शब्दकल्पद्रुमः/पुरुषत्वं

विकिस्रोतः तः
पृष्ठ ३/१९६

पुरुषत्वं, क्ली, पुरुषस्य भावः । पुरुषवृत्तिरसाधा-

रणधर्म्मः । पुरुषशब्दात् भावार्थे त्वप्रत्ययः ।
(यथा, महाभारते । ५ । १८९ । १३ ।
“हनिष्यसि रणे विप्रं पुरुषत्वञ्च लप्स्यसे ॥”)
पुंस्त्वञ्च ॥

पुरुषदघ्नः, त्रि, पुरुषपरिमाणः । पुरुषशब्दात्

परिमाणार्थे दघ्नट्प्रत्ययः । इति व्याकरणम् ॥

पुरुषदन्तिका, स्त्री, (पुरुषस्य दन्त इव आकृति-

र्यस्याः । कप् । कापि अत इत्वम् ।) मेदा ।
इति राजनिर्घण्टः ॥ (मेदाशब्देऽस्या विवरणं
ज्ञातव्यम् ॥)

पुरुषद्वयसः, त्रि, पुरुषपरिमाणः । पुरुषशब्दात्

परिमाणार्थे द्वयसट्प्रत्ययनिष्पन्नः । इति व्या-
करणम् ॥

पुरुषद्वेषी, [न्] त्रि, पुरुषद्बेषशीलः । पुरुष-

शब्दोपपदाद्द्विषधातोर्णिन्प्रत्ययनिष्पन्नः । इति
व्याकरणम् ॥

पुरुषनागः, पुं, (पुरुषो नाग इव ।) पुरुषश्रेष्ठः ।

इत्यमरः । ३ । १ । ५९ ॥

पुरुषपुङ्गवः, पुं, (पुरुषः पुङ्गव इव ।) पुरुषश्रेष्ठः ।

इत्यमरः । ३ । १ । ५९ ॥

पुरुषपुण्डरीकः, पुं, (पुरुषेषु पुण्डरीकः श्रेष्ठ

इत्यर्थः । यद्वा, पुरुषः पुण्डरीको व्याघ्र इवेत्युप-
मितसमासः ।) पुरुषव्याघ्रः । नरश्रेष्ठः । इत्य-
मरः । ३ । १ । ५९ ॥ जिनराजविशेषः । इति
हेमचन्द्रः । ३ । ३६० ॥

पुरुषमात्रः, त्रि, पुरुषपरिमाणः । पुरुषशब्दात्

परिमाणार्थे मात्रट्प्रत्ययः । इति व्याकरणम् ॥
(यथा, तैत्तिरीयसंहितायाम् । ५ । २ । ५ । १ ।
“पुरुषमात्रेण वि मीमिते यज्ञेन वै पुरुषः
सम्मितः ॥”)

पुरुषर्षभः, पुं, (पुरुष ऋषभ इव ।) पुरुषश्रेष्ठः ।

इत्यमरः । ३ । १ । ५९ ॥

पुरुषव्याघ्रः, पुं, (पुरुषो व्याघ्र इव ।) पुरुषश्रेष्ठः ।

इत्यमरः । ३ । १ । ५९ ॥ (यथा, महाभारते ।
६ । १९ । ४३ ।
“एवन्ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ॥”)

पुरुषशार्दूलः, पुं, (पुरुषः शार्दूल इव ।) पुरुष-

श्रेष्ठः । इत्यमरः । ३ । १ । ५९ ॥ (यथा, महा-
भारते । ३ । ९१ । ६ ॥
“तव च भ्रातरं वीरमपश्यं सव्यसाचिनम् ।
शक्रस्यार्द्धासनगतं तत्र मे विस्मयो महान् ।
आसीत् पुरुषशार्दूल ! दृष्ट्वा पार्थं तथागतम् ॥”)

पुरुषसिंहः, पुं, (पुरुषः सिंह इव पुरुषेषु सिंहः

श्रेष्ठो वा ।) पुरुषश्रेष्ठः । इत्यमरः । ३ । १ । ५९ ॥
जिनराजविशेषः । तत्पर्य्यायः । शैविः २ । इति
हेमचन्द्रः । ३ । ३६० ॥

पुरुषाद्यः, पुं, (पुरुषाणां जिनपुरुषाणामाद्यः

प्रथमः ।) आदिनाथनामा जिनविशेनः । इति
धनञ्जयः ॥ (पुरुषेषु जीवेषु आद्यः प्रथमः ।
पुरुषाणामाद्य इति वा ।) विष्णुः ॥

पुरुषाधमः, पुं, (पुरुषेषु अधमोऽतिनिकृष्टः ।)

निकृष्टनरः । यथा, शान्तिशतके ।
“नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा
सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कञ्चित् पुरुषाधमं कतिपयग्रामेशमल्पार्थदं
सेवायै मृगयामहे नरमहो मूढा वराका
वयम् ॥”

पुरुषार्थः, पुं, (पुरुषस्य अर्थः ।) पुरुषस्य प्रयो-

जनम् । स च चतुर्विधः । यथा, अग्निपुराणे ।
“धर्म्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः ॥”
(यथा, मनुः । ७ । १०० ।
“एतच्चतुर्व्विधं विद्यात् पुरुषार्थप्रयोजनम् ॥”)
गोस्वामिमते भक्तिः पञ्चमपुरुषार्थः ॥ (पुरुष-
कारः । यथा, महाभारते । ३ । १७९ । २७ ।
“दैवं पुरुषकारेण को वञ्चयितुमर्हति ।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥”)

पुरुषास्थिमाली, [न्] पुं, (पुरुषाणामस्थीनि

तेषां मालास्त्यस्येति । पुरुषास्थिमाला +
व्रीह्यादित्वात् इनिः ।) शिवः । इति हेम-
चन्द्रः । २ । १११ ॥

पुरुषोत्तमः, पुं, (पुरुषेषु उत्तमः ।) विष्णुः । इत्य-

मरः । १ । १ । २१ ॥ (यथा, रघुः । ३ । ४९ ।
“हरिर्यथैकः पुरुषोत्तमः स्मृतः
महेश्वरस्त्र्यम्बक एव नापरः ।
तथा विदुर्म्मां मुनयः शतक्रतुं
द्वितीयगामी न हि शब्द एष नः ॥”
एतन्निरुक्तिर्यथा, महाभारते । ५ । ७० । १० ।
“पुराणात् सदनाच्चापि ततोऽसौ पुरुषो-
त्तमः ॥”)
जिनराजविशेषः । तत्पर्य्यायः । सोमभूः २ ।
इति हेमचन्द्रः । ३ । ३५९ ॥ पुरुषेषु मध्ये
उत्तमः । यथा, धर्म्मपुराणे ।
“विशेषसमभावस्य पुरुषस्यानघस्य च ।
अरिमित्रेऽप्युदासीने मनो यस्य समं व्रजेत् ॥
समो धर्म्मः समः स्वर्गः समो हि परमं तपः ।
यस्यैवं मानसं नित्यं स नरः पुरुषोत्तमः ॥”
(पुरुषोत्तमो जगन्नाथोऽस्त्यत्रेति । अच् ।
उत्कलखण्डैकदेशः । स तु पीठस्थानानामन्य-
तमः । तत्र भगवती विमलारूपेण विराजते ।
यथा, देवीभागवते । ७ । ३० । ६४ ।
“गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥”
ग्रन्थकर्त्तृविशेषः । स तु प्रयोगरत्नमालाव्याकर-
णस्य द्विरूपैकाक्षरहारावलीकोषाणां अन्ये-
षाञ्च कतिपयग्रन्थानां प्रणेता ॥)

पुरुहं, त्रि, (पुरुं प्रचुरं हन्ति गच्छतीति ।

पुरु + हन गतौ + अन्येभ्योऽपीति डः ।) प्रचु-
रम् । इत्यमरः । ३ । १ । ६३ ॥

पुरुहु, त्रि, (पुरुं प्रचुरं हन्ति गच्छतीति । हन

गतौ + बाहुलकात् डुः ।) प्रचुरम् । इत्यमर-
टीदायां स्वामी ॥ (पुरुहूरित्यपि पाठः ॥)

पुरुहूतः पुं, (पुरु प्रचुरं हूतमाह्वानं यज्ञेषु

यस्य । पुरु यथा स्यात्तया हूयते यज्वभिरिति
वा । यद्वा, पुरूणि बहूनि हूतानि नामानि
यस्य ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥ (यथा,
महाभारते । १ । १२६ । २५ ।
“पुरुहूतादयं जज्ञे कुन्त्यामेव धनञ्जयः ॥”
प्रचुरनामविशिष्ठे, त्रि । यथा, भागवते ।
८ । १ । १३ ।
“स विश्वकायः पुरुहूत ईशः
सत्यः स्वयंज्योतिरजः पुराणः ॥”
स्त्री, भगवती । सा तु पुष्करे पीठस्थाने विरा-
जते । यथा, देवीभागवते । ७ । ३० । ५९ ।
“विश्वे विश्वेश्वरीं प्राहुः पुरुहूताञ्च पुष्करे ॥”)

पुरूरवाः [स्] पुं, (पुरु प्रचुरं यथा स्यात्तथा

रौतीति । “पर्व्वतश्च पुरुर्नाम यत्र यज्ञे पुरू-
रवाः ।” ३ । ९० । २२ । इति महाभारतोक्तवचनात्
पुरौ पर्व्वते रौतीति वा । पुरु + रु + “पुरू-
रवाः ।” उणा० ४ । २३१ । इति असिप्रत्य-
येन निपातनात् साधुः ।) बुधस्य पुत्त्रः । स
तु चन्द्रवंशीयादिराजः । तत्पर्य्यायः । बौधः २
ऐलः ३ उर्व्वशीरमणः ४ । इति हेमचन्द्रः ॥
यथा, अग्निपुराणे ।
“ततो बुधाश्रमं प्रायादिडा रूपाश्रिता सती ।
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥
सोमपुत्त्राद्बुधाद्राजन् ! तस्या जज्ञे पुरूरवाः ।
जनयित्वा ततः सा तं पुनः सुद्युम्नतां गता ॥”
अपि च ।
“इलोदरे च धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् ।
अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा ॥
पुरूरवा इति ख्यातः सर्व्वलोकनमस्कृतः ।
हिमवच्छिखरे रम्ये आराध्य स जनार्द्दनम् ।
लोकैश्वर्य्यमगाद्राजा सप्तद्बीपपतिस्तदा ॥
केशिप्रभृतयो दैत्यास्तस्य भृत्यत्वमागताः ।
उर्व्वशी यस्य पत्नीत्वमगात् सद्रूपमोहिता ॥
सप्तद्वीपा वसुमती सशैलवनकानना ।
धर्म्मेण पालिता तेन सर्व्वलोकहितैषिणा ॥
चामरग्राहिणी कीर्त्तिः सम्पन्नैकाङ्गवाहिका ।
विष्णुप्रसादाद्देवेन्द्रो ददावर्द्धासनन्तदा ॥
धर्म्मार्थकामान्धर्म्मेण सममेवाभ्यपालयत् ।
धर्म्मार्थकामास्तं द्रष्टुमाजग्मुः कौतुकात् पुरा ॥”
इति मात्स्ये २४ अध्यायः ॥
(अस्य विशेषविवरणन्तु हरिवंशे २६ अध्याये
द्रष्टव्यम् ॥ * ॥) विश्वदेवः । इति जटाधरः ॥
पार्व्वणश्राद्धदेवः । यथा, --
“पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ ॥”
इति श्राद्धतत्त्वे बृहस्पतिः ॥

पुरोगः त्रि, (पुरोऽग्रे गच्छतीति । पुरस् + गम +

डः ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥
(यथा, रघुः । ६ । ५५ ।
“ज्याघातरेखे सुभुजो भुजाभ्यां
बिभर्त्ति यश्चापभृतां पुरोगः ॥”)
प्रधानः । इति हेमचन्द्रः । ६ । ७४ ॥
पृष्ठ ३/१९७

पुरोगतिः, पुं, (पुरोऽग्रे गतिर्गमनमस्य ।) कुक्कुरः ।

इति धरणिः ॥ अग्रगे, त्रि ॥

पुरोगमः, त्रि, (पुरोऽग्रे गच्छतीति । गम +

अच् ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥
(यथा, महाभारते । ६ । १९ । १० ।
“यं दृष्ट्वा पार्थिवाः सर्व्वे दुर्य्योधनपुरोगमाः ।
निवर्त्तिष्यन्ति संत्रस्ताः सिंहं क्षुद्रमृगा यथा ॥”
कुक्कुरे, पुं । इति हेमचन्द्रटीका ॥)

पुरोगामी, [न्] त्रि, (पुरोऽग्रे गच्छतीति । गम +

णिनिः ।) अग्रगामी । तत्पर्य्यायः । पुरोगः २
अग्रेसरः ३ प्रष्ठः ४ अग्रतःसरः ५ पुरःसरः ६
पुरोगमः ७ । इत्यमरः । २ । ८ । ७२ ॥ नासीरः ८
प्रग्रसरः ९ । इति शब्दरत्नावली ॥

पुरोटिः, पुं, (पुरोऽटतीति । अट + इन् ।) पत्र-

झङ्कारः । इति त्रिकाण्डशेषः ॥ रायभाटि इति
भाषा ॥ (पुरसंस्कारः । इति हारावली । १६४ ॥)

पुरोडाः, [श्] पुं, (पुर आदौ दाश्यते दीयते

इति । पुरस् + दाशृ दाने + क्विप् । निपात-
नात् दस्य डः ।) हविः । इति मुग्धबोध-
व्याकरणम् ॥

पुरोडाशः, पुं, (पुरोऽग्रे दाश्यते दीयते इति ।

दाश + कर्म्मणि घञ् । निपातनात् दस्य डः ।)
हविर्भेदः । स तु यवचूर्णनिर्म्मितरोटिका-
विशेषः । (यथा, मनुः । ६ । ११ ।
“वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।
पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक् ॥”)
पिष्टकचमसी । हुतशेषः । इति मेदिनी । शे, ३८ ॥
सोमरसः । इति हेमचन्द्रः ॥

पुरोडाश्यं, त्रि, (पुरोडाशाय हितमिति । पुरो-

डाश + यत् ।) पुरोडाशीयम् । हविर्योग्यम् ।
पुरोडाशाय हितम् । यथा, भट्टिः । ५ । १२ ।
“आमिक्षीयं दधि क्षीरं पुरोडाश्यं तथौषधम् ।
हविर्हैयङ्गवीनञ्च नाप्युपघ्नन्ति राक्षसाः ॥”

पुरोद्भवा, स्त्री, (पुरे उद्भवो यस्याः ।) महा-

मेदा । इति रत्नमाला ॥

पुरोधाः, [स्] पुं, (पुरोऽग्रे दधाति मङ्गल-

मिति । पुरस् + धा + “पुरसि च ।” उणा० ४ ।
२३० । इति असिः । स च डित् ।) पुरोहितः ।
इत्यमरः । २ । ८ । ५ ॥ (यथा, रघुः । ३ । १८ ।
“स जातकर्म्मण्यखिले तपस्विना
तपोवनादेत्य पुरोधसा कृते ॥”)

पुरोभागी, [न्] त्रि, (पुरः पूर्ब्बमेव भजते इति ।

पुरस् + भज + णिनिः ।) दोषमात्रदर्शी । इत्य-
मरः । ३ । १ । ४६ ॥ (यथा, राजतर-
ङ्गिण्याम् । ६ । ८३ ।
“कुपितोऽपि स यत्रैनां न्यवधीद्रागमोहितः ।
तेनैवागात् पुरोभागिवितर्कातङ्कपात्रताम् ॥”)
अग्रांशी च ॥

पुरोहितः, पुं, पुरो दृष्टादृष्टफलेषु कर्म्मसु धीयते

आरोप्यते यः । (यद्वा, पुर आदावेव हितं
मङ्गलं यस्मात् ।) शान्त्यादिकर्त्ता । तत्पर्य्यायः ।
पुरोधाः २ । इत्यमरः । २ । ८ । ५ ॥ धर्म्मकर्म्मादि-
कारकः ३ । इति शब्दरत्नावली ॥ तस्य लक्षणं
यथा, चाणक्ये ।
“वेदवेदाङ्गतत्त्वज्ञो जपहोमपरायणः ।
आशीर्व्वादवचोयुक्त एष राजपुरोहितः ॥”
तस्य वर्ज्जनीयलक्षणं यथा, --
“काणं व्यङ्गमपुत्त्रं वानभिज्ञमजितेन्द्रियम् ।
न ह्नस्वं व्याधितं वापि नृपः कुर्य्यात् पुरोहितम् ॥”
इति कालिकापुराणम् ॥ * ॥
पुरोहिते वर्णनीयानि यथा, --
“पुरोहितो हितो वेदस्मृतिज्ञः सत्यवाक् शुचिः ।
ब्रह्मण्यो विमलाचारः प्रतिकर्त्तापदामृजुः ॥”
इति कविकल्पलता ॥
(यथा च ।
“दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ।
रक्षेतां नृपतिं नित्यं यत्नाद्वैद्यपुरोहितौ ॥
ब्रह्मा वेदाङ्गमष्टाङ्गमायुर्व्वेदमभाषत ।
पुरोहितमते तस्माद्वर्त्तेत भिषगात्मवान् ॥”
इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

पुर्व्व, पूर्त्तौ । पूर्णीकरणे । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-सेट् ।) पञ्चमस्वरी । पूः
पुरौ पुरः । पुर्व्वति पयसा कुम्भं चेटी । इति
दुर्गादासः ॥

पुल, क उच्छ्रितौ । इति कविकल्पद्रुमः ॥ (चुरा०-

पर०-अक०-सेट् ।) उच्छ्रितिरुच्चीभावः । क,
पोलयति पर्व्वतः । इति दुर्गादासः ॥

पुल, ज महत्त्वे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-अक०-सेट् ।) ज, पोलः पुलः । पोलति ।
इति दुर्गादासः ॥

पुल, श महत्त्वे । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-अक०-सेट् ।) श, पुलति पुलिनं शरदि
महत् स्यादित्यर्थः । पोलिता । इति दुर्गादासः ॥

पुलः, पुं, (पोलति उच्छ्रितो भवतीति । पुल +

कः ।) पुलकः । विपुले, त्रि । इति मेदिनी । ले,
२३ ॥

पुलकं, क्ली, (पुलतीति । पुल + कः । ततः संज्ञायां

कन् ।) कङ्कुष्टम् । तच्च पर्व्वतीयमृत्तिका-
विशेषः । इति राजनिर्घण्टः ॥

पुलकः, पुं, (पुल + स्वार्थे कन् ।) रोमाञ्चः ।

तत्पर्य्यायः । रोमोद्भेदः २ त्वक्पुष्पम् ३ त्वग-
ङ्कुरः ४ । इति त्रिकाण्डशेषः ॥ (यथा, आर्य्या-
सप्तशत्याम् । ३७९ ।
“प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुच-
कलसा ।
गोवर्द्धनगिरिगुरुतां मुग्धबधूर्निभृतमुप-
हसति ॥”)
शरीरान्तर्ब्बहिर्भवकीटः । इति हेमचन्द्रः ॥
(तुच्छधान्यम् । यथा, पञ्चतन्त्रे । ३ । ९९ ।
“पुलका इव धान्येषु पूतिका इव पक्षिषु ।
मशका इव मर्त्त्येषु येषां धर्म्मो न कारणम् ॥”)
प्रस्तरविशेषः । तस्य परीक्षा यथा, --
“पुण्येषु पर्व्वतवरेषु च निम्नगासु
स्थानान्तरेषु च तथोत्तरदेशगत्वात् ।
संस्थापिताश्च नखरा भुजगैः प्रकाशं
संपूज्य दानवपतिं प्रथिते प्रदेशे ॥
दाशार्णवागदवमेकलकालगादौ
गुञ्जाञ्जनक्षौद्रमृणालवर्णाः ।
गन्धर्व्ववह्निकदलीसदृशावभासा
एते प्रशस्ताः पुलकाः प्रसूताः ॥
शङ्खाब्जभृङ्गार्कविचित्रभङ्गा
शूद्रैरुपेताः परमाः पवित्राः ।
मङ्गल्ययुक्ता बहुभक्तिचित्रा
वृद्धिप्रदास्ते पुलका भवन्ति ॥
काकश्वरासभशृगालवृकोग्ररूपै-
गृध्रैः समांसरुधिरार्द्रमुखैरुपेताः ॥
मृत्युप्रदास्तु विदुषा परिवर्ज्ज नीया
मूल्यं पलस्य कथितञ्च शतानि पञ्च ॥”
इति गारुडे ७७ अध्यायः ॥
मणिदोषविशेषः । हरितालम् । गजान्नपिण्डम् ।
गन्धर्व्वविशेषः । इति मेदिनी । के, १२१ ॥
असुराजी । गल्वर्कः । इति हेमचन्द्रः ॥

पुलकी, [न्] पुं, (पुलकोऽस्त्यस्येति । पुलक +

इनिः ।) धाराकदम्बः । इति राजनिर्घण्टः ॥

पुलस्तिः, पुं, (पुल महत्त्वे + क्विप् । पुलं महत्त्वं

असते गच्छतीति । अस् + तिः । इत्युज्ज्वलदत्तः ।
४ । १७९ ।) पुलस्त्यमुनिः । इत्युणादिकोषः ॥

पुलस्त्यः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति

शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।
तस्य भार्य्या हविर्भूः कर्द्दमकन्या । तस्य पुत्त्रः
अगस्त्यः विश्रवाश्च । इति श्रीभागवतम् ॥
यथा, हरिवंशे । ७ । ८ ।
“मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”

पुलहः, पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति

शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः
तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य
पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति
श्रीभागवतम् ॥

पुलाकः, पुं, (पोलति उच्छ्रितो भवतीति । पुल +

“बलाकादयश्च ।” इति आकप्रत्ययेन निपा-
तनात् साधुः ।) तुच्छधान्यम् । आगडा इति
ख्यातम् ॥ (यथा, मनुः । १० । १२५ ।
“पुलाकाश्चैव धान्यान्यां जीर्णाश्चैव परिच्छदाः ॥”)
संक्षेपः । अल्पत्वम् । भक्तसिक्थकम् । भक्त-
गुलिका । इत्यमरभरतौ ॥ क्षिप्रम् । यथा पुलाक-
कारी । इति स्वामी ॥

पुलाकी, [न्] पुं, (पुलाकः क्षिप्रता वृद्धौ विषये

अस्त्यस्येति । पुलाक + इनिः ।) वृक्षः । इति
हेमचन्द्रः । ४ । १८० ॥

पुलायितं, क्ली, (पुल + क्यच् + क्तः ।) अश्वगतिः ।

तत्पर्य्यायः । विक्रान्तिः २ । इति त्रिकाण्डशेषः ॥

पुलिनं, क्ली, (पोलतीति । पुल महत्त्वे + “तलि-

पुलिभ्याञ्च ।” उणा० २ । ५३ । इति इनन् । स
च कित् ।) तोयोत्थिततटम् । इत्यमरः । १ ।
१० । ९ ॥ चर इति चडा इति च भाषा ॥
पृष्ठ ३/१९८
(यथा, रामायणे । २ । ९५ । ९ ।
“क्वचिन्मणिनिकाशोदांक्वचित् पुलिनशालिनीम् ।
क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं
नदीम् ॥”)
जलादचिरोत्थितं तटम् । इति भरतः ॥ तत्-
क्षणतोययुक्तद्वीपम् । इति सुभूतिः ॥ क्रमेणो-
त्थितं तटम् । इति स्वामी ॥ जलमध्यस्थमुत्थितं
तटम् । इति पञ्जिका ॥ द्वीपम् । इति त्रिकाण्ड-
शेषः ॥ (यक्षविशेषे, पुं । यथा, महाभारते ।
१ । ३२ । १९ ।
“उलूकश्वसनाभ्याञ्च निमिषेण च पक्षिराट् ।
प्ररुजेन च संग्रामं चकार पुलिनेन च ॥”)

पुलिन्दः, पुं, (पुल महत्त्वे + “कुणिपुल्योः किन्दच् ।”

उणा० ४ । ८५ । इति किन्दच् ।) चण्डाल-
भेदः । स च म्लेच्छशब्दवाच्यः । इत्यमरभरतौ ॥
तस्योत्पत्तिर्यथा, --
पुलस्त्य उवाच ।
“एवं गतेषु त्रैलोक्यं दानवेषु पुरन्दरः ।
जगाम ब्रह्मसदनं सह देवैः शचीपतिः ॥
तत्रापश्यत् स देवेशं ब्रह्माणं कमलोद्भवम् ।
ऋषिभिः सार्द्धमासीनं पितरं स्वञ्च कश्यपम् ॥
ततो ननाम शिरसा शक्रः सुरगणैः सह ।
ब्रह्माणं कश्यपञ्चैव तांश्च सर्व्वांस्तपोधनान् ॥
प्रोवाचेन्द्रः सुरैः सार्द्धं देवनाथं पितामहम् ।
पितामह ! हृतं राज्यं बलिना वलिना मम ॥
ब्रह्मा प्रोवाच शक्रैतत् भुज्यते स्वकृतं फलम् ।
शक्रः पप्रच्छ भो ब्रूहि किं मया दुस्कृतं कृतम् ॥
कश्यपोऽप्याह देवेश ! भ्रूणहत्या कृता त्वया ।
दित्युदरात्त्वया गर्भः कृतो वै बहुधा बलात् ॥
पितरं प्राह देवेन्द्रो मातुर्दूषणतो विभो ! ।
कर्त्तनं प्राप्तवान् गर्भो यदशौचा हि साभवत् ॥
ततोऽब्रवीत् कश्यपस्तु मातुर्दोषे सदासताम् ।
गतस्ततो विनिहतो दोषोऽपि कुलिशेन भोः ॥
तच्छ्रुत्वा कश्यपवचः प्राह शक्रः पितामहम् ।
विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो ! मम ॥
ब्रह्मा प्रोवाच देवेशं वशिष्ठः कश्यपस्तथा ।
हितं सर्व्वस्य जगतः शक्रस्यापि विशेषतः ॥
शङ्खचक्रगदापाणिर्माधवः पुरुषोत्तमः ॥
तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति ॥
सहस्राक्षोऽपि वचनं गुरूणां स निशम्य वै ।
प्रोवाच स्वल्पकालेन कस्मिन् प्राप्यो बहूदयः ॥
ता ऊचुर्देवता मर्त्त्ये स्वल्पकाले बहूदयः ॥
“इत्येवमुक्तः सुरराड्विरिञ्चिना
मरीचिपुत्त्रेण च कश्यपेन ।
तथैव मित्रावरुणात्मजेन
वेगान्महीपृष्ठमवाप्य तस्थौ ॥
कालञ्जरस्योत्तरतः सुपुण्य-
स्तथा हिमाद्रेरपि दक्षिणस्याम् ।
कुशस्थलात् पूर्ब्बत एव विश्रुतो
वसोः पुरात् पश्चिमतोऽवतस्थे ॥
यत्राथ चक्रे भगवान् मुरारिं-
र्वास्तव्यमव्यक्ततनुस्त्वमूर्त्तिः ।
ख्यातिं जगामाथ गदाधरेति
महाघवृन्दस्य शितः कुठारः ॥
यस्मिन् द्विजेन्द्राः श्रुतिशास्त्रसंयुताः
समानतां यान्ति पितामहेन ।
मरुत्पितॄन् यत्र च संप्रपूज्य
भक्त्या त्वनन्ये नहि चेतसैव ।
फलम्महामेधमखस्य मानवा
लभन्त्यनन्त्यं भगवत्प्रसादात् ॥
महानदी यत्र सुरर्षिकन्या
बालापदेशाद्धिमशैलमेत्य ।
चक्रे जगत् पापविनष्टमग्र्यं
सन्दर्शनप्राशनमज्जनेन ॥”
तत्र शक्रः समभ्येत्य महानद्यास्तटेऽद्भुते ।
आराधनाय देवस्य कृत्वाश्रममवस्थितः ॥
प्रातःस्नायी त्वधःशायी एकभक्तिर्ह्ययाचितः ।
तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम् ॥
तस्यैवं तप्यतः सम्यक् जितसर्व्वेन्द्रियस्य च ।
कामक्रोधविहीनस्य साग्रः संवत्सरो गतः ॥
ततो गदाधरः प्रीतो वासवं प्राह नारद ! ।
गच्छ प्रीतोऽस्मि भवतो मुक्तपापोऽसि साम्प्र-
तम् ॥
निजं राज्यञ्च देवेश ! प्राप्स्यसि त्वचिराद्दिवः ।
यतिष्यामि यथा शक्र ! भाविश्रेयो यथा तव ॥
इत्येवमुक्तोऽथ गदाधरेण
विसर्जितः स्नाप्य मनोहरायाम् ।
स्नातस्य देवस्य ततः पुरस्तात्
संप्रोचुरस्माननुशासयस्व ॥
प्रोवाच तान् भीषणकर्म्मकारान्
नाम्ना पुलिन्दा मम पापसम्भवाः ।
वसध्वमेवान्तरमद्रिमुख्ययो-
र्हिमाद्रिकालाञ्जरयोः पुलिन्दाः ॥
इत्येवमुक्त्वा सुरराट् पुलिन्दान्
विमुक्तपापः सुरसिद्धयक्षैः ।
संपुज्यमानोऽनुजगाम चाश्रमं
मातुस्तदा धर्म्मनिवासमाद्यम् ॥”
इति वामने ७३ अध्यायः ॥

पुलोमजा, स्त्री, (पुलोम्नो दैत्यात् जायते इति ।

जन + डः ।) शची । इत्यमरः । १ । १ । ४८ ॥
(यथा, काशीखण्डे १० अध्याये ।
“निष्प्रत्यूहं क्रतुशतं यः कश्चित् कुरुतेऽवनौ ।
जितेन्द्रियोऽमरावत्यां स प्राप्नोति पुलोमजाम् ॥”)

