध आह
आनन्द ! परिहास्येऽहमिमं लोकमिदानीम् ।
ततः स आम्रग्रामं जम्बुग्रामं भण्डग्रामं हस्ति-
ग्रामम् अन्यांश्च वृजिनां मल्लानाञ्च ग्रामा-
नतिक्रम्य भोजनगरं प्राप्तः । स्थानादस्माज्ज-
लुकाख्यमहावनमागत्यावस्थितः । अत्र कुण्ड-
नाम्नो धातुगालकाद् बणिग्विशेषादाहार्य्यं
गृहीतवान् ।
ततोऽसावानन्दं सम्बोघयामास भो नगरीं कुशीं
गन्तास्मि । अतःपरं तथागतो नगरीं पावा-
मतिक्रम्य नदीं हिरण्वतीं तीर्त्वा निविडं वनमेकं
प्राप्तः । अत्रानन्दं प्राह पार्श्वयोरहन्तीव्रवेदनया
समाक्रान्तोऽस्मि, अतोऽहमत्रैव तिष्ठामीति ।
आनन्दो जलमानिनाय प्रक्षाल्य पादौ बुद्धो
ध्यानं समाललम्बे । कालेऽस्मिन्नागत्य पुक्कशो
मल्लराजः पादौ बुद्धस्य प्रपूजयामास । बुद्धोऽस्य
दीक्षां चकार । सोऽस्मै दत्तवान् सौवर्णानल-
ङ्कारान् प्रणम्य च प्रस्थितः । गते मल्लराजे
आनन्दं प्राह बुद्धः प्रेयान् मे आनन्द ! त्वं परि-
धापयालङ्कारान् सौवर्णानङ्गेष्विति । तथानु-
ष्ठिते तदानीं देहस्य ज्योतिषास्याखिलं जगद्
व्यालोकितमिवासीत् । भक्तिभरेणानन्दः प्राह
भगवन् ! न दृष्टं कदापि मयात्रभवतामेतादृश-
मौज्ज्वल्यं देहस्य । दयस्व तावत् कथय
कारणञ्चात्रेति । चकार प्रत्युत्तरं बुद्धो देवो
निबोध आनन्द ! निर्व्वास्यतः प्रदीपस्य शिखे-
वाङ्गकान्तिर्मे व्युत्क्रान्तेत्यत्र कारणम् ।
अनन्तरमुभौ मिलित्वा हिरण्वत्यास्तीरे आज-
ग्मतुः । बुद्धस्तत्र स्वीयं समस्तं परिच्छदं परि-
हायैकवसनो नद्या हिरण्वत्याः कुश्याश्च
नगर्य्या उभययोर्मध्यदेशस्थं वनं विविक्तं विवेश ।
पथि प्राह चानन्दं क्लान्तस्य मे शय्यां विधत्-
स्वेति । आनन्दः शय्यां सज्जीचकार, सुप्तो-
त्थितो बुद्ध आनन्दाय भिक्षुकाणां कर्त्तव्यं
सूत्रान्तं विनयं मातृकादीनि धर्म्मतत्त्वाम्युप-
दिदेश । आनन्दस्तत्सर्व्वं समाहितेन मनसा
जग्राह । तत आनन्दमादिदेश सालमहि-
रुहयोर्मध्ये शय्यां स्थापय निशीथेऽद्य मे शेषं
विजानीहीति । ततो बुद्धस्तत्रैव समाधिमाधाय
ह्यपार्थिवं ज्योतिरवलोकयामास ततोऽसौ
चिन्तयति स्म निर्व्वाणम् ।
भक्तः परमानन्दो रुरोद गण्डं संप्लाव्यास्य
विगलितश्चाश्रुप्रवाहोऽविरलधारया तमाह
बुद्ध आनन्द ! संसारोऽयमसारः सारो निर्व्वाण-
मेव तदर्थं यतस्वेति । इत्थं परमकृपालुर्बुद्धदेवो
निर्व्वाणं प्राप ।
इत्थं स हरेरवतारः --
“विकीर्य्य विज्ञानमयीं प्रभां प्रभु-
र्जगत्प्रदीपः प्रथितः प्रभाकरः ।
बुद्धः स राशिर्महसां महोज्ज्वलो
ज्वलंश्च निर्व्वाणपदं परं गतः ॥
प्रक्षाल्य त्रैलोक्यमलं मलीमसं
प्रवृद्धहिंसारसदूषितं विभुः ।
प्रबोधधाराधरभूरिवारिभी
रराज देवो भुवि बोधभास्करः ॥”
कुशीनगरस्थिते मुकुटबन्धनचैत्येऽस्य शिष्याः
देहं भस्मीभूतं चक्रुः । शिष्यव्यूहेनास्य पवित्र-
देहभस्मावशेषार्थं विवदमानेन निरणा
भस्मभिरेभिरष्टप्रदेशेव्वष्टौ चैत्या निर्म्मिता
भवन्त्विति ॥)

बुद्धद्रव्यं, क्ली, (बुद्धं स्तृपाकारतो ज्ञातं द्रव्यम् ।)

स्तौपिकम् । लोत् इति भाषा । इति त्रिकाण्ड-
शेषः ॥

बुद्धिः, स्त्री, (बुध्यतेऽनयेति । बुध् + क्तिन् ।)

निश्चयात्मिकान्तःकरणवृत्तिः । इति वेदान्त-
सारः ॥ सविकल्पकज्ञानम् । इति चण्डी-
टीकायां नागभट्टः ॥ तत्पर्य्यायः । मनीषा २
धिषणा ३ धीः ४ प्रज्ञा ५ शेमुषी ६ मतिः ७
प्रेक्षा ८ उपलब्धिः ९ चित् १० सम्बित् ११
प्रतिपत् १२ ज्ञप्तिः १३ चेतना १४ । इत्यमरः ।
१ । ५ । १ ॥ धारणा १५ प्रतिपत्तिः १६ मेधा
१७ मननम् १८ मनः १९ ज्ञानम् २० बोधः
२१ हृल्लेखः २२ संख्या २३ प्रतिभा २४ । इति
राजनिर्घण्टः ॥ आत्मजा २५ पण्डा २६ विज्ञा-
नम् २७ । इति शब्दरत्नावली ॥ * ॥ अस्याः
स्वरूपं यथा, --
“बुद्धिर्विवेचनारूपा सा ज्ञानजननी श्रुतौ ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
अस्या अध्यात्माधिभूताधिदैवतानि यथा, --
“अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी ।
अधिभूतञ्च मन्तव्यं ब्रह्मा तत्राधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥ * ॥
सा च सात्त्विकराजसतामसभेदेन त्रिविधा ।
सात्त्विकी यथा, --
“प्रवृत्तिञ्च निवृत्तिञ्च कार्य्याकार्य्ये भयाभये ।
बन्धं मोक्षञ्च या वेत्ति बुद्धिः सा पार्थ !
सात्त्विकी ॥”
राजसी यथा, --
“यथा धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ !
राजसी ॥”
तामसी यथा, --
“अधर्म्मं धर्म्ममिति या मन्यते तमसावृता ।
सर्व्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ !
तामसी ॥”
इति श्रीभगवद्गीता ॥
पृष्ठ ३/४३५
तस्याः पञ्च गुणा यथा, --
“इष्टानिष्टविपत्तिश्च व्यवसायः समाधिता ।
संशयः प्रतिपत्तिश्च बुद्धेः पञ्च गुणान् विदुः ॥”
इति महाभारते मोक्षधर्म्मः ।
इष्टानिष्टविपत्तिः इष्टानिष्टानां वृत्तिविशेषाणां
विपत्तिर्नाशः निद्रारूपा वृत्तिरित्यर्थः । व्यव-
सायः उत्साहः । समाधिता चित्तस्थैर्य्यं
चित्तवृत्तिनिरोध इत्यर्थः । संशयः कोटिद्बयस्पृक्
ज्ञानम् । प्रतिपत्तिः प्रत्यक्षादिप्रमाणवृत्तिः ।
इति तट्टीका ॥ * ॥ तस्याः सप्त गुणा यथा --
“शुश्रूषा श्रवणञ्चैव ग्रहणं धारणन्तथा ।
ऊहोपोहोऽर्थविज्ञानं तत्त्वज्ञानञ्च धीगुणाः ॥”
इति हेमचन्द्रः ॥ * ॥
तस्या वृत्तिः पञ्चधा यथा । प्रमाणम् १ विप-
र्य्ययः २ विकल्पः ३ निद्रा ४ स्मृतिः ५ । इति
पातञ्जलम् ॥ * ॥ बुद्धिक्षयकरा यथा, --
“शोकः क्रोधश्च लोभश्च कामो मोहः परासुता ।
ईर्ष्या मानो विचिकित्सा कृपासूया जुगुप्सता ॥
द्वादशैते बुद्धिनाशहेतवो मानसा मलाः ।”
इति कालिकापुराणे १८ अध्यायः ॥ * ॥
अपि च ।
“बुद्धिक्षयकरा एते माषकासवमृत्तिकाः ॥”
बुद्धिबृद्धिकरा यथा, --
“निम्बाटरूषवृन्ताश्च बुद्धिवृद्धिकरा मताः ॥
बुद्धिक्षयकरान्नित्यं त्यजेद्राजा च भोजने ।
भोजयेदन्वहं बुद्धिबृद्धिहेतुं नृपोत्तम ! ॥”
इति कालिकापुराणे ८९ अध्यायः ॥ * ॥
न्यायमते सा विभुगुणः पुनर्द्विविधा अनुभूतिः
स्मृतिश्च । यथा, --
“विभुर्बुद्ध्यादिगुणवान् बुद्धिस्तु द्विविधा मता ।
अनुभूतिः स्मृतिश्च स्यादनुभूतिश्चतुर्विधा ॥
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे ।”
इति भाषापरिच्छेदः ॥

बुद्धिमान्, [त्] त्रि, (बुद्धिर्विद्यते यस्य । बुद्धि +

मतुप् ।) बुद्धियुक्तः । ज्ञानवान् । यथा, --
“तद्भुज्यते यद्द्विजभुक्तशेषं
स बुद्धिमान् यो न करोति पापम् ॥”
इति गारुडे १५५ अध्यायः ॥

बुद्धिसहायः, पुं, (बुद्धौ बुद्ध्या कृते कार्य्ये इति

भावः । सहायः ।) मन्त्री । इति हलायुधः ॥
मत्याः साहाय्यकर्त्ता च ॥

बुद्धीन्द्रियं, क्ली, (बुद्धेर्बुद्ध्यात्मकं वा इन्द्रियम् ।)

ज्ञानेन्द्रियम् । यथा, --
“मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके ।
बुद्धीन्द्रियमिति प्राहुः शब्दकोशविचक्षणाः ॥”
इति शब्दरत्नावली ॥
(यथा मनुः । २ । ९०-९२ ।
“श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव
पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्ब्बशः ।
कर्म्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥”

बुद्बुदः, पुं, वर्त्तुलाकारजलविकारः । जलविम्बुकी

इति भुड्भुडि इति च ख्यातः । बुद्बुदोऽम्बु-
ष्फोट इत्यरुणः । इत्यमरभरतौ ॥ अन्यच्च ।
“अब्भ्रच्छाया तृणादग्निर्नीचसेवा पथे जलम् ।
वेश्यारागः खले प्रीतिः षडेते बुद्बुदोपमाः ॥”
इति गारुडे १५ अध्यायः ॥
गर्भस्थावयवविशेषः । यथा, --
“पञ्चरात्रेण कलनं बुद्बुदाकारतां व्रजेत् ॥”
इति सुखबोधः ॥
(यदुक्तं यथा, --
“प्रथमेऽहनि रेतश्च संयोगात् कललञ्च यत् ।
जायतेबुद्बुदाकारं शोणितञ्च दशाहनि ॥”
इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥)

बुध, इर् ज ञ वेदने । इति कविकल्पद्रुमः ॥

(भ्वा०-उभ०-सक०-सेट् । ज्वलादिरयम् ।) इर्
अबुधत् अबोधीत् । ज बोधः बुधः । ञ बोधति
बोधते । इति दुर्गादासः ॥

बुध, औ विज्ञापने । इति कविकल्पद्रुमः । (भ्वा०-

पर०-सक०-अनिट् ।) औ बोद्ध्वा । बोधति
गुरुः । इति दुर्गादासः ॥

बुध, य ङ औ वेदने । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-सक०-अनिट् ।) य ङ बुध्यते
शास्त्रं सुधीः । औ बोद्धा । इति दुर्गादासः ॥
(जागरार्थे अकर्म्मकोऽपि । यथा, रघौ । १० । ६ ।
“ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ॥”
“आदिपुरुषो विष्णुश्च बुबुधे योगनिद्रां जहौ
इत्यर्थः ॥” इति तट्टीका ॥)

