शब्दकल्पद्रुमः/पवं

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ ३/०८२

पवं, क्ली, (पूयतेऽनेन । पूञगि शोधे + “ऋदोरप् ।”

३ । ३ । ५७ । इति अप् ।) गोमयम् । इति
शब्दचन्द्रिका ॥ (गोमयशब्दे विवरणमस्य
ज्ञातव्यम् ॥)

पवः, पुं, (पवनमिति । पूञ शोधने + भावे अप् ।

यद्वा, पुनातीति । पू + अच् ।) निष्पावः ।
स च धान्यादीनां निर्वुषीकरणम् । शाल्यादेः
शोधनं बहुलीकरणम् । इत्यमरभरतौ ॥ (पू +
करणे अप् । यद्वा पुणातीति कर्त्तरि अच् ।)
वायुः । इति शब्दचन्द्रिका ॥

पवनं, क्ली, (पूयते अग्निसंयोगेन यस्मिन् । पू +

आधारे ल्युट् ।) कुम्भकारस्य आमघटादिपाक-
स्थानम् । पोयान् इति भाषा । इति मेदिनी ।
ने, ८४ ॥ (यथा, --
“यः कुम्भकारपवनोपरिपङ्कलेप-
स्तापाय केवलमसौ न तु तापशान्त्यै ॥”)
इत्युद्भटः ॥)
पयनमिति प्रमादपाठः । जलम् । इति शब्द-
माला ॥ प्रयते त्रि । इति शब्दरत्नावली ।
(भावे ल्युट् ।) पवित्रीकरणञ्च ॥

पवनः, पुं, (पुनातीति । पू + बहुलमन्यत्रापीति

युच् ।) निष्पावः । वायुः । इति मेदिनी । ने,
८४ ॥ (यथा, गीतायाम् । १० । ३१ ।
“पवनः पवतामस्मि रामः शस्त्रभृतामहम् ॥”)
अष्टौ वाह्यपवना यथा, सिद्धान्तशिरोमणौ ।
“भूवायुरावह इह प्रवहस्तदूर्द्ध्वः
स्यादुद्वहस्तदनु संवहसंज्ञकश्च ।
अन्यः परोऽपि सुवहः परिपूर्ब्बकोऽस्मा-
द्वाह्यः परावह इमे पवनाः प्रसिद्धाः ॥”
सप्त पवनाधिपा यथा, ज्योतिस्तत्त्वे ।
“शाकः शराब्धिसंयुक्तो मुनिभिर्भागहारितः ।
आवहादिक्रमेणैव सप्त वाताः प्रकीर्त्तिताः ॥
आवहः प्रवहश्चैव सम्बहो निवहस्तथा ।
उद्वहो विवहो वायुः सप्त वाताः प्रकीर्त्तिताः ॥”
अन्यद्वायुशब्दे द्रष्टव्यम् ॥ (प्राणवायुः । यथा,
हठयोगदीपिकायाम् । ३ । ७५ ।
“अनेनैव विधानेन प्रयाति पवनो लयम् ।
ततो न जायते मृत्युर्ज्जरारोगादिकं तथा ॥”
उत्तममनुपुत्त्रविशेषः । यथा, भागवते । ८ । १ । २३ ।
“तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ।
पवनः सृञ्जयो यज्ञहोत्राद्यास्तत्सुता नृप ! ॥”)