पुलोमजित्, पुं, (पुलोमानं जयतीति । जि +

क्विप् तुगागमश्च ।) इन्द्रः । इति केचित् ॥

पुलोमद्विट्, [ष्] पुं, (पुलोम्नो दैत्यविशेषस्य

द्बिट् शत्रुः ।) इन्द्रः । इति हेमचन्द्रः । २ । ८८ ॥

पुलोमभित्, [द्] पुं, (पुलोमानं भिनत्तीति ।

भिद् + क्विप् ।) इन्द्रः । इति भूरिप्रयोगः ॥

पुलोमा, [न्] पुं, असुरविशेषः । स इन्द्रस्य

श्वशुरः । इति पुलोमजाशब्दटीकायां भरतः ॥
(अयं खल्विन्द्रेण निपातितः । यथा, हरि-
वंशे । २० । १३४ ।
“कृत्वा सम्बन्धकं चापि विश्वसेच्छत्रुणा नहि ।
पुलोमानं जघानाजौ जामाता सन् शत-
क्रतुः ॥”)

पुलोमारिः, पुं, (पुलोम्नोऽरिः शत्रुः ।) इन्द्रः ।

इति त्रिकाण्डशेषः ॥

पुष, पुष्टौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) पोषति तातः पुत्त्रम् । इति
दुर्गादासः ॥

पुष, ऌ य औ पुष्टौ । पोषणे । इति कविकल्प-

द्रुमः ॥ (दिवा०-पर०-सक०-अनिट् ।) ऌ,
अपुषत् । य, पुष्यति । औ, पोष्टा । इति
दुर्गादासः ॥

पुष, क धृतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-

सक०-सेट् ।) क, पोषयति । इति दुर्गादासः ॥

पुष, ग पुष्टौ । इति कविकल्पद्रुमः ॥ (क्र्या०-पर०-

सक०-सेट् ।) ग, पुष्णाति पुषोष । इति
दुर्गादासः ॥

पुषा, स्त्री, (पुष्णातीति । पुष पुष्टौ + कः । तत-

ष्टाप् ।) लाङ्गलिकीवृक्षः । इति शब्दचन्द्रिका ॥

पुषितं, त्रि, (पुष्यते स्मेति । पुष + क्तः । भ्वादि-

गणीयत्वात् इट् ।) पुष्टम् । कृतपोषणपक्षि-
मृगादि । इत्यमरः । ३ । १ । ९७ ॥

पुष्करं, क्ली, (पुष्णातीति । पुष पुष्टौ + “पुषः

कित् ।” उणा० ४ । ४ । इति करन् । स च
कित् ।) हस्तिशुण्डाग्रम् । (यथा, माधे । ५ । ३० ।
“आलोलपुष्करसुखोल्लसितैरभीक्ष्ण-
मुक्षाम्बभूवुरभितो वपुरम्बुवर्षैः ॥”)
वाद्यभाण्डमुखम् । (यथा, रघुः । १७ । ११ ।
“नदद्भिः स्निग्धगम्भीरं तूर्य्यैराहतपुष्करैः ॥” * ॥
“पुष पुष्टौ । पुषः कित् । इति करन्प्रत्ययः ।
पुषिरत्रान्तर्नीतण्यर्थः । पोषयति भूतान्यवकाश-
प्रदानेन उदकदानाद्युपकारेण च । पुष्कं वारि
रातीति पुष्करं इति क्षीरस्वामी । पुषेरन्त-
र्ण्यर्थात् सृमृभृशुषियुधिभ्यः कित् । इति
विहितः करन्प्रत्ययो बाहुलकात् भवति ।
हृदृकृसृपृवीचीपुषिमुषिमूङ्शूभ्यः कित् । इति
करु इति श्रीभोजदेवः । पोषयति भूतानीति ।
पुष्कोपपदाद्रातेः आतोऽनुपसर्गे कः । यद्वा,
वपुरित्युदकनाम तत् कर्त्तुं शीलमस्येति । कृञो
हेतुताच्छील्यानुलोम्येषु । इति टः । वपुष्करं
सत् वकारलोपेन पुष्फरम् । पृषोदरादिः ।” इति
निघण्टौ देवराजयज्वा ॥) जलम् । (यथा, शत-
पथब्राह्मणे । ६ । ४ । २ । २ ।
“आपो वै पुष्करं प्राणोऽथर्वा प्राणो वा ॥”)
व्योम । (यथा, हारीते प्रथमस्थाने चतुर्थेऽध्याये ।
“मेघाः सूर्य्यशिलासमानरुचयो ह्यल्पस्रवाल्प-
स्वना
हंसालीकमलालिमण्डितजलः पद्माकरः
शोभनः ।
तीव्रस्निग्धमयखचन्द्रविमला स्वानन्दिनी
कौमुदी
चित्रा घर्म्मविपक्वतोयसुरसा स्यान्निर्म्मलं
पुष्करम् ॥”)
पृष्ठ ३/१९९
खड्गफलम् । पद्मम् । (यथा, रामायणे ।
२ । ९५ । १४ ।
“सखीवच्च विगाहस्व सीते ! मन्दाकिनीं
नदीम् ।
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ! ॥”)
तीर्थभेदः । (यथा, महाभारते । १ । ३६ । ३ ।
“गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥”
अस्य अन्यद्विवरणं पुंलिङ्गान्तपुष्करशब्दे द्रष्ट-
व्यम् ॥) कुष्ठौषधम् । इत्यमरः । ३ । ३ । १८५ ॥
(यथास्य पर्य्यायः ।
“उक्तं पुस्करमूलन्तु पौष्करं पुष्करञ्च तत् ।
पद्मपत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
खड्गकोषः । इत्यमरटीकायां मथुरेशः ॥
काण्डम् । द्बीपभेदः । इति मदिनी । रे, १८७ ॥
(अस्य विवरणं पुंलिङ्गान्तपुष्करशब्दे द्रष्टव्यम् ॥)
युद्धम् । इति नानार्थरत्नमाला ॥ * ॥

पुष्करः, पुं, (पुष + “पुषः कित् ।” उणा० ४ । ४ ।

इति करन् । स च कित् ।) रोगविशेषः । नाग-
विशेषः । सारसपक्षी । नृपभेदः । स तु नल-
राजभ्राता । (यथा, महाभारते । ३ । ५९ । ४ ।
“स समाविश्य च नलं समीपं पुष्करस्य च ।
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥”
अयं हि कलिसाहाय्येन अक्षद्यूते नलं विजित्य
निषधाधिपोऽभवत् । एतद्वृत्तान्तं महा-
भारते वनपर्व्वणि ५९ अध्याये द्रष्टव्यम् ॥)
वरुणपुत्त्रः । इति मेदिनी । रे, १८७ ॥ (वाद्य-
विशेषः । यथा, मार्कण्डेये । १०६ । ६१ ।
“प्रावाद्यन्त ततस्त्रत्र वेणुवीणादिदर्द्दुराः ।
पणवाः पुष्कराश्चैव मृदङ्गाः पटहानकाः ॥”)
पर्व्वतविशेषः । इति शब्दरत्नावली ॥ * ॥
सप्तद्वीपानां मध्ये द्वीपविशेषः । पुष्करद्वीपवर्णनं
यथा, --
सूत उवाच ।
“शाकद्बीपस्य विस्ताराद्द्विगुणेन समन्ततः ।
क्षीरार्णवं समावृत्य द्वीपः पुष्करसंज्ञितः ॥
एक एवात्र विप्रेन्द्राः पर्व्वतो मानसोत्तरः ।
योजनानां सहस्राणि चोर्द्ध्वं पञ्चाशदुच्छ्रितः ॥
तावदेव च विस्तीर्णः सर्व्वत्र परिमण्डलः ।
स एव द्वीपो यश्चार्द्धमानसोत्तरसंज्ञितः ॥
एक एव महासानुः सन्निवेशाद्द्विधाकृतः ।
तस्मिन्द्वीपे स्मृतौ तु द्वौ पुण्यौ जनपदौ शुभौ ॥
अपरौ मानवस्याथ पर्व्वतस्यानुमण्डलौ ।
महावीतं स्मृतं वर्षं धातकीषण्डमेव च ॥
स्वादूदकेनोदधिना पुष्करः परिभावितः ।
तस्मिन्द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥
तस्मिन्निवसति ब्रह्मा विश्वात्मा विश्वभावनः ।
तत्रैव मुनिशार्दूलाः शिवनारायणालयम् ॥
वसन्त्यत्र महादेवो हरार्द्धो हरिरव्ययः ।
संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ॥
गन्धर्व्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलैः ।
सुस्थास्तत्र प्रजाः सर्व्वा ब्राह्मणाः सदृशत्विषः ॥
निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः ।
सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ॥
न वर्णाश्रमधर्म्माश्च न नद्यो न च पर्व्वताः ।
परेण पुष्करस्याथ समावृत्य स्थितो महान् ॥
स्वादूदकः समुद्रस्तु समन्ताद्द्विजसत्तमाः ।
परेण तस्य महती दृश्यते लोकसंस्थितिः ॥”
इति कौर्म्मे ४७ अध्यायः ॥ * ॥
पुष्करद्वीपस्थराजा । तस्य रथः । यथा, --
“लोकेश्वरः सोऽपि नृभिर्मुनीन्द्रै-
र्दैवैः सहेन्द्रैरथ ब्रह्मचारी
द्वीपे शुभे पुण्यजनैरुपेते
उवास राजा स तु पुष्करस्थः ॥
तेनैव नाम्ना स तु पुष्करोऽपि
सदोच्यते देवगणैः ससिद्धैः ।
तेनैव यानेन तथाम्बुजेन
बभूव नाम्ना तमथाह्वयन्ति ॥”
इत्यग्निपुराणम् ॥ * ॥
ब्रह्मकृततीर्थविशेषः । तस्य नामान्तरम् । रूप-
तीर्थम् २ मुखदर्शनम् ३ । तत्र ज्येष्ठपुष्कर-
मध्यमपुष्करकनिष्ठपुष्करनामकास्त्रयो ह्रदाः ।
तस्य परिमाणं शतयोजनमण्डलम् । इति पद्म-
पुराणम् ॥ * ॥ योगविशेषे गङ्गादीनां पुष्करत्वं
यथा, --
“मकरस्थो यदा भानुस्तदा देवगुरुर्यदि ।
पूर्णिमायां भानुवारे गङ्गा पुष्कर ईरितः ॥
गङ्गोत्तर्य्यां प्रयागे च कोटिसूर्य्यग्रहैः समः ।
सिंहसंस्थे दिनकरे तथा जीवेन संयुते ॥
पूर्णिमायां गुरोर्व्वारे गोदावर्य्यास्तु पुष्करः ।
तत्र स्नानञ्च दानञ्च सर्व्वं कोटिगुणं भवेत् ॥
मेषसंस्थे दिवानाथे देवानाञ्च पुरोहिते ।
सोमवारे सिताष्टम्यां कावेरी पुष्करो मतः ॥
कर्क्कटस्थे दिवानाथे तथा जीवेन्दुवासरे ।
अमायां पूर्णिमायां वा कृष्णा पुष्कर उच्यते ॥”
इति स्कन्दपुराणे पुष्करखण्डे श्रीशैलमाहात्म्यम् ॥
मेघनायकविशेषः । तत्परिज्ञानं यथा, --
“त्रियुते शाकवर्षे तु चतुर्भिः शेषिते क्रमात् ।
आवर्त्तं विद्धि सम्बर्त्तं पुष्करं द्रोणमम्बुदम् ॥”
इति ज्योतिस्तत्त्वम् ॥
तस्य फलम् । यथा, --
“पुष्करे दुष्करं वारि शस्यहीना वसुन्धरा ।
विग्रहोपहता लोकाः पुष्करे जलदाधिपे ॥”
इति ज्योतिषम् ॥ * ॥
क्रूरवार-भद्रातिथि-भग्नपादनक्षत्र-घटिताशुभ-
जनकयोगविशेषः । यथा, --
“पुनर्व्वसूत्तराषाढा कृत्तिकोत्तरफल्गुनी ।
पूर्ब्बभाद्रं विशाखा च रविभौमशनैश्चराः ॥
द्वितीया सप्तमी चैव द्वादशी तिथिरेव च ।
एतेषामेकदा योगे भवतीति त्रिपुष्करः ॥ * ॥
जाते तु जारजो योगो मृते भवति पुष्करः ।
त्रिगुणं फलदो वृद्धौ नष्टे हृते मृते तथा ॥
प्रथमे मासि वर्षे वा कुटुम्बमपि पीडयेत् ।
देवोऽपि यदि वा रक्षेत् तस्य पुत्त्रो न जीवति ॥
अतस्तद्दोषशान्त्यर्थं होमयेदयुतं बुधः ।
अशक्तश्च सुवर्णादिदानं कुर्य्याद्यथाविधि ॥”
समर्थश्चेद् वराहसंहितोक्तं अयुतहोमादिकं
कुर्य्यात् । वाक्यं यथा, --
श्रीविष्णुरोम् तत् सदद्यामुके मास्यमुकपक्षेऽमुक-
तिथौ अमुकगोत्रः श्रीअमुकदेवशर्म्मा अमुक-
गोत्रस्य प्रेतस्यामुकदेवशर्म्मणस्त्रिपुष्करयोग-
कालीनमरणजन्यदोषशमनकामः इदं काञ्चनं
श्रीविष्णुदैवतं यथासम्भवगोत्रनाम्ने ब्राह्मणायाहं
ददे । ततो दक्षिणां दद्यात् । अन्यत्र पूजाहोम-
कर्म्मणी करिष्ये । इति विशेषः । एतत् सर्व्व-
मशौचेऽपि कर्त्तव्यम् । यथा दक्षः ।
सुस्थकाले त्विदं सर्व्वं सूतकं परिकीर्त्तितम् ।
आपद्गतस्य सर्व्वस्य सूतकेऽपि न सूतकम् ॥”
इति शुद्धिकारिका ॥ * ॥
अपि च ।
“पुनर्व्वसूत्तराषाढा कृत्तिकोत्तरफल्गुनी ।
पूर्ब्बभाद्रं विशाखा च षडेते वै त्रिपुष्कराः ॥
द्वितीया सप्तमी चैव द्वादशी तिथिरेव च ।
शनिर्भौमो रविश्चैव वाराश्चैते त्रिपुष्कराः ॥
एते त्रिपुष्करा ज्ञेयास्तथा द्बादशमासिके ।
द्विमासे च तथा प्राप्ते षण्मासे च चतुर्थके ॥
षोडशे मासि संपूर्णे कुटुम्बं पीडयेदध्रुवम् ।
अन्तेऽप्युपान्ते मध्ये च पुष्करो हन्ति नान्यथा ॥
तद्दोषप्रशमार्थन्तु होमयेदयुतं बुधः ।
तिलब्रीहियवांश्चैव कृत्वाज्येन समन्तथा ॥
क्षीरेणैव तथाचार्य्यो जुहुयाद्भक्तिभावतः ।
चरुञ्च श्रपयेत्तत्र प्रास्ते कुर्य्याद्वलिन्तथा ॥
वैकङ्कोडुम्बराश्वत्थैः प्रत्येकाष्टोत्तरं शतम् ।
एकैकं त्रित्रिसंयुक्तं दर्भेण परिवेष्टितम् ॥
यमाय वकङ्कतेन धर्म्मायोडुम्बरेण च ।
अश्वत्थैश्चित्रगुप्ताय जुहुयात् क्रमशस्तथा ॥
तद्वद् घृततिलांश्चैव तथा समिधमेव च ।
एकीकृत्य समं सर्व्वं चरुमाश्रित्य होमयेत् ॥
यवव्रीहितिलैर्युक्तं तण्डुलं श्रपयेच्चरुम् ।
दधिमध्वाज्यसंयुक्तं होमः सहस्रसंख्यया ॥
वैकङ्कोडुम्बराश्वत्थैर्होमयेद्विधिपूर्ब्बकम् ।
यमं धर्म्मं चित्रगुप्तं पुष्करं पुरुषं तथा ॥
तिथिं वारं तथा ऋक्षं पूजयित्वा तु होमयेत् ।
पञ्चवर्णेन चूर्णेन कुर्य्याद्धि पद्ममण्डलम् ॥
यमं धर्म्मं चित्रगुप्तं स्थापयेत् क्रमशस्ततः ।
तिलप्रपूरिते पात्रे लौहे च कृष्णवाससा ॥
वेष्टयित्वा यमं तत्र स्थापयेल्लौहनिर्म्मितम् ।
घृतप्रपूरिते पात्रे कांस्यपात्रे निरञ्जनम् ॥
रौप्याकृतिं शुक्लवस्त्रवेष्टितं तत्र पूजयेत् ।
गुडप्रपूरिते पात्रे ताम्रपात्रे च मन्त्रिणम् ॥
स्वर्णाकृतिं रक्तवस्त्रवेष्टितं तत्र पूजयेत् ।
क्षीरप्रपूरिते पात्रे प्रस्तरपात्रे च पुष्करम् ॥
कृष्णाकृतिं कृष्णवस्त्रवेष्टितं तत्र पूजयेत् ।
सुवर्णतुल्यमर्द्धं वा अथवा शक्तिभावतः ॥
प्रतिमाश्च समाः सर्व्वाः क्रमात्तत्र नियोजिताः
व्रीहौ यवे तथा धान्ये क्रमात् पात्रत्रयन्ततः ॥
पृष्ठ ३/२००
नूतने च क्रमात् पीठे स्थापयेद्विधिपूर्ब्बकम् ।
मण्डलस्य चतुर्द्दिक्षु चतुःकुम्भांश्च स्थापयेत् ॥
दधिगुडक्षीरपूर्णान् प्रकल्प्य संयुतेऽन्ततः ।
अथवा तन्मूलदेशे सचूतपल्लवांस्तथा ॥
पीतवस्त्रेण संयुक्तं कुर्य्याद्घटचतुष्टयम् ।
चन्द्रातपं तदुपरि विचित्रं परिकल्पितम् ॥
कुम्भानाञ्च चतुःपार्श्वे यवतिलैर्युक्ततण्डुलान् ।
स्थापयेयुः क्रमात्तत्र पूजाकाले द्विजोत्तमाः ॥
मण्डलस्य तथा पूर्ब्बे वारुणं घटमर्पयेत् ।
नानादेवान् गणेशादीन् ग्रहादींश्च समर्चयेत् ॥
हुत्वा यथाक्रमं तत्र वलिं दद्याद्विचक्षणः ।
पयोघृतेन क्षीरेण स्नापयित्वा यथाक्रमम् ॥
स्वेन स्वेनैव मन्त्रेण पूजयित्वा च होमयेत् ॥
एवं विधिप्रकारेण यः प्रेतं न तु होमयेत् ।
पुष्करारिष्टदोषस्तु चतुष्पात्तस्य सम्भवेत् ॥
संवत्सरे तथा पूर्णे षोडशे मासि वै तथा ।
षण्मासाभ्यन्तरे तस्य सुतहानिं विनिर्द्दिशेत् ॥
अथवा स्वामिनं हन्ति द्वितीयं भ्रातरन्तथा ।
तृतीयं सर्व्वहानिः स्यात् सुतवित्तविनाशनम् ॥
प्रेतारिष्टविनाशाय यमादीन् यो न होमयेत् ।
सर्व्वाणि तस्य नश्यन्ति गोमहिषादीनि सर्व्वतः ॥
एवंविधिकृतं होमं यः कर्त्तुमक्षमो भवेत् ।
होमं कृत्वा यथाशक्त्या धेनुमेकां प्रदापयेत् ॥
अस्मिन् कृते न सन्देहः प्रेतारिष्टं न पीडयेत् ।
न विघ्नो यजमानस्य न चारिष्टं प्रजायते ॥
एतद्धोमं विनिर्द्दिष्टं यत्नतो न करोति यः ।
न रक्षति यमस्तस्य एभिर्मासैश्च वंशजम् ॥
सुतो भ्राता तथा जाया पतिः श्वशुर एव च ।
माता पिता स्वसा वापि पितृव्यो भगिनीपतिः ॥
ज्येष्ठभ्राता पतिश्चापि स्वामी चापत्यमेव च ।
एकैकं वर्षसंपूर्णे कुटुम्बं पीडयेदध्रुवम् ॥
षोडशे मासि संपूर्णे बान्धवान् परिपीडयेत् ॥
बान्धवानामभावे च वास्तुवृक्षो न जीवति ॥
त्रिपुष्करे तथा दोषे यः प्रेतं न तु होमयेत् ।
देवता यदि वा रक्षेत् तस्य पुत्त्रो न जीवति ॥
यत्किञ्चिद्दानमुत्सृज्य शुद्धो भवति मानवः ।
न रक्षति यमस्तस्य यदि होमं न कारयेत् ॥
तस्मात् विधिप्रकारेण पुष्करारिष्टशान्तये ।
यमं धर्म्मं चित्रगुप्तं पूजयित्वा च होमयेत् ॥
मण्डले घटमारोप्य पूजयित्वा यथाक्रमम् ।
विधिपूर्ब्बं तथा हुत्वा प्रान्ते दद्याद्वलिं बुधः ॥
प्रभाते च तथा रात्रावशौचान्तदिने तथा ।
आचार्य्यश्च प्रकुर्व्वीत श्रपयेच्च चरुं ततः ॥
विप्रक्षत्त्रिययोर्दर्भैः पिष्टैर्वैश्यस्य निर्म्मितम् ।
शूद्रस्य गोमयेनापि प्रतिमां दापयेत्ततः ॥
दत्त्वा मधुघृताक्तञ्च चरुं पश्चाच्च दापयेत् ।
ततोऽरिष्टः प्रशान्तः स्यात्ततो होमं समापयेत् ॥
संकल्प्य विधिना पूर्ब्बं वस्त्रयुग्मेन यत्नतः ।
आचार्य्यं वृणुयात्तत्र पश्चादृत्विजमेव च ॥”
इति वराहसंहितोक्तपुष्करशान्तिप्रमाणम् ॥

पुष्करकर्णिका, स्त्री, (पुष्करं पद्मं कर्णयति सादृ-

श्येन प्राप्नोतीति । कर्ण + ण्वुल । टापि अत
इत्वम् ।) स्थलपद्मिनी । इति राजनिर्घण्टः ॥
(स्थलपद्मिनीशब्देऽस्या गुणादयो ज्ञातव्याः ॥)

पुष्करनाडी, स्त्री, (पुष्करं पद्मं नाडयति सौन्द-

र्य्येण भ्रंशयतीति । नाड + अच् । ततो ङीष् ।)
स्थलपद्मिनी । इति राजनिर्घण्टः ॥

पुष्करमूलं, क्ली, (पुष्करस्य मूलमिव मूलमस्य ।

पुष्करजातं मूलं वा ।) पुष्करदेशप्रसिद्धौषधि-
विशेषः । अस्य स्थाने कुष्ठं योजयन्ति । तस्य-
पर्य्यायः । मूलम् २ पुष्करम् ३ पद्मपत्रकम् ४
पुष्करिणी ५ वीरम् ६ पौष्करम् ७ पुष्करा-
ह्वयम् ८ काश्मीरम् ९ ब्रह्मतीर्थम् १० श्वासारिः
११ मूलपुष्करम् १२ पुष्करजटा १३ पुष्कर-
शिफा १४ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
कफवातज्वरश्वासारोचककाशशोफपाण्डुनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥ “विशेषात् पार्श्व-
शूलनुत् ।” इति भावप्रकाशः ॥ (व्यवहारोऽस्य
यथा, --
“भार्गीं पुष्करमूलञ्च रास्नां विल्वं यमानिकाम् ।
नागरं दशमूलञ्च पिप्पलीञ्चाप्सु साधयेत् ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे
भार्ग्यादिक्वाथे ॥)

पुष्करमूलकं, क्ली, (पुष्करस्य कुष्ठस्य मूलम् ।

ततः संज्ञायां कन् ।) कुष्ठवृक्षस्य मूलम् । इति
त्रिकाण्डशेषः ॥ (कुष्ठशब्देऽस्य विवरणं ज्ञात-
व्यम् ॥)

पुष्करशिफा, स्त्री, (पुष्करस्य शिफा जटेव ।)

पुष्करमूलम् । इति राजनिर्घण्टः ॥

पुष्करस्रजौ, पुं, (पुष्करस्य पद्मस्य स्रक् ययोरिति ।)

अश्विनीकुमारौ । द्बिवचान्तोऽयम् । इति शब्द-
रत्नावली ॥ (अश्विनीकुमारतुल्ये, त्रि । यथा,
वाजसनेयसंहितायाम् । २ । ३३ ।
“आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् ।
यथेह पुरुषोऽसत् ॥”
“किम्भूतं कुमारं पुष्करस्रजं पुष्कराणां पद्मानां
स्रक् माला ययोस्तौ पुष्करस्रजौ अश्विनौ
अश्विनीकुमारौपुष्करस्रजौ पद्ममालिनौ देवानां
भिषजौ । तत्तुल्यः कुमारः पुष्करस्रक् तम् ।
अश्विसाम्यकथनेन रोगहीनं सुन्दरञ्च पुत्त्र-
मधत्तेति सूचितम् ॥” इति तत्र वेददीपः ॥)

पुष्कराक्षः, पुं, (पुष्करवदक्षिणी यस्य । “अक्ष्णो-

ऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।)
विष्णुः । यथा, तिथ्यादितत्त्वे ।
“पुष्कराक्ष ! निमग्नोऽहं मायाविज्ञानसागरे ।
त्राहि मां देवदेवेश त्वत्त्वो नान्योऽस्ति रक्षिता ॥”
(श्रीकृष्णः । यथा, महाभारते । १ । २२० । १६ ।
“अथाब्रवीत् पुष्कराक्षः प्रहसन्निव भारत ! ॥”)

पुष्कराह्वः, पुं, (पुष्करस्य आह्वा आह्वा यस्य ।)

सारसपक्षी । इत्यमरः । २ । ५ । २२ ॥ (पुष्करं
आह्वा यस्य । पुष्करमूलम् । यथा, सुश्रुते
चिकित्सितस्थाने ५ अध्याये ।
“तुम्बुरुपुष्कराह्वहिङ्खम्लवेतसपथ्यालवणत्रयं
यवक्वाथेन पातुं प्रयच्छेत् ॥”)

पुष्कराह्वयं, क्ली, (पुष्करं आह्वयो यस्य ।)

पुष्करमूलम् । इति राजनिर्घण्टः ॥ (यथा, --
“क्षुद्रामृता नागरपुष्कराह्वयैः
कृतः कषायः कफमारुतोद्भवे ।
सश्वासकासारुचिपार्श्वरुक्करे
ज्वरे त्रिदोषप्रभवे च शस्यते ॥”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