बुधः, पुं, (बुध्यते यः । “बुध् + इगुपधज्ञाप्रीकिरः

कः ।” ३ । १ । १३५ । इति कः ।) पण्डितः ।
तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४
सन् ५ सुधीः ६ कोविदः ७ धीरः ८ मनीषी ९
ज्ञः १० प्राज्ञः ११ संख्यावान् १२ पण्डितः १३
कविः १४ धीमान् १५ सूरिः १६ कृती १७
कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूर-
दर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ ।
५ ॥ विदग्धः २३ दूरदृक् २४ सूरी २५ वेदी
२६ वृद्धः २७ बुद्धः २८ विधानगः २९ प्रज्ञिलः
३० । इति शब्दरत्नावली ॥ व्यक्तः ३१ प्राप्त-
रूपः ३२ सुरूपः ३३ अभिरूपः ३४ बुधानः ३५
कवितावेदी ३६ वप्ता ३७ विदितः ३८ कविः
२९ । इति जटाधरः ॥ (यथा, नवरत्ने । १ ।
“अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि-
र्बुधं
विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्या-
द्वशम् ॥”)
नवग्रहान्तर्गतचतुथग्रहः । स च बृहस्पति-
भार्य्यातारागर्भे चन्द्राज्जातः । तत्पर्य्यायः ।
रौहिणेयः २ सौम्यः ३ । इत्यमरः । १ । ३ । २६ ।
हेमा ४ वित् ५ ज्ञः ६ बोधनः ७ इन्दुपुत्त्रः ८ ।
इति ज्योतिस्तत्त्वम् ॥ * ॥ तस्य जन्मादि-
वृत्तान्तं यथा । “मदावलेपाच्च सकलदेवगुरो-
र्बृहस्पतेस्तारां नाम पत्नीं जहार । बहुशस्तु
बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानः
सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच ।
तस्य बृहस्पतिद्बेषादुशना पार्ष्णिग्राहोऽभूत् ।
अङ्गिरसश्च सकाशादुपलब्धविद्यो भगवान्
रुद्रो बृहस्पतेः साहाय्यमकरोत् । यतश्चोशना
ततोहि जम्भकुम्भाद्याः समस्ता एव दैत्यदानव-
निकाया महान्तमुद्यमञ्चक्रुः । बृहस्पतेरपि
सकलदेवसैन्यसहायः शक्रोऽभवत् । एवं तयो
रतीवोग्रः संग्रामस्तारानिमित्तस्तारकामय-
नामाभवत् । ततश्च समस्तशस्त्राण्यसुरेषु रुद्र-
पुरोगमा देवाः देवेषु चाशेषदानवा मुमुचुः ।
एवञ्च देवासुराहवक्षोभक्षुब्धहृदयमशेषमेव
जगद् ब्रह्माणं शरणं जगाम । ततश्च भगवान-
प्युशनसं शङ्करमसुरान् देवांश्च निवार्य्य बृह-
स्पतये तारामदात् । ताञ्चान्तःप्रसवामवलोक्य
बृहस्पतिराह । नैष मम क्षेत्रे भवत्यान्यसुतो
धार्य्यत उत्सृजैनं अलमलमतिधार्ष्ट्येनेति ।
सा च तेनैवमुक्ता पतिव्रता भर्त्तृवचनात्तमिषी-
कास्तम्बे गर्भमुत्सर्ज । स चोत्सृष्टमात्र एवाति-
तेजसा देवानां तेजांस्याचिक्षेप । बृहस्पति-
मिन्दुञ्च तस्य कुमारस्यातिचारुतया साभि-
लाषौ दृष्ट्वा देवाः समुत्पन्नसन्देहास्तारां
पप्रच्छुः । सत्यं कथयास्माकमतिसुभगे ! कस्या-
यमात्मजः सोमस्याथ बृहस्पतेरित्युक्तापि सा
तारा ह्निया न किञ्चिदुवाच । बहुशोऽप्य-
भिहिता यदासौ देवेभ्यो नाचचक्षे ततः स
कुमारस्तां शप्तुमुद्यतः प्राह च । दुष्टाम्ब !
कस्मान्मम तातं नाख्यासि । अद्यैव ते अलीक-
लज्जावत्यास्तथा शास्तिमयमहं करोमि ।
यथा नैवमन्याप्यतिमन्थरवचना भविष्यतीति ।
अथ भगवान् पितामहस्तं कुमारं सन्निवार्य्य
स्वयमपृच्छत्ताराम् । कथय वत्से ! कस्याय-
मात्मजः सोमस्याथ बृहस्पतेरित्येवमुक्ता लज्जा-
जडमाह सोमस्येति । ततः स्फुरदुच्छ्वसिता-
मलकपोलकान्तिर्भगवानुडुपतिरालिङ्ग्य कुमारं
साधु साधु वत्स ! प्राज्ञोऽसीति बुध इति नाम
चक्रे । इति विष्णुपुराणे ४ अंशे ६ अध्यायः ॥
मत्स्यपुराणे चतुर्व्विंशाध्याये विशेषश्चायम् ।
सूत उवाच ।
“ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः ।
दिव्यपीताम्बरधरः पीताभरणभूषितः ॥
सर्व्वास्त्रशास्त्रविद्बिद्वान् हस्तिशास्त्रप्रवर्त्तकः ।
राज्ञः सोमस्य पुत्त्रत्वाद्राजपुत्त्रो बुधः स्मृतः ॥
जातमात्रः स तेजांसि सर्व्वाण्येवाक्षिपद्बली ।
ब्रह्माद्यास्तत्र ते जग्मुर्देवा देवर्षिभिः सह ॥
बृहस्पतिगृहे सर्व्वं जातकर्म्मोत्सवं तदा ।
पप्रच्छुश्च सुरास्तारां केन जातः कुमारकः ॥
ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा ।
पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना ॥
सोमस्येति चिरादाह ततोऽगृह्णाद्बिधुः सुतम् ।
पृष्ठ ३/४३६
बुध इत्यकरोन्नाम प्रादाद्राज्यञ्च भूतले ॥
अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः ।
ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥
पश्यतां सर्व्वभूतानां तत्रैवान्तरधीयत ।
इलोदरे च धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् ॥”
अन्यत् सर्व्वमाख्यानमेकमेव ॥ * ॥ अस्य वर्णः
दूर्व्वाश्यामः । स च उत्तरदिङ्नपुंसकशूद्र-
जात्यथर्व्ववेदरजोगुणमिश्रितरसमिथुनराशिम-
रकतमणिमगधदेशानामधिपतिः । अस्य मित्रं
आदित्यः शुक्रश्च । अस्य शत्रुः शशी । अस्य
राशिभोगः अष्टादश दिनानि । इति ज्योति-
स्तत्त्वम् ॥ * ॥ स तु मगधदेशोद्भवः । अत्रि-
वंशजातः । द्व्यङ्गुलदीर्घः । पीतवर्णः । वैश्य-
जातिः । चतुर्भुजः । वामोर्द्ध्वक्रमतश्चर्म्मवर-
खड्गगदाधारी । सूर्य्यास्यः । सिंहवाहनः ।
सौम्यः । पीतवस्त्रः । अस्याधिदेवता नारायणः ।
प्रत्यधिदेवता विष्णुः । धनिष्ठानक्षत्रयुक्तद्वादश्यां
जातः । इति ग्रहयज्ञतत्त्वम् ॥ * ॥ स च ग्राम-
चारी । शुभग्रहः । नीलवर्णः । सुवर्णद्रव्य-
स्वामी । वर्त्तुलाकृतिः । शिशुः । इष्टकागृह-
सञ्चारी । वातपित्तकफात्मकः । स्त्रीग्रहः ।
प्रातःकाले प्रबलः । पक्षिस्वामी । सकलरस-
प्रियश्च । इति ज्योतिषम् । अस्य वारे जात-
फलं यथा, --
“गुणी गुणज्ञः कुशलः क्रियादौ
विलासशाली मतिमान् विनीतः ।
मृदुस्वभावः कमनीयमूर्त्ति-
र्बुधस्य वारे प्रभवो मनुष्यः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
सूर्य्यवंशीयराजविशेषः । यथा, --
“तस्मात् कृतिरथस्तस्य देवामीढस्ततो बुधः ।
बुधाच्च विबुधश्चैव तस्मान्महाधृतिस्ततः ॥”
इत्यग्निपुराणम् ॥
(वेगवतो राज्ञः पुत्त्रः । यथा, भागवते । ९ ।
२ । ३० ।
“तत्सुतः केवलस्तस्मात् बन्धुमान् वेगवांस्ततः ।
बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥”)

बुधचक्रं क्ली (बुधस्य ग्रहविशेषस्य चक्रम् ।)

बधग्रहस्य स्वसञ्चारादष्टादशदिनोत्तरराश्य-
न्तरसञ्चारनक्षत्रावधिसप्तविंशतिनक्षत्रघटित-
नरशुभाशुभज्ञानार्थनराकारचक्रम् । यथा, --
“भोगो मुखैकमथ मूर्द्ध्नि चतुर्षु रोगः
षट्पाणिभे सुखहतं सुखदं श्रुतेऽत्र ।
दुःखं पदाब्धिसुयशो हृदि सप्तराज्यं
नाभीन्दुभे द्बिभगलेति धनं बुधस्य ॥”
इति समयामृतम् ॥

बुधतातः, पुं, (बुधस्य ग्रहविशेषस्य तातः पिता ।)

चन्द्रः । इति शब्दचन्द्रिका ॥

बुधरत्नं, क्ली, (बुधप्रियं रत्नम् । शाकपार्थिवा-

दित्वात् समासः ।) मरकतमणिः । इति राज-
निर्घण्टः ॥

बुधवारः, पुं, (बुधस्य वारः ।) बुधग्रहस्य वासरः ।

यथा, --
“यैः कृता श्रावणे मासि अष्टमी रोहिणी-
युता ।
किं पुनर्बुधवारेण सोमेनापि विशेषतः ॥”
इति तिथ्यादितत्त्वम् ॥
(अस्मिन् जातफलं यथा, कोष्ठीप्रदीपे ।
“गुणी गुणज्ञः कुशलः क्रियादौ-
विलासशीलो मतिमान् विनीतः ।
मृदुस्वभावः कमनीयमूर्त्ति-
र्बुधस्य वारे प्रभवो मनुष्यः ॥)

बुधसानुः, पुं, पर्णम् । यज्ञपुरुषः । इति संक्षिप्त-

सारोणादिवृत्तिः ॥

बुधसुतः, पुं, (बुधस्य सुतः पुत्त्रः ।) पुरूरवाः ।

इति पुराणम् ॥ (यदुक्तं हरिवंशे । २६ । १ ।
“बुधस्य तु महाराज ! विद्वान् पुत्रः पुरूरवाः ।
तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥”
अयं हि इलागर्भसंभूतः ॥ बुधस्य बुद्धदेवस्य
सुतः पुत्त्र इति विग्रहे । बुद्धपुत्त्रो राहुलः । स
तु यशोधराया गर्भसम्भूतः ।)

बुधा, स्त्री, (बोधयति रोगिणं या । बुध् + “इगु-

पधेति ।” ३ । १ । १३५ । इति कस्ततष्टाप् ।)
जटामांसी । इति शब्दचन्द्रिका ॥ (गुणादिक-
मस्या जटामांसीशब्दे ज्ञातव्यम् ॥)

बुधानः, पुं, (बोधयति बुध्यते वा । बुध बोधने +

युधिबुधिदृशः किच्च ।” उणा० २ । ९० । इति
आनच् किच्च ।) गुरुः । विज्ञः । इति मेदिनी ।
ने, २९ ॥ ब्रह्मवादी । प्रियवादी । इत्युणादि-
कोषः ॥ कविः । इति जटाधरः ॥

बुधाष्टमी, स्त्री, (बुधवारयुता अष्टमी । शाक-

पार्थिवादित्वात् समासः ।
“अष्टमीबुधवारेण पक्षयोरुभयोर्यदा ।
भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा ॥”
इति वचनादस्यास्तथात्वम् ।)
व्रतविशेषः यथा । बुधाष्टमीव्रतं चैत्रपौषहरि-
शयनादीतरकाले कर्त्तव्यम् । यदाह राज-
मार्त्तण्डः ।
“पतङ्गे मकरे याते देवे जाग्रति माधवे ।
बुधाष्टमीं प्रकुर्व्वीत वर्जयित्वा तु चैत्रकम् ॥
प्रसुप्ते च जगन्नाथे सन्ध्याकाले मधौ तथा ।
बुधाष्टमीं न कुर्व्वीत कृता हन्ति पुराकृतम् ॥”
एतद्व्रतमारब्धमपि चैत्रादौ न कर्त्तव्यमिति ।
यथा स्मृतिः ।
“मीने धनुषि देवेशे सुप्तेऽशुद्धदिने तथा ।
बुधाष्टमीं न कुर्व्वीत पूर्ब्बविद्धामपि क्वचित् ॥”
इति व्रतकालविवेकः ॥ * ॥
अपि च ।
“अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ।
भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा ॥
तस्यां नियमकर्त्तारो न स्युर्दुर्गतिभाजनाः ।
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयम् ॥
भक्तं सद्भक्तिश्रद्धाभ्यां कामनायुक्तमानवः ।
आम्रपत्रपुटे कृत्वा यो भुङ्क्ते कुशवेष्टिते ॥
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवेत् ।
बुघं पञ्चोपचारेण पूजयित्वा जलाशये ॥
शक्तितो दक्षिणां दद्यात् कर्करीं तण्डुलान्विताम् ।
बुं बुधायेति बीजार्णैः स्वार्णे वा कमलादिके ॥
बाणचापधरं श्यामं दले चाङ्गानि मध्यतः ।
बुधाष्टमीकथा पुण्या श्रोतव्या व्रतिभिर्ध्रुवम् ॥ * ॥
पुरे पाटलिपुत्त्राख्ये वीरो नाम द्बिजोत्तमः ।
रम्भा भार्य्या च तस्यासीत् कौशिकः पुत्त्र
उत्तमः ॥
दुहिता विजया नाम घनपालो वृषोऽभवत् ।
गृहीत्वा कौशिकस्तञ्च ग्रीष्मे गङ्गागतोऽरमत् ॥
गोपालकैर्वृषश्चौरैः क्रीडव्यपहृतो बलात् ।
गङ्गातः स च उत्थाय वनं बभ्राम दुःखितः ॥
जलार्थं विजया चागात् भ्रात्रा सार्द्धञ्च साप्य-
गात् ।
पिपासितो मृणालार्थी आगतोऽथ सरोवरम् ।
दिव्यस्त्रीणाञ्च पूजादि दृष्ट्वा चाप्यथ विस्मितः ॥
स च गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः ।
स्त्रियोऽब्रुवन् व्रतं कर्त्तुं दास्यामश्च कुरु व्रतम् ।
पश्वर्थमन्नपानार्थं पूजयामासतुर्बुधम् ।
पुटकद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् ॥
स्त्रियो गता गतौ तौ तु धनपालमपश्यताम् ।
चौरैर्हृतं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् ॥
वीरञ्च दुःखितं नत्वा रात्रौ सुप्त्वा यथासुखम् ।
लग्नञ्च त्वरितं दृष्ट्वा कस्य देया सुता मया ।
यमायेत्यब्रवीद्दुःखात् स चायाद्व्रतसत्-
फलात् ॥
स्वर्गं गतौ च पितरौ व्रतं राज्याय कौशिकः ।
चक्रेऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे ॥
यमोऽपि विजयामाह गृहस्था त्वं पुरान्तरम् ।
नोद्धाटयान्यत्र गते यमे सा न तथाकरोत् ॥
अपश्यन्मातरं स्वां सा यामिकां पाशयातनाम् ।
अथोद्बिग्ना कौशिकाय आचक्षाणा विमुक्ति-
दम् ।
व्रतं चक्रे ततो मुक्ता माता तस्माच्चरद्व्रतम् ॥”
इति गारुडे बुधाष्टभ्यादि १३३ अध्यायः ॥ * ॥
विस्तरस्तु ब्रह्मपुराणोक्तबुधाष्टमीव्रतपद्धतौ
द्रष्टव्यः ॥

बुधितं, त्रि, (बुध्यते स्म । सेट् बुध् + क्त ।)

बुद्धम् । ज्ञातम् । इत्यमरः । ३ । २ । १०८ ॥

बुधिलः, त्रि, (बुध्यते यः । बुध् + किलच् ।)

विद्वान् । इत्युणादिकोषः ॥

बुध्नः, पुं, (बध्नातीति । बन्धबन्धने “बन्धेर्व्रधिबधी

च ।” उणा० ३ । ५ । इति नक् बुधादेशश्च ।)
वृक्षमूलम् । इत्यमरः । २ । ४ । १२ ॥ (मूलदेशः ।
अग्रभागः । यथा, अथर्व्ववेदे । २ । १४ । ४ ।
“गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि-
तिष्ठतु ।”)
शिवः । यथा, --
“निवेश्य बुध्ने चरणं स्मितानना
गुरुं समारोढु मथोपचक्रमुः ।”
इति हरविलासे राजशेस्वरः । इति भरतः ॥
पृष्ठ ३/४३७

बुन्द, इर् ञ उ निशामने । (इति कविकल्प-

द्रुमः । (भ्वा०-उभ०-सक०-सेट् ।) पञ्चमस्वरी ।
इर् अबुन्दीत् । ञ बुन्दति बुन्दते । निशामन-
मालोचनं प्रणिधानमिति यावत् । इति दुर्गा-
दासः ॥ (यथा, भट्टिः । १४ । ७२ ।
“सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः ॥”)

बुन्ध, इर् ञ उ निशामने । इति कविकल्प-

द्रुमः ॥ (भ्वा०-उभ०-सक०-सेट् ।) पञ्चम-
स्वरी । इर् अबुधत् अबुन्धीत् । ञ बुन्धति
बुन्धते । उ बुन्धित्वा बुद्धा । निशामनमालो-
चनं प्रणिधानमिति यावत् । इति दुर्गादासः ॥

बुन्ध, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-सक०-सेट् ।) पञ्चमस्वरी । क बुन्धयति ॥
इति दुर्गादासः ॥

बुबुधानः, पुं, आचार्य्यः । देवः । पण्डितः । इति

संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, ऋग्वेदे ।
७ । ४४ । ३ ।
“दधिक्रावाणं बुबुधानो
अग्निसुपब्रुव उषसं सूर्य्यं गाम् ॥”)

बुभुक्षा, स्त्री, (भोक्तुमिच्छा । भुज धौ भक्षे +

“घातोः कर्म्मणः समानकर्त्तृकादिच्छायां वा ।”
३ । १ । ७ । इति सन् । ततः “अः प्रत्ययात् ।”
३ । ३ । १०२ । इत्यस्ततष्टाप् ।) क्षुधा । इत्य-
मरः । २ । ९ । ५४ ॥ (यथा, रामायणे । २ ।
२८ । १८ ।
“अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः ।
भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥”)

बुभुक्षितः, त्रि, (बुभुक्षा भोजनेच्छा सञ्जातास्य ।

वुभुक्षा + “तदस्य संजातं तारकादिभ्य इतच् ।”
५ । २ । ३६ । इति इतच् ।) क्षुधितः । इत्य-
मरः । ३ । १ । १० ॥ (यथा, मनुः । १० । १०५ ।
“अजीगर्त्तः सुतं हन्तुमुपासर्पद्वुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रती कारमाचरन् ॥”)

बुल, क मज्जने । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) क बोलयति प्रस्तरः पयसि ।
तालव्यवर्गाद्यादिरयमिति केचित् । इति दुर्गा-
दासः ॥

बुलिः, स्त्री, (बुल + इन् किच्च ।) भगम् । इति

हेमचन्द्रः । ३ । २७३ ।

बुषं, क्ली, (बुस्यते उत्सृज्यते यत् । बुस्यिर्

उत्सर्गे + “इगुपघेति ।” ३ । १ । १३५ । इति
कः । पृषोदरादित्वात् षत्वं विभाषया ।) बुसम् ।
तुच्छधान्यम् । आगडा इति भाषा । यथा, --
“उन्मेषमेषतुषतोषझषाभिलाषकुल्माषमाषवुष-
वेषतुषाररोषाः । इति मूर्द्धन्यमध्ये पुरुषोत्तमः ।
इति भरतः ॥