पवनविजयः, पुं, (पवनं श्वासवायुंविजयतेऽनेन ।

वि + जि + करणे अप् । यद्वा, पवनस्य विजयो
यत्र ।) शुभाशुभसूचकश्वासवायुजयोपायकग्रन्थ-
विशेषः । यथा --
सूत उवाच ।
“हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ।
कुजो वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः ॥
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः ।
गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ॥
वामनाड्यास्तु मध्यस्थान् कारयेदात्मनस्तथा ।
यदाचार इडायुक्तस्तदा कर्म्म समाचरेत् ॥
स्थानसेवां तथा ध्यानं बाणिज्यं राजदर्शनम् ।
अन्यानि शुभकर्म्माणि कारयेत प्रयत्नतः ॥
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैंहिकः ।
इनश्चैव तथाप्येव पापानामुदयो भवेत् ॥
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ।
देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः ॥
नाभेरधस्ताद्यः कन्दो अङ्कुरास्तत्र निर्गताः ।
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ॥
चक्रवच्च स्थितास्तास्तु सर्व्वाः प्राणहराः स्मृताः ।
तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः ॥
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ।
मध्यमा च भवेदग्निः फलती कालरूपिणी ॥
वामा ह्यमृतरूपा च जगदाप्यायने स्थिता ।
दक्षिणा रौद्रभागेन जगच्छोषयते सदा ॥
द्वयोर्वाहे तु मृत्युः स्यात् सर्व्वकार्य्यविनाशिनी ।
निर्गमे च भवेद्बामा प्रवेशे दक्षिणा स्मृता ॥
कारयेत् क्रूरकर्म्माणि प्राणे पिङ्गलसंस्थिते ।
इडाचारे तथा सौम्यं चन्द्रसूर्य्यगतस्तथा ॥
यात्रायां सर्व्वकार्य्येषु विषापहरणे इडा ।
भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका ॥
उच्चाटमारणाद्येषु कर्म्मस्वेतेषु पिङ्गला ।
मैथुने चैव संग्रामे भोजने सिद्धिदायिका ॥
शोभनेषु च कार्येषु यात्रायां विषकर्म्मणि ।
शान्तिमुक्त्यर्थसिद्धौ च इडा योज्या नराधिपैः ॥
द्बाभ्याञ्चैव प्रवाहे च क्रूरसौम्यविवर्ज्जने ।
विष्रुवतीन्तु जानीयात् संस्मरेत्तु विचक्षणः ॥
सौम्यादिशुभकार्य्येषु लाभादिजयजीविते ।
गमनागमने चैव वामा सर्व्वत्र पूजिता ।
युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे ।
प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्म्मणि ॥
शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयौ ।
जीवाजीवाय यत् पृच्छेन्न सिध्यति च मध्यमा ॥
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ।
तत्रस्थः पृच्छते यस्तु तत्र सिद्विर्न संशयः ॥
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ।
तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्फला ॥
वामे वा दक्षिणे वापि यत्र संक्रमते शिरा ।
घोरे घोराणि कर्म्माणि सौम्ये वै मध्यमानि च ॥
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्व्ववाहिनि ।
तदा मृत्युं विजानीयाद्योगी योगविशारदः ॥
यत्र यत्र स्थितः पृच्छेद्बामदक्षिणसंमुखः ।
तत्र तत्र समं दिश्याद्वातस्योदयनं सदा ॥
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।
वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा ॥
जीवो जीवति जीवेन यच्छून्यं तत् स्वरो भवेत् ।
यत्किञ्चित् कार्य्यमुद्दिष्टं जयादिशुभलक्षणम् ॥
तत् सर्व्वं पूर्णनाड्यान्तु जायते निर्व्विकल्पकम् ।
अन्यनाड्यादिपर्य्यन्तपक्षत्रयमुदाहृतम् ॥
यावत् षष्ठीन्तु पृच्छायां पूर्णायां प्रथमो जयेत् ।
रिक्तायान्तु द्वितीयन्तु कथयेत्तदशङ्कितः ॥
वामाचारः समं वायुर्जायते कर्म्मसिद्धिदम् ।
प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम् ॥
अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् ।
तदासौ जयमाप्नोति योधः संग्राममध्यतः ॥
दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ।
जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत् ॥
पिङ्गलान्तर्गते प्राणे समानीयाहवञ्जयेत् ।
यावन्नाड्योदयं चारस्तां दिशं यावदाजयेत् ।
न जातु जयते सोऽपि नात्र कार्य्या विचारणा ॥
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ।
सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्द्दिशेत् ॥
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ।
जयं पराजयञ्चैव यो जानाति स पण्डितः ॥
वामे वा दक्षिणे वापि यत्र सञ्चरते शिरा ।
कृत्वा तत्पदमादौ तु यात्रां नयति शोभनाम् ॥
शशिसूर्य्यप्रवाहे तु सति युद्धं समाचरेत् ।
तत्रस्थः पृच्छते यस्तु स साधुर्जयति ध्रुवम् ॥
यां दिशं वहते वायुस्तां दिशं यावदाजयेत् ।
जयते नात्र सन्देह इन्द्रो यद्यग्रतः स्थितः ॥
मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिताः ।
चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात् ॥
निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः ।
पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत् ॥
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ।
ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः ।
मध्ये तु पृथिवी ज्ञेया नभः सर्व्वत्र सर्व्वदा ॥
ऊर्ड्घे मृत्युरधः शान्तिस्तिर्य्यक् चोद्घाटयेत् सुधीः ।
मध्ये ह्यस्तं विजानीयान्मोक्षः सर्व्वत्र सर्व्वगे ॥”
इति गारुडे पवनविजयादि ६७ अध्यायः ॥