पुष्करिणी, स्त्री, (पुष्करवत् आकृतिरस्त्यस्या इति ।

पुष्कर + इनिः । ततो ङीप् ।) स्थलपद्मिनी ।
पुष्करमूलम् । इति राजनिर्घण्टः ॥ (पुष्करं
शुण्डादण्डस्तदस्त्यस्या इति । इनिः ।) हस्तिनी ।
सरोजिनी । (पुष्कराणि पद्माणि सन्त्यत्रेति ।)
जलाशयः । इति मेदिनी । णे, १०४ ॥ शतधनुःपरि-
मितसमचतुरस्रजलाधारः । पुकुर इति पुखरि
इति च भाषा । तत्पर्य्यायः । खातम् २ ।
इत्यमरः । १ । १० । २७ ॥ जलकूपी ३ । इति जटा-
धरः ॥ पौष्करिणी ४ । इति शब्दरत्नावली ॥ * ॥
सा तु दक्षिणोत्तरायता कार्य्या ।
यथा, --
“कूपवापीपुष्करिण्यो दीर्घिका द्रोण एव च ।
तडागः सरसी चैव सागरश्चाष्टमो मतः ॥
सद्भिर्जलाशयः कार्य्यो यत्नाद्याम्योत्तरायतः ॥”
इति कल्पतरौ वायुपुराणम् ॥ * ॥
तस्या लक्षणं यथा । “पुष्करिणीतडागावाह
वशिष्ठसंहितायाम् ।
‘चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरः ।
शतधन्वन्तरञ्चैव तावत् पुष्करिणी मता ।
एतत्पञ्चगुणः प्रोक्तस्तडाग इति निश्चयः ॥
तेन चतुर्द्दिक्षु विंशतिहस्तान्यूनतायां चतुःशत-
हस्तान्यूनाभ्यन्तरत्वेन पुष्करिणी । एतज्जला-
शयाधारपरं न तु उपरितटम् । शतेन धनुर्भिः
पुष्करिणी । इति नव्यवर्द्धमानधृतो वशिष्ठः ॥ * ॥
तत्करणे वास्तुयागः कर्त्तव्यः । महाकपिल-
पञ्चरात्रम् ।
‘जलाधारगृहार्थञ्च यजेद्वास्तुं विशेषतः ।
ब्रह्माद्यदितिपर्य्यन्ताः पञ्चाशत्त्रयसंयुताः ।
सर्व्वेषां किल वास्तूनां नायकाः परिकीर्त्तिताः ॥
असंपूज्य हि तान् सर्व्वान् प्रासादादीन्न कार-
येत् ।
अनिष्पत्तिर्विनाशः स्यादुभयोर्धर्म्मधर्म्मिणोः ॥’
ब्रह्माद्यदितिपर्य्यन्ता इति कल्पान्तरम् । देवी-
पुराणोक्त ईशादिकल्प एव व्यवह्नियते । धर्म्म-
धर्म्मिणोस्तडागादितत्कर्त्रोः । आरम्भदिने
तदकरणे उत्सर्गादिनेऽपि आदौतत्करणम् ।
यथा, --
‘प्रासादभवनोद्यानप्रारम्भे परिवर्त्तने ।
पुरवेश्मप्रवेशेषु सर्व्वदोषापनुत्तये ॥
वास्तूपशमनं कृत्वा ततः सूत्रेण वेष्टयेत् ।
वास्तुपूजामकुर्व्वाणस्तवाहारो भविष्यति ॥’
इति मत्स्यपुराणे पुरवेश्मप्रवेशे वास्तुयागप्राप्तेः
पूर्ब्बोक्तवचने प्रासादधर्म्मातिदेशादत्र वाप्यादि-
प्रतिष्ठादिनेऽपि वास्तुयागकरणम् ॥ * ॥
पृष्ठ ३/२०१
तदारम्भे नक्षत्रादि दीपिकायाम् ।
‘पुष्यामित्रकरोत्तरस्ववरुणब्रह्माम्बुपित्र्येन्दुभिः
शस्तेऽर्के शुभयोगवारतिथिषु क्रूरेष्ववीर्य्येषु च ।
पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदये
प्रारम्भः सलिलाशयस्य शुभदो जीवेन्दुपुत्त्रोदये ॥’
पुष्यानुराधा-हस्तोत्तरात्रय-धनिष्ठा-शतभिषा-
रोहिणी-पूर्ब्बाषाढा-मघा-मृगशिरोभिर्भैः ॥
मात्स्ये ।
‘चन्द्रादित्यबलं लब्धा लग्नं शुभनिरीक्षितम् ।
स्तम्भोच्छ्रायादि कर्त्तव्यमन्यत्र परिवर्जयेत् ॥
अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवम् ।
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥
वज्रव्याघातशूले च व्यतीपातातिगण्डयोः ।
विष्कम्भगण्डपरिघवर्जं योगेषु कारयेत् ॥
आदित्यभौमवर्जन्तु सर्व्वे वाराः शुभावहाः ।
प्रासादेऽप्येवमेव स्यात् कूपवापीषु चैव हि ॥’
ज्योतिषे । गुरोर्भृगोरस्तबाल्ये इत्यभिधाय
प्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति हि ॥ * ॥
उत्सर्गफलमाह । कपिलपञ्चरात्रे ।
‘संक्षेपात्तु प्रवक्ष्यामि जलदानफलं शृणु ।
पुष्करिण्यादिदानेन विष्णुः प्रीणाति विश्वधृक् ॥’
जलाशयकरणार्थभूमिदानफलमाह चित्रगुप्तः ।
‘जलाशयार्थं यो दद्यात् वारुणं लोकमाप्नुयात् ॥’
भूमिमिति शेषः ॥ * ॥ तत्प्रतिष्ठाकालमाह ।
मत्स्यपुराणम् ।
‘शृणु राजन् ! महाबाहो ! तडागादिषु यो
विधिः ।
चैत्रे वा फाल्गुने वापि ज्यैष्ठे वा माधवे तथा ॥
माघे वा सर्व्वदेवानां प्रतिष्ठा शुभदा भवेत् ।
प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे ॥
पुण्येऽह्रि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥’
अतीते प्रवृत्ते । तथा च प्रतिष्ठासमुच्चये ।
‘माघेऽथ फाल्गुने वापि चैत्रवैशाखयोरपि ।
ज्यैष्ठाषाढकयोर्वापि प्रवृत्ते चोत्तरायणे ॥’
ब्राह्मणवाचनं पुण्याहस्वस्तिऋद्धिवाचनम् ॥ * ॥
‘पञ्चमी च द्वितीया च तृतीया सप्तमी तथा ।
दशमी पौर्णमासी च तथा श्रेष्ठा त्रयोदशी ।
आसु प्रतिष्ठा विधिवत् कृत्वा बहुफला भवेत् ॥
आषाढे द्वे तथा मूलमुत्तरात्रयमेव च ।
ज्येष्ठाश्रवणरोहिण्यः पूर्ब्बभाद्रपदा तथा ॥
हस्ताश्विनी रेवती च पुष्यो मृगशिरस्तथा ।
अनुराधा तथा स्वाती प्रतिष्ठादिषु शस्यते ॥ * ॥
बुधो बृहस्पतिः शुक्रस्त्रय एते शुभावहाः ।
एतन्निरीक्ष्य तं लग्नं नक्षत्रञ्च प्रशस्यते ॥
ग्रहताराबलं लब्ध्वा ग्रहपूजां विधाय च ।
निमित्तं सकलं ज्ञात्वा वर्जयित्वाद्भुतादिकम् ॥
शुभयोगे शुभगृहे क्रूरग्रहविवर्जिते ।
लग्ने ऋक्षे च कुर्व्वीत प्रतिष्ठादिकमुत्तमम् ॥ * ॥
अयने विषुवे तद्वत् षडशीतिमुखे तथा ।
एतेषु स्थापनं कार्य्यं विधिदृष्टेन कर्म्मणा ॥’
भविष्ये ।
‘प्रतिपच्च द्वितीया च तृतीया पञ्चमी तथा ।
दशमी त्रयोदशी चैव पौर्णमासी च कीर्त्तिता ॥
सोमो बृहस्पतिश्चैव शुक्रश्चैव तथा बुधः ।
एते सौम्यग्रहाः प्रोक्ताः प्रतिष्ठायागकर्म्मणि ॥’
प्रतिष्ठाधिकारे व्यवहारसमुच्चयः ।
‘कृष्णपक्षे च पञ्चम्यामष्टम्याञ्चैव शस्यते ॥’
दीपिकायाम् ।
‘पुष्याश्विशक्रभगदैवतवासवेषु
सौम्यानिलेशमघरोहिणिमूलहस्ते ।
पौष्णानुराधहरिभेषु पुनर्व्वसौ च
कार्य्याभिषेकतरुभूतपतिप्रतिष्ठा ॥’
वासवं धनिष्ठा । ईश आर्द्रा । आर्द्रायाञ्चैव
सौभाग्यमिति प्रतिष्ठासारसमुच्चयात् ॥ * ॥
वापीत्यादीनां पूर्त्तत्वाभिधानात् शूद्रस्याधिकार-
माह जातूकर्णः ।
‘वापीकूपतडागादि देवतायतनादि च ।
अन्नप्रदानमारामाः पूर्त्तमित्यभिधीयते ॥
अग्निहोत्रं तपः सत्यं वेदानामनुपालनम् ।
आतिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥
ग्रहोपरागे यद्दानं पूर्त्तमित्यभिधीयते ।
इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते ॥
अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके ॥’
वैदिके वेदाध्ययनसाध्ये अग्निहोत्रादाविति रत्ना-
करः ॥ एवं स्त्रीणामपि पूर्त्ताधिकारः । यथा,
नारीत्यनुवृत्तौ बृहस्पतिः ।
‘पितृव्यगुरुदौहित्रान् भत्तुः स्वस्रीयमातुलान् ।
पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः ॥’
अस्य पूर्त्तत्वात् वृद्धिश्राद्धमप्यादौ कर्त्तव्यम् ।
यथा, गोभिलः । ‘वृद्धिः पूर्त्तेषु युग्मा नाशयेत्
प्रदक्षिणमुपचारः । यवैस्तिलार्थ इति ॥’ * ॥
हयशीषपञ्चरात्रे ।
‘वापीकूपतडागानां पश्चिमे यागमण्डपम् ।
कुर्य्याद्यथाक्रमेणैव कन्यसं मध्यमुत्तमम् ॥
कन्यसं दशहस्तन्तु कूपे शस्तं तथानघ ! ।
द्विषट्कं कारयेद्वाप्यां पुष्करिण्यां चतुर्द्दश ।
द्विरष्टहस्तं कुर्व्वीत तडागे मण्डपं शुभम् ॥’
कन्यसं कनीयांसम् ॥ * ॥ सङ्कल्पविधिमाह
भविष्ये ।
‘गृहीत्वौडुम्बरं पात्रं वारिपूर्णं गुणान्वितम् ।
दर्भत्रयं साग्रमूलं फलपुष्पसमन्वितम् ॥
जलाशयारामकूपे सङ्कल्पे पूर्ब्बदिङ्मुखः ।
साधारणे चोत्तरास्य ऐशान्यां निक्षिपेत् पयः ॥’
मत्स्यपुराणे ।
‘प्रागुदक्प्रवणे देशे तडागस्य समीपतः ।
चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखीम् ॥’
कारयेदित्यर्थः । तथा, --
‘सर्व्वतः समवर्णाः स्युः पताका ध्वजसंयुताः ॥’
समवर्णा वक्ष्यमाणलोकपालवर्णाः ।
‘अश्वत्थोडुम्बरप्लक्षवटशाखायुतानि च ।
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥’
तथा ।
‘कुलशीलसमापन्नः स्थापकः स्याद्द्विजोत्तमः ॥’
स्थापक आचार्य्य इति रत्नाकरः ॥ * ॥
‘सौवर्णौ कूर्म्ममकरौ राजतौ मत्स्यडुण्डुभौ ।
ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः ॥
एवमासाद्य तान् सर्व्वानादौ चैव विशाम्पते ! ।
शुक्लमाल्याम्बरधरः शुक्लगन्धविलेपनः ॥
सर्व्वौषध्युदकस्नानस्नापितो वेदपुङ्गवः ।
यजमानः सपत्नीकः पुत्त्रपौत्त्रसमन्वितः ।
पश्चिमं द्वारमाश्रित्य प्रविशेद्यागमण्डपम् ॥
ततो मङ्गलशब्देन भेरीणां निःस्वनेन च ।
रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् ॥
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् ।
चतुरस्रञ्च परितो वृत्तं मध्ये सुशोभनम् ॥
वेद्याश्चोपरि तत् कृत्वा ग्रहाँल्लोकपतींस्तथा ।
विन्यसेन्मन्त्रतः सर्व्वान् प्रतिदिक्षु विचक्षणः ।
झसादीन् स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः ॥’
झसादीन् कूर्म्मादीन् ।
‘ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ।
विनायकन्तु विन्यस्य कमलामम्बिकान्तथा ॥’
पूजयेदिति शेषः । तथा, --
‘नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।
अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् ॥’
ग्रजपूजामण्डलं शान्तिदीपिकायाम् ।
‘वर्त्तलो भास्करः कार्य्यो ह्यर्द्धचन्द्रो निशाकरः ।
अङ्गारकस्त्रिकोणस्तु बुधश्चापाकृतिस्तथा ॥
पद्माकृतिर्गुरुः कार्य्यश्चतुष्कोणस्तु भार्गवः ।
खड्गाकृतिः शनिः कार्य्योराहुस्तु मकराकृतिः ।
सर्पाकृतिस्तथा केतुः कार्य्यो मण्डलपूजने ॥’
मत्स्यपुराणे ।
‘देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ।
सूर्य्यः सोमस्तथा भौमो बुधजीवसितार्कजाः ॥
राहुः केतुरिति प्रोक्ता ग्रहा लोकहिते रताः ।
मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ॥
उत्तरेण गुरुं विद्याद्बुधं पूर्ब्बोत्तरेण तु ।
पूर्ब्बेण भार्गवं विद्यात् सोमं दक्षिणपूर्ब्बके ॥
पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे ।
पश्चिमोत्तरतः केतुं स्थापयेत् शुक्लतण्डुलैः ॥ * ॥
भास्करस्येश्वरं विद्यादुमाञ्च शशिनस्तथा ।
स्कन्दमङ्गारकस्यापि बुधस्यापि तथा हरिम् ॥
ब्रह्माणञ्च गुरोर्व्विद्यात् शुक्रस्यापि प्रजापतिम् ।
शनैश्चरस्य तु यमं राहोः कालन्तथैव च ।
केतूनाञ्चित्रगुप्तञ्च सर्व्वेषामधिदेवताः ॥ * ॥
अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री च देवताः ।
प्रजापतिश्च सर्पश्च ब्रह्मा प्रत्यधिदेवताः ॥ * ॥
विनायकं तथा दुर्गां वायुमाकाशमेव च ।
आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ ॥
संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् ।
सोमशुक्रौ तथा श्वेतौ बुधजीवौ च पिङ्गलौ ॥
मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः ।
ग्रहवर्णानि देयानि वासांसि कुसुमानि च ॥
धूपामोदोऽत्र सुरमिरुपरिष्टाद्वितानकम् ।
शोभनं स्थापयेत् प्राज्ञः फलपुष्पसमन्वितम् ॥
गुडौदनं रवेः कुर्य्यात् सोमाय घृतपायसम् ।
संयावकं कुजे दद्यात् क्षीरान्नं सोमसूनवे ॥
पृष्ठ ३/२०२
दध्योदनन्तु जीवाय शुक्राय च घृतोदनम् ।
शनैश्चराय कृषरमाजमांसञ्च राहवे ।
चित्रोदनन्तु केतुभ्यः सर्व्वभक्षैः समर्च्चयेत् ॥’
स्कन्दपुराणम् ।
‘जन्मभूर्गोत्रमेतेषां वर्णस्थानमुखानि च ।
योऽज्ञात्वाकुरुते शान्तिं ग्रहास्तेनावमानिताः ॥
उत्पन्नोऽर्कः कलिङ्गेषु यमुनायाञ्च चन्द्रमाः ।
अङ्गारकस्त्ववन्त्यान्तु मगधे तु हिमांशुजः ॥
सैन्धवेषु गुरुर्जातः शुक्रो भोजकटे तथा ।
शनैश्चरस्तु सौराष्ट्रे राहुर्वैराटिकापुरे ।
अन्तर्वेद्यां तथा केतुरित्येता ग्रहभूमयः ॥
आदित्यः काश्यपो गोत्र आत्रेयश्चन्द्रमा
भवेत् ।
भारद्वाजो भवेद्भौमस्तथात्रेयश्च सोमजः ॥
सुरपूज्योऽङ्गिरोगोत्रः शुक्रो वै भार्गवस्तथा ।
शनिः काश्यप एवायं राहुः पैठीनसिस्तथा ।
केतवो जैमिनेयाश्च ग्रहा लोकहिते रताः ॥’
कात्यायनः ।
‘तद्गोत्रजाती अज्ञात्वा होमं यः कुरुते नरः ।
न तस्य फलमाप्नोति न सन्तुष्यन्ति देवताः ॥
न हुतं न च संस्कारो न च यज्ञफलं लभेत् ।
ब्राह्मणौ भार्गवाचार्य्यौ क्षत्त्रियावर्कलोहितौ ॥
वैश्यौ सोमबुधौ चैव शेषान् शूद्रान् विनि-
र्द्दिशेत् ॥’
शान्तिदीपिकायाम् ।
‘शुक्रार्कौ प्राङ्मुखौ स्थाप्यौ शशाङ्कार्की च
दक्षिणौ ।
उत्तरास्यौ गुरुबुधौ पश्चिमास्यास्तथापरे ॥’
अग्निप्रणयनानन्तरं ग्रहावाहनमाह वैशम्पा-
यनः ।
‘अग्निप्रणयनं कृत्वा पश्चादावाहयेत् सुरान् ।
मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु ॥’
यद्यपि ग्रहादीनां बहवः शब्दा वाचकाः सन्ति
शब्दोपहितश्चार्थोठर्थोपहितः शब्दो वा देवता
उभयथापि शब्दनियमात् अविनिगमकः स्यात्
तथापि बहुषु दृष्टत्वात् सूर्य्यादिशब्देन ग्रहाणां
देवतात्वम् । तेन सूर्य्यसोमकुजबुधबृहस्पतिशुक्र-
शनैश्चरराहुकेतुपदैर्देवतात्वम् । अधिदेयता-
नान्तु त्र्यम्बकोमास्कन्दविष्णुब्रह्मेन्द्रयमकाल-
चित्रगुप्तानामेभिरेव पदैः । तथा प्रत्यधिदेव-
तानाञ्च अग्न्यप्पृथिवीविष्ण्विन्द्रशचीप्रजापति-
ब्रह्मणामेभिरेव पदैः । तथा विनायकदुर्गावा-
य्वाकाशाश्विनामेभिरेव । इति कृत्यप्रदीपः ॥ * ॥
शान्तिदीपिकोक्तध्यानानि प्रयोगे वक्ष्यन्ते ।
लोकपालमन्त्रानाह भविष्ये ।
‘न्यासमन्त्रानहं वक्ष्ये लोकपालात्मकानिह ।
इन्द्रस्तु महसा दीप्तः सर्व्वदेवाधिपो महान् ।
वज्रहस्तो महासत्त्वस्तस्मै नित्यं नमो नमः ॥
आग्नेयः पुरुषो रक्तः सर्व्वदेवमयोऽव्ययः ।
धूमकेतुरनाधृष्यस्तस्मै नित्यं नमो नमः ॥
यमश्चोत्पलवर्णाभः किरीटी दण्डधृक् सदा ।
धर्म्मसाक्षी विशुद्धात्मा तस्मै नित्यं नमो नमः ॥
निरृतिस्तु पुमान् कृष्णः सर्व्वरक्षोऽधिपो
महान् ।
खड्गहस्तो महासत्त्वस्तस्मै नित्यं नमो नमः ॥
वरुणो धवलो जिष्णुः पुरुषो निम्नगाधिपः ।
पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः ॥
वायुश्च सर्व्ववर्णोऽयं सर्व्वगन्धवहः शुभः ।
पुरुषो ध्वजहस्तश्च तस्मै नित्य नमो नमः ॥
गौरो यस्तु पुमान् सौम्यः सर्व्वौषधिसमन्वितः ।
नक्षत्राधिपतिः सोमस्तस्मै नित्यं नमो नमः ॥
ईशानः पुरुषः शुक्लः सर्व्वविद्याधिपो महान् ।
शूलहस्तो विरूपाक्षस्तस्मै नित्यं नमो नमः ॥
पद्मयोनिश्चतुर्मूर्त्तिर्हेमवासाः पितामहः ।
यज्ञाध्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमो नमः ॥
योऽसावनन्तरूपेण ब्रह्माण्डं सचराचरम् ॥
पुष्पवद्धारयेन्मूर्द्ध्नि तस्मै नित्यं नमो नमः ।
ॐकारपूर्व्वका ह्येते न्यासे बलिनिवेदने ।
मन्त्राः स्युः सर्व्वकार्य्याणां बृद्धिपुष्टिफलप्रदाः ॥’
हयशीर्षपञ्चरात्रे ।
‘अथवा कामतः कुर्य्यात् सूक्ष्मरत्नादिनिर्म्मितम् ।
द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदम् ॥
वामेन नागपाशन्तु धारयन्तं सुभोगिनम् ।
मौलिनं वा महाभागं कारयेद्यादसां पतिम् ॥
वामे तु कारयेद्वृद्धिं दक्षिणे पुष्करं शुभम् ।
नागैर्नदीभिर्यादोभिः समुद्रैः परिवारितम् ॥
कृत्वैवं व्नरुणं देवं प्रतिष्ठाविधिमाचरेत् ॥’
पुष्करं तत्पुत्त्रम् । तथा प्रसन्नवदनमिति ध्यानं
वक्ष्यते । वरुणमन्त्रोद्धारस्तु तत्रैव ।
‘अष्टाविंशान्तबीजेन चतुर्द्दशयुतेन च ।
अर्द्धेन्दुविन्दुयुक्तेन प्रणवोद्दीपितेन च ॥’
तेन ॐ वौं इति मन्त्रः ।
‘प्रतिमायां स्थितिं कृत्वा प्रणवेन निरोधयेत् ।
पूजयेत् गन्धपुष्पाद्यैः सान्निध्यं पाशमुद्रया ॥’
स्थितिं प्राणप्रतिष्ठाम् । निरोधयेत् अन्तर्गता-
ङ्गुष्ठमुष्टिभ्यां निरोधमुद्रां दर्शयेत् । दानकल्प-
तरुरत्नाकरयोर्ब्बह्वृचगृह्यपरिशिष्टम् ॥ अथातो
वरुणविधिं वापीकूपतडागयज्ञं व्याख्यास्यामः ।
पुण्ये तिथिकरणे शुभे नक्षत्रे प्रतीचीं दिश-
मास्थाय प्राक्प्रवणे उदक्प्रवणे वा उदक्-
समीपे अग्निमुपसमाधाय वारुणं श्रपयित्वा
आज्यभागान्तं हुत्वा चतस्र आज्याहुतीर्जुहु-
यात् । समुद्रज्येष्ठा इति प्रत्यृचं ततो हविषा
अष्टभिर्जुहुयात् । तद्वायामि ब्राह्मणा वन्द-
मानः इति पञ्च । त्वन्नोऽग्ने वरुणस्य विद्वा-
निति द्वे इमं मे वरुणं स्रग्वी हवेति च स्विष्टि-
कृतञ्च नवमं नव वै प्राणाः प्राण इव आप-
स्तस्मादापो नवभिर्जुहोति ॥ * ॥ मार्जनान्ते
धेनुमवतारयेत् । अवतार्य्यमाणान्तामनुमन्त्र-
येत् । इदं सलिलं पवित्रं कुरुष्व शुद्धः पूतो
मृतः सन्तु नित्यं तारयन्ती सर्व्वतीर्थाभिषिक्तं
लोकालोकं तरते तीर्य्यते च । इत्यनेन पुच्छाग्रे
यजमानः स्वयं लग्न आचार्य्येणान्वारब्ध उत्तीर्य्य
आपोऽस्मान्मातरः शुन्धयन्त्विति ऐशान्यां दिशि
उत्थापयेत् । सुयवसा भगवतीह भूया इति
हिं कृतञ्चेत् तदा हिं कृण्वती वसुमती वसूना-
मिति जपेत् । तां सचेलकण्ठां कनकशृङ्गीं
वृषप्रजां रूप्यखुरां कांस्योपदोहां विप्राय साम-
गाय दद्यात् इतरां वा । यथाशक्ति दक्षिणा च
देया इति । तत उत्सर्गं कुर्य्यात् । देवपितृ-
मनुष्याः प्रीयन्तां इत्याह शौनकः । यजमानो
ब्राह्मणान् भोजयित्वा स्वस्ति वाचयीतेति ।
अस्यार्थः । तिथ्यादीनां शुभत्वं पूर्ब्बवचनेभ्यो
ज्ञेयम् । एष एव विधिर्गोभिलपारस्करगृह्योक्त-
कर्म्मानुष्ठातृभ्यामनुष्ठीयते ।
‘यन्नाम्ना तं स्वशाखायां परोक्तमविरोधि च ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादि कर्म्मवत् ॥’
इति छन्दोगपरिशिष्टात् ॥
ततश्च अग्निमुपसमाधायेति स्वस्वगृह्योक्तविधि-
नाग्निं संस्थाप्य वारुणं वरुणदेवताकं
चरुं निष्पाद्य आज्यभागान्तं हुत्वा इति
छन्दोगेतरपरम् । स तु विरूपाक्षजपान्तां
कुशण्डिकां समाप्य महाव्याहृतीर्हुत्वा प्रकृतं
कर्म्म कुर्य्यात् । तत्र प्रथमतः पिङ्गभ्रूश्मश्रु
इत्यादि पुराणीयं ध्यात्वा अग्ने त्वं वरुणनामा-
सीति नाम कुर्य्यात् ।
‘प्रतिष्ठायां रोहितश्च वास्तुयुगे प्रजापतिः ।
जलाशयप्रतिष्ठायां वरुणः समुदाहृतः ॥’
इति स्मृतेः ।
तत आवाह्य पूजयित्वा समित्प्रक्षेपानन्तरं
महाव्याहृतिहोमं कृत्वा समुद्रा ज्येष्ठा इत्यादि
चतुर्भिर्मन्त्रैश्चतस्र आहुतीर्जुहुयात् । ॐ तद्वा-
यामीति ॐ तदिदन्नक्तमिति ॐ शुनःशेफो-
हीति ॐ अवते हेलौ वरुण इति ॐ डदु-
त्तममिति पञ्चभिः ॐ त्वन्नोऽग्ने इति द्वाभ्यां
ॐ इमां वरुण इत्येकेन एवं स्थानत्रयोक्तैर्ब्बह्वृ-
चोक्तैः प्रत्येकमष्टभिर्मन्त्रैश्चरुं चतुरावर्त्तं भृगु-
गोत्रो भार्गवप्रवरश्च पञ्चावर्त्तं स्रुचा जुहुयात् ।
अग्नये स्विष्टिकृते च । ततः कुशण्डिकोक्त-
विधिना शेषं समापयेत् । नव वै प्राणा इति
नवाहुतिस्तुतिः । मार्जनान्त इति यजमानाभि-
षेकः । तद्विधानन्तु मत्स्यपुराणे ।
‘गजाश्वरथ्यावल्मीकसङ्गमात् ह्रदगोकुलात् ।
मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा ॥
गोरोचनाञ्च सिद्धार्थान् गन्धान् गुग्गुलुमेव च ।
स्नपनं तस्य कर्त्तव्यं पञ्चभङ्गसमन्वितम् ।
पूर्त्तकर्त्तुर्महामन्त्रैरेवं कृत्वा विधानतः ॥’
पञ्चभङ्गाश्च शान्तिकपौष्टिककल्पतरूक्ताः ।
‘अश्वत्थोडुम्बरप्लक्षवटचूतस्य पल्लवाः ॥’
महामन्त्रैः । सुरास्त्वामभिषिञ्चन्त्वित्यादिभिः ।
एतत्पर्य्यन्तं कूपेऽपि । कापिले ।
‘ऐशान्यां स्थापयेद्यूपं स्वातात् पञ्चकरान्तरम् ।
यूपवृक्षेतिमन्त्रेण सर्पाकारं सुशोभनम् ।
पूजयित्वा तु वस्त्राद्यैस्ततो यष्टिं प्रचालयेत् ॥’
मात्स्ये ।
‘त्र्यरत्निमात्रो यूपः स्यात् क्षीरिवृक्षविनिर्म्मितः ।
पृष्ठ ३/२०३
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥’
क्षीरिवृक्षोऽश्वत्थादिः । ततो धेनुं सचेलकण्ठां
कांस्याद्युक्तविशेषणयुक्तां जलाशयेऽवतारयेत् ।
तथा हयशीर्षपञ्चरात्रे ।
‘गां सवत्स्यां समानीय सुशीलाञ्च पयस्विनीम् ।
कांस्योपदोहां घण्टादिवस्त्रपुष्पोपशोभिताम् ।
स्वर्णशृङ्गीं रौप्यखुरां ताम्रपृष्ठां सुशोभनाम् ॥
लाङ्गूलन्यस्तहस्तोऽसौ यजमानः सबान्धवः ।
शनैः सन्तारयित्वा तामाचार्य्याय निवेदयेत् ॥’
कांस्योपदोहां कांस्यक्रोडामिति यावत् ।
कापिले ।
‘अजले जलमुत्पाद्य यजमानः सभार्य्यकः ।
तरेद्वै प्राङ्मुखो भूत्वा कृतगोलाङ्गूलाङ्गुलिः ॥’
इदं सलिलं पवित्रं इतिमन्त्रेणावतार्य्यमाणा-
मनुमन्त्रयेत् । ततः प्राङ्मुखः सन्नवतारयेत् ।
सा च गौः पश्चिमतोऽवतार्य्या । ततः कूल-
समीपं गत्वा तर्पयेत् । यथा कापिलम् ।
‘पुनः पुच्छोदकेनाथ सतिलेन कुशेन तु ।
भुग्नेनैवापसव्येन पितृतीर्थेन तर्पयेत् ॥
गताश्चात्रागमिष्यन्ति ये कुले मम बान्धवाः ।
ते सर्व्वे तृप्तिमायान्तु मया दत्तजलेन वै ।
ततो मुञ्चामि मन्त्रेण मुञ्चेद्गां वत्ससंयुताम् ॥’
आचार्य्येणान्वारब्ध उत्तीर्य्य आपोऽस्मान्मातरः
शुन्धयन्त्वितिमन्त्रेण ऐशान्यामुत्थापयेत् । सुय-
वसा भगवतीह भूया इति ब्रयात् । सा यदि
हिंकारं करोति तदा हिं कृण्वतीत्यादि जपेत् ।
तत उक्तविशेषणयुक्तां धेनुमाचार्य्याय सामगाय
दद्यात् । ततो यथाशक्ति दक्षिणाञ्च दद्यात् ।
एतत्पर्य्यन्तं न कूपे व्यवह्रियतेऽसम्भवात् ॥ * ॥
तत उत्सर्गं कुर्य्यात् । अत्र विशेषमाह रत्ना-
करधृतमत्स्यपुराणम् ।
‘फलान्याचिन्त्य मनसा विविधानि शुभानि च ।
प्रदद्यात् सर्व्वभूतेभ्यो जलपूर्णं जलाशयम् ॥’
कापिलञ्च ।
‘ततस्तत्पश्चिमं तीरं गत्वा पूर्ब्बाननस्थितः ।
जलोत्मर्गं प्रकुर्व्वीत सर्व्वसत्त्वार्थकं ध्रुवम् ॥’
सर्व्वसत्त्वार्थकं सर्व्वभूतप्रयोजनकम् । सर्व्वभूतेभ्य
उत्सृजेदित्यर्थः । देवपितृमानुष्याः प्रीयन्ता-
मिति पठेदिति शेषः । उत्सृज्य यजमानो
ब्राह्मणान् स्वस्ति वाचयीतेति दक्षिणाभिरिति
शेषः । एतत्पर्य्यन्तं कूपेऽपि । जलाशयोत्सर्गस्य
सर्व्वभूतोद्देश्यकत्वेन अपकृष्टचेतनोद्देश्यकत्वेऽपि
त्यागत्त्वमपि । ततश्च कीटादेर्ममेदमिति स्वीका-
रायोग्यत्वेन वेदमेयोद्देश्यगतस्वत्वाजनकत्यागरू-
पत्वात् अस्य यागत्वम् । अतएव जलाशयोत्-
सर्गमुपक्रम्य मत्स्यपुराणेऽपि । प्राप्नोति तद्-
यागबलेन भूय इति यागत्वेनाभिहितम् । ततश्च
तज्जलं स्वस्वत्वदूरीकरणेन नद्यादिवत् साधा-
रणीकृतम् । अतएव
‘सामान्यं सर्व्वभूतेभ्यो मया दत्तमिदं जलम् ।
रमन्तु सर्व्वभूतानि स्नानपानावगाहनैः ॥’
इति मन्त्रलिङ्गेन उपादानं विना कस्यापि न
स्वत्वमिति । ततश्चास्य यागवदुत्तराप्रतिपत्तेर-
श्रुतत्वात् साधारणजनस्य परिग्रहमात्रेण गोत-
मोक्तेन स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन
स्वामित्वात् तत्र स्नानादावदोष इति तत्त्वम् ।
यथा गोतमः । स्वामी रिक्थक्रयस्रम्बिभाग-
परिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्त्रि-
यस्य विजितं निर्द्दिष्टं वैश्यशूद्रयोरिति । परि-
ग्रहोऽनन्यपूर्ब्बस्य जलतृणकाष्ठादेः स्वीकार
इति मिताक्षरा ॥ ऋक्थाधिकारे व्यक्तमाहा-
पस्तम्बः । दायाद्यं शिलोञ्छौ चान्यच्चापरि-
गृहीतमिति । अपरिगृहीतमन्यास्वीकृतमस्वा-
मिकमिति यावत् । निर्व्विष्टं वेतनलब्धं निर्वेशो
भृतिभोगयोरित्यमरकोषजिकाण्डशेषयोः ॥
हयशीर्षे ।
‘आपोहिष्टेति तिसृभिः पञ्चगव्यं विनिःक्षिपेत् ।
तीर्थतोयं तथा पुण्यं शान्तितोयं द्विजैः कृतम् ॥
गोकुलं पाययेत् पश्चात् द्बिजान् वेदविदस्तथा ।
ततोऽन्नं भोजयेद्बिप्रान् दद्यात्तेभ्यश्च दक्षिणाम् ॥’
एतत्पर्य्यन्तं कूपेऽपि ॥ * ॥ कापिले ।
‘नागानामष्ट नामानि लिखितानि पृथक् पृथक् ।
ततः कुम्भे च निःक्षिप्य गायत्त्र्या च विलोड्य वै ॥
उद्धरेत् पत्रिकामेकां तत्रैव नागमीक्षयेत् ।
यस्य नामोद्धरेद्वत्स स वै जलाधिपः स्मृतः ॥
तञ्च संपूज्य गन्धाद्यैर्दद्यात् क्षीरञ्च पायसम् ॥’
पत्र्याण्याम्रस्य योगीश्वरधृतवचनाद्यथा ।
‘अष्ठौ नामान्याम्रपत्रे कृत्वा चैव प्रयत्नतः ॥’
तानि च गारुडे ।
‘अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः ।
कुलीरः कर्कटः शङ्खो ह्यष्टौ नागाः प्रकीर्त्तिताः ॥’
एतानि नामानि आम्रपत्रे लिखित्वा कलस-
मध्ये निःक्षिप्य गायत्त्र्या छन्दसा मथ्नामि इति
रघुनाथधृतमन्त्रेणालोड्य यस्य नामोत्तिष्ठति तं
यष्ट्यां समावाह्यानेन नागेनास्य जलस्य रक्षा
कर्त्तव्या इति ब्राह्मणान् श्रावयेत् । हयशीर्षे ।
‘वैणुकं वारुणञ्चैव पुन्नागं नागकेशरम् ।
वकुलं चम्पकञ्चैव निम्बञ्चैवाथ खादिरम् ॥
एतेषामेव दारूणां नागयष्ठिः प्रकीर्त्तिता ।
सवक्रकोटरं त्यक्त्वा तस्मात् कुर्य्याद्यथेप्सितम् ॥’
तथा च बृहस्पतिः ।
‘शूलचक्राङ्कितां कृत्वा स्थापयित्वा जलाशये ।
द्वादशाङ्गुलमानन्तु वापीचक्रं प्रकल्पयेत् ॥
षोडशं पुष्करिण्यान्तु विंशतिञ्च सरोवरे ।
सागरे हस्तमात्रन्तु लौहं ताम्रन्तु पैत्तलम् ॥
चक्रञ्च विविधं प्रोक्तं कुर्य्यात्तेषां यथेप्सितम् ।
शतहस्ता भवेद्बापी द्विगुणा पुष्करिण्यपि ॥
त्रिगुणन्तु सरोमानमत ऊर्द्ध्वन्तु सागरः ॥’
ततो द्वादशपञ्चदशविंशत्येकविंशत्यन्यतमकनि-
ष्ठाङ्गुल्यवच्छिन्नहस्तप्रमाणां यष्टिं वक्ष्यमाण-
मन्त्रेण स्थापयेत् । ॐ गन्धद्वारेति गन्धवारिणा
ॐ भद्रं कर्णेभिरिति तैलहरिद्रया ॐ काण्डात्
काण्डादिति दूर्व्वाभिः ॐ द्रुपदादिव इत्यादिना
सप्तमृत्तिकादिभिः ॐ मधुवातेति पञ्चामृतेन
याः फलिनीरिति फलोदकेन ॐ युवासुवासा
इति क्षुद्रघण्टिकायुतां पताकां यष्ट्यां बध्नीयात् ।
ॐ यष्ट्यै नमः इतिमन्त्रेण पूजयेत् । पुष्पाद्यल-
ङ्कुतां यष्टिं कन्दरसमीपं नयेत् । गुरुस्तु शङ्खादि-
निःस्वनै राजतवरुणप्रतिमां उत्तिष्ठेति समुत्थाय
प्रदक्षिणत्रयं कृत्वा आपोहिष्टा इत्यादिना
मन्त्रेण वरुणस्योत्तम्भनमसि इतिमन्त्रेण च
जले क्षिपेत् । ततस्तत्रैव खाते शाद्बलगोमय-
दधिमधुकुशमहानदीजलपञ्चरत्नानि ॐ येते-
वापी रोचने दिव इतिमन्त्रेण क्षिपेत् । ॐ घ्रुवं
ध्रुवेण मनसा इतिमन्त्रेण यष्टिमभिमन्त्र्य ॐ
यूपवृक्षेतिमन्त्रेण जलमध्ये आरोपयेत् । ततो
जलमातॄः पूजयेत् । यथा ह्रीं पूर्ब्बस्याम् ।
श्रियं आग्नेय्याम् । शचीं दक्षिणस्याम् । मेधां
नैरृत्याम् । श्रद्धां पश्चिमायाम् । विद्यां वाय-
व्याम् । लक्ष्मीं उत्तरस्याम् । सरस्वतीं ऐशा-
न्याम् । अधो विद्याम् । ऊर्द्ध्वे लक्ष्मीम् । पाद्या-
दिभिः संपूज्य अग्निं प्रदक्षिणीकृत्य सूर्य्यादि-
द्वात्रिंशद्देवताः पूजयेत् । क्षमस्वेति वरुणं
क्षामयेत् । कापिलम् ।
‘शङ्खतूर्य्यादिनिनदैस्तथा वै क्षीरधारया ॥’
जलाशयं प्रवेष्टयेदिति शेषः । प्रतिष्ठानन्तरं
मात्स्ये ।
ततः सहसं विप्राणामथवाष्टशतन्तथा ।
भोजयेच्च यथाशक्त्या पञ्चाशद्वाथ विंशतिम् ॥”
इति जलाशयोत्सर्गतत्त्वम् ॥