बुस, य इर् हानौ । इति कविकल्पद्रुमः । (दिवा०-

पर०-सक०-सेट् ।) य बुस्यति जलं मेघः त्यज-
तीत्यर्थः । इर् अबुसत् अबोसीत् । अस्मात्
पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

बुसं, क्ली, (बुस्यते तुच्छत्वादुत्सृज्यते इति । बुस्य

इरुत्सर्गे + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ ।
१३५ । इति कः ।) तुच्छधान्यम् । आगडा इति
भाषा । तत्पर्य्यायः । कडङ्गरः २ । इत्य-
मरः । २ । ९ । २२ ॥ बुषम् २ । इति भरतः ॥
बूषम् ४ । इति शब्दरत्नावली ॥ (उदकम् ।
यथा, ऋवेदे । १० । २७ । २४ ।
“आविः स्वः कुणुतेगृहते बुसम् ॥”
“बुसमुदकम् ॥” इति सायनः ॥)

बुस्त क अनादरे । आदरे । इति कविकल्पद्रुमः ॥

(चुरा०-पर०-सक०-सेट् ।) क बुस्तयति खलं
लोकः । बुस्तयति धीरं साधुः । इति दुर्गादासः ॥

बुस्तं, क्ली, (बुस्यते अनाद्रियते यत् । बुस्त क

अनादरे + घञ् । यद्वा बुस्यते त्यज्यते स्म इति ।
बुस्यैर उत्सर्गे कर्म्मणि क्तः ।) मांसपिण्डक-
विशेषः । स्थालीभृष्टमांसम् । पनसादिफलस्या-
सारभामः । इत्यमरभरतौ ॥ भोँता इति ख्यातः ॥

बूक्कं, त्रि, (बुक्कयति शब्दायते इति । बुक्क + अच् ।

पृषोदरादित्वाद्दीर्घः ।) बुक्कम् । हृदयम् ।
इत्यमरटीकायां रमानाथः ॥

बृक्कं, त्रि, (बुक्कयति शब्दायते इति । बुक्क + अच् ।

पृषोदरादित्वादृकारः ।) बुक्कम् । इत्यमर-
टीकायां सारसुन्दरी ॥

बॄ गि वृत्त्याम् । भृत्याम् । इति कविकल्पद्रुमः ॥

(प्यादि, क्र्यादि०-पर०-सक०-सेट् ।) गि बृणोति
बूर्णः बूर्णिः । इति दुर्मादासः ॥

बेकटः, पुं, मत्स्यभेदः । तरुणः । विदूषकः ।

इति शब्दरत्नावली ॥

बोकडी, स्त्री, वस्तान्त्री । इति राजनिर्घण्टः ॥

बोद्धा, त्रि, (बुध्यते यः । बुध् + तृच् ।) बोध-

कर्त्ता । यथा, --
“बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अज्ञानोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥”
इति भर्त्तृहरिः ॥

बोधः, पुं, (बोधनमिति । बुध् + भावे घञ् ।)

ज्ञानम् । इति त्रिकाण्डशेषः ॥ (यथा मार्क-
ण्डेये । २६ । १ ।
“वर्द्धमानं सुतं सा तु राजपत्नी दिने दिने ।
तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥”
अयं हि बुद्धेर्जातः । तथाहि मार्कण्डेये । ५० । २७ ।
“बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥”
ऋषिविशेषः । यथा मार्कण्डेये । ७६ । २८ ॥
“तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा ।
बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥”
सूर्य्यरूपभेदः । यथा, मार्कण्डेये । १०१ । १९ ।
“बोधश्चावगतिश्चैव स्मृतिर्विज्ञानमेव च ।
इत्येतानीह रूपाणि तस्य रूपस्य भास्वतः ॥”
जागरणकालः । चैतन्यम् । यथा, मार्क-
ण्डेये । ८१ । ६७ ।
“प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥”)

बोधकः, पुं, (बोधयतीति । बुध् + णिच् + ण्वुल् ।)

सूचकः । इति शब्दमाला ॥ पुस्तकान्तरे
बाधकोऽपि पाठः । बोधजनके त्रि ॥ (यथा,
स्राहित्यदर्पणे । २ । ४ ।
“वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः ॥”)

बोधकरः, पुं, (करोतीति करः । कृ + ट । बोधस्य

प्रबोधस्य करः ।) निशान्ते बोधकारकः ॥
तत्पर्य्यायः । वैतालिकः २ । इत्यमरः । २ । ८ । ९७ ॥

बोधज्ञः, पुं, (बोधं अभिप्रायं जानातीति । ।

बोध + ज्ञा + क ।) अभिप्रायवेत्ता । श्रीकृष्णः ।
यथा, --
“सर्व्वभावविदां श्रेष्ठो वोधज्ञः कामशास्त्रवित् ।
कामिनीं बोधयामास वासयामास वक्षसि ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५३ अध्यायः ॥

बोधनं, क्ली, (बुध् + णिच् + ल्युट् ।) गन्धदी-

पनम् । इति मेदिनी । ने, ९९ ॥ वेदनम् ।
विज्ञापनम् । इति बुधधात्वर्थदर्शनात् ॥ (उद्दी-
पनम् । यथा माघे । ९ । ३४ ।
“समयेन तेन चिरसुप्तमनो-
भवबोधनं समबोधिषत ॥”
“मनोभवस्य कामस्य बोधनं उद्दीपनं यस्मिन् ।”
इति तट्टिकायां मल्लिनाथः । ज्ञानम् । यथा,
रघौ । ९ । ४९ ।
“परिचयं चललक्ष्यनिपातने
भयरुषोश्च तदिङ्गितवोधनम् ॥”
“तेषां चललक्ष्याणां इङ्गितस्य चेष्टितस्य
भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति ।”
इति तट्टीकायां मल्लिनाथः ॥) दुर्गाया बोधनं
यथा । देवीपुराणे ।
“इषे मास्यसिते पक्षे कन्याराशिगते रवौ ।
नवम्यां बोधयेद्देवीं क्रीडाकौतुकमङ्गलैः ॥”
अत्र कृष्णादित्वादिषे इत्यपि गौणाश्विनपरम् ।
अतएव कालकौमुद्यादिधृतम् । यथा, --
“कर्किण्यर्के हरौ सुप्ते शक्रध्वजक्रियाश्विने ।
तुलायां बोधयेद्देवीं वृश्चिके तु जनार्द्दनम् ॥”
इति ॥
बोधयेदिति शेषः । तत्रापि नवमीबोधनं
कन्यायामेव तथैव सम्भवात् तेन सिंहार्के
तुलार्केऽप्याश्विनत्वेन वाक्यरचनां । एवं प्रति-
वर्षं कर्त्तव्यत्वादार्द्रादिनक्षत्रालाभेऽपि बोध-
नादिकार्य्यम् । नक्षत्रयोगस्तु फलातिशयाय ।
तथा च लिङ्गपुराणम् ।
“मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् ।
तथा तिथ्यन्तरेष्वेवमृक्षेषु च फलोच्चयः ॥”
यथाह देवलः ।
“तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् ।
योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्म्मणि ॥”
कृष्णनवम्यामार्द्रायोगो विधौ मन्त्रे च श्रूयते ।
तथा च लिङ्गपुराणम् ।
“कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा ।
नवम्यां बोधयेद्देवीं महाविभवविस्तरैः ॥”
चतुर्थपादे गीतवादित्रनिः स्वनैरिति कालिका-
पुराणे पाठः ।
“इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः ।
पृष्ठ ३/४३८
श्रीवृक्षे बोधयामि त्वां यावत् पूजां करोम्यहम् ॥
ऐं रावणस्य वधार्थाय रामस्यानुग्रहाय च ।
अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा ॥”
इति मन्त्रलिङ्गम् ॥
अकाल इति तु रात्रित्वेन दक्षिणायनस्य ।
तथाच श्रुतिः । तपस्तपस्यौ शैशिरावृतुः मधुश्च
माधवश्च वासन्तिकावृतुः शुक्रश्च शुचिश्च
ग्रैप्मावृतुः । अथैतदुत्तरायणं देवानां दिनं
नभाश्च नभस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्च
शारदावृतुः सहाश्च सहस्यश्च हैमन्तिकावृतुः ।
अथैतद्दक्षिणायनं देवानां रात्रिरिति । एवञ्च ।
रात्रावेव महामाया ब्रह्मणा बोधिता पुरा ।
तथैव च नराः कुर्य्युः प्रतिसम्बत्सरं नृपेत्येत-
द्बिषयम् ॥ अतएव लिङ्गपुराणकालिकापुरा-
णयोर्द्दिवेत्युक्तम् । एवञ्च कालिकापुराणे बोधने
रात्रावितिपदं देवतारात्रिपरम् । ततश्च पूर्ब्बाह्णे
नवम्यामार्द्रायुक्तायां बोधनं पूर्ब्बाह्णेतरकाल
एव आर्द्रालाभे दिवेत्यत्र दिवापदात्तत्रापि
बोधनं अन्यथा दिवापदं व्यर्थं स्यात् । ज्योतिषा-
र्णवे व्यक्तमुक्तं वराहेण ।
“कन्यादिमीनपर्य्यन्तं यत्र संप्राप्यते शिवः ।
तत्र बोधः प्रकर्त्तव्यो देव्या राज्ञां शुभप्रदः ॥”
शिव आर्द्रा । एवञ्चोभयदिने पूर्ब्बाह्णे नवमी-
लाभे परत्रार्द्रालाभे परत्र बोधनं न तु युग्मात्
पूर्ब्बत्र । युग्मबाधकपूर्ब्बाह्णस्य बाधकनक्षत्रानु-
रोधात् दिवा नक्षत्रालाभे तु पूर्ब्बाह्ण एव
नवम्यां उभयत्र पूर्ब्बाह्णलाभे पूर्ब्बदिन एव
युग्मात् । अत्र केवलनवम्यां बोधनविधेर्नक्षत्र-
स्यापि गुणफलत्वाच्च ।
“माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी ।
माकरीति च यत्प्रोक्तं तत्प्रायोवृत्तिदर्शनात् ॥”
इति ॥
सौरागमात् माकर्य्यादिवत् आर्द्रायोग इत्यस्य
प्रायिकत्वेनाभिधानं प्रतीयते । ततश्चार्द्रारहित-
बोधने मन्त्रान्तरानुपदेशात् तन्मन्त्रः प्रणव-
युक्तत्वेन प्रयुज्यते ।
“यन्नयूनञ्चातिरिक्तञ्च यच्छिद्रं यदयज्ञियम् ।
यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् ।
तदोङ्कारप्रयुक्तेन सर्व्वञ्चाविफलं भवेत् ॥”
इति योगियाज्ञवल्क्यात् षष्ठ्यां बोधनेऽप्येवम् ॥
नवमीबोधनासामर्थ्ये तु षष्ठ्यां सायं बोधनम् ।
तथा भविष्ये ।
“षष्ठ्यां विल्वतरौ बाधं सायंसन्ध्यासु
कारयेत् ॥”
सन्ध्योक्ता वराहेण ।
“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका
यावत् ॥”
षष्ठ्यां बोधने तु प्रागुक्त ऐं रावणस्य वधार्था-
येति अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयाम्यत
इति पठेत् । यदा तु पूर्ब्बदिने सायं षष्ठीलाभः
परदिने सायं विना षष्ठीलाभः तदा पूर्ब्बेद्यु-
र्बोधनं परदिने सायमामन्त्रणम् । यदा तूभय-
दिने सायं षष्ठ्यलाभस्तदा परेऽहनि पूर्ब्बाह्णे
षष्ठ्यां बोधनम् ।
“बोधयेद्विल्वशाखायां षष्ठ्यां देवीं फलेषु च ।
षष्ठ्यां बोधने तु न क्षत्रानुपदेशान्न तदादरः ॥”
इति तिथ्यादितत्त्वम् ॥

बोधनी, स्त्री, (बुध् + भावे ल्युट् । ङीष् । बोधः ।

(बोध्यतेऽनया । बुध् + णिच् + करणे ल्युट् ।
अनया हि मूर्च्छितो बोध्यते अतोऽस्य तथा-
त्वम् ।) पिप्पली । इति मेदिनी ॥ (बुध्यतेऽस्याम् ।
बुध् + अधिकरणे ल्युट् । स्त्रियां ङीप् । अस्यां
हि योगनिद्राया हरेः प्रबोधनात्तथात्वम् ।)
कार्त्तिकशुक्लैकादशी । सा तु उत्थानैकादशी ।
यथा, --
“शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् ।
सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥”
इति तिथ्यादितत्त्वम् ॥
अपि च ।
“तावद्गर्ज्जन्ति तीर्थानि वाजिमेधादयो मखाः ।
मथुरायां प्रिया विष्णोर्यावन्नायाति बोधनी ॥”
इति हरिभक्तिविलासे पद्मपुराणवचनम् ॥

बोधनीयः, त्रि, (बुध् + कर्म्मणि अनीयर् ।)

बोध्यः । बोधितव्यः । बोधयोग्यः ॥

बोधवासरः, पुं, (बोधस्य भगवतो मायानिद्रायाः

प्रबोधस्य वासरः ।) भगवतः प्रबोधदिनम् ।
उत्थानैकादशी । यथा, --
“जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भुवि ।
वृथा भवति तत् सर्व्वं न कृत्वा बोधवासरम् ॥”
इति हरिभक्तिविलासधृतस्कन्दपुराणवचनम् ॥

बोधानः, पुं, (बुध्यते इति । बुध् + आनच् ।)

गीष्पतिः । विज्ञः । बुधभेदः । इति शब्दरत्ना-
वली ॥

बोधिः, पुं, (बुध + “सर्व्वधातुभ्य इन् ।” ४ । ११७ ।

इति इन् ।) समाधिभेदः । पिप्पलवृक्षः । इति
मेदिनी । धे, ११ ॥ (यथास्य पर्य्यायः ।
“पिप्पलो बोधिरश्वत्थश्चैत्यवृक्षो गजाशनः ॥”
इति वैद्यकरत्नमालायाम् ॥)
बोधः । इति त्रिकाण्डशेषः ॥ ज्ञातरि, त्रि ।
इत्युणादिकोषः ॥

बोधितं, त्रि, (बुध् + णिच् + क्त ।) ज्ञापितम् ।

यथा, --
“रात्रावेव महामाया ब्रह्मणा बोधिता पुरा ॥”
इति तिथ्यादितत्त्वम् ॥

बोधितरुः, पुं, (बोधिरेव तरुः ।) अश्वत्थवृक्षः ।

इति हेमचन्द्रः । ४ । १९७ ॥ (गुणादयोऽस्या-
श्वत्थशब्दे द्रष्टव्याः ॥)

बोधित्रव्यं, त्रि, (बुध + णिच् + तव्य ।) ज्ञापि-

तव्यम् । यथा । बोधितव्योऽयं पूर्ब्बपक्षः । इति
शाङ्करभाष्यम् ॥

बोधिद्रुमः, पुं, (बोधिरेव द्रुमः ।) अश्वत्थवृक्षः ।

इत्यमरः । २ । ४ । २० ॥

बोधिवृक्षः, पुं, (बोधिरेव वृक्षः ।) अश्वत्थवृक्षः ।

इति राजनिर्घण्टः ॥

बोधिसत्त्वं, क्ली, (बोधि बोधवत् सत्त्वम् ।) बुद्ध-

विशेषः । इति हेमचन्द्रः । २ । १४६ ॥ (यथा,
कथासरित्सागरे । २२ । ३५ ।
“दयालुर्बोधिसत्त्वांशः कोऽन्यो जीमूतवाहनात् ।
शक्नुयादर्थिसात् कर्त्तुमपि कल्पद्रुमं कृती ॥”)

बौद्धं, क्ली, (बुद्धेन प्रणीतम् । बुद्ध + अण् ।)