पवनव्याधिः, पुं, (पवनः वायुरोग एव व्याधिरस्य ।)

उद्धवः । श्रीकृष्णस्य सखा । इति त्रिकाण्ड-
शेषः ॥ (यथा, --
“विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृताम् ।
प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् ॥”
इति माघे । २ । १५ ॥
पवनात् प्रकुपितवायोरुद्भवो व्याधिः ।) वायु-
रोगश्च ॥

पवनात्मजः, पुं, (पवनस्य आत्मजः पुत्त्रः ।) हनू-

मान् । इति शब्दरत्नावली ॥ (पवनस्य वायो-
रात्मजः । “वायोरग्निः ।” इति श्रुतेर्वायुजन्य-
तयास्य तथात्वम् ।) हव्यवाहनः । इति मत्स्य-
पुराणम् ॥ (भीमसेनः । इति महाभारतम् ॥
यथा, राजतरङ्गिण्याम् । ८ । २८९० ।
“वाहिनीरुद्धमार्गौ तौ पदवीमनुसस्रतुः ।
मार्गे धनञ्जयस्येव शैनेयपवनात्मजौ ॥”)

पवनालः, पुं, (पवनाय निष्पावाय अलति पर्य्याप्नो-

तीति । अल पर्य्याप्तौ + अच् ।) धान्यविशेषः ।
देधान इति पोनरी इति च भाषा । तत्पर्य्यायः ।
देवधान्यम् २ चूर्णाह्वः ३ जुहुलः ४ जुललः ५
बीजपुष्पः ६ पुष्पगन्धः ७ । अस्य गुणाः ।
हितत्वम् । स्वादुत्वम् । लोहितत्वम् । श्लेष्म-
पित्तनाशित्वम् । अवृष्यत्वम् । तुवरत्वम् ।
रूक्षत्वम् । क्लेदकारित्वम् । लघुत्वञ्च । इति
भावप्रकाशः ॥
पृष्ठ ३/०८३

पवनाशः, पुं, (पवनं वायुं अश्नाति भक्षयतीति ।

अश भोजने + “कर्म्मण्यण् ।” ३ । २ । १ । इति
अण् ।) सर्पः । इति हलायुधः ॥

पवनाशनः, पुं, (पवनो वायुरशनं भक्ष्यं यस्य ।)

सर्पः । इत्यमरः । १ । ८ । ८ ॥

पवनाशनाशः, पुं, (पवनाशस्य सर्पस्य नाशो

यस्मात् । यद्वा, पवनाशनं सर्पमश्नातीति ।
अश + अण् ।) गरुडः । इति हलायुधः ॥
मयूरः । यथा, उत्तरचोरपञ्चाशिकायाम् ।
“स्वयोनिभक्षध्वजसम्भवानां
श्रुत्वा निनादं गिरिगह्वरेषु ।
तमोऽरिविम्बप्रतिविम्बधारी
रुराव कान्ते ! पवनाशनाशः ॥”

पवनेष्टः, पुं, (पवने वायुरोगे इष्टः ।) महानिम्बः ।

इति रत्नमाला ॥ (महानिम्बशब्देऽस्य गुणा-
दिकं ज्ञेयम् ॥)

पवनोम्बुजं, क्ली, परूषम् । इति शब्दचन्द्रिका ॥

पवमानः, पुं, (पवते शोधयतीति । पूङ् शोधने +

“पूङ्यजोः शानच् ।” ३ । २ । १ । ८ । इति शानच् ।
“आने मुक् ।” ७ । २ । ८२ । इति मुमागमः ।)
वायुः । इत्यमरः । १ । १ । ६६ ॥ (यथा, रघुः । ८ । ९ ।
“न खरो न च भूयसा मृदुः
पवमानः पृथिवीरुहानिव ।
स पुरस्कृतमध्यमक्रमो
नमयामास नृपाननुद्धरन् ॥”
अग्नेः स्वाहायां जातः पुत्त्रः । यथा, मार्क-
ण्डेये । ५२ । २७-२८ ॥
“योसावग्निरभीमानी ब्रह्मणस्तनयोऽग्रजः ।
तस्मात् स्वाहा सुतान् लेभे त्रीनुदारौजसो द्बिज ! ॥
पावकं पवमानञ्च शुचिञ्चापि जलाशिनम् ।
तेषान्तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ॥”)
निर्मथ्याग्निः । स च गार्हपर्याग्निः । यथा, --
“अथ यः पवमानस्तु निर्म्मथ्योऽग्निः स उच्यते ।
स च वै गार्हपत्योऽग्निः प्रथमो ब्रह्मणः स्मृतः ॥”
इति मात्स्ये ४८ अध्यायः ॥

