शब्दकल्पद्रुमः/फ

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/३७८

, फकारः । द्वाविंशतितमव्यञ्जनवर्णः । (पवर्गस्य

द्बितीयवर्णश्च ।) अस्योच्चारणस्थानं ओष्ठः ।
इति व्याकरणम् ॥ (यदुक्तं सिद्धान्तकौमुद्याम् ।
“उपूपध्मानीयानामोष्ठौ ॥”) तस्य तत्त्वं यथा, --
“फकारं शृणु चार्व्वङ्गि । रक्तविद्यल्लतोपमम् ।
चतुर्व्वर्गप्रदं वर्णं पञ्चदेवमयं सदा ॥
पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् ।
आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा ॥”
इति कामधेनुतन्त्रे पञ्चमपटकः ॥ * ॥
“वक्रा वामगता रेखा ततोऽधःसङ्गता भवेत् ।
तस्मादूर्द्ध्वगता भूत्वा दक्षमारभ्य कुण्डली ॥
ब्रह्मा रुद्रश्च विष्णुश्च कुण्डली ब्रह्मरूपिणी ।
मात्रा वामाद्दक्षिणतः क्रमशः परिकीर्त्तिता ॥”
इति वर्णोद्धारतन्त्रम् ॥
तत्पर्य्यायः ।
“फकारश्च महेशानि ! शिखी चैव जनार्द्दनः ॥”
इति रुद्रयामलोक्तवर्णाभिधानम् ॥
अस्य ध्यानं यथा, --
“प्रलयाम्बुदवर्णाभां ललज्जिह्वां चतुर्भुजाम् ।
भक्ताभयप्रदां नित्यां नानालङ्कारभूषिताम् ॥
एवं ध्यात्वा फकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य नामानि यथा, --
“फः सखी दुर्गिणी धूम्रा वामपार्श्वो जनार्द्दनः ।
जया पादः शिखा रौद्री फेत्कारः शाखिनी-
प्रियः ॥
उमा विहङ्गमः कालः कुब्जिनीप्रियपावकौ ।
प्रलयाग्निर्नीलपादोऽक्षरः पशुपतिः शशी ॥
फुत्कारो यामिनी व्यक्ता पावनो मोहवर्द्धनः ।
निष्फलवागहङ्कारः प्रयागो ग्रामणीः फलम् ॥”
इति नानातन्त्रशास्त्रम् ॥
(पद्यादौ अस्य प्रयोगेन भयसम्भावना । यदुक्तं
वृत्तरत्नाकरटीकायाम् ।
“दोधः सौख्यं मुदं नः सुखभयमरणक्लेशदुःखं
पवर्गः ॥”)

फं, क्ली, (फक्व असद्व्यवहारे + डः ।) रूक्षोक्तिः ।

फुत्कृतिः । निष्फलभाषणम् । इति मेदिनी । फे, १ ॥

फः, पुं, यक्षसाधनम् । स्फानम् । झञ्झावातः ।

इति मेदिनी । फे, १ ॥ वर्द्धकः । जृम्भानिष्फारः ।
स्फुटः । फललाभः । इति विश्वः ॥ संज्ञाविशेषः ।
यथा । “हसोऽन्तः फः । हसो विरामश्च फसंज्ञः
स्यात् ।” इति मुग्धबोधव्याकरणम् ॥

फक्क, असद्व्यवहारे । शनैर्गतौ । इति कवि-

कल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।) कोपधः ।
फक्कति खलः कुत्सितं व्यवहरतीत्यर्थः । फक्वति
वृद्धो मन्दं गच्छतीत्यर्थः । इति दुर्गादासः ॥

फक्किका, स्त्री, (फक्व + “धात्वर्थनिर्द्देशे ण्वुल्

वक्तव्यः ।” इति वार्त्तिकोक्त्या ण्वुल् । टापि अत
इत्वम् ।) असद्व्यवहारः । फाकि इति भाषा ।
तत्पर्य्यायः । चोद्यम् २ देश्यम् ३ पूर्ब्बपक्षः ४ ।
इति शब्दरत्नावली ॥ (यथा, नैषधे । २ ।
९५ ।
“फणिभाषितभाष्यफक्विका
विषमा कुण्डलनामवापिता ॥”)
न्यायसम्बन्धिव्याख्या । यथा, --
“श्रीमता मथुरानाथतर्कवागीशधीमता ।
विषदीकृत्य दर्श्यन्ते द्वितीयमणिफक्विकाः ॥”
इत्यनुमानखण्डटीकारम्भे मथुरानाथः ॥

फञ्जिका, स्त्री, (भनक्ति रोगानिति । भञ्ज आम-

र्द्दने + ण्वुल् । पृषोदरादित्वात् भस्य फः । टापि
अत इत्वम् ।) ब्राह्मणयष्टिका । इत्य-
मरः । २ । ४ । ८९ ॥ (यथा, वैद्यकरसेन्द्रसार-
संग्रहे ज्वराधिकारे बृहच्चूडामणिरसे ।
“निर्गुण्डी फञ्जिका वासारविमूलत्रिकण्टकैः ॥”
“फञ्जिका ब्राह्मणयष्टिका ।” इति तट्टीका ॥)
देवताडः । दुरालभा । इति शब्दचन्द्रिका ॥

फञ्जिपत्रिका, स्त्री, (भनक्ति रोगानिति भञ्जि ।

पृषोदरादित्वात् भस्य फः । फञ्जि रोगहारकं
पत्रं यस्याः । कप् । ठाप् । अत इत्वम् ।)
आखुपर्णी । इति रत्नमाला ॥ (विवृतिरस्या
आखुपर्णीशब्दे ज्ञातव्या ॥)

फञ्जी, स्त्री, (भनक्ति रोगानिति । भञ्ज + अच् ।

पृषोदरादित्वात् भस्य फः । गौरादित्वात् ङीष् ।)
भार्गी । इति राजनिर्घण्टः ॥ (यथा, वैद्यक-
चक्रपाणौ श्वासाधिकारे ।
“अमृता नागरफञ्जीव्याघ्रीपर्णाससाधितः
क्वाथः ।
पीतः सकणाचूर्णः कासश्वासौ निहन्त्याशु ॥”
तथाचास्या गुणाः हारीते प्रथमस्थाने दशमे-
ऽध्याये ।
“वत्सादनी तथा फञ्जी तैलपर्णी तु सिंहिका ।
चक्रमर्द्दक इत्यन्ये दुर्ज्जरा वातकोपनाः ॥”)

फट्, व्य, अनुकरणशब्दः । अस्त्रबीजम् । यथा ।

फडस्त्रं शस्त्रमायुधम् । इति बीजवर्णाभिधा-
नम् ॥ * ॥ शान्तिकुम्भक्षालने अर्घ्यपात्रक्षालने
अर्घ्यजलेन पूजोपकरणाभ्युक्षणे अन्तरीक्षग-
विघ्नोत्सारणे विकिरक्षेपणे गन्धपुष्पाभ्यां
करशोधने अघमर्षणे पापपुरुषताडने कराङ्ग-
न्यासे नैवेद्यप्रोक्षणे होमाग्नेः क्रव्यादांशत्यागे
होमाग्न्यावाहने तदग्निप्रोक्षणादौ च फडिति-
मन्त्रस्य प्रयोगः ॥ (यथा, भागवते । ६ । ८ । १० ।
“सविसर्गं फडन्तं तत् सर्व्वदिक्षु विनिर्द्दिशेत् ॥”
विशीर्णादौ, त्रि । यथा, वाजसनेयसंहितायाम् ।
७ । ३ । “देवां£शो यस्मै त्वेडे तत्सत्यमुपरि
प्रुता भङ्गेन हतोऽसौ फट् ॥”
“असौ द्वेष्यो हतो निहतः सन् फट् विशीर्णो
भवतु ञिफला विशरणे अस्य क्विबन्तस्यैतद्रूपम् ।
फलतीति फट् डलयोरैक्यम् । स्वाहाकारस्थाने
फडित्यभिचारे प्रयुज्यते ।” इति तद्भाष्ये वेद-
दीपे महीधरः ॥)

फटः, पुं स्त्री, (स्फुट विकसने + पचाद्यच । पृषो-

दरादित्वात् साधुः) फणा । इत्यमरजटाधरौ ॥

फटा, स्त्री, (फट + स्त्रियां टाप् ।) फणा ।

(यथा, पञ्चवन्त्रे । ३ । ८३ ।
“निर्व्विषेणापि सर्पेण कर्त्तव्या महती फटा ।
विषं भवति मा वास्तु फटाटोपो भयङ्करः ॥”)
दम्भः । इति मेदिनी । टे, २३ ॥ कितवः ।
इति हेमचन्द्रः ॥ * ॥
“स्यात् पवर्गद्बितीयादि फटायान्तु स्फटापि
च ॥”
इतिभरतधृतशब्दभेदः ॥

फडिङ्गा, स्त्री, (फडिति शब्दं इङ्गति गच्छतीति ।

इङ्ग गतौ + अच् । टाप् ।) झिल्लिका । इति
शब्दचन्द्रिका ॥ फडिङ्ग इति भाषा ॥

फण, ण निःस्नेहे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) फेणतुः पफणतुः ।
निःस्नेहः अनायासेनोत्पत्तिः । फणति वाञ्छितं
श्रीमताम् । अनायासेन जातम् । अस्यैव ञ्यन्तस्य
पृष्ठ ३/३७९
निष्ठायां अनायासकृतं फाण्टं इत्यमरः ॥
अतएव रमानाथोऽपि घटादौ फण गतौ
इत्यत्र गतेरन्यत्र । फाणयति जनोऽनायासेन
जनयतीत्यर्थ इत्याह । इति दुर्गादासः ॥

फण, मि ण गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) मि, फणयति फाणयति ।
ण, फेणतुः पफणतुः । इति दुर्गादासः ॥

फणः, त्रि, (फनति विस्तृतिं गच्छतीति । फण +

अच् ।) सर्पस्य विस्तृतमस्तकम् । यथा । फटा-
यान्तु फणा द्वयोरित्यमरः ॥ शशोर्णं कारणं
फणम् । इति क्लीवकाण्डे चन्द्रगोमी ॥ तत्-
पर्य्यायः । फणा २ फणम् ३ फटा ४ फटः ५
स्फटः ६ स्फटा ७ । इत्यमरभरतौ ॥ दर्व्वी ८
भोगः ९ स्फुटः १० । इति हेमचन्द्रः । ४ । ३८१ ॥
स्फुटा ११ दर्व्विः १२ फटी १३ । इति शब्द-
रत्नावली ॥ (यथा, महाभारते । १२ । ११४ । १५ ।
“परिवादं ब्रुवाणो हि दुरात्मा वै महाजने ।
प्रकाशयति दोसांस्तु सर्पः फणमिवोच्छ्रितम् ॥”
जत्रूर्द्ध्वस्थमर्म्मविशेषः । यथा, सुश्रुते । ३ । ६ ।
“जत्रूर्द्ध्वं मर्म्माणि चतस्रो धमन्योऽष्टौ मातृकाः
द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्बावपाङ्गौ
द्वावावर्त्तौ द्बावुत्क्षेपौ द्बौ शङ्खावेका स्थपनी
पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपति-
रिति ॥”)

फणकरः, पुं, (फणः कर इवास्येति । फणस्य करो

वा ।) भुजङ्गः । इति शब्दरत्नावली ॥

फणधरः, पुं, (धरतीति । धृ + अच् । फणस्य

धरः ।) सर्पः । इति शब्दरत्नावली ॥

फणधरधरः, पुं, (फणधरस्य सर्पस्य धरः ।) शिवः ।

इति कविकल्पलता ॥

फणभृत्, पुं, (फणं बिभर्त्तीति । भृ + क्विप् तुक् च ।)

सर्पः । इति हेमचन्द्रः । ४ । ३६९ ॥ (यथा,
राजेन्द्रकर्णपूरे । ४ ।
“व्याप्तव्योमतले मृगाङ्कधवले निर्धौतदिङ्मण्डले
देवत्वद्यशसि प्रशान्ततमसि प्रौढे जगत् प्रेयसि ।
कैलासन्ति महीभृतः फणभृतः शेषन्ति
पाथोधयः
क्षीरोदन्ति सुरद्विपन्ति करिणो हंसन्ति
पुंस्कोकिलाः ॥”)

फणवान्, [त्] पुं, (फणोऽस्यास्तीति । फण +

मतुप् । मस्य वः ।) सर्पः । इति शब्दरत्नावली ॥

फणा, स्त्री, (फणति प्रसारसङ्कोचं गच्छतीति ।

फण गतौ + अच् । टाप् ।) सर्पफटा । इत्य-
मरः । १ । ८ । ९ ॥ (यथा, अभिज्ञानशकु-
न्तले ६ अङ्के ।
“ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां
कुरुते ।
तेजस्वी संक्षोभात् प्रायः प्रतिपद्यते तेजः ॥”)

