शब्दकल्पद्रुमः/पाणिः

विकिस्रोतः तः
पृष्ठ ३/१०२

पाणिः, स्त्री, (पणायन्ते व्यवहरन्त्यस्यामिति ।

पण + “अशिपणाय्यो रुडायलुकौ च ।” उणां
४ । १३२ । इति इण् आयप्रत्ययस्य लुक् च ।)
पण्यवीथी । हट्टः । इत्युणादिकोषः ॥

पाणिः, पुं, (पणायन्ते व्यवहरन्त्यनेन । पण ङ

व्यवहारे + “अशिपणाय्यो रुडायलुकौ च ।”
उणां ४ । १३२ । इति इण् आयप्रत्ययस्य लुक्
च ।) स च मणिबन्धावध्यङ्गुलिपर्य्यन्तभागः ।
स तु गर्भस्थबालकस्य मासद्वयेन भवति ॥ इति
सुखबोधः ॥ तत्पर्य्यायः । पञ्चशाखः २ शयः
३ समः ४ हस्तः ५ करः ६ । इत्यमरभरतौ ॥
भुजः ७ । इति जटाधरः ॥ कुलिः ८ । इति
शब्दरत्नावली ॥ भुजादलः ९ । इति त्रिकाण्ड-
शेषः ॥ (यथा, देवीभागवते । २ । २ । १९ ।
“मृगनाभिसुगन्धां तां कृत्वा कान्तां मनो-
रमाम् ।
जग्राह दक्षिणे पाणौ मुनिर्म्मन्मथपीडितः ॥”)
कुलिकवृक्षः । इति रत्नमाला ॥ कुलियाकडा
इति भाषा ॥

पाणिकच्छपिका, स्त्री, (कच्छपः कूर्म्मस्तदाकारो-

ऽस्त्यस्याः । कच्छप + ठन् । टापि अत इत्वञ्च ।
पाणिभ्यां कृता कच्छपिका कूर्म्माकृतिमुद्रा ।)
कूर्म्ममुद्रा । यथा, --
“पाणिकच्छपिकां कुर्य्यात् कूर्म्ममन्त्रेण साधकः ।
तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः ॥
पूजितं तेन पुष्पेण देवत्वं स्वस्य जायते ॥”
कूर्म्ममन्त्रो यथा, --
“द्वितीयं वैष्णवीतन्त्रं बीजं बिन्द्विन्दुसंयुतम् ।
षष्ठस्वरो परिचरं कूर्म्मबीजं प्रकीर्त्तितम् ॥”
इति कालिकापुराणे ५६ अध्यायः ॥

पाणिगृहीती, स्त्री, (पाणिर्गृहीतो यस्याः ।

“पाणिगृहीती भार्य्यायाम् ।” ४ । १ । ५२ ।
इत्यस्य वार्त्तिकोक्त्या ङीष् ।) विधानेनोढा ।
इत्यमरः । २ । ६ । ५ ॥

पाणिग्रहणं, क्ली, (पाणेर्ग्रहणं यत्र ।) विवाहः ।

इति हेमचन्द्रः । ३ । १८२ ॥ (यथा, रघुः ।
७ । २९ ।
“इति स्वसुर्भोजकुलप्रदीपः
सम्पाद्य पाणिग्रहणं स राजा ।
मर्हीपतीनां पृथगर्हनार्थं
समादिदेशाधिकृतानधिश्रीः ॥”)

पाणिघः, पुं, (पाणिं पाणिना वा हन्तीति ।

हन + “पाणिघताडघौ शिल्पिनि ।” ३ । २ ।
५५ । इति टक् टिलोपो घत्वञ्च निपात्यते ।)
पाणिवादः । पाणिना मृदङ्गादिवाद्यम् । पाणिं
वा हन्ति यः । यः पाणिनैव मृदङ्गादिवाद्य-
मतपादयति तत्र । यः पाणिना मृदङ्गमिव
पाणिं वादयति तत्र च । इत्यमरभरतौ ॥

पाणिघातः, पुं, (पाणिना हन्तीति । हन् +

अशिल्पित्वात् अण् ।) पाणिताडकः । इति
सिद्धान्तकौमुदी ॥ (हन + भावे घञ् । पाणिना
घातो हननमिति । पाणिहननम् ॥)

पाणिजः, पुं, (पाणौ जायते इति । पाणि + जन्

+ “सप्तम्यां जनेर्डः ।” ३ । २ । ९७ । इति
डः ।) नखः । इति हलायुधः ॥

पाणितलं, क्ली, (पाणितलमिव परिमाणमस्त्य-

स्येति । अच् ।) कर्षपरिमाणम् । तोलकद्बयम् ।
इति वैद्यकपरिभाषा ॥ (पर्य्यायोऽस्या यथा, --
“कोलद्वयञ्च कर्षः स्यात् स प्रोक्ता पाणिमालिका ।
अक्षं पिचुःपाणितलं किञ्चित्पाणिश्च तिन्दुकम् ॥
विडालपदकञ्चैव सुवर्णं कवलग्रहः ।
उदम्बरश्च पर्य्यायैः कर्ष एव निगद्यते ॥”
इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥
पर्य्यायान्तरं यथा, --
“विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव च ।
विडालपदकन्तच्च पिचुम्पाणितलन्तथा ॥
तिन्दुकञ्च विजानीयात् कवडग्रहमेव च ॥”
इति चरके कल्पस्थाने द्वादशेऽध्याये ॥
पाणेस्तलम् ।) हस्ताधोभागः ॥ (यथा,
मनौ । ४ । १४३ ।
“स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्व्वाणि नाभिं पाणितलेन तु ॥”)

पाणिनः, पुं, (पणिनो मुनेर्गोत्रापत्यम् । पणिन् +

अण् । “गाथिविदथिकेशिगणिपणिनश्च ।”
६ । ४ । १६५ । इति न टिलोपः ।) पाणिनि-
मुनिः । इति त्रिकाण्डशेषः ॥

पाणिनिः, पुं, (पणिनो मुनेर्युवापत्यम् । पणिन् +

इञ् । न टिलोपः ।) मुनिविशेषः । तत्पर्य्यायः ।
आहिकः २ दाक्षीपुत्त्रः ३ शालङ्की ४ पाणिनः
५ शालातुरीयः ६ । इति त्रिकाण्डशेषः ॥ * ॥
(अयं हि पणिन्-वंशसम्भूतः प्रसिद्धो व्याकरण-
कर्त्ता । अस्य माता दाक्षी इत्याख्यया विश्रुता ।
यथा, पातञ्जलकारिकायाम् । १ । १ । २० ।
“सर्व्वे सर्व्वपदादेशा दाक्षीपुत्त्रस्य पाणिनेः ॥”
तथाच शिक्षायाम् । ५६ ।
“शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्त्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥”
अस्य शालातुरीय इत्याख्यापि दृश्यते । यथा,
अभिधानचिन्तामणौ । ३ । ५१५ ।
“ -- अथ पाणिनौ ।
शालातुरीयदाक्षेयौ -- ॥”
“गान्धारप्रदेशविशेषशलातुरग्रामजातत्वा-
देवास्य तथा नाम ।” इति चिन्तामणिटीका ॥
परे तु शलातुरग्रामोऽस्य जन्मस्थानमिति न
स्वीकुर्व्वन्ति । यतः शलातुरोऽभिजनोऽस्य इति
व्युत्पत्त्या शालातुरशब्देन शलातुरदेशोद्भवे
जने एवार्थो नावगम्यते । अष्टाध्यायीसूत्र-
पाठस्य “तूदीशलातुरवर्म्मतीकूचवारात् ढक्
छण् ढञ् यकः ।” ४ । ३ । ९४ । सूत्रात् अभि-
जनार्थे एव छण्प्रत्ययः । वृत्तिकारभट्टोजी-
दीक्षितेन तु “अभिजनश्च ।” ४ । ३ । ९० ।
इति सूत्रे “यत्र स्वयं वसति स निवासः । यत्र
पूर्ब्बैरुषितं सोऽभिजनः ।” इत्यभिजनशब्द-
स्यार्थः प्रदर्शितः । अतः स्पष्टतः शलातुर-
प्रदेशः पाणिनेः पूर्ब्बपुरुषाणां वासस्थानमित्ये-
वावगम्यते नतु तस्येति ।
पुरा किल कात्यायननामा मुनिः सप्तलक्ष-
श्लोकात्मकं बृहत्कथामिधानं ग्रन्थं विरचय्य
काणभूतये श्रावयामास । सोमदेवभट्टस्तु ततः
सारांशं समुद्धृत्य कथासरित्सागर इत्याख्यया
प्रसिद्धं ग्रन्थं निर्म्मितवान् तस्मादेषाख्यायिका
समधिगम्यते । यथा, तत्रैव । ४ । २० -- ९५ ।
“अथ कालेन वर्षस्य शिष्यवर्गो महानभूत् ।
तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत् ॥
स शुश्रूषापरिक्लिष्टः प्रेषितो वर्षभार्य्यया ।
अगच्छत् तपसे खिन्नो विद्याकामो हिमालयम् ॥
तत्र तीव्रेण तपसा तोषितादिन्दुशेखरात् ।
सर्व्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ॥
ततश्चागत्य मामेव वादायाह्वयते स्म सः ।
प्रवृत्ते चावयोर्वादे प्रयाताः सप्तवासराः ॥
अष्टमेऽह्नि मया तस्मिन् जिते तत्समनन्तरम् ।
नभःस्थेन महाघोरो हूङ्कारः शम्भुना कृतः ॥
तेन प्रनष्टमैन्द्रन्तदस्मद्व्याकरणं भुवि ।
जिताः पाणिनिना सर्व्वे मूर्खीभूता वयं पुनः ॥
अथ संजातनिर्व्वेदः स्वगृहस्थितये धनम् ।
हस्ते हिरण्यदत्तस्य विधाय बणिजो निजम् ॥
उक्त्वा तच्चोपकोशायै गतवानस्मि शङ्करम् ।
तपोभिराराधयितुं निराहारो हिमाचलम् ॥”
“अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः ।
आराधितो मया देवो वरदः पार्व्वतीपतिः ॥
तदैव तेन शास्त्रं मे पाणिनीयं प्रकाशितम् ।
तदिच्छानुग्रहादेव मया पूर्णीकृतञ्च तत् ॥”
“वर्षोऽथ मन्मुखादैच्छत् श्रोतुं व्याकरणं नवम् ।
ततः प्रकाशितं स्वामिकुमारेणैव तस्य तत् ॥
ततो व्याडीन्द्रदत्ताभ्यां विज्ञप्तो दक्षिणां प्रति ।
गुरुर्वर्षोऽब्रवीत् स्वर्णकोटिर्मे दीयतामिति ॥
अङ्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम् ।
एहि राज्ञः सखे ! नन्दात् याचितुं गुरुदक्षिणाम्
गच्छामो नान्यतोऽस्माभिरियत् काञ्चनमाप्यते ।
नवाधिकाया नवतेः कोटीनामधिपो हि सः ॥”
इत्युपाख्यानेन पाणिनिः कात्यायनस्य राज्ञो-
नन्दस्य च समसामयिक इत्येवायाति । परं
कात्यायनपाणिन्योः शब्दशास्त्रपाठेन पाणिनिः
कात्यायनात् पूर्ब्बतन इत्यनायासेनैव विज्ञायते ।
यतः कात्यायन एव पाणिनिकृतव्याकरणस्य
वार्त्तिककारः । स च स्वकृतग्रन्थे विदुषां वरं
पाणिनिं आचार्य्यत्वेन स्वीकृतवान् । [६ । ४ ।
१०४ । सूत्त्रस्य वार्त्तिं ।] पाणिनिस्तु स्वीय-
व्याकरणे पूर्ब्बतनानां बहूनां विदुषां नामोल्लेखं
कृतवान् परं कुत्रापि कात्यायनस्य नाम नाभि-
हितवानतः स्पष्टतोऽवगम्यते पाणिनिः कात्या-
यनात् वृद्धतर इति ।
अनेन महात्मना पाणिना रचितं व्याकरणं
पाणिनीयाष्टकमित्याख्यया प्रसिद्धम् । कात्ययन
पृष्ठ ३/१०३
एवास्य वार्त्तिकं विधाय तीव्रसमालोचना-
ञ्चकार । परं पतञ्जलिः सूत्रपाठस्य वार्त्तिकस्य
च महाभाष्यं विधाय सर्व्वतः प्रमादपरिशून्योऽयं
पाणिनीयाष्टाध्यायीग्रन्थ इति प्रदर्शयन् कात्या-
यनतीव्रदृष्टेः ररक्षैणं समादरणीयं ग्रन्थमुत्त-
मम् । अष्टाध्यायीप्रारम्भे तु चतुर्द्दशसूत्राणि
सन्ति तानि तु प्रत्याहारसूत्राणि ।
अष्टाध्यायीसूत्रपाठे, आपिशलिः । ६ । १ । ९२ ।
गालवः । ६ । ३ । ६१ । चाक्रवर्म्मणः । ६ । १ ।
१३० । स्फोटायनः । ६ । १ । १२३ । काश्यपः ।
८ । ४ । ६७ । गार्ग्यः । ८ । ४ । ६७ । भार-
द्वाजः । ७ । २ । ६३ । सेनकः ५ । ४ । ११२ ।
शाकटायनः । ३ । ४ । १११ । शाकल्यः । १ । १ । १६ ।
एतेषां पूर्ब्बतनवैयाकरणानां नामानि सन्ति ।
अत्र ३९९६ संख्यकानि सूत्राणि विद्यन्ते ।
काश्मीरराजस्य जयापीडस्य राजत्वसमये
पाणिनिव्याकरणं वार्त्तिकेन महाभाष्येण च
सह विशेषविद्यार्थिसुधीवरविद्बज्जनशिक्षार्थं
प्रचलितमासीत् । यथा, राजतरङ्गिण्याम् । ४ ।
६३८ -- ६४० ।
“नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः ।
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥
भाष्यव्याख्याक्षणे श्लोकैर्व्वैलक्षण्यहतैः कृतः ।
सोऽयं तस्य विपर्य्यासो बुधैरिव विवर्त्तितः ॥
कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः ।
श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥”
कात्यायनकृतवार्त्तिकात् पतञ्जलिकृतमहा-
भाष्याच्च अन्या अपि अष्टाध्यायीसूत्रपाठस्य
उल्लिखितमहाभाष्यस्य च बह्व्यष्टीकाः सन्ति
बाहुल्यभिया तासां नामानि न प्रदत्तानि ॥ * ॥)

पाणिनीयं, त्रि, (पाणिनिना प्रोक्तं उपदिष्टं वा ।

पाणिनि + “वृद्धाच्छः ।” ४ । २ । ११४ । इति
छः ।) पाणिनिना कृतं ग्रन्थादि । इति मुग्ध-
बोधव्याकरणम् ॥

पाणिन्धमः, त्रि, (पाणिं धमतीति । ध्मा शब्दाग्नि-

संयोगयोः + “उग्रंपश्येरम्मदपाणिन्धमाश्च ।”
३ । २ । ३७ । इति खश् मुम् च ।) हस्तकर्म्म-
ताकाग्निसंयोगकर्त्ता । एवं शब्दकर्त्ता च ।
इति मुग्धबोधव्याकरणम् ॥ (“पाणयो ध्मायन्ते
ऽस्मिन्निति पाणिन्धमोऽध्वा । अन्धकाराद्यावृत
इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयः
शब्द्यन्ते ।” इति सिद्धान्तकौमुदी ॥)

पाणिन्धयः, त्रि, (पाणिभ्यां धयति पिबतीति ।

धेट पाने + “नाडीशुनीस्तनकरमुष्ठिपाणि-
नासिकात् ध्मश्च ।” इति सूत्रात् खश्प्रत्ययेन
साधुः ।) पाणिद्वारा पानकर्त्ता । इति मुग्ध-
बोधव्याकरणम् ॥

पाणिपादं, क्ली, पाणिश्च पादश्च द्वयोः समाहारः ।

पाणिपादयोः समाहारः । इति व्याकरणम् ॥

पाणिपीडनं, क्ली, (पाणेः पीडनं ग्रहणं यत्र ।)

पाणिग्रहणम् । विवाहः । इत्यमरः ॥ (पाणिभ्यां
पीडनमिति विग्रहे क्रोधादिना हस्तमर्द्दनम् ॥)

पाणिभुक्, [ज्] पुं, (पाणिनेव भुज्यते दीयतेऽनेन

चर्व्वादिहव्यं यद्वा, पाणिरिव भुज्यते यज्ञादि-
स्थले व्यवह्नियते इति । भुज् + क्विप् ।) उडुम्बर-
वृक्षः । इति शब्दचन्द्रिका ॥ (पाणिना भुङ्क्ते
इति । भुज् + क्विप् ।) पाणिकरणकभोक्तरि, त्रि ॥

पाणिमर्द्दः, पुं, (पाणिं मृद्नातीति । पाणि + मृद्

+ “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) कर-
मर्द्दकः । इति राजनिर्घण्टः ॥

पाणिमुक्तं, क्ली, (पाणिभ्यां मुक्तं परित्यक्तम् ।)

अस्त्रम् । इति हलायुधः ॥

पाणिरुहः, पुं, (पाणौ रोहतीति । रुह + “इगुप-

धज्ञेति ।” ३ । १ । १३५ । इति कः ।) नखः ।
इति राजनिर्घण्टः ॥

पाणिवादः, त्रि, (पाणिं पाणिना वा वादयतीति ।

वद + णिच् + अण् ।) पाणिघः । मृदङ्गादि-
वादकः । इत्यमरः ॥ (पाणिना वाद्यते इति ।
वद् + णिच् + कर्म्मणि घञ् । मृदङ्गादौ, क्ली ।
यथा, रामायणे । २ । ६५ । ४ ।
“अपदानान्युदाहृत्य पाणिवादान्यवादयन् ॥”)

पाणिवादकः, त्रि, (पाणिं पाणिना वा वादय-

तीति । वद् + णिच् + ण्वुल् ।) पाणिवादः ।
इति हेमचन्द्रः । ३ । ५८९ ॥ (यथा, रामा-
यणे । २ । ६५ । ४ ।
“ततस्तु स्तुवतां तेषां सूतानां पाणिवादकाः ।
अपदानान्युदाहृत्य पाणिवादान्यवादयन् ॥”)

पाणिसर्ग्या, स्त्री, (पाणिभ्यां सृज्यतेऽसौ । सृजौ

श विसर्गे + “पाणौ सृजेण्येत् वाच्यः ।” इति
ण्यत् । “चजोः कुः घिण्ण्यतोः ।” ७ । ३ । ५२ ।
इति कुत्वम् ।) रज्जुः । इति मुग्धबोधव्याक-
रणम् ॥

पाणीतलं, क्ली, (पाणितलं निपातनात् दीर्घः ।)

तोलकद्वयम् । यथा, --
“विडालपदकर्षौ च् पाणीतलमुडुम्बरम् ॥”
इति शब्दमाला ॥

पाणौकरणं, क्ली, (पाणौ क्रियतेऽनेनास्मिन् वा ।

कृ + ल्युट् । सप्तम्याः अलुक् ।) विवाहः ।
इति जटाधरः ॥

पाण्डरं, क्ली, (पाण्डरो वर्णोऽस्त्यस्येति । अच् ।)

कुन्दपुष्पम् । गैरिकम् । इति शब्दचन्द्रिका ॥

पाण्डरः, पुं, (पाण्डरः शुक्लवर्णोऽस्त्यस्येति । अच् ।)

मरुवकवृक्षः । (पडि + अर + दीर्घश्च ।)
श्वेतवर्णः । (पर्व्वतविशेषः । स तु मेरोः पश्चिमे
वर्त्तते । यथा, मार्कण्डेये । ५५ । १० ।
“अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चाचलोत्तमः ॥”
“पश्चिमेन तथा मेरोर्विस्कम्भात् पश्चिमाद्बहिः ।
एतेऽचलाः समाख्याताः -- ॥”
ऐरावतकुलोत्पन्ननागविशेषः । यथा, महा-
भारते । १ । ५७ । ११ -- १२ ।
“पारावतः पारिजातः पाण्डरो हरिणः कृशः ।
विहङ्गः शरभो मेदः प्रमोदः संहतापनः ॥
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”
पक्षिविशेषः । यथा, ज्योतिस्तत्त्वधृतवचनम् ।
“गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव च ।
चिल्लश्च धर्म्मचिल्लश्च भासः पाण्डर एव च ।
गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते ॥”)
तद्बर्णविशिष्टे, त्रि । इत्युणादिकोषः ॥ (यथा,
हरिवंशे । ८२ । ५० ।
“असिताम्बरसंवीतं पाण्डरं पाण्डरासनम् ॥”)

पाण्डरपुष्पिका, स्त्री, (पाण्डरं शुक्लवर्णं पुष्प-

मस्याः । कप् । ततः कापि अत इत्वम् ।)
शीतलावृक्षः । इति शब्दचन्द्रिका ॥

पाण्डवः, पुं, (पाण्डोस्तदाख्यया प्रसिद्धस्य राज्ञो-

ऽपत्यम् । पाण्डु + “ओरञ् ।” ४ । २ । ७१ ।
इत्यञ् ।) पाण्डुनन्दनः । पञ्चपाण्डवोत्पत्ति-
र्यथा, --
वैशम्पायन उवाच ।
“संवत्सरधृते गर्भे गान्धार्य्या जनमेजय ! ।
आह्वयामास वै कुन्ती गर्भार्थे धर्म्ममच्युतम् ॥
सा बलिं त्वरिता देवी धर्म्मायोपजहार ह ।
जजाप मन्त्रं विधिवद्दत्तं दुर्व्वाससा पुरा ॥
संगम्य सा तु धर्म्मेण योगमूर्त्तिधरेण ह ।
लेभे पुत्त्रं वरारोहा सर्व्वप्राणिहितं वरम् ॥
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे ।
दिवामध्यगते सूर्य्ये तिथौ पुण्येऽभिपूजिते ॥
समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् ।
जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी ॥
एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।
विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति ॥
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ।
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः ।
यशसा तेजसा चैव वृत्तेन च समन्वितः ॥ १ ॥ * ॥
धार्म्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।
प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्ठं सुतं वृणु ॥
ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा ।
तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥
तमप्यतिबलं जातं वागुवाचाशरीरिणी ।
सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ! ॥
इदमत्यद्भुतञ्चासीज्जातमात्रे वृकोदरे ।
यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत् ॥
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल ।
नान्वबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम् ॥
वज्रसंहननः सोऽथ कुमारो न्यपतद्द्गिरौ ।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागतः ।
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम ! ॥
दुर्य्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ! ॥ २ ॥ * ॥
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् ।
कथन्नु मे वरः पुत्त्रो लोकश्रेष्ठो भवेदिति ॥
दैवे पुरुषकारे च लोकोऽयं संप्रतिष्ठितः ।
तत्र दैवन्तु विधिना कालयुक्तेन लभ्यते ॥
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ।
अप्रमेयबलोत्साहो वीर्य्यवानमितद्युतिः ॥
तं तोषयित्वा तपसा पुत्त्रं लप्स्ये महाबलम् ।
यं दास्यति स मे पुत्त्रं स गरीयान् भविष्यति ॥
पृष्ठ ३/१०४
कर्म्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ।
ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः ॥
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ।
आत्मना च महाबाहुरेकपादस्थितोऽभवत् ॥
उग्रं स तप आतस्थे परमेण समाधिना ।
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् ॥
सूर्य्येण सह धर्म्मात्मा पर्य्यवर्त्तत भारत ! ।
तन्तु कालेन महता वासवः प्रत्यपद्यत ॥
शक्र उवाच ।
पुत्त्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ।
ब्राह्मणानां गवाञ्चैव सुहृदाञ्चार्थसाधकम् ॥
दुर्हृदां शोकजननं सर्व्वबान्धवनन्दनम् ।
सुतं तेऽग्र्यं प्रदास्यामि सर्व्वामित्रविनाशनम् ॥
इत्युक्तः कौरवो राजा वासवेन महात्मना ।
उवाच कुन्तीं धर्म्मात्मा देवराजवचः स्मरन् ॥
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः ।
दातुमिच्छति मे पुत्त्रं यथासङ्कल्पितं हृदा ॥
अतिमानुषकर्म्माणं यशस्विनमरिन्दमम् ।
नीतिमन्तं महात्मानमादित्यसमतेजसम् ॥
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ।
पुत्त्रं जनय सुश्रोणि ! धाम क्षत्त्रियतेजसाम् ॥
लब्धः प्रसादो देवेन्द्रात् तमाह्वय शुभानने ! ॥
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।
अथाजगाम देवेन्द्रो जनयामास चार्ज्जुनम् ॥
जातमात्रे कुमारे तु वागुवाचाशरीरिणी ।
महागम्भीरनिर्घोषा नभो नादयती तदा ॥
शृण्वतां सर्व्वभूतानां तेषाञ्चाश्रमवासिनाम् ।
कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम् ॥
कार्त्तवीर्य्यसमः कुन्ति ! शिवितुल्यपराक्रमः ।
एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्द्धिता ।
तथा विष्णुसमः प्रीतिम्बर्द्धयिष्यति ते सुतः ॥
एष मद्रान् वशे कृत्वा कुरूंश्च सह सोमकैः ।
चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति ॥
एतस्य भुजवीर्य्येण खाण्डवे हव्यवाहनः ।
मेदसा सर्व्वभूतानां तृप्तिं यास्यति वै पराम् ॥
ग्रामणीश्च महीपालान् एष जित्वा महाबलः ।
भ्रातृभिः सहितो वीरस्त्रीन् मेधानाहरिष्यति ॥
जामदग्न्यसमः कुन्ति ! वायुवेगपराक्रमः ।
एष वीर्य्यवतां श्रेष्ठो भविष्यति महायशाः ॥
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति ।
विप्रनष्टां श्रियञ्चायमाहर्त्ता पुरुषर्षभः ॥
एतामत्यद्भुतां वाचं कुन्ती शुश्राव भारत ! ।
वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम् ॥
बभूय परमो हर्षः शतगृङ्गनिवासिनाम् ।
तथा देवरथानाञ्च सेन्द्राणाञ्च दिवौकसाम् ।
आकाशे दुन्दमोनाञ्च बभूव तुमुलः स्वनः ।
उदतिष्टन्महाघोषः पुष्पवृष्टिभिरावृतः ॥” ३ ॥ * ॥
वैशम्पायन उवाच ।
“कन्तीपुत्त्रषु जातेषु धृतराष्ट्रात्मजेषु च ।
महराजसता पाण्डुं रहो वचनमब्रवीत् ॥
न मेऽस्ति त्वयि मन्तापो विगुणेऽपि परन्तप ।
नावरत्वे वरार्हायाः स्थित्वा चानघ ! नित्यदा ॥
गान्धार्य्याश्चैव नृपते ! जातं पुत्त्रशतन्तथा ।
श्रुत्वा न मे तथा दुःखमभवत् कुरुनन्दन ! ॥
इदन्तु मे महद्दुःखं तुल्यतायामपुत्त्रता ।
दिष्ट्या त्विदानीं भर्त्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥
यदि चापत्यसन्धानं कुन्तिराजसुता मयि ।
कुर्य्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥
संस्तम्भो मे सपत्नीत्वात् वक्तुं कुन्तिसुतां प्रति ।
यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥
पाण्डुरुवाच ।
ममाप्येष सदा माद्रि ! हृद्यर्थः परिवर्त्तते ।
न तु तां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥
तव त्विदं मतं मत्वा प्रयतिष्याम्यतःपरम् ।
मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते ॥
वैशम्पायन उवाच ।
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।
कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥
मम चापिण्डनाशाय पूर्ब्बेषामपि चात्मनः ।
मत्प्रियार्थञ्च कल्याणि ! कुरु कल्याणमुत्तमम् ।
यशसेऽर्थाय चैव त्वं कुरु कर्म्म सुदुष्करम् ॥
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् ।
तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥
ततो माद्री विचार्य्यैवं जगाम मनसाश्विनौ ।
तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥
नकुलं सहदेवञ्च रूपेणाप्रतिमौ भुवि ।
तथैव तावपि यमौ वागुवाचाशरीरिणी ॥
रूपसत्त्वगुणोपेतावेतावत्यश्विनावपि ।
भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।
भक्त्या च कर्म्मणा चैव तथाशीर्भिर्विशाम्पते ॥
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् ।
अर्ज्जुनेति तृतीयञ्च कुन्तीपुत्त्रानकल्पयन् ॥
पूर्ब्बजं नकुलेत्येवं सहदेवेति चापरम् ।
माद्रीपुत्त्रावकथयंस्ते विप्राः प्रीतमानसाः ॥”
इति महाभारते १ । १२३ -- १२४ ॥
तेषां पुत्त्रा यथा, --
“प्रतिबिन्ध्यः सुतः सोमः श्रुतकीर्त्तिस्तु चार्ज्जुनात् ।
शतानीकः श्रुतकर्म्मा द्रौपद्याः पञ्च विक्रमात् ॥”
तेषां भार्य्या यथा, गारुडे १३९ अध्याये ।
“यौधेयी च हिडिम्बा च काशी चैव सुभद्रिका ।
विजया वै वेणुमती पञ्चभ्यस्तु सुताः क्रमात् ॥
देवको घटोत्कचश्च अभिमन्युश्च सर्व्वशः ।
अहोत्रो निरपत्रश्च परिक्षिदभिमन्युजः ॥”