बुद्धकृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्र
कारैः खण्डितं अग्राह्यम् । इति श्रीभागवतम् ।
बौद्धशास्त्रसंस्थापनकर्त्ता बृहस्पतिः । यथा, --
“प्राह वाचस्पतिं देवः पीडितोऽस्मि रजेः सुतैः ।
न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते ! ।
राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ! ॥
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् ।
ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥
गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः ।
जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥
वेदत्रयीपरिम्रष्टांश्चकार धिषणाधिपः ।
वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् ।
जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥”
इति मात्स्ये २४ अध्यायः ॥
(बौद्धदर्शनं यथा, सर्व्वदर्शनसंग्रहे । “अत्र
बौद्धैरभिधीयते यदभ्यध्यायि अविनाभावो
दुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्या-
सविनाभावस्य सुज्ञानत्वात् । तदुक्तम्,
“कार्य्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमो दर्शनान्तरदर्शनात् ॥”
इति ॥
अन्वयव्यतिरेकावविनाभावनिश्चायकावितिपक्षे
साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत्
भूते भविष्यति वर्त्तमाने अनुपलभ्यमानेऽपि
व्यभिचारशङ्काया अनिवारणात् । ननु तथा-
विधस्थले तावकेऽपि मते व्यभिचारशङ्का
दुष्परिहरेति चेत् मैवं वोचः विनापि कारणं
कार्य्यमुत्पद्यतामिमेवंविधायाः शङ्काया व्याघा-
तावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येत
यस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुः
तदुक्तं व्याघातावधिराशङ्केति । तस्मात्तदुत्पत्ति-
निश्चयेन अविनाभावो निश्चीयते तदुत्पत्ति-
निश्चयश्च कार्य्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भ-
पञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः प्रागनुपलम्भः
कारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात्
कारणानुपलम्भादनुपलम्भ इति पञ्चकारण्या
धूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयते
तथा तादात्म्यंनिश्चयेनाप्यविनाभावो निश्चीयते
यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव
जह्यादिति विपक्षे बाधकप्रवृत्तेः अप्रवृत्ते तु
बाधके भूयः सहभावोपलम्भेऽपि व्यभिचार-
शङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च
तादात्म्यनिश्चयो वृक्षोऽयं शिंशपेति सामाना-
धिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत्
सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात्
नाप्यत्यन्तभेदे गवाश्वयोरनुपलम्भात् । तस्मात्
पृष्ठ ३/४३९
कार्य्यात्मानौ कारणमात्मानमनुमापयत इति
सिद्धम् ।
यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात्
तं प्रति ब्रूयात् अनुमानं प्रमाणं न भवतीत्ये-
तावन्मात्रमुच्यते तत्र न किञ्चन साधनमुप-
न्यस्यते उपन्यस्यते वा । न प्रथमः एकाकिनी
प्रतिज्ञा हि प्रतिज्ञातं न साधयेदिति न्यायात् ।
नापि चरमः अनुमानं प्रमाणं न भवतीति
ब्रुवाणेन त्वया अशिरस्कवचनस्योपन्यासे मम
माता बन्ध्येतिवद्व्याघातापातात् । किञ्च प्रमाण-
तदाभासव्यवस्थापनं तत्समानजातीयत्वादिति
वदता भवतैव स्वीकृतं स्वभावानुमानम् । पर-
गता विप्रतिपत्तिस्तु वचनलिङ्गेनेति ब्रुवता
कार्य्यलिङ्गकमनुमानम् अनुपलब्ध्या कञ्चिदर्थं
प्रतिषेधयतानुपलब्धिलिङ्गकमनुमानम् । तथा-
चोक्तं तथागतैः ।
“प्रमाणान्तरसामान्यस्थितिरन्यधियां गतेः ।
प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥”
इति ॥
पराक्रान्तञ्चात्र सूरिभिरिति ग्रन्थभूयस्त्वभया-
दुपरम्यते ।
ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं
कथयन्ति । ते च माध्यमिकयोगाचारसौत्रा-
न्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथा-
क्रमं सर्व्वशून्यत्व-वाह्यशून्यत्व-बाह्यार्थानुमेयत्व-
वाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते । यद्यपि भग-
वान् बुद्ध्व एक एव बोधयिता तथापि बोद्ध-
व्यानां बुद्धिभेदाच्चातुर्विध्यं यथा गतोऽस्तमर्क
इत्युक्ते जारचौरानूचानादयः स्वेष्टानुसारेणा-
भिसरणपरस्वहरणसदाचरणादिसमयं बुध्यन्ते ।
सर्व्वं क्षणिकं क्षणिकं दुःखं दुःखं स्वलक्षणं
स्वलक्षणं शून्यं शून्यमिति भावनाचतुष्टयमुप-
दिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं नीलादिक्षणानां
सत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथा
जलधरपटलं सन्तश्चामी भावा इति । न चाय-
मसिद्धो हेतुः अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य
नीलादिक्षणानां प्रत्यक्षासिद्धत्वात् व्यापक-
व्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमा-
क्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्ध-
त्वाच्च । तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां
व्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्ति
परस्परविरोधे हि न प्रकारान्तरस्थितिः ।
नैकतापि विरुद्धानामुक्तिमात्रविरोधत इति
न्यायेन व्याघातस्योद्भटत्वात् । तौ च क्रमाक्रमौ
स्थायिनः सकाशाद्व्यावर्त्तमानौ अर्थक्रियामपि
व्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्था-
पयत इति सिद्धम् ।
नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति
चेत् तदयुक्तं विकल्पासहत्वात् तथा हि वर्त्त-
मानार्थक्रियाकरणकाले अतीतानागतयोः
किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा ।
आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपा-
योगात् यत् यदा यत्करणसमर्थं तत् तदा तत्-
करोत्येव यथा सामग्री स्वकार्य्यं समर्थश्चायं
भाव इति प्रसङ्गानुमानाच्च । द्वितीयेऽपि
कदापि न कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थ-
क्रियाकारित्वस्य यत् यदा यन्न करोति तत् तदा
तत्रासमर्थं यथा हि शिलाशकलमङ्कुरे न चैष
वर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिष्य माणे
अर्थक्रिये करोतीति तद्विपर्य्ययाच्च । ननु क्रम-
वत्सहकारिलाभात् स्थायिनः अतीतानागतयोः
क्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान्
पृष्टो व्याचष्टां सहकारिणः किं भावस्योप-
कुर्व्वन्ति न वा न चेत् नापेक्षणीयास्ते अकि-
ञ्चित् कुर्व्वतां तेषां तादात्म्यायोगात् । उप-
कारकत्वपक्षे सोऽयमुपकारः किं भावाद्भिद्यते
न वा भेदपक्षे आगन्तुकस्यैव तस्य कारणत्वं
स्यात् न भावस्याक्षणिकस्य आगन्तुकातिशया-
न्वयव्यतिरेकानुविधायित्वात् । कार्य्यस्य । तदु-
क्तम् ।
“वर्षातपाभ्यां किं व्योम्नश्चर्म्मण्यस्ति तयोः
फलम् ।
चर्म्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥”
इति ।
अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करो-
तीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणो
न जह्यात् प्रत्युत पलायमानानपि गले पाशेन
बद्ध्वा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्यानपायात् ।
किञ्च सहकारिजन्योऽतिशयः किमतिशया-
न्तरमारभते न वा उभयथापि प्रागुक्तदूषण-
पाषाणवर्षणप्रसङ्गः । अतिशयान्तरारम्भपक्षे
बहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशये
जनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परा-
पात इत्येकानवस्थाऽऽस्थेया तथाहि सह-
कारिभिः सलिलपवनादिभिः पदार्थसार्थैराधी-
यमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम्
अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् बीज-
ञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते
अन्यथा सर्व्वदोपकारापत्तौ अङ्कुरस्यापि सदो-
दयः प्रसज्येत । तस्मादतिशयार्थमपेक्षमाणैः
सहकारिभिरतिशयान्तरमाधेयं बीजे तस्मिन्न-
प्युपकारे पूर्ब्बन्यायेन सहकारिसापेक्षस्य
बीजस्य जनकत्वे सहकारिसम्पाद्यबीजगताति-
शयानवस्था प्रथमा व्यवस्थिता । अथोपकारः
कार्य्यार्थमपेक्षमाणोऽपि बीजादिनिरपेक्षं कार्य्यं
जनयति तत्सापेक्षो वा । प्रथमे बीजादेरहेतु-
त्वमापतेत् । द्बितीये अपेक्ष्यमाणेन बीजादिना
उपकारे अतिशय आधेयः एवं तत्र तत्रा-
पीति बीजादिजन्यातिशयनिष्ठातिशयपरम्परा-
पात इति द्वितीयानवस्था स्थिरा भवेत् । एव-
मपेक्ष्यमाणेनोपकारेण बीजादौ धर्म्मिण्युप-
कारान्तरमाधेयमित्युपकाराधेयबीजातिशया-
श्रयातिशयपरम्परापात इति तृतीयानवस्था
दुरवस्था स्यात् । अथ भावादभिन्नोऽतिशयः
सहकारिभिराधीयत इत्यभ्युपगम्यते तहि
प्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चा-
तिशयात्मा कुर्व्वद्रूपादिपदवेदनीया जायत इति
फलितं ममापि मनोरथद्रुमेण ।
तस्मादक्षणिकस्यार्थक्रिया दुर्घटा नाप्यक्रमेण
घटते विकल्पासहत्वात् । तथाहि युगपत-
सकलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनु-
वर्त्तते न वा । प्रथमे तत्कालवत् कालान्तरेऽप्रि
तावत् कार्य्यकारणमापतेत् । द्बितीये स्थायि-
त्ववृत्त्याशा मूषिकभक्षितबीजादावङ्कुरादि-
जननप्रार्थनामनुहरेत् । यद् विरुद्धधर्म्माध्यस्तं
तन्नाना यथा शीतोष्णे । विरुद्धधर्म्माध्यस्त-
श्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चाय-
मसिद्धो हेतुः स्थायिनि कालभेदेन सामर्थ्यासा-
मर्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वात्तत्रासामथ्य-
साधकौ प्रसङ्गतद्विपर्य्ययौ प्रागुक्तौ सामर्थ्य-
साधकावभिधीयेते यद्यदा यज्जननासमर्थं
तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम्
असमर्थश्चायं वर्त्तमानार्थक्रियाकरणकाले
अतीतानागतयोरथक्रिययोरिति प्रसङ्गः यद्-
यदा यत् करोति तत्तदा तत्र समर्थं यथा सामग्री
स्वकार्य्ये करोति चायमतीतानागतकाले तत्-
कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययः
विपर्य्ययः । तस्माद्विपक्षे क्रमयौगपद्यव्यावृत्त्या
व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्ग-
तद्विपर्य्ययबलात् ग्रहीतान्वयव्याप्तिकं सत्त्वं
क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम् ।
तदुक्तं ज्ञानश्रिया ।
“यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्च
भावा अमी
सत्ताशक्तिरिहार्थकर्म्मणि मितेः सिद्धेषु सिद्धा
न सा ।
नाप्येकैव विधान्यथा परकृतेनापि क्रियादिर्भवेत् ।
द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्रा-
म्यति ॥” इति ॥
न च कणभक्षाक्षचरणादिपक्षकक्षीकारेण
सत्तासामान्ययोगित्वमेव सत्वमिति मन्तव्यं
सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च
तत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयो-
जकगौरवापत्तेः अनुगतत्वाननुगतत्वविकल्प-
पराहतेश्च सर्षपमहीधरादिषु विलक्षणेषु
क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतकणेषु
गुणवच्चाप्रतिभासनाच्च । किञ्च सामान्यं सर्व्व-
गतं स्वाश्रयसर्व्वगतं वा प्रथमे सर्व्ववस्तुसङ्कर-
प्रसङ्गः अपसिद्ध्वान्तापत्तिश्च यतः प्रोक्तं प्रशस्त-
पादेन स्वविषयसर्व्वगतमिति । किञ्च विद्यमाने
घटे वर्त्तमानं सामान्यमन्यत्र जायमानेन
सम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनाग-
च्छद्वा आद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुप-
पत्तिः । किञ्च विनष्टे घटे सामान्यमवतिष्ठते
विनश्यति स्थानान्तरं गच्छति वा प्रथमे निरा-
धारत्वापत्तिः द्वितीये नित्यत्ववाचो युक्त्ययुक्तिः
पृष्ठ ३/४४०
ष्टतीये द्रव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्त-
त्वात् सामान्यमप्रामाणिकम् । तदुक्तम् ।
“अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ।
तस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तता ॥
यत्रासौ वर्त्तते भावस्तेन सम्बध्यते न तु ।
तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ॥
न याति न च तत्रासीदस्ति पश्चान्नचांशवत् ।
जहाति पूर्ब्बं नाधारमहो व्यसनसन्ततिः ॥”
इति ॥
अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्ग
अन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेति
अलमतिप्रसङ्गेन ।
सर्व्वस्य संसारस्य दुःखात्मकत्वं सर्व्वतीर्थकर-
सम्मतम् अन्यथा तन्निविवृत्सूनां तेषां तन्निवृत्त्यु-
पाये प्रवृत्त्यनुपपत्तेः । तस्मात् सर्व्वं दुःखं
दुःखमिति भावनीयम् । ननु किंवदिति पृष्टे
दृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानां
क्षणानां क्षणिकतया सालक्षण्याभावात् नैतेन
सदृशमपरमिति वक्तुमशक्यत्वात् । ततः स्वल-
क्षणं स्वलक्षणमिति भावनीयम् एवं शून्यं
शून्यमित्यपि भावनीयं स्वप्ने जागरणे च न
मया दृष्टमिदं रजतादीति विशिष्टनिषेधस्यो-
पलम्भात् । यदि दृष्टं सत् तदा तद्विशिष्टस्य
दर्शनस्येदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य
रजतत्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वं
स्यात् न चैतदिष्टं कस्यचिद्वादिनः । न चार्द्ध
जरतीयमुचितं न हि कुक्कुट्या एको भागः
पाकाय अपरो भागः प्रसवाय कल्प्यतामिति
कल्प्यते । तस्मादध्यस्ताधिष्ठानतत्सम्बन्धदर्शन-
द्रष्टॄणां मध्ये एकस्यानेकस्य वा असत्त्वे निषेध-
विषयत्वेन सर्व्वस्यासत्त्वं बलादापतेदिति भग-
वतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थम-
चीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्य-
भिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगत-
सर्व्वसत्यत्वभ्रमव्यावर्त्तनेन सर्व्वशून्यतायामेव पर्य्य
वसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मक-
चतुष्कोणविनिर्मुक्तं शून्यमेव तथाहि यदि
घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैय-
र्थ्यम् । असत्त्वं स्वभाव इति पक्षे प्राचीन एव
दोषः प्रादुःस्यात् । यथोक्तम् ।
“न सतः कारणापेक्षा व्योमादेरिव युज्यते ।
कार्य्यस्यासम्भवो हेतुः खपुष्यादेरिवासत ॥”
इति ॥
विरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवता
अलङ्कारावतारे
“बुद्ध्या विविच्यमानानां स्वभावो नावधार्य्यते ।
अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥”
इति ॥
“इदं वस्तुवलायातं यद्वदन्ति विपश्चितः ।
यथा यथार्थाश्चित्यन्ते विशीर्य्यंन्ते तथा तथा ॥”
इति च ॥
न क्वचिदपि पक्षे व्यवतिष्टत इत्यर्थः । दृष्टार्थ-
व्यवहारश्च न स्वप्नव्यवहारवत् संवृत्या सङ्ग-
च्छते । अत एवोक्तम्
“परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ।
कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पना ॥”
इति ॥
तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ
परनिर्व्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाः
नास्माकमुपदेश्यं किञ्चिदस्तीति । शिष्यैस्ताब-
द्योगश्चाचारश्चेति द्वयं करणीयम् । तत्राप्राप्त-
स्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्त-
स्यार्थस्याङ्गीकरणमाचारः गुरूक्तस्याङ्गीकर-
णादुत्तमाः पर्य्यनुयोगस्याकरणादधमाश्च अत-
स्तेषां माध्यमिका इति प्रसिद्धिः । गुरूक्त-
भावनाचतुष्टयं वाह्यार्थस्य शून्यत्वं चाङ्गीकृत्या-
न्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति पर्य्यनु-
योगस्य करणात् केषाञ्चिद् योगाचारप्रथा ।
एषा हि तेषां परिभाषा स्वयं वेदनं तावदङ्गी-
कार्य्यम् अन्यथा जगदान्ध्यं प्रसज्येत । तत्
कीर्त्तितं धर्म्मकीर्त्तिना ।
“अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति ॥”
वाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः ।
अर्थो ज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नो
वा न पूर्ब्बः उत्पन्नस्य स्थित्यभावात् नापरः
अनुत्पन्नस्यासत्त्वात् । अथ मन्येथाः अतीत
एवार्थो ज्ञानग्राह्यः तज्जनकत्वादिति तदपि
बालभाषितं वर्त्तमानतावभासविरोधात् इन्द्रि-
यादेरपि ग्राह्यत्वप्रसङ्गाच्च । किञ्च ग्राह्यः किं
परमाणुरूपोऽर्थः अवयविरूपो वा । न चरमः
कृत्स्नैकदेशविकल्पादिना तन्निराकरणात् । न
प्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्य
बाधकत्वाच्च । यथोक्तम्
“षट्केन युगपद्योगात् परमाणोः षडंशता ।
तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥”
इति ॥
तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका
बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाश-
वदिति सिद्धम् । तदुक्तम्
“नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽ-
परः ।
ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते ॥”
इति ॥
ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यते येन
वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मा
वेद्यन्ते तैश्च नीलादयः । भेदे हि सत्यधुना
अनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्य
नियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात्
यश्चायं ग्राह्यग्राहकसंवत्तीनां पृथगवभासः स
एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्रा-
प्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम् ।
यथोक्तम् ।
“सहोपलम्भनियमादभेदो नीलतद्धियोः ।
भेदश्च भ्रान्ति विज्ञानैर्दृ श्येतेन्दाविवाद्वयः ॥” इति ॥
“अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥”
इति च ॥
न च रसवीर्य्यविपाकादि समानमाशामोदको-
पार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतो
वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरि-
ज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूप-
वत्तया तिमिराद्युपहताक्ष्णं केशेन्द्रनाडी-
ज्ञानभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोप-
पत्तेः पर्य्यनुयोगायोगात् । यथोक्तम्
“अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते ।
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ।
यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणा ॥”
इति ॥
तस्माद्बुद्धिरेवानादिवासनावशादनेकाकाराव-
भासत इति सिद्धम् । ततश्च प्रागुक्तभावना-
प्रचयबलान्निखिलवासनोच्छेदविगलितविविध-
विषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय
इति । अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातं
नास्तीति तदयुक्तं प्रमाणाभावात् । न च
सहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेद-
कयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजक-
त्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् । ननु भेदे
सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्न
ज्ञानस्यान्तर्मुखतया च भेदेन प्रतिभासमान-
तया एकदेशत्वैककालत्वलक्षणसहत्वनियमा-
सम्भवाच्च नीलाद्यर्थस्य ज्ञानाकारत्वे अहमिति
प्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्यया
दव्यतिरेकात् । अथोच्यते ज्ञानस्वरूपोऽपि
नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत
इति न च तत्राहमुल्लेख इति । तथोक्तम् ।
“परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः ।
ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ॥”
इति ॥
“यदन्तर्ज्ञेयतत्त्वं तद्वहिर्वदवभासते ॥”
इति च ॥
तदयुक्तं वाह्यार्थाभावे तदुत्पत्तिरहिततया
बहिर्वदित्युपमानोक्तेरयुक्तेर्न हि वसुमित्रो
बन्ध्यापुत्त्रवदवभासत इति प्रेक्षावानाचक्षीत
भेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्य
प्रामाण्यं तत्प्रामाण्ये भेदप्रतिभासस्य भ्रान्तत्व-
मिति परस्पराश्रयप्रसङ्गाच्च अविसंवादान्नील-
तादिकमेव संविदाना वाह्यमेवोपाददते जगत्यु-
पेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च । एव-
ञ्चायमभेदसाधको हेतुर्गोमयपायसीयन्यायवदा-
भासतां भजेत अतोबहिर्वदिति वदता वाह्यं
ग्राह्यमेवेति भावनीयमिति भवदीय एव बाणो
भवन्तं प्रहरेत् ।
ननु ज्ञानाभिन्नकालस्यार्थस्य वाह्यत्वमनुपपन्न-
मिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्य
विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया
पृष्ठ ३/४४१
समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः
अतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम् ।
“भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः ।
हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षमम् ॥”
इति ॥
तथाच यथा पुष्ट्या भोजनमनुमीयते यथा च
भाषया देशः यथा वा सम्भ्रमेण स्नेहः तथा
ज्ञानाकारेण ज्ञेयमनुमेयम् । तदुक्तम्
“अर्द्धेन घटयत्येनां न हि मुक्त्वार्द्धरूपत्राम् ।
तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥”
इति ॥
न हि वित्तिसत्तैव तद्बेदना युक्ता तस्याः
सर्व्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूप-
यितुं घटयेदिति च । तथाच बाह्यार्थसद्भावे
प्रयोगः ये यस्मिन् सत्यपि कादाचित्काः ते
सर्व्वे तदतिरिक्तसापेक्षाः यथा अविवक्षत्यजि-
गमिषति मयि वचनगमनप्रतिभासा विवक्षु-
जिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथाच
विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालय-
विज्ञाने कदाचिदेव नीलाद्युल्लेखना इति ।
तत्रालयविज्ञानं नामाहमास्पदं विज्ञानं
नीलाद्युल्लेखि च प्रवृत्तिविज्ञानम् । यथोक्तम्
“तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम् ।
तत् स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥”
इति ॥
तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कः
प्रवृत्तिविज्ञानहेतुर्वाह्योऽर्थो ग्राह्य एव न
वासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदा-
चिदुत्पाद इति वेदितव्यम् । विज्ञानवादिनये
हि वासनानामेकसन्तानवर्त्तिनामालयविज्ञा-
नानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वका-
र्य्योत्पादं प्रत्याभिसुख्यं परिपाकः तस्य च
प्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्ब्बक्षणः कक्षी-
क्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात् ।
ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवर्त्तिवासना-
परिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनः
क्षणाः समर्था एवेति वक्तव्यं न चेदेकोऽपि न
समर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशे
षात् । सर्व्वे समर्था इति पक्षे कार्य्यक्षेपानुप-
पत्तिः ततश्च कादाचित्कत्वनिर्व्वाहाय शब्द-
स्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि
प्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इति
चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमना-
च्छाद्य परिच्छेत्तव्यम् । ते चत्वारः प्रत्ययाः
प्रसिद्धाः आलम्बनसमनन्तरसहकार्य्यधिपति-
रूपाः तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्य
चित्तस्य नीलालम्बनप्रत्ययात् नीलाकारता
भवति समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोध-
रूपता सहकारिप्रत्ययादालोकाच्चक्षुषोऽधि-
पतिषत्ययाद्विषयग्रहणप्रतिनियमः विदितस्य
ज्ञानस्य रसादिसाधारण्यप्राप्तेर्नियामकं चक्षुर-
धिपतिर्भवितुमर्हति लोके नियामकस्याधिप-
तित्वोपलम्भात् । एवं चित्तचेत्यात्मकानां सुखा-
दीनां चत्वारि कारणानि द्रष्टव्यानि एवं चित्त-
चैत्यात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदना-
संज्ञा संस्कारसंज्ञकः । तत्र रूप्यन्त एभिर्विषया
इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रि-
याणि रूपस्कन्धः । आलयविज्ञानप्रवृत्तिविज्ञान-
प्रवाहो विज्ञानस्कन्धः । प्रागुक्तस्कन्धद्बयसम्बन्ध-
जन्यः सुखदुः खादिप्रत्ययप्रवाहो वेदनास्कन्धः ।
गौरित्यादिशब्दोल्लेखिसविज्ञानप्रवाहः संज्ञा-
स्कन्धः । वेदनास्कन्धनिबन्धना रागद्वेषादयः
क्लेशा उपक्लेशाश्च मदमानादयो धर्म्माधर्म्मौ च
संस्कारस्कन्धः ।
तदिदं सर्व्वं दुःखं दुःखायतनं दुःखसाधन-
ञ्चेति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं
सम्पादयेत् । अत एवोक्तं दुःखसमुदायनिरोध-
मार्गाश्चत्वारः आर्य्यस्य बुद्धाभिमतानि तत्त्वानि ।
तत्र दुःखं प्रसिद्धं ससुदायो दुःखकारणं तद्द्वि-
विधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च । तत्र
प्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् इदं कार्य्यं
ये अन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषामय-
मानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायः
तन्मात्रस्य फलं न चेतनस्य कस्यचिदिति
सूत्रार्थः यथा बीजहेतुरङ्कुरो धातूनां षण्णां
समवायाज्जायते । तत्र पृथिवी धातुरङ्कुरस्य
काठिन्यं गन्धञ्च जनयति अब्धातुः स्नेहं रसञ्च
जनयति तेजोधातू रूपमौष्ण्यञ्च वायुधातुः
स्पर्शनं चलनञ्च आकाशधातुरवकाशं शब्दञ्च
ऋतुधातुर्यथायोगं पृथिव्यादिकम् । हेतूपनिव-
न्धनस्य च संग्राहकं सूत्रम् तत्पादाद्वा तथा-
गतानामनुत्पादाद्बा स्थितैवैषां धर्म्माणां धर्म्मता
धर्म्मस्थितिता धर्म्मनियामकता च प्रतीत्य
समुत्पादानुलोमतेति । तथागतानां बुद्धानां
मते धर्म्माणां कार्य्यकारणरूपाणां या धर्म्मता
कार्य्यकारणभावरूपा एषोत्पादादनुत्पादाद्बा
स्थिता यस्मिन् सति यदुत्पद्यते तत्तस्य कारणस्य
कार्य्यमिति धर्म्मतेत्यस्य विवरणं धर्म्मस्य कार्य्यस्य
कारणानतिकमेण स्थितिः स्वार्थिकस्तल्प्रत्ययः
धर्म्मस्य कारणस्य कार्य्यं प्रति नियामकता ।
नन्वयं कार्य्यकारणभावश्चेतनमन्तरेण न सम्भव-
तीति अत उक्तं कारणे सति तत्प्रतीत्य प्राप्य
समुत्पादे अनुलोमता अनुसारिता या सैव
धर्म्मता उत्पादादनुत्पादाद्बा धर्म्माणां स्थिता
न चात्र कश्चिश्चेतनोऽधिष्ठातोपलभ्यत इति
सूत्रार्थः । यथा प्रतीत्य समुत्पादस्य हेतूप-
निबन्धः बीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालो
नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलं न चात्र
वाह्ये समुदाये कारणं बीजादि कार्य्यमङ्कुरादि
वा चेतीयते अहमङ्कुरं निर्वर्त्तयामि अहं बीजेन
निर्वर्त्तित इति । एवमाध्यात्मिकेष्वपि कारण-
द्वयमवगन्तव्यम् । पुरःस्थिते प्रमेयाब्धौ ग्रन्थ-
विस्तरभीरुभिरुपरम्यते । तदुभयनिरोधः तद-
नन्तरं विमलज्ञानोदयो वा मुक्तिः तन्निरोधो
पायो मागः स च तत्त्वज्ञानं तच्च प्राचीन-
भावनाबलाद्भवतीति परमं रहस्यं सूत्रस्यान्तं
पृच्छतां कथितं भवन्त्रश्च सूत्रस्यान्तं पृष्टवन्तः
सौत्रान्तिका भवन्त्विति भगवताभिहिततया
सौत्रान्तिकसंज्ञा सञ्जातेति । केचन बौद्धा
वाह्येषु गन्धादिषु आन्तरेषु रूपादिस्कन्धेषु
सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व्वं शून्य-
मिति प्राथमिकान् विनेयानचीकथत् भगवान्
द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञान-
मेवैकं सदिति तृतीयानुभवं सत्यमित्यास्थितान्
विज्ञेयमनुमेयमिति सेयं विरुद्धा भाषेति वर्ण-
यन्तो वैभाषिकाख्यया ख्याताः । एषा हि
तेषां परिभाषा समुन्मिषति विज्ञेयानुमेयत्ववादे
प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्ति-
संयेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तेः
सकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधः
ग्राह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपं
प्रमाणं कल्पनापोढत्वात् अध्यवसायः सविक-
ल्पकरूपोऽप्रमाणं कल्पनाज्ञानत्वात् । तदुक्तम् ।
“कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् ।
विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः ॥”
इति ॥
“ग्राह्यं वस्तुप्रमाणं हि ग्रहणं यदितोऽन्यथा ।
न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥”
इति च ॥
ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्त-
स्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्न
तद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पार-
पम्पर्य्येणार्थप्रतिलम्भसम्मवेन तदुपपत्तेः । अव-
शिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितमिति नेह
प्रतन्यते । न च विनेयाशयानुरोधेनोपदेशभेदः
साम्प्रदायिको न भवतीति भणितव्यं यतो भणितं
बोधचित्तविवरणे
“देशना लोकनाथानां सत्त्वाशयवशानुगाः ।
भिद्यन्ते बहुधा लोके उपायैर्बहुभिः किल ॥
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः ।
भिन्ना हि देशना भिन्ना शून्यताऽद्बयलक्षणा ॥”
इति ॥
द्वादशायतनपूजा श्रेयस्करीति वौद्धनये प्रसि-
द्धम् ।
“अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।
परितः पूजनीयानि किमन्यैरिह पूजितैः ॥
ज्ञानेन्द्रियाणि पञ्चैव तथा कर्म्मेन्द्रियाणि च ।
मनो वुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥”
इति ॥
विवेकबिलासे बौद्धमतमित्थमभ्यधायि ।
“बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम् ।
आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥
दुःखमायतनञ्चैव ततः समुदयो मतः ।
मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥
दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्त्तिताः ।
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥
पृष्ठ ३/४४२
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् ।
धर्म्मायतनमेतानि द्वादशायतनानि तु ॥
रागादीनां गणोऽयं स्यात् समुदेति नृणां हृदि ।
आत्मात्मीयस्वभावाख्यः स स्यात् समुदयः पुनः ॥
क्षणिकाः सर्व्वसंस्कारा इति या वासना
स्थिरा ।
स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥
प्रत्यक्षमनुमानञ्च प्रमाणद्वितयं तथा ।
चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः ॥
अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते ।
सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥
आकारसहिता बुद्धिर्योगाचारस्य सम्मता ।
केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥
रागादिज्ञानसन्तानवासनाच्छेदसम्भवा ।
चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्त्तिता ॥
कृत्तिः कमण्डलुर्मौण्ड्यं चीरं पूर्ब्बाह्णभोजनम् ।
सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्धभिक्षुभिः ॥”
इति ॥
इति सर्व्वदर्शनसंग्रहे बौद्धदर्शनम् ॥)
(बुद्धेरिदमिति व्युत्पत्त्या वाच्यलिङ्गः । बुद्ध-
सम्बन्धि वस्तु ॥)