फणाकरः, पुं, (करोतीति । कृ + अच् । फणाया

करः ।) सर्पः । इति शब्दरत्नावली ॥

फणाधरः, पुं, (धरतीति । धृ + अच् । फणाया

धरः ।) सर्पः । इति शब्दरत्नावली ॥

फणाभरः, पुं, (बिभर्त्ति धरतीति । भृ + पचाद्यच् ।

फणाया भरः ।) सर्पः । इति हारावली । १५ ॥

फणावान्, [त्] पुं, (फणास्यास्तीति । फणा +

मतुप् । मस्य वः ।) सर्पः । इति शब्दरत्नावली ॥

फणिकेसरं, क्ली, (फणीव केसरोऽस्य ।) नाग-

केसरम् । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य
नागकेसरशब्दे ज्ञातव्याः ॥)

फणिखेलः, पुं, (फणिना सह खेलतीति । खेल +

अच ।) भारतीपक्षी । इति त्रिकाण्डशेषः ॥
भारै इति भाषा ॥

फणिचक्रं, क्ली, (फण्याकारं चक्रम् ।) विवाहादि-

कर्म्मसु शुभाशुभज्ञानार्थं सप्तविंशतिनक्षत्र-
घटितसर्पाकारत्रिनाडिकचक्रम् । यथा, --
“अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् ।
तत्र वेधवशाज्ज्ञेयं विवाहादौ शुभाशुभम् ॥
त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तराः ।
हस्तेन्द्रमूलवारुण्यः पूर्ब्बभाद्रपदास्तथा ॥
याम्यः सौम्यो गुरुर्योनिश्चित्रा मित्रजलाह्वयम् ।
धनिष्ठा चोत्तरा भाद्रा मध्यनाडीव्यवस्थिताः ॥
कृत्तिका रोहिणी सर्पो मघा स्वातीविशाखके ।
उत्तरा श्रवणा पौष्णं पृष्ठनाडीव्यवस्थिताः ॥
अश्वादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् ।
याम्यादितुर्य्यतुर्य्यञ्च कृत्तिकादिद्विषट्ककम् ॥
एवं निरीक्षयेद्बेधं कन्यामन्त्रे गुरौ सुरे ।
पण्यस्त्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥
एकनाडीस्थधिष्टानि यदि स्युर्व्वरकन्ययोः ।
तदा वेधं विजानीयाद्गुर्व्वादिषु तथैव च ॥
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः ।
प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो भवेत् ।
द्वयोर्जन्मभयोर्व्वेधे न कर्त्तव्यं कदाचन ॥
एकनाडीस्थिता चेत् स्याद्भर्त्तुर्नाशाय चाङ्गना ।
तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥
प्राङ्नाड्या वेधतो भर्त्ता भध्यनाड्यो भयन्तथा ।
पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः ॥
एकनाडीस्थिता यत्र गुरुर्मन्त्रश्च देवता ।
तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥
समासन्ने वधे शीघ्रं दूरवेधे चिरेण तु ।
वेधान्तरभमानेन वर्षे दुष्टं प्रजायते ॥
प्रभुः पण्याङ्गना मित्रं देशो ग्रामः पुरं
गृहम् ।
एकनाडीगता भव्या अभव्या वेधवर्ज्जिताः ।
एकराश्यादियोगे तु नाडीदोषो न विद्यते ॥”
इति ज्योतिस्तत्त्वम् ॥
अपि च ।
“सर्पाकारो घटनविशेषः
कृत्तिकादियमदैवतशेषः ।
पृष्ठे सुतहतिसङ्कटरोगः
क्रोडे कान्तापुत्त्रवियोगः ।
मध्ये रेखे विहितविवाह
उभयोर्म्मरणं वदति वराहः ॥
क्रोडे पृष्ठे यश उद्दामम्
मध्ये क्रोडे बहुसम्मानम् ।
मध्ये पृष्ठे भवति विवाहो
बहुसुतवित्तमिति च मुनिराह ॥”
इति समयप्रदीपः ॥ * ॥
तस्य विन्यासो यथा, --
पृष्ठे १ ६ ७ १२ १३ १८ १९ २४ २५
मध्ये २ ५ ८ ११ १४ १७ २० २३ २६
क्रोडे ३ ४ ९ १० १५ १६ २१ २२ २७ ॥

फणिजिह्वा, स्त्री, (फणिजिह्वेव आकृतिरस्त्यस्या

इति अच् ।) महाशतावरी । महासमङ्गा ।
इति राजनिर्घण्टः ॥

फणिज्झकः, पुं, (फणिनामुज्झकः बहिष्कारक

उत्पादक इति यावत् । पृषोदरादित्वात् साधुः ।
फणितुल्यबहुपत्रपुष्पवत्त्वात् तथात्वम् ।) क्षुद्र-
पत्रतुलसी ॥ (रक्तवर्णतुलसी च । तत्पर्य्यायश्च
यथा, वैद्यकरत्नमालायाम् ।
“मुगन्धाको गन्धनामा तीक्ष्णगन्धः फणिज्-
झकः ॥”)
जम्बीरभेदः । इति केचित् ॥ जम्बीरसामान्यः ।
इति केचित् ॥ तत्पर्य्यायः । समीरणः २ मरुवकः
३ प्रस्थपुष्पः ४ जम्बीरः ५ । इत्यमरभरतौ ॥
(यथा, --
“मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः ।
फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

फणितः, त्रि, (फण गतौ + क्तः ।) गतः ।

निःस्नेहितः ॥

फणितल्पगः, पुं, (फणी शेष एव तल्पं फणि-

तल्पं तस्मिन् गच्छतीति । गम + डः ।) विष्णुः ।
सर्पशय्यायां गच्छति यः । इति व्युत्पत्तिः ॥

फणिप्रियः, पुं, (फणिनां प्रियः भक्ष्यत्वात् ।)

वायुः । इति शब्दरत्नावली ॥

फणिफेनः, पुं, (फणिनां फेन इव उग्रगुणत्वात् ।)

अहिफेनः । आफिं इति भाषा । यथा, --
“जातीफलं टङ्गणमम्रकञ्च
हिङ्गूलगन्धं परिमर्द्द्य यामम् ।
भागद्वयं स्यात् फणिफेनकस्य
गान्धालिकापत्ररसेन मर्द्द्यम् ॥”
इति रत्नावली ॥

फणिवल्ली, स्त्री, (फणीव दीर्घा वल्ली ।) नाग-

वल्ली । इति राजनिर्घण्टः ॥

फणिहन्त्री, स्त्री, (फणिनो हन्त्रीति । हन् + तृच्

+ ङीप् ।) गन्धनाकुली । इति राजनिर्घण्टः ॥

फणिहृत्, स्त्री, (फणिनो हरति स्वगन्धेन अपसा-

रयतीति । हृ + क्विप् । तुगागमश्च ।) क्षुद्र-
दुरालभा । इति राजनिर्घण्टः ॥

फणी, [न्] पुं, (फणास्त्यस्येति । फणा + “ब्रीह्या-

दिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) सर्पः ।
इत्यमरः ॥ (यथाच सुश्रुते कल्पस्थाने ४ अध्याये ।
“ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः ।
मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः ॥”
पृष्ठ ३/३८०
तद्दंशनप्रतीकारविधिर्यथा, --
“फणिनां विषवेगे तु प्रथमे शोणितं हरेत् ।
द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ॥
नस्यकर्म्माञ्जने युञ्ज्यात्तृतीये विषनाशने ।
वान्तं चतुर्थे पूर्ब्बोक्तां यवागूमथ दापयेत् ॥
शीतोपचारं कृत्वादौ भिषक्पञ्चमषष्ठयोः ।
दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥
सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् ।
तीक्ष्णमेवाञ्जनं दद्यात्तीक्ष्णशस्त्रेण मूर्द्ध्नि च ॥
कुर्य्यात्काकपदं चर्म्म सासृग्वा पिशितं क्षिपेत् ॥”
इति च सुश्रुते कल्पस्थाने पञ्चमेऽध्याये ॥)
सर्पिणीनामकौषधिः । इति राजनिर्घण्टः ॥
(केतुः । यथा, ग्रहभावप्रकाशे ।
“कविरत्यन्तधवलः फणी कृष्णः शनिस्तथा ॥”
सीसकं अस्य विषयो यथा, --
“रसो गन्धष्टङ्गणः सोषणोऽयं
फणी पिप्पलीत्येष धुस्तूरपिष्ठः
जयेत् सन्निपातं द्बिगुञ्जकानुपानं
भवेदर्कमूलाम्बु सव्योषचूर्णम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे पञ्च-
वक्त्ररसे ॥ मरुवकनामौषधं यथा, --
“मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः ।
फणी फणिज्झकश्चापि प्रस्थप्रष्पः समीरणः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)

फणीश्वरः, पुं, (फणिनामीश्वरः ।) अनन्तः ।

इति शब्दरत्नावली ॥

फण्डः, पुं, (फणति । फण गतौ + “ञमन्तात्

डः ।” उणा० १ । ११३ । इति डः ।) जठरम् ।
इत्यणादिकोषः ॥

फत्कारी, पुं, (फत् इत्यव्यक्तशब्दं करोतीति । कृ +

णिनिः ।) पक्षिमात्रम् । इति शब्दचन्द्रिका ॥

फरं, क्ली, (फलतीति । फल् + अच् । लस्य रत्यम् ।)

फलकम् । इत्यमरटीकायां भरतः ॥

फरुवकं, क्ली, पूगपात्रम् । इति हारावली । १३७ ॥

फर्फरीकः, पुं, (स्फुरतीति । स्फुर स्फुरणे + “फर्फ-

रीकादयश्च ।” उणा० ४ । २० । इति ईकन्
धातोः फर्फरादेशश्च ।) चपेटः । मार्द्दवे, क्ली ।
इति मेदिनी । के, २०० ॥

फर्फरीका, स्त्री, (फर्फरीक + टाप् ।) पादुका ।

(स्फुरतीति ईकन् । टाप् । मनसि स्फुरणा-
देव तथात्वम् ।) मदनः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

फल, निष्पत्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।)
“इह नवशुककोमला मणीनां
रविकरसम्बलिताः फलन्ति भासः ॥
इति भारविः ॥
निष्पादनेऽपि वाल्मीकिः ।
फलति स्म यस्य चरितस्तोत्राय दिव्या गिरः ॥”
इति दुर्गादासः ॥

फल, ज गतौ । इति कविकस्त्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) ज, फालः फलः । इति दुर्गादासः ॥

फल, ञि आ भिदि । इति कविकल्पद्रुमः । (भ्वा०-

पर०-सक०-सेट् ।) ञि, फुल्लोऽस्ति । आ, फलितं
फुल्तं तेन । फलति काष्ठं कुठारः । इति
दुर्गादासः ॥