पाण्डवेयः, त्रि, (पाण्डोरियं इत्यञ् ङीप् च पाण्डवी

कुन्ती माद्री च तयोरपत्यम् इति । ढक् ।)
पाण्डोरपत्यम् । इति मुग्धबोधव्याकरणम् ॥
(युधिष्ठिरप्रभृतयः पञ्च भ्रातरः । यथा,
महाभारते । १ । २०३ । १५ ।
“यावन्नायाति वार्ष्णेयः कर्षन् यादववाहिनीम् ।
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति ॥”
अभिमन्युपुत्त्रो नरपतिः परीक्षित् । यथा,
भागयते । १ । ४ । ७ ।
“कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवादः समभूत्तात ! यत्रैषा सात्वती श्रुतिः ॥”)

पाण्डवाभीलः, पुं, (अभीः अभयं लातीति । ला +

कः । पाण्डवोऽभीलो यस्मात् । पाण्डवाना-
मभियमभयं लातीति वा ।) कृष्णः । इति
त्रिकाण्डशेषः ॥

पाण्डवायनः, पुं, (पाण्डवानामयनं रक्षर्ण यस्मात् ।)

कृष्णः । इति हेमचन्द्रः । २ । १३१ ॥

पाण्डित्यं, क्ली, (पण्डितस्य भावः कर्म्म वा । इति

“वर्णदृढादिभ्यः ष्यञ् च ।” ५ । १ । १२३ ।
इति ष्यञ् ।) पण्डितधर्म्मकर्म्मणी । यथा, --
“रसज्ञा पाण्डित्यच्छिदुरशशिधामभ्रमभरान् ॥”
इति मुरारिः ॥
(यथा, च महाभारते । ५ । ३१ । २ ।
“उत बालाय पाण्डित्यं पण्डितायोत बालताम् ।
ददाति सर्व्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ॥”)

पाण्डुः, पुं, (पडि गतौ + “मृगय्वादयश्च ।” उणां ।

१ । ३८ । इति कुप्रत्ययः निपातनात् धातो-
र्द्दीर्घश्च ।) पाण्डुरफलीक्षुपः । पटोलः । इति
राजनिर्घण्टः ॥ शुक्लपीतमिश्रितवर्णः । तत्-
पर्य्यायः । हरिणः २ । पाण्डुरः ३ । इत्यमरः ॥
पाण्डरः ४ । इति हड्डः ॥
“सितपीतसमायुक्तः पाण्डुवर्णः प्रकीर्त्तितः ॥”
इति सुभूतिः ॥
भेदोऽपि दृश्यते यथा, --
“पाण्डुरस्तु रक्तपीतभागी प्रत्यूषचन्द्रवत् ।
पाण्डुस्तु पीतभागार्द्धः केतकीधूलिसन्निभः ॥”
इति भरतः ॥
तद्वति, त्रि । इत्यमरः ॥ (यथा रघुः । ३ । २ ।
“शरीरसादादसमग्रभूषणा
मुखेन सालक्ष्यत लोध्रपाण्डुना ॥”
नृपतिविशेषः । स तु शन्तनुपुत्त्रविचित्रवीर्य्यस्य
क्षेत्रे व्यासाज्जातः । (यथा, महाभारते ।
१ । ११८ । ५ ।
“राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते ।
चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम् ॥”
अस्य देहपाण्डुताकारणं नामनिरुक्त्यादिकं
च यथा, महाभारते । १ । १०६ । १५-१८ ।
“अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ।
विषण्णा पाण्डुसङ्काशा समपद्यत भारत ! ।
तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य भारत ! ॥
व्यासः सत्यवतीपुत्त्र इदं वचनमब्रवीत् ।
यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥
अस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति ।
नाम चास्यैतदेवेह भविष्यति शुभानने ! ॥”)
नागभेदः । श्वेतहस्ती । सितवर्णः । रोग
विशेषः । इति शब्दरत्नावली ॥ * ॥
पाण्डुरोगनिदानम् । यथा, --
“पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः ।
चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः ॥
व्यायाममम्लं लवणानि मद्यं
मृदं दिवास्वप्नमतीवतीक्ष्णम् ।
पृष्ठ ३/१०५
निषेवमाणस्य समेत्य रक्तं
दोषास्त्वचं पाण्डरतां नयन्ति ॥ * ॥
तस्य पूर्ब्बरूपाणि यथा, --
त्वक्स्फोटनष्ठीवनगात्रसाद-
मृद्भक्षणप्रेक्षणकूटशोथाः ।
विण्मूत्रपीतत्वमथाविपाको
भविष्यतस्तस्य पुरःसराणि ॥ * ॥
वातिकस्य तस्य लक्षणं यथा, --
त्वङ्मूत्रनयनादीनां रूक्षकृष्णारुणाभताः ।
वातपाण्ड्वामये कम्पतोदानाहभ्रमादयः ॥ * ॥
पैत्तिकस्य लक्षणं यथा, --
पीतमूत्रशकृन्नेत्रो दाहतृष्णाज्वरान्वितः ।
भिन्नविट्कोऽतिपीताभः पित्तपाण्ड्वामयी नरः ॥
श्लैष्मिकस्य लक्षणं यथा, --
कफप्रसेकश्वयथुतन्द्रालस्यातिगौरवैः ।
पाण्डुरोगी कफाच्छुक्लैस्त्वङ्मूत्रनयनाननैः ॥ * ॥
त्रिदोषजस्य लक्षणं यथा, --
ज्वरारोचकहृल्लासच्छर्द्दितृष्णाक्लमान्वितः ।
पाण्डुरोगी त्रिभिर्द्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः ॥
मृज्जस्य संप्राप्तिर्यथा, --
मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः ।
कषाया मारुतं पित्तमूषरा मधुरा कफम् ॥
कोपयेन्मृद्रसादींश्च रौक्ष्याद्भुक्तञ्च रूक्षयेत् ।
पूरयत्यविपक्वैव स्रोतांसि विरुणद्ध्यपि ॥
इन्द्रियाणां बलं हत्वा तेजो वीर्य्यौजसी तथा ।
पाण्डुरोगं करोत्याशु बलवर्णाग्निनाशनम् ॥ * ॥
मृत्तिकाभक्षणजन्यपाण्डुलक्षणं यथा, --
मृद्भक्षणाद्भवेत् पाण्डुस्तन्द्रालस्यनिपीडितः
सकासश्वासशूलार्शःसदारुचिसमन्वितः ॥
शूनाक्षिकूटगण्डभ्रूः शूनपान्नाभिमेहनः ।
कृमिकोष्ठोऽतिसार्य्येत मलं सासृक्कफान्वितम् ॥
तस्य असाध्यलक्षणं यथा, --
ज्वरारोचकहृल्लासच्छर्द्दितृष्णाक्लमान्वितः ।
पाण्डुरोगी त्रिभिर्दोषैस्त्याज्यः क्षीणो हतेन्द्रियः ॥
पाण्डुरोगश्चिरोत्पन्नः खरीभूतो न सिध्यति ।
कालप्रकर्षाच्छूनानां यो वा पीतानि पश्यति ॥
बद्धाल्पविट् सहंरितं सकफं योऽतिसार्य्यते ।
दीनः श्वेतातिदिग्धाङ्गश्छर्द्दिमूर्च्छातृषान्वितः ॥
स नास्त्यसृक्क्षयाद्यश्च पाण्डुः श्वेतत्वमाप्नुयात् ॥
पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् ।
पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति ॥
अन्तेषु शूनं परिहीणमध्यं
म्लानं तथान्तेषु च मध्यशूनम् ।
गुदे च शेफस्यथ मुष्कयोश्च
शूनं प्रताम्यन्तमसंज्ञकल्पम् ॥
विवर्ज्जयेत् पाण्डुकिनं यशोऽर्थी
तथातिसारज्वरपीडितञ्च ॥”
इति माधवकरः ॥
(यथा च, --
“पित्तप्रधानाः कुपिता यथोक्तैः कोपनैर्मलाः ।
तत्रानिलेन बलिना क्षिप्तं पित्तं हृदि स्थितम् ॥
धमनीर्दश सम्प्राप्य व्याप्नुवत् सकलां तनुम् ।
श्लेष्मत्वग्रक्तमांसानि प्रदूष्यान्तरमाश्रितम् ॥
त्वङ्मांसयोस्तत् कुरुते त्वचि वर्णान् पृथग्-
विधान् ।
पाण्डुहारिद्रहरितान् पाण्डुत्वं तेषु चाधिकम् ॥
यतोऽतः पाण्डुरित्युक्तः स रोगस्तेन गौरवम् ॥
धातूनां स्याच्च शैथिल्यमोजसश्च गुणक्षयः ॥
ततोऽल्परक्तमेदस्को निःसारः स्यात् श्लथेन्द्रियः ।
मृद्यमानैरिवाङ्गैर्ना द्रवता हृदये न च ॥
शूनाक्षिकूटसदनः कोपनः ष्ठीवनोऽल्पवाक् ।
अन्नद्विट् शिशिरद्वेषी शीर्णरोमा हतानलः ॥
सन्नसक्थी ज्वरी श्वासी कर्णक्ष्वेडी भ्रमी श्रमी ।
स पञ्चधा पृथग्दोषैः समस्तैर्मृत्तिकादनात् ॥
प्राग्रूपमस्य हृदयस्पन्दनं रूक्षता त्वचि ।
अरुचिः पीतमूत्रत्वं स्वेदाभावोऽल्पवह्निता ॥
सादः श्रमोऽनिलात्तत्र गात्ररुक्तोदकम्पनम् ।
कृष्णरुक्षारुणसिरानखविण्मूत्रनेत्रता ॥
शोफानाहास्यवैरस्यविट्शोषाः पार्श्वमूर्द्धरुक् ।
पित्ताद्धरितपीताभसिरादित्वं ज्वरस्तमः ॥
तृट्स्वेदमूर्च्छाशीतेच्छादौर्गन्ध्यं कटुवक्त्रता ।
वर्च्चोभेदोऽम्लको दाहः कफात् शुक्लसिरादिता ॥
तन्द्रालवणवक्त्रत्वं रोमहर्षः स्वरक्षयः ।
कासः श्छर्द्दिश्च निचयान्मिश्रलिङ्गोऽतिदुःसहः ॥
मृत्कषायानिलं पित्तमूषरा मधुराकफम् ।
दूषयित्वा रसादींश्च रौक्ष्याद्भुक्तं विरूक्ष्य च ॥
स्रोतांस्यपक्वैवापूर्य्य कुर्य्याद्रुद्ध्वा च पूर्ब्बवत् ।
पाण्डुरोगं ततः शूननाभिपादास्यमेहनः ॥
पुरीषं कृमिमन्मुञ्चेद्भिन्नं सासृक्कफं नरः ॥”
इति वाभटे निदानस्थाने । १३ । १ -- १३ ॥)
तस्यौषषं यथा, --
“लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ॥”
इति गारुडे १८० अध्यायः ॥
अपि च ।
“सुप्तरात्रं गवां मूत्रे भावितं चायसो रजः ।
पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः ॥ १ ॥
गोमूत्रसिद्धं मण्डूरचूर्णं सगुडमश्नतः ।
पाण्डुरोगः क्षयं याति पङ्क्तिशूलञ्च दारुणम् ॥ २
अयोमलं सुसन्तप्तं भूयो गोमूत्रसाधितम् ।
मधुसर्पिर्युतं लीट्वा पाण्डुरोगी सुखी भवेत् ॥ ३ ॥
पुनर्नवात्रिवृद्व्योषविडङ्गं दारु चित्रकम् ।
कुष्ठं हरिद्रे त्रिफला दन्ती चव्यं कलिङ्गकम् ॥
कटुका पिप्पलीमूलं मुस्तं शृङ्गी च कारवी ।
यमानी कट्फलञ्चेति पृथक्पलमितं मतम् ॥” ४ ॥
इति भावप्रकाशः ॥ * ॥
(अस्य सकारणलक्षणचिकित्सादीनि यथा, --
“शृणु पुत्त्र ! प्रवक्ष्यामि पाण्डुरोगं महागदम् ।
पञ्चैव पाण्डुरोगास्ते सम्भवन्तीह मानुषे ॥
वातिकः पैत्तिकश्चैव श्लैष्मिकः सान्निपातिकः ।
पञ्चमो रूक्षणः प्रोक्तो वक्ष्ये चैषान्तु सम्भवम् ॥
दीर्घाध्वना पीडितो वा ज्वरेण
रक्तस्रावो पीडितो वा व्रणेन ।
चिन्तायासादोधनाद्बै मनुष्ये
चायं पाण्डुर्जायते सेवते यः ॥
क्षारञ्चाम्लं कल्यमैरेयसेवा
अव्यायामान्मैथुनातिश्रमेण ।
निद्रानाशे नातिनिद्रा दिवापि
योगैश्चैतैर्मृत्तिकाभक्षणेन ॥
अतिशिथिलशरीरे रोगसम्पीडिते वा
लवणकटुकषाया सेवनाम्लेन मृद्भिः ।
अतिसुरतमजस्रं सेवनातिक्रमेण
नयति रुधिरशोषं तेन वै पाण्डुरोगम् ॥
तेनाक्षिकूट श्वयथुः शरीरे
पाण्डुत्वमायाति सपीतमूत्रः ।
निष्ठीवते त्वक् प्रविदीर्य्यते च
संजायते तस्य पुरःसराणि ॥
तोदः परूषत्वशिरोगुरुत्वं
त्वङ्मूत्रनेत्रे नखकालिमा स्यात् ।
वातात्मकं तन्मनुजस्य विद्धि
लिङ्गैरुपेतोऽनिलपाण्डुरोगः ॥
आमत्वपीतत्वकरो हि लोके
बिभर्त्ति शोषं कटुकास्यता च ।
मन्दज्वरो वै भृशशोषमोहः
पीतच्छविः पीतभवो हि पाण्डुः ॥
तन्द्रालुताशोफकफेन युक्तः
आलस्यकस्वेदगुरुत्वमेव ।
संजायते तस्य कफात्मकोऽसौ
नरस्य पाण्डुत्वभवो विकारः ॥
तन्द्रालस्यं श्वयथुवमथू काशहृन्नासशोषा
विड्भेदः स्यात् परुषनयने सज्वरो वै क्षुधार्त्तः ।
मोहस्तृष्णाक्लममथ मनुजस्याशु पश्येत् सुदूरं
त्याज्यो वैद्यैर्निपुणमतिभिः सन्निपातोत्थपाण्डुः ॥
मृत्तिकाभक्षणेनाथ शृणु पुत्त्र ! गदो महान् ।
पाण्डुरोगो गरिष्ठोऽपि भवेद्धातुक्षयङ्करः ॥
मृद्भक्षणाच्चैव मलं प्रकीर्य्य
स्रोतांसि रुन्धन्ति च मृत्तिकायाः ।
तेनैव नासृक् परिवर्त्तयन्ति
न तर्पयन्ते वपुषं रसेन ॥
क्षारात् कषायान्मधुरस्य पानात्
स कोपयत्याशु नरस्य मृत्स्ना ।
श्लेष्मप्रकोपान्मधुरान् करोति
मृतस्ना न जग्धा हितकारिणी स्यात् ॥
विकृतिमुपगतास्ते मारुताद्यास्त्रयस्तु
वलवदनरुचीनां नाशयन्त्याशु दोषाः ।
भवति विकलमेवं पाण्डुरोगे शरीरं
भवति जठरपाण्डू रोग आशुप्रवीणः ॥”
“गोमूत्रमध्ये मतिमान् स्नापयेत् सप्तरात्रि-
कम् ।
तस्मात् चूर्णन्तु मधुना देयं पाण्ड्वामयापहम् ॥
त्र्यूषणं त्रिफला मुस्ता विडङ्गं चित्रकं
समम् ।
भागमेकं लौहचूर्णमिक्षुद्रावे विभावयेत् ॥
सप्ताहमथ लोहखल्वितं
पुनरपि ध्रुवं प्रवरं स्यात् ।
शीलितन्तु मधुनापि घृतेन
पाण्डुरोगहृदयामयापहम् ॥
पृष्ठ ३/१०६
कामलार्शो हलीमकहारि
कथितं सुमतिभिश्च पण्डितैः ॥
इति लौहचूर्णवटकम् ॥ * ॥
त्र्युषणं त्रिफलया सह चिन्नकं
मेघचव्यसुरदारुसमाक्षिकम् ।
ग्रन्थिकञ्च शिखिभृङ्गराजकं
योजयेत् पलिकभागिकानिमान् ॥
चूर्णिताद्द्विगुणमेव योजयेत्
लौहचूर्णमपि कज्जलप्रभम् ।
अष्टभागसममूत्रकल्पितं
पाचितं पुनरभवद्वरप्रदम् ।
सेवयेद्वलमुपक्रमं तथा
तक्रसंयुतमिहास्तिशोभनम् ।
नाशयेच्च कफकामलान् क्रिमीन्
पाण्डुकुष्ठगुदजान् हलीमकम् ॥
इति मण्डुरवटकम् ॥” * ॥
पथ्यापथ्यान्यस्य यथा, --
“गोधूमशालियवषष्टिकमुद्गकानां
श्यामाढकीघृतयुतं सपयःसतक्रम् ।
गाञ्जीववास्तकमथो शतपुष्पवर्त्ता
पथ्यं हितं निगदितं मनुजस्य पाण्डौ ॥
शाल्यन्नमुद्गगोधूममसूराश्चाढकी यवाः ।
जाङ्गलानि च मांसानि भोजने च प्रशस्यते ॥
तिक्तानि रूक्षाणि कषायकाणि
तीव्राणि दाहीन्यपि काञ्जिकानि ।
सुराम्लसौवीरकबीजपूरान्
तैलानि वर्ज्ज्यानि च पाण्डुरोगे ॥”
इति हारीते चिकित्सितस्थाने नवमेऽध्याये ॥ * ॥
अस्य चिकित्सान्तरं यथा, --
“पाण्ड्वामयी पिबेत् सर्पिरादौ कल्याणकाह्वयम् ।
पञ्चगव्यं महातिक्तं शृतं वारग्वधादिना ॥
दाडिमात् कुडवो धान्यात् कुडवार्द्धं पलं पलम् ।
चित्रकात् शृङ्गवेराच्च पिप्पल्यर्द्धपलञ्च तैः ॥
काङ्कतैर्विंशतिपलं घृतस्य सलिलाढके ।
सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्त्तिनुत् ।
दीपनं श्वासकासघ्नं मूढवातानुलोमनम् ॥
दुःखप्रसविनीनाञ्च बन्ध्यानाञ्च प्रशस्यते ।
स्नेहितं वामयेत्तीक्ष्णैः पुनःस्निग्धञ्च शोधयेत् ।
पयसा मूत्रयुक्तेन बहुशः केवलेन वा ॥
दन्तीफलरसे कोष्णे काश्मर्य्याञ्जलिमासुतम् ।
द्राक्षाञ्जलिं वा मृदितं तत् पिबेत् पाण्डुरोग-
जित् ॥
मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम् ।
स्वर्णक्षीरी त्रिवृच्छ्यामा भद्रदारु महौषधम् ॥
गोमूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत् ।
साधितं क्षीरमेभिर्वा पिबेद्दोषानुलोमनम् ॥
मूत्रे स्थितं वा सप्ताहं पयसा यो रजः पिबेत् ।
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥
शुद्धश्चोभयतो लिह्यात् पथ्यां मधुघृतद्रुताम् ।
विशालां कटुकां मुस्तां कुष्ठं दारुकलिङ्गकः ॥
द्वाविंशाद्विपिचुर्मूर्व्वा कर्षार्द्धांशाद्युणप्रिया ।
पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यत्ततो मधु ॥
पाण्डुरोगं ज्वरं दाहं कासं श्वासमरोचकम् ।
गुल्मानाहामवातांश्च रक्तपित्तञ्च तज्जयेत् ॥
वासागुडूचीत्रिफला कट्वीभूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्ति पाण्डुपित्तास्रकामलाः ॥”
“गुडनागरमण्डू रतिलांशान्मानतः समान् ।
पिप्पलीद्विगुणान् दद्यात् गुटिकां पाण्डुरोगिणे ॥
ताप्यं दार्व्व्यास्त्वचं चव्यं ग्रन्थिकं देवदारु च ॥
व्योषादि नरकञ्चैतच्चूर्णयेद्द्विगुणं ततः ।
मण्डूरञ्चाञ्जननिभं सर्व्वतोऽष्टगुणेऽथ तत् ॥
पृथग्विपक्वे गोमूत्रे वटकीकरणक्षमे ।
प्रक्षिप्य वटकान् कुर्य्यात् तान् खादेत्तक्रभोजनः ॥
एते मण्डू रवटकाः प्राणदाः पाण्डु रोगिणाम् ।
कुष्ठान्यजरकं शोफमूरुस्तम्भमरोचकम् ॥
अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च ।
ताप्याद्रिजतुरौप्यायोमलाः पञ्चपलाः पृथक् ॥
चित्रकत्रिफला व्योषविडङ्गैः पालिकैः सह ।
शर्कराष्टपलीन्मिश्राश्चूर्णिता मधुना द्रुताः ॥
पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम् ।
कुष्ठान्यजरकं मेहं शोफं श्वासमरोचकम् ॥
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च ।
कौटजत्रिफलानिम्बपटोलघननागरैः ॥
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा ।
शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥
त्वक्क्षीरी पिप्पली धात्री कर्कटाख्याः पलो-
न्मिताः ।
निर्दग्धाः फलमूलाभ्यां पलं युक्त्या त्रिजातकम् ॥
मधुत्रिपलसंयुक्तं कुर्य्यादक्षसमान् गुडान् ।
दाडिमाम्बुपयःपक्षिरसतोयसुरासवान् ॥
तान् भक्षयित्वानुपिबेन्निरन्नो भुक्त एव वा ।
पाण्डुकुष्ठज्वरप्लीहतमकार्शो भगन्दरम् ॥
हृण्मूत्रपूतीशुक्राग्निदोषशोषगरोदरम् ।
कासासृग्दरपित्तासृक् शोफगुल्मगलामयान् ॥
मेहवर्ध्मभ्रमान् हन्युः सर्व्वदोषहराः शिराः ॥”
इति वाभठे चिकित्सास्थाने षोडशेऽध्याये ॥ * ॥
“व्यवायमम्लं लवणानि मद्यं
मृदं दिवास्वप्नमतीवतीक्ष्णम् ।
निषेवंमानस्य प्रदूष्य रक्तं
कुर्व्वन्ति दोषास्त्वचि पाण्डुभावम् ॥
पाण्ड्वामयोऽष्टार्द्धविधः प्रदिष्टः
पृथक्समस्तैर्युगपच्च दोषैः ।
सर्व्वेषु चैवैष्विह पाण्डु भावो
यतोऽधिकोऽतः खलु पाण्डु रोगः ॥”
“कृष्णेक्षणं कृष्णसिरावनद्धं
तद्वर्णविण्मूत्रनखाननञ्च ।
वातेन पाण्डु मनुजं व्यवस्ये-
द्युक्तं तथान्यैस्तदुपद्रवैश्च ॥
पीतेक्षणं पीतसिरावनद्धं
तद्वर्णविण्मूत्र नखाननञ्च ।
पित्तेन पाण्डुं मनुजं व्यवस्येद्-
युक्तं तथान्यैस्तदुपद्रवैश्च ॥
शुक्लेक्षणं शुक्लसिरावनद्धं
तद्वर्णविण्मूत्रनखाननञ्च ।
कफेन पाण्डुंमनुजं व्यवस्येद्
युक्तं तथान्यैस्तदुपद्रवैश्च ॥
सर्व्वात्मके सर्व्वमिदं व्यवस्येद्
वक्ष्यामि लिङ्गान्यथ कामलायाः ॥”
चिकित्सान्तरं यथा, --
“साध्यन्तु पाण्ड्वामयिनं समीक्ष्य
स्निग्धं घृतेनोर्द्धमधश्च शुद्धम् ॥
सम्पादयेत् क्षौद्रघृतप्रगाढै
र्हरीतकीचूर्णयुतैः प्रयोगैः ।
पिबेद्घृतं वा रजनीविपक्वं
यत्त्रैफलं तैल्वकमेव वापि ॥
विरेचनद्रव्यकृतं पिबेद्धि
योगांश्च वैरेचनिकान् घृतेन ॥”
“उभे बृहत्यौ रजनीं शुकाख्यां
शुकादनीञ्चापि सकाकमाचीम् ।
आदारिविम्बीं सकदम्बपुष्पीं
विपाच्य सर्पिर्व्विपचेत् कषाये ॥
तत् पाण्डुतां हन्त्युपयुज्यमानं
क्षीरेण वा मार्गधिकां यथाग्निः ।
हितञ्च यष्टीमधुकं कषायं
चूर्णं समं वा मधुनावलिह्यात् ॥
गोमूत्रयुक्तं त्रिफलादनानां
दत्त्वायसश्चूर्णमनल्पकालम् ।
प्रवालमुक्ताञ्जनशङ्खचूर्णं
लिह्यात्तथा काञ्चनगैरिकोत्थम् ॥
आजं शकृद्वा कुडवप्रमाणं
विडं हरिद्रा लवणोत्तमञ्च ।
पृथक् पलांशानि समग्रमेत-
च्चूर्णं हिताशी मधुनावलिह्यात् ॥
मण्डूरलोहाग्निविडङ्गपथ्या
व्योषांशकः सर्व्वसमानताप्यः ।
मूत्रासुतोऽयं मधुनावलेहः
पाण्ड्वामयं हन्त्यचिरेण घोरम् ॥”
इत्युत्तरतन्त्रे चतुश्चत्वारिंशत्तमेऽध्याये सुश्रुते-
नोक्तम् ॥ * ॥ चिकित्सार्थमस्य वटिकौषधं यथा,
“लौहचूर्णं निशायुग्मं त्रिफला कटुरोहिणी ।
प्रलिह्यान्मधुसर्पिर्भ्यां कामला पाण्डुरोगनुत् ॥”
इति निशालौहम् ॥
“शुद्धसूतं तथा गन्धं मृतहेमाभ्रगुग्गुलु ।
जैपालबीजं तुल्यञ्च घृतेन गुडकीकृतम् ॥
भक्षयेद्बदराभान्ताच्छोथपाण्डु प्रशान्तये ।
पञ्चाननवटी ख्याता अनुपानञ्च पूर्ब्बवत् ॥”
इति पञ्चाननवटी ॥
“पलं सूतं पलं गन्धं वह्निपथ्या पलं पलम् ।
मुस्तैलापत्रकानाञ्च प्रतिसार्द्धपलं क्षिपेत् ॥
त्र्यूषणं पिप्पलीमूलं विषञ्चापि पलं पलम् ।
नागकेशरतः कर्षमेरण्डस्य पलन्तथा ॥
पुरातनगुडेनैव तुल्येनैव विमिश्रयेत् ।
मर्द्दयेत् कनकद्रावैरेककं वा घृतान्वितम् ॥
गुडेन वदराण्डाभान् कारयेद्भक्षयेन्निशि ।
पाण्डु रोगहरः सोऽयं रसः कामेश्वरः स्वयम् ॥”
इति कामेश्वरो रसः ॥
पृष्ठ ३/१०७
इति वैद्यकरसेन्द्रसारसंग्रहे पाण्डुरोगाधि-
कारे ॥ * ॥ * ॥)

पाण्डुः, स्त्री, (पडि + कुः । निपातनात् दीर्घत्वम् ।)

माषपर्णी । इति शब्दचन्द्रिका ॥ माषाणी
इति भाषा ॥ पाण्डुवर्णस्त्री । इति मुग्धबोध-
व्याकरणम् ॥

पाण्डुकः, पुं, (पाण्डु + संज्ञायां कन् ।) पाण्डु-

रोगः । पाण्डुराजा । इति शब्दरत्नावली ॥
पाण्डुवर्णः । इति हलायुधः ॥

पाण्डुकण्टकः, पुं, (पाण्डुवर्णानि कण्टकान्यस्येति ।)