पुष्करी, [न्] पुं, (पुष्करमस्यास्तीति । पुष्कर +

इनिः ।) हस्त्री । इति त्रिकाण्डशेषः ॥

पुष्कलं, क्ली, (पुष्यति पुष्टिं गच्छत्यनेनेति । पुष +

“कलंश्च ।” उणा ० ४ । ५ । इति कलन् स च
कित् ।) ग्रासचतुष्टयात्मकभिक्षा । यथा, --
“भिक्षामाहुर्ग्रासमात्रमन्नं तस्माच्चतुर्गुणम् ।
पुष्कलं हन्तकारन्तु तच्चतुर्गुणमुच्यते ॥”
इति कौर्म्मे उपविभागे १७ अध्यायः ॥
अष्टकुञ्चिपरिमाणम् । यथा, प्रायश्चित्ततत्त्वे ।
“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् ।
पुष्कलानि च चत्वारि आढकः परिकीर्त्तितः ॥”
(नगरविशेषः । यथा, रामायणे । ७ । ११४ । ११ ।
“हतेषु तेषु सर्व्वेषु भरतः केकयीसुतः ।
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥
तक्षं तक्षशिलायान्तु पुष्कलं पुष्कलावते ।
गन्धर्व्वदेशे रुचिदे गान्धारविषये च सः ॥”)

पुष्कलः, त्रि, (पुष्कं महत्त्वं लातीति । ला + कः ।

यद्वा, पुष्कं पुष्टिर्महत्त्वमिति यावत् तदस्त्य-
स्येति । पुष्क + “सिध्मादिभ्यश्च ।” ५ । २ । ९७ ।
इति लच् ।) श्रेष्ठः । इत्यमरः । ३ । १ । ४८ ॥
बहुः । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । ३ । ३ । १० ।
“राजानो हि महात्मानो योनिकर्म्मविशो-
धिताः ।
उद्धरन्ति प्रजाः सर्व्वास्तप आस्थाय पुष्कलम् ॥”)
उपस्थितः । इति जटाधरः ॥
पृष्ठ ३/२०४

पुष्टं, त्रि, (पुष + क्तः ।) कृतपोषणम् । तत्-

पर्य्यायः । पुषितम् २ । इत्यमरः । ३ । १ । ९७ ॥
पतम् ३ । इति जटाधरः ॥ (यथा, मनुः ।
७ । १७१ ।
“यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतञ्च तदा यायाद्रिपुं प्रति ॥”)

पुष्टिः, स्त्री, (पुष + भावे क्तिन् ।) पोषणम् ।

वृद्धिः । इति मेदिनी । टे, २३ ॥ (यथा,
मार्कण्डेये । २२ । ११ ।
“वैदिकैर्वारणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥”)
अश्वगन्धा । इति राजनिर्घण्टः ॥ षोडश-
मातृकान्तर्गतदेवताविशेषः । इति श्राद्धतत्त्वम् ॥
(सा तु दक्षकन्यानामन्यतमा । यथा, मार्क-
ण्डेये ।
“प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा ।
ससर्ज्ज कन्यास्तासाञ्च सम्यङ्नाभानि मे शृणु ॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥”
गणपतेः पत्नी । यथा, ब्रह्मवैवर्त्तपुराणे । २ ।
१ । ९९ ।
“पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ।
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ॥”
खट्वाविशेषः । यथाह भोजः ।
“मङ्गला विजया पुष्टिः क्षमा तुष्ठिः सुखासनम् ।
प्रचण्डा सर्व्वतोभद्रा खट्वानामाष्टकं विदुः ॥”
तन्त्रोक्तचन्द्रकलाया नामान्तरम् । यथा, रुद्र-
यामले ।
“अमृता मानदा पूषा पुष्टिस्तुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीति-
रङ्गदा ।
पूर्णापूर्णामृताकामदायिम्यः शशिनः कलाः ॥”)

पुष्टिका, स्त्री, (पुष्ट्यै कं जलं यस्याः ।) जल-

शुक्तिः । इति राजनिर्घण्टः ॥

पुष्टिकान्तः, पुं, (पुष्टेः कान्तः ।) गणेशः । इति

शब्दरत्नावली ॥

पुष्टिदा, स्त्री, (पुष्टिं ददातीति । दा + कः ।)

अश्वगन्धा । वृद्धिः । इति राजनिर्घण्टः ॥ पुष्टि-
दात्री च ॥

पुष्प, य फुल्लने । इति कविकल्पद्रुमः ॥ (दिवा०-

पर०-अक०-सेट् ।) पञ्चमस्वरी । मूर्द्धन्योपधः ।
पुल्लनं विकसनम् । य, पुष्प्यति कुन्दकोरकम् ।
इति दुर्गादासः ॥

पुष्पं, क्ली, पुष्प्यति विकसति यः । (पुष्प फुल्लने +

अच् ।) तरुलतादीनां प्रसवः । फुल इति
भाषा । तत्पर्य्यायः । प्रसूनम् २ । कुसुमम् ३
सुमनसः ४ । इत्यमरः । २ । ४ । १७ ॥ सूनम् ५
प्रसवः ६ सुमनः ७ । इति शब्दरत्नावली ॥
स्वहस्तपुष्पचयनफलं यथा, --
“उपहार्य्याणि पुष्पाणि मम कर्म्मपरायणः ।
यो मामुपानयेद्भूमे मम कर्म्मपथे स्थितः ॥
पुष्पाणि तत्र यावन्ति मम मूर्द्धनि धारयेत् ।
स कृत्वा पुष्कलं कर्म्म मम लोकाय गच्छति ॥”
अकर्म्मण्यपुष्पदाने दोषो यथा, --
वराह उवाच ।
“अकर्म्मण्येन पुष्पेण यो मामर्च्चयते भुवि ।
पातनं तस्य वक्ष्यामि तच्छृणु त्वं वसुन्धरे ! ॥
नाहं तत् प्रतिगृह्णामि न च ते वै मम प्रियाः ।
मूर्खैर्भागवतैर्द्दत्तं मम विप्रियकारिणः ॥
पतन्ति नरके घोरे रौरवे तदनन्तरम् ।
अज्ञातस्य च दोषेण दुःखान्यनुभवन्ति च ॥
वानरो दश वर्षाणि मार्जारश्च त्रयोदश ।
मूषकः पञ्च वर्षाणि वलीवर्द्दश्च द्वादश ॥
छागश्चैवाष्ट वर्षाणि मासं वै ग्रामकुक्कुटः ।
त्रीणि वर्षाणि महिषो भवत्येव न संशयः ॥
एतत्ते कथितं भद्रे ! पुष्पं यन्मे न रोचते ।
अकर्म्मण्यं विशालाक्षि ! पुष्पं ये न ददन्ति वै ॥”
इति वराहपुराणम् ॥ * ॥
देवीप्रियपुष्पाणि यथा, --
“पुष्पाणि देव्या वैष्णव्याः प्रियाणि शृणु संप्रति ।
वकुलैश्चैव मन्दारैः कुन्दपुष्पकुरुण्टकैः ॥
करवीरार्कपुष्पैश्च शाल्मलैश्चापराजितैः ।
दमनैः सिन्धुवारैश्च सुरभीमरुवकैस्तथा ॥
लताभिर्ब्रह्मवृक्षैश्च दूर्व्वाङ्कुरैश्च कोमलैः ।
मञ्जरीभिः कुशानाञ्च विल्वपत्रैः सुशोभनैः ॥
पूजयेद्वैष्णवीं देवीं कामाख्यां त्रिपुरां तथा ।
अन्याश्च याः शिवाप्रीत्यैः जायन्ते पुष्पजातयः ॥
ता इमाः शृणु कीर्त्त्यन्ते मया वेतालभैरव ! ।
मालती मल्लिका जाती यूथिका माधवीलता ॥
पाटला करवीरश्च जवा तर्कारिका तथा ।
कुब्जकं तगरश्चैव कर्णिकारोऽथ रोचनः ॥
चम्पकाम्रातकौ वाणो वर्व्वरा मल्लिका तथा ।
अशोको लोध्रतिलकौ वटरूषशिरीषकौ ॥
शमीपुष्पञ्च द्रोणञ्च पद्मोत्पलवकारुणाः ।
श्वेतारुणे त्रिसन्ध्ये च पलाशः खदिरस्तथा ॥
वनमालाथ सेवन्ती कुमुदोऽथ कदम्बकः ।
चक्रं कोकनदञ्चैव भण्डिलो गिरिकर्णिका ॥
नागकेशरपुन्नागौ केतक्यञ्जलिका तथा ।
दोहदा बीजपूरश्च नमेरुः शालमेव च ॥
त्रपुषी चण्डविन्धश्च झिण्टी पञ्चविधा तथा ।
एवमाद्युक्तकुसुमैः पूजयेत् वरदां शिवाम् ॥” * ॥
वर्ज्जनीयपुष्पं यथा, --
“पुष्यञ्च कृमिसम्भिन्नं विशीर्णं भग्नमुद्गतम् ।
सकेशं मूषिकाधूतं यत्नेन परिवर्ज्जयेत् ॥
याचितं परकीयञ्च तथा पर्य्युषितञ्च यत् ।
अन्त्यस्पृष्टं पदास्पृष्टं यत्नेन परिवर्ज्जयेत् ॥”
इति कालिकापुराणे । ६८ । ५४ । अध्यायौ ॥
केशवपूजने प्रशस्तपुष्पाणि यथा, --
“मालती मल्लिका चैव यूथिका चातिमुक्तकः ।
पाटला करवीरञ्च जया सेवतिरेव च ॥
कुब्जकस्त्वगुरुश्चैव कर्णिकारः कुरुण्टकः ।
चम्पकस्तगरः कुन्दो वाणा वर्व्वरमल्लिका ॥
अशोकस्तिलकश्चम्पस्तथा चैवाटरूषकः ।
अमी पुष्पप्रकारास्तु शस्ताः केशवपूजने ॥
केतकीपत्रपुष्पञ्च पुष्पं भृङ्गारकस्य च ।
तुलस्यामलकी चैव सद्यस्तुष्टिकरं हरेः ॥
पद्मान्यम्बुसमुत्थानि रक्तनीले तथोत्पले ।
सितोत्पलञ्च कृष्णस्य दयितानि सदा नृप ! ।
तानि पुष्पाणि देयानि विष्णवे प्रभविष्णवे ॥”
इत्यग्निपुराणम् ॥ * ॥
अपि च ।
“जाती शताह्वा सुमना कुन्दं बहुपुटं तथा ।
वाणञ्च पङ्कजाशोकं करवीरञ्च यूथिका ॥
पारिभद्रं पाटला च वकुलं गिरिशालिनी ।
तिलकं वनजञ्चैव पीतकं तगरन्त्वपि ॥
एतानि हि प्रशस्तानि कुसुमान्यच्युतार्च्चने ।
सुरभीणि तथान्यानि वर्ज्जयित्वा तु केतकीम् ॥
येषामपि हि पुष्पाणि प्रशस्तान्यच्युतार्च्चने ।
पल्लवान्यपि तेषां स्युः प्रशस्तानि महासुर ! ॥
वीरुधानां प्रधानेन वर्हिषाञ्चार्च्चयेत्तथा ।
नानारूपैश्चाम्बुभवैः कमलेन्दीवरादिभिः ॥
प्रवालैः शुचिभिः शुद्धैर्जलप्रक्षालितैर्वले ! ।
वनस्पतीनामर्च्चेत तथा दूर्व्वाग्रपल्लवैः ॥”
इति वामने ९१ अध्यायः ॥ * ॥
विष्णौ पुष्पविशेषदानस्य फलं यथा, --
“आरामप्रभवैः पुष्पैरच्छिद्रैः कीटवर्जितैः ।
तथापर्य्युषितैस्तद्बत् कार्त्तिके विष्णुमर्च्चयेत् ॥
वर्णानां हि यथा विप्रस्तीर्थानां जाह्रवी यथा ।
देवानाञ्च यथा विष्णुः पुष्पाणां मालती तथा ॥
मालतीमालया देवं योऽर्च्चयेद्गरुडध्वजम् ।
जन्मदुःखजरारोगैः कर्म्मभिर्मुक्तिमाप्नुयात् ॥
मालतीमालया येन पूजितः कार्त्तिके हरिः ।
पापलक्षायुतं तस्य वत्स ! शौरिः प्रमार्जति ॥
मालतीपुष्पमालाभिः कार्त्तिके पुष्पमण्डपम् ।
विष्णोर्गृहे कृतं यैस्तु ते यान्ति परमां गतिम् ॥
जातिपुष्पैर्विरचितां मालां यः संप्रयच्छति ।
विष्णवे विधिवद्भक्त्या तस्य पुण्यफलं शृणु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वसेद्विष्णुपुरे श्रीमान् विष्णुतुल्यपराक्रमः ॥
यः स्वर्णकेतकीपुष्पैः पूजयेद्गरुडध्वजम् ।
अब्दकोटिशतं यावत्तुष्टः स्यात्तस्य वै हरिः ॥
दामोदरं पूजयेद्यः कुसुमैः केतकोद्भवैः ।
स वसेद्विष्णुनिलये देवेन सह मोदते ॥
मल्लिकाकुसुमैर्द्देवं योऽर्च्चयेत्त्रिदशेश्वरम् ।
कार्त्तिके परया भक्त्या दहेत् पापं त्रिधार्जितम् ॥
सुगन्धैर्मल्लिकापुष्पैरच्युतं योऽर्च्चयेन्मुने ! ।
स सर्व्वपापनिर्मुक्तो विष्णुलोके महीयते ॥
वेदधर्म्मेण केनात्र संप्राप्ते मधुमाधवे ।
योऽर्च्चयेत् स मुनिश्रेष्ठ ! लभते वैष्णवं पदम् ॥
यः पुनः पाटलापुष्पैरर्च्चयेद्गरुडध्वजम् ।
सुपुण्यात्मा परं स्थानं स प्रयाति हरेर्मुने ! ॥
अगस्त्यपुष्पैर्देवेशं येऽर्च्चयन्ति जनार्द्दनम् ।
देवर्षे ! दर्शनात्तेषां नरकाग्निः प्रणश्यति ॥
न तत् करोति विप्रेन्द्र ! तपसा तोषितो हरिः ।
यत् करोति हृषीकेशो मुनिपुष्पैरलङ्कृतः ॥
विहाय सर्व्वपुष्पाणि मुनिपुष्पे ण केशवम् ।
कार्त्तिके योऽर्च्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥
मुनिपुष्पकृतां मालां ये यच्छन्ति जनार्द्दने ।
पृष्ठ ३/२०५
शक्रोऽपि तैः समं वत्स ! कुरुते ह्यभिभाषणम् ॥
ददात्यभीप्सितान् कामान् वृक्षचिन्तामणिर्यथा ।
कार्त्तिके मुनिपुष्पेण पूजितो गरुडध्वजः ॥
गवामयुतदानेन यत्फलं कार्त्तिके मुने ! ।
मुनिपुष्पेण चैकेन कार्त्तिक्यां तत् फलं स्मृतम् ॥
येऽर्च्चयन्ति सुराध्यक्षं करवीरैः सितासितैः ।
तेषां वर्षशतं यावत् प्रभुर्भवति केशवः ॥
वकुलाशोककुसुमैर्येऽर्च्चयन्ति जगत्पतिम् ।
निःशङ्कास्ते भवन्तीह यावच्चन्द्रदिवाकरौ ॥
अशोककुसुमै रम्यैर्जन्मशोकभयापहम् ।
पूजयित्वा हरिं याति पदं विष्णोरनामयम् ॥
शुभगन्धैः सितैर्वत्स ! कुसुमैः पङ्कजोद्भवैः ।
अधोक्षजं समभ्यर्च्च्य नरो याति हरेः पदम् ॥
अभ्यर्च्च्य कौसुमैः पुष्पैः केशयं क्लेशनाशनम् ।
प्रयाति भवनं विष्णोर्व्वन्दितं त्रिदशैरपि ॥
अटरूषकपुष्पैश्च पूजयेद्यो जगत्पतिम् ।
स पुण्यवान्नरो याति तद्विष्णोः परमं पदम् ॥
कार्त्तिके योऽर्च्चयेद्विष्णुं तुलसीविल्वपङ्कजैः ।
त्रिदशैरपि पूज्यः स न शक्यो यमकिङ्करैः ॥
माधवे योऽर्च्चयेद्विष्णुं तुलसीविल्वपङ्कजैः ।
त्रिदशैरपि पूज्यः स वक्तं शक्यो न किङ्करैः ॥
माधवे योऽर्च्चयेद्विष्णुं सुपुष्पैस्तिलकोद्भवैः ।
धूतपापो निरातङ्कः स विष्णोर्याति तत् पदम् ॥
समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् ।
शूद्रोपनीतैश्च हरेः पूजां कुर्व्वन् व्रजत्यधः ॥
तस्माद्विप्रो मुनिश्रेष्ठ ! शिष्येण स्वयमेव वा ।
पुष्पादीनि समाहृत्य पूजयेत् परमेश्वरम् ॥
विप्रो दूर्व्वामयैः पुष्पैस्तथा काशकुशोद्भवैः ।
तुलसीविल्वपद्मैश्च पूजयेद्देवताः पितॄन् ॥
नार्च्चयेत्तगरैः सूर्य्यं घूर्त्तपुष्पेण केशवम् ।
देवीं लकुचपुष्पैश्च शङ्करं नागकेशरैः ॥”
कालविशेषे तस्य पर्य्युषितत्वम् यथा, --
“प्रहरं तिष्ठते जाती प्रहरार्द्धन्तु मल्लिका ।
त्रियामं मुनिपुष्पञ्च करवीरमहर्निशम् ॥”
आम्रमञ्जरीविल्वपत्रदानफलं यथा, --
“मञ्जरीं सहकारस्य ये प्रयच्छन्ति वैष्णवाः ।
कार्त्तिके सफलास्ते स्युर्गोकोटिफलभागिनः ॥
कार्त्तिके योऽर्च्चयेद्भक्त्या विल्वपत्रेण केशवम् ।
दद्याद्यज्ञायुतफलं केशवस्तस्य वै मुने ! ॥
विल्वपत्रेण ये कृष्णं कार्त्तिके कलिमर्द्दनम् ।
पूजयन्ति महाभक्त्या मुक्तिस्तेषां करे स्थिता ॥
नागकेशरपुष्पैर्यः पूजयेद्गरुडध्वजम् ।
स याति वैष्णवं स्थानं यत्र गत्वा न शोचते ॥
कदम्बकुसुमैर्यो वै पूजयेन्मधुसूदनम् ।
जन्मायुतार्जितं पापं स्फोटितं तेन नारद ! ॥
न तथा केतकीपुष्पैर्मालतीकुसुमैस्तथा ।
तोषमायाति देवेशः कदम्बकुसुमैर्यथा ॥
दृष्ट्वा कदम्बपुष्पाणि तोषमायाति माधवः ।
किं पुनः पूजितो देवः सर्व्वकामप्रदो हरिः ॥
हरिं किंशुकपुष्पैर्यः पूजयेत्त्रिदशाधिपम् ।
वैकुण्ठे रमते शश्वत् विष्णुना सह वैष्णवः ॥
वर्षाकाले च देवेशं कुमुदैश्चन्दनाचितैः ।
योऽर्च्चयेत् परमं विष्णुं संसारे न पुनर्व्विशेत् ॥
कुन्दपुष्पैश्च विप्रर्षे ! योऽर्च्चयेद्गरुडध्वजम् ।
कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥
शमीपुष्पैश्च देवेशं पूजयेदसुरद्विषम् ।
यमं न पश्येद्विप्रर्षे ! न याति दुर्गतिं नरः ॥”
इति पाद्मोत्तरखण्डे १३१ अध्यायः ॥ * ॥
लक्ष्मीतुल्यप्रियपुष्पाणि यथा, नारदीयसप्तम-
सहस्रे ।
“मालतीवकुलाशोकशेफालिनवमालिकाः ।
अम्लानतगराङ्कोठमल्लिकामधुपिण्डिकाः ॥
यूथिमष्टापदं कुन्दं कदम्बं मधुपिप्पलम् ।
पाटला चम्पकं कृष्णं लवङ्गमतिमुक्तकम् ॥
केतकं कुरुवकं विल्वं कह्लारकरकं द्विजम् ।
पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यप्रियाणि मे ॥”
केशवार्च्चने निषिद्धपुष्पाणि यथा, विष्णुधर्म्मोत्तरे ।
“उग्रगन्धीन्यगन्धीनि कुसुमानि न दापयेत् ।
अन्यायतनजातानि कण्टकीनि तथैव च ॥
रक्तानि यानि धर्म्मज्ञ ! चैत्यवृक्षोद्भवानि च ।
श्मशानजातान्यन्यानि यानि चाकालजानि च ॥”
तथा ।
“कुटजं शाल्मलीपुष्पं शिरीषञ्च जनार्द्दने ।
निवेदितं भयं रोगं निःस्वत्वञ्च प्रयच्छति ॥
बन्धुजीवकपुष्पाणि रक्तान्यपि च दापयेत् ।
अनुक्तरक्तकुसुमदानात् दौर्भाग्यमाप्नुयात् ॥”
परारोपितवृक्षस्य पुष्पग्रहणे दोषः । अगस्त्यः ।
“परारोपितवृक्षेभ्यः पुष्पाण्यानीय योऽर्च्चयेत् ।
अविज्ञाप्य च तस्यैव निष्फलं तस्य पूजितम् ॥”
एतद्द्विजेतरपरम् ।
“द्विजस्तृणैधःपुष्पाणि सर्व्वतः स्ववदाहरेत् ॥”
इति याज्ञवल्क्यात् ॥
“देवाद्यर्थन्तु कुसुममस्तेयं मनुरब्रवीत् ॥”
इति वचनात् ॥
“गोऽग्न्यर्थे तृणमेधांसि वीरुद्वनस्पतीनाम् ।
पुष्पाणि स्ववदाददीत फलानि चापरिबृंहि-
तानि ॥”
इति गोतमवचनाच्च ॥
द्विजेतरस्य दण्डोऽपि ।
“तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अप्रयच्छन्निगृह्णानो हस्तच्छेदनमर्हति ॥”
इति स्मृतेः ॥ * ॥
देवोपरि धृतं मस्तकोपरि धृतं अधोवस्त्रधृतं
अन्तर्जलक्षालितञ्च पुष्पं दुष्टमिति हरिभक्ति-
नामके ग्रन्थे ॥ अभिवाद्याभिवादककरस्थपुष्पं
प्रोक्षणात् कर्म्मण्यम् । इति केचित् ॥ * ॥
याचितादिपुष्पदानस्य निष्फलत्वम् । याचितं
निष्फलं पुष्पं क्रयक्रीतञ्च निष्फलमिति वदन्ति ।
वामहस्तचितादिपुष्पस्यादेयत्वं यथा, --
“न पुष्पच्छेदनं कार्य्यं देवार्थं वामहस्ततः ।
न दद्यात्तानि देवेभ्यः संस्थाप्य वामहस्ततः ॥”
समित्पुष्पादीनां स्वयमाहरणीयत्वं हारीत-
शातातपौ ।
“समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म्म कुर्व्वन् पतत्यधः ॥”
क्रये प्रतिप्रसवमाह ब्रह्मपुराणम् ।
“पुष्पैर्धूपैश्च नैवेद्यैर्वीरक्रयक्रियाहृतैः ॥”
वीरक्रयो वीरवत् याच्ञाशून्येन विक्रेतुरुपन्यस्त-
मूल्येन क्रयः ॥ * ॥ पुष्पदानप्रकारो ज्ञान-
मालायाम् ।
“पुष्पं वा यदि वा पत्रं फलं नेष्टमधोमुखम् ।
पुष्पाञ्जलिविधिं हित्वा यथोत्पन्नं तथार्पणम् ॥”
मध्याह्नस्नानानन्तरं पुष्पचयनस्य दोषो यथा, --
“स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै
द्विजाः ।
देवतास्तन्न गृह्णन्ति भस्मीभवति दारुवत् ॥”
एतत्तु द्वितीयस्नानाभिप्रायम् । इति रत्नाकरः ॥
व्यक्तं मत्स्यसूक्ते ।
“स्नात्वा मध्याह्नसमये न छिन्द्यात् कुसुमं नरः ।
तत्पुष्पस्यार्च्चने देवि ! रौरवे परिपच्यते ॥”
पुष्पाभावे देयानि यथा, विष्णुधर्म्मोत्तरे ।
“पुष्पाभावेऽपि देयानि पत्राणि च जनार्द्दने ।
पत्राभावे जलं दद्यात्तेन पुण्यमवाप्यते ॥” * ॥
पुष्पदानमाहात्म्यं यथा, --
“न रत्नैर्न सुवर्णेन न वित्तेन च भूरिणा ।
तथा प्रसादमायाति यथा पुष्पैर्जनार्द्दनः ॥ * ॥
देवताविशेषे वर्ज्जनीयपुष्पं यथा, शातातपः ।
“शिवे विवर्ज्जयेत् कुन्दमुन्मत्तञ्च हरेस्तथा ।
देवीनामर्कमन्दारौ सूर्य्यस्य तगरन्तथा ॥” * ॥
पुष्पविशेषाणां कालिकपर्य्युषितत्वम् । भविष्ये ।
“पद्मानि सितरक्तानि कुमुदान्युत्पलानि च ।
एषां पर्य्युषिताशङ्का कार्य्या पञ्चदिनोत्तरम् ॥”
पुष्पविशेषस्यापर्य्युषितत्वं यथा, --
“तुलस्यगस्त्यविल्वानां न च पर्य्युषितात्मता ॥”
योगिवीतन्त्रे ।
“विल्वपत्रञ्च माघ्यञ्च तमालामलकीदलम् ।
कह्लारं तुलसीञ्चैव पद्मञ्च मुनिपुष्पकम् ।
एतत् पर्य्युषितं न स्यात् यच्चान्यत् कलिका-
त्मकम् ॥”
कलिकात्मकं प्रस्फुटनयोग्यम् । इत्येकादशी-
तत्त्वम् ॥ राघवभट्टमते पुष्पविशेषाणां कालिक-
पर्य्युषितत्वं यथा, --
“विल्वापामार्गजातीतुलसिशमिशताकेतकीभृङ्ग-
दूर्व्वा
मन्दाम्भोजाहिदर्भा मुनितिलतगरब्रह्मकह्लार-
मल्ली ।
चम्पाश्वारातिकुम्भीदमनमरुवका विल्वतो-
ऽहानि शस्ता-
स्त्रिंशत्त्र्येकार्य्यरीशोनिधिनिधि-वसु-भू-भू-यमा
भूय एवम् ॥”
अस्यार्थः । शता शतावरी । मन्दः मन्दारः ।
अहिर्नागकेशरः । मुनिरगस्त्यः । अश्वारातिः
करवीरः । कुम्भी पाटला । विल्वमारभ्य अहि-
पर्य्यन्तं गणयित्वा दर्भमारभ्य पुनस्त्रिंशदादि
गणयेत् । एतद्दिनोत्तरं पर्य्युषितानीत्यर्थः । इति
पदार्थादर्शः ॥ * ॥ पुष्पक्रीडायां वर्णनीयानि यथा,
पृष्ठ ३/२०६
पुष्पचयनम् १ पुष्पार्पणे दयितार्थिता २ माला ३
गोत्रस्खलनेर्ष्या ४ वक्रोक्तिः ५ सम्भ्रमाश्लेषः ६ ।
इति कविकल्पलता ॥ (घोटकलक्षणविशेषः ।
यथा, अश्ववैद्यके । ३ । ८२ -- ९२ ।
“आगन्तवस्तुरङ्गस्य ये भवन्त्यन्यवर्णगाः ।
विन्दवः पुष्पसंज्ञास्तु ते हिताहितसंज्ञकाः ॥
तेषां प्रदेशभेदेन लक्षणं यद् व्यवस्थितम् ।
तत्तथैव समासेन विस्पष्टं कोर्त्त्यतेऽधुना ॥
अपाने च ललाटे च भ्रुवोर्मर्द्धनि कर्णयोः ।
निगाले चैव केशान्ते पुष्पं धन्यतमं स्मृतम् ॥
स्कन्धे वक्षसि कक्षे च मुष्कयोर्बाहुकेशयोः ।
हन्वोः पृष्ठे च वाहानां पुष्पं स्वामिहित-
प्रदम् ॥
नाभौ केशे तथा कण्ठ दन्ते चव हि वाजिनाम् ।
पुष्पं धन्यतमं प्रोक्तं भर्त्त्रुः सर्व्वार्थसाधकम् ॥
अप्रशस्तानि दृष्टानि मुनिभिर्यानि वाजिनाम् ।
तानि सम्यक् प्रवक्ष्यामि पुष्पाण्यागमदर्शनात् ॥
अधरोष्ठे कठे प्रोथे उत्तरौष्ठे तथैव च ।
घोणायां गण्डयोश्चैव शङ्खयोश्च तथा भ्रुवोः ॥
ग्रीवायाञ्च वहे चैव सृक्कणोः स्थूरके स्फिचि ।
पायौ क्रोडे च पुष्पाणि निन्दितानीति निश्चयः ॥
रक्तं पीतं तथा कृष्णं पुष्पं सर्व्वत्र नेष्यते ।
शुभप्रदेशसञ्जातं भवेत् साधारणं ततः ॥
पुत्रलाभं धनप्राप्तिमारोग्यं विजयं तथा ।
विन्द्यात् पुष्पैः शुभैर्भर्त्तुरशुभैश्च विपर्य्ययम् ॥
सर्व्वाङ्गपुष्पितो वाजी परित्याज्जो न संशयः ॥”)
स्त्रीरजः । (यथा, मार्कण्डेये । ५१ । ४२ ।
“स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका ॥”)
विकाशः । इति मेदिनी । पे, ८ ॥ धनदस्य
विमानम् । नेत्ररोगविशेषः । इति हेमचन्द्रः ॥
फुली इति भाषा ॥ अस्यौषधं यथा, --
“हरीतकी वचा कष्ठं पिप्पली मरिचानि च ।
विभीतकस्य मज्जा च शङ्खनाभिर्मनःशिला ।
सर्व्वमेतत् समं कृत्वा छागीक्षीरेण पेषयेत् ॥
नाशयेत्तिमिरं कण्डू पटलान्यर्व्वुदानि च ।
अधिकानि च मांसानि यश्च रात्रौ न पश्यति ॥
अपि द्विवार्षिकं पुष्पं मासेनैकेन साधयेत् ।
वर्त्तिश्चन्द्रोदया नाम नृणां दृष्टिप्रसादनी ॥”
इति चक्रपाणिदत्तः ॥
(अस्य चिकित्सान्तरं यथा, --
“पूर्ब्बाहारविहारैस्तु नेत्रे पुष्पञ्च जायते ।
प्रथमं सुखसाध्यं स्यात् द्वितीयं कष्टसाध्यकम् ॥
तृतीयं शस्त्रसाध्यन्तु चतुर्थन्तदसाध्यकम् ।
शङ्खपुष्पं तथा रोघ्रं शङ्खनाभिर्मनःशिला ॥
काञ्जिकेन तु संपेष्य छायाशुष्का भिषग्वर ! ।
वातिके काञ्जिकेनापि पैत्तिके पयसा हिता ॥
श्लैष्मिके मूत्रसंयुक्ता पुष्पस्याञ्जनतो हिता ।”
इति हारीते चिकित्सितस्थाने चतुश्चत्वारिंश-
त्तमेऽध्याये ॥)