फलं, क्ली, (फलतीति । फल निष्पत्तौ ञि फला

विशरणे वा + अच् ।) लाभः । (यथा, शकु-
न्तलायाम् । १ अङ्के ।
“शान्तमिदमाश्रमपदं स्फुरति च बाहुः
कुतः फलमिहास्य ।
अथवा भवितव्यानां द्बाराणि भवन्ति सर्व्वत्र ॥”)
शस्यम् । (यथास्य भक्षणविधिः ।
“फलानि सर्व्वभक्ष्यांश्च प्रदद्याद्बै दलेषु च ॥”
“फलानि सर्व्वभक्ष्यांश्च परिशुष्काणि यानि च ।
तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ॥”
इति सुश्रुते सूत्रस्थाने । ४६ अध्यायः ॥
यथा च शकुन्तलायाम् ।
“उदेति पूर्ब्बं कुसुमं ततः फलं
घनीदयः प्राक् तदनन्तरं पयः ॥”)
फलकम् । (शारिफलकार्थे यथा, महाभारते ।
४ । १ । २४ ।
“वैदूर्य्यान् काञ्चनान् दान्तान् फलैर्ज्योतीरसैः
सह ।
कृष्णाक्षान् लोहिताक्षांश्च निर्व्वत्स्यामि मनो-
रमान् ॥”)
हेतुकृतम् । इत्यमरः ॥ जातीफलम् । व्युष्टिः ।
त्रिफला । (यथा, --
“हरीतकी चामलकी विभीतकमिदं त्रयम् ।
त्रिफला फलमित्युक्तं तच्च ज्ञेयं फलत्रिकम् ॥”
इति वैद्यकपरिभाषायाम् ॥)
कक्कोलम् । इति मेदिनी । ले, ३३ ॥ वाणाग्रम् ।
आर्त्तवम् । इति शब्दरत्नावली ॥ फालः । इति
हेमचन्द्रः ॥ दानम् । इति धरणिः ॥ मुष्कः ।
यथा, --
“अफलो भुज्यते मेषः सफलस्तु न भुज्यते ।”
इति रामायणम् ॥
(प्रमेयभेदः । यथा, --
“आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्य-
भावफलदुःखापवर्गास्तु प्रमेयम् ॥” इति गोतम-
सूत्रम् ।
तत्रैव फलसूत्रम् यथा । “प्रवृत्तिदोषजनितो-
ऽर्थः फलम् ॥” “सुखदुःखसंवेदनं फलम् । सुख-
विपाकं कर्म्मदुःखविपाकञ्च तत् पुनर्देहेन्द्रिय-
विषयबुद्धिषु सतीषु भवतीति सह देहादिभिः
फलमभिप्रेतम् । तथाहि प्रवृत्तिदोषजनितो-
ऽर्थः फलमेतत् सर्व्वं भवति तदेतत् फलमुपात्तमु-
पात्तं हेयं त्यक्तं त्यक्तमुपादेयमिति नास्य
हानोपादानयोर्निष्ठा पर्य्यवसानं वास्ति स
खल्वयं हानोपादानस्रोतसोह्यते लोकः ।” इति
वात्स्यायनः ॥) जीवस्य कर्म्मफलभुक्तिर्यथा, --
“जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एवच ।
आत्मनः प्रतिविम्बश्च देही जीवः स एव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
दानफलं यथा, --
“यथा फलन्ति शस्यानि न्यूनानि वाधिकानि च ।
कृषकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ॥
सामान्यदिवसे विप्रे दानं समफलं भवेत् ।
अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् ।
चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च ॥
ग्रहणे शशिनः कोटिगुणञ्च फलमेव च ।
सूर्य्यस्य ग्रहणे चापि ततो दशगुणं भवेत् ॥
अक्षयायामक्षयञ्चैवासंख्यं फलमुच्यते ।
एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिह ॥
यथा दाने तथा स्नाने जपेऽन्यत्पुण्यकर्म्मसु ।
एवं सर्व्वत्र बोद्धव्यं नराणां कर्म्मणां फलम् ॥
सामान्यदेशे दानञ्च विप्रे समफलं भवेत् ।
तीर्थे देवगृहे चैव फलं शतगुणं स्मृतम् ॥
गङ्गायाञ्च कोटिगुणं क्षेत्रे नारायणे फलम् ।
एवं सर्व्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥
यथा चैव कोटिगुणं तथा च विष्णुमन्दिरे ।
केदारे च लक्षगुणं हरिद्बारे तथा फलम् ॥
पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम् ।
एवं सर्व्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ॥
सामान्यब्राह्मणे दानं सममेव फलं भवेत् ।
लक्षं त्रिसन्ध्यपूते च पण्डिते च जितेन्द्रिये ॥
विष्णुमन्त्रोपासके च बुधे कोटिगुणं भवेत् ।
एवं सर्व्वत्र बोद्धव्यं फलाधिक्यं गुणं भवेत् ॥
यथा दण्डेन सूत्रेण शरावेण जवेन च ।
कुम्भं निर्म्माति चक्रेण कुम्भकारो मृदा भुवि ।
तथैव कर्म्मसूत्रेण फलं धाता ददाति च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३४ अध्यायः ॥ * ॥
स्वप्रियफलस्य विष्णुदेयत्वम् यथा, --
“भक्ष्याणि यानि पेयानि भोज्यान्यभिमतानि
च ।
फलञ्च वल्लभं यच्च तत्तद्देयं जनार्द्दने ॥”
इत्यग्निपुराणम् ॥ * ॥
इष्टकफलद्वारा फलपातननिषेधो यथा, --
“न पातयेदिष्टकाभिः फलानि वै फलेन तु ।
न म्ले च्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥”
इति कौर्म्मे उपविभागे १६ अध्यायः ॥
कर्म्मजन्यशुभादृष्टदुरदृष्टसम्भवस्वर्गनरकादि ।
तत्त्रिविधं यथा, --
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्म्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥”
इति श्रीभगवद्गीतायाम् १८ अध्यायः ॥
“अनिष्टं नारकित्वम् । इष्टं देवत्वम् । मिश्रं मनु-
ष्यत्वम् । एवं त्रिविधं पापस्य पुण्यस्य उभय-
मिश्रस्य च कर्म्मणो यत् फलं प्रसिद्धं तत् सर्व्व-
मत्यागिनामेव प्रेत्य परत्र भवति तेषां त्रिविष-
कर्म्मसम्भवात् न तु सन्न्यासिनां क्वचिदपि
भवति ।” इति तट्टीकायां श्रीधरस्वामी ॥ * ॥
वेदादीनां फलम् । यथा, वह्निं प्रति मरीचि-
वाक्यम् ।
“स तं प्राह फलं ब्रूहि वेदस्य च धनस्य च ।
दारश्रुतस्य विप्रादेः स्वर्गापवर्गहेतवे ॥
पृष्ठ ३/३८१
वह्निरुवाच ।
अग्निहोत्रफला वेदा दत्तमुक्तफलं धनम् ।
रतिपुत्त्रफला दाराः शीलवृत्तफलं श्रुतम् ॥”
इति वह्निपुराणे नित्याह्निकस्नानविधिनामा-
ध्यायः ॥ * ॥ लवणादिसंयोगे फलस्यान्नत्वं यथा,
“तण्डुलोम्ब्वग्निसंयोगाल्लवणयोगेन पिष्टकम् ।
फलं त्रितयसंयोगादन्नं भवति तत्क्षणात् ॥”
इति रामार्च्चनचन्द्रिकाधृतवचनमिति केचित् ॥

फलः, पुं, (फलतोति । फल + अच् ।) कुटज-

वृक्षः । इति शब्दरत्नावली ॥ (यथा, सुश्रुते
सूत्रस्थाने ४६ अध्याये ।
“कण्टकारिकाफलपटोलवार्त्ताकुकारवेल्लक-
र्कटिकाकेबुकोरुवूकपर्प्पटककिराततिक्तकर्कोट-
कारिष्टकोशातकीवेत्रकरीराटरुषकार्कपुष्पीप्र-
भृतीनि ॥”)

फलकं, क्लो, पुं, (फल + संज्ञायां कन् ।) चर्म्म ।

इत्यमरः । २ । ८ । ९० ॥ ढाल इति भाषा ॥
(यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । ३३ ।
“शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ
सहस्रम्
विभ्राणाः शस्त्रजालं मम ददतु हरेर्बाहवो
मोहहानिम् ॥”)

फलकः, पुं, (फल + संज्ञायां कन् ।) अस्थिखण्डम् ।

इति जटाधरः ॥ नागकेशरम् । इति शब्द-
चन्द्रिका ॥ काष्ठादिफलकम् । यथा, --
“पाण्डुलेख्येन फलके भूमौ वा प्रथमं लिखेत् ।
ऊनाधिकन्तु संशोध्यं पश्चात् पत्रे निवेशयेत् ॥”
इति व्यवहारतत्त्वे व्यासः ॥
(यथा, मार्कण्डेये । ८७ । ५ ।
“भृकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी ॥”)
रजकपट्टम् । धोपार पाट इति भाषा । यथा,
“शाल्मले फलके श्लक्ष्णे निज्याद्बासांसि नेजकः ।
न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥”
इति मिताक्षरा ॥

फलकपाणिः, पुं, (फलकं पाणौ यस्य ।) चर्म्मी ।

इत्यमरः ॥ २ । ८ । ७१ ॥ ढाली इति भाषा ॥

फलकर्कशा, स्त्री, (फलेन कर्कशा ।) वनकोलिः ।

इति केचित् ॥

फलकामः, त्रि, (फलं कामयते इति । कम +

अण् ।) कर्म्मफलकामी । यथा, --
“धर्म्मवाणिजिका मूढाः फलकामा नराधमाः ।
अर्च्चयन्ति जगन्नाथं ते कामान्नाप्नुवन्त्युत ॥”
इति मलमासतत्त्वधृतविष्णुधम्मात्तरीयतृतीय-
काण्डीयवचनम् ।

फलकी, [न्] पुं, (फलकं फलकाकारोऽस्त्यस्येति ।

फलक + इनिः ।) मत्स्यभेदः । फलुइ इति
भाषा । (गुणादिकमस्य फलिशब्दे ज्ञात-
व्यम् ।) फलकान्विते, त्रि । इति मेदिनी ।
ने, १९ ॥

फलकृष्णः, पुं, (फले फलावच्छेदे कृष्णः ।) पानीया-

मलकम् । इति शब्दचन्द्रिका ॥

फलकेशरः, पुं, (फले केशरा इवास्य ।) नारी-

केलवृक्षः । इति जटाधरः ॥

फलकोषकः, पुं, (फलं मुष्क एव कोषो यत्र । ततः

कन् ।) मुष्कः । इति त्रिकाण्डशेषः ॥ (विवृति-
रस्य मुष्कशब्दे ज्ञातव्या ॥)

फलग्रहिः, त्रि, (फलं गृह्णातीति । ग्रह + इन् ।)

फलेग्रहिः । यथासमयं फलधरवृक्षः । इत्यमर-
टीकायां भरतः ॥

फलग्राही, [न्] पुं, (फलं गृह्णातीति । ग्रह +

णिनिः ।) वृक्षः । इति धरणिः ॥ फलग्रहण-
कर्त्तरि, त्रि ॥

फलचमसः, पुं, दधिमिश्रितवटत्वक्चूर्णम् । इति

श्राद्धतत्त्वम् ॥

फलचोरकः, पुं, (फलं चोर इवास्य कन् ।) चोरक-

नामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

फलत्रयं, क्ली, (फलस्य त्रयम् ।) द्राक्षापरूष-

काश्मर्य्यः । (यथा, --
“द्राक्षपरूषकाश्मर्य्यैः फलत्रयमुदाहृतम् ॥”
इति वैद्यकपरिभाषायाम् ॥)
त्रिफला । इति शब्दचन्द्रिका ॥

फलत्रिकं, क्ली, (फलस्य त्रिकम् ।) त्रिफला ।

(यथा, --
“पथ्याविभीतधात्रीणां फलैः स्यात्त्रिफला समैः ।
फलत्रिकञ्च त्रिफला सा वरा च प्रकीर्त्तिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शुण्ठीपिप्पलीमरिचानि । इत्यमरः । २ । ९ । १११ ॥

फलदः, पुं, (फलं ददातीति । दा + “आतोऽनुप-

सर्गे ।” ३ । २ । ३ । इति कः ।) वृक्षः । इति
धरणिः ॥

फलदः, त्रि, (फलं ददातीति । दा + कः ।) फल-

दाता । यथा, --
“विशिष्टफलदा कन्या निष्कामाणां विमुक्तिदा ॥”
इति मलमासतत्त्वधृतविष्णुपुराणवचनम् ॥

फलपञ्चाम्लं, क्ली, अम्लपञ्चफलम् । इति राज-

निर्घण्टः ॥

फलपाकः, पुं, (फलेषु पाकोऽस्य ।) करमर्द्दकः ।

इत्यमरटीकायां भरतः ॥ पानीयामलकम् ।
इति शब्दचन्द्रिका ॥

फलपाकान्ता, स्त्री, (फलपाकेनान्तो नाशो यस्याः ।)

ओषधिः । धान्यकदल्यादिः । इत्यमरः । २ । ४ । ७ ॥

फलपाकी, [न्] पुं, (फलपाकोऽस्त्यस्येति । इनिः ।)

गर्द्दभाण्डः । इति रत्नमाला ॥ (यथास्य पर्य्यायः ।
“नन्दीवृक्षस्ताम्रपाकी फलपाकी च पीतनः ।
गर्द्दभाण्डो गन्धमुण्डो द्बितीयः क्षिप्रपाक्यसौ ॥”
इति च वैद्यकरत्नमालायाम्)

फलपुच्छः, पुं, (फलं पुच्छ इव यस्य ।) वरण्डालुः ।

इति त्रिकाण्डशेषः ॥

फलपुष्पा, स्त्री, (फलानि पुष्पाणीवास्याः ।) पिण्ड-

खर्ज्जूरी । इति राजनिर्घण्टः ॥

फलपूरः, पुं, (फलेन पूरः पूर्णः ।) बीजपूरः ।

इत्यमरः । २ । ४ । ७८ ॥ (विवरणमस्य बीज-
पूरशब्दे ज्ञातव्यम् ॥)

फलपूरकः, (फलपूर + स्वार्थे कन् ।) बीजपूरः ।

इति भावप्रकाशः ॥

फलप्रदः, त्रि, (फलं प्रददातीति । प्र + दा +

“आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।)
फलदाता । यथा, --
“क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः ।
फलार्थी धान्यमादाय ययौ सर्व्वफलप्रदः ॥”
इति श्रीभागवते १० स्कन्धे ११ अध्यायः ॥

फलप्रिया, स्त्री, (फलेन प्रीणातीति । प्री + कः ।

टाप् ।) प्रियङ्गुः । इति राजनिर्घण्टः ॥ (गुणा-
दयोऽस्या प्रियङ्गुशब्दे ज्ञेयाः ॥)