अपामार्गः । इति राजनिर्घण्टः ॥

पाण्डुकम्बलः, पुं, (पाण्डुवर्णः कम्बलः नित्यकर्म्म-

धारयः ।) श्वेतप्रावारः । प्रस्तरभेदः । इति
मेदिनी । ले, १७० ॥ पाण्डुवर्णकम्बलः । इति भरतः ॥

पाण्डुकम्बली, [न्] पुं, (पाण्डुवर्णकम्बलेन परि-

वृतः । पाण्डुकम्बल + “पाण्डुकम्बलादिनिः ।” ४ ।
२ । ११ । इति इनिः ।) पाण्डुवर्णकम्बलावृत-
रथः । इत्यमरः । २ । ८ । ५४ ॥ पाण्डुकम्बल-
युक्ते, त्रि ॥

पाण्डुतरुः, पुं, (पाण्डुवर्णस्तरुरिति कर्म्मधारयः ।)

धववृक्षः । इति राजनिर्घण्टः ॥

पाण्डुनागः, पुं, (पाण्डुवर्णो नाग इव । यद्बा, नाग

इव पाण्डुरिति राजदन्तादिवत् समासः ।)
पुन्नागवृक्षः । इति शब्दारत्नावली ॥ (पाण्डु-
वर्णो नाग इति विग्रहे ।) श्वेतहस्ती श्वेत-
सर्षपश्च ॥

पाण्डुपत्री, स्त्री, (पाण्डुपत्रमस्या इति जातित्वात्

ङीप् ।) रेणुका । इति राजनिर्घण्टः ॥ (पर्य्यायो-
ऽस्या यथा, --
“रेणुका राजपुत्त्री च नन्दिनी कपिला द्बिजा ।
भस्मगन्धा पाण्डुपत्री स्मृता कौन्ती हरेणुका ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पाण्डुपृष्ठः, त्रि, (पाण्डुपृष्ठं यस्य ।) पाण्डु-

वर्णपृष्ठयुतः । अलक्षणः । इति त्रिकाण्डशेषः ॥

पाण्डुफलः, पुं, (पाण्डूनि फलानि यस्य ।) पटोलः ।

इति राजनिर्घण्टः ॥

पाण्डुफला, स्त्री, (पाण्डुफलमस्या इति टाप् ।)

चिर्भिटा । इति राजनिर्घण्टः ॥

पाण्डुभूमः, त्रि, (पाण्डुर्भूमिरत्र इति । “कृष्णो-

दकपाण्डु सङ्ख्यापूर्ब्बाया भूमेरजिष्यते ।” ५ ।
४ । ७५ । इत्यस्य सूत्रस्य वार्त्तिकोक्त्या अच्
समासे ।) पाण्डु वर्णभूमियुक्तदेशः । यथा, --
“पाण्डू दक् कृष्णतो भूमिः पाण्डूदक् कृष्ण
मृत्तिका ॥”
इति हेमचन्द्रः ॥

पाण्डुमृत्, स्त्री, (पाण्डुः पाण्डुवर्णा मृत्

मृत्तिका यत्र ।) पाण्डुभूमिः । पाण्डुर्मृत् इति
कर्म्मधारये ।) खटी । इति राजनिर्घण्टः ॥

पाण्डु रः, पुं, (पाण्डुरस्यास्तीति । पाण्डु + “नग-

पांशुपाण्डुभ्यश्च ।” ५ । २ । १०७ । इत्यस्य
सूत्रस्य वार्त्तिकोक्त्या रः ।) श्वेतपीतमिश्रित-
वर्णः । तद्बति, त्रि । इत्यमरः । १ । ५ । १७ ॥
(यथा, भागवते । ८ । ८ । ३ ।
“तत उच्चैःश्रवा नाम हयोऽभूच्चन्द्रपाण्डुरः ।
तस्मिन् बलिः स्पृहाञ्चक्रेनेन्द्र ईश्वरशिक्षया ॥”)
कामलारोगः । इति शब्दरत्नावली ॥ श्वित्र-
रोगे, क्ली । इति हलायुधः ॥

पाण्डुरङ्गः, पुं, (पाण्डुराणि अङ्गान्यस्येति ।)

फलशाकविशेषः । पाटराङ्गा इति भाषा ॥
अस्य गुणाः । क्रिमिश्लेष्मपित्तनाशित्वम् । तिक्त-
त्वम् । लधुत्वञ्च । इति राजवल्लभः ॥

पाण्डुरद्रुमः, पुं, (पाण्डुरः श्वेतः श्वेतपीतमिश्रित-

वर्णो वा द्रुमो वृक्षः ।) कुटजवृक्षः । इति
त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा, भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“कुटजः कूटजः कौटो वत्सकों गिरिमल्लिका ।
कालिङ्गः शक्रशाखी च मल्लिका पुष्प इत्यपि ।
इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डु रद्रुमः ॥”)

पाण्डुरपृष्ठः, त्रि, (पाण्डुरं पृष्ठमस्य ।) लक्षण-

हीनः । इति हेमचन्द्रः ॥ पाण्डुवर्णपृष्ठयुक्तश्च ॥

पाण्डुरफली, स्त्री, (पाण्डुरं पाण्डुवर्णं फलं अस्याः ।

जातित्वात् ङीष् ।) क्षुद्रक्षुपविशेषः । तत्-
पर्य्यायः । पाण्डुः २ धूसरा ३ वृत्तबीजका ४
भूरिपलितदा ५ पाण्डुफली ६ । अस्या गुणाः ।
शिशिरत्वम् । गौल्यत्वम् । कृच्छ्रास्रदोषपित्त-
मूत्राघातनाशित्वम् । बल्यत्वम् । वृष्यत्वञ्च ।
इति राजनिर्घण्टः ॥

पाण्डुरा, स्त्री, (पाण्डुरस्त्यस्या इति ततष्टाप् च ।)

माषपर्णी । इति राजनिर्घण्टः ॥ पाण्डुर-
वर्णा च ॥

पाण्डुरागः, पुं, (पाण्डुरं पाण्डुरत्वं आ सम्यक्-

रूपेण गच्छतीति । गम + डः । यद्वा, पाण्डुः
रागोऽस्येति ।) दमनकवृक्षः । इति राज-
निर्घण्टः ॥ पाण्डुवर्णयुक्ते, त्रि ॥

पाण्डुरेक्षुः, पुं, (पाण्डुरः श्वेतवर्ण इक्षुः ।) श्वेतेक्षुः ।

इति राजनिर्घण्टः ॥

पाण्डुलेखः, पुं, (पाण्डुर्लेखः ।) पाण्डुलिपिः ।

मुसविदा इति पारस्यभाषा ॥ यथाह व्यासः ।
“पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् ।
न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥
फलकं काष्ठादिपट्टकम् ।” इति व्यवहार-
तत्त्वम् ॥

पाण्डुलोमशा, स्त्री, (पाण्डूनि लोमानीवाङ्गा-

न्यस्त्यस्याः ।) माषपर्णी ॥ इति रत्नमाला ॥
पाण्डुबर्णलोमयुक्ता च ॥

पाण्डुलोमा, स्त्री, (पाण्डु लोम यस्याः ।) माष-

पर्णी । इति जटाधरः ॥ पाण्डुवर्णलोमयुक्ते, त्रि ॥

पाण्डुशर्करा, स्त्री, (पाण्डुः शर्करा इव यस्यां

रोगावस्थायामित्यर्थः ।) रोगविशेषः । यथा,
गारुडे १८२ अध्यये ।
“पिष्टं वै मालतीमूलं ग्रीष्मकाले समाहृतम् ।
साधितं छागदुग्धेन पीतं शर्करयान्वितम् ॥
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम् ॥”

पाण्डुशर्म्मिला, स्त्री, द्रौपदी । इति त्रिकाण्डशेषः ॥

पाण्डुसोपाकः, पुं, वर्णसङ्करविशेषः । स तु चाण्डाला

द्वैदेह्यां जातः ॥ (अस्योत्पत्तिविवरणम् । यथा,
मनौ । १० । ३७ ।
“चण्डालांत् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्यामेव जायते ॥”
“वैदेह्यां चण्डालात् पाण्डुसोपाकाख्यो वेण-
व्यवहारजीवी जायते ।” इति तट्टीकायां
कुल्लूकभट्टः ॥ क्वचित् पाण्डुसौपाकोऽपि पाठो
दृश्यते । यथा, महाभारते । १३ । ४८ । २६ ।
“चण्डालात् पाण्डुसौपाकस्त्वक्सारव्यवहार-
वान् ॥”)

पाण्यः, त्रि, (पण व्यवहारस्तुत्योः + ण्यत् ।)

स्तुत्यः । स्तवनीयः । (“पण्या गौः व्यवहर्त्तव्ये-
त्यर्थः । पाण्यमन्यत् स्तुत्यर्हमित्यर्थः ।” इति
“सिद्धान्तकौमुद्याम् । ३ । १ । १०१ । इत्यस्य
सूत्रस्य वृत्तौ व्याख्यातम् ॥)

पातः, पुं, (पत + घञ् ।) पतनम् । (यथा,

महाभारते । ३ । १३३ । २६ ।
“वडवे इव संयुक्ते श्येनपाते दिवौकसाम् ।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ॥”)
त्राते, त्रि । इति मेदिनी ॥ (पातयति चन्द्र-
सूर्य्यौ छादयतीति । पत + णिच् + अच् ।)
राहुः । यथा, --
“ताडितः खदहनैर्द्दिनसङ्ख्यः
षट्कषट्कशरहृत्फलमांशाः ।
स्वं ध्रुवे कुमुदिनीपतिपातो
राहुमाहुरिह केऽपि तदेव ॥”
इति सिद्धान्तशिरोमणिः ॥

पातकं, क्ली, (पातयति अधो गमयति दुष्क्रिया

कारिणमिति । पत + णिच् + ण्वुल् ।) नरक-
साधनमिति यावत् । तत्पर्य्यायः । अशुभम्
२ दुष्कृतम् ३ दुरितम् ४ पापम् ५ एनः ६
पाप्मा ७ किल्विषम् ८ कलुषम् ९ किण्वम् १०
कल्मषम् ११ वृजिनम् १२ तमः १३ अंहः १४
कल्कम् १५ अघम् १६ पङ्कम् १७ । इति हेम-
चन्द्रः ॥ तत्तु नवविधं यथा । अतिपातकम् १
महापातकम् २ अनुपातकम् ३ उपपातकम् ४
सङ्करीकरणम् ५ अपात्रीकरणम् ६ जातिभ्रंश-
करम् ७ मलावहम् ८ प्रकीर्णकम् ९ । इति
प्रायश्चित्तविवेकः ॥ एषां विवरणं तत्तच्छब्दे
द्रष्टव्यम् ॥ कायवाङ्मनःकृतानि दशविधपापानि
यथा, --
“अदत्तानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥
पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।
असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम् ॥
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥”
इति तिथ्यादितत्त्वम् ॥

पातङ्गिः, पुं, (पतङ्गस्य सूर्य्यस्यापायमिति । पतङ्ग

+ “अत इञ् ।” ४ । १ । १५ । इति इञ ।)
शनैश्चरः । इति शब्दरत्नावली ॥
पृष्ठ ३/१०८

पातञ्जलं, क्ली, (पतञ्जलिना स्वनामविश्रुतमह-

र्षिणा प्रणीतं प्रोक्तं वा इति अण् ।) पतञ्जलि-
मुनिप्रणीतपादचतुष्ठयात्मकयोगकाण्डनिरूपक-
दर्शनशास्त्रविशेषः ॥ तत्र प्रथमे पादे अथ
योगानुशासनमिति योगशास्त्रारम्भे प्रतिज्ञां
विधाय योगश्चित्तवृत्तिनिरोध इत्यादिना योग-
लक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षद्भग-
वान् पतञ्जलिः ॥ १ ॥ द्बितीये तपःस्वाध्याये-
श्वरप्रणिधानानि क्रियायोग इत्यादिना व्युत्थित-
चित्तस्य क्रियायोगं यमादीनि पञ्च बहिरङ्गानि
साधनानि ॥ २ ॥ तृतीये । देशबन्धश्चित्तस्य धार-
णेत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्गं
संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातम् ॥ ३ ॥
चतुर्थे जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय
इत्यादिना सिद्धिप्रपञ्चनपुरःसरं परमं प्रयो-
जनं कैवल्यम् ॥ ४ ॥ प्रधानादीनि पञ्चविंशति-
तत्त्वानि साङ्ख्योक्तान्येवात्रापि । षड्विंशस्तु
परमेश्वरोऽधिकः । इति सर्व्वदशनसंग्रहः ॥

पातनं, क्ली, (पत + णिच् + भावे ल्युट् ।) अधो

नयनम् । यथा “ऊर्द्ध्वाधस्तिर्य्यक्पातनादिभी
रसस्य नानाविधा शुद्धिरुक्ता ।” इति रत्नावली ॥

पाता, [ऋ] त्रि, (पाति रक्षतीति । पा

रक्षणे + तृच् ।) रक्षिता । यथा, --
“संहारकर्त्तुः संहर्त्ता पातुः पाता परात्परः ।
ममाज्ञयायं संहर्त्ता नाम्ना तेन हरः स्मृतः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ६ अध्यायः ॥
गन्धपत्रः । इति शब्दचन्द्रिका ॥ वायुइ इति
भाषा ॥

पातालं, क्ली, (पतन्त्यस्मिन् दुष्क्रियावन्त इति ।

पत + “पतिचण्डिभ्यामालञ् ।” उणां । १ ।
११६ । इति आलञ् । पादस्य तले वर्त्तते
इति पृषोदरात् साधुरित्येके ।) विवरम् ।
वडवानलः । इति मेदिनी ॥ लग्नाच्चतुर्थस्थानम् ।
यथा, --
“पातालं हिवुकञ्चैव सुहृदम्भश्चतुथकम् ॥”
इति ज्योतिस्तत्त्वम् ॥
स्वनामख्यातभुवनविशेषः । तत्पर्य्यायः । अधो-
भुवनम् २ बलिसद्म ३ रसातलम् ४ नागलोकः
५ । इत्यमरः ॥ अधः ६ उरगस्थानम् ७ ॥ * ॥
सप्तपातालानि यथा, --
“अतलं नितलञ्चैव वितलञ्च गभास्तमत् ।
तलं सुतलपाताले पातालानि तु सप्त वै ॥”
इति शब्दरत्नावली ॥
शेष उवाच ।
“कथयामि महाभाग ! पातालस्य विनिर्णयम् ।
क्रमादेव निबोधैतत् सावधानो द्विजर्षभ ! ॥
पातालानि च सप्तैव मुनयः संप्रचक्षते ।
अतलं वितलञ्चैव सुतलञ्च तलातलम् ॥
महातलञ्च विख्यातं ततो ज्ञेयं रसातलम् ।
ततः पातालमित्येवं सप्त पातालसंज्ञकाः ॥
एते स्वर्गाधिकसुखा विलस्वर्गाः प्रकीर्त्तिताः ।
समृद्धभवनोद्यानविहाराक्रीडचत्वराः ॥
या च सा मेदिनी ब्रह्मन् ! धत्ते स्थावरजङ्गमान् ।
अधस्तस्या यदतलं योजनायुततो द्विज ! ॥
मयपुत्त्रो महामायो वसत्यत्र महासुरः ।
येन सृष्टाः पुरा माया षडूर्द्ध्वनवतिः किल ॥ १ ॥
तदधो वितलं नाम योजनानां ततोऽयुते ।
हरो विहरते तत्र भगवान् हाटकेश्वरः ॥
सुपार्श्वदैर्भूतगणैर्भवान्या च सह प्रभुः ।
प्रवृत्ता च सरित् तत्र हाटकी नाम विस्तृता ॥ २ ॥
अधः सुतलमित्येतत् योजनानां ततोऽयुते ।
तत्रोदारश्रवाः पुण्यश्लोको वैरोचनिर्ब्बलिः ॥ ३ ॥
तलातलं ततोऽधस्तात् सुतलाद्योजनायुते ।
मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्म्महान् ।
निवसत्यत्र सुचिरं मायानां परमाश्रयः ॥ ४ ॥
महातले ततोऽधस्ताद्योजनानामथायुते ।
सर्पाणां काद्रवेयाणां गणः क्रोधवशाह्वयः ॥
गरुडात् सर्व्वदा भीतः सकुटुम्बः सुहृद्वृतः ।
निवसत्यनभिज्ञातः पक्षिराजेन गह्वरे ॥ ५ ॥
रसातले ततोऽधस्ताद्योजनानामथायुते ।
निवसन्ति दानवाश्च शक्राद्भीता निरन्तरम् ॥ ६ ॥
पाताले तु ततोऽधस्ताद्योजनानां द्विजायुते ।
नागलोकेश्वराः शूरा निवसन्ति महाबलाः ॥” ७
इति पाद्मे पातालखण्डे १ । २ । ३ अध्यायाः ॥ *
अपि च अग्निपुराणे ।
“अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् ।
महातलं रसातलं पातालं सप्तमं स्मृतम् ॥
रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् ।
रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥
पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् ।
शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥
अष्टाविंशतिविख्यातास्ततो नरककोटयः ।
नरकाणामधस्तात्तु धूमः कालाग्निसम्भवः ॥
तस्याधस्तादनन्ताख्यो रुद्रः सर्व्वमयो महान् ।
तदधो धर्म्मचक्रन्तु येनेदं धार्य्यते जगत् ॥” * ॥
अन्यच्च ।
“दशसाहस्रमेकैकं पातालं मुनिसत्तम् ! ।
अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ॥
महाख्यं सुतलञ्चाग्र्यां पातालञ्चापि सप्तमम् ।
कृष्णाशुक्लारुणापीताशर्कराशैलकाञ्चनाः ॥
भूमयो यत्र मैत्रेय ! वरप्रासादशोभिताः ।
तेषु दानवदैतेयजातयः शतसंघशः ॥
निवसन्ति महाभागा अहयश्च महामुने ! ।
स्वर्लोकादपि रम्याणि पातालानीति नारद ! ॥
दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् ।
शशिनश्च न शीताय निशि द्योताय केवलम् ॥
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ।
शेषाख्यायद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ॥
योऽनन्तः पठ्यते सिद्धैर्द्देवदेवर्षिपूजितः ।
यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ।
आस्ते कुसुममालेव कस्तद्वीर्य्यं वदिष्यति ॥
यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ।
तदा चलति भूरेषा साद्रितोयाब्धिकानना ॥”
इति विष्णुपुराणे । २ । ५ । अध्यायः ॥

पातालः, पुं, (पतति जारणाद्यर्थं पारदादिकं

यत्र । पत + आलञ् ।) औषधपाकार्थयन्त्र-
विशेषः । इति शब्दचन्द्रिका ॥ तत्प्रकारो
यथा, वैद्यके ।
“ऊर्द्ध्वमापस्तले वह्निर्मध्ये तु रससंग्रहः ।
पातालयन्त्रमेतद्धि शोधयेत् सूतकादिकम् ॥”

पातालगरुडी, स्त्री, (पातालाख्या गरुडी ।) लता-

विशेषः । छेउडा इति हिन्दीभाषा ॥ तत्-
पर्य्यायः । बत्सादनी २ सोमवल्ली तिक्ताङ्गा ४
मेचकाभिधा ५ तार्क्षी ६ सौपर्णी ७ गारुडी ८
र्दीर्घकाण्डा ९ दृढकाण्डा १० महाबला ११
दीर्घवल्ली १२ दृढलता १३ । अस्या गुणाः ।
मधुरत्वम् । पित्तदाहास्रदोषविषदोषनाशि-
त्वम् । वृष्यत्वम् । सन्तर्पणत्वम् । रुच्यत्वञ्च ।
इति राजनिर्घण्टः ॥
अपि च ।
“छिलिहिण्डो महामूलः पातालगरुडाह्वयः ।
छिलिहिण्डः परं वृष्यः कफघ्नः पवनापहः ॥”
इति भावप्रकाशः ॥

पातालनिलयः, पुं, (पाताले पातालं वा निलयो

यस्य ।) दैत्यः । इति हलायुधः ॥ सर्पः । इति
राजनिर्घण्टः ॥

पातालौकाः, [स्] पुं, (पातालमोकः स्थान-

मस्येति ।) दैत्यः । इति हेमचन्द्रः ॥ पाताल-
वासिनि, त्रि ॥

पातिः, पुं, (पाति रक्षतीति । पा + “पातेरतिः ।”

उणां । ५ । ५ । इति अतिप्रत्ययः ।) प्रभुः ।
स्वामी । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

पातिकः, पुं, (पातः पतनं जले निमज्जनोन्मज्जन-

मेवास्त्यस्येति । पात + ठन् ।) शिशुमारः । इति
शब्दमाला ॥

पातिली, स्त्री, (पातिः सम्पातिः पक्षियूथं लीयते-

ऽत्र । ली + डः । ङीष् च ।) वागुरा । (पातिः
स्वामी लीयतेऽस्याम् ।) नारी । मृत्पात्र-
भेदः । इति मेदिनी ॥ पातिल् इति भाषा ॥

पातुकः, त्रि, (पत + “लषपतपदस्थेति ।” ३ ।

२ । १५४ । इति उकञ् ।) पतयालुः । पतन-
शीलः । इत्यमरः ॥ (यथा, महाभारते । १२ ।
९१ । ४२ ।
“यमो राजा धार्म्मिकाणां मान्धातः परमेश्वरः ।
संयच्छन् भवति प्राणानसंयच्छंस्तु पातुकः ॥”)
प्रपाते जलहस्तिनि च पुं । इति मेदिनी ॥

पात्रः, त्रि, (नानागुणालङ्कृतो जनः ।

“अपात्रः पात्रतां याति यत्र पात्रो न विद्यते ॥”
इत्युणादिवृत्तिकृदुज्ज्वलदत्तः ॥
तथा च महाभारते । १३ । ६९ । २२ ।
“शुभे पात्रे ये गुणा गोप्रदाने
तावान् दोषो ब्राह्मणस्वापहारे ॥”)
पाधातोस्त्रप्रत्ययनिष्पन्नत्वादेकतकारवानयम् ॥

पात्रं, क्ली, पाति रक्षति क्रियामाधेयं वा । पिब-

न्त्यनेनेति वा । पा रक्षणे पा पाने वा + “सर्व्व-
धातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् ।)
पृष्ठ ३/१०९
आधेयधारणवस्तु । तत्पर्य्यायः । अमत्रम् २
भाजनम् ३ । इत्यमरः । २ । ९ । ३३ ॥ भाण्डम् ४
कोशः ५ कोषः ६ पात्री ७ कोशी ८ कोषी ९
कोशिका १० कोषिका ११ । इति शब्दरत्ना-
वली ॥ (यथा, देवीभागवते । १ । २ । ४० ।
“सकलगुणगणानामेकपात्रं पवित्र-
मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् ॥”)
योग्यम् । स्रुवादि । राजमन्त्री । तीरद्वयान्त-
रम् । इति मेदिनी ॥ पातार इति भाषा ॥
पर्णम् । नाट्यानुकर्त्ता । इति हेमचन्द्रः ॥
आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥ * ॥
(यथा, चरके कल्पस्थाने १२ अध्याये ।
“ -- चतुः प्रस्थमथाढकम् ।
पात्रं तदेव विज्ञेयं -- ॥”)
पात्राणां विधिर्यथा, --
“हेमपात्रेण सर्व्वाणि लभते चेति तान्मुने ! ।
अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुतान् लभेत् ॥
ताम्रपात्रेण सौभाग्यं धर्म्मं मृण्मयसम्भवैः ।
वार्क्षपात्राणि रम्याणि नैष्ठिकादिषु कारयेत् ॥
शैलानि क्रूरजातीनां रक्तानि सर्व्वकामिनाम् ।
धातूत्तमानि पात्राणि नृपराष्ट्रविवृद्धये ॥
त्रपुसीसकलौहानि अन्त्यजादिषु कारयेत् ।
विवाहयज्ञश्राद्धेषु प्रतिष्ठासु विशेषतः ॥
पात्राणाञ्चाद्वरः कार्य्यः पात्राण्येवोत्तमानि च ।
पात्रेषु पृथिवी दुग्धा सुधा पात्रेषु धार्य्यते ॥
देवाः सोमः क्रतुर्यज्ञः पात्राण्येवं विदुर्बधाः ।
बलिहोमक्रियादीनि विना पात्रैर्न सिध्यति ॥
तस्माद्यज्ञाङ्गमेवातः पात्रञ्चाग्र्यं महामुने ! ॥”
तत्परिमाणादिर्यथा, --
“षट्त्रिंशदङ्गुलं पात्रञ्चोत्तमं परिकीर्त्तितम् ।
मध्यमं तत्त्रिभागेण भागं कन्यसमीरितम् ॥
वस्वङ्गुलप्रमाणन्तु तत् पात्रं कारयेत् क्वचित् ।
नानाविचित्ररूपाणि पौण्डरीकाकृतीनि च ॥
शङ्खनीलोत्पलाकारपात्राणि परिकल्पयेत् ।
रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुसञ्चितान् ॥
यथाशोभं यथालाभं तथा पात्राणि कारयेत् ।
विना पात्रेण यः कुर्य्यात् प्रतिष्ठायाज्ञिकीं
क्रियाम् ।
विफला भवते सर्व्वा वाहनादिधनापहा ॥”
इति देवीपुराणम् ॥ * ॥
भोजनपात्राणि भोजनशब्दे द्रष्टव्यानि ॥

पात्रटः, पुं, (पाता इव पिबन्निव वा अटतीति ।

अट् + अच् ।) कर्पटकः । कृशे, त्रि । इति
शब्दरत्नावली ॥

पात्रटीरः, पुं, (पातेव रक्षन्निव पिबन्निव वा अट-

तीति + अट + बाहुलकात् ईरन् ।) युक्तव्यापार-
मन्त्री । लौहपात्रम् । कांस्यपात्रम् । रजतपा-
त्रम् । सिंहाणम् । पावकः । इति शब्दमाला
मेदिनी च ॥ रे, २८१ । पिङ्गाशः । वायसः ।
कङ्कः । इति शब्दरत्नावली ॥

पात्रपालः, पुं, (पात्रं पालयतीति । पाल +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) तुला-
धटः । इति जटाधरः ॥ पातओयार इति
भाषा ॥

पात्रसंस्कारः, पुं, (संस्क्रियते इति । सम् + कृ +

घञ् । पात्रस्य संस्कारः शुद्धिः ।) भाजनशुद्धिः ।
पुरोटिः । इति शब्दचन्द्रिका ॥ रायभाटी
इति भाषा ॥

पात्री, स्त्री, (पा + ष्ट्रन् । षित्वात् ङीप् ।) पात्रम् ।

इति त्रिलिङ्गसंग्रहे अमरः । ३ । ५ । ४२ ॥
(यथा, पाद्मे सृष्टिखण्डे तडागविधिप्रकरणे ।
“पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ।
तत्र निःक्षिप्य मकरं मत्स्यादींश्चैव सर्व्वशः ॥”)

पात्रीयं, क्ली, (पात्रे साधु । पात्र + बाहुलकात्

च्छः ।) यज्ञपात्रम् । इति त्रिकाण्डशेषः ॥

पात्रीरः, पुं, (पात्र्यै राति पात्रीं रातीति वा ।

रा + कः ।) यज्ञद्रव्यम् । इति भूरिप्रयोगः ॥

पात्रेसमितः, त्रि, (पात्रे भोजनसमये एव

समितः सङ्गतः ।) भोजनादन्यत्र यो न
मिलितः सः । भोजनेष्वेव दक्षः । यथा, --
“स पात्रेसमितोऽन्यत्र भोजनान्मिलितो न यः ॥”
इति त्रिकाण्डशेषः ॥
पापविशेषः । यथा, --
“निधाय हृदये पापं यः परं शंसति स्वयम् ।
स पात्रेसमितोऽथ स्यात् ॥” इति शब्दमाला ॥

पात्रोपकरणं, क्ली, (पात्रस्य पात्राणां वा उप-

करणम् उपभूषणम् ।) उपभूषणम् । यथा, --
“रीतिवर्गादिसंजातं पात्रोपकरणादिकम् ।
दद्यादायसवर्ज्जन्तु भूषणं न कदाचन ॥
घण्टाचामरकुम्भादिपात्रोपकरणादिकम् ।
तद्भूषणान्तरे दद्याद्यस्मात्तदुपभूषणम् ॥”
इति कालिकापुराणे ६८ अध्यायः ॥