बौद्धः, पुं, (बुद्धं बुद्धशास्त्रं वेत्तीति । बुद्ध + अण् ।)

बुद्धशास्त्रावलम्बी । तत्पर्य्यायः । भिन्नकः २
क्षपणः ३ अह्रीकः ४ वैनायिकः ५ । इति
त्रिकाण्डशेषः ॥

बौधः, पुं, (बुधस्यापत्यं पुमान् । बुध + अण् ।)

बुधस्य पुत्त्रः । स च पुरूरवाः । इति हेम-
चन्द्रः । ३ । ३६५ ॥

ब्यध, य औ ताडे । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-सक०-अनिट् ।) य बिध्यति शत्रुं शूरः ।
औ अब्यात्सीत् । कश्चित्तु द्बिर्भूतस्यानिकारी-
भूतयकारस्य ब्यधेर्वकारो वर्ग्यः अन्यत्र दन्त्यः
इति मन्वानः सनि विभ्यत्सतीत्याह । इति
दुर्गादासः ॥

ब्युष, क उत्सृजि । उत्सर्गे । (चुरा०-पर०-सक०-

सेट् ।) क ब्योषयति धनं दाता । ब्योषं
त्रिकटु । इति दुर्गादासकृतधातुदीपिकायां
गोविन्दभट्टः ॥

ब्रण, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) ब्रणति । इति दुर्गादासः ॥

ब्रततिः, स्त्री, (व्रजन्ती ततिर्विस्तृतिर्यस्याः । पृषो-

दरादित्वात् साधुः । यद्वा, प्रतनोतीति । तन-
दुञविस्तारे “क्तिच् क्तौ च संज्ञायाम् ।” ३ ।
३ । १७४ । इति क्तिच् । पृषोदरादित्वात्
पस्य वः ।) लता । विस्तारः । इत्यमरः ॥