फलभाक्, [ज्] त्रि, (फलं भजते इति । भज +

“भजो ण्विः ।” ३ । २ । ६२ । इति ण्विः ।)
फलभागी । यथा, --
“मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्व्वशः ।
उल्लेखनमकुर्व्वाणो न तस्य फलभाग्भवेत् ॥”
इति तिथ्यादितत्त्वधृतब्रह्माण्डभविष्यपुराण-
वचनम् ॥

फलभूमिः, स्त्री, (फलाय कर्म्मफलभोगाय भूमिः ।)

कर्म्मफलभोगस्थानम् । यथा, --
“भरतान्यैरावतानि विदेहाश्च कुरून् विना ।
वर्षाणि कर्म्मभूम्यः स्युः शेषाणि फलभूमयः ॥”
इति हेमचन्द्रः । ४ । १२ ॥

फलमुख्या, स्त्री, (फलेन मुख्या श्रेष्ठा ।) अज-

मोदा । इति राजनिर्घण्टः ॥

फलमुद्गरिका, स्त्री, (फले फलावच्छेदे मुद्गरिका

क्षुद्रमुद्गर इव ।) पिण्डखर्ज्जूरः । इति शब्द-
माला ॥

फललक्षणा, स्त्री, (फलहेतुका लक्षणा ।) प्रयो-

जनवती लक्षणा । यथा, साहित्यदर्पणे ।
“व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ।”

फलवर्त्तुलं, क्ली, (फलं वर्त्तुलमस्य ।) कालिङ्गम् ।

इति राजनिर्घण्टः ॥

फलवान्, [त्] त्रि, (फलमस्यास्तीति । फल +

मतुप् । मस्य वः ।) फलयुक्तवृक्षः । तत्पर्य्यायः ।
फलिनः २ फली ३ । इत्यमरः ॥ फलितः ४ ।
इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४७ ।
“अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥”)

फलविक्रयिणी, त्रि, (फलविक्रयोऽस्या अस्तीति ।

इनिः । ङीप् ।) फलविक्रेत्री । कुज्डायिनी
इति हिन्दी भाषा । यथा, --
“फलविक्रयिणी तस्य च्युतधान्यकरद्बयम् ।
फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥”
इति श्रीभागवते १० स्कन्धे ११ अध्यायः ॥

फलवृक्षकः, पुं, (फलप्रधानो वृज्ञः । संज्ञायां

कन् ।) पनसः । इति राजनिर्घण्टः ॥
(पनसशब्देऽस्य विशेषो व्याख्यातः ॥)

फलशाकं, क्ली, (फलमेव शाकम् ।) षडिधशाका-

न्तर्गतफलरुपशाकम् । यथा, राजवल्लमे ।
“पत्रं पुष्पं फलं नालं कन्दं संस्वेदजं तथा ।
शाकं षड्विधमुद्दिष्टं गुरु विद्याद्यथोत्तरम् ॥”
पृष्ठ ३/३८२

फलशाडवः, पुं, दाडिमः । इति त्रिकाण्डशेषः ॥

फलशाली [न्], त्रि, (फलेन शालते श्लाघते इति ।

शाल् + णिनिः ।) फलाश्रयः । यथा, --
“परसमवेतधात्वर्थजन्यफलशालित्वं कर्म्मत्वम् ॥”
इति कर्म्मलक्षणे सारमञ्जरी ॥

फलशैशिरः, पुं, (शिशिरं प्राप्तमस्य अण् शैशिरम् ।

फलं शैशिरं यस्य ।) वदरवृक्षः । इति राज-
निर्घण्टः ॥

फलश्रुतिः, स्त्री, (फलस्य कर्म्मफलस्य श्रुतिः श्रव-

णम् ।) कर्म्मफलश्रवणम् । यथा, --
“फलशुतिरियं नॄणां न श्रेयो रोचनं परम् ।
श्रेयो विवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥”
अपि च ।
“वेदोक्तमेव कुर्व्वाणो निःसङ्गोऽर्पितमीश्वरे ।
नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥”
इति श्रीभागवते ११ स्कन्धः । इति मलमासतत्त्वम् ॥

फलश्रेष्ठः, पुं, (फलानां फलवृक्षाणां श्रेष्ठः ।)

आम्रवृक्षः । इति शब्दचन्द्रिका ॥

फलसः, पुं, पनसवृक्षः । इत्यमरटीकायां भरतः ॥

फलस्नेहः, पुं, (फले स्नेहो यस्य ।) आखोटवृक्षः ।

इति राजनिर्घण्टः ॥

फलहारी, स्त्री, काली । फलं हरति या ढात्

षण्णिति कर्म्मोपपदहृञ् घातोः षणि ईप्प्रत्यय-
निष्पन्नोऽयं शब्दः । सा ज्यैष्ठपञ्चदश्यां बहु-
फलाद्युपहारैः पूजनीया । यथा, --
“ज्यैष्ठे मासि अमायां वै मध्यरात्रे महेश्वरि ! ।
पूजयेत् कालिकां देवीं नानाद्रव्योपहारकैः ॥
तत्रैव सितपक्षे तु पञ्चदश्यां निशार्द्धके ।
पूजयेच्च फलैर्लक्षैः शक्तितो वापि कालिकाम् ॥”
इति मायातन्त्रे १७ पटलः ॥

फला, स्त्री, झिञ्झिरिष्टाक्षुपः । इति राज-

निर्घण्टः ॥ (शमी । तत्पर्य्यायो यथा, --
“शमी शक्तुफला तुङ्गा केशहन्त्री फलाशिवा ।
मङ्गल्या च तथा लक्ष्मीः शमीरः साल्पिका
स्मृता ॥”)

फलाठ्या, स्त्री, (फलेन आठ्या सम्पन्ना ।) काष्ठ-

कदली । इति राजनिर्घण्टः ॥

फलाध्यक्षं, क्ली, (फलानामध्यक्षमिव ।) राजा-

दनवृक्षः । इत्यमरः । २ । ४ । ४५ ॥ (क्वचित्,
पुं । अस्य पर्य्यायः ।
“राजादनः फलाध्यक्षोराजन्यः क्षीरिकापिच ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
फलानामधिकृते, त्रि ॥

फलादनः, पुं, (फलानामदनोभक्षकः । यद्बा,

फलानां अदनं भक्षणं यस्य ।) शुकपक्षी ।
इति हेमचन्द्रः । ४ । ४०१ ॥ फलभक्षके, त्रि ॥

फलान्तः, पुं, (फलेषु सत्सु अन्तो नाशो यस्य ।)

वंशः । इति शब्दमाला ॥

फलाम्लं, क्ली, (फलमम्लं यस्य ।) वृक्षाम्लम् । इति

राजनिर्घण्टः ॥ (यथा, सुश्रुते सूत्रस्थाने ४६अ ॥
“मद्यं मद्योचितानान्तु सर्व्वमांसेषु पूजितम् ।
अमद्यपानामुदकं फलाम्लं वा प्रशस्यते ॥”)

फलाम्लः, पुं, (फलमम्लमस्य ।) अम्लवेतसः ॥ इति

राजनिर्घण्टः ॥

फलार्थी [न्] त्रि, (फलं अर्थयते इति । अर्थ +

णिनिः ।) फलकामी । यथा, --
“सर्व्वसूक्तेषु कर्त्तव्या प्रतिष्ठा विधिना बुधैः ।
फलार्थिभिस्त्वप्रतिष्ठं यस्मान्निष्फलमुच्यते ॥”
इति मठप्रतिष्ठातत्त्वधृतहयशीर्षपञ्चरात्रीय-
सङ्कर्षणकाण्डीयवचनम् ॥

फलाशनः, पुं, (फलानश्नातीति । अश + ल्युः ।)

शुकपक्षी । इति त्रिकाण्डशेषः ॥ फलभक्षके, त्रि ॥

फलासङ्गः, पुं, (फलेषु आसङ्गः ।) फलासक्तिः ॥

यथा, --
त्यक्त्वा कर्म्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्म्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः ॥”
इति श्रीभगवद्गीतायां ४ अध्यायः ॥

फलिः, पुं, (फल + इन् ।) मत्स्यविशेषः । फलुइ

इति भाषा । अस्य गुणाः । स्वादुत्वम् । गुरू-
त्वम् । स्निग्धत्वम् । बलकारित्वम् । शुक्रबर्द्धन-
त्वञ्च । इति राजवल्लभः ॥

फलिका, स्त्री, (फलमस्या अस्तीति । फल + ठन् ।

टाप् ।) निष्पावी । इति राजनिर्घण्टः ॥ (फला
स्वार्थे कनि अत इत्वम् । शरादेरग्रभागः ।
यथा, आर्य्यासप्तशत्याम् । ३३५ ।
“न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे
बाधाम् ।
त्वं मम भग्नावस्थितकुसुमायुधविशिख-
फलिकेव ॥”)

फलितं, त्रि, (फल + तारकादित्वात् इतच् ।)

फलमस्य जातम् । इति मुग्धबोधव्याकरणम् ॥
(यथा, देवीभागवते । १ । १७ । १२ ।
“संपश्यन् विविधान् देशान् लोकांश्च वित्त-
धर्म्मिणः ।
वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥”)
वृक्षे, पुं । इति धरणिः ॥ शैलेये, क्ली । इति
राजनिर्घण्टः ॥

फलिनः, त्रि, (फलानि सन्त्यस्येति । फल +

“बहूलमन्यत्रापि ।” उणा० २ । ४९ । इति
इनच् ।) फलवान् । इत्यमरः । २ । ४ । ७ ॥
पनसे फलवति वृक्षे च पुं । इति राज-
निर्घण्टः ॥

फलिनी, स्त्री, (फलमस्या अस्तीति । इनिः ।

ङीप् ।) प्रियङ्गुवक्षः ॥ (पर्य्यायोऽस्या यथा, --
“प्रियङ्गुः फलिनी कान्ता लता च महिलाह्वया ।
गुन्द्रा गुन्द्रफला श्यामा विष्वक्सेनाङ्गना
प्रिया ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
यथा, रघौ । ८ । ६१ ।
“मिथुनं परिकल्पित त्वया
सहकारः फलिनी च नन्विमौ
अविधाय विवाहसत्क्रिया-
मनयो र्गम्यत इत्यसाम्प्रतम् ॥”)
अग्निशिखावृक्षः । इत्यमरः । २ । ४ । १३६ ॥

फली, [न्] त्रि, (फलमस्यास्तीति । फल + इनिः ।)

फलयुक्तवृक्षादिः । इत्यमरः । २ । ४ । ७ ॥

फली, स्त्री, (फलमस्त्यस्या इति अर्श आदिभ्यः

अच् । स्त्रियां ङीप् ।) प्रियङ्गुवृक्षः । इत्यमरः ।
२ । ४ । ७ ॥ (यथा, वैद्यकरत्नमालायाम् ।
“विश्वक्सेना प्रिया कान्ता प्रियङ्गुः फलिनी-
फली ॥”
फलि + वा ङीष् ।) फलिमतस्यः । इति शब्द-
माला ॥

फलूषः, पुं, लताभेदः । इत्युणादिकोषः ॥

फलेग्रहिः, पुं, (फलं गृह्णातीति । फल + ग्रह +

“फलेगृहिरात्मम्भरिश्च ।” ३ । २ । २६ । इति उप-
पदस्य एदन्तत्वं ग्रहेरिन् प्रत्ययश्च निपात्यते ।)
यथासमयं फलधरवृक्षः । ऋतुप्राप्तौ फलानि
गृह्णाति घारयतीति फलेग्रहिः शकृत्स्तम्बादि-
त्यादिना इः सूत्रे फले इति निर्द्देशात् एकारः ।
किंवा फले गृह्णाति इति फलेग्रहिः कर्म्मण्या-
धारविवक्षा निपातनात् सप्तम्या अलुक् लुकि
फलग्रहिश्च फलेग्रहिः फलग्रहिरिति वाच-
स्पतिः । इह ग्रहिर्धारणार्थः स्वीकारार्थश्च
अत्र धारणार्थे वृक्ष एव रूढिः । स्वीकारार्थे
तु क्रियाशब्दतैव यथा फलेग्रहीन् हंसि वन-
स्पतीनामिति भट्टिः ॥ इति रायमुकुटादयः ।
इत्यमरटीकायां भरतः ॥ फलग्रहणकर्त्तरि, त्रि ॥

फलेग्राहिः, पुं, (फले गृह्णातीति । ग्रह् + इन् ।

पृषोदरात् वृद्धिः । निपातनात् सप्तम्या अलुक् ।)
फलेग्रहिः । इति शब्दरत्नावली ॥

फलेन्द्रः, पुं, (फलेन इन्द्रः ऐश्वर्य्यशालीव । बृहत्-

फलत्वादेवास्य तथात्वम् ।) बृहज्जम्बुः । तत्-
पर्य्यायः । नन्दः २ राजजम्बुः ३ महाफला ४
सुरभिपत्रा ५ महाजम्बुः ६ । अस्य गुणाः ।
स्वादुत्वम् । विष्टम्भित्वम् । गुरुत्वम् । रोचन-
त्वञ्च । इति भावप्रकाशः ॥