पात्त्रं, क्ली, (पततीति । पत + क्विप् । पतं अधः-

पतन्तं जनं त्रायते । त्रै + कः । ततः स्वार्थे प्रज्ञा-
द्यण् निम्नेऽस्य निरुक्तिश्च दर्शनीया ।) पापि-
त्राता । यथा, भविष्यपुराणे ।
“सर्व्वषामेव पात्त्राणां परं पात्त्रं महेश्वरः ।
पतन्तं त्रायते यस्मादतीवनरकार्णवात् ॥”
महेश्वर इति प्रदर्शकं हेतोरविशेषात् ।
तथा नन्दिपुराणम् ।
“पात्त्राण्याध्यात्मिका मुख्या विशुद्धाश्चाग्निहो-
त्रिणः ।
देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥

पात्त्रता, स्त्री, (पात्त्रस्य भावः ।) पात्त्रत्वम् ।

विद्यातपस्याचारयुक्तता । यथा, --
“न विद्यया केवलया तपसा वापि पात्त्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्त्रं प्रचक्ष्यते ॥”
इति शुद्धितत्त्वम् ॥

पाथं, क्ली, जलम् । इति मेदिनी । थे, ९ ॥

पाथः, पुं, (पातीति । पा + थुट् निपातनात् ।)

सूर्य्यः । अग्निः । इति मेदिनी । थे, ९ ॥

पाथः, [स्] क्ली, (पाति रक्षति जीवानिति ।

पा + “उदके थुट् च ।” उणां । ४ । २०४ ।
इति असुन् थुट् च । “पातेरेवोदके वाच्येऽसुन्
तस्य थुडागम इत्युज्ज्वलदत्तः ।) जलम् । इत्य-
मरः ॥ (यथा, काशीखण्डे । २९ । ४९ ।
“खरसन्तापशमनी खनिः पीयूषपाथसाम् ॥”)

पाथिः, [स्] पुं, (पिबति नद्यादिजलमाकर्ष-

तीति । “पिबतेस्थुक् च ।” उणां । २ । ११५ ।
इति इसिन् थुगागमश्च ।) समुद्रः । इत्युणादि-
कोषः ॥ चक्षुः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥ (पीयते इति । पा + इसिन् थुगा-
गमश्च ।) कीलाले, क्ली । इत्युणादिकोषः ॥

पाथेयं, क्ली, (पथि साधुरिति । “पथ्यतिथिवसति

स्वपतेर्ढञ् ।” ४ । ४ । १०४ । इति ढञ् ।)
पथि व्ययितव्यद्रव्यम् । इति हेमचन्द्रः ॥ पथ-
खरच इति भाषा ॥ तत्पर्य्यायः । शम्बलम् २ ।
इत्यमरः ॥ सम्बलम् ३ । इति भरतः ॥ (यथा,
देवीभागवते । ३ । २५ । १२ ।
“लुण्ठिता तस्करैर्मार्गे वस्त्रमात्रा तथा-कृता ।
पाथेयञ्च हृतं सर्व्वं बालपुत्त्रा निराश्रया ॥”)
कन्याराशिः । यथा, --
“क्रियतावुरिजितुमकुलीरलेयपाथेययूककौ-
र्पाख्याः ।
तौक्षिक आकोकेरो हृरोगश्चान्त्यभञ्चेत्थम् ॥”
इति ज्योतिस्तत्त्वम् ॥

पाथोजं, क्ली, (पाथसि जले जायते इति । जन +

डः ।) कमलम् । इति राजनिर्घण्टः ॥ (यथा,
नैषधे । १९ । २७ ।
“अनतिशिथिले पुम्भावेन प्रगल्भबलाः खलु
प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः ॥”
कमलशब्दे विवरणं सविस्तरं ज्ञेयम् ॥)

पाथोदः, पुं, (पाथो जलं ददातीति । दा + कः ।)

मेघः । इति त्रिकाण्डशेषः ॥

पाथोधरः, पुं, (धरति धारयतीति वा । धृ + अच् ।

पाथसो धरः । पाथो धारयतीति । धारि + अच्
ह्नस्व इत्येके ।) मेघः । इति हलायुधः ॥
(यथा, राजतरङ्गिण्याम् । ३ । २४० ।
“अन्तर्ये सततं लुठन्ति गणितास्तानेव पाथोधरै-
रार्त्तानापतितांस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ॥”)

पाथोधिः, पुं, (पाथांसि धीयन्तेऽत्र । धा + कि ।)

समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा, राज-
तरङ्गिण्याम् । ३ । ६८ ।
“वशीकृतेयं पृथिवी कृत्स्ना भवदनुग्रहात् ।
जेतुं द्वीपान् कथ्यतान्तु युक्तिः पाथोधिलङ्घने ॥”)

पाथोनिधिः, पुं, (पाथांसि जलानि निधीयन्ते-

ऽस्मिन् इति । नि + धा + किः ।) समुद्रः ।
इति शब्दरत्नावली ॥

पाद, पुं, (पद + णिच् + क्विप् ।) पादः । इति

जटाधरः ॥

पादः, पुं, (पद + करणे घञ् ।) पद्यते गम्यते

अनेन । पा इति भाषा । स तु गर्भस्थबालकस्य
मासद्वयेन भवति । यथा, --
“मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्य्राद्यङ्गविग्रहः ॥”
इति भागवतीयतृतीयस्कन्धः ॥
पृष्ठ ३/११०
तत्पर्य्यायः । पत् २ अङ्घ्रिः ३ चरणः ४ । इत्य-
मरः ॥ अंह्निः ५ । इति शब्दरत्नावली ॥ * ॥
ऋग्वेदीयमन्त्रचतुर्थांशः । श्लोकचतुर्थांशः । यथा,
पादाश्चेल्लोपे सत्येव पूर्य्येत । इह ऋक्पाद एव
गृह्यते । इति वामनः ॥ अविशेषात् श्लोकपादो-
ऽपि । इत्यपरे । इति सिद्धान्तकौमुदी ॥ * ॥
पादद्वारा पादाक्रमणादिनिषेधो यथा, --
“पादेन नाक्रमेत् पादमुच्छिष्टं नैव लङ्घयेत् ।
न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ॥”
इति कर्म्मलोचनम् ॥ * ॥
पादचालनादिनिषेधो यथा, --
“न पादचालनं कुर्य्यात् पादेन वा कदाचन ।
नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद्बुधः ॥
नातिप्रसारयेद्देवं ब्राह्मणान् गामथापि वा ।
वाय्वग्निनृपविप्राणां सूर्य्यं वा शशिनं प्रति ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥ * ॥
पादेन्द्रियस्याध्यात्मत्वं तस्मिन्नधिभूतमधिदैवतञ्च
यथा, महाभारते आश्वमेधिकपर्व्वणि
४२ अध्याये ।
“अतः परं प्रवक्ष्यामि सर्व्वं विविधमिन्द्रियम् ।
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ॥
अधिभूतन्तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥”
वुध्नः । वृक्षमूलम् । तुरीयांशः । चतुर्थभागः ।
शैलप्रत्यन्तपर्व्वतः । महाद्रिसमीपे क्षुद्रपर्व्वतः ।
(यथा, हरिवंशे ९४ । २० ।
“उभयोर्बिन्ध्यर्क्षयोः पादे नगयोस्तां महा-
पुरीम् ॥”)
मयूखः । किरणः । इति मेदिनी ॥ (शिवः ।
यथा, महाभारते । १३ । १७ । १२४ ।
“न्यायनिर्व्वपणः पादः पण्डितो ह्यचलोपमः ॥”
चिकित्सापादचतुष्टयं यथा, --
“वैद्यो व्याध्युपसृष्टस्तु भेषजं परिचारकः ।
एते पादाश्चिकित्सायाः कर्म्मसाधनहेतवः ॥
गुणवद्भिस्त्रिभिः पादैश्चतुर्थो गुणवान् भिषक् ।
व्याधिमल्पेन कालेन महान्तमपि साधयेत् ॥
वैद्यहीनास्त्रयः पादा गुणवन्तोऽप्यपार्थकाः ।
उद्गातृहोतृब्रह्माणो यथाध्वर्य्युं विनाध्वरे ॥
तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती ।
लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥
प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः ।
सत्यधर्म्मपरो यश्च स भिषक् पाद उच्यते ॥
आयुष्मान् सत्त्ववान् साध्यो द्रव्यवानात्मावानपि ।
आस्तिको वैद्यवाक्यस्थो व्याधितः पाद उच्यते ॥
प्रशस्तदेशसम्भूतं प्रशस्तेऽहनि चोद्धृतम् ।
युक्तमात्रं मनस्कान्तं गन्धवर्णरसान्वितम् ॥
दोषघ्नमग्लानिकरमविकारि विपर्य्यये ।
समीक्ष्य दत्तं काले च भेषज्रं पाद उच्यते ॥
स्निग्धोऽजुगुप्सुर्बलवान् युक्तो व्याधितरक्षणे ।
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥”
इति च सुश्रुते सूत्रस्थाने ३४ अध्यायः ॥
“कारणं षोडशगुणं सिद्धौ पादचतुष्टयम् ॥”
इति चरकं सूत्रस्थाने नवमेऽध्यांये ॥
अस्य शुभलक्षणं यथा, --
“अस्वेदनौ मृदुतलौ कमलोदराभौ
श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी ।
उष्णौ शिराविरहितौ च निगूढगुल्फौ
कूर्म्मोन्नतौ च चरणौ मनुजेश्वरस्य ॥”
अशुभलक्षणञ्च यथा, --
“सूर्पाकारविरूक्षपाण्डुरनखौ वक्रौ शिरा-
सन्ततौ
संशुष्को विरलाङ्गुली च चरणौ दारिद्र-
दुःखप्रदौ ॥”)

पादकटकः, पुं, (पादस्य कटक इवेति ।) नूपुरः ।

रवशून्यहंसाकृतिचरणभूषणम् । वेँक मल इति
भाषा । तत्पर्य्यायः । हंसकः २ । इत्यमर-
भरतौ ॥

पादकृच्छ्रः, पुं, व्रतविशेषः । यथा, --

“एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैकेन पादकृच्छ्र उदाहृतः ॥”
इति गारुडे १०३ अध्यायः ॥

पादगण्डिरः, पुं, (गड्यते क्षर्य्यते पूयरक्तादि यस्मात्

यत्र वा पादे इत्यर्थः । गड + किरच् इति
गण्डिरः पदः ततो राजदन्तादिवत् परनिपा-
तनात् साधुः । गण्डीर इति पाठोऽपि दृश्यते
तत्र गड + ईरन्प्रत्ययेन सग्धुरिति ।) श्लीप-
दम् । इति त्रिकाण्डशेषः ॥ गोद इति भाषा ॥
(श्लीपदशब्देऽस्य विवृतिर्व्विज्ञेया ॥)

पादग्रहणं, क्ली, (पादयोर्ग्रहणम् इति । ग्रह +

भावे ल्युट् ।) अभिवादनम् । पादस्पर्शपूर्ब्बक-
प्रणामः । इत्यमरः ॥ तन्निषेधो यथा, “समि-
द्वार्य्युदकुम्भपुष्पान्नहस्तो नाभिवादयेत् यच्चा-
प्येवं युक्तम् ।” इति बौधायनः ॥
“जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान् ।
दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत् ॥”
इति लघुहारीतः ॥
न पुष्पाक्षतपाणिर्नाशुचिर्न जपन् न देवपितृ-
कार्य्यं कुर्व्वन् । अभिवादयेदित्यनुवृत्तौ शङ्ख-
लिखितौ ॥ * ॥ तद्विधिः ।
“लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।
आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत् ॥
ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥” * ॥
तत्प्रकारः ।
“अभिवादात् परं विप्रो ज्यायांसमभिवादयन् ।
असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत् ॥
नामधेयस्य ये केचिदभिवादं न जानते ।
तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव
च ॥
भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः ॥”
इति मनुः । २ । १२२ -- १२४ ॥

पादचतुरः, पुं, (पादे पदव्यापारे गमनादौ

चतुरः ।) छागः । सैकतम् । पिप्पलः । करकः ।
परदोषैकप्रवक्ता । इति मेदिनी । रे, ३०४ ॥

पादचारी, [न्] पुं, (पद्भ्यां चरतीति । चर

गतौ + णिनिः) पदातिः । इति हेमचन्द्रः ।
३ । १६२ ॥ पद्भ्यां गमनशीले, त्रि ॥ (यथा,
भागवते । ६ । १२ । २९ ।
“गिरिराट् पादचारीव पद्भ्यां निर्ज्जरयन्
महीम् ।
जग्रास स समासाद्य वज्रिनं सहवाहनम् ॥”)

पादजः, पुं, (पद्भ्यां जायते इति । जन + डः ।

“पद्भ्यां शूद्रोऽजायत ।” इति श्रुतेर्ब्रह्मणः
पद्भ्यां जातत्त्वात्तथात्वम् ।) शूद्रः । इति
त्रिकाण्डशेषः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि ।
३९ । ६३ ।
“न विप्रा न च राजानो न वैश्या न च
पादजाः ॥”
पादोद्भवमात्रे, त्रि ॥)

पादत्राणं, क्ली, (पादयोस्त्राणं यस्मात् ।) पादुका

इति जटाधरः ॥ (यथा, सुश्रुते चिकित्सित-
स्थाने ११ अध्याये । “अधनस्त्वबान्धवो वा पाद-
त्राणातपत्रविरहितो भैक्ष्याशी ग्रामैकरात्रा-
नुवासी मुनिरिर्व संयतात्मा योजनशतमधिकं
वा गच्छेत् ॥” शीतऋतूपचारेऽस्य व्यवहारो
यथा, --
“उष्णत्वभावैर्लघुभिः प्रावृतः शयनम्भजेत् ।
युक्त्यार्ककिरणान् स्वेदं पादत्राणञ्च सर्व्वदा ॥”)

पादपः, पुं, (पादेन मूलेन पिबति रसानिति ।

पा + कः ।) वृक्षः । इत्यमरः ॥ (यथा, हितोप-
देशे । १ । ६३ ।
“यत्र विद्बज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥”
पादौ पाति रक्षतीति । पा + रक्षणे + कः ।)
पादपीठः । इति मेदिनी । पे, २१ ॥

पादपरुहा, स्त्री, (पादपे वृक्षे रोहतीति । रुह +

कः ।) बन्दाकः । इति राजनिर्घण्टः ॥

पादपा, स्त्री, (पादौ पाति रक्षतीति । पा +

कः + टाप् ।) पादुका । इति मेदिनी । पे, २१ ॥

पादपाशः, पुं, (पादस्य पाशः ।) अश्वपादरज्जुः ।

तत्पर्य्यायः । दामाञ्चनम् २ । इति हेमचन्द्रः ।
४ । २९५ ॥

पादपाशी, स्त्री, (पादपाश + स्त्रियां गौरादित्वात्

ङीष् ।) खड्डुका । खेडुया इति भाषा ॥
शृङ्खला । शिकली इति भाषा ॥ इति मेदिनी ॥

पादपीठं, क्ली, (पादस्य पीठम् ।) पादस्थाप-

नासनम् । पा राखा टुल इति भाषा ॥ तत्-
पर्य्यायः । पदासनम् २ । इति हेमचन्द्रः । ३ ।
३८२ ॥ (यथा, रघुः । १७ । २८ ।
“वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥”)

पादपीठिका, स्त्री, (पादपीठं साधनत्वेनास्त्यस्या

इति । पादपीठ + ठन् ।) नापितादिशिल्पम् ।
यथा, --
“नापितादिकशिल्पे तु कारिका पादपीठिका ॥”
इति शब्दमाला ॥
पृष्ठ ३/१११

पादप्रक्षालनं, क्ली, (पादयोः प्रक्षालनम् ।)

चरणधौतम् । पा धोओया इति भाषा ॥ अस्य
गुणाः । मेधाजनकत्वम् । पवित्रत्वम् । आयुष्य-
त्वम् । अलक्ष्मीकलिनाशकत्वञ्च । इति राज-
वल्लभः ॥ (यथा, च, --
“पादप्रक्षालनं पादमलरोगश्रमापहम् ।
चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्द्धनम् ॥”
इति चिकित्सितस्थाने चतुर्व्विंशेऽध्याये सुश्रुते-
नोक्तम् ॥)

पादप्रधारणं, क्ली, (पादौ प्रधार्य्येते कण्टकादिभ्यो

रक्ष्येतेऽनेनेति । प्र + धृ + णिच् + ल्युट् ।)
पादुका । इति केचित् ॥

पादप्रहारः, पुं, (पादस्य पादेन वा प्रहारः ।)

पदाघातः । लाति इति भाषा ॥ यथा ।
“नायिकापादप्रहारादिना नायकस्य कोपादि-
वर्णनम् ।” इति काव्यप्रकाशे सप्तमोल्लासः ॥
(यथा च साहित्यदर्पणे । १० । ४६ ।
“दासे कृतागसि भवत्युचितः प्रभूणां
पादप्रहार इति सुन्दरि ! नात्र दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रै-
र्यद्भिद्यते मृदु पदं ननु सा व्यथा मे ॥”)

पादबन्धनं, क्ली, (पादयोर्गोमहिष्यादीनामित्यर्थः ।

यद्बन्धनम् ।) गोमहिष्यादिबन्धनम् । इति जटा-
धरः ॥ यादवशब्दटीकायां भरतश्च ॥ (बध्ना-
त्यनेनेति । बन्ध + करणे ल्युट् । पादयोर्बन्धनं
तत्साधनवस्तु । गोमहिष्यादीनां पादबन्धन-
द्रव्यम् । यथा, हेमचन्द्रः । ४ । ३२१ ।
“स तु शृङ्खलकः काष्ठमयैः स्यात् पादबन्धनैः ॥”)
चरणोद्दानञ्च ॥

पादमूलं, क्ली, (पादयोर्मलम् ।) चरणाधोभागः ।

यथा, हेमचन्द्रः ।
“पादमूलं गोहिरं स्यात् पार्ष्णस्तु घुटयोरधः ॥”
(यथा, रामायणे । २ । ७८ । २५ ।
“सा पादमूले कैकेय्या मन्थरा निपपात ह ॥”
प्रत्यन्तपर्व्वताधोभागः । यथा, कथासरित्-
सागरे । १ । २७ ।
“महीं भ्रमन्तौ हिमवत्पादमूलमवापतुः ॥”)

पादरक्षणं, क्ली, (पादयो रक्षणं यस्मात् ।)

पादुका । इति हेमचन्द्रः । ३ । ५७८ ॥

पादरज्जुः, स्त्री, (पादबन्धनार्था रज्जुः ।) हस्ति-

पादबन्धनरज्जुः । तत्पर्य्यायः । पारी २ । इति
जटाधरः ॥ चरणबन्धनदाममात्रञ्च ॥

पादरथी, स्त्री, (पादस्य रथी क्षुद्रो रथ इव ।)

पादुका । इति त्रिकाण्डशेषः ॥

पादरोहणः, पुं, (पादैमूलैः रोहतीति । रुह +

ल्युः ।) वटवृक्षः । इति राजनिर्घण्टः ॥

पादवल्मीकः, पुं, (पादे वल्मीक इव ।) श्लीप-

दम् । इति हेमचन्द्रः । ३ । १२९ ॥ (श्लीपद-
रोगशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

पादविकः, पुं, (पदवीं धावतीति । पदवी +

“माथोत्तरपदपदव्यनुपदं धावति ।” ४ । ४ । ३७ ।
इति ठक् ।) पथिकः । इति सिद्धान्तकौसुदी ॥

पादविरजाः, [स्] स्त्री, (पादो विरजा धूलि-

विहीनो यस्याः ।) पादुका । इति हारा-
वली । ७४ ॥

पादशः, [स्] व्य, पादं पादम् । पादशब्दात्

वीप्सायां चशस्प्रत्ययनिष्पन्नम् । इति व्याकर-
णम् ॥ (यथा, मनुः । १ । ८३ ।
“अरोगाः सर्व्वसिद्धार्थाश्चतुर्व्वर्षशतायुषः ।
कृते त्रेतादिषु ह्येषामायुर्ह्नसति पादशः ॥”)

पादशैलः, पुं, (पादः महाद्रिसमीपस्थः क्षुद्रपर्व्वतः

स एव शैलः ।) प्रत्यन्तपर्व्वतः । इति शब्दरत्ना-
वली ॥

पादशोथः, पुं, (पादोद्भवः शोथः । शाकपार्थि-

वादिवत् समासः ।) पादगतशोफः । यथा, --
“अनन्योपद्रवकृतः शोथः पादसमुत्थितः ।
पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम् ॥”
इति माधवकरः ॥
(यथा च हारीते चिकित्सितस्थाने २६ अः ॥
“शोथो भवेच्च विकलेन्द्रियरोममार्गः
क्षीणे बले वपुषि चाम्लकटूष्णसेवया ।
शैत्यात्तथा विशदपिच्छलसेवनेन
रूक्षाभिघातपतनेन च धारणाद्वा ॥
आमाशये गतिरतोऽपि नरस्य यस्य
अन्ते प्रधावति ततोऽपि च दोष एषः ।
करोति पाणिचरणे च पृथक् प्रसूतो
द्वन्द्वेन वा भवति शोथविकारचारः ॥
नरस्य चान्तःप्रभवाश्च शोथाः
साध्या भवेयुर्विनता मुखेषु ।
असाध्यकाः सर्व्वशरीरगाश्च
पादे स्त्रिया वा वदने नरस्य ॥”)

पादस्फोटः, पुं, (पादस्य स्फोटः । पादं स्फोटय-

तीति वा । स्फुट् + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) रोगविशेषः । तत्पर्य्यायः । विपा-
दिका २ । इत्यमरः ॥ स्फुटी ३ स्फुटिः ४ पाद-
स्फोटिः ५ । इति शब्दरत्नावली ॥ स तु एका
दशक्षुद्रकुष्ठान्तर्गततृतीयकुष्ठम् । यथा, --
“वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम् ।
पाणिपादस्फुटनं पाण्योः पादयोश्च स्फुटनं
विदारणं येन तत् । इति माधवकरः ॥ अस्य
चिकित्सा कुष्ठशब्दे द्रष्टव्या ॥

पादहारकः, त्रि, पादाभ्यां ह्नियतेऽसौ । पाद-

शब्दात् निपातनात् कर्म्मणि णकप्रत्ययान्तः ।
इति मुग्धबोधव्याकरणम् ॥ (“कृत्यल्युटो बहु-
लम् ।” ३ । ३ । ११३ । इति कर्म्मणि ण्वुल् । इति
सिद्धान्तकौमुदी ।) चरणद्वारा हरणकर्त्ता ॥

पादाग्रं, क्ली, (पादयोरग्रम् ।) चरणाग्रभागः ।

तत्पर्य्यायः । प्रपदम् २ । इत्यमरः ॥

पादाङ्गदं, क्ली, (पादस्य अङ्गदमिव ।) नूपुरम् ।

इत्यमरः ॥

पादात्, पुं, (पादाभ्यामतति गच्छतीति । अत +

क्विप् ।) पादातिः । इति शब्दरत्नावली ॥
(पादाभ्यामत्तीति । अद् + क्विप् । वृक्षः । इति
व्युत्पत्तिलब्धोऽर्थः ॥)

पादातं, क्ली, (पदातीनां समूहः । पदाति +

“भिक्षादिभ्योऽण् । ४ । २ । ३८ । इत्यण् ।)
पत्तिसंहतिः । पदातिसमूहः । इत्यमरः ॥
(यथा, महाभारते । १२ । ९९ । ८ ।
“सादिनामन्तरे स्थाप्यं पादातमपि दंशितम् ॥”)

पादातः, पुं, (पादाभ्यामततीति । अत + अच् ।)

पादातिः । यथा, --
“पदातिपत्तिपादातपादातिकपदाजयः ॥”
इत्यमरमाला ॥
(यथा, महाभारते । २ । ५१ । ४३ ।
“अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।
रथानामर्व्वुदं चापि पादाता बहवस्तथा ॥”)

पादातिः, पुं, (पादाभ्यामततीति । अत + इन् ।)

पदातिः । इति हेमचन्द्रः ॥

पादातिकः, पुं, (पादातिरेव । पादाति + स्वार्थे

कन् ।) पदातिः । इति हेमचन्द्रः । ३ । १६२ ॥

पादारकः, पुं, (पाद इव ऋच्छतीति । ऋ +

ण्वुल् ।) पोलिन्दः । इति त्रिकाण्डशेषः ॥

पादालिन्दी, स्त्री, (पाद इव अलिन्दो यत्र । गौरा-

दित्वात् ङीष् ।) नौका । इति हारावली । ५९ ।

पादावर्त्तः, पुं, (पाद इव आवर्त्तते इति । आ +

वृत् + अच् ।) अरघट्टकः । इति हेमचन्द्रः ।
४ । १५९ ॥ रहट् इति हिन्दीभाषा ॥

पादाविकः, पुं, (अव रक्षणे + भावे घञ् । पादेन

अवः रक्षणम् । तत्र पादावे पादेन शरीरादि-
रक्षणे नियुक्तः । पादाव + “तत्र नियुक्तः ।” ४ ।
४ । ६९ । इति ठक् ।) पदातिः । इति शब्द-
रत्नावली ॥

पादी, [न्] पुं, (पादोऽस्त्यस्येति । पाद + इनिः ।)

पादविशिष्टजलजन्तुगणः । अस्य गणना गुणाश्च
यथा, भावप्रकाशे ।
“कुम्भीरकूर्म्मनक्राश्च गोधामकरशङ्कवः ।
घण्डिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥
पादिनोऽपि च ये ते तु कोषस्थानां गुणैः समाः ॥”
चतुर्थांशभागी । यथा, मनुः । ८ । २१० ।
“सर्व्वेषामर्द्धिनो मुख्यास्तदर्द्धेनार्द्धिनोऽपरे ।
तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥”

पादुकः, त्रि, (पद्यते गच्छतीति । पद + “लष-

पतपदेति ।” ३ । २ । १५४ । इति उकञ् ।)
गमनशीलः । पदधातोः कर्त्तरि ञुक्प्रत्यय-
निष्पन्नः । इति मुग्धबोधव्याकरणम् ॥