पुष्पकं, क्ली, (पुष्पमिव पुय्यैर्वा कायति प्रकाशते

इति । कै + कः । पुष्प + संज्ञायां कन् वा ।)
रीतिपुष्पम् । (पुष्पमिव प्रतिकृतिः । पुष्प + “इवे
प्रतिकृतौ ।” ५ । ३ । ९६ । इति कन् ।)
धनदस्य विमानम् । (कालपर्य्ययेण घनदं
विजित्य रावणेन हृतेऽस्मिन् रावणस्यैव जातम् ।
यथा, रघौ । १० । ४६ ।
“वैमानिकाः पुण्यकृतः त्यजन्तु मरुतां पथि ।
पुष्पकालोकसं क्षोभं मेघावरणतत्पराः ॥”)
नेत्ररोगः । रत्नकङ्कणम् । रसाञ्जनम् । लोह-
कांस्यम् । मृदङ्गारशकटी । इति मेदिनी ॥
कासीसम् । इति हेमचन्द्रः ॥ (पुष्प + स्वार्थे
कन् । पुष्पम् । यथा, गारुडे १८२ अध्याये ।
“सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।
स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥”
पुं, निर्व्विषसर्पजातिभेदः । यथा, सुश्रुते कल्प-
स्थाने । ४ अध्याये ।
“निर्व्विषास्तु गलगोली शूकपत्रोऽजगरो
दिव्यको वर्षहिकः पुष्पशकली ज्योतीरथः
क्षीरिकः पुष्पकोऽतिपताकोऽन्धाहिको गौरा-
हिको वृक्षेशय इति ॥” * ॥ पर्व्वतभेदः । यथा,
मार्कण्डेये । ५५ । १३ ।
“स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्व्वतः ॥”
प्रासादस्य मण्डपभेदः । यथा विश्वकर्म्मप्रकाशे ।
६ अध्याये ।
“अथातः संप्रवक्ष्यामि मण्डपानाञ्च लक्षणम् ।
मण्डपान् प्रवरान् वक्ष्ये प्रासादस्यानुरूपतः ॥
विविधा मण्डपाः कार्य्याः श्रेष्ठमध्यकनीयसः ।
नामतस्तान् प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥
पुष्पकः पुष्पभद्रश्च सुवृतो मृतनन्दनः ।
कौशल्यो बुद्धिसंकीर्णो गजभद्रो जयावहाः ॥”)

पुष्पकरण्डकं, क्ली, (पुष्पाधार करण्ड इव काय-

तीति । कै + कः । बहुतरमनोरमपुष्पाधारक-
त्वादस्य तथात्वम् ।) उज्जयन्यां शिवस्य उद्या-
नम् । यथा, शब्दमाला ।
“महाकालस्योज्जयनी विशालावन्तिका तथा ।
तस्य उद्यानकं ज्ञेयं नाम्ना पुष्पकरण्डकम् ॥”

पुष्पकरण्डिनी, स्त्री, (पुष्पकरण्डकं शिवोद्यान-

मस्त्यस्या इति । इनिः । स्त्रियां ङीप् ।)
उज्जयिनी । यथा, हेमचन्द्रः । ४ । ४१ ॥
“उज्जयिनी स्याद्विशालावन्ती पुष्पकरण्डिनी ॥”

पुष्पकासीसं, क्ली, (पुष्पमिव कासीसम् ।) पीत-

वर्णकासीसम् । यथा, भावप्रकाशे ।
“अथ कासीसं भस्मवन्मृत्तिकाम्लम् ।
कासीसं धातुकासीसं पांशुकासीसमित्यपि ।
तदेव किञ्चित् पीतन्तु पुष्पकासीसमुच्यते ॥
कासीसमम्लमुष्णञ्च तिक्तञ्च तुवरं तथा ।
वातश्लेष्महरं केश्यं नेत्र्यं कण्डूविषप्रणुत् ।
मूत्रकृच्छ्राश्मरीश्वित्रनाशनं परिकीर्त्तितम् ॥”
तत्पर्य्यायः । कंसकम् २ नेत्रौषधम् ३ । इति
हेमचन्द्रः ॥ वत्सकम् ४ मलीमसम् ५ ह्रस्वम् ६
विषदम् ७ नीलमृत्तिका ८ । अस्य गुणाः ।
तिक्तत्वम् । शीतत्वम् । नेत्रामयापहत्वम् ।
लेपेन पामाकुष्ठादिनानात्वग्दोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

पुष्पकीटः, पुं, (पुष्पप्रियः कीटः ।) भ्रमरः । इति

त्रिकाण्डशेषः ॥ कुसुमकृमिमात्रञ्च ॥

पुष्पकेतनः, पुं, (पुष्पं केतनं ध्वजो यस्य ।)

कामदेवः । इति हेमचन्द्रः । २ । १४२ ॥

पुष्पकेतु, क्ली, (पुष्पस्य नेत्ररोगविशेषस्य केतुरिव

विनाशकत्वात् ।) कुसुमाञ्जनम् । इत्यमरः ।
२ । ९ । १०३ ॥

पुष्पघातकः, पुं, (हन्तीति । हन + ण्वुल् । घातकः ।

पुष्पाणां पुष्पवृक्षाणां घातकः नाशकः ।) वंशः ।
इति शब्दमाला ॥

पुष्पचापः, पुं, (पुष्पमेव पुष्पमयो वा चापोऽस्य ।)

कामदेवः । इति हेमचन्द्रः । २ । १४१ ॥ (यथा,
कथासरित्सागरे । १४ । २९ ।
“सा संमोहनवायव्यवारुणास्त्रैर्निरन्तरैः ।
विद्धेव पुष्यचापेन तत्क्षणं समलक्ष्यत ॥”
पुष्पाणां चापः । पुष्पधनुः । यथा, रघौ । ११ । ४५ ।
“आततज्यमकरोत् स संसदा
विस्मयस्तिमितनेत्रमीक्षितः ।
शैलसारमपि नातियत्नतः
पुष्पचापमिव पेशलं स्मरः ॥”)

पुष्पचामरः, पुं, (पुष्पं चामर इवास्य ।) दमन-

वृक्षः । इति त्रिकाण्डशेषः ॥ केतकवृक्षः । इति
शब्दमाला ॥

पुष्पदः, पुं, (पुष्पं ददातीति । दा + कः ।) वृक्षः ।

इति हेमचन्द्रः । ४ । १८० ॥ पुष्पदातरि,
त्रि ॥

पुष्पदन्तः, पुं, (पुष्पमिव शुक्लो दन्तोऽस्य ।) वायु-

कोणस्थदिग्गजः । इत्यमरः । १ । ३ । ४ ॥ विद्याधर-
विशेषः । इति मेदिनी । ते, २१३ ॥ जिनभेदः ।
इति हेमचन्द्रः ॥ नागभेदः । इति धरणिः ॥
(यथा, महाभारते । ७ । २०० । ७० ।
“अणीं कृत्वैलपुत्त्रञ्च पुष्पदन्तञ्च त्र्यम्बकः ॥”
पार्व्वतीप्रदत्तः कार्त्तिकेयस्यानुचरविशेषः । यथा,
महाभारते । ९ । ४५ । ४९ ।
“उन्मादं पुष्पदन्तञ्च शङ्कुकर्णं तथैव च ।
प्रददावग्निपुत्त्राय पार्व्वती शुभदर्शना ॥”
विष्णोरनुचरविशेषः । यथा, भागवते । ८ । २१ । १७ ।
“जयन्तः श्रुतदेवश्च पुष्पदन्तोऽथ सात्वतः ॥”
शिवगणभेदः । यथा, कथासरित्सागरे । १ । ४९ ।
“प्रसादवित्तकः शम्भोः पुष्पदन्तो गणोत्तमः ।
न्यषेधि च प्रवेशोऽस्य नन्दिना द्वारि तिष्ठता ॥”)

पुष्पदन्तकः, पुं, गन्धर्व्वविशेषः । स च महिम्नः

स्तवकर्त्ता । इति शब्दरत्नावली ॥

पुष्पद्रवः, पुं, (पुष्पाणां द्रवः ।) पुष्परसः । तत्-

पर्य्यायः । पुष्पसारः २ पुष्पस्वेदः ३ पुष्पजः ४
पुष्पनिर्यासकः ५ पुष्पाम्बुजः ६ । अस्य गुणाः ।
सुरभित्वम् । शीतत्वम् । कषायत्वम् । गौल्य-
त्वम् । दाहभ्रमार्त्तिवमिमोहमुखामयतृष्णार्त्ति-
पित्तकफदोषचिरारोचकनाशित्वम् । सरत्वम् ।
सन्तर्पणत्वञ्च । इति राजनिर्घण्टः ॥

पुष्पधन्वा, [न्] पुं, (पुष्पं धनुरस्येति । “धनु-

पश्च ।” ५ । ४ । १३२ । इति अनङादेशः ।)
पृष्ठ ३/२०७
कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा,
कुमारसम्भवे । २ । ६४ ।
“सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमपतस्थे प्राञ्जलिः पुष्पधन्वा ॥”)

पुष्पनिक्षः, पुं, (पुष्पं निक्षति चुम्बतीति । पुष्प +

निक्ष + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
भ्रमरः । इति शब्दचन्द्रिका ॥

पुष्पन्धयः, पुं, (पुष्पं धयतीति । घेट पाने + खश् ।

“अरुर्द्विषदजन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।)
भ्रमरः । इति राजनिर्घण्टः ॥ पुष्परसपानकर्त्तरि,
त्रि । पुष्पशब्दाद्धेटघातोः कर्त्तरि खश्प्रत्यय-
निष्पन्नत्वात् । इति मुग्धबोधच्याकरणम् ॥

पुष्पपथः, पुं, (पुष्पस्य स्त्रीरजसः पन्थाः सरणिः ।)

योनिः । इति त्रिकाण्डशेषः ॥

पुष्पपुरं, क्ली, (पुष्पवत् पाटलिपुष्पयुक्तं तद्वत्

शोभाजनकं वा पुरम् ।) पाटलिपुत्त्रनगरम् ।
इति भूरिप्रयोगः ॥ (यथा, रघौ । ६ । २४ ।
“अनेन चेदिच्छसि गृह्यमाणं
पाणिं वरेण्येन कुरु प्रवेशे ।
प्रासादवातायनसंश्रितानां
नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥”
“पुष्पपुराङ्गनानां पाटलिपुराङ्गनानाम् ।” इति
तट्टीकायां सल्लिनाथः ॥)

पुष्पफलः, पुं, (पुष्पयुक्तं फलं यस्य ।) कुष्माण्डः ।

इति शब्दमाला ॥ कपित्थः । इत्यमरः । २ । ४ । २१ ॥

पुष्पमासः, पुं, (पुष्पानां मासः पुष्पप्रधानो मासो

वा ।) वसन्तः । इति राजनिर्घण्टः ॥ (यथा,
हरिवंशे । ५६ । ४ ।
“मासान् वै पुष्पमासादीन् गणयन्तु मम स्त्रियः ।
परिणामे तु गर्भस्य शेषं ज्ञास्यामहे वयम् ॥”)

पुष्परक्तः, पुं, (पुष्पे पुष्पावच्छेदे रक्तं रक्तवर्ण-

मस्य । यद्बा, पुष्पं रक्तमस्य ।) सूर्य्यमणि-
वृक्षः । इति शब्दचन्द्रिका ॥

पुष्परसः, पुं, (पुष्पाणां रसः ।) मकरन्दः । इत्य-

मरः । २ । ४ । १७ ॥ (यथा, भावप्रकाशे
कासाधिकारे ।
“पलं पलञ्चापि कटुत्रयञ्च
तथा चतुर्जातफलं विचूर्ण्य ।
पलानि षट् पुष्परसस्य चापि
विनिःक्षिपेत्तत्र विमिश्रयेच्च ॥”)

पुष्परसाह्वयं, क्ली, (पुष्परस इत्याह्वय आख्या

यस्य ।) मधु । इति राजनिर्घण्टः ॥

पुष्परागः, पुं, (पुष्पस्येव रागो वर्णोऽस्य ।)

मणिविशेषः । पुखराज इति भाषा । तत्-
पर्य्यायः । मञ्जुमणिः २ वाचस्पतिवल्लभः ३ ।
इति भावप्रकाशः ॥ पीतः ४ पीतस्फटिकः ५
पीतरक्तः ६ पीताश्म ७ गुरुरत्नम् ८ पीत-
मणिः ९ पुष्पराजः १० ॥ (यथा, रघौ । १८ । ३२ ।
“तस्य प्रभा निर्ज्जितपुष्परागं
पौष्यान्तिमौ पुष्यमसूत पत्नी ॥”
“प्रभया निर्ज्जितः पुष्परागो मणिविशेषो येन ।”
इति तट्टीकायां मल्लिनाथः ॥) अस्य गुणाः ।
अम्लत्वम् । शीतत्वम् । वातनाशित्वम् । दीपन-
त्वञ्च ॥ * ॥ तस्य धारणगुणः । आयुःश्रीप्रज्ञा-
कारित्वम् ॥ * ॥ तस्य लक्षणं यथा, --
“सुच्छायपीतगुरुगात्रसुरङ्गशुद्धं
स्निग्धञ्च निर्म्मलमतीव सुवृत्तशीतम् ।
यः पुष्परागसकलं कलयेदमुष्य
पुष्णाति कीर्त्तिमतिशौर्य्यसुखायुरथान् ॥” * ॥
तस्य कुलक्षणं यथा, --
“कृष्णविन्द्वङ्कितं रूक्षं धवलं मलिनं लघु ।
विच्छायं शर्करागारं पुष्परागं सदोषकम् ॥”
तस्य परीक्षालक्षणे यथा, राजनिर्घण्टे ।
“घृष्टो विकाशयेत् पुष्परागमधिकमात्मीयम् ।
न खलु पुष्परागो जात्यतया परीक्षकैरुक्तः ॥”
तस्योत्पत्त्यादि यथा, --
सूत उवाच ।
“पतिता या हिमाद्रौ हि त्वचस्तस्य सुरद्विषः ।
प्रादुर्भवन्ति ताभ्यस्तु पुष्परागा महागुणाः ॥
आपीतपाण्डुरुचिरः पाषाणः पुष्परागसंज्ञस्तु ।
कौरुण्टकनामा स्यात् स एव यदि लोहितापीतः ॥
आलोहितस्तु पीतः स्वच्छः काषायकः स
एवोक्तः ।
आनीलशुक्लवर्णः स्निग्धः सोमालकः स्वगुणैः ॥
अत्यन्तलोहितो यः स एव खलु पद्मरागसंज्ञः
स्यात् ।
अपि चेन्द्रनीलसंज्ञः स एवं कथितः सुनीलः
सन् ॥
मूल्यं वैदुर्य्यमणेरिव गदितं ह्यस्य रत्नशास्त्र-
विदा ।
धारणफलञ्च तद्वत् किन्तु स्त्रीणां सुतप्रदो
भवति ॥”
इति गारडे ७५ अध्यायः ॥ * ॥
प्रकारान्तरम् ।
“शणपुष्पसमः कान्त्या स्वच्छभावस्तु चिक्कणः ।
पुत्त्रदो धनदः पुण्यः पुष्परागमणिर्धृतः ॥
दैत्यधातुसमुद्भूतः पुष्परागमणिर्द्बिधा ।
पद्मरागाकरे कश्चित् कश्चित्तार्क्ष्योपलाकरे ॥
ईषत्पीतच्छविच्छायास्वच्छं कान्त्या मनो-
हरम् ॥
पुष्परागमिति प्रोक्तं रङ्गसोममहीभुजा ॥
ब्रह्मादिजातिभेदेन तद्विज्ञेयं चतुर्विधम् ।
छाया चतुर्व्विधा तस्य सिता पीता सिता-
सिता ॥”
इति युक्तिकल्पतरुः ॥

पुष्परेणुः, पुं, (पुष्पाणां रेणुः ।) परागः । इति

शब्दरत्नावली ॥ (यथा, रघौ । १ । ३८ ।
“सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥”)

पुष्परोचनः, पुं, (पुष्पं रोचनेवास्य । पुष्पेषु

रोचनः रुचिप्रदो वा ।) नागकेशरः । इति
त्रिकाण्डशेषः ॥

पुष्पलावः, पुं, (पुष्पं लुनाति अवचिनोति माला-

द्यर्थमिति । पुष्प + लू + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) मालाकारः । इति जटाधरः ॥ (स्त्रियां
ङीष् । मालाकारपत्नी । यथा, मेघदूते । २८ ।
“गण्डस्वेदापनयनरुजा क्लान्तकर्णोत्पलानां
छायादानक्षणपरिचितः पुष्पलावीमुखानाम् ॥”)

पुष्पलावी, [न्] पुं, (पुष्पं लुनातीति । लूञ-

च्छिदि + णिनिः ।) मालाकारः । इति हेम-
चन्द्रः । ३ । ५६४ ॥

पुष्पलिट्, [ह्] पुं, (पुष्पं लेढीति । लिह +

क्विप् ।) भ्रमरः । इत्यमरः । २ । ५ । २९ ॥

पुष्पवती, स्त्री, (पुष्पमस्त्यस्या इति । पुष्प +

मतुप् । मस्य वः । ततो ङीप् ।) रजस्वला ।
इत्यमरः । २ । ६ । २० ॥ (यदुक्तं, --
“कालमेही भवेत् सोऽपि पुष्पवत्याश्च धर्षणात् ॥”
तीर्थविशेषः । यथा, महाभारते । ३ । ८५ । १२ ।
“पुष्पवत्यामुपस्पृश्य त्रिरात्रोपषितो नरः ।
गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नृप ! ॥”)
पुष्पविशिष्टे, त्रि ॥ (यथा, रामायणे । २ । ९४ । १० ।
“पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ॥”)

पुष्पवन्तौ, पुं, (पुष्प विकासे + भावे घञ् । पुष्पो

विकासोऽस्त्यनयोरिति । पुष्प + मतुप् । मस्य
वः ।) एकयोक्त्या चन्द्रसूर्य्यौ । इत्यमरः । १ । ४ । १० ॥
“एकया उक्त्या अपृथग्वचनेन चन्द्रार्कौ पुष्प-
वच्छब्दवाच्यौ न तु पुष्पवानिन्दुः सूर्य्यो वेत्यभि-
धीयते । साञ्जे । एकयोक्त्येति भिन्नप्रयोगे नैवे-
त्यर्थः । अतएव द्व्यर्थकत्वात् सदा द्विवचन-
मित्यर्थः । पुष्पो विकाशस्तद्योगाद्वतुः । पुष्प-
वन्तशब्दोऽदन्तो रूढोऽपि रविशशिनौ पुष्प-
वन्ताख्याविति नाममाला ।” इति तट्टीकायां
भरतः ॥

पुष्पवाटी, स्त्री, (पुष्पाणां वाटी ।) पुष्पोद्यानम् ।

फुलवागान इति भाषा ॥ यथा, हेमचन्द्रः ।
४ । १७९ ॥
“वाटी पुष्पाद्वृक्षाच्चासौ क्षुद्रारामः प्रसेविका ॥”

पुष्पवाहनः, पुं, (पुष्पं पुष्करं वाहनमिव यस्य ।)

पुष्करराजः । यथा, अग्निपुराणे ।
“राजा यथोक्तञ्च पुनरकरोत् पुष्पवाहनः ।
विभूतिद्वादशीं कृत्वा स गतः परमां गतिम् ॥”

पुष्पशकटी, स्त्री, आकाशवाणी । यथा, --

“चित्रोक्तिः पुष्पशकटी दैवप्रश्र उपश्रुतिः ॥”
इति त्रिकाण्डशेषः ॥

पुष्पशरः, पुं, (पुष्पाणि शरा यस्य ।) कन्दर्पः ।

कुसुमेषुदर्शनात् ॥

पुष्पशरासनः, पुं, (पुष्पं शरासनं धनुर्यस्य ।)

कन्दर्पः । पुष्पधन्वदर्शनात् ॥

पुष्पशून्यः, पुं, (पुष्पेण शून्यः ।) उदुम्बरः । इति

राजनिर्घण्टः ॥ कुसुमरहिते, त्रि ॥

पुष्पसमयः, पुं, (पुष्पाणां समयः ।) वसन्तः ।

इत्यमरः ॥

पुष्पसारः, पुं, (पुष्पस्य सारः ।) पुष्पद्रवः । इति

राजनिर्घण्टः ॥ (पुष्पश्रेष्ठे, त्रि । यथा, ब्रह्म-
वैवर्त्ते प्रकृतिखण्डे ।
“पुष्पसारां नन्दिनीञ्च तुलसीं कृष्णजीवनीम् ॥”)
पृष्ठ ३/२०८

पुष्पसौरभा, स्त्री, (पुष्पे सौरभं यस्याः । तीव्र-

गन्धवत्त्वादेव तथात्वम् ।) कलिकारीवृक्षः ।
इति राजनिर्घण्टः ॥

पुष्पस्वेदः, पुं, (पुष्पाणां स्वेदः ।) पुष्पद्रवः । इति

राजनिर्घण्टः ॥

पुष्पहासा, स्त्री, (पुष्पं स्त्रीरजः हास इव यस्याः ।)

रजस्वला । इति शब्दरत्नावली ॥

पुष्पहीना, स्त्री, (पुष्पेण हीना ।) उडुम्बर-

वृक्षः । इति शब्दचन्द्रिका ॥ निष्कला । रजः-
शून्था । इति हेमचन्द्रः ॥

पुष्पा, स्त्री, (पुष्पं अभिधेयत्वेनास्त्यस्या इति ।

अच् । टाप् ।) कर्णपुरी । अधुना भागलपुर
इति ख्याता । तत्पर्य्यायः । चम्पा २ मालिनी ३ ।
इति त्रिकाण्डशेषः ॥

पुष्पाजीवः, पुं, (पुष्पैराजीवति जीविकां निर्व्वा-

हयतीति । आ + जीव + अच् ।) मालाकारः ।
इति हेमचन्द्रः । ३ । ५६४ ॥

पुष्पाजीवी, [न्] पुं, (पुष्पैराजीवतीति । आ +

जीव + णिनिः ।) मालाकारः । इति जटाधरः ॥

पुष्पाञ्जनं, क्ली, (पुष्पस्य नेत्ररोगविशेषस्य अञ्ज-

नम् ।) अञ्जनभेदः । तत्पर्य्यायः । पुष्पकेतु २
कौसुम्भम् ३ कुसुमाञ्जनम् ४ रीतिकम् ५ रीति-
पुष्पम् ६ पौष्पकम् ७ । तस्य गुणाः । हिम-
त्वम् । पित्तहिक्कास्रदाहविषकासार्त्तिसर्व्वनेत्रा-
मयनाशित्वञ्च । इति राजनिर्घण्टः ॥