फलेपुष्पा, स्त्री, (फले फलमुखे पुष्पं यस्याः ।

सप्तम्या अलुक् ।) क्षुद्रक्षुपविशेषः । गूमा इति
हिन्दीभाषा । तत्पर्य्यायः । द्रोणा २ द्रोणपुष्पी
३ । अस्या गुणाः । गुरुत्वम् । स्वादुत्वम् ।
रूक्षत्वम् । उष्णत्वम् । वातपित्तकारित्वम् ।
क्षारत्वम् । लवणत्वम् । स्वादुपाकत्वम् । कटु-
त्वम् । भेदकत्वम् । कफामकामलाशोथतमक-
श्वासजन्तुनाशित्वञ्च । इति भावप्रकाशः ॥

फलेरुहा, स्त्री, (फले रोहतीति । रुह + कः ।

सप्तस्या अलुक् ।) पाटलिवृक्षः । इत्यमरः ।
२ । ३ । ५४ ॥ (अस्याः पर्य्यायो यथा, --
“पाटलालिप्रिया स्थाली ताम्रपुष्पी फलेरुहा ।
कामदूती कुवेराक्षी कुम्भी तोयाधिवासिनी ॥”
इति वैद्यकरत्नमालायाम् ॥)

फलेसक्तः, त्रि, (फले सक्त आसक्तः ।) फलासक्तः ।

फलकामी । यथा, भगवद्गीतायाम् ।
“युक्तः कर्म्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठि-
कीम् ॥
अयुक्तः कामकारेण फलेसक्तो निबध्यते ॥”
पृष्ठ ३/३८३
‘फलेसक्तः मम फलायेदं कर्म्म करोमीत्येवं फले-
सक्तो नितरां बन्धं प्राप्नोति ।’ इति मलमास-
तत्त्वम् ॥

फलोत्तमा, स्त्री, (फलेषु उत्तमा ।) काकली-

द्राक्षा । इति राजनिर्घण्टः ॥ (दुग्धिका । तत्-
पर्य्यायो यथा, --
“उत्तमा दुग्धिका दुग्धी फलोत्तमा फलिन्यपि ॥”
इति वैद्यकरत्नमालायाम् ॥)

फलोत्पत्तिः, पुं, (फलाय उत्पत्तिरस्य । प्रशस्त-

फलानां उत्पत्तिरत्र वा ।) आम्रवृक्षः । इति
शब्दचन्द्रिका ॥

फलोदयः, पुं, (फलस्य उदयो यत्र ।) लाभः ।

सुरालयः । हर्षः । इति शब्दरत्नावली ॥
(फलस्य उदयः ।) फलोत्पत्तिः । यथा, रघुः ।
“सोऽहमाजन्मशुद्धानामाफलोदयकर्म्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥”

फल्कः, पुं, (फल निष्पत्तौ + “कृदाघारार्च्चिफलिभ्यः

कः ।” उणा० ३ । ४० । इति कः । सूत्रेऽत्र कलिभ्य
इति पाठस्य विकल्पितत्वात् बाहुलकात् क
इत्येके ।) विसारिताङ्गम् । इत्युणादिकोषः ॥

फल्गु, त्रि, (फल निष्पत्तौ + “फलिपाटिनमि-

मनिजनामिति ।” उणा० १ । १९ । इत्युः गुगा-
गमश्च ।) असारम् । इत्यमरः । ३ । १ । ५६ ॥
(यथा, माघे । ३ । ७६ ।
“तरीषु तत्रत्यमफल्गु भाण्डं
सांयात्रिकानावपतोऽभ्यनन्दत् ॥”)
निरर्थकम् । इति त्रिकाण्डशेषः ॥ (यथा,
देवीभागवते । ५ । १५ । ३२ ।
“न फल्गुवाक्यैः प्रतिबोधनीयो
राजा तु वीरैरिति नीतिशास्त्रम् ॥”)
सामान्यम् । क्षुद्रम् । यथा, भागवते । १ । १३ । ४७ ।
“अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥”)

फल्गुः, स्त्री, (फल निष्पत्तौ + उः । गुगागमश्च ।)

गयास्थनदीभेदः । तस्या माहात्म्यादि यथा, --
सार्द्धक्रोशद्बयं मानं गयायां परिकीर्त्तितम् ।
पञ्चक्रोशं गयाक्षेत्रं क्रोशमेकं गयाशिरः ॥
तत्र पिण्डप्रदानेन तृप्तिर्भवति शाश्वती ।
नगाज्जनार्द्दनाच्चैव कूपाच्चोत्तरमानसात् ॥
एतद्गयाशिरः प्रोक्तं फल्गुतीर्थं तदुच्यते ।
तत्र पिण्डप्रदानेन पितॄणां परमा गतिः ॥
पृथिव्यां यानि तीर्थानि ये समुद्राः सरांसि च ।
फल्गुतीर्थं गमिष्यन्ति वारमेकं दिने दिने ॥”
इति गारुडे ८३ अध्यायः ॥
अन्यत् गयाशब्दे द्रष्टव्यम् ॥ * ॥ काकोडम्बरिका ।
इत्यमरः ॥ काकडुमुर इति भाषा ॥ (अस्याः
पर्य्यायो यथा, --
“भद्रा मलपूः फल्गुः स्यात् काकडुम्बरिका च
सा ॥”
इति वैद्यकरत्नमालायाम् ॥)
अस्या गुणाः । गुरुत्वम् । ग्राहित्वम् । शीत-
लत्वम् । स्वादुत्वम् । तृप्तिकारित्वञ्च । इति
राजवल्लभः ॥ रेणुभेदः । फागु इति प्रसिद्धः ।
मिथ्यावाक्यम् । इति शब्दरत्नावली ॥ वस-
न्तर्त्तुः । इति जटाधरः ॥

फल्गुदा, स्त्री, (फल्गुरिति नाम ददाति धारय

तीति । दा धारणे + कः ।) गयानदी । यथा,
“तत्र देशे गया नाम पुण्यदेशोऽतिविश्रुतः ।
नदी च फल्गुदा नाम पितॄणां स्वर्गदायिनी ॥”
इति बृहद्धर्म्मपुराणे ५६ अध्यायः ॥

फल्गुनः, पुं, (फलति कार्य्यादिकमस्मादिति ।

फल निस्पत्तौ + “फलेर्गुक् च ।” उणा० ३ ।
५६ । इति उनन् गुगागमश्च । फल्गुन्यां
फल्गुनीनक्षत्रे जातः इति वा । “श्रविष्ठा
फल्गुन्यनुराधेति ।” ४ । ३ । ३४ । इति जातार्थ-
प्रत्ययस्य लुक् । “लुक् तद्धितलुकि ।” १ । २ । ४९ ।
इति स्त्रीप्रत्ययस्य च लुक् । एतन्निरुक्तिस्तु
फाल्गुनशब्दे द्रष्टव्या ।) अर्ज्जुनः । फाल्गुन-
मासः । इत्यमरटीकायां भरतः ॥ (फल्गुनी-
भवे, त्रि । इति सिद्धान्तकौमुदी ॥)

फल्गुनालः, पुं, (फल्गुनेन अलतीति । अल् +

अच् ।) फाल्गुनमासः । इति भूरिप्रयोगः ॥

फल्गुनी, स्त्री, (फल्गुन + गौरादित्वात् ङीष् ।)

नक्षत्रविशेषः । तच्च पूर्ब्बफल्गुनी उत्तर-
फल्गुनी च । इति भरतधृतगोवर्द्धनानन्दः ॥
(यथा, महाभारते । ४ । ४२ । १६ ।
“उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्टे तेन मां फाल्गुनं विदुः ॥)
काकोदुम्बरिका । इति राजनिर्घण्टः ॥ (फल्-
गुन्यां जाता । श्रविष्ठाफल्गुनीति अणो लुकि
लुक्तद्धितलुकीति स्त्रीप्रत्ययस्य च लुकि फल्-
गुन्यषाढाभ्यां टानौ वक्तव्यौ इति वार्त्तिकोक्त्या
टः । टित्वात् ङीप् ॥)

फल्गुवाटिका, स्त्री, (फल्गूनां वाटीव इवार्थे

कन् ।) काकोदुम्बरिका ॥ इति राजनिर्घण्टः ॥
(“गुणादयोऽस्याः काकोदुम्बरिकाशब्दे ज्ञेयाः ॥”)

फल्गुवृन्ताकः, पुं, (फल्गुना वृन्तेनाकायति

शोभते इति । आ + कै + कः ।) श्योनाक-
प्रभेदः । इति राजनिर्घण्टः ॥

फल्गूत्सवः, पुं, (फल्गूनामुत्सवः ।) फल्गु-

करणकगोविन्दोत्सवः । दोलयात्रा इति
ख्यातः । यथा, दोलयात्रापद्धतिः ।
“गोविन्दानुगृहीतन्तु यात्राङ्गं तत् प्रकीर्त्तितम् ।
फल्गूत्सवं प्रकुर्व्वीत पञ्चाहानि त्र्यहाणि वा ॥”

फल्यं, क्ली, (फलाय हितमिति । फल + यत् ।)

कुसुमम् । इति शब्दचन्द्रिका ॥

फल्लकी [न्] पुं, (फल्लकः फलकस्तदाकारोऽस्त्य-

स्येति । इनिः ।) मत्स्यविशेषः । इति शब्द-
माला ॥ फलुइ इति भाषा ।

फल्लफलः, पुं, सूर्पवातः । इति जटाधरः ॥ कुलार

वातास इति भाषा ॥

फाः, पुं, सन्तापः । निष्फलभाषणम् । यथा, --

“फिः कोपे फाश्च सन्तापे तथा निष्फलभाषणे ॥”
इति शब्दरत्नावली ॥
वृद्धिः । बर्द्धकः । यथा “फा वृद्धौ वर्द्धके
पुमान् ।” इति विश्वः ॥

फाटकी, स्त्री, (स्फुट + णुल् । ङीष् । पृषोदरा-

दित्वात् साधुः ।) स्फटी । इति राजनिर्घण्टः ॥

फाणिः, स्त्री, (फाणयतीति । फण गतौ + णिच् +

इन् ।) गुडः । करम्भः । इत्युणादिकोषः ॥

फाणितं, क्ली, (फण गतौ + णिच् + क्तः ।) अर्द्धा-

वर्त्तितेक्षुरसः । फेणीति ख्यातम् । इत्यमर-
भरतौ ॥ (यथा, महाभारते । १३ । ६४ । २३ ।
फल्गुनी पूर्ब्बसमये ब्राह्मणानामुपोषितः ।
भक्ष्यान् फाणितसंयुक्तान् दत्त्वा सौभाग्य-
मृच्छति ॥”)
अस्य गुणाः । गुरुत्वम् । अभिष्यन्दित्वम् ।
बृंहणत्वम् । कफशुक्रलत्वम् । वातपित्तश्रमनाशि-
त्वम् । मूत्रवस्तिविशोधनत्वञ्च ॥ * ॥
“इक्षो रसस्तु यः पक्वः किञ्चिद्गाढो बहुद्रवः ।
स एवेक्षुविकारेषु ख्यातः फाणितसंज्ञया ॥”
इति भावप्रकाशः ॥
(यथा च ।
“शिराहर्षेऽञ्जनं कुर्य्यात् फाणितं मधुसंयुतम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे नेत्ररोगाधिकारे ॥
“फाणितं शक्तवः सर्पि र्दधिमण्डोऽम्लकाञ्जिकम् ।
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्त्तहरं पिबेत् ॥”
इति चरके सूत्रस्थाने २३ अध्याये ॥)

फाण्टं, त्रि, (फण्यते स्मेति । फण गतौ + “क्षुब्ध-

स्यान्तध्वान्तेति ।” ७ । २ । १८ । इति निपा-
तनात् साधुः ।) अनायासकृतम् । इत्यमरः ।
७ । १ । ९४ ॥ कषायभेदः । यथा, --
“क्षिप्त्वोष्णतोये मृदितः फाण्ट इत्यमिधीयते ।”
अपि च ।
“क्षुण्णद्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् ।
पात्रे चतुःपलमिति ततस्तु स्रावयेज्जलम् ॥
सोऽयं चूर्णद्रवः फाण्टो भिषग्भिरभिधीयते ॥”
इति वैद्यकपरिभाषा ॥
(तथास्य प्रस्तुतविधिः ।
“सद्योऽभिष्णु पूतस्तु फाण्टन्तन्मानकल्पने ॥”
इति वाभटकल्पस्थाने षष्ठेऽध्याये ॥)

फालं, क्ली, (फलाय शस्याय हितम् । फल + अण् ।

यद्वा, फल्यते विदार्य्यते भूमिरनेनेति । फल +
घञ् ।) हलोपकरणम् । इति मेदिनी । ले, ३४ ॥