पादुका, स्त्री, (पादूरेव । पादू + स्वार्थे कन् ततो

ह्नस्वः ।) चर्म्मादिनिर्म्मितपादाच्छादनम् । जुता
इति भाषा ॥ तत्पर्य्यायः । पादूः २ उपानत् ३ ।
इत्यमरः ॥ पन्नद्धा ४ पादरक्षिका ५ प्राणि-
हिता ६ । इति हेमचन्द्रः ॥ पन्नद्ध्री ७ पाद-
रथी ८ । इति त्रिकाण्डशेषः ॥ कौषी ९ ।
इति शब्दरत्नावली ॥ * ॥ तस्या धारणविधि-
र्यथा, --
“वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥”
इति ज्योतिस्तत्त्वम् ॥
पृष्ठ ३/११२
अस्या धारणगुणाः ।
“पादप्रधारणं वृष्यमोजस्यं चक्षुषोर्हितम् ।
सुखप्रचारमायुष्यं बल्यं पादरुजापहम् ॥” * ॥
अस्या अधारणे दोषा यथा, --
“पादाभ्यामनुपानद्भ्यां नृणां चंक्रमणं सदा ।
अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिकृत् ॥”
इति राजवल्लभः ॥ * ॥
तस्या दानफलं यथा, --
“दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।
न तस्य मानसो दाहः कदाचिदपि जायते ॥
यानञ्चाश्वतरीयुक्तं तस्य हेममयं शुभम् ।
उपतिष्ठति विप्रर्षे सर्व्वरत्नविभूषितम् ॥
दानमत्र यथोत्पन्नं तत्ते वक्ष्यामि पार्थिव ।
शृणुष्वैकमना भूप ! लोके सर्व्वसुखप्रदम् ॥
जमदग्निर्मुनिः पूर्ब्बं तपःस्वाध्यायकर्शितः ।
वाणखड्गधरो धन्वी बभूव सततोद्यतः ॥
धनुर्वेदे तथा वेदे सर्व्वास्त्रपारगोऽभवत् ।
क्षिपन् वाणांस्तथा शश्वत् भार्य्ययानुगतो हि सः ॥
कदा निदाघकाले तु क्षिपन् वाणान् सहस्रशः ।
तस्यौ स्थाणुरिवासह्यः प्रतिलक्षं महामुनिः ॥
निदाघतीव्रसन्तापाद्गच्छन्त्याः सततं भयात् ।
भर्त्तुः स्नेहात्तथा यान्त्यास्तस्याश्चण्डायते रविः ॥
क्षुत्तृष्णाश्रमतापार्त्ता तथा यातुं न साशकत् ।
सुतापाद्देशविभ्रष्टा रेणुका च तपस्विनी ॥
तांदृष्ट्वा स मुनिः प्राह भार्य्यां किन्ते भवेच्चिरम् ।
कोपार्त्तमाह भर्त्तारं न कोपं कर्त्तुमर्हसि ॥
निदाघतीव्रसन्तापाद् भ्रष्टपादा तृषार्द्दिता ।
घृणिमदघृणिभिः स्पृष्टा न शशाकाह मार्गि-
तुम् ॥
इत्युक्ते स क्रुधाविष्टः प्राह सन्धाय कार्मुके ।
पृषत्कं मां न जानाति सूर्य्यो विभ्रंशमीयिवान् ॥
यः सन्तपति मे भार्य्यां साध्वीं धर्म्मपरायणाम् ।
साध्वसाधु अजानन् वै फलमाप्नोतु तस्य हि ॥
इत्युक्त्रा स्थानमातस्थावर्कविभ्रंशहेतवे ।
प्रतीक्ष्य हि सुघोरेण क्रूररूपधरो मुनिः ॥
तं विज्ञाय मुनिं सूर्य्यो द्विजोऽभूच्चेदमब्रवीत् ।
किमालोकयसे सूर्य्यं पुनः पुनरतीव हि ॥
सुवाणाञ्चितपाणिस्त्वं कथयस्वाखिलं मुने ! ।
इत्युक्तः स तमाहेदं पातयिष्याम्यहं रविम् ॥
द्विजस्तु तमुवाचाथ मुने चित्रं विभाति मे ।
मातुरङ्कगतो यद्बद्बालश्चन्द्रं जिघृक्षति ॥
योजनानां सहस्राणि निमेषाद्याति यो दश ।
विप्र ! मुक्तेन वाणेन तं कथं पातयिष्यसि ॥
तच्छुत्वा यमदग्निस्तं प्राह शृणु द्विजोत्तम ! ।
पातयिष्याम्यहं यद्वदिमं सूर्य्यं नभःस्थलात् ॥
वियच्चरो यदा सूर्य्यो मर्त्यलोके त्वतन्द्रितः ।
मध्याह्ने स्थिरतामेति सर्व्वलोकान्ददर्शिवान् ॥
तत्काले सुमहल्लक्ष्यं भविष्यति दिवाकरः ।
एवं तं पातयिष्यामि पश्यतस्ते द्विजोत्तम ! ॥
तच्छ्रुत्वा सहसोद्विग्नस्तस्य प्रत्यक्षतां ययौ ।
सूर्य्यस्तं क्षमयामास दत्त्वा छत्रमुपानहौ ॥
ततःप्रमृति तच्छत्रं द्विजानां परिगीयते ।
दत्तं तैर्धार्य्यतेऽन्येषां क्षत्त्रियाणां द्बिजोत्तम ! ॥
यो ददाति द्विजेभ्यस्तु तृतीयायामुपानहौ ।
वैशाखे शुक्लपक्षे तु सच्छत्रं कनकान्वितम् ॥
न तस्य मानषो दाहो मृत्युलोकेऽभिजायते ।
सर्व्वव्याधिविनिर्मुक्तः श्रियं पुत्त्रांश्च विन्दति ॥
कालादिह यदा याति मम लोके द्विजोत्तम ! ।
यानं वाश्वतरीयुक्तं सर्व्वहेममयं शुभम् ॥
दिव्याङ्गनाभिराकीर्णं सर्व्वरत्नविभूषितम् ।
उपतिष्ठति विप्रेन्द्र ! सर्व्वकामफलप्रदम् ॥”
इत्यग्निपुराणम् ॥ * ॥
विष्णुगृहे सपादुकगमने दोषो यथा, --
वराह उवाच ।
“वहन्नुपानहौ पद्भ्यां यस्तु मामुपचाक्रमेत् ।
चर्म्मकारस्तु जायेत वर्षाणान्तु त्रयोदश ॥
तत्र जन्मपरिभ्रष्टः शूकरो जायते पुनः ।
शूकराच्च परिभ्रष्टः श्वा च तत्रैव जायते ॥
ततः श्वत्वात् परिभ्रष्टो मानुषश्चैव जायते ।
मद्भक्तश्च विनीतश्च अपराधविवर्ज्जितः ॥
मुक्त्रा तु सर्व्वसंसारं मम लोकाय गच्छति ॥
य एतेन विधानेन वसुधे ! कर्म्म कारयेत् ।
न स लिप्यति पापेन एवमेतन्न संशयः ॥”
इति वराहपुराणे उपानहापराधप्रायश्चित्तम् ॥
अथ देवतापादुकानिर्म्माणपूजनविधिः । यथा, --
“मणिरत्नमयी कार्य्या हेमरूप्यमयी पि वा ।
चन्दनेनापि कर्त्तव्या पादुकाप्रतिमापि वा ॥
श्रीपर्णा श्रीद्रुमा चापि देवदारुमयी पि वा ।
षडङ्गुला च सा कार्य्या पादुके पूजयेत् सदा ॥”
इति देवीपुराणम् ॥ * ॥
गुरुपादुकास्तोत्रं यथा, --
“ब्रह्मरन्ध्रसरसीरुहोदरे
नित्यलग्नमवदातमद्भुतम् ।
कुण्डलीविवरकाण्डमण्डितं
द्वादशार्णसरसीरुहं भजे ॥ १ ॥
तस्य कन्दलितकर्णिकापुटे
कॢप्तरेखमकथादिरेखया ।
कोणलक्षितहलक्षमण्डली-
भावलक्ष्यमबलालयं भजे ॥ २ ॥
तत्पुटे पटुतडित्कडारिम-
स्पर्द्धमानमणिपाटलप्रभम् ।
चिन्तयामि हृदि चिन्मयं वपु-
बिन्दुनादमणिपीठमण्डलम् ॥ ३ ॥
ऊर्द्ध्वमस्य हुतमुक्शिखासखं
तद्विलासपरिबृंहणास्पदम् ।
विश्वघस्मरमहोत्सदोत्कटं
व्यामृषाठियुगमादिहंसयोः ॥ ४ ॥
तत्र नाथचरणारविन्दयोः
कुङ्कुमासवझरीमरन्दयोः ।
द्वन्द्वमिन्दुमकरन्दशीतलं
मानसं स्मरति मङ्गलास्पदम् ॥ ५ ॥
पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् ।
षडाम्नायफलोपेतं प्रपञ्चे चातिदुर्लभम् ॥”
इति रुद्रयामलः ॥

पादुकाकारः, पुं, (पादुकां करोतीति । कृ +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) चर्म्म-
कारः । इति हलायुधः ॥

पादुकाकृत्, पुं, (पादुकां करोतीति । कृ + क्विप् ।)

चर्म्मकारः । इति हेमचन्द्रः । ३ । ५७८ ॥

पादूः, स्त्री, (पद्यते गभ्यते सुखेन ययेति । पद +

“णित्कशिपद्यर्त्तेः ।” उणां १ । ८७ । इति ऊः
स च णित् ।) पादुका । इत्यमरः ॥

पादूकृत्, पुं, (पादूं पादुकां करोतीति । कृ +

क्विप् । तुक् ।) चर्म्मकारः । इत्यमरः ॥

पादोदकं, क्ली, (पादप्रक्षालनजातं उदकम् ।

शाकपार्थिवादिवत् समासः ।) चरणधौत-
जलम् । चरणामृतम् । यथा, --
“हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।
पादोदकञ्च निर्म्माल्यं मस्तके यस्य सोऽच्युतः ॥
नैवेद्यमन्नं तुलसीविमिश्रं
विशेषतः पादजलं पिबेच्च ।
योऽश्नाति नित्यं प्रयतो मुरारेः
प्राप्नोति सुप्रेमयुतां स भक्तिम् ॥
हत्यां हन्ति यदङ्घ्रिसङ्गतुलसीस्तेयञ्च पादोदकं
नैवेद्यं बहुमद्यपानदुरितं गुर्व्वङ्गनासङ्गमम् ।
भक्त्याधीनमतिः स्थितिर्हरिजने तत्संगतिः सङ्गजा
शालग्रामशिलादिमूर्त्तिमहितां जानन्ति के वै
हरेः ॥”
इति पाद्मोत्तरखण्डे १०० अध्यायः ॥ * ॥
अथ श्रीचरणोदकाभिषेकमाहात्म्यं पद्मपुराणे ।
“स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥
गङ्गागोदावरीरेवानद्यो मुक्तिप्रदास्तु याः ।
निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले ॥
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
तीर्थं यदि भवेत् पुण्यं शालग्रामशिलोद्भवम् ॥”
तत्रैव गौतमाम्बरीषसंवादे ।
“येषां धौतानि गात्राणि हरेः पादोदकेन वै ।
अम्बरीष ! कुले तेषां दासोऽस्मि वशगः सदा ॥
राजन्नेतानि तावच्च तीर्थानि भुवनत्रये ।
यावन्न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥”
स्कान्दे कार्त्तिकमाहात्म्ये ।
“गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने ।
शालग्रामशिलातोयैर्योऽभिषिञ्चति मानवः ॥”
तत्रैवान्यत्र ।
“यानि कानि च तीर्थानि ब्रह्माद्या देवता-
स्तथा ।
विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥
शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।
उभयोः स्नानतोयेन ब्रह्महत्या निवर्त्तते ॥”
किञ्च ।
“स वै चावभृतस्नातः स च गङ्गाजलाप्लुतः ।
विष्णुपादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥”
श्रीनृसिंहपुराणे ।
“गङ्गाप्रयागगयनैमिषपुष्कराणि
पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
पृष्ठ ३/११३
कालेन तीर्थसलिलानि पुनन्ति पापं
पादोदकं भगवतः प्रपुनाति सद्यः ॥”
स्मृतौ च ।
“त्रिरात्रिफलदा नद्यो याः काश्चिदसमुद्रगाः ।
समुद्रगाश्च पक्षस्य मासस्य सरितां पतिः ॥
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।
पादोदकं भगवतो द्बादशाब्दफलप्रदम् ॥”
तन्नित्यता च गरुडपुराणे ।
“जलञ्च येषां तुलसीविमिश्रितं
पादोदकं चक्रशिलासमुद्भवम् ।
नित्यं त्रिसन्ध्यं प्लवते न गात्रं
खगेन्द्र ! ते धर्म्मबहिस्कृता नराः ॥”
अथ श्रीचरणोदकपानमाहात्म्यम् । पाद्मे गौत-
माम्बरीषसंवादे ।
“हरेः स्नानावशेषन्तु जलं यस्योदरे स्थितम् ।
अम्बरीष ! प्रणम्योच्चैः पादपांशुः प्रगृह्यताम् ॥”
तत्रैव देवदूतविकुण्डलसंवादे ।
“ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।
पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।
नित्यं यदि पिबेत् पुण्यं शालग्रामशिलाजलम् ॥
शालग्रामशिलातोयं यः पिबेद्विन्दुना समम् ।
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्नरः ॥”
किञ्च ।
“दहन्ति नरकान् सर्व्वान् गर्भवासञ्च दारुणम् ।
पीतं यैस्तु सदा नित्यं शालग्रामशिलाजलम् ॥”
तत्रैव श्रीयमधूम्रकेतुसंवादे ।
“शालग्रामशिलातोयं विन्दुमात्रं तु यः पिबेत् ।
सर्व्वपापैः प्रमुच्येत मुक्तिमार्गे कृतोद्यमः ॥”
तत्रैव पुलस्त्यभगीरथसंवादे ।
“पादोदकस्य माहात्म्यं भगीरथ ! वदामि ते ।
पावनं सर्व्वतीर्थेभ्यो हत्याकोटिविनाशनम् ॥
धृते शिरसि पीते च सर्व्वास्तुष्यन्ति देवताः ।
प्रायश्चित्तन्तु पापानां कलौ पादोदकं हरेः ॥”
किञ्च ।
“त्रिभिः सारस्वतं तोयं सप्ताहेन तु नामदम् ।
सद्यः पुनाति गाङ्गेयं दर्शनादेव यामुनम् ॥
पुनन्त्येतानि तोयानि स्नानदर्शनकीर्त्तनैः ।
पुनाति स्मरणादेव कलौ पादोदकं हरेः ॥
अर्च्चितैः कोटिभिर्लिङ्गैर्नित्यं यत् क्रियते फलम् ।
तत् फलं शतसाहस्रं पीतैः पादोदकैर्हरेः ॥
अशुचिर्वा दुराचारो महापातकसंयुतः ।
स्पृष्ट्वा पादोदकं विष्णोः सदा शुद्ध्यति मानवः ॥
पापकोटियुतो यस्तु मृत्युकाले शिरे मुखे ।
देहे पादोदकं यस्य न प्रयाति यमालयम् ॥
न दानं न हविर्येषां स्वाध्यायो न सुरार्च्चनम् ।
तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥
विशाखाऋक्षसंयुक्ता वैशाखी किं करिष्यति ।
पिण्डारके महातीर्थे उज्जयिन्यां भगीरथ ! ॥
माघमासे प्रयागे तु स्नानं वै किं करिष्यति ।
प्रयागं सततं तस्य यस्य पादोदकं हरेः ॥
कार्त्तिके कार्त्तिकीयोगे किं करिष्यति पुष्करे ।
नित्यन्तु पुष्करं तस्य यस्य पादोदकं हरेः ॥
प्रबोधवासरे प्राप्ते मथुरायाञ्च तस्य किम् ।
नित्यञ्च यामुनं स्नानं यस्य पादोदकं हरेः ॥
काश्यामुत्तरवाहिन्यां गङ्गायान्तु मृतस्य किम् ।
यस्य पादोदकं विष्णोर्मुखे चैवावतिष्ठते ॥”
किञ्च ।
“हित्वा पादोदकं विष्णोर्योऽन्यतीर्थानि गच्छति ।
अनर्घ्यरत्नमुत्सृज्य लोष्ट्रं वाञ्छति दुर्म्मतिः ॥
कुरुक्षेत्रसमो देशो विन्दुपादोदकं मतः ।
पतेद् यत्राक्षयं पुण्यं नित्यं भवति तद्गृहे ॥
गयापिण्डसमं पुण्यं पुत्त्राणामपि जायते ।
पादोदकेन देवस्य ये कुर्य्युः पितृतर्पणम् ॥
नासुराणां भयं तस्य प्रेतजन्यं न राक्षसम् ।
न रोगस्य भयं चैव नास्ति विध्नकृतं भयम् ॥
न दुष्टा नैव घोराक्षाश्चापदोत्थभयं नहि ।
ग्रहाः पीडां न कुर्व्वन्ति वैरा नश्यन्ति दारुणाः ॥
किं तस्य तीथगमने देवर्षीणाञ्च दर्शने ।
यस्य पादोदकं मूर्द्ध्नि शालग्रामशिलोद्भवम् ॥
प्रीतो भवति मार्त्तण्डः प्रीतो भवति केशवः ।
ब्रह्मा भवति सुप्रीतः प्रीतो भवति शङ्करः ॥
पादोदकस्य माहात्म्यं यः पठेत् केशवाग्रतः ।
स याति परमं स्थानं यत्र देवो जनार्द्दनः ॥”
ब्रह्माण्डपुराणे श्रीब्रह्मनारदसंवादे ।
“प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्वघमर्षणम् ।
सोऽपि पादोदकं पीत्वा शुद्धिं प्राप्नोति तत्क्षणात् ॥
अशौचं नैव विद्येत सूतके मृतकेऽपि च ।
येषां पादोदकं मूर्द्ध्नि प्राशनं ये प्रकुर्व्वते ॥
अन्तकालेऽपि यस्येह दीयते पादयोर्जलम् ।
सोऽपि सद्गतिमाप्नोति सदाचारैर्ब्बहिष्कृतः ॥
अपेयं पिबते यस्तु भुङ्क्ते यश्चाप्यभोजनम् ।
अगम्यागमना ये वै पापाचाराश्च ये नराः ।
तेऽपि पूज्या भवन्त्याशु सद्यः पादाम्बुसेवनात् ॥”
किञ्च ।
“अपवित्रं यदन्नं स्यात् पानीयं चापि पापिनाम् ।
भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकं
हरेः ॥
तप्तकृच्छ्रात् पञ्चगव्यात् महाकृच्छ्राद्विशिष्यते ।
चान्द्रायणात् पादकृच्छ्रात् पराकादपि सुव्रत ।
कायशुद्धिर्भवेदाशु पीत्वा पादोदकं हरेः ॥
अगुरुं कुङ्कुमं चापि कर्पूरं चानुलेपनम् ।
विष्णुपादाम्बुसंलग्नं तद्वै पावनपावनम् ॥
दृष्टिपूतन्तु यत्तोयं विष्णुना प्रभविष्णुना ।
तद्वै पापहरं पुत्त्र ! किं पुनः पादयोर्जलम् ॥
एतदर्थमहं पुत्त्र ! शिरसा विष्णुतत्परः ।
धारयामि पिबाम्यद्य माहात्म्यं विदितं मम ॥
प्रियस्त्वमग्रजः पुत्त्र त्वदर्थं गदितं मया ।
रहस्यं मे त्वनर्हस्य न वक्तव्यं कदाचन ॥
धारयस्व सदा मूर्द्ध्नि प्राशनं कुरु नित्यशः ॥
जन्ममृत्युजरादुःखैर्मोक्षं यास्यसि पुत्त्रक ! ॥”
विष्णुधर्म्मोत्तरे ।
“सद्यः फलप्रदं पुण्यं सर्व्वपापविनाशनम् ।
सर्व्वमङ्गलमङ्गल्यं सर्व्वदुःखविनाशनम् ।
दुःस्वप्ननाशनं पुण्यं विष्णुपादोदकं शुभम् ॥
सर्व्वोपद्रवहन्तारं सर्व्वव्याधिविनाशनम् ।
सर्व्वोत्पातप्रशमनं सर्व्वतापनिवारणम् ॥
सर्व्वकल्याणसुखदं सर्व्वकामफलप्रदम् ।
सर्व्वसिद्धिप्रदं धन्यं सर्व्वधर्म्मविवर्द्धनम् ॥
सर्व्वशत्रुप्रशमनं सर्व्वभोगप्रदायकम् ।
सर्व्वतीर्थस्य फलदं मूर्द्ध्नि पादाम्बुधारणम् ॥
प्रयागस्य प्रभासस्य पुष्करस्य च सेवने ।
पृथूदकस्य तीर्थस्य आचान्तो लभते फलम् ॥
चक्रतीर्थे फलं यादृक् तादृक् पादाम्बुधारणात् ॥
सरस्वत्यां गयायाञ्च गत्वा यत् प्राप्नुयात् फलम् ।
तत् फलं लभते श्रेष्ठं मूर्द्ध्नि पादाम्बुधारणात् ॥”
स्कान्दे ।
“पादोदकस्य माहात्म्यं देवो जानाति शङ्करः ।
विष्णुपादच्युता गङ्गा शिरसा येन धारिता ॥
स्थानं नैवास्ति पापस्य देहिनां देहमध्यतः ।
सवाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै ॥
पादोदं विष्णुनैवेद्यमुदरे यस्य तिष्ठति ।
नाश्रयं लभते पापं स्वयमेव विनश्यति ॥
महापापग्रहग्रस्तो व्याप्तो रोगशतैरपि ।
हरेः पादोदकं पीत्वा मुच्यते नात्र संशयः ॥
शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ।
किं करिष्यन्ति ते लोके तीर्थकोटिमनोरथैः ॥
अयमेव परो धर्म्म इदमेव परं तपः ।
इदमेव परं तीर्थं विष्णुपादाम्बु यत् पिबेत् ॥”
तत्रैव शिवोमासंवादे ।
“विलयं यान्ति पापानि पीते पादोदके हरेः ।
किं पुनर्विष्णुपादोदं शालग्रामशिलाप्लुतम् ॥
विशेषेण हरेत् पापं ब्रह्महत्यादिकं प्रिये ॥
पीते पादोदके विष्णोर्यदि प्राणैर्विमुच्यते ।
हत्वा यमभटान् सर्व्वान् वैष्णवं लोकमाप्नुयात् ॥
तत्रैव शिवकार्त्तिकेयसंवादे शालग्रामशिला-
माहात्म्ये ।
“छिन्नस्तेन महासेन । गर्भवासः सुदारुणः ।
पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ॥
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।
पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ॥
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।
चान्द्रायणैश्च तीर्थैश्च पीत्वा पादोदकं शुचिः ॥
बृहन्नारदीये लुब्धकोपाख्यानारम्भे ।
हरिपादोदकं यस्तु क्षणमात्रञ्च धारयेत् ।
स स्नातः सर्व्वतीर्थेषु विष्णोः प्रियतरस्तथा ॥
अकालमृत्युशमनं सर्व्वजाधिविनाशनम् ।
सर्व्वदुःखोपशमनं हरिपादोदकं शुभम् ॥”
तत्रैव तदुपाख्यानान्ते ।
“हरिपादोदकस्पर्शाल्लुब्धको वीतकल्मषः ।
दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत् ॥
हरिपादोदकं यस्मान्मयि त्वं क्षिप्तवान् मुने ।
प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥”
हरिभक्तिसुधोदये ।
“पादं पूर्ब्बं किल स्पृष्ट्वा गङ्गाभूत् स्मर्त्तृमोक्षदा ।
विष्णोः सद्यस्तु तत्सङ्गि पादाम्बु कथमीष्यते ॥
पृष्ठ ३/११४
तापत्रयानलो योऽसौ न शाम्येत् सकलाब्धिभिः ।
द्रुतं शाम्यति सोऽल्पेन श्रीमद्बिष्णुपदाम्बुना ॥
अघास्त्राभेद्यकवचं भवाग्निस्तम्भनौषधम् ।
सर्व्वाङ्गैः सर्व्वथा धार्य्यं पाद्यं शुचिसदः सदा ॥
अमृतत्वावहं नित्यं विष्णुपादाम्बु यः पिबेत् ।
स पिबत्यमृतं नित्यं मासे मासे तु देवताः ॥
माहात्म्यमियदित्यस्य यो वक्ता सोऽपि निर्भयः ।
न त्वनर्घ्यमणेर्मूल्यं कलयन्नघमश्नुते ॥”
अन्यत्रापि ।
“स ब्रह्मचारी स व्रती आश्रमी च सदा शुचिः ।
विष्णुपादोदकं यस्य मुखे शिरसि विग्रहे ॥
जन्मप्रभृतिपापानां प्रायश्चित्तं यदीच्छति ।
शालग्रामशिलावारि पापहारि निषेव्यताम् ॥”
अतएव तेजोद्रविणपञ्चरात्रे श्रीब्रह्मोक्तम् ।
“पीठप्लणालादुदकं पृथगादाय पुत्त्रक ! ।
सिञ्चयेन्मूर्द्ध्नि भक्तानां सर्व्वतीर्थमयं हि तत् ॥”
इति ।
“पादोदकस्य माहात्म्यं विख्यातं सर्व्वशास्त्रतः ।
लेखितुं शक्नुयात् को हि सिन्धूर्मीन् गणयन्नपि ॥
विशेषतश्च पादोदं तुलसीदलसंयुतम् ।
शङ्खे कृत्वा वैष्णवेभ्यो दत्त्वा प्राग्वत् पिबेत्स्वयम् ॥”
अथ शङ्खकृतपादोदकमाहात्म्यं स्कान्दे ब्रह्म-
नारदसंवादे ।
“कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् ।
यो दद्यात्तुलसीमिश्रं चान्द्रायणशतं लभेत् ॥
गृहीत्वा कृष्णपादाम्बु शङ्खे कृत्वा तु वैष्णवः ।
यो वहेत् शिरसा नित्यं स मुनिस्तापसोत्तमः ॥”
पाद्मे देवदूतविकुण्डलसंवादे ।
“शालग्रामशिलातोयं यदि शङ्खभृतं पिबेत् ।
हत्याकोटिविनाशं तु कुरुते नात्र संशयः ॥”
अगस्त्यसंहितायाञ्च ।
“शालग्रामशिलातोयं तुलसीदलवासितम् ।
ये पिबन्ति पुनस्तेषां स्तन्यपानं न विद्यते ॥
श्रीविष्णोर्वैष्णवानाञ्च पावनञ्चरणोदकम् ।
सर्व्वतीर्थमयं पीत्वा कुर्य्यादाचमनं न हि ॥”
तदुक्तं स्कान्दे श्रीशिवेन ।
“विष्णोः पादोदकं पीत्वा पश्चादशुचिशङ्कया ।
आचामति च यो मोहाद्ब्रह्महा स निगद्यते ॥”
श्रुतिश्च । “भगवान् पवित्रो भगवत्पादौ पवित्रौ
पादोदकं पवित्रं न तत्पान आचमनीयं यथा
हि सोम इति ।” सौपर्णे च ।
“विष्णुपादोदकं पीत्वा भक्तपादोदकं तथा ।
य आचामति संमोहात् ब्रह्महा स निगद्यते ॥”
इति श्रीहरिभक्तिविलासः ॥

पाद्यं, क्ली, (पादार्थमुदकम् । पाद + “पादार्घा-

भ्याञ्च ।” ५ । ४ । २५ । इति यत् ।) पादाय
वारि । पादप्रक्षालनार्थजलम् । इत्यमरः ॥ तत्-
लक्षणं यथा, --
“पादावनेजनजलग्रहणं पात्रमद्भुतम् ।
लौहजं वा सरोजातं हैमं राजतमेव वा ॥
ताम्रमचरणमपि वायवेनं सतामिति ॥”
इति वैखानसग्रन्थः ॥
“षडङ्गुलं प्रविस्तारमुत्सेधञ्चतुरङ्गुलम् ।
ओष्ठमेकाङ्गुलं कुर्य्यान्नासिकां चतुरङ्गुलाम् ॥
पृष्ठे पादसमायुक्तं चतुरङ्गुलमानतः ।
पाद्यपात्रमिति ख्यातं सर्व्वदेवप्रपूजने ॥”
इति सिद्धान्तशेखरः ॥

पानं, क्ली, (पा पाने + भावे ल्युट् ।) पीतिः ।

द्रवद्रव्यस्य गलाधःकरणम् । (यथा, हितोपदेशे ।
“पयःपानं भुजङ्गानां केवलं विषवर्द्धनम् ॥”)
भाजनम् । (पाल रक्षणे + भावे ल्युट् ।) रक्ष-
णम् । इति मेदिनी ॥ (पीयते खगादिभि-
र्यत्र । पा + अधिकरणे ल्युट् । कुल्या । इति
हेमचन्द्रः । ४ । १५५ ॥ पीयते यदिति । कर्म्मणि
ल्युट् । जलम् । इति व्युत्पत्तिलब्धोऽर्थः ॥ * ॥
पाति रक्षतीति । पा + ल्युः । रक्षाकर्त्तरि, त्रि ।
यथा, ऋग्वेदे । ९ । ७० । ४ ।
“व्रतानि पानो अमृतस्य चारुण
उभे नृचक्षा अनु पश्यते विशौ ॥”
पायनम् । अस्त्रशस्त्राणां तीक्ष्णाग्रतासम्पा-
दनव्यापारभेदः । पान् इति भाषा ॥ यदुक्तं
बृहत्संहितायाम् ।
“वडवोष्ट्रकरेणुदुग्धपानं
यदि पानेन समीहतेऽर्थसिद्धिम् ।
झसपित्तमृगाश्च वस्तदुग्धैः
करिहस्तच्छिदये सतालगर्भैः ॥
आर्कं पयोहुडुविषाणमसीसमेतं
पारावताखुशकृता च युतं प्रलेपः ।
शस्त्रस्य तैलमथितस्य ततोऽस्य पानं
पश्चाच्छितस्य न शिलासु भवेद्विघातः ॥
क्षारे कदल्या मथितेन युक्ते
दिनोषिते पायितमायसं यत् ।
सम्यक् शितं चाश्मनि नैति भङ्गं
न चान्यलौहेष्वपि तस्य कौण्ठ्यम् ॥”
तथाच शुक्रनीत्याम् ।
“इदमौशनसञ्च शस्त्रपानं
रुधिरेण श्रियमिच्छतः प्रदीप्ताम् ।
हविषा गुणवत् सुताभिलिप्सोः
सलिलेनाक्षयमिच्छतश्च वित्तम् ॥”)

पानः, पुं, (पीयते यस्मादिति । पा + अपादाने

ल्युट् ।) शौण्डिकः । इति जटाधरः ॥ निःश्वासः ।
इति हेमचन्द्रः । ६ । ४ ॥

पानकं, क्ली, (पानाय कायतीति । कै + कः ।)