पुष्पाञ्जलिः, पुं, (पुष्पाणामञ्जलिः ।) कुसुमा-

ञ्जलिः । प्रसूनाञ्जलिः । यथा, --
“पञ्च पुष्पाञ्जलीन्दत्त्वा परिवारार्च्चनञ्चरेत् ॥”
इति तन्त्रसारधृतभट्टः ॥

पुष्पावचायी, [न्] पुं, (पुष्पं अवचिनोतीति ।

अव + चि + णिनिः ।) मालाकारः । इति
हेमचन्द्रः । ३ । ५६४ ॥

पुष्पासवं, क्ली, (पुष्पस्य आसवम् ।) मधु । इति

राजनिर्घण्टः ॥ (यथा, ऋतुसंहारे । ५ । ५ ।
“गृहीतताम्बूलविलेपनस्रजः
पुष्पासवामोदितवक्त्रपङ्कजाः ॥”)

पुष्पास्त्रः, पुं, (पुष्पमस्त्रमस्य ।) कन्दर्पः । इति

शब्दरत्नावली ॥

पुष्पाह्वा, स्त्री, (पुष्पैराह्वयते स्पर्द्धते इति । आ +

ह्वे + कः । ततष्टाप् ।) शतपुष्पा । इति राज-
निर्घण्टः ॥

पुष्पिका, स्त्री, (पुष्प्यति विकसतीवेति । पुष्प +

ण्वुल् । टापि अत इत्वम् ।) दन्तमलम् । इति
हारावली । १९५ ॥ लिङ्गमलम् । इति हेम-
चन्द्रः । ३ । २९८ ॥ अध्यायान्ते तत्प्रति-
पादितोक्तिः ॥

पुष्पितः, त्रि, (पुष्प + क्तः । पुष्पं जातमस्येति ।

पुष्प + तारकादित्वात् इतच् वा ।) जातपुष्पः ।
पुष्पविशिष्टः । कुसुमितः । यथा, --
“एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्व्वं सुपुत्त्रेण कुलं यथा ॥”
इति चाणक्यः ॥

पुष्पिताग्रा, स्त्री, (पुष्पितं विकसितमिवाग्रं यस्याः ।)

छन्दोविशेषः । तस्य लक्षणम् । यथा, --
“अयुजि नयुगरेफतो यकारो
युजि च नजौ जरगाश्च पुष्पिताग्रा ॥”
उदाहरणम् ।
“करकिसलयशोभया विभान्ती
कुचफलभारविनभ्रदेहयष्टिः ।
स्मितरुचिरविलासपुष्पिताग्रा
व्रजयुवतिव्रतती हरेर्मुदेऽभूत् ॥”
इति छन्दोमञ्जरी ॥

पुष्पेषुः, पुं, (पुष्पं इषुर्यस्य ।) कामदेवः । इति

हेमचन्द्रः । २ । १४१ ॥ (यथा, कथासरित्-
सागरे । ७ । १६ ।
“तुल्याभिलाषामालोक्य स चैकां मुनिकन्यकाम् ।
ययावकस्मात् पुष्पेषुशराघातरसज्ञताम् ॥”)

पुष्यः, पुं, (पुष्यन्त्यस्मिन्नर्था इति । पुष + “पुष्य-

सिद्धौ नक्षत्रे ।” ३ । १ । ११६ । इति क्यप् ।)
अश्विन्यादिसप्तविंशतिनक्षत्रान्तर्गताष्टमनक्षत्रम् ।
तत्तु बाणाकारैकतारात्मकम् । इति ज्योति-
षम् ॥ तत्पर्य्यायः । सिध्यः २ तिष्यः ३ । इत्य-
मरः । १ । ३ । २२ ॥ पुष्या ४ । इति भरतः ॥
(यथा, मनुः । ४ । ९६ ।
“पुष्ये तु छन्दसां कुर्य्याद्बहिरुत्सर्ज्जनं द्विजः ॥”)
तस्य स्वरूपं यथा, --
“बालपीठकठिनीरजःप्रभे
मध्यमाश्रितविहायसे गुरौ ।
तौलिकात् पृषतशावलोचने
लोचनाद्रिकुमितागताः कलाः ॥” २ । ५२ ॥
इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातस्य फलम् ।
“प्रसन्नगात्रः पितृमातृभक्तः
स्वधर्म्मयुक्तोऽभिनयाभियुक्तः ।
भवेन्मनुष्यः खलु पुष्यजन्मा
सम्मानचामीकरवाहनाढ्यः ॥”
इति कोष्ठीप्रदीपः ॥
तन्नक्षत्रे गङ्गास्नानफलं यथा, --
“संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्य्ययोः ।
पुष्ये स्नात्वा तु जाह्रव्यां कुलकोटीः समुद्धरेत् ॥”
इति ब्रह्माण्डपुराणम् ॥ * ॥
पौषमासः । कलियुगः । इति मेदिनी । ये, ३८ ॥
(सूर्य्यवंशीयनृपविशेषः । यथा, रघुः । १८ । ३२ ।
“तस्य प्रभानिर्ज्जितपुष्परागं
पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां
पुष्टिं जनाः पुष्य इव द्वितीये ॥”
पुष + भावे क्यप् । पुष्टिः । यथा, ऋग्वेदे । १ ।
१९१ । १२ ।
“त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ॥”
“विषस्यास्मदावरकस्य पुष्यं पोषमक्षन् ।” इति
तद्भाष्ये सायनः ॥)

पुष्यरथः, पुं, (पुष्य इव रथः । पुष्ये यात्रोत्-

सवादौ रथो वा ।) यत् चक्रयानं युद्धार्थं न
भवति किन्तु यात्रोत्सवादौ सः । तत्पर्य्यायः ।
चक्रयानम् २ । इत्यमरः । २ । ८ । ५१ ॥ (यथा,
माघे । ३ । २२ ।
“महारथः पुष्यरथं रथाङ्गी
क्षिप्रं क्षपानाथ इवाधिरूढः ॥”)

पुष्यलकः, पुं, (पुष्पं पुष्टिं लकति लाकयति वा ।

लक + अच् ।) गन्धमृगः । (यथा, --
“केशेषु चमरीं हन्ति सीम्नि पुष्यलको हतः ॥”
इति व्याकरणम् ॥)
क्षपणकः । कीलः । इति मेदिनी । के, १९९ ॥

पुष्यस्नानं, क्ली, (पुष्ये पुष्यनक्षत्रकाले स्नानम् ।)

पुष्याभिषेकः । तस्य विधिर्यथा, --
और्व्व उवाच ।
“शृणु राजन् ! प्रवक्ष्यामि पुष्यस्नानविधिक्रमम् ।
येन विज्ञातमात्रेण विघ्ना नश्यन्ति सन्ततम् ॥
पौषे पुष्यर्क्षगे चन्द्रे पुष्यस्नानं नृपश्चरेत् ।
सौभाग्यकल्याणकरं दुर्भिक्षमरकापहम् ॥
विष्ट्यादिदुष्टकरणे व्यतीपाते च वैधृतौ ।
वज्रे शूले हर्षणादौ योगे यदि न लभ्यते ॥
तृतीयायुक्तपुष्यर्क्षं रविसौरिकुजेऽहनि ।
तदा समस्तदोषाणां तत्स्नानं हानिकारकम् ॥
ग्रहदोषाश्च जायन्ते यदि राज्येषु चेतयः ।
तदा पुष्यर्क्षमात्रे तु कुर्य्यान्मासान्तरेऽपि तत् ॥
इयन्तु ब्रह्मणा शान्तिरुद्दिष्टा गुरवे पुरा ।
शक्रार्थं सर्व्वदेवानां शान्त्यर्थञ्च जगत्पते ! ॥ * ॥
तुषकेशास्थिवल्मीककीटदेशादिवर्ज्जिते ।
शर्कराकृमिभस्मादिदोषेण परिवर्जिते ॥
काकोलूकककङ्कैश्च काकोलैर्गृध्रश्येनकैः ।
वर्जिते कण्टकिवनविभीतकविवर्जिते ॥
शिग्रुश्लेष्मातकाभ्याञ्च जलौकाद्यैर्विवर्जिते ।
सुस्थाने चम्पकाशोकवकुलादिविभूषिते ॥
हंसकारण्डवाकीर्णे सरस्तीरेऽथवा शुचौ ।
पुष्यस्नानाय नृपतिर्गृह्णीयात् स्थानसुत्तमम् ॥
ततः पुरोहितो राजा नानावादित्रनिःस्वनैः ।
प्रदोषसमये गच्छेत्तत्स्थानं पूर्ब्बवासरे ॥
तस्य स्थानस्य कौवेर्य्यां दिशि स्थित्वा पुरोहितः ।
सुगन्धचन्दनैः पानैः कर्पूराद्यधिवासितैः ॥
गोरोचनाभिः सिद्धार्थैरक्षतैश्च फलादिभिः ।
गन्धद्वारेत्यादिभिस्तु मन्त्रैः सर्व्वाधिवासिकैः ।
अधिवास्य तु तत् स्थानं पूजयेत्तत्र देवताः ॥
गणेशं केशवं शक्रं ब्रह्माणञ्चापि शङ्करम् ।
उमया सहितं देवं सर्व्वाश्च गणदेवताः ।
मातॄश्च पूजयेत्तत्र नृपतिः सपुरोहितः ॥
मङ्गलान् सकलान् कृत्वा नानानैवेद्यसञ्चयम् ।
प्रदद्यात् पायसं स्वादु फलं मोदकयावकौ ॥
अधिवास्य तु तत् स्थानं दूर्व्वासिद्वार्थकाक्षतैः ।
तस्मात् स्थानात्तु भूतान्निःसारयेन्मन्त्रमीरयन् ॥
अपसर्पन्तु ते भूता ये भूता भूमिपालकाः ।
भूतानामविरोधेन स्नानमेतत् करोम्यहम् ॥
ततः करौ पुटीकृत्य मन्त्रेणानेन पार्थिवः ।
आवाहयेदिमान्देवान् पूज्यान् पुष्याभिषेकतः ॥
आगच्छन्तु सुराः सर्व्वे येऽत्र पूजाभिलाषिणः ।
पृष्ठ ३/२०९
दिशोऽभिपालकाः सर्व्वे ये चान्येऽप्यंशभागिनः ।
ततः पुष्पाञ्जलिं दत्त्वा पुनर्मन्त्रं पठेदिमम् ॥
अद्य तिष्ठन्तु विबुधाः स्थानमासाद्य मामकम् ।
श्वः पूजां प्राप्य यातारो दत्त्वा शान्तिं मही-
भुजे ॥
तत्र तां नृपती रात्रिं नयेत्तु सपुरोहितः ।
स्वप्ने शुभाशुभं विद्यान्नृपस्तु सपुरोहितः ॥
कृत्वा पूजान्तु देवानां रात्रौ स्थाने नृपः स्वपेत् ।
शुभाशुभफलं स्वप्ने ज्ञेयं दोषज्ञसम्मते ॥
दुःस्वप्नदर्शनं चेत् स्यात्तदा पुष्याभिषेचने ।
होमं चतुःशतं कुर्य्याद्दद्याद्बापि गवां शतम् ॥
गोवाजिकुञ्जराणाञ्च प्रासादस्य गिरेस्तरोः ।
आरोहणं शुभकरं राज्यश्रीवृद्धिकारकम् ॥
दधिदेवसुवर्णानां भुजगस्य च दर्शनम् ।
वीणादूर्व्वाक्षतफलपुष्पच्छदविलेपनम् ॥
शितांशुच्छत्रशङ्खानां पद्मस्य सुहृदां तथा ।
लाभः क्षयकरः शत्रोरलङ्कारस्य भूभृतः ॥
दर्शनञ्चोपरागस्य निगडेनास्य बन्धनम् ।
मांसस्य भोजनञ्चैव पर्व्वतस्य विवर्त्तनम् ॥
नाभिमध्ये तरूत्पत्तिर्मृतं प्रत्यनुरोदनम् ।
अगम्यागमनं कूपपङ्कगर्त्तावतीर्णता ॥
पर्व्वतस्य तथा नद्याः प्रोत्तारः शत्रुकर्त्तनम् ।
स्वपुत्त्रमरणञ्चैव पानं रुधिरमद्ययोः ॥
भोजनं पायसस्यापि मनुष्यारोहणं तथा ।
कल्याणसुखसौभाग्यराज्यशत्रुक्षयांस्तथा ।
एते स्वप्नाश्च कुर्व्वन्ति नृपस्य नृपसत्तम ! ॥
खरोष्ट्रमहिषाणान्तु आरोहो राज्यनाशकः ।
नृत्यं गीतं तथा हास्यं पाठश्चाप्यशुभप्रदः ॥
रक्तवस्त्रपरीधानं रक्तमाल्यानुरञ्जनम् ।
रक्तां कृष्णां स्त्रियञ्चैव कामयन् मृत्युमाप्नुयात् ॥
कूपान्तरे प्रवेशश्च दक्षिणाशागतिस्तथा ।
पङ्के निमज्जनं स्नानं भार्य्यापुत्त्रविनाशनम् ॥
नाभौ यस्य भवेत् स्वप्ने तरूत्पत्तिर्नृपस्य च ।
आदाय गर्भनाडीन्तु शकुनो याति खं द्रुतम् ।
स तु राज्यान्तरं प्राप्य महाकल्याणमाप्नुयात् ॥
दीर्घं विंशतिहस्तन्तु हस्तषोडशविस्तृतम् ।
कुर्य्यात्तु लक्षणोपेतं यज्ञमण्डलमुत्तमम् ॥
ततोऽपरेऽह्नि पूर्ब्बाह्णे मातॄणां पूजनञ्चरेत् ।
कुड्यलग्नां वसोर्धारां वृद्धिश्राद्धं तथैव च ॥
चन्दनागुरुकस्तूरीधूपकर्पूरचूर्णकैः ।
सम्पूज्य मण्डलस्थानं तस्मिन् हौं शम्भवे नमः ॥
अस्त्राय हुं फडित्येवं लिखेन्मन्त्रद्वयं बुधः ।
मन्त्रविन्मण्डलज्ञश्च सूत्रैः कम्बलसम्भवैः ॥
कौषेयैर्व्वा स्वस्तिकाख्यं प्रथमं मण्डलं लिखेत् ।
चतुर्हस्तप्रमाणन्तु मण्डलं विलिखेत्ततः ॥
हस्तप्रमाणं पद्मन्तु मण्डलस्य प्रकीर्त्तितम् ।
द्बाराणि सार्द्धहस्तानि कर्णिकाकेशरोज्ज्लम् ॥
सितं रक्तञ्च पीतञ्च कृष्णं हरितमेव च ।
शालिचूर्णैस्तु कौसुम्भैर्हारिद्रैर्हरिदुद्भवैः ॥
कुर्य्यात्तथाञ्जनैश्चूर्णै राजा मण्डलवृद्धये ।
पद्मात्ततः समारभ्य नालां पश्चिमगामिनीम् ॥
पश्चिमद्वारमध्येन शतहस्तां विनिर्द्देशेत् ।
प्रत्येकद्वारमध्ये तु पद्मञ्चैवाष्टपत्रकम् ॥
कुर्य्यान्मण्डलभागे तु चूर्णैरेव पृथक् पृथक् ।
चूर्णैस्तु मण्डलं कृत्वा सूत्राण्युत्सारयेत्ततः ॥
उत्सार्य्य सूत्रं प्रथमं मण्डलं पूजयेत्ततः ।
भवनाय नम इति ततो हस्तं वियोजयेत् ॥
सव्यावलम्बहस्तस्तु रजःपातं समारभेत् ।
मध्यमानामिकाङ्गुष्ठैरुपरिष्टाद्यथेच्छया ॥
अधोमुखाङ्गुलिं कृत्वा पातयेत् सुविचक्षणः ।
समरेखा तु कर्त्तव्या विच्छिन्ना पुञ्जवर्ज्जिता ।
अङ्गुष्ठपर्व्वनैपुण्यात् समा कार्य्या विजानता ॥
संसक्तं विषमं स्थूलं विच्छिन्नं कृशरावृतम् ।
पर्य्यन्तमर्पितं ह्रस्वमालिखेन्न कदाचन ।
संसक्ते कलहं विद्यादूर्द्धरेखे तु विग्रहम् ॥
अतिस्थूले भवेद्व्याधिर्नित्यपीडा विमिश्रिते ॥
विन्दुभिर्भयमाप्नोति शत्रुपक्षान्न संशयः ।
कृशायां चार्थहानिः स्याच्छिन्नायां मरणं
ध्रुवम् ॥
वियोगो वा भवेत्तस्य इष्टद्रव्यसुतस्य वा ॥
अविदित्वा लिखेद्यस्तु मण्डलन्तु यथेच्छया ।
सर्व्वदोषानवाप्नोति ये दोषाः पूर्ब्बभाषिताः ॥
सितसर्षपदूर्व्वाढ्या रेखाः कार्य्याः प्रमाणतः ।
विमलं विजयं भद्रं विमानं शुभदं शिवम् ॥
वर्द्धमानञ्च देवञ्च रताख्यं कामदायकम् ।
रुचकं स्वस्तिकाख्यञ्च द्वादशैते तु मण्डलाः ॥
यथास्थानं यथायज्ञं योजनीया विचक्षणैः ॥
सागरे मथ्यमाने तु पीयूषार्थं सुरासुरैः ।
पीयूषधारणार्थाय निर्म्मिता विश्वकर्म्मणा ॥
कलां कलान्तु देवानामसित्वा ते पृथक् पृथक् ।
यतः कृतास्तु कलसास्ततस्ते परिकीर्त्तिताः ॥
नवैव कलसाः प्रोक्ता नामतस्तान्निबोधत ।
गोह्योपगोह्यो मरुतो मयूखश्च तथापरः ॥
मनोहा त्वसिभद्रश्च विरुजस्तनुशोषकः ।
इन्द्रियघ्नोऽथ विजयो नवमः परिकीर्त्तितः ॥
तेषामेव क्रमाद्भूप ! नव नामानि यानि तु ।
शृणु तान्यपराण्येव शान्तिदानि सदैव हि ॥
क्षितीन्द्रः प्रथमः प्रोक्तो द्बितीयो जलसम्भवः ।
पवनाग्नी ततो द्वौ तु यजमानस्ततः परः ॥
कोषसम्भवनामा तु षष्ठः स परिकीर्त्तितः ।
सोमस्तु सप्तमः प्रोक्तश्चादित्यस्तु तथाष्टमः ॥
विजयो नाम कलसो योऽसौ नवम उच्यते ।
स तु पञ्चमुखः प्रोक्तो महादेवस्वरूपधृक् ॥
घटस्य पञ्चवक्त्रेषु पञ्चवक्त्रः स्वयन्तथा ।
यथाकाष्ठास्थितः सम्यक् वामदेवादिनामतः ।
मण्डलस्य च पद्मान्तः पञ्चवक्त्रं घटं न्यसेत् ॥
क्षितीन्द्रं पूर्ब्बतो न्यस्य पश्चिमे जलसम्भवम् ।
वायव्ये वायवं न्यस्य आग्नेये ह्यग्निसम्भवम् ॥
नैरृत्यां यजमानन्तु ऐशान्यां कोषसम्भवम् ।
सोममुत्तरतो न्यस्य सौरं दक्षिणतो न्यसेत् ॥
न्यस्यैवं कलसांश्चैव तेषु चतान् विचिन्तयेत् ।
कलसानां मुखे ब्रह्मा ग्रीवायां शङ्करः स्थितः ॥
मूले तु संस्थितो विष्णुर्मध्ये मातृगणाः स्थिताः ॥
दिक्पाला देवताः सर्व्वा वेष्टयन्ति दिशो दश ॥
कुक्षौ तु सागराः सप्त सप्तद्बीपाश्च संस्थिताः ।
नक्षत्राणि ग्रहाः सव्व तथैव कुलपर्व्वताः ॥
गङ्गाद्याः सरितः सर्व्वा वेदाश्चत्वार एव च ।
कलसेषु स्थिताः सर्व्वे तेषु तानपि चिन्तयेत् ॥
रत्नानि सर्व्वबीजानि पुष्पाणि च फलानि च ।
वज्रमौक्तिकव दूर्य्यमहापद्मन्द्रस्फाटिकैः ॥
सर्व्वधाममयं विल्वं नागरोडम्बरं तथा ।
बीजपूरकजम्बीरकाश्मीराम्रातदाडिमान् ॥
यवं शालिञ्च नीवारं गोधूमं सितसर्षपम् ।
कुङ्कुमागुरुकस्तूरीमदनं रोचनं तथा ॥
चन्दनञ्च तथा मांसीमेलां कुष्ठं तथैव च ।
कर्परं पत्रचण्डञ्च जलं निर्यासकाम्बुदम् ॥
शैलेयं वदरं जातीपत्रपुष्पे तथैव च ।
कालशाकं तथा पृक्का देवी पूर्णकमेव च ॥
वचां धात्रीं समञ्जिष्ठां तुरुष्कं मङ्गलाष्टकम् ।
दूर्व्वां मोहनिकां भद्रां शतमूलीं शतावरीम् ॥
पर्णानां सवलां क्षुद्रां सहदेवां गजाह्वयाम् ।
पूर्णकोषां सितां पाठां गुञ्जां शिरसिकानलौ ॥
व्यामकं गजदन्तञ्च शतपुष्पां पुनर्नवाम् ।
ब्राह्मीं देवीं शिवां रुद्रां सर्व्वसन्धानिकां तथा ।
समाहृत्य शुभानेतान् कलसेषु निधापयेत् ॥
कलसस्य यथादेशं विधिं शम्मुं गदाधरम् ।
यथाक्रमं पूजयित्वा शम्मं मुख्यतया यजेत् ॥
प्रासादेन तु मन्त्रेण शम्भतन्त्रेण शङ्करम् ।
प्रथमं पूजयेन्मध्ये नानानैवेद्यवेदनैः ।
दिक्पालानां घटेष्वेव दिक्पालानपि पूजयेत् ॥
पूर्ब्बं बहिःस्थापितेषु ग्रहाणां कलसेषु च ।
नवग्रहान् पूजयेत्तु मातर्मातृघटेषु च ॥
सर्व्वे देवा घटे पूज्या घटस्तेषां पृथक् पृथक् ।
नवैव तत्र पूर्ब्बोक्ताः सदा मुख्यतमा नृप ! ॥ * ॥
भक्ष्यैर्भोज्यैश्च पेयैश्च पुष्पैर्नानाविधैः फलैः ।
यावकैः पायसैश्चापि यथासम्भवयोजितैः ।
पुष्यस्नानाय नृपतिः पूजयेत् सकलान् सुरान् ॥
दक्षिणे मण्डलस्याथ कुण्डं निर्म्माय पायसैः ।
समिद्भिः शालिसिद्धार्थैर्घृतैर्दर्वाक्षतैस्तथा ।
केवलैश्च तथैवाज्यः पूजयेत सकलान् सुरान् ॥
होमान्ते तोषयेद्वृद्धैर्नृपः सार्द्धं पुरोहितम् ॥
होमान्ते मण्डलोदीच्यां वेदिकायां सपट्टकम् ।
रोचनाख्यमलङ्कारान् तथा सर्व्वान्नियोजयेत् ॥
वृद्ध्या ह्मङ्गुलमङ्गुष्ठं द्विर्दशाङ्गुलयावधि ।
वृत्तं वा चतुरस्रं वा पद्मकत्रिकसंहितम् ।
रत्नेशान् पद्ममध्ये तु गोस्वस्तिकविनायकैः ॥
श्रीः श्रीवृक्षो वरारोहा स्वामी देषी शुभान्विता ।
रत्नैः सर्व्वैरलङ्कारैः पट्टं कार्य्यं द्विहस्तकम् ।
हस्तविस्तारमुच्छ्रायं कर्त्तव्यन्तु दशाङ्गुलम् ॥
स्नानार्थं सार्द्धहस्तन्तु पट्टं वृत्तासनान्वितम् ।
शय्या चतुर्गुणा दीर्घा धनुर्मानन्तु पीठकम् ॥
गजसिंहकृताटोपं हेमरत्नविभूषितम् ।
सिंहाख्यं साद्धविस्ताराद्दण्डासनमथापि वा ॥
व्याघ्रचित्रकपट्टैर्वा उपधानानि कारयेत् ।
अन्यैर्वा निर्म्मितैश्चर्म्ममृदुतूत्वकपूरितान् ॥
शय्या दैर्घ्यार्द्धविस्तीर्णा चतुर्हस्ता सुलक्षणा ।
पृष्ठ ३/२१०
वितस्त्यधिकमिच्छन्ति नृपस्य गुरुविद्यया ॥
अर्द्धचन्द्रसमं कुर्य्यादासनं चतुरस्रकम् ।
उपधानानि शय्यायाः कर्णादिमूलदेशतः ॥
षोडशैवात्र कार्य्याणि वर्णचित्रयुतानि च ।
यानं सिंहासनं पट्टं शय्योपकरणादिकम् ॥
राज्ञो नूतनयोग्यं तद्वेद्या उत्तरतो न्यसेत् ।
तेषान्तु पश्चिमे स्वर्णरत्नौघनिचिते वरे ॥
पर्य्यङ्के यज्ञदार्व्वौषनिर्म्मिते महदास्तरे ।
ऊर्द्धाच्छादनसंयुक्त चर्म्मावृत्त्या चतुष्टयम् ॥
वृषभस्य तथोर्णायाः सिंहशार्दूलयोरपि ।
पादपीठे रत्नयुते पादावारोप्य पार्थिवः ॥
तस्मिन् पर्य्यङ्कपृष्ठस्थे चर्म्मखण्डचतुष्टये ।
नानालङ्कारभूषाढ्यं नृपतिं रत्नमालिनम् ॥
स्नापयेद्ब्राह्मणैः सार्द्धं राजानं सुखसङ्गतम् ।
संवीतकम्बलं कृष्णं रत्नवस्त्रावशोभितम् ॥
कलसैर्ब्बलिपुष्पाद्यैः शालिचूर्णैश्च स्नापयेत् ॥
अष्टौ षोडशविंशाष्टशतमष्टाधिकञ्च वा ।
कलसानां समाख्याता अधिकस्योत्तरोत्तरम् ॥
जयकल्याणदैर्मन्त्रैमङ्गलोत्थैश्च शाम्भवैः ।
वैष्णवैरथ दिक्पालैर्ग्रहमन्त्रैश्च मातृकैः ॥
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् ।
आज्यं सुराणामाहारमाज्ये लोकाः प्रतिष्ठिताः ॥
भौमान्तरीक्षं दिव्यं वा यत्ते कल्मषमागतम् ।
सर्व्वं तदाज्यसंस्पर्शात् प्रणाशमुपगच्छतु ॥
ततोऽपनीय गात्रात्त कम्बलं वस्त्रमेव च ।
कलसैः स्नापयेद्भपं पुष्यस्नानार्थपूरितैः ।
एभिर्मन्त्रैर्नरश्रेष्ठ ! तत्त्वतत्त्वार्थसाधकैः ॥ * ॥
सुरास्त्वामभिषिञ्चन्तु ये च सिद्धाः पुरातनाः ।
ब्रह्मा विष्णुश्च रुद्रश्च साध्याश्च समरुद्गणाः ॥
आदित्या वसवो रुद्रा आश्विनेयौ भिषग्वरौ ।
अदितिर्देवमाता च स्वाहा लक्ष्मीः सरस्वती ॥
कीर्त्तिर्लक्ष्मीर्धृतिः श्रीश्च सिनीवाली कुहूस्तथा ।
दितिश्च सुरसा चैव विनता कद्रुरेव च ॥
देवपत्न्यश्च याः प्रोक्ता देवमातर एव च ।
सर्व्वास्त्वामभिषिञ्चस्तु सर्व्वे चाप्सरसां गणाः ॥
नक्षत्राणि सुहूर्त्ताश्च पक्षाहोरात्रसन्धयः ।
संवत्सरो दिवा रात्रिः कलाः काष्ठाः क्षणा
लवाः ॥
सर्व्वे त्वामभिषिञ्चन्तु कालस्यावयवाश्च ये ।
वैमानिकाः सुरगणा मनवः सागरैः सह ॥
सरितश्च महानागा यक्षाः किंपुरुषास्तथा ।
वैखानसा महाभागा द्विजा वैहायसास्तथा ॥
सप्तर्षयः सदाराश्च ध्रुवस्थानानि यानि तु ।
मरीचिरत्रिः पुलहः पुलस्त्यो भृगुरङ्गिराः ॥
क्रतुः सनत्कुमारश्च सनकोऽथ सनन्दकः ।
सनातनश्च दक्षश्च जेगीषव्योऽथ नन्दनः ॥
एकतश्च द्वितश्चैव त्रितो जावालिकाश्यपौ ।
दुर्व्वासा दुर्व्विनीतश्च कण्वः कात्यायनस्तथा ॥
मार्कण्डेयो दीर्घतपाः शुनःशेफो विदूरथः ।
और्व्वः सम्बर्त्तकश्चैव च्यवनोऽत्रिः पराशरः ॥
द्वैपायनो यवक्रीतो देवरातः सहानुजः ।
एते चान्ये च वहवो देवव्रतपरायणाः ॥
सशिष्यास्तेऽभिषिञ्चन्तु सदाराश्च तपोधनाः ॥
पर्व्वतास्तरवो नद्यः पुण्यान्यायतनानि च ।
प्रजापतिः क्षितिश्चैव गावो विश्वस्य मातरः ॥
वाहनानि च दिव्यानि सर्व्वे लोकाश्चराचराः ।
अग्नयः पितरस्तारा जीमूताः खं दिशो जलम् ॥
एते चान्ये च बहवः पुण्यसंकीर्त्तनाः शुभाः ।
तोयैस्त्वामभिषिञ्चन्तु सर्व्वोत्पातनिवर्हणाः ॥
इत्येवं शुभदैवत्यैर्मन्त्रैर्दिव्यैस्तथापरैः ।
शैवैर्नारायणै रौद्रैर्ब्रह्मशक्रसमुद्भवैः ॥
आपोहिष्टा हिरण्येति सम्भवेति सुरेति च ।
मानस्तोकेतिमन्त्रेण गन्धद्वारेत्यनेन च ॥
सर्व्वमङ्गलमङ्गल्यैः श्रीश्च ते ग्रहयोगिभिः ।
इत्येवं स्नानमासाद्य गात्रमावृत्य कम्बलैः ॥
सर्व्वमङ्गलमन्त्रेण वस्त्रं कार्पासकं ध्रियात् ।
आचम्य च ततो देवान् गुरुं विप्रांश्च पूजयेत् ॥
ध्वजं छत्रं चामरञ्च घण्टामश्वान् गजांस्तथा ।
मन्त्रं जप्त्वा धारयेत्तु ततो गच्छेद्धुताशनम् ॥
तत्र गत्वा वह्निमध्ये वह्निश्रीर्वीक्ष्य पार्थिवः ।
अनिमित्तनिमित्तानि लक्षयेत्तत्र विन्दुभिः ॥
दैवज्ञकञ्चुकामात्यवन्दिपौरजनैर्वृतः ।
वादित्रघोषैस्तुमुलैस्तथा तौर्य्यत्रिकैः शुभैः ॥
कृत्वा शेषे पुनः शान्तिमाशीर्व्वाच्य च वै
द्विजान् ।
पूर्णां विधाय विघिवद्दक्षिणां कनकान्युत ॥
धान्यानि चाथ वासांसि दत्त्वा कुर्य्याद्विसर्ज्जनम् ।
ततः शेषजलैः सर्व्वानमात्यादीन् पुरोहितः ।
सेचयेच्चतुरङ्गञ्च बलञ्चापि सराष्ट्रकम् ॥
एबं कृत्वा नृपः पश्चात्त्रिरात्रं संयतो भवेत् ।
मांसमैथुनहीनश्च कुर्य्यान्मङ्गल्यसेवनम् ॥
पुष्यनक्षत्रयुक्ता तु तृतीया यदि लभ्यते ।
तस्यां पूज्या सदा देवी चण्डिका शङ्करेण ह ॥
पञ्चालिकाविवाहाद्यैः शिशूनां कौतुकैस्तथा ।
वैवाहिकेन विधिना मोदयेच्चण्डिकां शिवाम् ॥
चतुष्पथेषु सर्व्वेषु देवदेवीगृहेषु च ।
पताकाभिरलङ्कुर्य्यादेवं कुर्व्वन्न सीदति ॥
एवं कृत्वा शान्तियागं तथा पुष्याभिषेचनम् ।
चतुरङ्गैः समं राजा भार्य्याभिस्तनयैः सह ।
राज्यमण्डलसंयुक्तः परत्रेह न सीदति ॥
नातः परतरो यज्ञो नातः परतरोत्मवः ।
नातः परतरा शान्तिर्नातः परतरं शिवम् ॥
अनेनैव विधानेन नृपतेरभिषेचनम् ।
युवराज्याभिषेकञ्च कुर्य्याद्राजपुरोहितः ॥
नृपाभिषेककरणमादौ यदि समाचरेत् ।
अनेनैव विधानेन स्थिरः स्यान्नृपतिस्तदा ॥
अयं यज्ञः समुद्दिष्टः शक्रार्थं ब्रह्मणा पुरा ।
एवं यज्ञं नृपो दृष्ट्वा परत्रेह न सीदति ॥”
इति कालिकापुराणे पुष्याभिषेकः ८६
अध्यायः ॥