फालः, पुं, (फल्यते विदार्य्यते क्षेत्रमनेनेनि ।

फल + करणे घञ् ।) लाङ्गलस्थभूमिविदारक-
लौहः । फल्यते विशीर्य्यते मूमिरनेन सः ।
तत्पर्य्यायः । कृषिकः २ । इत्यमरः । २ । ९ । १३ ॥
कृषकः ३ । फलम् ४ । इति भरतः ॥ कृषि-
का ५ । फालम् ६ । इति मुकुटः ॥ कुशिकम् ७ ।
इति हेमचन्द्रः । ३ । ५५५ ॥ महादेवः । बल-
देवः । कार्पासवस्त्रे, त्रि । इति मेदिनी । ले, ३४ ॥
नवविधदिव्यान्तर्गताष्टमदिव्यम् । तस्य विधि-
र्यथा । बृहस्पतिः ।
“आयसं द्बादशपलघटितं फालमुच्यते ।
अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तरम् ॥
पृष्ठ ३/३८४
अग्निवर्णं ततश्चौरो जिह्वया लेहयेत् सकृत् ।
न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥”
चौरोऽत्र गोचौरः । गोचौरस्य प्रदातव्यं तप्त-
फालावलेहनमिति स्मृतिरिति मैथिलाः ॥
अत्रापि त्वमग्ने इत्यादिमन्त्रानन्तरं आयसं
लेलिहानस्य जिह्वयापि समादिशेदिति पिता-
महोक्तेः प्राड्विवाकशोध्याभ्यामग्र्यभिमन्त्रणं
कार्य्यम् ॥ * ॥ तत्र प्रयोगः । लौकिकचत्वारिंश-
त्तोलकमितं लौहघटितमष्टयवमध्यात्मकाङ्गुलाष्ट-
दीर्घं तथाविधचतुरङ्गुलप्रस्तारं फालमग्नौ ताप-
येत् । तत्र प्राड्विवाको धर्म्मावाहनादिहवनान्तं
कर्म्म कृत्वा दक्षिणां दत्त्वा, --
‘ॐ त्वमग्ने वेदाश्चत्वारस्त्वञ्च यज्ञेषु हूयसे ।
त्वं मुखं सर्व्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥
जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात्तस्मात् पाधक उच्यते ॥
पापेषु दर्शयात्मानमर्च्चिष्मान् भव पावक ! ।
अथवा शुभभावेन शीतो भव हुताशन ! ॥
त्वमग्ने सर्व्वभूतानामन्तश्चरसि साक्षिवत् ।
त्वमेव देव जानीषे न विदुर्यानि मानवाः ॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ।
तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥’
इत्येतैः फालस्थमग्निं अभिमन्त्रयेत् । शोध्यस्तु
प्रतिज्ञापत्रं शिरसि निधाय ।
‘त्वमग्ने सर्व्वभूतानामन्तश्चरसि पावक ! ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥’
इत्यनेनाभिमन्त्र्य अग्निवर्णं फालं जिह्वया सकृ-
ल्लिह्यात् न दग्धश्चेत्तदा शुद्धः ।” इति दिव्य-
तत्त्वम् ॥

फालकृष्टः, त्रि, (फालेन कृष्टः ।) फालेन कर्षित-

भूम्यादिः । यथा, मानवे । ४ । ४६ ।
“न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ।
न फालकृष्टे न जले न चित्यां न च पर्व्वते ॥”

फालाः, पुं, (फालयन्तीति । फल + णिच् + अच् ।)

जम्बीरबीजानि । इति दुर्गटीकाटिप्पनीकृत्-
कुलचन्द्रः ॥

फाल्गुनः, पुं, (फलति निष्पादयतीति । फल् +

“फलेर्गुक् च ।” उणा० ३ । ५६ । इति उनन्
ततो गुक् । ततः प्रज्ञाद्यण् । यद्वा फल्गुन्यां
फल्गुनीनक्षत्रे जातः फल्गुनः । स एव । अण्
एतन्निरुक्तिर्यथा, महाभारते । ४ । ४२ । १६ ।
“उत्तराभ्याञ्च पूर्ब्बाभ्यां फल्गुनीभ्यामहं दिवा ।
जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः ॥”)
गुडाकेशः । नदीजवृक्षः । अर्ज्जुनवृक्षः । तपस्य
मासः ॥ यथा, --
“फाल्गुनस्तु गुडाकेशे नदीजार्ज्जुनभूरुहे ।
तपस्यसंज्ञे मासे तत्पूर्णिमायान्तु फाल्गुनी ॥”
इति दन्त्यनान्तवर्गे मेदिनी ॥
अतएव ।
“फाल्गुने गगने फेने णत्वमिच्छन्ति वर्व्वराः ।”
इति कारिका समूलिका । अत्र अणत्वमिच्छ-
न्तीति अकारप्रश्लेषो भ्रान्तानाम् ॥ * ॥
(फाल्गुनी पौर्णमासी अस्मिन्निनि । “विभाषा
फल्गुनीश्रवणकार्त्तिकीचैत्रिभ्यः ।” ४ । २ । २३ ।
इति पक्षे अण् ।)
वैशाखादिद्बादशमासान्तर्गतैकादशमासः ।
फल्गुनीनक्षत्रयुक्ता पौर्णमासी यस्मिन् मासे
सः । इति तु प्रायिकाभिप्रायम् । स च त्रिविधः ।
मुख्यचान्द्रो गौणचान्द्रः सौरश्च । यथा ।
कुम्भस्थरविप्रारब्धशुक्लप्रतिपदादिदर्शान्तो मासो
मुख्यचान्द्रः । मुख्यचान्द्रफाल्गुनमासीयपौर्ण-
मास्यन्तः कृष्णप्रतिपदादिको मासो गौण-
चान्द्रः । कुम्भराशिस्थरविभोगोपलक्षितकाला-
त्मको मासः सौरः । इति मलमासतत्त्वम् ॥ * ॥
तत्पर्य्यायः । तप्रस्यः २ फाल्गुनिकः ३ फल्गुनः
४ । इत्यमरभरतौ ॥ वत्सरान्तकः ५ । इति
राजनिर्घण्टः ॥ * ॥ तत्र जातफलम् ।
“प्रियंवदः सज्जनवल्लभश्च
परोपकारी विमलाशयश्च ।
दाता नितान्तं प्रमदाभिलाषी
स्यात् फाल्गुने यस्य जनस्य जन्म ॥”
इति कोष्ठीप्रदीपः ॥
अथ फाल्गुनकृत्यम् । तत्र माघ्यनन्तरं
फाल्गुनकृष्णाष्टम्यां कालशाकवास्तूकशाकोप-
करणान्नेन श्राद्धं कर्त्तव्यम् ॥ * ॥ गौणचान्द्र-
फाल्गुनकृष्णचतुर्द्दश्यां शिवरात्रिव्रतम् । यद्दिने
प्रदोषनिशीथोभयव्यापिनी चतुर्द्दशी तद्दिने
व्रतमुभयव्याप्त्यनुरोधात् । यदा पूर्ब्बेद्युर्निशीथ-
व्यापिनी परेद्युः प्रदोषमात्रव्यापिनी तदा पूर्ब्बे-
द्युर्व्रतं प्रधानकालव्याप्त्यनुरोधात् । यदा तु
पूर्ब्बेद्युर्न निशीथव्याप्तिः परदिने प्रदोषव्यापिनी
तदा परदिने प्रदोषव्यापिनीति वचनात् ॥ * ॥
मुख्यचान्द्रफाल्गुनशुक्लद्वादशी गोविन्दद्वादशी ।
“फाल्गुने शुक्लपक्षस्य पुष्यर्क्षे द्बादशी यदि ।
गोविन्दद्वादशी नाम महापातकनाशिनी ॥”
महापातकनाशकामो गङ्गायां स्नानमहं
करिष्ये । अत्र पद्मपुराणीयो मन्त्रः ।
“महापातकसंज्ञानि यानि पापानि सन्ति मे ।
गोविन्दद्बादशीं प्राप्य तानि मे हर जाह्नवि ! ॥”
फाल्गुनपौर्णमास्यां दोलयात्रा । तीर्थचिन्ता
मणौ ब्रह्मपुराणम् ।
“नरो दोलागतं दृष्ट्वा गोविन्दं पुरुषोत्तमम् ।
फाल्गुन्यां संयतो भूत्वा गोविन्दस्य पुरं व्रजेत् ॥”
स्कन्दपुराणीयपुरुषोत्तममाहात्म्ये त्रिंशाध्याये ।
“फाल्गुन्यां क्रीडनं कुर्य्यात् दोलायां मम
भूपते ! ॥”
इति कृत्यतत्त्वम् ॥

फाल्गुनानुजः, पुं, (फाल्गुनादनुपश्चात् जायते

इति । अनु + जन् + ड ।) वसन्तकालः । इति
हारावली ॥ अर्ज्जुनस्य कनिष्ठभ्राता च ॥

फाल्गुनिकः, पुं, (फाल्गुनी पौर्णमास्यस्मिन् मासे

इति । “विभाषा फाल्गुनीश्रवणेति ।” ४ । २ ।
२३ । इति ठक् ।) फाल्गुनमासः । इत्यमरः ।
१ । ४ । १५ ॥

फाल्गुनी, स्त्री, (फल्गुनीभिर्युक्ता पौर्णमासी ।

“नक्षत्रेण युक्तः कालः ।” ४ । २ । ३ । इति
अण् । ततो ङीप् ।) फाल्गुनमासस्य पूर्णिमा ।
इति मेदिनी । ने, ९६ ॥ पूर्ब्बफल्गुनीनक्षत्रम् ।
उत्तरफल्गुनीनक्षत्रम् । इत्यमरटीकायां
भरतः ॥

फिः, पुं, पापः । निष्फलवाक्यम् । इत्येकाक्षर-

कोषः । कोपः । इति शब्दरत्नावली ॥

फिङ्गकः, पुं, (फिङ्ग इति शब्देन कायति शब्दा-

यते इति । कै + कः ।) पक्षिविशेषः । फिङ्गा
इति भाषा । तत्पर्य्यायः । कुलिङ्गः २ कलिङ्गः
३ धूम्याटः ४ । इति शब्दमाला । भृङ्गः ५ ।
इत्यमरः ॥