पानद्रव्यविशेषः । तत्प्रकारो यथा, “यथोक्त-
परिमितशर्करानिम्बूरसयुक्तोऽथवान्याम्लयुक्तः
पक्करसः । इति पाकराजेश्वरः ॥ (यथा, सुश्रुते ।
१ । ४६ ।
“पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत् ॥”
क्वचित् पुंस्यपि दृश्यते । यथा, तत्रैव । १ । ३९ ।
“एभिर्लेपान् कषायांश्च तैलं सर्पींषि पान-
कान् ॥”
तत्राम्रफलपानकम् । यथा, --
“आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना ।
सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् ॥
प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम् ।
सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम् ॥
अपक्वाम्ररसोद्भूतपानकं वातनाशनम् ।
कफपित्तकरं किञ्चिन् प्रत्यहं यदि सेवितम् ॥”
पक्काम्रस्य तु ।
“सुपक्कमाम्रस्य फलं सुमुष्टिना
सम्मर्दितं शर्करया समन्वितम् ।
एलालवङ्गार्द्रकवासवासितं
वर्णान्वितं कस्य न रोचकं भवेत् ॥
पानकं चाम्रसम्भूतं स्वाद्वम्लं गुरुपित्तजित् ।
सुहृद्यं श्लेष्मकृद्बल्यं वर्ण्यं वृष्यं रुचिप्रपदम् ॥”
अम्लिकाफलपानकं यथा, --
“अम्लिकायाः फलं पक्वं मर्द्दितं वारिणा दृढम् ।
शर्करा मरिचोन्मिश्रं लवङ्गेन्दुसुवासितम् ॥
अम्लिकाफलसम्भूतं पानकं वातनाशनम् ।
पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम् ॥”
निम्बुफलपानकं यथा, --
“भागैकनिम्बुजं तोयं षड्भागं शर्करोदकम् ।
लवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम् ॥
निम्बूफलभवं पानमत्यम्लं वातनाशनम् ।
वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम् ॥”
धान्याकपानकं यथा, --
“शिलायां साधुसम्पिष्टं धान्याकं वस्त्रगालितम् ।
शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् ॥
नवीने मृन्मये पात्रे स्थितं पित्तहरं परम् ॥
जम्ब्वाः पानकं यथा, --
“जम्बूफलं स्थूलतरं सुपक्वं
सम्मर्द्दितं शर्करयाम्बुनालम् ।
सुवासितं वेल्लजभृङ्गपत्रे
रुचिं विधत्ते विरुचौ जनानाम् ॥
जम्बूफलभवं रुच्यं पानकं कफनाशनम् ।
कषायं वातकृत् स्तोकं स्वाद्वम्लं ग्राहकं परम् ॥”
वीजपूरपानकम् ।
“मातुलुङ्गरसे योज्यं त्रिगुणं शार्करं जलम् ।
कर्पूरमरिचोन्मिश्रं पानकं स्यादिदं वरम् ॥
मातुलुङ्गभवं पानं शूलानाञ्च विनाशनम् ।
श्वासे कासेऽरुचौ वातविड्वन्धेषु च पूजितम् ॥”
हेमकिरणन्तु ।
“शर्करानालिकेलञ्च बीजपूररसप्लुतम् ।
पटपुतं भवेद्धेमकिरणं नामपानकम् ॥
पानकं हेमकिरणं रुच्यं वृष्यं बलप्रदम् ।
सुस्निग्धं वातहृच्छुभ्रं किञ्चित् कफकरं गुरु ॥”
करमर्द्दपानकं यथा, --
“लवङ्गार्द्रकसंयुक्तं सुपिष्टं वारिणा युतम् ।
करमर्दं करैर्मर्द्यं सप्तभागसितान्वितम् ॥
वातहृद्रुचिदं भव्यं हृद्यमम्लतरं स्मृतम् ।
रक्तपित्तकरञ्चोष्णमाकण्ठ्यं कारमर्दितम् ॥”
नारङ्गपानकं यथा, --
“सुपक्वनारङ्गफलं निपीडितं
संयोजितं शर्करयाति शुभ्रया ।
सहार्द्रकं चेन्दुकणेन वासितं
पानेच्छया केन न संस्तुतक्षणम् ॥”
पृष्ठ ३/११५
नारङ्गफलसम्भूतं पानकं वातनाशनम् ।
मधुरं विशदं रुच्यं सुस्निग्धं पित्तहृद्दृढम् ॥”
चारस्य तु ।
“चारवृक्षफलजं सशर्करं
मर्दितं शिशिरवारिणा दृढम् ।
ऐलमार्द्रकयुतेन सुवासं
भक्तसिक्थमिलितं कृतहासम् ॥
चारस्य फलजं पानं गुरु वृष्यं रुचिप्रदम् ।
कफपित्तहरं श्रेष्ठं हृद्यं मधुरपाकि च ॥
परुषजीरचुक्रादिद्राक्षादाडिमजं तथा ।
एकैकं सम्भवं भिन्नं पानकं क्रियते बुधैः ॥
एवमम्लस्य पुष्पस्य फलस्याम्लस्य वा तथा ।
शर्करामरिचोन्मिश्रं रस्यं स्यात् पानकं वरम् ॥
एवं हि पानकं कार्य्यं सुधिया सुष्ठु यत्कृतम् ।
गुणा द्रव्यानुसारेण ज्ञातव्याः पानकेषु च ॥”
यथास्य गुणाः, --
“श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु ।
विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणञ्च तत् ॥”
इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥
“गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ।
तदेव खण्डमृद्वीकाशर्करासहितं पुनः ॥
साम्लं सुतीक्ष्णं सुहिमं पानकं स्यान्निरत्ययम् ।
“प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः ।
खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥”

पानगोष्ठिका, स्त्री, (पानस्य पानाय वा गोष्ठिका ।)

यत्र सम्भूय पीयते । मद्यपानचक्रम् । तत्-
पर्य्यायः । आपानम् २ । इत्यमरः । २ । १० । ४३ ॥
चक्रानुष्ठानं यथा श्यामारहस्यधृतम् । चक्रा-
कारेण पंक्त्याकारेण वा भिन्नभिन्नासने स्वशक्ति-
युक्तश्चेत् युग्मयुग्मक्रमेण पद्मासनेनोपविश्य साम-
यिकललाटे चन्दनं दत्त्वा शिवशक्तिबुद्ध्या पुष्पञ्च
दद्यात् । ततो यदि गुरुस्तत्र तिष्ठति तदादौ
गन्धादिना तं पूजयित्वा तत्पात्रे पुष्पं दत्त्वा
शुद्धिसहितं तस्मै समर्प्य प्रणमेत् । गुरोरभावे
तत् पात्रं जले क्षिपेत् । ततः शक्तिपात्रं शुद्धि-
सहितं शक्त्यै दत्त्वा सामयिकेभ्योऽपि ज्येष्ठानु-
क्रमेण वीरपात्रात् परामृतं शुद्धिसहितं दद्यात् ।
ततः सामयिकोऽपि भक्त्या हस्तद्वयेन संगृह्य
तदुपरि मूलमन्त्रमष्टधा जप्त्वा पूर्ब्बवदानन्द-
भैरवं भैरवीञ्च सन्तर्प्य गुरून् देवताञ्च सन्त-
र्पयेत् । स्वस्वकल्पोक्तविधिना भूतशुद्धिं कुर्य्यात् ।
ततश्चक्रनायकस्तैःसह पात्रवन्दनं कुर्य्यात् । यथा,
“श्रीमद्भैरवशेखरप्रविलसच्चन्द्रामृतप्लावितं
क्षेत्राधीश्वरयोगिनीसुरगणैः सिद्धिः समाराधि-
तम् ।
आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं
वन्दे श्रीप्रथमं कराम्बुजगतं पात्रं विशुद्धिप्रदम् ॥”
इत्यभिमन्त्र्य वामहस्तेन पात्रमुत्तोल्य अन्योन्य-
वन्दनं कृत्वा गृह्णामीति गुरुशक्तिसाधकेश्वराणा-
माज्ञां गृह्णीयात् । ते जुषस्वेति ब्रूयुः । ततो मूला-
धारात् कुण्डलिनीं इष्टदेवतास्वरूपां आजि-
ह्वान्तां विभाव्य गुरुपादुकां स्मृत्वा शिवोऽह-
मिति विचिन्त्य हस्ताभ्यां पात्रं धृत्वा मूलमुच्च-
रन् कुण्डलिनीमुखे देवीं तर्पयेत् । एतदुक्त-
मुदयाकरपद्धत्याम् ।
“कृत्वा मन्त्रतनुं स्मरेत् गुरुपदं देवीं बलां चिन्मयीं
पश्चात् वारत्रयं सदासववृतं दीपैर्युतं कज्जलैः ।
पुष्पादिष्वभिमन्त्रितञ्च निविडं सम्मोहकध्वंसकं
ये सञ्चिन्त्य पिबन्ति यान्ति खलु ते भुक्तिञ्च
मुक्तिं पराम् ॥”
तन्त्रान्तरे च ।
“सिन्दूरतिलकं भाले पाणौ च मदिरासवम् ।
कृत्वा पिबेद्गुरुं ध्यायंस्तथा देवीञ्च चिन्मयीम् ॥”
ततः पात्रमाधारोपरि संस्थाप्य पुनस्तेन क्रमेण
परामृतं गृहीत्वा पात्रवन्दनं कुर्य्यात् । यथा, --
“मद्यं मीनरसावहं यदि तया दत्तञ्च पेयादिभिः
किञ्चिच्चञ्चलरक्तपङ्कजदृशा तस्यै समावेदितम् ।
वामे स्वात्मविशुद्धिशुद्धिकमलं पाणौ विधायात्मके
वन्दे पात्रमहं द्वितीयमधुनानन्दैकसंवर्द्धनम् ॥”
ततः पूर्ब्बवत् पात्रं स्वीकृत्य अन्यत् पात्रवन्दनं
कुर्य्यात् । यथा, --
“सर्व्वाम्नायकलाकलापकलितं कौतूहलद्योतनं
चन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् ।
ध्यातं देवगणैः परं मुनिगणैर्म्मोक्षार्थिभिः
सर्व्वदा
वन्दे पात्रमहं तृतीयमधुना चात्मावबोधक्षमम् ॥”
तृतीयपात्राभिवन्दनं कृत्वान्यत् पात्रवन्दनं
कुर्य्यात् । यथा, --
“हैमं मीनरसावहं हरिहरब्रह्मादिभिः सेवितं
मुद्रामैथुनधर्म्मकर्म्मनिरतं क्षाराम्लतिक्ताश्र-
यम् ।
आचार्य्याष्टकसिद्धिभैरवकलामांसेन संशोधितं
पायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः ॥”
इति चतुर्थपात्रवन्दनं कृत्वान्यत्पात्रवन्दनं
कुर्य्यात् । यथा, --
“आधारे भुजगाधिराजवलये पात्रं महीमण्डलं
मद्यं सप्तसमुद्रवारि पिशितं चाष्टौ च दिग्-
दन्तिनः ।
सोऽहञ्चैव विभावयन् प्रतिदिनं तारागणैरक्षितो
ऽप्यादित्यप्रमुखैः सुरासुरगणैराज्ञाकरैः
किङ्करैः ॥”
इति पञ्चमपात्रं स्वीकुर्य्यात् । ततो यावद्दृष्ठ्या-
दिकं न चलति तावत् पानादिकं कार्य्यम् ।
अथास्य प्रमाणं यथा रुद्रयामले ।
“साधकेभ्यश्च शक्तिभ्यो दद्यान्निर्म्माल्यचन्दनम् ।
सामयिकैः समं कुर्य्याद्देवि ! पानादिभक्षणम् ॥”
अन्यत्रापि ।
“निविशेच्चक्ररूपेण पंक्त्याकारेण वा यथा ।
शक्तियुक्तो वसेद्बापि युग्मयुग्मविधानतः ।
शिवशक्तिधिया सर्व्वं चक्रमध्ये समर्पयेत् ॥”
तन्त्रान्तरे च ।
“ततः पुष्पं समादाय गुरोः पात्रे निवेदयेत् ।
गुरवे च निवेद्याथ शक्त्यै दत्त्वा स्वयं हरेत् ॥”
भावचूडामणौ च ।
“साक्षाद्यदि गुरुर्न स्यात्तदातोये विसर्ज्जयेत् ॥”
एतत् सर्म्बं कलीतरपरम् ।
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन ॥”
इति कालीविलासवचनात् ॥

पानपात्रं, क्ली, (पानस्य पेयमद्यादेः पात्रम् ।)

मद्यपानपात्रम् । मद्यपानस्य भाजनम् । तत्-
पर्य्यायः । चषकः २ सरकः ३ अनुतर्षणम् ४ ।
इत्यमरः ॥ पूर्ब्बद्वयं मद्यपानपात्रे शेषद्वयं मद्य-
परिवेशनपात्रे । इति भरतः ॥ चषकम् ५ अनु-
तर्षः ६ पारी ७ पारीकम् ८ । इति शब्द-
रत्नावली ॥ * ॥ (यथा, मार्कण्डेये । ८२ । २९ ।
“ददावशून्यं सुरया पानपात्रं धनाधिपः ॥”)
अथ पानपात्रपरिमाणादि यथा कुलसारे ।
“नयनाग्निबाणसंख्यकर्षैस्तु परमेश्वरि ! ।
पात्रं प्रकर्त्तव्यमित्युक्तं कुलसाधने ॥
इतोऽप्यधिकपात्रन्तु न कर्त्तव्यञ्च साधकैः ॥”
कर्षं लौकिकतोलकमित्यर्थः । तदुक्तं कुलोत्तमे ।
“गुञ्जाद्वादश माषः स्यात्तदष्टौ कर्ष उच्यते ॥”
अथोत्तरतन्त्रे ।
“अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् ।
जुषस्वेत्यभ्यनुज्ञातो गुरुणा वा कुलीनकैः ॥
गृह्णीयाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः ॥”
कुलार्णवे ।
“एकासने निविष्टा ये भुञ्जीरंश्चैव भाजने ।
एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकाधमे ॥”
एकपात्रमिति सर्व्वैर्म्मिलित्वा नैकपात्रे पिबेत् ।
न तु प्रतिवारं द्रव्यपाने भिन्नभिन्नपात्रं कार्य्यं
अननुष्ठानलक्षणापत्तेः सम्प्रदायविरोधाच्च ॥

पानबणिक्, [ज्] पुं, (पानाय पेयसुरादेर्विक्र-

यार्थं बणिक् पानस्य बणिक् वा ।) शौण्डिकः ।
इति हेमचन्द्रः ॥

पानभाजनं, क्ली, (पानाय पानस्य वा भाजनं

पात्रम् ।) पानपात्रम् । तत्पर्य्यायः । कंसः २ ।
इत्यमरः । २ । ९ । ३२ ॥ “काम्यतेऽसौ कंसः
कमुक्ङ्स्पृहि नाम्नीति सः दन्त्यान्तः । स्वार्थे
ष्ण्ये कांस्यञ्च । स्वर्णरजतादिनिर्म्मिते पात्रमात्रे-
ऽपि कंसः । ‘कंसः स्यात् तैजसे द्रव्ये पान-
पात्रेऽपि कांस्यवंत् ।’ इति शाश्वतः ॥
‘पात्रान्तरे पानपात्रे कांस्यं कंसे त्त तैजसे ।’
इति रभसः ॥
पीयते पानं मद्यादि तस्य भाजनं पानभीज-
नम् ।” इति भरतः ॥

पानसं, क्ली, (पनसस्य इदं पनसफले भवं तत्-

फलस्य विकार इति वा अण् ।) पनसभव-
मद्यम् । इति जटाधरः ॥ पनससम्बन्धिनि, त्रि ॥

पानात्ययः, पुं, (पानाद्धेतोः जातो योऽत्ययः रोग-

विशेषः ।) मदात्ययरोगः । इति राजनिर्घण्टः ॥

पानिलं, क्ली, (पानमाधारत्वेनास्त्यत्र इति इलच् ।)

पानपात्रम् । इति शब्दचन्द्रिका ॥

पानीयं, क्ली, (पीयते इति । पा + अनीयर् ।)

जलम् । इत्यमरः । १ । १० । ४ ॥ पातव्ये रक्ष-
पृष्ठ ३/११६
णीये च त्रि ॥ पानार्हद्रव्यविशेषः । पाना इति
वङ्गभाषा । शरवत् इति पारस्यभाषा । तत्र
अम्लिकापानीयं पित्तवमिनाशकम् । मिष्ट-
दाडिमीपानीयं प्रतिश्यायकाशनाशकम् । अम्ल-
दाडिमीपानीयं उदरविकारे धारकं क्षुधावृद्धि-
कारकञ्च । निम्बूपानीयं छर्दिहृल्लासपित्तज्वर-
निवारकं सकलाहारपाचकञ्च । नागरङ्ग-
पानीयं कासपित्तविनाशकं अन्तःकरणप्राशस्त्य-
जनकञ्च । सेवचन्दनपानीयं बलकारकं उन्माद-
मूर्च्छारोगशान्तिकारकं रतिशक्तिवर्द्धकं उदर-
विकारोपकारकञ्च । इति पाकराजेश्वरः ॥
(अन्यत् पानकशब्दे द्रष्टव्यम् ॥ * ॥) जल-
दानविधिर्यथा, --
यम उवाच ।
“एतत्ते कथितं विप्र ! मम लोके तु दुर्लभम् ।
पानीयं सन्ततन्तस्माद्दातव्यं सुखमिच्छता ॥
अतोऽर्द्धं कारयेत् कूपं वापीं वा बहुपल्वलम् ।
बहुलोकाकुले देशे सर्व्वसत्त्वोपजीवितम् ॥”
इत्यग्निपुराणम् ॥
तद्दानानन्तरं पाठ्यमन्त्रो यथा, --
“पानीयं प्राणिनः प्राणाः पानीयं पावनं महत् ।
पानीयस्य प्रदानेन तृप्तिभवति शाश्वती ॥”
इति स्मृतिः ॥
तत्पर्य्यायः ।
“पानीयजीवनवनामृतपुष्कराम्भः-
पाथोऽम्बुशम्बरपथःसलिलोदकानि ।
आपः कवारुणकबन्धजलानि नीरं
कीलालवारिकमलानि विषार्णसी च ॥
भुवनं दहनारातिर्वास्तोयं सर्व्वतोमुखम् ।
क्षीरं घनरसं निम्नगं मेघप्रसवो रसः ॥”
अस्य साधारणगुणाः ।
“पानीयं मधुरं हिमञ्च रुचिदं तृष्णाविशोषापहं
मोहभ्रान्तिमपाकरोति कुरुते भुक्तान्नपक्तिं
पराम् ।
निद्रालस्यनिरासनं विषहरं श्रान्तार्त्तिसन्तर्पनं
नॄणां धीबलवीर्य्यवृद्धिजननं नष्टाङ्गपुष्टिप्रदम् ॥”
सद्यो वृष्ट्यम्बु भूमिस्थं कलुषं दोषदायकम् ।
चिरस्थितं लघु स्वच्छं पथ्यं स्वादु सुखावहम् ॥”
देशभूमिविशेषजलगुणाः ।
“जातं ताम्रमृदस्तदेव सलिलं वातादिदोषप्रदं
देशाज्जाड्यकरञ्च दुर्ज्जरतरं दोषावहं धूसरात् ।
वातघ्नञ्च शिलाशिरोत्थममलं पथ्यं लघु स्वादुकं
श्रेष्ठं श्याममृदस्त्रिदोषशमनं सर्व्वामयघ्नं
जलम् ॥”
इति राजनिर्घण्टः ॥
“पिच्छिलं कृमिलं क्लिन्नं पर्णशैवालकर्द्दमैः ।
विवर्णं विरसं सान्द्रं दुर्गन्धि न हितं जलम् ॥
चन्द्रार्ककरसंजुष्टं वायुना स्फालितं मुहुः ।
पर्व्वतोपरि यद्वारि समं पौरन्दरेण तत् ॥
तस्यानुगुणमुद्दिष्टं शैलप्रस्रवणोद्भवम् ।
लेखनं दीपनं रूक्षं किञ्चिद्बातप्रकोपणम् ॥”
इति राजवल्लभः ॥

पानीयनकुलः, पुं, (पानीये जले नकुल इव ।)

उद्रः । उद्विडाल इति भाषा । यथा, --
“उद्रस्तु जलमार्जारः पानीयनकुलो वसी ॥”
इति हेमचन्द्रः ॥

पानीयपृष्ठजः, पुं, (पानीयपृष्ठे जलोपरि जायते

इति । जन + डः ।) कुम्भी । इति रत्नमाला ॥
पाना इति भाषा ॥

पानीयफलं, क्ली, (पानीयजातं फलमिति मध्य-

पदलोपी समासः ।) मखान्नम् । इति भाव-
प्रकाशः ॥ माखाना इति भाषा ।

पानीयमूलकं, क्ली, (पानीयमेव मूलमस्य । ततः

कप् ।) सोमराजी । इति शब्दचन्द्रिका ॥

पानीयवर्णिका, स्त्री, (पानीयं वर्णयति प्रका-

शयतीति । वर्णि + ण्वुल् । टाप् अत इत्वञ्च ।)
वालुका । इति राजनिर्घण्टः ॥

पानीयशालिका, स्त्री, (पानीयस्य जलस्य वित-

रणार्थं शालिका शालागृहमित्यर्थः ।) जला-
वस्थानगृहम् । पानिशाला इति जलछत्र इति
च भाषा । तत्पर्य्यायः । प्रपा २ । इत्यमरः ॥
तत्कर्त्तृफलं यथा, --
“कूपारामप्रपाकारी तथा वृक्षादिरोपकः ।
कन्याप्रदः सेतुकारी स्वर्गमाप्नोत्यसंशयम् ॥”
इत्युद्वाहतत्त्वे यमः ॥

पानीयामलकं, क्ली, (पानीयमामलकं पानीयाख्यं

आमलकं वा ।) प्राचीनामलकम् । पानि
आमला इति भाषा । अस्य गुणाः । दोषत्रय-
ज्वरनाशित्वम् । इति भावप्रकाशः ॥ मुख-
शुद्धिमलबद्धकारित्वम् । अम्लत्वम् । स्वादुत्वञ्च ।
इति राजवल्लभः ॥

पानीयालुः, पुं, (पानीयसम्भूत आलुः ।) कन्द-

विशेषः । पनियालु इति हिन्दीभाषा । तत्-
पर्य्यायः । जलालुः २ क्षुपालुः ३ वालुकः ४ ।
अस्य गुणः । त्रिदोषनाशित्वम् । सन्तर्पणकारि-
त्वञ्च । इति राजनिर्घण्टः ॥

पानीयाश्ना, स्त्री, (पानीयं जलं अश्नातीति ।

अश ग् भोजने + बाहुलकात् नः ततष्टाप् ।)
वल्वजा । इति राजनिर्घण्टः ॥

पान्थः, त्रि, (पथि कुशलः पन्थानं नित्यं गच्छ-

तीति वा । “पथो ण नित्यम् ।” ५ । १ ।
७६ । पथः पन्थ च इत्यनेन पन्थादेशे कृते णः ।
पथिकः । इत्यमरः । २ । ८ । १७ ॥ (यथा,
हरिवंशे । ४२ । २ ।
“यथा निदाघसमये सूर्य्यांशुपरिपीडितः ।
पान्थो याति जलं दृष्ट्वा त्वरितं तत्पिपा-
सया ॥”)