ब्रध्नः, पुं, (बन्धवन्धने + “बन्धेर्ब्रधिबुधी च । उणा०

३ । ५ । इति नक् ब्रधादेशश्च ।) सूर्य्यः ।
(यथा, ऋग्वेंदे । १ । ६ । १ ।
“युञ्जन्ति ब्रध्नसरुषं चरन्तं परितस्तुषः ।
रोचन्ते रोचना दिवि ॥”)
वृक्षमूलम् । अर्कवृक्षः । इत्यमरः । २ । ४ । १५ ।
शिवः । इति हेमचन्द्रः ॥ मेदिनीकारेणान्तःस्थ
वकारादौ लिखितोऽयं शब्दः ॥ (दिनम् ।
अश्वः । इति निघण्टुः ॥ चतुर्द्दशमनोर्भौत्यस्य
पुत्त्रभेदः । यथा, मार्कण्डेये । १०० । ३२ ।
“गुरुर्गभीरो ब्रध्नश्च भरतोऽनुग्रहस्तथा ।
तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥”)
रोगविशेषः । तस्य लक्षणं यथा,
“अभ्यभिष्यन्दिगुर्वामसेवनान्निचयं गतः ।
करोति ग्रन्थिवच्छोथं दोषो वङ्क्षणसन्धिषु ॥
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नमिति निर्द्दिशेत् ॥”
इति माधवकरः ॥
तस्य चिकित्सा ।
“भृष्टश्चैरण्डतैलेन सम्यक् कल्कोऽभयाभवः ।
कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ॥
अजाजीहबुषाकुष्ठं गोमेदवदरान्वितम् ।
काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित् परः ॥”
गोमेदं पत्रम् । तथा च निघण्टौ धन्वन्तरिः ।
“पत्रं दलाह्वयं रामं गोमेदं रसनाह्वयम् ॥”
इति भावप्रकाशः ॥
(अस्य ससम्प्राप्तिलक्षणं यथा, --
“यस्य वायुः प्रकुपितः शोफशूलकरश्चरन् ।
वंक्षणाद्वृषणौ याति ब्रध्नस्तस्योपजायते ॥”
इति चरके सूत्रस्थानेऽष्टादशेऽध्याये ॥)

ब्रह्म, क्ली, (बृंहति बर्द्धते निरतिशयमहत्त्व-

लक्षणबृद्धिमान् भवतीत्यर्थः । बृहिबृद्धौ + बृंहे-
र्नोऽच्च ।” उणा० ४ । १४५ । मनिन् नकार-
स्याकारः । रत्वञ्च ।) वेदः । (यथाह श्रुतिः ।
“तस्मादेतद्ब्रह्मनामरूपमन्नञ्च जायते ॥”
तथा च भागवते । १ । १ । १ ।
“जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेव्वभिज्ञः
स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्
सूरयः ॥”
वेदान्तमते ‘वस्तु सच्चिदानन्दाद्वयं ब्रह्म तथा
अज्ञानादिसकलजडसमूहोऽवस्तु ।’ ‘ब्रह्मैव
नित्यं वस्तु तदन्यदखिलमनित्यम् ।’ तथाहि, --
“यत्स्यादर्व्वाक् संवत्सरोऽहोभिः परिवर्त्तते ।”
तदेव ज्योतिषां ज्योतिः । नित्यं विभुं सर्व्वगतं
सुसूक्ष्मम् । आकाशवत् सर्व्वगतश्च नित्यः ।
अजो नित्यः शाश्वतः सत्यं ज्ञानमनन्तं ब्रह्म
रातेर्दातुः परायणं यत्र नान्यत् पश्यति नान्यत्
शृणोति नान्यद्विजानाति सभूमा यो वै भूमा
तदमृतम् ।” इत्यादि श्रुतिभ्यो ब्रह्मणि नित्यत्वं
विशुद्धसत्त्वस्य पुंसः प्रतिभाति । तथा, नैवेह
किञ्चनाग्र आसीत् मृत्युर्नैवेदमावृतमासीत् ।
आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन-
मिषत् सदेव सौम्येदमग्र आसीदेकमेवा-
द्बितीयं नेति नेति नेह नानास्ति किञ्चन यत्रान्यत्
पश्यति अन्यच्छृणोति अन्यद्विजानाति तदल्पम्
अथ यदल्पं तन्मर्त्त्यम् ।” इत्यादि श्रुतिवच-
नेभ्यो ब्रह्मणोऽन्यत्वं भेदप्रपञ्चेऽनित्यत्वञ्च तस्यैव
पुंसः प्रतिभाति । तथानुमानमपि यथा, विम-
तोऽचेतनवर्गोऽनित्यो विभक्तत्वात् घटपटस्तम्भा-
दिवत् इति । अनेन हि विभक्तस्यानित्यत्वे-
ऽवगते तस्मिन्ननुगतप्रकाशात्मकस्य ब्रह्मणोऽ-
विभक्तस्य नित्यत्वमपि अर्थादवगच्छति । इति
वेदान्तसारे विद्वन्मनोरञ्जनीटीका ॥ तत्र
श्रुतिवाक्यानि यथा, “सत्यं ज्ञानमनन्तं ब्रह्म ।
विज्ञानमानन्दं ब्रह्म ।” “आनन्दो ब्रह्मेति
व्यजानात् आनन्दरूपममृतं यद् विभाति ।
यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।
यतो वा इमानि भूतानि जायन्ते येन जातानि
जीवन्ति यत् प्रयन्त्यभिसंविशन्ति तत् विजि-
ज्ञासस्व तद्ब्रह्मेति ।” इत्याद्यसंख्येयं श्रुति-
वचनमनुसन्धेयम् ॥”)
तत्त्वम् । तपः । इत्यमरः । ३ । ३ । ११४ ॥
ब्रह्म चतुर्व्विधं यथा । विराट् १ हिरण्यगर्भः
२ ईश्वरः ३ तुरीयः ४ । इति वेदान्तसारः ॥
अस्य लक्षणम् । यथा, आत्मबोधे ।
“यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् ।
यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवयारयेत् ॥
यद्दृष्ट्वा नापरं दृश्यं यद्भूत्वा न पुनर्भवः ।
यज्ज्ञात्वा नापरं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥
तिर्य्यगूर्द्ध्वमधःपूर्णं सच्चिदानन्दमद्वयम् ।
अनन्तं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥
अतद्व्यावृत्तिरूपेण वेदान्तैर्लक्ष्यते द्वयम् ।
अखण्डानन्दमेकं यत्तद्ब्रह्मेत्यवधारपेत् ॥
दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानन्दमद्बयम् ॥
सर्व्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्ष्यते ।
अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥”
अपि च । “सत्यमानन्दमद्बयममृतमेकरूपं
वाङ्मनसोऽगोचरं सर्व्वगं सर्व्वातीतं चिदेकरसं
देशकालापरिच्छिन्नमपादमपि शीघ्रगमपाणि
च सर्व्वग्रहमचक्षुरपि सर्व्वद्रष्टृ अश्रोत्रमपि
सर्व्वश्रोतृ अचिन्त्यमपि सर्व्वज्ञं सर्व्वनियन्तृ
सर्व्वशक्ति सर्व्वेषां सृष्टिस्थितिलयकर्त्तृ किमपि
वस्तु ब्रह्मेति वेदा वदन्ति ॥” शुद्धबुद्धस्वभाव
इत्यौपनिषदाः । १ । आदिविद्वान् सिद्ध इति
कापिलाः । २ । क्लेशकर्म्मविपाकाशयैरपरा-
मृष्टो निर्म्माणकायमधिष्ठाय सम्प्रदायप्रद्यो-
तकोऽनुग्राहकश्चेति पातञ्जलाः । ३ । लोक-
वेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशु-
पताः । ४ । शिव इति शैवाः । ५ । पुरुषोत्तम
इति वैष्णवाः । ६ । पितामह इति पौरा-
णिकाः । ७ । यज्ञपुरुष इति याज्ञिकाः । ८ ।
सर्व्वज्ञ इति सौगताः । ९ । निरावरण इति
दिगम्बराः । १० । उपास्यत्वेन देशित इति
मीमांसकाः । ११ । लोकव्यवहारसिद्ध इति
चार्व्वाकाः । १२ । यावदुक्तोपपन्न इति नैया-
यिकाः । १३ । विश्वकर्म्मेति शिल्पिनः । १४ ।
इति कुसुमाञ्जलिवृत्तिः ॥ योगशास्त्रमते ।
“ब्रह्मतेजोमयं शुक्रं यस्य सर्व्वमिदं रसः ।
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम् ॥
इति महाभारते मोक्षधर्म्मः ॥
पृष्ठ ३/४४३
तस्य टीका । ब्रह्मणः स्वरूपमन्तराविस्मर-
णार्थमाह । ब्रह्मतेजोमयमिति । तेजोमयं
ज्ञानात्मकम् । शुक्रं बीजभूतम् । यस्य सर्व्व-
मिदं रसः रसनीयं ज्ञेयं सर्व्वं यस्यैकस्य भूतं
सत्यं न तु विवर्त्तवादिनामिवासत्यं भूतस्य
सिद्धस्य अकल्पितस्य तच्च सर्व्वं स्थावरजङ्गमो-
पाधिवशात् द्वयं द्बेधा ॥ तच्च सगुणनिर्गुण-
भेदेन द्बिविधं यथा,
“ब्रह्मैकं मूर्त्तिभेदस्तु गुणभेदेन सन्ततम् ।
तद्ब्रह्म द्विविधं वस्तु सगुणं निर्गुणं शिव ! ॥
मायाश्रितो यः सगुणो मायातीतश्च निर्गुणः ।
स्वेच्छामयश्च भगवानिच्छया विकरोति च ॥
इच्छाशक्तिश्च प्रकृतिः सर्व्वशक्तिप्रसूः सदा ।
केचिदेकं वदन्त्येवं ब्रह्म ज्योतिः सनातनम् ॥
केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्ब्बकम् ।
शृणु ये च वदन्त्येकं प्रकृतिपुरुषयोः परम् ॥
तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्व्वकारणम् ।
अथवैकं परं ब्रह्म द्विविधं भवती च्छया ॥
इच्छाशक्तिश्च प्रकृतिः सर्व्वशक्तिप्रसूः सदा ।
तत्रासक्तश्च सगुणः स शरीरी च प्राकृतः ॥
निर्गुणस्तत्र निर्लिप्तः अशरीरी निरङ्कुशः ।
स चात्मा भगवान्नित्यः सर्व्वाधारः सनातनः ॥
सर्व्वेश्वरः सर्व्वसाक्षी सर्व्वत्रास्ति फलप्रदः ।
शरीरं द्विविधं शम्भो ! नित्यं प्राकृतमेव च ॥
नित्यं विनाशरहितं नश्वरं प्राकृतं सदा ।
अहं त्वञ्चापि भगवन्नावयोर्नित्यविग्रहः ॥
आवयोरंशभूता ये प्राकृता नष्टविग्रहाः ।
रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः ॥
ममाप्येवं द्विधा रूपं द्विभुजञ्च चतुर्भुजम् ।
चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह ॥
गोलोके द्विभुजोऽहञ्च गोपीभिः सह राधया ।
द्विविधं मे वदन्त्येवं द्वौ प्रधानौ तु तन्मते ॥
पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी ।
सदा तौ द्वौ च संश्लिष्टौ सर्व्वेषां पितरौ शिव ! ॥
सशरीरौ निःशरीरौ स्वेच्छया सर्व्वरूपिणौ ।
प्राधान्यञ्च यथा पुंसः प्रकृतेश्च तथा सदा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४३ अध्यायः ॥
नन्दयशोदां प्रति श्रीकृष्णवाक्यं यथा, --
“मामेव परमं ब्रह्म भगवन्तं सनातनम् ।
ध्यायं ध्यायं पुत्त्रबुद्धिं त्यक्त्रा लभ परं पदम् ॥”
इति तत्रैव १२७ अध्यायः ॥
सगुणस्य तस्य नवधा रूपं यथा, --
“योगिनो यं वदन्त्येवं ज्योतीरूपं सनातनम् १ ।
ज्योतिरभ्यन्तरे नित्यरूपं भक्ता वदन्ति यम् २ ॥
वेदा वदन्ति सत्यं यं ३ नित्यमाद्यं विचक्षणाः ४ ।
यं वदन्ति सुराः सर्व्वे परं स्वेच्छामयं प्रभुम् ५ ॥
सिद्धेन्द्रा मुनयः सर्व्वे सर्व्वरूपं वदन्ति यम् ६ ।
यमनिर्व्वचनीयञ्च योगीन्द्रः शङ्करो वदेत् ७ ॥
स्वयं धाता च प्रवदेत् कारणानाञ्च कारणम् ८ ।
शेषो वदेदनन्तं यं नवधा रूपमीश्वरम् ९ ॥
तर्काणामेव षण्णां यं षड्विधं रूपमीश्वरम् ।
वैष्णवानामेकरूपं वेदानामेकमेव च ॥
पुराणानामेकरूपं तस्मान्नवविधं स्मृतम् ।
न्यायो निर्व्वचनीयञ्च यन्मतं शङ्करोऽब्रवीत् ॥
नित्यं वैशेषिकात्यन्तं वदन्ति च विचक्षणाः ।
सांख्यो वदति तं देवं ज्योतीरूपं सनातनम् ॥
मीमांसा सर्व्वरूपञ्च वेदान्तः सर्व्वकारणम् ।
पातञ्जलोऽप्यनन्तञ्च वेदाः सत्यस्वरूपकम् ॥
स्वेच्छामयं पुराणञ्च भक्ताश्च नित्यविग्रहम् ॥”
इति तत्रैव १२८ अध्यायः ॥
सगुणनिर्गुणभेदेन तस्य चतुर्धा रूपं यथा, --
“चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ ।
प्रलयञ्च करोत्यन्ते चतुर्भेदो जनार्द्दनः ॥
एकेनांशेन ब्रह्मासौ भवत्यव्यक्तमूर्त्तिमान् ।
मरीचिमिश्राः पतयः प्रजानामन्यभागतः ॥
कालस्तृतीयस्तस्यांशः सर्व्वभूतानि चापरः ।
इत्थं चतुर्धा संसृष्टौ वर्त्ततेऽसौ रजोगुणः ॥
एकांशेन स्थितो विष्णुः करोति परिपालनम् ।
मन्वादिरूपी चान्येन कालरूपी परेण च ॥
सर्व्वभूतेषु चान्येन संस्थितिं कुरुते स्थितः ।
सत्त्वं गुणमुपाश्रित्य जगतः पुरुषोत्तमः ॥
आश्रित्य तमसो वृत्तिमन्तकाले तथा प्रभुः ।
रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥
अग्न्यन्तकादिरूपेण भागेनान्येन वर्त्तते ।
कालस्वरूपो भागोऽन्यः सर्व्वभूतानि चापरः ॥
विनाशं कुर्व्वतस्तस्य चतुर्द्ध्वैवं महात्मनः ॥”
इति विष्णुपुराणे १ अंशे २१ अध्यायः ॥
ब्रह्मध्यानं यथा, --
“ब्रह्मध्यानं प्रवक्ष्यामि मायातन्त्रविमर्द्दकम् ।
यच्छेद्बाङ्मनसि प्राज्ञस्तद्यच्छेज्ज्ञानमात्मनि ॥
ज्ञानं महति संयच्छेद्य इच्छेत् श्रेय आत्मनि ।
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ॥
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः ।
स्वप्रकाशं निराकारं सदानन्दमनादिमत् ॥
नित्यं शुद्धं वृद्धमृद्धं सत्यमानन्दमद्वयम् ।
तुरीयमक्षरं ब्रह्म अहमस्मि परं पदम् ॥
अहं ब्रह्मेत्यवस्थानं समाधिरिति गीयते ।
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥
बुद्धिन्तु सारथिं विद्धि मनः प्रग्रहमेव च ।
इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचराः ॥
आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ।
यस्य विज्ञानवानात्मा युक्तेन मनसा सदा ॥
न स तत्पदमाप्नोति युक्तेन मनसा तदा ।
स तत्पदमवाप्नोति स हि भूयो न जायते ।
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥
अहिंसादि यमः प्रोक्तः शौचादिनियमः स्मृतः ।
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥
प्रत्याहारो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् ।
मनोधृतिर्धारणं स्यात् समाधिर्ब्रह्मणः स्मृतः ॥”
साकारस्य तस्य ध्यानं यथा, --
“अमूर्त्ते चेत् स्थिरी न स्यात्ततो मूर्त्तं विचि-
न्तयेत् ।
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाब्जवान् ॥
श्रीवत्सकौस्तुभयुतो वनमाली श्रिया युतः ।
नित्यः शुद्धो बुद्धियुक्तः नित्यानन्दाह्वयः परः ॥
आत्माहं परमं ब्रह्म परमज्योतिरेव तु ।
चतुर्व्विंशतिमूर्त्तिः स शालग्रामशिलास्थितः ॥
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽपि वा
हरिः ।
मनसोऽभीप्सितं प्राप्य देवो वैमानिको भवेत् ॥
निष्कामो मुक्तिमाप्नोति मूर्त्तीर्ध्यायन् स्तुवन्
जपन् ॥”
इति गारुडे मूर्त्तामूर्त्तध्यानं ४४ अध्यायः ॥
ब्रह्मपदप्राप्तिकारणं यथा, --
“ब्रह्मण्याधाय कर्म्माणि निःसङ्गः कामवर्जितः ।
प्रसन्नेनैव मनसा कुर्व्वाणो याति तत्पदम् ॥”
इति कूर्म्मपुराणे ३ अध्यायः ॥
सर्व्वं ब्रह्म यथा, --
“ब्रह्मैवेदं जगत् सर्व्वं ब्रह्मणोऽन्यन्न विद्यते ।
ब्रह्मान्यद्भाति चेन्मिथ्या यथा मरुमराचिका ॥”
इत्यात्मबोधः ॥