फिरङ्गः, पुं, (फौ पापे क्रोधे वा रङ्गोऽनुरागो

यस्य ।) स्वनामख्यातम्लेच्छदेशः । यथा, --
“पूर्ब्बाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः ।
फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद्भुवि ॥
अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः ।
इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥”
इति मेरुतन्त्रे २३ प्रकाशः ॥
रोगविशेषः । अथ फिरङ्गस्य निरुक्तिमाह ।
“फिरङ्गसंज्ञके देशे बाहुल्येनैष यद्भवेत् ।
तस्मात् फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः ॥”
तस्य विप्रकृष्टं निदानमाह ।
“गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् ।
फिरङ्गिणोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः ॥
व्याधिरागरुजो ह्येष दोषाणामत्र संक्रमः ।
भ्रवेत्ता लक्षयेत्तेषां लक्षणैर्भिषजां वरः ॥”
फिरङ्गिण्याः प्रसङ्गत इति विशेषार्थम् ॥ * ॥
रूपमाह ।
“फिरङ्गस्त्रिविधो ज्ञेयो वाह्याभ्यन्तरतस्तथा ।
बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ॥
तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक् ।
स्फुटितो व्रणवद्भेद्यः सुखसाध्योऽपि स स्मृतः ॥
सन्धेश्चाभ्यन्तरः स स्यादुभयोर्लक्षणैर्युतः ।
कष्टदोऽतिचिरस्थायी कष्टसाध्यतमश्च सः ॥”
उपद्रवान् आह ।
“कार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दता ।
अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी ॥”
साध्यत्वादिकमाह ।
“बहिर्भवो भवेत् साध्यो नूतनो निरुपद्रवः ।
आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः ॥
बहिरन्तर्भवो जीर्णः क्षीणस्योपद्रवैर्युतः ।
बोध्यो व्याधिरसाध्योऽयमित्यूचुर्म्मुनयः पुरा ॥”
अथ फिरङ्गस्य चिकित्सा ।
“फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः ।
अवश्यं नाशयेदेतदूचुः पूर्ब्बे चिकित्सकाः ॥
लिख्यते रसकर्परप्राशने विधिरुत्तमः ।
अनेन विधिना खादन्मुखे शीथं न विन्दति ॥
गोघूमचूर्णं संनीय विदध्यात् सूक्ष्मकूपिकाम् ।
तन्मध्ये निःक्षिपेत् सूतं चतुर्गुञ्जामितं भिषक् ॥
ततस्तु गुटिकां कुर्य्याद्यथा न स्याद्रसो बहिः ।
पृष्ठ ३/३८५
सूक्ष्णचूर्णं लवङ्गस्य तां वटीमवधूलयेत् ॥
दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत् ।
ताम्बूलं भक्षयेत् पश्चाच्छाकाम्ललवणांस्त्यजेत् ॥
श्रममातपमध्वानं विशेषात् स्त्रीनिषेवणम् ॥
इति कर्पूररसः ॥ १ ॥
पारदष्टङ्कमानः स्यात् खदिरष्टङ्कसंमितः ।
आकारकरभश्चापि ग्राह्यष्टङ्कद्बयोन्मितः ॥
टङ्कत्रयमितं क्षौद्रं खल्ले सर्व्वं विनिःक्षिपेत् ।
संमर्द्य तस्य सर्व्वस्य कुर्य्यात् सप्त वटीर्भिषक् ॥
स रोगी भक्षयेत् प्रातरेकैकामम्बुना वटीम् ।
वर्जयेदम्ललवणौ फिरङ्गस्तस्य नश्यति ॥
इति सप्तशाणिकावटी ॥ २ ॥
पारदः कर्षमात्रः स्यात्तावदेव हि गन्धकः ।
तण्डुला अक्षमात्राः स्युस्तेषां कुर्य्याच्च कज्ज-
लीम् ॥
तस्याः सप्त वटीः कुर्य्यात्ताभिर्द्धूमं प्रयोजयेत् ।
दिनानि सप्त तेन स्यात् फिरङ्गान्तो न संशयः ॥
इति धूमप्रयोगः ॥ ३ ॥
पीतपुष्पवलापत्ररसैष्टङ्कमितं रसम् ।
हस्ताभ्यां मर्द्दयेत्तावत् यावत् सूतो न दृश्यते ॥
ततः संस्वेदयेद्धस्तादेवं वासरसप्तकम् ।
त्यजेल्लवणमम्लञ्च फिरङ्गस्तेन नश्यति ॥ ४ ॥
चूर्णयेन्निम्बपत्राणि पथ्यां निम्बाष्टमांसिकाम् ।
धात्रीञ्च तावतीं रात्रिं निम्बषोडशभागिकाम् ॥
शाणमानमिदं चूर्णमश्नीयादम्भसा सह ।
फिरङ्गं नाशयत्येव वाह्यमाभ्यन्तरं तथा ॥ ५ ॥
तोपचीनिभवं चूर्णं शाणमानं समाक्षिकम् ।
फिरङ्गव्याधिनाशाय भक्षयेल्लवणं त्यजेत् ॥
लवणं यदि वा त्यक्तुं न शक्नोति तदा जनः ।
सैन्धवं स हि भुञ्जीत मधुरोपरसं हि तत् ॥ ६ ॥
अर्द्धकर्षमितं सूतं कुरण्टकरसैः सह ।
खल्ले विमर्द्दयेत्तत्र पलार्द्धं गुग्गुलुं क्षिपेत् ॥
तत्रार्ककरभं कुष्ठं त्रिफलाञ्च पृथक् पृथक् ।
अर्द्धकर्षमितं सर्व्वं चूर्णयित्वा तु निःक्षिपेत् ॥
तत् सर्व्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक् पृथक् ।
मर्द्दयेदथ तत् खादेदर्द्धकर्षमितं रसम् ॥
व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति ।
अल्पोऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः ॥
एतद्भक्षयतः शोथो मुखस्य च न जायते ।
वर्जयेदत्र लवणमेकविंशतिवासरान् ॥ ७ ॥
इति फिरङ्गाधिकारः ।” इति भावप्रकाशः ॥

फिरङ्गरोटी, स्त्री, (फिरङ्गप्रिया रोटी । फिर-

ङ्गाणां रोटीति वा ।) रोटिकाविशेषः ।
पाओरोटी इति पाँउरुटि इति च भाषा ।
सा तु तालस्याथवा खर्ज्जूरस्य रसेन मधुरिका-
जलेन वा मिश्रितां गोधूमकणिकामधिक-
कालमुत्तमं संमर्द्द्य गोलाकारं स्थूलं स्थूलं
निर्म्माय तन्दूरपाकेन निष्पादिता भवति । इति
पाकराजेश्वरः ॥

फिरङ्गिणी, स्त्री, (फिरङ्गदेशो जन्मस्थानत्वेना-

स्त्यस्या इति । फिरङ्ग + इनि । ङीप् ।)
फिरङ्गदेशोद्भवनारी । यथा, --
“गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् ।
फिरङ्गिणोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः ॥”
इति भावप्रकाशः ॥

फिरङ्गी [न्] पुं, (फिरङ्ग + इनिः ।) फिरङ्ग-

देशोद्भवपुरुषः । अस्य प्रमाणं पूर्ब्बशब्दे
द्रष्टव्यम् ॥

फुः, पुं, मन्त्रकम् । तुच्छवाक्यम् । इति विश्वः ॥

फुकः, पुं, (फुनास्पष्टवाक्येन कायति शब्दायते इति ।

फु + कै + क ।) पक्षी । इति शब्दचन्द्रिका ॥

फुटः, त्रि, (स्फुटतीति । स्फुट + कः । पृषोदरा-

दित्वात् साधुः ।) सर्पफणा । इति हेमचन्द्रः ।
४ । ३८१ ॥

फु(फू)त्, व्य, अनुकरणशब्दः । इति फुत्कारशब्द-

दर्शनात् । (यथा, “बालः पयसा दग्धो दध्यपि
फुत्कृत्य भक्षयति ।” इति प्राञ्चः ॥) तुच्छ-
भाषणम् । इति केचित् ॥

फुत्करः, पुं, (फुदित्यव्यक्तशब्दं करोतीति । कृ +

टः ।) अग्निः । इति शब्दचन्द्रिका ॥

फुत्कारः, पुं, (कृ + भावे घञ् । फुदित्यव्यक्तशब्दस्य

कारः करणम् ।) फुत्करणम् । फु इति फुँक्
इति च भाषा । फुत्कारवति पावके आहुति-
निषेधो यथा, तिथ्यादितत्त्वे ।
“अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके ।
आर्द्रकाष्ठैः समुतपन्ने फुत्कारवति पावके ॥
कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् ।
आहुतिं जुहुयाद्यस्तु तस्य नाशो भवेद्-
ध्रुवम् ॥”

फुत्कृतिः, स्त्री, (फुदित्यव्यक्तशब्दस्य कृतिः कर-

णम् ।) फुत्कारः । यथा, काव्यचन्द्रिका ।
“स्फुर्ज्जत्फुत्कृतिभीतिसम्भ्रमचमत्कारस्फुरत्-
सम्भ्रमा ॥”

फुप्फुसः, पुं, पुप्फुसः । कोष्ठविशेषः । स च हृदय-

नाडिकासंलग्नाशयविशेषः । फ्याप्डा फुल्का
कापासे इति च लोके । इति सुश्रुतः ॥ यथा, --
“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ।
हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ॥”
इति माधवकरः ।
अस्य व्याख्या । “आमस्य स्थानं आमाशयः ।
नाभेरूर्द्धम् । अग्नेः स्थानं पच्यमानाशयः
नाभिमध्यम् । पक्वस्य स्थानं पक्वाशयः नाभे-
रधः । मूत्रस्य स्थानं वस्तिः । रुधिरस्य स्थानं
यकृत्प्लीहानौ । हृत् हृदयं इक्षुरसपाकमल-
वद्यः शोणितमलस्तज्जः उण्डुकः स चान्त्रदेशे
व्यवस्थितः पुरीषाधानम् । फुप्फुसः हृदयस्य
वामपार्श्वे फुप्फुण्ड इति ख्यातः ।” इति विजय-
रक्षितः ॥ (यथा च ।
“तद्वामे फुप्फुसः प्लीहा दक्षिणाङ्गे यकृन्मतम् ।
उदानवायोराधारः फुप्फुसः प्रोच्यते बुधैः ॥”
इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

फुल्तिः, स्त्री, (फल + क्तिन् । “ति च ।” ७ । ४ । ८९ ।

इति अत उत् ।) फलनम् । इति मुग्धबोध-
व्याकरणम् ॥

फुल्ल, विकासे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

अक०-सेट् ।) ह्रस्वी । लद्वयान्तः । विकास
इह कस ज गताविति दन्त्यान्तस्य घञि रूपम् ।
विपूर्ब्बत्येनार्थान्तरवाचितया विकसनमित्यर्थः ।
फुल्लति मल्लीकलिका । इति दुर्गादासः ॥

फुल्लः, त्रि, (फुल्लतीति । फुल्ल + अच् । यद्बा,

फलतीति । ञि फला विसरणे + क्तः । “आदि-
तश्च ।” ७ । २ । १६ । इति इडभावः । “ति च ।”
७ । ४ । ८१ । इति उत्वम् । अनुपसर्गात् ।
फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठा तस्य लः ।)
विकसितः । इत्यमरः । २ । ४ । ८ ॥ (यथा, महा-
भारते । १ । १२८ । ४१ ।
“जलञ्च शुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ॥”)
पुष्पम् । फुल इति भाषा । यथा, --
“श्रीपञ्चम्यां श्रियं देवीं फुल्लैः संपूजयेत् सदा ॥”
इति कालिकापुराणम् ॥

फुल्लदाम, [न्] क्ली, (फुल्लानां पुष्पाणां दाम इव ।)

छन्दोभेदः । यथा, --
“मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम
प्रसिद्धम् ॥”
उदाहरणं यथा, --
“शश्वल्लोकानां प्रकटितकथनं ध्वस्तमालोक्य कंसं
हृष्यच्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्वि-
मुक्तम् ।
मुग्धामोदेन स्थगितदशदिशाभोगमाहूतभृङ्गं
मौलौ दैत्यारेर्न्यपतदनुपमं स्वस्तरोः फुल्लदाम ॥”
इति छन्दोमञ्जरी ॥

फुल्लफालः, पुं, (फुल्लं फलतीति । फल + अण् ।)

शूर्पवातः । इति त्रिकाण्डशेषः ॥

फुल्लरीकः, पुं, (फल + “फर्फरीकादयश्च ।” उणा०

४ । २० । इति ईकन्प्रत्ययेन निपातनात्
साधुः ।) देशः । सर्पः । इति संक्षिप्तसारो-
णादिवृत्तिः ॥

फुल्ललोचनः, पुं, (फुल्ले विकसिते लोचने यस्य ।)

मृगविशेषः । इति शब्दचन्द्रिका ॥ प्रफुल्लनेत्र-
युक्ते, त्रि ॥

फुल्लिः, स्त्री, विकाशः । इङ्धातुकथने तिङ्वत्तिङ्

वा इति संक्षिप्तसारसूत्रात् भावे इङ्प्रत्ययेन
निष्पन्नः ॥

फेणः, पुं, (स्फायते वर्द्धते इति । स्फाय + “फेन-

मीनौ ।” उणा० ३ । ३ । इति नक् फे-शब्दा-
देशश्च । मतान्तरे णत्वम् । दन्त्यनान्तपाठस्तु
गरीयान् ।) फेनः । तरलद्रव्योपर्य्युत्थितबुद्बुदा-
कारवस्तु । फेना इति भाषा । यथा, --
“पयःफेणनिभा शय्या दान्ता रुक्मपरिच्छदा ॥”
इति पुराणम् ॥
हिण्डीरः । इत्यमरः । २ । ९ । १०५ ॥ समुद्र-
फेना इति भाषा । अस्य मूर्द्धन्यणान्तस्य प्रमाणं
यथा, --
“हंसश्रेण्यो नदीतीरे निनदैः संप्रतीयिरे ।
यथा सारस्वता मन्त्रा अन्तरे फेणसङ्गता ॥”
इत्यमरटीकायां रघुनाथचक्रवर्त्ती ॥
पृष्ठ ३/३८६

फेण(न)पः, पुं, स्वयंपतितफलादिजीविमुनिविशेषः ।

यथा, श्रीभागवते । ३ । १२ । ४३ ।
“वैखानसा वालिखिल्यौडुम्बराः फेणपा वने ।
न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ ॥”
“वने स्थिताश्चत्वारः । तत्र वैखानसाः अकृष्ट-
पच्यवृत्तयः । वालिखिल्याः नवेऽन्ने लब्धे पूर्ब्ब-
सञ्चितान्नत्यागिनः । औडुम्बराः प्रातरुत्थाय
यां दिशं प्रथमं पश्यन्ति तत आहृतैः फला-
दिभिर्ज्जीवन्तः । फेणपाः स्वयं पतितैः फला-
दिभिर्ज्जीवन्तः । कुटीचकः स्वाश्रमधर्म्मप्रधानः ।
बह्वोदः कर्म्मोपसर्ज्जनीकृत्य ज्ञानाभ्यासप्रधानः ।
हंसो ज्ञानाभ्यासनिष्ठः । निष्क्रयः प्राप्ततत्त्वः ।
एते च सर्व्वे यथोत्तरं श्रेष्ठाः ।” इति तट्टीकायां
श्रीधरस्वामी ॥ (फेणं पिबतीति । फेण + पा +
कः । फेनपानकर्त्तरि, त्रि । यथा, महा-
भारते । १ । ६४ । २२ ।
“फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः ॥”)