पापं, क्ली, (पाति रक्षति अस्मादात्मानमिति ।

पा + “पानीविषिभ्यः पः ।” उणां । ३ । २३ ।
इति पः ।) अघर्म्मम् । दुरदृष्टम् । तत्पर्य्यायः ।
पङ्कम् १ पाप्मा २ पापम् ३ किल्विषम् ४
कल्मषम् ५ कलुषम् ६ वृजिनम् ७ एनः ८
अघम् ९ अहः १० दुरितम् ११ दुष्कृतम् १२ ।
इत्यमरः ॥ पातकम् १३ तूस्तम् १४ कण्वम् १५
शल्यम् १६ पापकम् १७ । इति शब्दरत्नावली
(निषिद्धकर्म्मानुष्ठानविहितकर्म्माननुष्ठानाभ्यां
पापोत्पत्तिं सविशेषमाह श्रीसंदाशिवः ।
“अनुष्ठानं निषिद्धस्य त्यागो विहितकर्म्मणः ।
नृणां जनयतः पापं क्लेशशोकामयप्रदम् ॥
स्वानिष्टमात्रजननात् परानिष्टोपपादनात् ।
तदेव पापं द्विविधं जानीहि कुलनायिके ! ॥
परानिष्टकरात् पापान् मुच्यते राजशासनात् ।
अन्यस्मान्मुच्यते मर्त्त्यः प्रायश्चित्त्या समाधिना ॥
प्रायश्चित्त्याथवा दण्डैर्न पूता ये कृतांहसः ।
नरकान् न निवर्त्तन्ते इहामुत्र निगर्हिताः ॥”
इति श्रीमहानिर्व्वाणतन्त्रे ॥)
तद्दशविधं यथा, --
“प्राणाभिपातनं स्तैन्यं परदारमथापि च ।
त्रीणि पापानि कायेन सर्व्वतः परिवर्ज्जयेत् ॥
असत्प्रलापं पारुष्यं पैशुन्यमनृतन्तथा ।
चत्वारि वाचा राजेन्द्र ! न जल्पेत न चिन्तयेत् ॥
अनभिध्या परस्वेषु सर्व्वसत्त्वेषु सौहृदम् ।
कर्म्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥”
इति शान्तिपर्व्वणि दानधर्म्मः ॥
स्मृत्युक्तान्येतानि पातकशब्दे लिखितानि ॥ * ॥
पापस्य पुरुषत्रयानुवर्त्तित्वं यथा, --
“नाधर्म्मश्चरितो राजन् ! सद्यः फलति गौरिव ।
शनैरावर्त्तमानस्तु मूलान्यपि निकृन्तति ॥
यदि नात्मनि मित्रेषु न चेत् पुत्रेषु नप्तृषु ।
पापमाचरितं कर्म्म त्रिवर्गमनुवर्त्तते ॥
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे ॥”
इति मात्स्ये २८ अध्यायः ॥ * ॥
तीर्थस्य पापनाशकत्वं तत्र कृतपापस्य वज्र-
लेपत्वञ्च । यथा, --
“अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ।
तीर्थे तु यत् कृतं पापं वज्रलेपो भविष्यति ॥
मथुरायां कृतं पापं तत्रैव च विनश्यति ।
एषा पुरी महापुण्या यस्यां पापं न विद्यते ॥”
इति वाराहे मथुरामाहात्म्यम् ॥ * ॥
शेषपापलक्षणं यथा, --
“अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ।
ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ॥
पितॄणाञ्च द्विजश्रेष्ठ ! सर्व्ववर्णेषु चैकतः ।
ॐकारादिनिवृत्तिश्च पापकार्य्यकृतिश्च या ॥
हत्यादिकं महापापं त्वगम्यागमनं तथा ।
घृतादिविक्रयं घोरं चाण्डालादिप्रतिग्रहम् ॥
स्वदोषगोपनं पापं परदोषप्रकाशनम् ।
ईर्षाविद्धं वाक्यदुष्टं निष्ठुरत्वं षडम्बरम् ॥
ढाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्म्मजः ।
मारणत्वमधार्म्मिक्यं नरकावहमुच्यते ॥
एतैः पापैस्तु संयुक्तः पच्यते यदि शङ्करः ॥”
इति वामने ५८ अध्यायः ॥
साङ्कर्य्यनामकपापानि यथा, --
“एकशय्याशनं पंक्तिभाण्डपक्वान्नमिश्रणम् ।
याजनाध्यापने योनिस्तथैव सहभोजनम् ॥
सहाध्यायस्तु दशमः सहयाजनमेव च ।
पृष्ठ ३/११७
एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसंज्ञिताः ॥
समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम् ।
तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यं परिवर्ज्जयेत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥
“आलापाद्गात्रसंस्पर्शात् संवासात्सहभोज-
नात् ।
आसनाच्छयनाद्यानात् पापं संक्रमते नृणाम् ॥
आसनादेकशय्याया भोजनात् पंक्तिसङ्करात् ।
ततः संक्रमते पापं घटाद्घट इवोदकम् ॥”
इति गारुडे नीतिसारे ११२ अध्यायः ॥
राष्ट्रादिकृतपापेन राजादीनां परस्परं पापित्वं
यथा, --
“राजा राष्ट्रकृतात् पापात् पापी भवति वै
हरे ! ।
तथैव राज्ञः पापेन तद्राज्यस्थास्तु ये जनाः ॥
वर्णाश्रमादयः सर्व्वे पापिनो नात्र संशयः ।
भार्य्यांहोदुष्कृती स्वामी वृजिनात् स्वामिनो-
ऽबला ॥
तथा देशिकपापात्तु शिष्यः स्यात् पातकी सदा ।
शिष्याद्धि पापिनो नित्यं गुरुर्भवति दुष्कृती ॥
पातकी यजमानः स्यात् पापिनोऽङ्ग ! पुरोधसः ।
पुरोहितस्तथा पापी यजमानांहसो ध्रुवम् ॥”
अदत्तपुण्यपापभागित्वं यथा, --
“अदत्तानि च पुण्यानि पापानि च यथा प्रिये ! ।
प्राप्याणि कर्म्मणा येन तद्यथावन्निशामय ॥
देशग्रामकुलानि स्युर्भागभाञ्जि कृतादिषु ।
कलौ तु केवलं कर्त्तां फलभुक् पुण्यपापयोः ॥
अकृतेऽपि च संसर्गे व्यवस्थेयमुदाहृता ।
संसर्गात् पुण्यापापानि यथा यान्ति निबोध तत् ॥
एकत्र मैथुनाद्यानादेकपात्रस्थभोजनात् ।
फलार्द्धं प्राप्नुयान्मर्त्त्यो यथावत् पुण्यपापयोः ॥
स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि ।
दशांशं पुण्यपाषानां नित्यं प्राप्नोति मानवः ॥
दर्शनश्रवणाभ्याञ्च मनोध्यानात्तथैव च ।
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः ॥
परस्य निन्दापैशुन्यं धिक्कारञ्च करोति यः ।
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः ॥
कुर्व्वतः पुण्यकर्म्माणि सेवां यः कुरुते परः ।
पत्नी भृत्योऽथ शिष्यो वा सजातीयोऽपि मानवः ।
तस्य सेवानुरूपेण तस्य तत्पुण्यभाग्भवेत् ॥
एकपंक्तेस्ततो यस्तु लङ्घयन् परिवेशयेत् ।
तस्य पापशतांशन्तु लभते परिवेशकः ॥
स्नानसन्ध्यादिकं कुर्व्वन् संस्पृशेद्वा प्रभाषते ।
स पुण्यकर्म्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम् ॥
धर्म्मोद्देशेन यो द्रव्यं परं याचयते नरः ।
तत् पुण्यं कर्म्मजं तस्य धनं दत्त्वाप्नुयात् फलम् ॥
अपहृत्य परद्रव्यं पुण्यकर्म्म करोति यः ।
कर्म्मकृत् पापभोक्तात्र धनिनस्तद्भवेत् फलम् ॥
नापनुद्य ऋणं यस्तु परस्य म्रियते नरः ।
धनी तत् पुण्यमाप्नोति स्वधनस्यानुरूपतः ॥
बुद्धिदस्त्वनुमन्ता च यश्चोपकरणप्रदः ।
बलकृच्चापि षष्ठांशं प्राप्नु यात् पुण्यपापयोः ॥
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ।
शिष्याद्गुरुः स्त्रिया भर्त्ता पिता पुत्त्रात्तथैव च ।
स्वपतेरपि पुण्यस्य भार्य्यार्द्धं समवाप्नुयात् ॥
परहस्तेन दानादि कुर्व्वतः पुण्यकर्म्मणः ।
विना भृतकशिष्याभ्यां कर्त्ता षष्ठांशमाहरेत् ।
आत्मनो वा परस्यापि यदि सेवां न कारयेत् ॥
श्रीकृष्ण उवाच ।
इत्थं ह्यदत्तान्यपि पुण्यपापा-
न्यायान्ति नित्यं परसञ्चितानि ।
शृणुष्व चास्मिन्नितिहासमग्र्यं
पुराभवं पुण्यमतिप्रियञ्च ॥”
इति पाद्मोत्तरखण्डे । ७१ । १५७ अध्यायः ॥
क्षुद्रजन्तुप्रभृतीनां वधे पापं तत्प्रायश्चित्तञ्च
यथा, --
“वधे च क्षुद्रजन्तूनां हिंसकानाञ्च पण्डितः ।
कार्षापणं समुत्सृज्य मृत्युकाले प्रमुच्यते ॥
अहिंसकानां क्षुद्राणां वधे शतगुणं ध्रुवम् ।
प्रायश्चित्तं मृत्युकाले कथितं पद्मयोनिना ॥
वधे विशिष्टजन्तूनां पश्वादीनाञ्च कामतः ।
ततः शतगुणं पापं निश्चितं मनुरब्रवीत् ॥
नराणां म्लेच्छजातीनां वधे शतगुणं ततः ॥
म्लेच्छानाञ्च शतानाञ्च यत् पापं लभते वधे ।
सच्छूद्रैकस्य च वधे तत् पापं लभते पुमान् ॥
सच्छूद्राणां शतानाञ्च यत् पापं लभते वधे ।
तत् पापं लभते नूनं गोवधेनैव निश्चितम् ॥
गवां दशगुणं पापं ब्राह्मणस्य वधे भवेत् ।
विप्रहत्यासमं पापं स्त्रीवधे लभते नरः ॥” * ॥
पापिदर्शनजन्यपापं यथा, --
“पापं यद्दर्शने तात ! कथयामि निशामय ।
दुःस्वप्नं पापबीजञ्च केवलं विघ्नकारणम् ॥
गोघ्नञ्च ब्रह्मघ्नं वापि कृतघ्नं कुटिलं तथा ।
देवघ्नं पितृमातृघ्नं पापं विश्वासघातिनम् ॥
मिथ्यासाक्ष्यप्रदातारं पञ्चातिथ्यविवञ्चकम् ।
ग्रामयाजिनमेवेति देवविप्रस्वहारिणम् ॥
अश्वत्थघातिनं दुष्टं शिवविष्णुविनिन्दकम् ।
अदीक्षितमनाचारं सन्ध्याहीनं द्विजन्तथा ॥
देवलं वृषवाहञ्च शूद्राणां सूपकारकम् ।
शवदाही च शूद्राणां शूद्रश्राद्धान्नभोजिनम् ॥
अवीरां छिन्ननासाञ्च देवब्राह्मणनिन्दकम् ।
पतिभक्तिविहीनाञ्च विष्णुभक्तिविहीनकम् ॥
शूद्राणां विधवाञ्चैव चण्डालं व्यभिचारिणीम् ।
शश्वत् कोपयुतं दुष्टमृणग्रस्तञ्च जारजम् ॥
चौरं मिथ्यावादिनञ्च शरणागतघातिनम् ।
मांसापहारिणञ्चैव ब्राह्मणं वृषलीपतिम् ॥
ब्राह्मणीगामिनं शूद्रं द्विजं वार्द्धुषिकन्तथा ।
अगम्यागामिनं दुष्टं चतुर्व्वर्णं नराधमम् ॥
मातासपत्नी माता च श्वश्रूश्च भगिनी सुता ।
गुरुपत्नी पुत्त्रपत्नी सोदरस्य प्रिया सती ॥
मातृष्वसा पितृष्वसा भागिनेयप्रिया तथा ।
मातुलानी नवोढा च पितृव्यस्त्री रजस्वला ॥
पितृमातृप्रसूश्चैव चागम्याष्टादश स्मृताः ।
कीर्त्तिताः सामवेदे च परिपाल्याः सतां व्रज ! ॥
एतान् दृष्ट्वा च स्पृष्ट्वा च ब्रह्महत्यां लभेन्नरः ।
तस्माद्दैवादिमान् दृष्ट्वा सूर्य्यं दृष्ट्वा हरिं स्मरेत् ॥
कामतो यदि पश्यन्ति तत्तुल्यास्ते भवन्ति वै ।
तस्मात् सन्तो न पश्यन्ति पापभीता व्रजेश्वर ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ । ७८ अध्यायः ॥
(अनिष्टम् । वधः । इति राजानुजः ॥ यथा,
रामायणे । २ । ८ । ३२ ।
“तस्मात् न लक्ष्मणे रामः पापं किञ्चित् करि-
ष्यति ।
रामस्तु भरते पापं कुर्य्यादेव न संशयः ॥”
तद्वति, त्रि । इत्यमरः ॥ यथा, महाभारते ।
१ । ९० । १९ ।
“पुण्यां योनिं पुण्यकृतो व्रजन्ति
पापां योनिं पापकृतो व्रजन्ति ।
कीटाः पतङ्गाश्च भवन्ति पापा
न मे विवक्षास्ति महानुभाव ! ॥”)

पापकं, क्ली, (पापमेव । स्वार्थे कन् ।) पापम् ।

इति शब्दरत्नावली ॥ (यथा, महाभारते ।
१ । ७४ । २७ ।
“मन्यते पापकं कृत्वा न कश्चिद्वेत्ति मामिति ।
विदन्ति चैनं देवाश्च यश्चैवान्तरपूरुषः ॥”
पापेन कायतीति । कै + कः । पापवति, त्रि ।
यथा, महाभारते । १ । ७४ । २६ ।
“एकोहमस्मीति च मन्यसे त्वं
न हृच्छयं वेत्सि मुनिं पुराणम् ।
यो वेदिता कर्म्मणः पापकस्य
यस्यान्तिके त्वं वृजिनं करोषि ॥”)

पापकृत्, त्रि, (पापं कृतवानिति । पाप + कृ +

“सुकर्म्मपापमन्त्रपुण्येषु कृञः ।” ३ । २ । ८९ ।
इति क्विप् ।) पारकर्त्ता । यथा, --
“ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन्मुच्यते पापाद्दानेन च दमेन च ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(यथा च महाभारते । १ । ९० । १९ ।
“पुण्यां योनिं पुण्यकृतो व्रजन्ति
पापां योनिं पापकृतो व्रजन्ति ॥”)

पापग्रहः, पुं, (पापोऽशुभकारी ग्रहः ।) अर्द्धोन-

चन्द्रः । कुजः । राहुः । शनिः । एतैर्युक्तो बुधः ।
रविः । यथा, ज्योतिःसारसंग्रहे ।
“अर्द्धोनेन्दुः कुजो राहुः शनिस्तैर्युत इन्दुजः ।
रविः पापा भवन्त्येते शुभाश्चान्ये प्रकीर्त्तिताः ॥”

पापघ्नः, पुं, (पापं हन्तीति । पाप + हन +

“अमनुष्यकर्त्तृके च ।” ३ । २ । ५३ । इति टक् ।)
तिलः । इति राजनिर्घण्टः ॥ पापनाशके, त्रि
इति मुग्धबोधव्याकरणम् ॥

पापचेलिका, स्त्री, (पापमशुभं चेलति गच्छतीति ।

चेल + ण्वुल् + टाप् । कापि अत इत्वञ्च ।)
पाठा । इति रत्नमाला ॥ आकनादि इति भाषा ॥

पापचेली, स्त्री, (पापं चेलतीति । चेल + अच् +

गौरादित्वात् ङीष् ।) पाठा । इत्यमरः । २ । ४ । ८५ ॥

पापनापितः, पुं, (पापो नापितः ।) धूर्त्तनापितः

इति संक्षिप्तसारव्याकरणम् ॥
पृष्ठ ३/११८

पापपतिः, पुं, (पापोत्पादकः पतिः ।) उपपतिः ।

इति त्रिकाण्डशेषः ॥

पापपुरुषः, पुं, (पापः पापमयः पुरुषः ।) पाप-

मयाङ्गनरः । यथा, --
“वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् ।
ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ॥
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।
तत्संसर्गि पदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥
उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।
खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत् ॥”
इति भूतशुद्धिप्रकरणे तन्त्रसारः ॥ * ॥
“सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् ।
सर्व्वेषां दमनार्थाय सृष्टवान् पापपूरुषम् ॥
द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् ।
सुवर्णस्तेयवदनं गुरुतल्पगतिश्रुतिम् ॥
स्त्रीहत्यानासिकञ्चैव गोहत्यादोषबाहुकम् ।
न्यासापहरणग्रीवं भ्रूणहत्यागलन्तथा ॥
परस्त्रीगतिवुक्कालं सुहृल्लोकवधोदरम् ।
शरणापन्नहत्यादिनाभिं गर्व्वकथाकटिम् ॥
गुरुनिन्दासक्थिभागं कन्याविक्रयशेफसम् ।
विश्वासवाक्यकथनपायुं पितृवधाङ्घ्रिकम् ॥
उपपातकरोमाणं महाकायं भयङ्करम् ।
कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम् ॥”
इति पाद्मे क्रियायोगसारे २१ अध्यायः ॥

पापमुक्तः, त्रि, पापान्मक्तः । निष्पापः । इति

संक्षिप्तसारव्याकरणम् ॥ स च यथा, --
“यः समः सर्व्वभूतेषु जितात्मा शान्तमानसः ।
स पापेभ्यो विमुच्यत ज्ञानवान् स च वेदवित् ॥
गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च ।
ध्यानेनैव ह्यसंमूढः स पापेभ्यः प्रमुच्यते ॥
स्वदेहे परदेहे च सुखदुःखेन नित्यशः ।
विचारज्ञो भवेद्यस्तु स मुच्येतैनसो ध्रुवम् ॥
अहिंसः सर्व्वभूतेषु तृष्णाक्रोधविवर्जितः ।
शुभन्यासः सदा यश्च स पापेभ्यः प्रमुच्यते ॥
प्राणायामैश्च निर्दह्य अधःसन्धारणानि च ।
व्यवस्थितमना यस्तु स पापेभ्यः प्रमुच्यते ॥
निराशीः सर्व्वतस्तिष्टेदिष्टार्थेषु न लोलुपः ।
परीतात्मा त्यजेत् प्राणान् सर्व्वपापात् प्रमुच्यते ॥
श्रद्दधानी जितक्रोधः परद्रव्यविवर्ज्जितः ।
अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ॥
गुरुशुश्रूषया युक्तो ह्यहिंसानिरतश्च यः ।
क्षुद्रश्च क्षुद्रशीलश्च स पापेभ्यः प्रमुट्यते ॥
प्रशस्तानि च यः कुर्य्यादप्रशस्तानि वर्जयेत् ।
योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना ।
पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ॥
उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः ।
अभिगम्य प्रयत्नेन स पापेभ्यः प्रमुच्यते ॥”
इति वराहपुराणम् ॥

पापरोगः, पुं, (पापोद्भवो रोगः ।) मसूरीरोगः ।

इति शब्दरत्नावली ॥ (यथा, मनुः । ५ । १६४ ।
“व्यभिचारात्तु भर्त्तुः स्त्री लोके प्राप्नोति निन्द्य-
ताम् ।
शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥”
यत्पानजन्यो यद्रोगो भवति तत् सर्व्वं कर्म्म-
विपाकशब्दे द्रष्टव्यम् ॥)

पापर्द्धिः, स्त्री, (पापानां ऋद्धिर्वृद्धिर्यत्र ।) मृगया ।

इति हेमचन्द्रः । ३ । ५९१ ॥ (यथा, पञ्च-
तन्त्रे । २ । ७८ ।
“अस्ति कस्मिंश्चिद्वनोद्देशे कश्चित् पुलिन्दः ।
स च पापर्द्धिं कर्त्तुं वनं प्रस्थितः ॥”)

पापलं, क्ली, परिमाणविशेषः । इति संक्षिप्त-

सारोणादिवृत्तिः ॥ (पापं लातीति । ला +
कः ।) पापग्राहके, त्रि ॥

पापशमनी, स्त्री, (पापं शम्यतेऽनयेति । शम +

णिच् + करणे ल्यट् । स्त्रियां ङीप् ।) शमी-
वृक्षः । इति राजनिर्घण्टः ॥ पातकनाशिका च ॥

पापात्मा, [न्] पुं, (पापः पापविशिष्ट आत्मा

वस्य । पापे अधर्म्मे आत्मा बुद्धिर्यस्येति वा ।)
पापी । यथा, --
“पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् ।
षडशीतिसहस्राणि योजनानि दुरात्मनाम् ॥
प्रोक्तो मार्गस्य विस्तारः सर्व्वदुःखान्वितस्य च ।
क्वचित्क्वचित् ज्वलद्बह्निः सन्तप्तः कर्द्दमः क्वचित् ।
क्वचित्ं क्वचित् द्बिजश्रेष्ठ ! सन्तप्तं ताम्रबालुकम् ॥
क्वचित् क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा ॥
क्वचित् क्वचिच्छस्त्रवृष्टिः क्वचिदङ्गारवर्षणम् ।
कुत्रचिद्वह्निवृष्टिश्च कुत्रचित् पङ्कवर्षणम् ॥
उष्णाम्बुवर्षणं क्वापि क्वचित् पाषाणवर्षणम् ।
ज्वलदग्निरिव क्वापि सन्तप्तो वाति मारुतः ॥
गभीरा अन्धकूपाश्च तृणावृतमुखा द्विज ! ।
क्वापि कण्टकवृक्षाश्च नाराचसमकण्टकाः ॥
पाषाणश्रेणयः क्वापि दुरारोहाः सपन्नगाः ।
क्वचिद्गाढान्धकाराश्च क्वचित् शोणित-
कन्धराः ॥
क्वचिद्वीरणवृक्षाश्च क्वचित् काशाः क्वचित्शराः ।
क्वचित् क्वचित् शर्कराश्च लोष्टवश्च क्वचित्
क्वचित् ॥
क्वचिदस्थ्नां राशयश्च दुर्गन्धा मांसराशयः ।
क्वचित् कण्टकराशिश्च शैबालानि क्वचित्
क्वचित् ॥
कीलका वलयः क्वापि क्वचिद्व्याघ्रास्तथा शिवाः ।
खड्गिनः करिणः क्वापि क्वचिदृक्षा भयङ्कराः ॥
एवं बहुविधक्लेशे छायाजलविवर्ज्जिते ।
तस्मिन्मार्गे द्विजश्रेष्ठ ! पापिनो यान्ति दुःखिनः ॥
नग्ना विमुक्तकेशाश्च प्रेताकारभयङ्कराः ।
गच्छन्ति पापिनस्तत्र शुष्ककण्ठौष्ठतालुकाः ॥”
इति क्रियायोगसारे २२ अध्यायः ॥

पापान्तं, क्ली, (पापं अन्तयतीति । अन्त + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) तीर्थघिशेषः । तस्य
नामान्तरंम् पृथूदकं अनुकीर्णञ्च । यथा, --
“पृथूदके महातीर्थे त्वनुकीर्णेति नामतः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥
हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्म्मणि ।
अक्षीयत ततो राष्ट्र नृपतेर्दष्कतेन वै ॥
ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम् ।
पुरोहितेन संयुक्तो रत्नान्यादाय सर्व्वशः ॥
प्रसादनार्थं विप्रस्य अनुकीर्णं ययौ तदा ।
प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥
ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता ।
ब्राह्मणश्चेदवज्ञातो नश्येत्त्रिपुरुषं कुलम् ॥
एवमुक्त्रा स नृपतिमाज्येन पयसा पुनः ।
उत्थापयामास मृतांस्तस्य राज्ञो हिते स्थितः ॥
तस्मिंस्तीर्थे तु यः स्नाति श्रद्दधानो जितेन्द्रियः ।
स प्राप्नोति नरो नित्यं मनसा चिन्ततं फलम् ॥
तत्तु तीर्थं सुविख्यातं पापान्तं नाम नामतः ।
यस्येह यज्ञतृप्तस्य मधु सुस्राव वै नदी ॥
तस्मिन् स्नातोऽथ भक्त्या च मुच्यते सर्व्वपातकैः ।
फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥
पापान्तमिति विख्यातं तीर्थं पुण्यतमं द्विजाः ॥”
इति वामनपुराणे ३८ अध्यायः ॥

पापी, [न्] पुं, (पापमस्त्यस्येति । इनिः ।)

पापयुक्तः । यथा, --
“रुधिरौघप्लुताः केचित् केचित् कर्द्दमभूषिताः ।
केचित् केचित् कृशाङ्गाश्च पथि गच्छन्ति-
पापिनः ॥
क्रन्दन्तो व्यथया केचित् स्रवद्वास्पाकुलेक्षणाः ।
शोचन्तः स्वानि कर्म्माणि केचिद्गच्छन्ति पापिनः ॥
कस्यचिच्चर्म्मपाशस्य बन्धनं पापिनो गले ।
कङ्काले कस्यचिद्बन्धः कस्यचिच्च भुजद्वये ॥
कस्यचिन्नासिकारन्ध्रे निर्द्दयैर्यमकिङ्करैः ।
अङ्कुशाग्रं विनिक्षिप्य क्रोधेनाकृष्यते द्बिज ॥
घ्राणे सूचिसमुत्कीर्णे पाशं दत्त्वा दृढं रुषा ।
आकृष्यते यमप्रेष्यैः केषाञ्चित् सञ्चितैनसाम् ॥
शिक्यस्थान् गुरुपाषाणान् वहन्तः कर्णरन्ध्रकैः ।
आयोभारांश्च शिश्नाग्रैर्व्रजन्ति पथि पापिनः ॥
कांश्चिद्गृहीत्वा केशेषु कांश्चित् कर्णेषु पापिनः ।
कांश्चिद्गुदेषु पादेषु नयन्ति यमकिङ्कराः ॥
ग्रीवासु पापिनः कांश्चित् करप्रहरणैर्दृढैः ।
क्षिप्त्वा क्षिप्त्वा यमप्रेष्या नयन्ति यममन्दिरम् ॥
यान्त्यधःशिरसः केचिदूर्द्ध्वपादास्तथा परे ।
गच्छन्ति वायुभिः केचिदेकपादाश्च केचन ॥
इत्येवं विकृताकारा आर्त्तरावविराविणः ।
यमदूतैस्ताड्यमानाः पापिनोऽपि च तत्पथि ॥”
इति पाद्मे क्रियायोगसारे २२ अध्यायः ॥

पाप्मा, [न्] पुं, (पा + “नामन् सीमन्निति ।”

उणां । ४ । १५० । इति मनिन् । पुगागमे निपा-
तनात् साधुः ।) पापम् । इत्यमरः । १ । ४ ।
२३ ॥ (यथा, मनुः । ६ । ८५ ।
“अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥”)

पाम, [न्] क्ली, (पा + मनिन् ।) विचर्च्चिका ।

इत्यमरः । २ । ६ । ५३ ॥ (यथा, माधवकरः ।
“सूक्ष्मा बह्व्यः पीडरणः श्राववत्यः
पामेत्युक्ताः कण्डूकत्यः सदाहा ॥”)

पामघ्नः, पुं, (पाम हन्तीति । हन् + टक् ।)

गन्धकः । इति जटाधरः ॥
पृष्ठ ३/११९

पामघ्नी, स्त्री, (पाम हन्तीति । हन् + टक् ।

टित्वात् ङीप् ।) कटुका । इति राजनिर्घण्टः ॥

पामनः, त्रि, (पामास्त्यस्य इति । “लोमादि-

पामादिपिच्छादिभ्यः शनेलचः ।” ५ । २ । १०० ।
इत्यस्य वार्त्तिकोक्त्या “पामादिभ्यो नः ।” इति
नः ।) पामरोगविशिष्टः । तत्पर्य्यायः ।
कच्छुरः २ । इति हेमचन्द्रः ॥

पामरः, त्रि, (पाम पापादिदौरात्ममस्त्यस्येति ।

पामन् + “अश्मादिभ्यो रः ।” ४ । २ । ८० ।
इत्यस्य वार्त्तिकोक्त्या रः । ततो न लोपे साधुः ।)
खलः । नीचः । इति मेदिनी । रे, १८२ ॥
(यथा, राजतरङ्गिण्याम् । १ । ३७८ ।
“दूरात् पामरफुत्कृतैः श्रुतिपथप्राप्तैः प्रबुद्धस्त्वभू-
द्दृष्टो निर्झरवारिभिः सहमनाः श्वभ्रे निमज्ज-
न्निव ॥”
मूर्खः । इति हेमचन्द्रः ॥

पामरोद्धारा, स्त्री, (पामरं उद्धरतीति । उत् +

धृ + अण् । ततो अजादित्वात् टाप् ।) गुडूची ।
इति शब्दचन्द्रिका ॥

पामा, [न्] स्त्री, (पामन् + “मनः ।” ४ । १ ।

११ । इति न ङीप् ।) कच्छूः । इत्यमरः । २ ।
६ । ५३ ॥ पाँचडा इति भाषा ॥ अस्या औषधं
यथा, --
“हरिद्रा हरितालञ्च दूर्व्वागोमूत्रसैन्धवम् ।
अयं लेपो हन्ति दद्रुं पामानं वै गरं तथा ॥”
अपि च ।
“माहिषं नवनीतञ्च सिन्दूरञ्च मरीचकम् ।
पामा विलेपिता नश्येत् बहुलापि वृषध्वज ! ॥”
अन्यच्च ।
“मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला ।
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥
विशाला करवीरञ्च अर्कक्षीरं सकृत् पलम् ।
एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥
प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ।
मृत्पात्रे लौहपात्रे वा शनैर्मृद्बग्निना पचेत् ॥
पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च ।
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥
प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् ।
चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥”
इति गारुडे १९४ । १९८ अध्याययोः ॥

पामारिः, पुं, (पामाया अरिर्नाशकः ।) गन्धकः ।

इति हेमचन्द्रः ॥

पायसः, पुं, क्ली, श्रीवासः ॥ टारपिन् इति भाषा ।

पयसा संस्कृतः । (पयसो विकार इत्यण् ।)
परमान्नम् । इत्यमरमेदिनीकरौ । अस्य पाक-
प्रकारो गुणाश्च ।
“अतप्ततण्डुलो धौतः परिभृष्टो घृतेन च ।
खण्डयुक्तेन दुग्धेन पाचितः पायसो भवेत् ॥
पायसः कफकृद्बल्यो विष्टम्भी मधुरो गुरुः ॥”
तस्य पित्र्युद्देशेन गङ्गाम्भसि निःक्षेपे फलं यथा, --
“पितॄनुद्दिश्य यो भक्त्या पायसं मधुसंयुतम् ।
गुडसर्पिस्तिलैः सार्द्धं गङ्गाम्भसि विनिःक्षिपेत् ॥
तृप्ता भवन्ति पितरस्तस्य वर्षशतं हरे ! ।
यच्छन्ति विविधान् कामान् पतितुष्टाः पिता-
महाः ॥”
इति स्कान्दे काशीखण्डे २७ अध्यायः ॥
चन्द्रप्रभपायसो यथा, --
“भृष्टजीरचतुर्जातश्चन्द्रकान्तः सुरोचनः ॥”
इति राजवल्लभः ॥
पयोविकारे, त्रि । यथा, --
“कन्दुपक्वानि तैलेन पायसं दधि शक्तवः ।
द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥”
इति तिथितत्त्वे वराहपुराणम् ॥

पायिकः, पुं, पदातिकः । इति शब्दरत्नावली ॥

पायुः, पुं, (पाति रक्षति शरीरं मलनिस्मारणे-

नेति । यद्वा, पिबति वस्त्यौषधमनेनेति । पा +
“कृवापाजीति ।” उणां १ । १ । इत्युण् ।
“आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ ।
इति युक् ।) मलद्वारम् । स तु गर्भस्थस्य सप्त-
भिर्मासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः ।
अपानम् २ गुदम् ३ च्युतिः ४ अधोमर्म्म ५
शकृद्द्वारम् ६ त्रिवलीकम् ७ वलिः ८ । इति
हेमचन्द्रः । ३ । २७६ ॥ (यथा, पञ्चदशी ।
१ । २१ ।
“रजोऽशैःपञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रियाणि तु ।
वाक्पाणिपादपायूपास्थाभिधानानि जज्ञिरे ॥”)
तस्याध्यात्मादि यथा, --
“अवाग् गतिरपानश्च पायुरध्यात्ममुच्यते ।
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥”
इति महाभारते आश्वमेधिकपर्व्व ॥
(स्वनामख्यातो भरद्वाजपुत्त्रः । यथा, ऋग्वेदे ।
६ । ४७ । २४ । “अश्वथः पायवेऽदात् ॥”
“पायवे भरद्वाजपुत्त्रायैतत्संज्ञायास्मद्भ्रात्रे
चाश्वथोऽश्ववानेतत्संज्ञः प्रस्तोकोऽदात् दत्त-
वान् ।” इति तद्भाष्ये सायनः ॥ पालके, त्रि ।
यथा, ऋग्वेदे । २ । १ । ७ ।
“त्वं पायुर्दमे यस्तेऽविधत् ॥”)

पाय्यं, क्ली, (मीयतेऽनेनेति । मा माने + “पाय्य-

सांनाय्येति ।” ३ । १ । १२९ । इति निपातनात्
ण्यद्धात्वादेः पत्वं युगागमश्च ।) परिमाणम् ।
इत्यमरः । २ । ९ । ८५ ॥ पानम् । इति
संक्षिप्तसारोणादिवृत्तिः ॥ जलम् । निन्दनीये,
त्रि । इति विश्वः ॥ (पा पाने + णिच् + ण्यत् ।
पाययितव्ये । यथा, सुश्रुते । १ । १६ ।
“घृतञ्च पाय्यः स नरः सुजीर्णे
स्निग्धो विरेच्यः स यथोपदेशम् ॥”)