ब्रह्मकन्यका, स्त्री, (ब्रह्मणः कन्यका सुता ।)

सरस्वती । इति त्रिकाण्डशेषः ॥ ब्राह्मी ।
इति राजनिर्घण्टः ॥

ब्रह्मकर्म्मसमाधिः, पुं, ब्रह्मण्येव कर्म्मात्मके समा-

धिश्चित्तैकाग्र्यं यस्य । यथा, श्रीभगवद्गीता-
याम् । ४ । २४ ।
“ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म्मसमाधिना ॥”

ब्रह्मकुण्डं, क्ली, (ब्रह्मणा निर्म्मितं कुण्डं सरो-

वरम् ।) ब्रह्मणा निर्म्मितसरोबरविशेषः । यथा,
“पाण्डुनाथस्योत्तण्स्यां ब्रह्मकुण्डाह्वयं सरः ।
ब्रह्मणा निर्म्मितं पूर्ब्ब स्नानाय स्वर्गवासिनाम् ॥
आयामेन शतव्यामं विस्तीर्णेन तदर्द्धकम् ।
सर्व्वपापहरं पुण्यं देवलोकात् समागतम् ॥
तत्र स्नानमन्त्रः ।
कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतस्रव । !
हर मे सर्व्वपापानि पण्यं स्वर्गञ्च साधय ॥
इत्यनेन तु मन्त्रेण स्नाति तस्मिन् सरोजले ।
पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात् ॥
ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् ।
ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

ब्रह्मकूटः, पुं, (ब्रह्मा कूटे शिखरे यस्य ।) पर्व्वत-

विशेषः । यथा, कालिकापुराणे ८१ अध्यायः ॥
“ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् ।
ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः ॥”

ब्रह्मकूर्च्चं, श्ली, (ब्रह्मणो ब्राह्मणत्वस्य कूर्च्चामव ।)

व्रतविशेषः । यथा । वृद्धशातातपः ।
“रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि ।
सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतःपरम् ॥”
पञ्चगव्यपानं व्रतरुपं तेनोपवासः । ब्रह्मकूर्च्च-
माह जावालः ।
“अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः
पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥”
पृष्ठ ३/४४४
तदशक्तौ पुराणैकं दातव्यम् । इति प्रायश्चित्त-
तत्त्वम् ॥ (ब्रह्मपुराणेऽपि अस्य व्यवस्था यथा ।
नरस्तु चतुर्द्दश्यां पूर्णिमायाममावास्यायाम्बा
पञ्चगव्यं हविष्यान्नं वा भक्षयेत् । यस्तु पौर्ण-
मासीषु ब्रह्मकूच्चें कुर्य्यात् तस्य सर्व्वपापक्षयो
भवेत् । यस्तु मासेन द्बिःकुर्य्यात् स यथेष्टाङ्गति-
माप्नुयात् ॥)

ब्रह्मकोशी, स्त्री, (ब्रह्मणः कोशीव ।) अजमोदा ।

इति राजनिर्घण्टः ॥ (गुणादयोऽस्या अज-
मोदाशब्दे ज्ञेयाः ॥)

ब्रह्मगर्भा, स्त्री, (ब्रह्मेव गर्भो यस्याः ।) आदित्य-

भक्ता । इति राजनिर्घण्टः ॥

ब्रह्मगिरिः, पु, (ब्रह्मणो गिरिः पर्व्वतः ।) ब्रह्म-

शैलः । इति शब्दरत्नावली ॥ (नीलकूटाभि-
धेयकामाख्यानिलयस्य पूर्ब्बभागे स्थितोऽयम् ।)
यथा, कालिकापुराणे ८१ अध्याये ।
“ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् ।
तत्पूर्ब्बभागे वसति ब्रह्मा ब्रह्मगिरिं पुनः ॥”

ब्रह्मघ्नी, स्त्री, गृहकन्या । इति राजनिर्घण्टः ॥

(ब्रह्माणं ब्राह्मणं हन्तीति । ब्रह्म + हन् + टक् ।
ततो ङीप् ।) ब्रह्मघातिनी च ॥

ब्रह्मचर्य्यं, क्ली, (ब्रह्मणे वेदार्थं चर्य्यं आचरणीयम् ।)

आश्रमविशेषः । यथा, गारुडे ९४ अष्याये ।
“ब्रह्यचर्य्यस्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्नीयात् श्राद्धे व्रतमपीडयन् ॥
मधु मांसं तथाश्लीनमित्यादि परिवर्जयेत् ।
प्रतिवेदं ब्रह्मचर्य्यं द्वादशाब्दानि पञ्च वा ॥
ग्रहणान्तिकमित्येके केशान्तञ्चैव षोडश ॥”
(ब्रह्मचर्य्ये अष्टाङ्गमैथुनप्रतिषेधः । यदुक्तम् ।
“स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेवच ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम् ॥”
एतच्च स्त्रीपुरुषयोः साधारणम् । पुंसः स्त्रीस्म
रणादि शून्यत्वम् । स्त्रियाश्च पुरुषस्मरणादि-
राहित्यम् अतएवाह मनुः । ५ । १६० ॥
“मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥”
“ब्रह्मचर्य्ये व्यवस्थिता अकृतपुरुषान्तरमैथुना ॥”
इति कुल्लूकभट्टः ॥
यमभेदः । यथा, पातञ्जले । २ । ३० ।
“अहिंसासत्यास्तेय ब्रह्मनर्य्यापरिग्रहा यमाः ॥”
“ब्रह्मचर्य्यमुपस्थनियमः ।” वीर्य्यधारणम्बा इति
भाष्यम् ॥ एतत्तु कलियुगे नास्ति । यथाह
महानिर्व्वाणतन्त्रे ।
“ब्रह्मचर्य्याश्रमो नास्ति वानप्रस्थोऽपि न प्रिये ! ।
गार्हस्थो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे ॥”)

ब्रह्मचारणी, स्त्री, (ब्रह्मणा वेदेन चारयति

आचरतीति । ब्रह्म + चर + स्वार्थे णिच् +
कर्त्तरि ल्यु । ङीप्) भार्गी । इति रत्नमाला ॥

ब्रह्मचारिणी, स्त्री, (ब्रह्मणि वेदे चरतीति ।

ब्रह्म + चर् + णिनिः । स्त्रियां ङीप् ।) दुर्गा ।
यथा, देवीपुराणे ४५ अध्याये ।
“वेदेषु चरते यस्मात्तेन सा ब्रह्मचारिणी ॥”
करुणीवृक्षः । इति राजनिर्घण्टः ॥ ब्रह्मीशाकः ।
इति रत्रमाला ॥ ब्रह्मचर्य्यव्रतधारिणी । यथा,
“आसीतामरणात् क्षान्ता नियता ब्रह्म-
चारिणी ।
यो धर्म्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥”
इति मनुः । ५ । १५८ ॥

ब्रह्मचारी, [न्] पुं, (ब्रह्म ज्ञानं तपो वा आच-

रति अर्जयत्यवश्यम् । ब्रह्म + चर + आवश्यके
णिनिः ।) प्रथमाश्रमी । इति भरतः ॥
उपनयनानन्तरं नियमं कृत्वा गुरोः सन्निधौ
स्थित्वा साङ्गवेदाध्ययनं करोति यः । स द्बिविधः ।
उपकुर्व्वाणः नैष्ठिकश्च । तस्य नियमा यथा, --
“यद्यस्य विहितं चर्म्म यत् सूत्रं या च मेखला ।
यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥
सेवते मांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥
नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्च्चनञ्चैव समिदाधानमेव च ॥
वर्जयेन्मधु मांसञ्च गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥
अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम् ।
कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम् ॥
द्यूतञ्च जनवादञ्च परिवादं तथानृतम् ।
स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च ॥
एकः शयीत सर्व्वत्र न रेतः स्कन्दयेत् क्वचित् ।
कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः ॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
स्नात्वार्कमर्च्चयित्वा त्रिः पुनर्मामितृचं जपेत् ॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद्यावदर्थानि भैक्षञ्चाहरहश्चरेत् ॥
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु ।
ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्ज्जयेत् ॥
सर्व्वं वापि चरेद्ग्रामं पूर्ब्बोक्तानामसम्भवे ।
नियम्य प्रयतो वाचमभिशस्तांस्तु वर्ज्जयेत् ॥
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।
सायं प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ॥
अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत् ॥
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।
भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥
व्रतवद्देवदैवत्ये पित्रे कर्म्मण्यथर्षिवत् ।
काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥
ब्राह्मणस्यैव कर्म्मैतदुपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस्त्वेवं नैतत् कर्म्म विधीयते ॥
चोदितो गुरुणा नित्यमप्रचोदित एव वा ।
कुर्य्यादध्ययने यत्नमाचार्य्यस्य हितेषु च ॥
शरीरञ्चैव वाचञ्च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥
नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥
हीनान्नवस्त्रवेशः स्यात् सर्व्वदा गुरुसन्निधौ ।
उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत् ॥
प्रतिश्रवणसम्भाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ् मुखः ॥
आसीनस्य स्थितः कुर्य्यादभिगच्छंस्तु तिष्ठतः ।
प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥
पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥
नीचं शय्यासनञ्चास्य सर्व्वदा गुरुसन्निधौ ।
गुरोस्तु चक्षुर्व्विषये न यथेष्टासनो भवेत् ॥
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।
न चैवास्यानुकुर्व्वीत गतिभाषितचेष्टितम् ॥
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥
परीवादात् खरो भवति श्वा वै भवति निन्दकः ।
परिभोक्ता कृमिर्भवति काटा भवति मत्सरी ॥
दूरस्थो नार्च्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥
प्रतिवातेऽनुवाते च नासीत गुरुणा सह ।
असंस्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत् ॥
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।
न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।
प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि ॥
श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।
गुरुपुत्त्रेषु चार्य्येषु गुरोश्चैव स्वबन्धुषु ॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्म्मणि ।
अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥
उत्सादनञ्च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुय्याद्गुरुपुत्त्रस्य पादयोश्चावनेजनम् ॥
गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥
अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च ।
गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ॥
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥
स्वभाव एव नारीणां नराणामिह दूषणम् ।
अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥
अषिद्बांसमलं लोके विद्बांसमपि वा पुनः ।
प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥
कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्य्यादसावहमितिब्रुवन् ॥
विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।
गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥
यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥
पृष्ठ ३/४४५
मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखा-
जटः ।
नैनं ग्रामेऽभिनिम्लोचेत् सूर्य्यो नाभ्युदियात्
क्वचित् ॥
तञ्चेदभ्युदियात् सूर्य्यः शयानं कामचारतः ।
निम्लोचेद्बाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥
सूर्य्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः ।
प्रायश्चित्तमकुर्व्वाणो युक्तः स्यान्महतैनसा ॥
आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः ।
शुचौ देशे जपन् जप्यमुपासीत यथाविधि ॥”
इति मानवे । २ । १७४-२२२ ॥
अपि च । श्रीऔर्व्व उवाच ।
“बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्भूप ! ब्रह्मचारी समाहितः ॥
शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः ।
ब्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना ॥
उभे सन्ध्ये रविं भूप ! तथैवाग्निं समाहितः ।
उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम् ॥
स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति ।
शिष्यो गुरौ नृपश्रेष्ठ ! प्रतिकूलं न संभजेत् ॥
तेनैवोक्तः पठेद्वेदं नान्यचित्तः पुरःस्थितः ।
अनुज्ञातञ्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥
अवगाहेदपः पूर्ब्बमाचार्य्येणावगाहिताः ।
समिज्जलादिकञ्चास्य कल्यं कल्यमुपानयेत् ॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।
गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥”
इति विष्णुपुराणे । ३ । ९ । १-७ ॥
अपि च । गारुडे ४९ अध्याये ।
“भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः ॥”
स तु द्बिविधः । यथा, कौर्म्मे २ अध्याये ।
“ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ।
योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ॥
उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।”
(गन्धर्व्वविशेषः । यथा महाभारते । १ । १२३ । ५५ ।
“ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः ।
विश्वावसुर्भूमन्युश्च सुचन्द्रश्च शरुस्तथा ॥”)

ब्रह्मजज्ञः, पुं, (ब्रह्मणो जायते य इति ब्रह्मजः ।

ब्रह्म + जन् + ड । जानातीति ज्ञः । ज्ञा + कः ।
ततः कर्म्मधारयः ।) समष्टिस्थूलदेहाभिमानि-
विराट् । स च हिरण्यगर्भाज्जातः सर्व्वज्ञः ।
यथा, कठोपनिषदि । १ । १७ ॥
“त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं
त्रिकर्म्मकृत् तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा
निचाय्येमां शान्तिमत्यन्तमेति ॥”
पुनरपि कर्म्मस्तुतिमेवाह त्रिनेति । त्रिना-
चिकेतः त्रिकृत्वो नाचिकेतोऽग्निः चितो येन स
त्रिनाचिकेतः तद्बिज्ञानस्तदघ्ययनस्तदनुष्ठानवान्
वा । त्रिभिर्मातृपित्राचार्य्यैरेत्य प्राप्य सन्धिं
सन्धानं मात्राद्यनुशासनं यथावत् प्राप्येत्येतत् ।
तद्धि प्रामाण्यकारणं श्रुत्यन्तरादवगम्यते ।
यथा मातृमानित्यादेः । वेदस्मृतिशिष्टैर्व्वा
प्रत्यक्षानुमानागमैर्वा तेभ्यो हि विशुद्धिः
प्रत्यक्षा । त्रिकर्म्मकृत् इज्याध्ययनदानानां कर्त्ता
तरति अतिक्रामति जन्म च मृत्युञ्च जन्ममृत्यू ।
किञ्च ब्रह्मजज्ञमिति । ब्रह्मजज्ञं ब्रह्मणो
हिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्चासौ
ज्ञश्चेति ब्रह्मजज्ञः सर्व्वज्ञो ह्यसौ तं देवं द्योतन-
ज्ञानादिगुणवन्तं ईड्यं स्तुत्यं विदित्वा शास्त्रतः
निचाय्य दृष्ट्वा च आत्मभावेन इमां स्वबुद्धि-
प्रत्यक्षां शान्तिं उपरतिं अत्यन्तमेति अतिशये-
नैति वैराजं पदं ज्ञानकर्म्मसमुच्चयानुष्ठानेन
प्राप्नोतीत्यर्थः । इति शङ्कराचार्य्यकृतभाष्यम् ॥

ब्रह्मजटा, स्त्री, (ब्रह्मणो जटेव संहता ।)

दमनकवृक्षः । इति राजनिर्घण्टः ॥

ब्रह्मजीवी, [न्] पुं, (ब्रह्मणा वेदेन वेदोक्त-

श्रौतादिकर्म्मणा इत्यर्थः जीवतीति । ब्रह्म +
जीव् + णिनिः ।) द्बिजकार्य्येषु मूल्येन परि-
चारकः । यथा । अनृतवाक् तस्करो राजभृत्यो
वृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोह-
णवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायो
वृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्ति-
र्ब्रह्मजीवी त्तिकित्सको देवलकः पुरोहितः
कितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्य-
पशुविक्रेता चेति तानुद्धरेत् समेत्य न्यायतो
ब्राह्मणव्यवस्थया सर्व्वद्रव्यत्यागेन चतुर्थकाला-
हाराः सम्बत्सरं त्रिसवनमुपस्पृशेयुस्तस्यान्ते
देबपितृतर्पणं गवाह्निकञ्चेत्येवं व्यवहार्य्याः ।
इति मिताक्षरायां प्रायश्चित्ताध्याये प्रचेतसो
वचनम् ॥

ब्रह्मज्ञः, पुं, (ब्रह्म जानातीति । ब्रह्म + ज्ञा + क ।)