पुष्या, स्त्री, (पुष्णाति कार्य्याणीति । पुष् + क्यप्

यत् वा । निपातनात् साधुः । ततष्टाप् ।) पुष्य-
नक्षत्रम् । इति शब्दरत्नावली ॥ (यथा, इन्द्र-
जालतन्त्रसंग्रहे ।
“अश्विनीमृगमूलाश्च पुष्या पुनर्वसुस्तथा ।
वश्याकर्षञ्च कर्त्तव्यं कारयेच्च सदा बुधः ॥”)

पुस्त, क, बन्धे । इति कविकल्पद्रुमः ॥ (चुरा०-

उभ०-सक०-सेट् ।) पञ्चमस्वरी । दन्त्योपधः ।
क, पुस्तयति । इति दुर्गादासः ॥

पुस्तं, क्ली, (पुस्त्यते इति । पुस्त बन्धादरादौ +

घञ् ।) लेप्यादिशिल्पकर्म्म । आदिना काष्ठ-
पुत्तलिकाखनित्रखननादि कर्म्म गृह्यते । इति
सुभूत्यादयः ॥
मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्म्मणा ।
लोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते ॥”
इत्यमरटीकायां भरतः ॥
(यथा, वाभटे सूत्रस्थाने । ३ ।
“पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि ॥”
पुस्त्यते बध्यते ग्रथ्यते इत्यर्थः आद्रियते वेति +
पुस्त + घञ् ।) पुस्तकम् । इति मेदिनी ॥ (पुस्त
+ गौरादित्वात् ङीष् ।) स्त्रियां पुस्ती ॥

पुस्तकम्, क्ली, स्त्री, (पुस्त + स्वार्थे कन् ।)

पुस्तम् । पुति इति भाषा । (यथा, हरि-
वंशे । २५६ । ७६ ।
“शुक्लाम्बरधरः श्रीमान् शुचिर्भूत्वा स्वलङ्कृतः ।
अर्च्चयेत यथान्यायं गन्धमालैः पृथक् पृथक् ॥
संहितापुस्तकान् राजन् ! प्रयतः शिष्टसम्मतः ॥”)
तस्य परिमाणं यथा, --
“मानं वक्ष्ये पुस्तकस्य शृणु देवि ! समासतः ।
मानेनापि फलं विन्द्यादमाने श्रीर्हता भवेत् ॥
हस्तमात्रं मुष्टिमात्रमाबाहुद्वादशाङ्गुलम् ।
दशाङ्गुलं तथाष्टौ च ततो हीनं न कारयेत् ॥”
तस्य वेधो यथा, --
“वेधद्वयं मुष्टिहस्तं बाहुमात्रे चिरन्तकम् ।
समभागे महेशानि ! हस्तादौ रूपरन्ध्रकम् ॥
अष्टाङ्गुलं परित्यज्य भध्ये वेधं न कारयेत् ।
प्रादेशादौ भवेद्रन्ध्रो द्व्यङ्गुले वा समाचरेत् ॥
पुस्तकस्य च आद्यन्ते यन्त्रवेधं विकल्पयेत् ।
भार्य्याहानिर्भवेदाशु धनानां वा क्षयो भवेत् ॥
दग्धरन्ध्रे भवेत् पीडा वर्त्तुलं शुभदं भवेत् ।”
चतुष्कोणे विप्लवस्तु त्रिकोणे मरणं भवेत् ॥
पुस्तककरणपत्रं यथा, --
“भूर्जे वा तेजपत्रे वा ताले वा ताडिपत्रके ।
अगुरुणापि देवेशि ! पुस्तकं कारयेत् प्रिये ! ॥
सम्भवे स्वर्णपत्रे च ताम्रपत्रे च शङ्करि ! ।
अन्यवृक्षत्वचि देवि ! तथा केतकिपत्रके ॥
मार्त्तण्डपत्रे रौप्ये वा वटपत्रे वरानने ! ।
अन्यपात्रे वसुदले लिखित्वा यः समभ्यसेत् ।
स दुर्गतिमवाप्नोति धनहानिर्भवेद्ध्रुवम् ॥”
पुस्तके वेदलिखननिषेघो यथा, --
“वेदस्य लिखनं कृत्वा यः पठेद्ब्रह्महा भवेत् ।
पुस्तकंवा गृहे स्थाप्यं वज्रपातो भवेद्ध्रुवम् ॥”
युगभेदे पुस्तकाक्षरस्थदेवा यथा, --
“सत्येऽक्षरे स्थितः शम्भुः शूलपाणिस्त्रिलोचनः ।
प्रजापतिर्द्वापरे च त्रेतायां सूर्य्य एव च ।
कृते युगे पिनाकी च कलौ लिप्यक्षरे हरिः ॥”
पृष्ठ ३/२११
तल्लेखकपूजाफलं यथा, --
“आरम्भे च समाप्तौ च लेखकं प्रतिपूजयेत् ।
हरिञ्च गन्धपुष्याद्यैर्वस्त्रैश्च सुमनोहरैः ॥
यावदक्षरसंख्यानं प्रतिपत्रे च सुन्दरि ! ।
तावद्युगसहस्राणि ब्रह्मलोके वसेच्चिरम् ॥”
वेतनग्रहणे लेखकस्य दोषो यथा, --
“वेतनं यस्तु गृह्णीयात् लिखित्वा पुस्तकं स तु ।
यावदक्षरसंख्यानं तावच्च नरके वसेत् ॥”
भूमौ पुस्तकलेखनस्थापननिषेधो यथा, --
“न भूमौ विलिखेद्वर्णं मन्त्रं न पुस्तकं लिखेत् ।
न मुक्त्वा पुस्तकं स्थाप्यं न मुक्तमाहरेत्तु तत् ॥
भूकम्पग्रहणे चैव अक्षरं वाथ पुस्तकम् ।
भूमौ तिष्ठति देवेशि ! जन्मजन्मसु मूर्खता ।
तदा भवति देवेशि ! तस्मात्तत् परिवर्ज्जयेत् ॥”
इति योगिनीतन्त्रे तृतीयभागे सप्तमपटलः ॥ * ॥
तस्य दानफलं यथा, --
विप्राय पुस्तकं दत्त्वा धर्म्मशास्त्रस्य च द्विज ! ।
पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात् ॥
शास्त्रदृष्ट्या जगत् सर्व्वं सुश्रुतञ्च शुभाशुभम् ।
तस्मात् शास्त्रं प्रयत्नेन दद्याद्बिप्राय कार्त्तिके ॥
वेदविद्याञ्च यो दद्यात् स्वर्गे कल्पत्रयं वसेत् ।
आत्मविद्याञ्च यो दद्यात्तस्य संख्या न विद्यते ॥
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ।
शास्त्रं कामदुधा धेनुः पृथिवी चैव शाश्वती ॥”
इति पाद्मोत्तरखण्डे ११७ अध्यायः ॥ * ॥
वेदशास्त्रादिदानफलं यथा, --
“वेदार्थयज्ञशास्त्राणि धर्म्मशास्त्राणि चैव हि ।
मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम् ॥
इतिहास्पुराणानि लिखित्वा यः प्रयच्छति ।
ब्रह्मदानसमं पुण्यं प्राप्नोति द्बिगुणीकृतम् ॥”
इति गारुड २१५ अध्यायः ॥ * ॥
भागवतदानविधानं तु पारायणशब्दे द्रष्टव्यम् ॥

पुस्तकर्म्मा, त्रि, (पुस्तं लिखनादिकं कर्म्म यस्य ।)

लेप्यादिशिल्पकर्म्मकर्त्ता । इति हलायुधः ॥

पू, ङ शोधे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-

सक०-सेट् ।) शोध इह शुद्धीकरणम् । ङ,
पवते पापिनं गङ्गा । इति दुर्गादासः ॥

पू, ङ य शोधे । इति कविकल्पद्रुमः ॥ (दिवा०-

आत्म०-सक०-सेट् ।) अयं कैश्चिन्न मन्यते । ङ
य, पूयते । इति दुर्गादासः ॥

पू, ञ गि शोधे । इति कविकल्पद्रुमः ॥ (क्र्या०-

प्वा०-उभ०-सक०-सेट् ।) ञ गि, जाह्नवी नः
पुनातु । पुनीते । क्वचित् श्नाप्रत्ययस्यापि प्वादि-
त्वात् ह्रस्व इति वररुचिः । तेन ।
“स्मरणात् पुनते पापं धारणात् पूर्ब्बसञ्चितम् ।
दर्शनाल्लभते मोक्षमेतद्योगस्य लक्षणम् ॥”
इति दुर्गादासः ॥

पूगं, क्ली, (पूयते मुखमनेनेति । पू ञ पवने +

“छापूखण्डिभ्यः कित् ।” उणा० । १ । १२३ ।
इति गन् किच्च ।) गुवाकफलम् । इत्यमर-
टीकायां रायमुकुटः ॥ (यथा, भविष्यपुराणे ।
तालनवमीव्रतकथायाम् ।
“पिण्डखर्ज्जूरं जातिश्च एला चैव हरीतकी ।
नारिकेलं तथा पूगं रम्भापक्वफलन्तथा ।
तत्र मुख्यं प्रदातव्यं तालस्य फलमुत्तमम् ॥”)

पूगः, पुं, (पूयतेऽनेनेति । पूञ् + “छापूखण्डिभ्यः

कित् ।” उणा० । १ । १२३ । इति गन् । स च
कित् ।) गुवाकः । समूहः । इत्यमरः ॥ (यथा,
महाभारते । ६ । २१ । १४ ।
“अनन्ततेजा गोविन्दः शत्रुपूगेषु निर्व्यथः ।
पुरुषः सनातनतमो यतः कृष्णस्ततो जयः ॥”)
छन्दः । भावः । कण्टकिवृक्षः । इति शब्द-
रत्नावली ॥

पूगपात्रं, क्ली, (पूगस्य दन्तचर्व्वितपूगरसस्य

आधारभूतं पात्रम् ।) पूगपीठम् । पिकदानी ।
इति भाषा । तत्पर्य्यायः । फरुवकम् २ । इति
हारावली ॥

पूगपीठं, क्ली, (पूगस्य दन्तचर्व्वितपूगरसस्य

पीठमाधारपात्रम् ।) पूगपात्रम् । तत्पर्य्यायः ।
कटकोलः २ पतद्ग्रहः ३ । इति त्रिकाण्ड-
शेषः ॥

पूगपुष्पिका, स्त्री, (पूगसहितं पुष्पमत्रेति । पूग-

पुष्प + कप् । कापि अत इत्वम् ।) विवाह-
सम्बन्धिपुष्पताम्बूलम् । तत्पर्य्यायः । कुहलिः २ ।
इति त्रिकाण्डशेषः ॥

पूगफलं, क्ली, (पूगस्य गुवाकस्य फलम् ।) गुवा-

कफलम् । तत्पर्य्यायः । पूगम् २ चिक्कणी ३
चिक्का ४ चिक्कणम् ५ सोष्णकम् ६ उद्वेगम् ७
क्रमुकफलम् ८ । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते सूत्रस्थाने ४६ अध्याये ।
“कषायमीषन्मधुरं किञ्चित् पूगफलं सरम् ॥”)

पूगरोटः, पुं, (पूगवृक्ष इव रोटयति दीप्यते प्रका-

शते इति । रुट् + अच् ।) हिन्तालवृक्षः । इति
त्रिकाण्डशेषः ॥

पूज, क पूजे । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-

सक०-सेट् ।) षष्ठस्वरी । क, पूजयति गुरु
लोकः । इति दुर्गादासः ॥

पूजकः, त्रि, (पूजयतीति । पूज + ण्वुल् ।) पूजा-

कर्त्ता । यथा, तिथ्यादितत्त्वे ।
“यत्रैव भानुस्तु वियत्युदेति
प्राचीति तां वेदविदो वदन्ति
तथा पुरः पूजकपूज्ययोश्च
तदागमज्ञाः प्रवदन्ति तान्तु ॥”

पूजनं, क्ली, (पूज + भावे ल्यट् ।) पूजा । अर्च्च-

नम् । यथा, --
“क्रुद्धेन न च कर्त्तव्यं लोभेन त्वरया न च ।
मत्पूजनं विधानेन यदीच्छेत् परमां गतिम् ॥”
इति वराहपुराणम् ॥

पूजनी, स्त्री, (पूज्यते इति । पूज + कर्म्मणि ल्युट् ।

ङीप् ।) चटका । इति भरतः ॥ (ब्रह्मदत्तगृह-
स्थितशकुनिविहङ्गमस्त्रीविशेषः । यथा, महा-
भारते । १२ । १३९ । ४ -- १० ।
“शृणुष्व राजन् ! यद्वृत्तं ब्रह्मदत्तनिवेशने ।
पूजन्या सह संवादं ब्रह्मदत्तस्य भूपतेः ॥
काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी ।
पूजनी नाम शकुनिर्दीर्घकालं सहोषिता ॥
रुतज्ञा सर्व्वभूतानां यथा वे जीवजीवकः ।
सर्व्वज्ञा सर्व्वतत्त्वज्ञा तिर्य्यग्योनिं गतापि सा ॥
अभिप्रजाता सा तत्र पुत्त्रमेकं सुवर्च्चसम् ।
समकालञ्च राज्ञोऽपि देव्यां पुत्त्रो व्यजायत ॥
तयोरर्थे कृतज्ञा सा खेचरी पूजनी सदा ।
समुद्रतीरं सा गत्वा आजहार फलद्बयम् ॥
पुष्टार्थञ्च स्वपुत्त्रस्य राजपुत्त्रस्य चैव ह ॥
फलमेकं सुतायादाद्राजपुत्त्राय चापरम् ।
अमृतास्वादसदृशं बलतेजोऽभिवर्द्धनम् ॥
आदायादाय सैवाशु तयोः प्रादात् पुनःपुनः ।
ततोऽगच्छत् परां वृद्धिं राजपुत्त्रः फला-
शनात् ॥”
इत्यादि तत्रैवाध्याये विस्तरशो द्रष्टव्यम् ॥)