पार, त् क कर्म्मसमाप्तौ । इति कविकल्पद्रुमः ॥

(अदन्त चुरां-परं-सकं-सेट् ।) अपपारत् ।
इति दुर्गादासः ॥

पारं, क्ली, (पारयतीति । पार + पचाद्यच् ।)

परतीरम् । नदीलङ्घनाद्गन्तव्यतीरम् । इत्य-
मरः । १ । १० । ८ ॥ (यथा, सङ्गीतदर्पणे ।
“नादाब्धेस्तु परं पारं न जानाति सरस्वती ।
अद्यापि मज्जनभयात् तुम्बीं वहति वक्षसि ॥”)

पारः, पुं, (पूर्य्यतेऽनेनेति । पॄ + घञ् ।) पारदः

इत्यमरटीकायां सारसुन्दरी ॥ प्रान्तभागे, पुं
क्ली । इति मेदिनी । रे, ५६ ॥

पारकः, त्रि, (पृ पूर्त्तौ पालने प्रीतौ व्यायाभे च +

ण्वुल् ।) पूर्त्तिकारकः । पालनकारकः । प्रीति-
कारकः । व्यायामकारकः । एष्वर्थेषु पृधातोः
कर्त्तरि णकप्रत्ययनिष्पन्नः ॥

पारक्, [ज्] पुं, (पारयतीति । पार कर्म्म-

समाप्तौ + णिच् + “पारेरजिः ।” उणां १ ।
१३५ । इति अजिः । णिलोपः ।) सुवर्णम् ।
इत्युणादिकोषः ॥

पारक्यं, क्ली, (परस्मै लोकाय हितम् । पर +

ष्यञ् कुक् च ।) परलोकहितकर्म्म । यथा, --
“पादेन तस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् ।
अर्द्धेन चात्मभरणं नित्यनैमित्तिकन्तथा ॥
पादस्यार्द्धार्द्धमर्थस्य मूलभूतं विवर्द्धयेत् ।
एवमाचरतः पुंसो ह्यर्थः साफल्यमृच्छति ॥”
इति मार्कण्डेयपुराणम् ॥
(परस्य इदमिति । परकीये, त्रि । यथा,
मनुः । १० । ९७ ।
“वरं स्वधर्म्मो विगुणो न पारक्यः स्वनुष्ठितः ।
परधर्म्मेण जीवन् हि सद्यः पतति जातितः ॥”)

पारगः, त्रि, (पारं गच्छतीति । पार + गम +

“अन्तात्यन्ताध्वदूरपारसर्व्वानन्तेषु डः ।” ३ । २ ।
४८ । इति डः ।) पारगामी । तत्पर्य्यायः ।
कर्त्तरीकः २ । इति शब्दमाला ॥ (यथा, महा-
भारते । ४ । १४ । २१ ।
“उदतिष्ठन्मुदा सूतो नावं लब्धेव पारगः ॥”
तथा च तत्रैव । १ । १४० । १६ ।
“पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥”)

पारगतः, पुं, (शास्त्रादेः अविद्याया वा पारं

गतः ।) जिनः । इति हेमचन्द्रः ॥ पारगे, त्रि ॥

पारजायिकः, पुं, (परजायां गच्छतीति । पर-

जाया + ठक् ।) पारदारिकः । (यथा, महा-
भारते । १२ । ६७ । १८ ।
“वाक्शूरो दण्डपरुषो यश्च स्यात् पारजायिकः ।
यः परस्वमथादद्यात् त्याज्या नस्तादृशा इति ॥”)

पारटीटः, पुं, प्रस्तरः । इति त्रिकाण्डशेषः ॥

पारणः, पुं, (पारयतीति । पार + णिच् + ल्युः ।)

मेघः । इति शब्दमाला ॥

पारणं, क्ली, (पार + भावे ल्युट् ।) उपवास-

व्रतान्तरदिवसकर्त्तव्यप्राथमिकभोजनम् । विव-
रणमस्य पारणाशब्दे द्रष्टव्यम् ॥

पारणा, स्त्री, (पार + युच् + टाप् ।) उपवासव्रता-

नन्तरदिवसकर्त्तव्यप्राथमिकभोजनम् । यथा, --
“पारणं पावनं पुंसां सर्व्वपापप्रणाशनम् ।
उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम् ॥
सर्व्वेष्वेवोपवासेषु दिवापारणमिष्यते ।
अन्यथा फलहानिः स्यादृते धारणपारणम् ॥
न रात्रौ पारणं कुर्य्यादृते वै रोहिणीव्रतात् ।
निशायां पारणं कुर्य्याद्वर्ज्जयित्वा महानिशाम् ॥
पूर्ब्बाह्ने पारणं शस्तं कृत्वा विप्र ! सुरार्च्चनम् ।
पृष्ठ ३/१२०
सर्व्वेषां सम्मतं कुर्य्यादृते वै रोहिणीव्रतम् ॥”
इति ब्रह्मवैवत्त श्रीकृष्णजन्मखण्डे ८ अध्यायः ॥
अथ श्रीकृष्णजन्माष्टमीव्रतपारणकालः ।
“अष्टम्यामथ रोहिण्यां न कुर्य्यात्पारणं क्वचित् ।
हन्यात् पुराकृतं कर्म्म उपवासार्जितं फलम् ॥
तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् ।
तस्मात् प्रयत्नतः कुर्य्यात्तिथिभान्ते च पारणम् ॥”
अत्रोभयवियोगे पारणमुक्तम् । “यदा सार्द्ध-
प्रहरनिशाभ्यन्तरे एकस्यैव वियोगस्तदैकतर-
वियोगेऽपि पारणम् ॥ तथा च नारदीये ।
“तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् ।
पारणन्तु न कर्त्तव्यं यावन्नैकस्य संक्षयः ॥
सांयोगिके व्रते प्राप्ते यद्यप्येको वियुज्यते ।
तत्रैव पारणं कुर्य्यादेवं वेदविदो विदुः ॥
यद्यैकस्यापि सार्द्धप्रहरनिशाभ्यन्तरे न वियोग-
स्तदा तयोरवियोगेऽपि प्रातरुत्सवान्ते पार-
णम् । तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्व्वीत
पारणम् । इत्युक्तत्वात् ॥ * ॥ महाष्टम्युपवास-
पारणं मत्स्यमांसोपहारेण कर्त्तव्यम् । यथा, --
“अष्टम्यां समुपोष्यैव नवम्यामपरेऽहनि ।
मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् ॥
तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥”
स्त्रियास्तु पशुमांसभक्षणनिन्दया न तेन पारणं
किन्तु मत्स्येन । अष्टम्युपवासपारणे रविवारादौ
मांसनिषेधः । एवं मांसाशनत्यागकृतनियमेन
नियोगादिष्वपि मांसं वर्ज्जनीयम् ॥ * ॥
अथ श्रीरामनवमीव्रतपारणकालः ।
“नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ।
उपोषणं नवम्यां वै दशम्यामेव पारणम् ॥”
अथैकादशीव्रतपारणकालः ।
“मन्त्रं जपित्वा हरये निवेद्योपोषणं व्रती ।
द्वादश्यां पारणं कुर्य्याद्वर्ज्जयित्वा ह्युपोदकीम् ॥”
द्वादशीलङ्घने दोषमाह नारदीयम् ।
“महाहानिकरी ह्येषा द्वादशी लङ्घिता
नृणाम् ॥
विष्णुधर्म्मोत्तरे ।
“द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः ।
तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥”
अथ श्रवणद्वादश्युपवासपारणकालः ।
“तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् ।
तावदेव न भोक्तव्यं यावन्नैकस्य संक्षयः ॥
विशेषेण महीपाल श्रवणं वर्द्धते यदि ।
तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत् ॥”
तिथिक्षयेण एकादशीक्षयेण भोक्तव्यं द्वादश्यां
पारयेदित्यर्थः ॥ * ॥ अथ शिवरात्र्युपवास-
पारणकालः ।
“जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते ।
कृतोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम् ॥”
तिथ्यन्ते पारणन्तु जयन्तीमात्रपरम् । अत्र
चतुर्द्दश्यामेव तत् ।
“ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै ।
पूजितानि भवन्तीह भूताहे पारणे कृते ॥” * ॥
पारणदिने वर्ज्यानि यथा, ब्रह्माण्डपुराणम् ।
“कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् ।
व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम् ॥
शिलापिष्टं मसूरांश्च द्वादशैतानि वैष्णवः ।
द्वादश्यां वर्ज्जयेन्नित्यं सर्व्वपापैः प्रमुच्यते ॥”
सूरिसन्तोषे ।
“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् ।
शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥”
अत्रोपवसन्निति तद्दिने भोजनासम्भवात्
सामीप्यात् पूर्ब्बापरयोर्ग्रहणम् । इति तिथ्यादि-
तत्त्वम् ॥

पारतः, पुं, (विविधव्याधिसङ्कटादिभ्यः पारं

तनोतीति । तन + अन्येभ्योपीति डः ।)
पारदः । इति हेमचन्द्रः । १ । ११६ ॥

पारतन्त्र्यं, क्ली, (परतन्त्रस्य भावः । परतन्त्र +

ष्यञ् ।) परतन्त्रता । पराधीनत्वम् । अन्याय-
त्तता । यथा, माधवकरः ।
“दोषाणां समवेतानां विकल्पेऽंशांशकल्पना ।
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादि-
शेत् ॥”

पारत्रिकं, त्रि, (परत्र भवम् । परत्र + ठक् ।)

पारलौकिकम् । परत्र भवमित्यर्थे ष्णिकप्रत्यय-
निष्पन्नम् ॥

पारदः, पुं, (जरामरणसङ्कटादिभ्यः पारं ददा-

तीति । दा + कः ।) धातुविशेषः । पारा इति
भाषा । तत्पर्य्यायः । रसराजः २ रसनाथः
३ महारसः ४ रसः ५ महातेजः ६ रसलेहः
७ रसोत्तमः ८ सूतराट् ९ चपलः १० जैत्रः
११ शिवबीजम् १२ शिवः १३ अमृतम् १४
रसेन्द्रः १५ लोकेशः १६ दुर्द्धरः १७ प्रभुः १८
रुद्रजः १९ हरतेजः २० रसधातुः २१ अचि-
न्त्यजः २२ खेचरः २३ अमरः २४ देहदः २५
मृत्युनाशकः २६ सूतः २७ स्कन्दः २८ स्कन्दां-
शकः २९ देवः ३० दिव्यरसः ३१ रसायनश्रेष्ठः
३२ यशोदः ३३ । इति राजनिर्घण्टः ॥ सूतकः
३४ सिद्धधातुः ३५ पारतः ३६ । इति शब्दरत्ना-
वली ॥ हरबीजम् ३७ रजस्वलः ३८ । इति
हेमचन्द्रः ॥ शिववीर्य्यम् ३९ शिवाह्वयः ४० ।
इति भावप्रकाशः ॥ अस्य गुणाः । क्रमिकुष्ठ-
नाशित्वम् । चक्षुष्यत्वम् । रसायनत्वञ्च । इति
राजवल्लभः ॥ अस्य भस्मनः पूर्णवीर्य्यं मासत्रय-
पर्य्यन्तं तिष्ठति । इति परिभाषा ॥ * ॥ अपि च ।
“पारदः सकलरोगनाशकः
षड्रसो निखिलयोगवाहकः ।
पञ्चभूतमय एष कीर्त्तितो
देहलोहवरसिद्धिकारकः ॥
मूर्च्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः ।
सर्व्वसिद्धिकरो लीनो निरुत्थो देहसिद्धिदः ॥
विविधव्याधिभयोदयमरणजरासङ्कटेऽपि
मर्त्त्येभ्यः ।
पारं ददाति यस्मात्तस्मादयं पारदः कथितः ॥”
इति राजनिर्घण्टः ॥
तस्योत्पत्तिलक्षणे यथा, --
“शिवाङ्गात् प्रच्युतं रेतः पतितं धरणीतले ।
तद्देहसारजातत्वाच्छुक्लमच्छमभूच्च तत् ॥
अत्र भेदेन विज्ञेयं शिववीर्य्यं चतुर्व्विधम् ।
श्वेतं रक्तं तथा पीतं कृष्णं तत्तु भवेत् क्रमात् ॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्च खलु जातितः ।
श्वेतं शस्तं रुजां नाशे रक्तं किल रसायने ॥
धातुवादे तु तत् पीतं खे गतौ कृष्णमेव च ॥
पारदः षड्रसः स्निग्धस्त्रिदोषघ्नो रसायनः ।
योगवाही महावृष्यः सदा दृष्टिबलप्रदः ॥
सर्व्वामयहरः प्रोक्तो विशेषात् सर्व्वकुष्ठनुत् ।
स्वस्थो रसो भवेद्ब्रह्मा बद्धो ज्ञेयो जनार्द्दनः ।
रञ्जितः क्रामितश्चापि साक्षाद्देवो महेश्वरः ॥
मूर्च्छित्वा हरति रुजं बन्धनमनुभूय खे गतिं
कुरुते ।
अजरीकरोति हि मृतः कोऽन्यः करुणाकरः
सूतात् ॥”
रसामृते ।
“यस्य रोगस्य यो योगस्तेनैव सह योजितः ।
रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजिनाम् ॥”
तस्य दोषा यथा, --
“मलं विषं वह्निगिरित्वचापलं
नैसर्गिकं दोषमुषन्ति पारदे ।
उपाधिजौ द्वौ त्रिपुनागयोगजौ
दोषौ रसेन्द्रे कथितौ मुनीश्वरैः ॥
मलेन मूर्च्छा मरणं विषेण
दाहोऽग्निना कष्टतरः शरीरे ।
देहस्य जाड्यं गिरिणा सदा स्या-
च्चाञ्चल्यतो वीर्य्यहृतिश्च पुंसाम् ॥
वङ्गेन कुष्ठं भुजगेन गण्डो
भवेदतोऽसौ परिशोधनीयः ॥
वह्निर्व्विषं मलञ्चेति मुख्या दोषास्त्रयो रसे ।
एते कुर्व्वन्ति सन्तापं मृतिं मूर्च्छां नृणां क्रमात् ॥
अन्येऽपि दोषाः कथिता भिषग्भिः पारदे यदि ।
तथाप्येते त्रयो दोषा हरणीया विशेषतः ॥
संस्कारहीनं खलु सूतराजं
यः सेवते तस्य करोति बाधास् ।
देहस्य नाशं विदधाति नूनं
कष्टांश्च रोगान् जनयेन्नराणाम् ॥”
मारितस्य मूर्च्छितस्य तस्य गुणाः ।
“पारदः कृमिकुष्ठघ्नो जयदो दृष्टिदः सरः ।
मृत्युहृच्च महावीर्य्यो योगवाही जराहरः ॥
स्मृत्योजोरूपदो वृष्यो वृद्धिकृद्धातुवर्द्धनः ।
षण्डत्वनाशनः शूरः खेचरः सिद्धिदः परः ॥
पारदः सकलरोगहा स्मृतः
षड्रसो निखिलयोगवाहकः ।
पञ्चभूतमय एव कीर्त्तित-
स्तेन तद्गुणगणैर्व्विराजते ॥” * ॥
अथ रसस्य शोधनविधिः । तत्र स्वेदनम् ।
“नानाधान्यैर्यथा प्राप्तैस्तुषवर्जैर्जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥
तन्मध्ये भृङ्गराण्मण्डी विष्णुक्रान्ता पुनर्नवा ।
पृष्ठ ३/१२१
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकः ।
समूलं कुट्टयित्वा तु यथालाभं विनिःक्षिपेत् ॥
पूर्ब्बाम्लभाण्डमध्ये तु धान्याम्लकमिदं स्मृतम् ।
स्वेदनादिषु सर्व्वत्र रसराजस्य योजयेत् ॥”
विष्णुक्रान्ता गिरिकर्णी च अपराजितैव श्वेत-
नीलपुष्पभेदात् । अत्यम्लमारनालं वा तदभावे
प्रयोजयेत् । तदभावे धान्याम्लाभावे ।
“त्र्युषणं लवणं राजी रजनी त्रिफलार्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा ॥
मेषशृङ्गी चित्रकञ्च नवसारं समं समम् ।
एतत् समस्तं व्यस्तं वा पूर्ब्बाम्लेनैव पेषयेत् ॥
प्रलिम्पेत्तेन कल्केन वस्त्रमङ्गुलमात्रकम् ।
तन्मध्ये निःक्षिपेत् सूतं बद्ध्वा तत्त्रिदिनं पचेत् ॥
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥”
मेघनादः चवराइ शाकविशेषः । मेषशृङ्गी मेढा-
शृङ्गी । तदलाभे कर्कटशृङ्गी ग्राह्या । नवसारं
नौसादर । अन्यच्च ।
“सूलकानलसिन्धूत्थत्र्युषणार्द्रकराजिकाः ।
रसस्य षोडशांशेन द्रव्यं युञ्ज्यात् पृथक् पृथक् ॥
द्रव्येष्वनुक्तमानेषु मतं मानमिदं बुधैः ।
पटावृतेषु चैतेषु सूतं प्रक्षिप्य काञ्जिके ॥
स्वेदयेद्दिनमेकञ्च दोलायन्त्रेण बुद्धिमान् ।
स्वेदात्तीव्रो भवेत् सूतो मर्द्दनाच्च सुनिर्म्मलः ॥”
मूलकंमुरै । अनलश्चित्रकम् । त्र्युषणं त्रिकटु ।
राजिका राइ ॥ * ॥ अथ मर्द्दनम् ।
“इष्टिकाचूर्णचूर्णाभ्यामादौ मर्द्यो रसस्ततः ।
दध्ना गुडेन सिन्धूत्थराजिकागृहधूमकैः ॥”
अन्यच्च ।
“कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्बृहतीविमिश्रितैः ।
फलत्रिकेणापि विमर्द्दितो रसो
दिनत्रयं सर्व्वमलैर्विमुच्यते ॥” * ॥
अथ मूर्च्छनम् ।
“त्र्युषणं त्रिफलाबन्ध्याकन्दैः क्षुद्राद्बयान्वितैः ।
चित्रकोर्णानिशाक्षारकन्यार्ककनकद्रवैः ॥
सूतं कृतेन यूषेण वारान् सप्ताभिमूर्च्छयेत् ।
इत्थं संमूर्च्छितः सूतस्त्यजेत् सप्तापि कञ्चुकान् ॥”
बन्ध्याकन्दः वाझखखसाकन्दः । क्षुद्राद्वयं छोटी-
कटैया वडोकटैया । ऊर्णा ऊर्णामेषका । निशा
हरिद्रा । क्षारः यवक्षारः । कन्या कुमारिका ।
अर्कः अर्कपत्ररसः । कनकः धत्तूरपत्ररसः ॥ * ॥
अथोर्द्ध्वपातनम् ।
“मयूरग्रीवताप्याभ्यां नष्टपिष्टीकृतस्य च ।
यन्त्रे विद्याधरे कुर्य्याद्रसेन्द्रस्योर्द्ध्वपातनम् ॥
सूतः स्यादूर्द्ध्वपातेन सर्व्वदोषविवर्ज्जितः ॥”
मयूरग्रीवा तुतिया । ताप्यः सुवर्णमाषी । नष्ट-
पिष्टीकृतस्य कुमारिकाद्रवयोगेन तावन्मर्द्दनं
कर्त्तव्यं यावत् पारदः पृथङ्न दृश्यते इत्यर्थः ।
विद्याधरयन्त्रे डमरुयन्त्रे ॥ * ॥
अथाधःपातनम् ।
“त्रिफलाशिग्रुशिखिभिर्लवणासुरिसंयुतैः ।
नष्टपिष्टं रसं कृत्वा लेपयेदूर्द्ध्वभाजनम् ॥
ततो दीप्तैरधःपातमुपलैस्तस्य कारयेत् ।
यन्त्रे भूधरसंज्ञे तु ततः सूतो विशुद्ध्यति ॥
स्वेदनादिक्रियाभिस्तु शोधितोऽसौ यदा भवेत् ।
तदा कार्य्याणि कुरुते प्रयोज्यः सर्व्वकर्म्मसु ॥”
अथ मुख्यदोषहरशोधनविधिः ।
“गृहकन्या हरति मलं त्रिफलाग्निं चित्रको
विषं हन्ति ।
तस्मादेभिर्मिश्रैर्वारान् संमूर्च्छयेत् सप्त ॥” * ॥
अथ सर्व्वदोषहरः संक्षिप्तः शोधनविधिः ।
“कुमारिकाचित्रकरक्तसर्षपैः
कृतैः कषायैर्बृहतीविमिश्रितैः ।
फलत्रिकेणापि विमर्द्दितो रसो
दिनत्रयं सर्व्वमलैर्विमुच्यते ॥”
एवं कदर्थितः सूतः षण्डो भवति निश्चितम् ।
बह्वौषधीकषायेण स्वेदितः स बली भवेत् ॥
सर्पाक्षीचिञ्चिकाबन्ध्याभृङ्गाब्दैः स्वेदितो बली ।
ततः स पारकद्रावैः स्विन्नः स्यादतिदीप्तिमान् ॥”
सर्पाक्षी नागफणी । चिञ्चिका अम्बिली । बन्ध्या
वाँझखखसा । भृङ्गः भृङ्गराजः । अब्दो मुस्ता ।
पावकः चित्रकः ॥ * ॥
अथ रसस्य मारणविधिः ।
“धूमसारं रसं तोरीं गन्धकं नवसादरम् ।
यामैकं मर्द्दयेदम्लैर्भागं कृत्वा समं समम् ॥
काचकूप्यां विनिः क्षिप्य ताञ्च मृद्वस्त्रमुद्रया ।
विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोषयेत् ॥
अधःसच्छिद्रपिठरीमध्ये कूपीं निवेशयेत् ।
पिठरीं बालुकापूरैर्भृत्वा वा कूपिकागलम् ॥
निवेश्य चुल्ल्यां तदधो वह्निं कुर्य्याच्छनैः शनैः ।
तस्मादप्यधिकं किञ्चित् पावकं ज्वालयेत् क्रमात् ॥
एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः ।
स्फोटयेत् स्वाङ्गशीतं तमूर्द्ध्वगं गन्धकं त्यजेत् ॥
अधःस्थञ्च मृतं सूतं गृह्णीयात्तन्तु मात्रया ।
यथोचितानुपानेन सर्व्वकर्म्मसु योजयेत् ॥” * ॥
अथान्यप्रकारः ।
“अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत् ।
तत् संपुटे क्षिपेत् सूतं मलपूदुग्धमिश्रितम् ॥”
मलपूः काष्ठोदुम्बरिका ।
“द्रोणपुष्पीप्रसूनानि विडङ्गमिरिमेदकः ।
एतच्चूर्णमधश्चोर्द्ध्वं दत्त्वा मुद्रां प्रदीपयेत् ॥
तद्गोलमाधमेत् सम्यक् मृन्मूषासंपुटे सुधीः ।
मुद्रां दत्त्वा शोषयित्वा ततो गजपुटे पचेत् ॥
एकेनैव पुटेनैव सूतकं भस्म जायते ।
तत् प्रयोज्यं यथास्थाने यथामात्रं यथाविधि ॥”
अथान्यप्रकारः ।
“काष्ठोडुम्बरिकादुग्धै रसं किञ्चिद्बिमर्द्दयेत् ।
तद्दुग्धघृष्टहिङ्गोश्च मूषायुग्मं प्रकल्पयेत् ॥
क्षिप्त्वा तत्संपुटे सूतं तत्र मुद्रां प्रदीपयेत् ।
धृत्वा तद्गोलकं प्राज्ञो मृन्मूषासंपुटेऽधिके ॥
पचेद्गजपुटे तेन सूतकं याति भस्मताम् ॥”
अन्यः प्रकारः ।
“नागवल्लीरसैर्घृष्टः कर्कोटीकन्दगर्भितः ।
मृन्मूषासंपुटे पक्वः सूतो यात्येव भस्मताम् ॥”
इति भावप्रकाशे पूर्ब्बखण्डे २ भागे ॥
अथ पारदशिवलिङ्गनिर्म्माणविधिः ।
“पारदे शिवनिर्म्माणे नानाविघ्नं यतः प्रिये ! ।
अतएव महेशानि ! शान्तिस्वस्त्ययनं चरेत् ॥
पारदं शिवबीजं हि ताडनं नहि कारयेत् ।
ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता ॥
ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत् ।
द्वादशं पार्थिवं लिङ्गमुपचारैश्च षोडशैः ।
पट्टादिसूत्रनिर्म्माणरचितं शुक्लमेव वा ॥
पुरुषस्य यथायोग्यं युग्मवस्त्रं निवेदयेत् ॥
भोगयोग्यं प्रदातव्यं मधुपर्कं कुलेश्वरि ! ।
अलङ्कारं यथाशक्ति दद्यात् कल्याणहेतवे ॥
पूजयेद्बहुयत्नेन विल्वपत्रेण पार्व्वति ! ।
तोडलोक्तेन विधिना प्रत्येकेनायुतं जपेत् ॥
आदौ पञ्चाक्षरं मन्त्रमष्टोत्तरशतं जपेत् ।
पूजान्ते प्रजपेत् पश्चात् प्रासादाख्यं महामनुम् ॥
दक्षिणान्तं समाचर्य्य हविष्याशी जितेन्द्रियः ।
ताम्बूलञ्च तथा मत्स्यं वर्जयेन्न कदाचन ।
अस्मिंस्तन्त्रे हविष्यान्नं ताम्बूलं मीनमुत्तमम् ॥
होमयेत् परमेशानि ! दशांशं वा शतांशकम् ।
होमस्य दक्षिणा कार्य्या तदा विघ्नैर्न लिप्यते ॥
ततः परस्मिन् दिवसे पारदं आनयेत् सुधीः ।
तस्योपरि जपेन्मन्त्रं सर्व्वबन्धं नवात्मकम् ॥
व्योमबीजं शिवार्णञ्च वर्णाद्यं बिन्दुमस्तकम् ।
वायुबीजं चेन्दुयुतं त्रितयं त्र्यम्बकं प्रिये ! ॥
इमं मन्त्रं महेशानि ! प्रजपेदौषधोपरि ॥
पारदे प्रजपेन्मन्त्रमष्टोत्तरशतं यदि ।
तदैवौषधयोगेन बद्धो भवति नान्यथा ॥
ततः परस्मिन् दिवसे शृणु यत् प्राणवल्लभे ! ।
वरयेत् सर्व्वकर्त्तारं यथोक्तविभवावधि ॥
सुवर्णं चम्पकाकारं कर्णयुग्मे निवेशयेत् ।
चतुष्कोणयुतं स्वर्णं ग्रीवायां सुमनोहरम् ॥
हस्तद्वये महेशानि ! दद्याद्वलययुग्मकम् ।
वलयं शुक्लवर्णञ्च अङ्गुरीयं तथैव च ॥
ऊर्म्मीं दद्यात् पीतवर्णां क्षौमवस्त्रयुगं शिवे ! ।
एवं कृत्वा महेशानि ! शिवरूपं विचिन्तयेत् ॥
अथातः संप्रवक्ष्यामि विधानं शृणु पार्व्वति ! ।
प्रस्तरे चैव संस्थाप्य झिण्टीपत्ररसेन च ।
प्रणवेन समालोड्य कुर्य्यात् कर्द्दमवन् प्रिये ! ॥
निर्म्माणयोग्यं तद्द्रव्यं यदि स्यात् सुरसुन्दरि ! ।
तदा निर्म्माय तल्लिङ्गं पुनर्दृढतरञ्चरेत् ॥
खपुष्पसंयुते वस्त्रे अङ्गारे च करीषके ।
किञ्चिदुष्णं प्रकर्त्तव्यं यतो दृढतरं भवेत् ॥”
इति मातृकाभेदतन्त्रे ८ पटलः ॥ * ॥
सगरराजकृतमुक्तकेशम्लेच्छजातिविशेषः ॥
(यथा, महाभारते । २ । ५१ । १३ ।
“कैराता दरदा दर्व्वाः शूरा वैयामकास्तथा ।
औदुम्बरादुर्विभागा पारदाः सह वाह्लिकैः ॥”)
अस्य विवरणं पह्नवशब्दे द्रष्टव्यम् ॥

पारदण्डकः, पुं, देशविशेषः । इति शब्दरत्ना-

वली । स तु ओड्रदेशैकभाग इति केचित् ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पाणिः&oldid=44002" इत्यस्माद् प्रतिप्राप्तम्