श्रीगोपालः । यथा, --
“वाग्दाता वाक्प्रदो वाणीनाथो ब्राह्मण-
रक्षकः ।
ब्रह्मज्ञो ब्रह्मकृत् ब्रह्मा ब्रह्मकर्म्मप्रकाशकः ॥”
इति नारदपञ्चरात्रे गोपालसहस्रनामस्तोत्रे ८
अध्यायः ॥
(विष्णुः । यथा महाभारते । १३ । १४९ । ८४ ।
“व्रह्मविद् ब्राह्यणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥”
कार्त्तिकेयः । यथा, महाभारते । ३ । २३१ । ११ ।
“ब्रह्मण्यो वै ब्रह्मजो ब्रह्मवित्त्वं
ब्रह्मशेषो ब्रह्मवतां वरिष्ठः ।
ब्रह्मप्रियो ब्राह्मणसव्रती त्वं
ब्रह्मज्ञो वै ब्राह्मणानाञ्च नेता ॥”)

ब्रह्मज्ञः, त्रि, (ब्रह्मजानातीति । ब्रह्म + ज्ञा + क ।)

ब्रह्मवेत्ता । यथा, --
“स ब्रह्मज्ञः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः ।
चीनाचारक्रमाचारैर्यो यजेत्तारिणीं नरः ॥”
इति चीनाचारप्रयोगविधिः ॥

ब्रह्मज्ञानं, क्ली, (ब्रह्मणि ब्रह्मविषये यज्ज्ञानम् ।)

ब्रह्मविषयकज्ञानम् । इति समञ्जसावृत्तिः ॥ * ॥
तत्त्वमस्यादिवाक्यजन्यप्रतिफलितवृत्त्यारूढ-
ज्ञानम् । इति वेदान्तलघुचन्द्रिका ॥ “मिथ्या-
वासनाविरहविशिष्टमात्मभिन्नभिन्नज्ञानम् ॥
इतिमुक्तिवादः ॥ * ॥ “क्लेशकर्म्मविपाकाशय-
निवर्त्तकहिरण्यगर्भविषयकं ज्ञानम् ।” इति
वैजयन्तीधृतपातञ्जलमतम् ॥ * ॥ “प्रकृतिपुरु-
षयोर्विवेकविषयज्ञानम् ।” इति तत्रैव सांख्य
मतम् ॥ तथा च ।
सूत उवाच ।
“वेदान्तसांख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् ॥
अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् ।
सूर्य्ये हृद्व्योम्नि वह्रौ च ज्योतिरेकं त्रिधा
स्थितम् ॥
यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् ।
निर्गतं कर्म्मसंयुक्तं दत्तं तासां महाबलम् ॥
तथा विष्णुः शरीरस्थो न करोति हितं नृणाम् ।
विनाराधनया देवः सर्व्वगः परमेश्वरः ॥
आरुरुक्षुमतीनान्तु कर्म्मज्ञानमुदाहृतम् ।
आरूढयोगवृक्षाणां ज्ञानं त्यागः परं मतम् ॥
ज्ञातुमिच्छति शब्दादीन् रागद्वेषोऽथ जायते ।
लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् ॥
हस्तावुपस्थमुदरं वाक् चतुर्थी चतुष्टयम् ।
एतत् सुसंयतं यस्य स विप्रः कथ्यते बुधैः ॥
परवित्तं न गृह्णाति हिंसां न कुरुते तथा ।
नाक्षक्रीडारतो यस्तु तस्य हस्तौ सुसंयतौ ॥
परस्त्रीवर्जनपरस्तस्योपस्थं सुसंयतम् ।
अलोलुपो मितं भुङ्क्ते जठरं तस्य संयतम् ॥
सत्यं हितं मितं ब्रूते यः सदा तस्य वाग् यता ।
यस्य संयतान्येतानि तस्य किं तपसाध्वरैः ॥
ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणाञ्च सर्व्वदा ।
विश्वेश्वरे परे देवे ध्यानमेतत् प्रकीर्त्तितम् ॥
भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः ।
जीवो जाग्रदवस्थायामेवमाहुर्विपश्चितः ॥
इन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते ।
स्वप्नान् पश्यत्यसौ जीवो वाह्यानाभ्यन्तरानथ ॥
हृदि स्थितः स तमसा मोहितो न स्मरत्यपि ।
यदा कस्य कुतो वेत्ति सुसुप्तिरिति कथ्यते ॥
जाग्रतो यस्य नो तन्द्रीर्न मोहो न भ्रमस्तथा ।
उत्पद्यते न जानाति शब्दादिविषयान् वशी ॥
इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा ।
बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥
संयम्य प्रकृतिञ्चापि चिच्छक्त्या केवले स्थितः ।
पश्यत्यात्मनि चात्मानमात्मनात्मप्रकाशकम् ॥
चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् ।
तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥
शब्दादयो गुणाः पञ्च सत्त्वाद्यास्तु गुणास्त्रयः ।
पुर्य्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥
साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका ।
कर्णिकायां स्थितो जीवो देहे चिद्रूप एव हि ॥
पुर्य्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् ।
यदा याति तदा जीवो याति मुक्तिं न संशयः ।
शरीरेण चतुर्भागः कर्म्म बुद्धीन्द्रियाणि च ।
त्रिपञ्चकं विनश्येत याति पुर्य्यष्टकं सदा ।
सन्धार्य्यञ्चैव जीवेन योगसेवी हि मुक्तिभाक् ॥
पृष्ठ ३/४४६
प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥
पापक्षयो देवतानां प्रीतिरिन्द्रियसंयमः ।
मनसः स्थिरता तेभ्यस्तत्त्वालोकश्च सर्व्वदा ॥
गायत्त्र्या प्रणवेनाथ मात्रया प्राणसंयमः ।
जपध्यानयुतो गर्भस्तेन हीनस्त्वगर्भकः ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठश्चतुर्विंशतिमात्रिकः ।
मध्या द्वादशमात्रास्तु ॐकारं सततं जपेत् ॥
श्रुत्वा यथास्वरं सम्यक् शब्दं गौर्याति संमुखी ।
प्रणवे च कृते तद्वत् परं ब्रह्म न संशयः ॥
चारके प्रणवे जप्ते परं ब्रह्म प्रसीदति ।
अष्टाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरा ॥
सर्व्वेषामिन्द्रियाणान्तु प्रवृत्तिर्विषयेषु या ।
निवृत्तिर्मनसा तस्यां प्रत्याहारः प्रकीर्त्तितः ॥
इन्द्रियाणीन्द्रियार्थेभ्य समाहृत्य स्थितो हि सः ।
मनसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥
प्राणायामैर्द्वादशभिर्यावत् कालकृतो भवेत् ।
यस्तावत् कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् ॥
तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ।
तुष्टे तु नियतो युक्तः समाधिः सोऽभिधीयते ॥
ध्यायन्न चलते यस्य मनोऽभिध्यायते भृशम् ।
प्राप्यावधिकृतं कालं यावत् सा धारणा स्थिता ।
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ।
नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम् ॥
ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ।
यत्तत् ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥
ध्येयमेव हि सर्व्वत्र ध्येयस्तल्लयतां गतः ।
पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ॥
मनः संकल्परहितमिन्द्रियार्थांस्तु चिन्तयन् ।
यस्य ब्रह्मणि संलीनं समाधिस्थः स कीत्तितः ॥
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ।
मनस्तल्लयतां याति समाधिस्थः स कीर्त्तितः ॥
चित्रस्यास्थिरता भ्रान्तिदौर्मनस्यं प्रमादता ।
योगिनां कथिता दोषा योगविघ्नप्रवर्त्तकाः ॥
स्थित्यर्थं मनसः सर्व्वं स्थूलरूपं विचिन्तयेत् ।
तद्ब्रतं निश्चलीभूतं सूर्य्यस्थं स्थिरतां व्रजेत् ॥
न विना परमात्मानं किञ्चिज्जगति विद्यते ।
विश्वरूपं तमेवेह इति ज्ञात्वा न मुह्यति ॥
ॐ कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् ।
क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रार्थयान्वितम् ॥
हृदि सञ्चिन्तयेत् पूर्ब्बं प्रधानं तस्य चोपरि ।
तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् ॥
कृष्णरक्तसितं तस्मिन् पुरुषं जीवसंज्ञितम् ।
तस्योपरि गुणैश्वर्य्यमष्टपत्रं सरोरुहम् ॥
ज्ञानन्तु कर्णिका तत्र विज्ञानं केशरं स्मृतम् ।
वैराग्यं नालं तत्कन्दो वैष्णवो धर्म्म उत्तमः ॥
कर्णिकायां स्थितं चक्रं जीववन्निश्चलं विभुम् ।
ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् ॥
व्यक्ताव्यक्ते च षुरुषस्तिस्रो मात्राः प्रकीर्त्तिताः ।
अर्द्धमात्रा परं ब्रह्म ज्ञेयोऽध्यात्मविदुत्तमैः ॥
ध्यायन् यदि त्यजेत् प्राणान् याति ब्रह्मण्य-
सैनिकम् ।
हरिं संस्थाप्य देहेऽब्जे ध्यायन् योगी च
मुक्तिभाक् ॥
आत्मानमात्मना केचित् पश्यन्ति ध्यानचक्षुषः ।
सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ॥
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदकम् ।
तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ॥
जितेन्द्रियान्तःकरणो ज्ञानतृप्तो हि यो भवेत् ।
स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ॥
आसनस्थानविधयो न योगस्य प्रसाधकाः ।
विलम्बजनकाः सर्व्वे विस्ताराः परिकीर्त्तिताः ॥
शिशुपालः सिद्धिमागात् स्मरणाभ्यासमौरवात् ।
आश्रमाः सर्व्व एवेह पूर्ब्बरात्रे परे तथा ॥
योगाभ्यासं प्रकुर्व्वन्तः पश्यन्त्यात्मानमात्मना ।
सर्व्वभूतेषु कारुण्यं विद्बेषं विषयेषु च ॥
गुप्तशिश्नोदरादिञ्च कुर्व्वन् योगी विमुच्यते ।
इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥
काष्ठवत् ब्रह्मसंलीनो योगयुक्तस्तदा भवेत् ॥
सर्व्वे वर्णाः स्त्रियः सर्व्वाः कृत्वा पापानि
भस्मसात् ।
ध्यानाग्निनामलाः सन्तो लभन्ते परमां गतिम् ।
मथनात् दृश्यते ह्मग्निस्तद्बत् ध्यानेन वै हरिः ॥
ब्रह्मात्त्मनोर्यदेकत्वं स योगश्चोत्तमोत्तमः ॥
वाह्यैरुपायैर्मुक्तिर्न नान्तःस्थैः स्याद्यमादिभिः ।
सांख्यज्ञानेन योगेन वेदान्तश्रवणेन च ।
प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ॥
अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता ।
दुःखाभावे तथा सौख्यं माया विद्याविना-
शिनी ॥”
इति गारुडे ब्रह्मज्ञाने २४० अध्यायः ॥

ब्रह्मज्ञानी, त्रि, (ब्रह्मज्ञानं विद्यतेऽस्य । ब्रह्म-

ज्ञान + इन् ।) ब्रह्मज्ञानविशिष्टः । यथा, --
“कुशलाकुशलावृत्तिरहितः समदर्शकः ।
लिङ्गाश्रमपरित्यागी ब्रह्मज्ञानी निगद्यते ॥”
इति शङ्करानन्ददीपिका ॥
तेनापि कृष्णभक्तिः कर्त्तव्या । यथा, --
ब्रह्मानन्देन पूर्णोऽहं तेनानन्देन पूर्णधीः ।
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ॥”
इति पाद्मे पातालखण्डे जावालिं प्रति ब्रह्म-
विद्यावचनम् ॥

ब्रह्मण्यः, पुं, (ब्रह्मणे हितः । ब्रह्मन् + “खलयव-

माषतिलवृषब्रह्मणश्च ।” ५ । १ । ७ । इति यत् ।
“येचाभावकर्म्मणोः ।” ६ । ४ । १६८ । इत्यन्-
प्रकृत्या ।) विष्णुः । यथा, महाभारते १३ ।
१४९ । ८४ ।
“ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्द्धनः ।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥”
अपि च ।
“ब्रह्मण्यो देवकीपुत्त्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥”
इत्याह्निकचन्द्रिका ॥
ब्रह्मदारुवृक्षः । इत्यमरः । २ । ४ । ४१ ॥ मुञ्ज-
तृणम् । तूलवृक्षः । इति राजनिर्घण्टः ॥
शनैश्चरः । (स्त्री । दुर्गा । यथा महाभा-
रते ६ । २२ । २६ ।
“वेदश्रुतिमहापुण्ये ब्रह्मण्ये जातवेदसि ।
जम्बूकटकचैत्येषु नित्यं सन्निहितालये ॥”)
ब्रह्मणि साधौ त्रि । इति मेदिनी । ये, ९६ ॥

ब्रह्मण्यदेवः, पुं, (ब्रह्मण्यो देवः ।) श्रीकृष्णः ।

यथा, --
“नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥”
इति नारदीयपुराणम् ॥
(यथा च भागवते । ४ । २१ । ३७ ।
“ब्रह्मण्यदेवः पुरुषः पुरातनो
नित्यं हरिर्यच्चरणाभिवन्दनात् ॥”)

ब्रह्मतालः, पुं, चतुर्मुखतालः । स तु, दशताला-

त्मकः । तत्र ७ मात्राः । मात्रा तु, क च ट
त पु इति पञ्चाक्षराणामुच्चारणकालः । सैव
लघुमात्रा । तदर्द्धं द्रुतमात्रा । तन्मध्ये ४
लघवः ६ द्रुताः । ० । ०० । ००० । यथा, --
“चतुर्मुखाभिधे ताले जगणानन्तरं प्लुतः ॥”
इति सङ्गीतदामोदरः ॥

ब्रह्मतीर्थं, क्ली, (ब्रह्यणस्तीर्थम् ।) पुष्करमूलम् ।

इति राजनिर्घण्टः ॥ पुष्करतीर्थञ्च ॥ (तत्र
स्नानफलम् । यथा, महाभारते । ३ । ८३ ।
१०५ ।
“ततो गच्छेत राजेन्द्र ! ब्रह्मणस्तीर्थमुत्तमम् ।
तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।
ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ॥”)

ब्रह्मत्वं, क्ली, ब्रह्मणो भावः । (“ब्रह्मणस्त्वः ।” ५ ।

१ । १३६ । इति त्वः ।) तत्पर्य्यायः । ब्रह्मभूयम्
२ ब्रह्मसायुज्यम् ३ । इत्यमरः । २ । ७ । ५२ ।
ब्रह्मसापूज्यम् ४ । इति शब्दरत्नावली ॥ (यथा,
मार्कण्डेये । ५७ । ६० ।
“ब्रह्मत्वममरेशत्वं देवत्वं मरुतस्तथा ॥”)

ब्रह्मदण्डः, पुं, (ब्रह्मणो ब्राह्मणस्य दण्डः सिद्ध-

यष्टिः ।) ब्राह्मणयष्टिका । इति शब्दचन्द्रिका ॥
वशिष्ठस्य सिद्धयष्टिः । यथा, --
“धिग्वलं क्षत्त्रियबलं ब्रह्मतेजो बलं बलम् ।
एकेन ब्रह्मदण्डेन बहवो नाशिता मम ॥”
इति रामायणे विश्वामित्रवाक्यम् ॥
(ब्रह्मणो ब्राह्मणस्य शापरूपो दण्डः ।) ब्रह्म-
शापः । यथा, --
“ब्रह्मदण्डहता ये च विद्युदग्निहताश्च ये ।
तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥”
इति तिथ्यादितत्त्वम् ॥
(अयं हि राजधर्म्मे शत्रुनाशनोपायः । यदुक्तं
महाभारते । २ । ५ । १२३ ।
“कच्चिदस्त्राणि सर्व्वाणि ब्रह्मदण्डश्च तेऽनघ ! ।
विषयोगास्तथा सर्व्वे विदिताः शत्रुनाशनाः ॥”)

ब्रह्मदण्डी, स्त्री, (ब्रह्मणे ब्रह्मोपासनार्थं दण्डी

क्षुद्रो दण्डः ।) क्षुद्रक्षुपविशेषः । तत्पर्य्यायः ।
अजदण्डी २ कण्टपत्रफला ३ । अस्या गुणाः ।
कटुत्वम् । उष्णत्वम् । कफशोफानिलापहत्वञ्च ।
इति राजनिर्घण्टः ॥ (यथा गारुडे १८६
अध्याये ।
“ब्रह्मदण्डी तु पुष्पेण स्नाने पाने वशीकरा ॥”)