फेणी(नी), स्त्री, (स्फायते वर्द्धते इति । स्फाय +

नक् । गौरादित्वात् ङीष् ।) स्वनामख्यातमिष्टान्न-
विशेषः । यथा, जीर्णमञ्जरी ।
“वटो वेशवाराल्लवङ्गेन फेणी-
समं पर्पटः शिग्रुबीजेन याति ॥”

फेत्कारिणी, स्त्री, (फेत् करोतीति । कृ + णिनिः ।

ङीप् ।) तन्त्रविशेषः । यथा, --
“उन्मत्तभैरवं नारसिंहं डामरभैरवम् ।
शिवाकारं मलिन्याद्यमसिताङ्गादि यामलम् ॥
सिद्धयोगेश्वरं तन्त्रं योगिनीजालमम्बरम् ।
दृष्ट्वा कृत्था विधिं फेत्कारिणीतन्त्रं विरच्यते ॥”
इति प्रथमश्लोकद्वयम् ॥
“फेत्कारिणीतन्त्र इयं मयोक्ता
कृत्या सभस्तागमसारभूता ।
शत्रोर्विनाशाय धनाय धर्म्म-
मोक्षाय सम्यक् प्रयतो नियोज्या ॥”
इति फेत्कारिणीतन्त्रस्य शेषश्लोकः ॥

फेत्कारीयः, पुं, तन्त्रविशेषः । तन्त्रसारादिसंग्रहे

फेत्कारीये इति शासनं लिखितम् ॥

फेनः, पुं, (स्फायते वर्द्धते इति । स्फाय + “फेन-

मीनौ ।” उणा० ३ । ३ । इति नक् फेशब्दा-
देशश्च ।) फेणः । फेना इति भाषा । तत्-
पर्य्यायः । हिण्डीरः २ अब्धिकफः ३ । इत्य-
मरः । २ । ९ । १०५ । ॥ हिण्डिरः ४ । इति
शब्दरत्नावली ॥ समुद्रकफः ५ जलहासः ६
फेनकः ७ । इति त्रिकाण्डशेषः ॥ स्फायते
फेनः स्फायी ङ वृद्धौ नाम्नीति डेनः निपात-
नात् सलुक् दन्त्यनान्तः । इत्यमरटीकायां
भरतः ॥ अस्य दन्त्यनान्तस्य प्रमाणान्तरं यथा,
“वानीरं गगनं फेनमूनञ्च दन्त्यनान्वितम् ।
आहुर्गगनमिच्छन्ति केचिन्मूर्द्धन्यणान्वितम् ॥”
इति भरतसेनविरचितं सुखलेखनम् ॥
(यथा, रघुः । १३ । ११ ।
“मातङ्गनक्रैः सहसोत्पपतद्भि-
र्भिन्नान् द्विधा पश्य समुद्रफेनान् ॥”
तरलद्रव्योपरिसमुत्थितवुद्वुदाकारवस्तुमात्रम् ।
यथा, महाभारते । १ । ३ । ५२ ।
“भोः फेनं पिबामि यमिमे वत्सा मातॄणां
स्तनान् पिबन्त उद्गिरन्ति ॥” * ॥ उशद्रथस्य
पुत्त्रः । यथा, हरियंशे । ३१ । २९ ।
“उशद्रथो महाराज ! फेनस्तस्य सुतोऽभवत् ॥”)

फेनकः, पुं, (फेन + स्वार्थे संज्ञायां वा कन् ।)

फेनः । इति त्रिकाण्डशेषः ॥ पिष्टकविशेषः ।
अस्य गुणाः । लघुत्वम् । रूक्षत्वम् । शुक्र-
कारित्वम् । पित्तवायुनाशित्वञ्च । इति राज-
वल्लभः ॥ (यथा च सुश्रुते । १ । ४६ ।
“हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥”
गात्रमार्ज्जनादिवत् क्रियाविशेषः । तस्य गुणा
यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये ।
“ऊर्व्वोः सञ्जनयत्याशु फेनकः स्थैर्य्यलाघवे ।
कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ॥”)

फेनका, स्त्री, (फेनेन कायतीति । कै + कः ।

टाप् ।) जलपक्वतण्डुलचूर्णम् । इति शब्द-
चन्द्रिका ॥

फेनदुग्धा, स्त्री, (फेन इव दुग्धं यस्याः ।) दुग्ध-

फेनीक्षुपः । इति राजनिर्घण्टः ॥

फेनलः, त्रि, (फेनोऽस्त्यस्येति । फेन + “फेना-

दिलच्च ।” ५ । २ । ९९ । इति चात् लच् ।)
फेनवान् । इति सिद्धान्तकौमुदी ॥

फेनवान्, [त्] त्रि, (फेनोऽस्त्यस्येति । “फेनादि-

लच्च ।” ५ । २ । ९९ । इत्यत्र अन्यतरस्या-
मित्यनुवृत्तेः पक्षे मतुप् । मस्य वः ।) फेनिलः ।
इति सिद्धान्तकौमुदी ॥ (यथा, महाभारते ।
३ । १४३ । २० ।
“तत्र सागरगा ह्यापः कीर्य्यमाणाः समन्ततः ।
प्रादुरासन् सुकलुषाः फेनवत्यो विशाम्पते ! ॥”)

फेनवाही, [न्] पुं, (फेनवत् शुभ्रतां वहतीति ।

वह् + णिनिः ।) वस्त्रम् । इति शब्दमाला ॥

फेना, स्त्री, (फेनोऽस्ति बाहुल्येनास्याः । फेन +

अच् । टाप् ।) सातलाक्षुपः । इति राज-
निर्घण्टः ॥

फेनाग्रं, क्ली, (फेनस्याग्रम् ।) वुद्युदम् । इति

हारावली । २०५ ॥

फेनायमानः, त्रि, (फेनमुद्वमतीति । फेन + “फेना-

च्चेति वाच्यम् ।” ३ । १ । १६ । इत्यस्य वार्त्ति-
कोक्त्या क्यङ् । ततः शानच् ।) उत्थितफेन-
दुग्धादिः । फेन इव आचरति यः इत्यर्थे फेन-
शब्दात् ङ्यप्रत्ययानन्तरं शानप्रत्ययेन निष्पन्नः ॥
(यथा, महाभारते । ६ । ३ । ३४ ।
“प्रतिश्रोतोवहा नद्यः सरितः शोणितोदकाः ।
फेनायमानाः कूपाश्च नर्द्दन्ति वृषभा इव ॥”)

फेनाशनिः, पुं, (फेन एवाशनिर्वज्रं यस्य । फेनेन

वृत्रासुरनाशनादेवास्य तथात्वम् ।) इन्द्रः ।
इति शब्दमाला ॥ (एतद्वृत्तान्तो यथा, देवी-
भागवते । ६ । ६ । ५५ -- ५९ ।
“इति सञ्चिन्त्य मनसा कथं हन्यां रिपुं रणे ।
अजेयं सर्व्वदा सर्व्वदेवैश्च दानवैस्तथा ॥
यदि वृत्रं न हन्म्यद्य वञ्चयित्वा महाबलम् ।
न श्रेयो मम नूनं स्यात् सर्व्वथा रिपुरक्षणात् ॥
अपां फेनं तदापश्यत् समुद्रे पर्व्वतोपमम् ।
नायं शुष्को न चार्द्रोऽयं न च शस्त्रमिदं तथा ॥
अपां फेनं तदा शक्रो जग्राह किल लीलया ।
परां शक्तिञ्च सस्मार भक्त्या परमया युतः ॥
स्मृतमात्रा तदा देवी स्वांशं फेने न्यधापयत् ।
वज्रं तदावृतं तत्र चकार हरिसंयुतम् ॥
फेनावृतं पविं तत्र शक्रंश्चिक्षेप तं प्रति ।
सहता निपपाताशु वज्राहत इवाचलः ॥”)

फेनिका, स्त्री, (फेन इवाकृतिरस्त्यस्याः । फेन +

ठन् । टाप् ।) पक्वान्नविशेषः । खाजा इति
भाषा । यथा, --
“समिताया घृताद्याया वर्त्तीर्दीर्घाः समाचरेत् ।
तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत् ॥
वेल्लयेद् वेल्लनेनैता यथैका पर्पटी भवेत् ।
ततश्छुरिकया तान्तु संलग्नामेव कर्त्तयेत् ॥
ततस्तु वेल्लयेद्भूयः सट्टकेन च लेपयेत् ।
शालिचूर्णं घृतं तोयं मिश्रितं सट्टकं भवेत् ॥
ततः संवृत्य तां लोप्त्रीं विदधीत पृथक् पृथक् ।
पुनस्तां वेल्लयेत् लोप्त्रीं यथा स्यान्मण्डलाकृतिः ॥
ततस्तां सुपचेदाज्ये भवेयुश्च पुटाः स्फुटाः ।
सुगन्धया शर्करया तदुद्धूलनमाचरेत् ॥
सिद्ध्वैषा फेनिकानाम्नी मण्ठकेन समा गुणैः ।
ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः ॥”
इति भावप्रकाशः ॥

फेनिलं, क्ली, (फेनोऽस्त्यस्येति । फेन + “फेना-

दिलच्च ।” ५ । २ । ९९ । इति इलच् ।) कोलि-
फलम् । (अस्य पर्य्यायो यथा, --
“पुंसि स्त्रियाञ्च कर्क्कन्धुर्वदरी कोलमित्यपि ।
फेनिलं कुवलं घोठा सौवीरं वदरं महत् ।
अजप्रिया कुहा कोली विषमो भयकण्टका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मदनफलम् । सफेने, त्रि । इति मेदिनी ॥
(यथा, महाभारते । १ । १५३ । १० ।
“उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥”)

फेनिलः, पुं, (फेन + इलच् ।) अरिष्टवृक्षः ।

इत्यमरः । २ । ४ । ३१ ॥ हारिठा इति ख्यातः ॥
(अस्य पर्य्यायो यथा, --
“अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः ।
रक्तबीजः पीतफेनः फेनिलो गर्भपातबः ॥”
इति मावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वदरवृक्षः । इति राजनिर्घण्टः ॥ (स्त्रियां
टाप् । जलब्राह्मी । यथा, मुश्रुते उत्तरतन्त्रे
३९ अध्याये ।
“अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ॥”)

फेरः, पुं, (फे इति शब्दं राति गृह्णातीति । रा

ग्रहणे + कः ।) शृगालः । इति शब्दरत्ना-
वली ॥

फेरण्डः, पुं, (फे इत्यव्यक्तशब्देन रण्डतीति । रण्ड

+ अच् ।) शृगालः । इति हेमचन्द्रः ।
४ । ३५५ ॥
पृष्ठ ३/३८७

फेरवः, पुं, (फे इति रवो यस्य ।) शृगालः ।

इत्यमरः । २ । ५ । ५ ॥ (यथा, कथासरित्सागरे ।
४७ । ५३ ।
“नृत्यतां तरतां रक्ते नदतां चोत्सवाय सः ।
शूराणां फेरवाणाञ्च भूतानाञ्चाभवद्रणः ॥”)
राक्षसः । इति मेदिनी । वे, ४४ ॥ धूर्त्ते हिंस्रे
च, त्रि । इति शब्दरत्नावली ॥

फेरुः, पुं, (फे इति शब्देन रौतीति । रु ल ध्वनी +

मितद्र्वादित्वात् डुः ।) शृगालः । इत्यमरः ।
२ । ५ । ५ ॥ (यथा, भागवते । ८ । १६ । ७ ।
“गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि ।
यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥”)

फेल, ऋ गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) ऋ, अपिफेलत् पिफेलतुः ।
इति दुर्गादासः ॥

फेलं, क्ली, (फेल्यते दूरे निक्षिप्यते इति । फेल +

घञ् ।) भुक्तसमुज्झितम् । उच्छिष्टम् । इति
शब्दरत्नावली ॥

फेलकः, पुं, (फेल + स्वार्थे संज्ञायां वा कन् ।)

भुक्तसमुज्झितम् । इति जटाधरः ॥

फेला, स्त्री, (फेल्यते इति । फेल + “गुरोश्च

हलः ।” ३ । ३ । १०३ । इति अः । टाप् ।)
भुक्तसमुज्झितम् । इत्यमरः । २ । ९ । ५६ ॥

फेलिः, स्त्री, (फेल + इन् ।) उच्छिष्टम् । इति

जटाधरः ॥

फेलिका, स्त्री, (फेलिरेव । स्वार्थे कन् ।) उच्छि-

ष्टम् । फेलाशब्दात् स्वार्थे ष्णिकप्रत्ययेन
निष्पन्ना ॥

फेली, स्त्री, (फेलि + “कृदिकारादक्तिनः ।” इति

पक्षे ङीष् ।) भुक्तसमुज्झितम् । इति शब्द-
रत्नावली ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/फ&oldid=44019" इत्यस्माद् प्रतिप्राप्तम्