पूजा, स्त्री, (पूजनमिति । पूज + “चिन्तिपूजि-

कथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ । इति अङ् ।
ततष्टाप् ।) पूजनम् । तत्पर्य्यायः । नमस्या २
अपचितिः ३ सपर्य्या ४ अर्च्चा ५ अर्हणा ६ ।
इत्यमरः । २ । ७ । ३५ ॥ नुतिः ७ । इति
शब्दरत्नावली ॥ (यथा, रामायणे । १ । ५१ । ५ ।
“अपि रामे महाभागा मम माता यशस्विनी ।
वन्यैरुपाहरत् पूजां पूजार्हे सर्व्वदेहिनाम् ॥”)
तस्याः सामान्यानुष्ठानं यथा, --
“आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् ।
अङ्गुलिव्यापकन्यासौ हृदादिन्यास एव च ॥
तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् ।
ध्यानं पूजा जपश्चैव सर्व्वतन्त्रेष्वयं विधिः ॥”
इति तन्त्रसारे यामलः ॥
शक्तिविषये चतुःषष्टिरुपचारा यथा, --
आसनारोपणम् १ सुगन्धितैलाभ्यङ्गः २ मज्जन-
शालाप्रवेशनम् ३ मज्जनमणिपीठोपवेशनम्
४ दिव्यस्नानीयम् ५ उद्बर्त्तनम् ६ उष्णोदक-
स्नानम् ७ कनककलसस्थितसकलतीर्थाभिषेकः
८ धौतवस्त्रपरिमार्ज्जनम् ९ अरुणदुकूलपरि-
धानम् १० अरुणदुकूलोत्तरीयम् ११ आलेप-
मण्डपप्रवेशनम् १२ आलेपमणिपीठोपवेशनम्
१३ चन्दनागुरुकुङ्कुमकर्पूरकस्तूरीरोचनादिव्य-
गन्धसर्व्वाङ्गानुलेपनम् १४ केशभारस्य काला-
गुरुधूपमल्लिकामालतीजातीचम्पकाशोकशत-
पत्रपूगकुहरीपुन्नागकह्बारयूथीसर्व्वत्तुंकुसुम-
मालाभूषणम् १५ भूषणमण्डपप्रवेशनम् १६ भूषण-
मणिपीठोपवेशनम् १७ नवमणिमुकुटम् १८
चन्द्रशकलम् १९ सीमन्तसिन्दूरम् २० तिलक-
रत्नम् २१ कालाञ्जनम् २२ कर्णपालीयुगलम्
२३ नासाभरणम् २४ अधरयावकः २५ ग्रथन-
भूषणम् २६ कनकचित्रपदकम् २७ महापदकम्
२८ मुक्तावलिः २९ एकावलिः ३० देवच्छन्दकः
३१ केयूरयुगलचतुष्टयम् ३२ वलयावलिः ३३
ऊर्म्मिकावलिः ३४ काञ्चीदाम ३५ कटिसूत्रम्
३६ शोभाख्याभरणम् ३७ पादकटकम् ३८
रत्ननूपुरम् ३९ पादाङ्गुरीयकम् ४० एककरे
पृष्ठ ३/२१२
पाशः ४१ अन्यकरेऽङ्कुशम् ४२ इतरकरे पुण्ड्रेक्षु-
चापः ४३ अपरकरे पुष्पबाणाः ४४ श्रीमन्मा-
णिक्यपादुका ४५ स्वसमानवेशास्त्रावरणदेव-
ताभिः सह सिंहासनारोहणम् ४६ कामेश्वर-
पर्य्यङ्कोपवेशनम् ४७ अमृताशनचषकम् ४८
आचमनीयम् ४९ कर्पूरवटिका ५० आनन्दो-
ल्लासविलासहासम् ५१ मङ्गलारात्रिकम् ५२
श्वेतच्छत्रम् ५३ चामरयुगलम् ५४ दर्पणः ५५
तालवृन्तम् ५६ गन्धः ५७ पुष्पम् ५८ धूपः ५९
दीपः ६० नैवेद्यम् ६१ पुनराचमनीयम् ६२
ताम्बूलम् ६३ वन्दनञ्च ६४ । इति तन्त्रसारे
सिद्धयामलः ॥ * ॥ षट्त्रिंशदुपचारा यथा, --
“आसनाभ्यञ्जने तद्बदुद्वर्त्तननिरूक्षणे ।
सम्मार्जनं सर्पिरादिस्नपनावाहने तथा ॥
पाद्यार्घ्याचमनीयञ्च स्नानीयमधुपर्ककौ ।
पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके ॥
अलङ्कारो गन्धपुष्पधूपदीपास्तथैव च ।
ताम्बूलादिकनैवेद्यं पुष्पमाला तथैव च ॥
अनुलेपनञ्च शय्या च चामरव्यजनन्तथा ।
आदर्शदर्शनञ्चैव नमस्कारोऽथ नर्त्तनम् ॥
गीतवाद्ये च गानानि स्तुतिहोमप्रदक्षिणम् ।
दन्तकाष्ठप्रदानञ्च ततो देवविसर्जनम् ।
उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने ॥”
इत्येकादशीतत्त्वम् ॥
अष्टादशोपचारा यथा, --
“आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ।
स्रानं वस्त्रोपवीतञ्च भूषणानि च सर्व्वशः ॥
गन्धं पुष्पं तथा धूपं दीपमन्नञ्च दर्पणम् ।
माल्यानुलेपनञ्चैव नमस्कारविसर्जने ॥
अष्टादशोपचारैस्तु मन्त्री पूजां समाचरेत् ॥”
अथ षोडशोपचाराः ।
“पाद्यमर्घ्ये तथाचामं स्रानं वसनभूषणे ।
गन्वपुष्पधूपदीपनैवेद्याचमनन्ततः ॥
ताम्बूलमर्च्चना स्तोत्रं तर्पणञ्च नमस्क्रिया ।
प्रपूजयेत् प्रपूजायां उपचारांस्तु षोडश ॥”
(अन्यप्रकारषोडशोपचारा यथा, --
“आसनं स्वागतं पाद्यमर्घमाचमनीयकम् ।
मधुपर्काचमनीस्नानं वसनाभरणानिच ।
गन्धपुष्पधूपदीपनैवेद्यं वन्दनन्तथा ॥”)
अथ दशोपचाराः ।
“पाद्यमर्घ्यं तथाचामं मधुपर्काचमनन्तथा ।
गन्धादयो नैवेद्यान्ता उपचारा दश क्रमात् ॥”
अथ पञ्चोपचाराः ।
“गन्धादयो नैवेद्यान्ताः पूजाः पञ्चोपचारिकाः ॥”
इति तन्त्रसारः ॥
अशुच्यादेः पूजानिषेधमाह ।
“अशुचिर्न महामायां पूजयेत्तु कदाचन ।
अवश्यन्तु स्मरेन्मन्त्रं सोऽतिभक्तियुतो नरः ॥
दन्तरक्ते समुत्पन्न स्मरणञ्च न विद्यते ।
सर्व्वेषामेव मन्त्राणां स्मरणान्नरकं व्रजेत् ॥
जानूर्द्ध्वे क्षतजे जाते नित्यकर्म्म न चाचरेत् ।
नैमित्तिकञ्च तदधःस्रवद्रक्तो न चाचरेत् ॥
लोतके च समुत्पन्ने क्षुरकर्म्मणि मैथुने ।
धूमोद्गारे तथा वान्तौ नित्यकर्म्माणि संत्यजेत् ॥
द्रव्ये भुक्ते त्वजीर्णे च नैव भुक्त्वा च किञ्चन ।
कर्म्म कुर्य्यान्नरो नित्यं सूतके मृतके तथा ॥
पत्रं पुष्पञ्च ताम्बूलं भेषजत्वेन कल्पितम् ।
कणादिपिप्पल्यन्तञ्च फलं भुक्त्वा न चाचरेत् ॥
जलस्यापि नरश्रेष्ठ ! भोजनाद्भेषजादृते ।
नित्यक्रिया निवर्त्तेत सह नैमित्तिकैः सदा ॥
जलौकां गूढपादञ्च कृमिगण्डूपदादिकम् ।
कामाद्दम्भेन संस्पृश्य नित्यकर्म्माणि संत्यजेत् ॥
विशेषतः शिवापूजां प्रमीतपितृको नरः ।
यावद्वत्सरपर्य्यन्तं मनसापि न चाचरेत् ॥
महागुरुनिपाते तु काम्यं किञ्चिन्न चाचरेत् ।
आर्त्विज्यं ब्रह्मयज्ञञ्च श्राद्धं देवयुतञ्च यत् ॥
गुरुमाक्षिप्य विप्रञ्च प्रकृत्यैव च पाणिना ।
न कुर्य्यान्नित्यकर्म्माणि रेतःपाते च भैरव ! ॥
आसनञ्चार्घ्यपात्रञ्च भग्नमासादयेन्न यत् ।
ऊषरे कृमिसंयुक्ते स्थाने वृष्टेऽपि नार्च्चयेत् ॥
नीचैरासाद्य तत्स्थानं शुचिः प्रयतमानसः ।
अर्च्चयेच्चण्डिकां देवीं देवमन्यञ्च भैरव ! ॥
दिग्विभागे तुकौवेरी दिक् शिवाप्रीतिकारिणी ।
तस्मात्तन्मुखमासीनः पूजयेच्चण्डिकां सदा ॥”
पूजास्थानानि यथा, --
“लिङ्गस्थां पूजयेद्देवीं पुस्तकस्थां तथव च ।
स्थण्डिलस्थां महामायां पादुके प्रतिमासु च ॥
चित्रे च त्रिशिखे खड्गे जलस्थां वापि पूजयेत् ।
पञ्चाशदङ्गुलं खड्गं त्रिशिखञ्च त्रिशूलकम् ॥
शिलायां पर्व्वतस्याग्रे गङ्गायामपि तत्समा ।
आर्य्यावर्त्ते मध्यदेशे तथा पर्व्वतगह्वरे ॥
देवीं संपूजयेन्नित्यं भक्तिश्रद्धासमन्वितः ।
वाराणस्यां सदा पूजा सम्पूर्णफलदायिनी ॥
ततस्तु द्विगुणा प्रोक्ता पुरुषोत्तमसन्निधौ ।
ततोऽपि द्बिगुणा प्रोक्ता द्वारवत्यां विशेषतः ॥
सर्व्वक्षेत्रेषु तीर्थेषु पूजा द्वारवतीसमा ।
बिन्ध्ये शतगुणा प्रोक्ता गङ्गायामपि तत्समा ॥
आर्य्यावर्त्ते मध्यदेशे ब्रह्मावर्त्ते तथैव च ।
बिन्ध्यवत्फलदा पूजा प्रयागे पुष्करे तथा ॥
ततश्चतुर्गुणं प्रोक्तं करतोयानदीजले ।
तस्याच्चतुर्गुणफला नन्दिकुण्डे च भैरव ! ॥
तस्माच्चतुर्गुणा प्रोक्ता जल्पीशेश्चरसन्निधौ ।
तत्र सिद्धेश्वरीयोनौ ततोऽपि द्विगुणा स्मृता ॥
ततश्चतुर्गुणा प्रोक्ता लौहित्यनदपाथसि ।
तत्समा कामरूपे तु सर्व्वत्रैव जले स्थले ॥
सर्व्वश्रेष्ठो यथा विष्णुर्लक्ष्मीः सर्व्वोत्तमा यथा ।
देवीपूजा तथा शस्ता कामरूपे सुरालये ॥
देवीक्षेत्रं कामरूपं विद्यतेऽन्यन्न तत्समम् ।
अन्यत्र विरला देवी कामरूपे गृहे गृहे ॥
ततः शतगुणं प्रोक्तं नीलकूटस्य मस्तके ।
ततोऽपि द्विगुणं प्रोक्तं हेरुके शिवलिङ्गके ॥
ततोऽपि द्विगुणा प्रोक्ता शैलपुत्त्रादियोनिषु ।
ततः शतगुणं प्रोक्तं कामाख्यायोनिमण्डले ॥”
इति कालिकापुराणे । ५४ । ५७ । अध्यायौ ॥
पूजासनानि तत्फलानि च यथा, --
“उपविश्यासने रम्ये कृष्णाजिनकुशोत्तरे ।
राङ्कवे कम्बले वापि काशादौ व्याघ्रचर्म्मणि ॥
न कुर्य्यादर्च्चनं विष्णोः शिवे काष्ठासनादिषु ।
काष्ठासने वृथा पूजा पाषाणे रोगसम्भवः ॥
भूम्यासने गतिर्नास्ति वस्त्रासने दरिद्रता ।
कुशासने ज्ञानवृद्धिः कम्बले सिद्धिरुत्तमा ॥
कृष्णाजिने धनी पुत्त्री मोक्षः स्याद्व्याघ्रचर्म्मणि ।
मन्त्रयोगं प्रकुर्व्वीत भोगार्थं सुखमासने ॥”
इति पाद्मोत्तरखण्ड ७४ अध्यायः ॥
पूजाधिकारिता प्रयोजकदेवषट्कपूजा यथा, --
“गणेशञ्च दिनेशञ्च वह्रिं विष्णं शिवं शिवाम् ।
संपूज्य देवषट्कञ्च सोऽधिकारी च पूजने ॥
गणेशं विघ्ननाशाय निष्पापाय दिवाकरम् ।
वह्निं शुद्धाय विष्णुञ्च मुक्तये पूजयेन्नरः ॥
शिवं ज्ञानाय ज्ञानेशं शिवाञ्च बुद्धिवृद्धये ।
संपूज्य तान् लभेत् प्राज्ञो विपरीतमतोऽन्यथा ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥
द्बादशमासे विष्णुपूजाविधिर्यथा, --
“प्रत्यहं कार्त्तिके मासि जातीपुष्पैः समर्च्चयेत् ।
दद्यादखण्डदीपञ्च नियतात्मा दृढव्रतः ।
ब्राह्मणान् भोजयित्वाथ सहसायुज्यमाप्नुयात् ॥
मार्गशीर्षे नवान्नेन वकपुष्पैश्च केशवम् ।
समर्च्च्य भोजयेद्विप्रान् वैकुण्ठपदमाप्नुयात् ॥
धनुष्युषसि देवेशं मासमेकं निरन्तरम् ।
अर्च्चयेदुपवासैश्च करवीरैः सितासितैः ॥
धूपैर्दीपैश्च नैवेद्यैर्यथाशक्त्या निवेदयेत् ।
समाप्तौ भोजयेद्बिप्रान् महाभागवतोत्तमान् ॥
अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयः ॥
तपोमास्युदिते भानौ स्नात्वा नद्यां विशेषतः ।
अर्च्चयेन्माधवीपुष्पैरुत्पलैश्च शुभानने ! ॥
पायसं विविधं दिव्यं भक्त्या तत्र निवेदयेत् ।
मासान्ते वैष्णवान् विप्रान् भोजयेत् शक्तितो
द्बिजः ॥
तपस्ये च तथा देवि ! माधवैः कुसुमः शुभैः ।
स्नात्वा संपूजयेद्बिष्णुं मासमेकं निरन्तरम् ॥
शर्कराम्बु घृतं नित्यमपूपांश्च निवेदयेत् ।
वैष्णवान् भोजयेच्छक्त्या मासान्ते शुभदर्शने ! ॥
मधुमासि तथा नित्यं वकुलैश्चम्पकैरपि ।
पूजयेज्जगतामीशं गुडान्नञ्च ! निवेदयेव् ॥
मासान्ते वैष्णवान् विप्रान् भोजयेत् सुसमा-
हितः ।
सहस्रवार्षिकं पूजाफलं नित्यमवाप्नुयात् ॥
माधवे पूजयेद्विष्णुं शतपत्रैर्महोत्पलैः ।
पूजयित्वा विधानेन दध्यन्नफलसंयुतम् ॥
गुडोदकञ्च भक्त्या वै तस्मिन् देवि ! निवेदयेत् ।
लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्व्वति ! ॥
ज्यैष्ठे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः ।
अर्च्चयित्वा हृषीकेशमन्नं चूतफलैर्युतम् ॥
निवेदयित्वा भक्त्या वै गवां कोटिप्रदो भवेत् ॥
वैष्णवान् भोजयेन्नित्यं मासान्ते भक्तसत्तमः ।
ब्राह्मणांश्च शिवे ! सर्व्वं फलमानन्त्यमश्नुते ॥
पृष्ठ ३/२१३
आषाढे देवताधीशं लक्ष्मीभर्त्तारमच्युतम् ।
श्रीपुष्पैरर्च्चयेन्नित्यं पायसान्नं निवेदयेत् ॥
मासान्ते भोजयेद्विप्रान् महाभागवतोत्तमान् ।
षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयम् ॥
नभोमास्यर्च्चयेद्विष्णुं पुन्नागैः केतकीदलैः ।
अर्च्चयित्वाच्युतं भक्त्या न भूयो जन्मभाग्भवेत् ॥
दद्याद्वै पिष्टकान् भक्त्या शर्कराघृतमिश्रितान् ।
ब्राह्मणान् भोजयित्वा तु सर्व्वमानन्त्यमश्नुते ॥
नभस्यप्यर्च्चयेदीशं कुन्दैः कुरुवकैरपि ।
क्षीरान्नं गुडमिश्रन्तु भक्त्या तत्र निवेदयेत् ।
गवां कोटिप्रदानस्य प्रत्यहं समवाप्नुयात् ॥
इषे नीलोत्पलैर्मासि पूजयेम्मधुसूदनम् ।
भक्त्या निवेदयेत्तस्मिन् क्षीरमाज्यविमिश्रितम् ॥
कन्याकोटिसहस्राणि कन्याकोटिशतानि च ।
वैष्णवं लोकमाप्नोति मुदितः स्वजनैर्युतः ॥
ऊर्ज्जमासे स्वयं देवि ! कोमलैस्तुलसीदलैः ।
पूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् ॥”
इति पाद्मोत्तरखण्डे ७५ अध्यायः ॥
द्वादशमासादौ दुर्गापूजादि देवीपुराणे द्रष्ट-
व्यम् ॥
अथ देवपूजाविधिः ।
स्नातः स्नानासामर्थ्ये आर्द्रवाससा कृतगात्र-
मार्ज्जनादिर्गृ हसमीपं गत्वा प्राङ्मुख उदङ्मुखो वा
प्रक्षालितपादः शुचिर्द्विवासाः कुशहस्तः
स्वाचान्तः सर्व्वत्र वीरासनोपविष्टः प्राङ्मुखः
रात्रावुदङ्मुख एव मौनी ध्यानपरायणः काम-
रागभय-द्वन्द्वक्रोध-मात्सर्य्यत्वरा-रहितस्तन्मनाः
सुमना वा शुचौ समुपविष्टोऽनिष्टशब्दगन्ध-
रहिते देशे दक्षिणपार्श्वे नैवेद्याद्युपकरणानि
च वामपार्श्वे जलं पुरतो धूपदीपौ ताम्रादि-
पात्रञ्च यथासन्निवेशं पाद्यार्घ्याचमनीयपात्रं
जलादिपूर्णमग्रतः स्थापयित्वा यथालाभं यज्ञोप-
वीतवस्त्रालङ्करणादि संस्थाप्य ।
ॐ अपसर्पन्तु ते भूता ये भूता भूमिपालकाः ।
भूतानामविरोधेन पूजाकर्म्म करोम्यहम् ॥
इत्युच्चार्य्य अस्त्राय फडिति तर्ज्जन्यङ्गुष्ठयोग-
ध्वनिच्छोटिकया दशदिग्बन्धनं कुर्य्यात् ॥ * ॥
नादेवो देवमर्च्चयेदित्यनुरोधात् सर्व्वदेवार्च्चनेषु
भूतशुद्धिमाहुरागमिकाः । सा यथा, --
सोऽहमिति मन्त्रेण जीवात्मानं नाभितो हृदिस्थ-
परमात्मनि संयोज्य ततः पृथिवीं जले जलं
तेजसि तेजो वायौ ततो वायुमाकाशे प्रवेश्य
दक्षिणाङ्गुष्ठेन दक्षिणनासापुटं धृत्वा यमिति
वायुबीजेन षोडशवारजप्तेन वाय्वाकर्षणरूप-
पूरकसंज्ञया वायुचिन्तनरूपया वायव्याधार-
णया देहं शोषयित्वा ततो नासापुटावङ्गुष्ठा-
नामिकाभ्यां धृत्वा रमिति वह्निबीजेन चतुः-
षष्टिवारजप्तेन स्तम्भनरूपकुम्भकसंज्ञया अग्नि-
चिन्तनरूपया आग्नेय्या धारणया देहं दाह-
यित्वा लमितीन्द्रबीजेन द्वात्रिंशद्वारजप्तेन
दक्षिणनासापुटेन वायुनिःसारणरूपया रेचक-
संज्ञया ऐन्द्रध्यानरूपया ऐन्द्र्याधारणया स्थिरी-
कृत्य वमिति वरुणबीजेन चतुःषष्टिवारजप्तेन
जलाधिपध्यानरूपया जलाधिपधारणया चन्द्र-
मण्डलादमृतं स्रावयित्वा तेनाप्लाव्य प्रणवेन
सर्व्वाङ्गं संघटितं पुनर्नवीभूतं चिन्तयित्वा
वाय्वादिभूतानि व्योमादिभ्यो व्युत्क्रमेण बहिः
कृत्वा हंस इति मन्त्रेण परमात्मतो जीवं नाभि-
पद्मे न्यसेत् ॥ * ॥
तत ऋष्यादिन्यासः ।
गोपालमन्त्रे तु नारदाय ऋषये नमः शिरसि ।
गायत्त्रीच्छन्दसे नमो मुखे । श्रीकृष्णाय देवाय
नमो हृदि । एवमन्यत्रोहनीयम् ॥ * ॥
ततः प्राणायामः ।
तत्तन्मूलमन्त्रेण षोडशवारजप्तेन अङ्गुष्ठेन
दक्षिणनासापुटं धृत्वा वामनासया वायुं पूर-
येत् । अङ्गुष्ठानामिकाभ्यां नासापुटौ धृत्वा
चतुःषष्टिवारजप्तेन वायुं कुम्भयेत् । वामनासाम-
नामिकया धृत्वा दक्षिणनासया द्वात्रिंशद्वार-
जप्तेन वायुं त्यजेत् । पुनर्दक्षिणनासया पूरयेत् ।
उभाभ्यां कुम्भयेत् । वामनासया रेचयेत् ।
पुनर्वामया पूरयेत् । उभाभ्यां कुम्भयेत् । दक्षि-
णया रेचयेदिति ॥ * ॥
ततो वाह्यमातृकान्यासः । न्यासशब्दे द्रष्टव्यः ॥
अनेकदेवपूजने तु भूतशुद्धिमातृकान्यासयोर-
विशेषात् सकृदेवानुष्ठानम् ॥ * ॥
ततः करन्यासः ।
यथा गोपाले । ॐ क्लां अङ्गुष्ठाभ्यां नमः अङ्गु-
ष्ठयोः । ॐ क्लीं तर्जनीभ्यां स्वाहा तर्ज्जन्योः ।
ॐ क्लूं मध्यमाभ्यां वषट् मध्यमयोः । ॐ क्लैं
अनामिकाभ्यां हूं अनामिकयोः । ॐ क्लौं
कनिष्ठाभ्यां वौषट् कनिष्ठयोः । ॐ क्लः करतल-
पृष्ठाभ्यां फट् करतलपृष्ठयोः । एवमन्यत्राप्यूह्यम् ॥
ततोऽङ्गन्यासः ।
ॐ क्लां हृदयाय नमः हृदये हस्ततलेन । ॐ
क्लीं शिरसे स्वाहा अङ्गुष्ठाङ्गुलिभिः शिरसि ।
ॐ क्लूं शिखायै वषट् अधोमुखाङ्गुलिमुष्टिना
शिखायाम् । ॐ क्लैं कवचाय हूं व्यस्तकर-
तलाभ्यां आशिरःपादपर्य्यन्तरूपसर्व्वाङ्गे । ॐ
क्लौं नेत्राभ्यां वौषट् तर्जनीमध्यमाभ्यां नेत्रयोः ।
ॐ क्लः अस्त्राय फट् ऊर्द्ध्वाधस्तालत्रयं छोटि-
काभिर्दशदिग्बन्धनञ्च कुर्य्यात् । एवमन्यत्राप्यूह-
नीयम् । आगमोक्तादिपूजने तु भूतशुद्ध्यादि-
नियमः अन्यत्र त्वनियमः ॥ * ॥
ततोऽर्घ्यस्थापनम् ।
वामतोऽर्घ्यपाद्याद्याचमनीयपात्राणि संस्थाप्य
अर्घ्यपात्रं जलगन्धपुष्पैः संपूज्य तत्तद्देवता-
मूलमन्त्रं सर्व्वदेवतासाधारणे तु प्रणवं वा
अष्टधा जप्त्वा धेनुमुद्रया अमृतीकृत्य तदुदकं
पात्रान्तरे किञ्चित् कृत्वा तेनोदकेनात्मानं
पूजोपकरणञ्चाभ्युक्षयेत् । प्रणवादितत्तद्देवता-
चतुर्थ्यन्तनाम्ना नमोऽन्तेन मूलमन्त्रेण वा
आत्मानं गन्धादिभिरभ्यर्च्य तद्रूपं ध्यात्वा तत-
स्ताम्रपात्रे चन्दनादिरचिताष्टदलपद्मे सम्बो-
धनान्तदेवतानाम्ना इहागच्छेत्यावाह्य स्थाप-
यित्वा मूलेन चतुर्थ्यन्तनाम्ना आसनं दत्त्वा
सम्बोधनान्तनाम्ना स्वागतं ते इति पृच्छेत् ।
दीक्षितस्तु मूलमन्त्रमुच्चार्य्य प्रणवादिचतुर्थ्यन्त-
नाम्ना नमोऽन्तेन दद्यादिति विशेषः । एवं
पाद्यार्घ्याचमनीयादीनि दद्यात् । पाद्यार्ध्ययोः
पौर्ब्बापर्य्ये त्वनियमः । ततो घृतमधुदधिमेलक-
पलमितं कांस्यपात्रस्थं पिहितञ्च मधुपर्कं पुन-
राचमनीयञ्च दद्यात् । ततो लौकिकषष्ट्यधिक-
शतत्रयतोलकान्यूनवैदिकाष्टोत्तरशतपलान्यून-
जलेन तदभावे षष्टिरक्तिकमासद्वयाधिकत्रयो-
दशतोलकरूपवैदिकपलचतुष्टयान्यूनजलेन इदं
स्नानीयं एवं दुग्धादिनापि । घृतादिस्नाने तु
गन्धद्रव्यचूर्णकविरूक्षणमुष्णोदकेन क्षालनं चाङ्गं
ततः पुनराचमनीयं वाससी पुनराचमनीयं
दद्यात् । प्रत्येकमलङ्कारं यज्ञोपवीतं गन्धं पुष्पं
धूपं दीपं नैवेद्यं पुनराचमनीयं ताम्बूलं दत्त्वा
मूलमन्त्रं यथाशक्ति जप्त्वा समर्प्यत्रिः प्रदक्षिणी-
कृत्य अष्टाङ्गप्रणिपातेन पञ्चाङ्गप्रणिपातेन वा
शिरसि करद्वयसंयोगेन च प्रणम्य स्तुत्वा प्रण-
वादिसम्बोधनान्तनाम्ना क्षमस्वेति विसर्ज्जयेत् ।
यत्र यदुपचारद्रव्यासम्भवस्तदर्थं जलं देयम् ।
प्रतिष्ठितस्थिरतरप्रतिमायां तत्तदावाहनविस-
र्ज्जने न स्तः । एवं शालग्रामे जले वा सर्व्व-
देवपूजनेऽपि यथालाभं पाद्यादिदशोपचारैः ।
गन्धपुष्पधूपदीपनैवेद्यैः पञ्चोपचारैः गन्ध-
पुष्पाभ्यां वा केवलेन पुष्पेण केवलेनाक्ष-
तेन केवलेन जलेन मानसिकेन वा पूज-
येत् । तत्र सामान्यदेवताधूपः शारदायाम् ।
सगुग्गुल्वगुरूशीरशर्करामधुचन्दनैः ।
धूपयेदाज्यसंमिश्रैर्नीचैर्देवाय देशिकः ॥
एतैर्मिलितैर्यथालाभं वा । इति सर्व्वदेवता-
साधारणो विधिः ॥ * ॥
ततः प्रथमं सूर्य्यपूजा ।
ॐ सूर्य्यायनमः इति पूजयेत् । तत्र गन्धाः ।
चन्दनागुरुकर्पूरवीरणमूलपद्मकाष्ठरक्तचन्द-
नानि । पुष्पाणि । मल्लिकामालतीकरवीरचम्पक-
पाटलावकुलतगरपीतझिण्टीकुन्दनवमल्लिका-
शोकपद्मागस्त्यजवापुष्पाणि विहितानि । तुलसी-
कृष्णतुलसीदूर्व्वाविल्वपत्राणि राजिताकाञ्च्येक-
दलतगरमुद्गलानि निषिद्धानि । धूपाश्च । गुग्-
गुल्वगुरुदेवदारुविल्वानि । दीपस्तु घृतेन तैलेन
वा । नैवेद्यानि विविधभक्ष्याणि ॥ * ॥
अथ गणेशपूजा ।
तदावाहने । ॐ भूर्भुवःस्वर्गणेश इहागच्छ
इति दूर्व्वापुष्पाक्षतैरावाह्य ॐ गणेशाय नम
इत्यनेन पूजयेत् । तत्र तुलसी निषिद्धा । रक्त-
चन्दनरक्तपुष्पादिकं विहितम् । देवतान्तरप्रसिद्धं
अन्यत् मुकुलादिकं न देयम् ॥ * ॥
अथ दुर्गापूजा ।
ॐ भूर्भुवःस्वर्दुर्गे इहागच्छ इति पुष्पाक्षतैरा-
वाह्य ॐ दुर्गायै नम इत्यनेन पूजयेत् । तत्र
पृष्ठ ३/२१४
गन्धाः चन्दनागुरुकर्पूरकुङ्कुमानि । पुष्पाणि
मल्लिकोत्पलपुन्नागशमीचम्पकाशोककर्णिकार-
करवीरतुलसीविल्वपत्रादीनि विहितानि ।
मुकुलार्कमन्दारपुष्पाणि निषिद्धानि । धूपाः
कृष्णागुरुसहितघृतमहिषाक्षगुग्गुलुविल्वान्य-
तमानि वीरणमूलचन्दनेऽपि । दीपस्तु घृतेन
तैलेन वा । नैवेद्यानि आम्रनारिकेलखर्ज्जूर-
कदलीबीजपूरादीनि । क्वथितं विद्धं फलं निषि-
द्धम् । यत्नपक्वकदलीफलमपि विहितम् ॥ * ॥
अथ शिवपूजा ।
उदङ् मुखः ॐ नमः शिवाय नमः इति मन्त्रेण
पूजयेत् । तत्र गन्धः अगुरुचन्दने । पुष्पाणि च
अर्ककरवीरजातीवकुलपाटलाश्वेतमन्दारनाग-
केशरचम्पक-धुस्तूरविल्वामलक-तुलसीपत्राणि
विहितानि । केतकीमाधवीपुष्पकुन्दयूथीमद-
न्तिकाशिरीषसर्जबन्धूकमुकुलमात्राणि निषि-
द्धानि । धूपस्तु घृतगुग्गुलुविल्वफलानि उशीरा-
गुरुचन्दनानि च । दीपस्तु घृतेन तैलेन सर्षपा-
दिना वा । नैवेद्यानि गुडखण्डघृतपक्वमातुलुङ्ग-
फलादीनि ॥ * ॥
अथ पार्थिवशिवलिङ्गपूजाविधिः ।
ॐ हराय नम इति मृदाहरणम् । ॐ महे-
श्वराय नम इति घटनम् । ॐ शूलपाणे इह
सुप्रतिष्ठितो भव इति प्रतिष्ठा । आचारात्
ध्यायेन्नित्यमित्यादिना शारदोक्तं ध्यायेत् ।
पिनाकधृक् इहागच्छ इत्यावाहनम् । ॐ पशु-
पतये नम इति स्नपनम् । एतत् पाद्यं ॐ
नमः शिवाय नम इति पाद्यादिभिः संपूज्य
वामावर्त्तेन वेद्यां प्राच्यादिषु ॐ सर्व्वाय क्षिति-
मूर्त्तये नमः ॐ भवाय जलमूर्त्तये नमः ॐ
रुद्राय अग्निमूर्त्तये नमः ॐ उग्राय वायुमूर्त्तये
नमः ॐ भीमाय आकाशमूर्त्तये नमः ॐ पशु-
पतये यजमानमूर्त्तये नमः ॐ महादेवाय
सोममूर्त्तये नमः ॐ ईशानाय सूर्य्यमूर्त्तये नमः ।
इत्यष्टमूर्त्तीः पुष्पैः पूजयेत् । ततो मुखवाद्यं कृत्वा
महादेव क्षमस्वेति संहारमुद्रया विसर्ज्जयेत् ।
स्त्रीशूद्रस्तु नमः शिवायेति मन्त्रेण पूजयेत् ॥ * ॥
अथ विष्णुपूजा ।
शङ्खाद्यर्घ्यपात्रं पुरतो निधाय त्रिभागजलेना-
पूर्य्य वमिति धेनुमुद्रया अमृतीकृत्य ॐ विष्णवे
नम इत्यष्टधा जपित्वा तेनोदकेनात्मानं पूजोप-
करणञ्चाभ्युक्षेत् । दीक्षितस्तु तन्मन्त्रमुच्चार्य्य
तन्नाम्ना पूजयेत् अङ्गाद्यावरणञ्च पूजयेत् शाल-
ग्रामे मणौ प्रतिमाष्टदलपद्मजलादिषु । तत्र
शालग्रामे आवाहनविसर्ज्जने न स्तः । ध्येयः
सदेत्यादिना ध्यात्वा ॐ भगवन् विष्णो इहा-
गच्छेत्याद्यक्षतपुष्पैरावाह्य इदमासनं ॐ
श्रीविष्णवे नमः ॐ विष्णो स्वागतमिति पृच्छेत्
एतत् पाद्यं ॐ विष्णवे नमः सामगस्तु इदमर्घ्यं
ॐ विष्णवे नमः इति वदेत् । तदितरस्तु एषो-
ऽर्घ इति विशेषः । तत्र द्रव्याणि कुशपुष्पाक्षत-
सिद्धार्थचन्दनतोयानि यथालाभं वा अर्ध्यपाद्य-
योस्तु पौर्ब्बापर्य्येण नियमः । आचमनीये सुगन्धि-
द्रव्ययुक्तजलं केवलं वा प्रशस्तजलम् । घृतमधु-
दध्यात्मको मधुपर्कः तदभावे केवलं वा मधु ।
पूर्ब्बवदिदमाचमनीयं इदं स्नानीयं तत्र लौकिक-
षष्ट्यधिकशतत्रयतोलकान्यूनं जलम् । पुनराच-
मनीयं इदं वस्त्रं पुनराचमनीयं इदमाभरणं
पुनराचमनीयं गन्धस्तु अङ्गुष्ठयुक्तकनिष्ठया गन्ध-
मुद्रया तत्र चन्दनागुरुकर्पूरकुङ्कुमवीरणमूल-
पद्मकाष्ठसिह्लकरक्तचन्दनकस्तूरिकाजातीफलानि
घृष्टानि एतच्चूर्णानि वा एतद्दाहाकृष्टरसो वा
पुष्पाणि च तर्ज्जन्यङ्गुष्ठयोगरूपपुष्पमुद्रया तत्र
मल्लिका-मालतीजाती-केतक्यशोक-चम्पकनाग-
केशरवकुल-पद्मोत्पलतुलसी-विल्वकरवीरपारि-
भद्रपाटलाश्वेतापराजिताबहुदलतगरश्वेतजवा-
रक्ताशोकशणपुष्पभूमिचम्पकशेफालीनवमालि-
कायूथिकाकदम्बकुन्दलवङ्गमाधवीपुष्पवकबन्धूक-
कुरुवकविल्वपुष्प-बहुवारक-कह्लारद्रोणपलाश-
पुष्पाणि विहितानि । नरसिंहेतरावतारे केतकी
निषिद्धा । पर्य्युषितमच्छिद्राप्रोक्षितस्वयंपतितोप-
हतमध्याह्नस्नानोत्तरत्रुटितपद्मचम्पकेतरकलि-
कातुलसीतरशुष्कपत्रपरिहित-पुष्पविहितेतर-
रक्तपुष्पचैत्यवृक्षोद्भवश्मशानजात-कुटज-शा-
ल्मलीशिरीषपुष्पाणि निषिद्धानि । ब्राह्मणेतरस्य
वनोद्भवानि च । विहितपत्राणि तुलसीविल्व-
शमीभृङ्गराजतमालामलककेतकीपत्राणि । पद्म-
कुन्दोत्पलानि पञ्चदिनात् परतः पर्युषितानि ।
तुलस्यगस्त्यविल्वानि कदापि न पर्युषितानि ।
धूपस्थानञ्च देवस्य वामे पुरतो वा । तर्ज्जन्यङ्गुष्ठ-
योगरूपधूपमुद्रया वामहस्तेन घण्टां वादयन्
देयः । स च भूमौ न देयः । धूपश्च जटामांसी-
महिषाक्षगुग्गुलुकर्पूरागुरुसिह्लकदेवदारुजाती-
फलशारदोक्तमिश्रितगुग्गुल्वादयः । दीपस्थानं
देवस्य दक्षिणतः पुरतो वा । मध्याङ्गुष्ठयोगरूप-
दीपमुद्रया एष दीपः घृतेन तैलेन वा भूमौ न
देयः । नैवेद्यस्थानञ्च देवपृष्ठेतरदेशः । अना-
मिकाङ्गुष्ठयोगरूपनैवेद्यमुद्रया एतन्नैवेद्यं तत्र
कदली-पनस-जम्बूलवनी-करमर्दक-हविःसंस्कृत-
तिलमाषमुद्गयवगोधूमव्रीहिशाल्यन्नं विहितम् ।
निषिद्धन्तु अजामहिषीक्षीरदधिघृतं पञ्चनख
वराह-मत्स्य-मृग-च्छागेतरमांस-हिरण्योदक-
स्पर्शेतरश्वचाण्डालदृष्टविडालाद्युच्छिष्टस्नेहाक्त-
पर्य्युषितेतरभक्ष्यम् । खण्डादीनि यवगोधूमक्षीर-
विकाराश्च न पर्य्युषिताः । ततः पुनराचमनीयं
ताम्बूलञ्च दत्त्वा अष्टोत्तरसहस्रं शतं दश वा
उत्तरीयवस्त्रेण छादितहृद्देशे स्थिततिर्य्यग्भूत-
दक्षिणकरः यथाशक्ति मूलमन्त्रं जपित्वा
ॐ गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव ! त्वत्प्रसादात् त्वयि स्थिते ॥
इत्यर्घ्योदकेन देवहस्ते जलं दद्यात् । ततोऽर्घ्य-
शङ्खं गृहीत्वा त्रिः प्रदक्षिणीकृत्य,
ध्येयं सदा परिभवघ्नमभीष्ठदोहं
तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।
भृत्यार्त्तिहं प्रणतपालभवाब्धिपोतं
वन्दे महापुरुष ! ते चरणारविन्दम् ॥
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं
धर्म्मिष्ठ ! आर्य्यवचसा यदगादरण्यम् ।
मायामृगं दयितयेप्सितमन्वधाव-
द्वन्दे महापुरुष ! ते चरणारघिन्दम् ॥
इति स्तुत्वा ॐ प्रसीद भगवन्निति दण्डवत्
प्रणमेत् ।
ॐ यत् किञ्चित् क्रियते देव मया सुकृतदुष्कृ-
तम् ।
तत् सर्व्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥
इत्यनेन सर्व्वं समर्पयेत् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्द्दन ।
यत् पूजितं मया देव ! परिपूर्णं तदस्तु मे ॥
इति प्रार्थयेत् ॥ ततः संहारमुद्रया निर्म्माल्य-
पुष्पमादाय भूमौ त्यजेत् विसर्ज्जनसत्त्वे ॐ
भगवन् विष्णो क्षमस्वेति विसर्ज्जयेत् तदसत्त्वे
निर्म्माल्यपुष्पमादाय ।
ॐ तिष्ठ देव परे स्थाने स्वस्थाने परमेश्वर ।
यत्र ब्रह्मादयः सर्व्वे सुरास्तिष्ठन्ति मे हृदि ॥
इति मन्त्रेण देवं हृदि स्थापयेत् । तत ॐ
विष्वक्सेनाय नम इति गन्धपुष्पनैवेद्याग्रं
दद्यात् । ततो वैष्णवाय तन्निर्म्माल्यं अनुलेपनं
नैवेद्यञ्च किञ्चिद्दत्त्वा शिरसि निर्म्माल्यं धार्य्यं
सर्व्वाङ्गेष्वनुलेपनं कृत्वा यथाकालं पादोदकं
नैवेद्यञ्चोपभुञ्जीत । तत्र पादोदकग्रहणे मन्त्रः ।
ॐ कृष्ण कृष्ण महावाहो भक्तानामार्त्तिनाशन ।
सर्व्वपापप्रशमनं पादोदकं प्रयच्छ मे ॥
ततस्तत्पानादौ परोदितेष्टदेवतानाम श्रुत्वा
स्वयं त्रिरुच्चार्य्य पादोदकं पीत्वा तच्छेषम् ।
अकालमृत्युशमनं सर्व्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पुण्यं शिरसा धारयाम्यहम् ॥
इति शिरसि धारयेत् ॥ नैवेद्यभक्षणे मन्त्रः ।
ॐ उच्छिष्टभोजिनस्तस्य वयमुच्छिष्टकाङ्क्षिणः ।
येन लीलावराहेण हिरण्याख्यो निपातितः ॥
इत्युच्चार्य्य भक्षयेत् ॥ * ॥ यथालाभं दशोपचारेण
वा पूजयेत् । तत्र दशोपचाराः । अर्घ्यपाद्याचम-
नीयमधुपर्काचमनगन्धपुष्पधूपदीपनैवेद्यानि ।
पञ्चोपचाराः । गन्धपुष्पधूपदीपनैवेद्यानि । गन्ध-
पुष्पाभ्यां वा केवलपुष्पेण केवलजलेन वा पूज-
येत् ततोऽग्निब्रह्मसरस्वतीलक्ष्मीणां पूजनम् ।
इत्याह्निकप्रयोगतत्त्वम् ॥ * ॥ तन्त्रोक्तसामान्य-
पूजा कलावतीशब्दे द्रष्टव्या ॥

पूजार्हः, त्रि, (पूजामर्हतीति । पूजा + अर्ह +

“अर्हः ।” ३ । २ । १२ । इत्यच् ।) पूजा-
योग्यः । मान्यः । इति शब्दरत्नावली ॥ (यथा,
मनुः । ९ । २६ ।
“प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥”)