पवमानात्मजः, पुं, (पवमानस्य वायोरात्मजः ।

“वायोरग्निः ।” इति श्रुतेर्वायुजन्यतयास्य
तथात्वम् । यद्बा, पवमानस्य अग्निविशेषस्य
आत्मजः ।) हव्यवाहनः । यथा, --
“पवमानात्मजो ह्यग्निर्हव्यवाहन उच्यते ॥”
इति मात्स्ये ४८ अध्यायः ॥

पवाका, स्त्री, (पुनातीति । पूञ् गि शोधने +

“वलाकादयश्च ।” उणां ४ । १४ । इति आक-
प्रत्ययेन निपातनात् साधुः ।) वात्या । चक्र-
वातः । इत्युणादिकोषः ॥

पविः, पुं, (पुणातीति । पूञ शोधने + “अच इः ।”

उणां ४ । १३८ । इति इः ।) वज्रम् । इत्य-
मरः । १ । १ । ५० ॥

पवितः, त्रि, (पूयते स्म । पूङ् शोधे + क्तः । “पूङ्श्च ।”

७ । २ । ५१ । इति इट् । “पूङः क्त्वा च ।” १ । २ । २२ ।
इति न कित्त्वम् ।) पूतः । इति मुग्धबोध-
व्याकरणम् ॥ मरीचे, क्ली । इति राजनिर्घण्टः ॥

पविता [ऋ], त्रि, (पुनातीति । पू + तृच् ।)

पवित्रताकारकः । यथा, नैषधे ।
“तनुश्रिया यस्य तृणं स मन्मथः
कुलश्रिया यः पवितास्मदन्वयम् ॥”

पवित्रं, क्ली, (पूयतेऽनेनेति । पू + “पुवः संज्ञा-

याम् ।” ३ । २ । १८५ । इति इत्रः ।) वर्षणम् ।
कुशम् । (यथा, मनुः । २ । ७५ ।
“प्राक्कूलान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥”)
ताम्रम् । पयः । इति मेदिनी । रे, १७७ ॥
घर्षणम् । इति विश्वः ॥ अर्घोपकरणम् । इति
हेमचन्द्रः ॥ यज्ञोपवीतम् । इति त्रिकाण्डशेषः ॥
घृतम् । मधु । इति राजनिर्घण्टः ॥ पार्व्वण-
श्राद्धादावर्घार्थं होमादावाज्यसंस्काराद्यर्थञ्च
साग्रनिर्गर्भकुशान्तरवेष्टितप्रादेशमात्रकुशपत्र-
द्वयम् । यथा, --
“अनन्तर्गर्भिणं साग्रं कौशं द्बिदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥”
इति श्राद्धतत्त्वम् ॥
(विष्णुः । यथा, महाभारते । १२ । १४९ । २० ।
“प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥”
महादेवः । यथा तत्रैव । १२ । १७ । ३५ ।
“पवित्रञ्च महांश्चैव नियमो नियमाश्रितः ॥”)

पवित्रः, त्रि, (पू + इत्र ।) व्रतादिना शुद्धः ।

(यथा, गीतायाम् । ४ । ३८ ।
“नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥”)
तत्पर्य्यायः । प्रयतः २ पूतः ३ । एतत्त्रयं
प्राणिविषयमात्रम् । शुचिः ४ शुद्धः ५ पवि-
त्रितः ६ । इति शब्दरत्नावली ॥ पुण्यः ७
पावनः ८ । इति जटाधरः ॥ (पूयतेऽनेन । पूञ्
+ “पुवः संज्ञायाम् ।” ३ । २ । १८५ । इति इत्रः ।)
शुद्धद्रव्यम् । तत्पर्य्यायः । पूतम् २ मेध्यम् ३ ।
एतत्त्रयं अप्राणिद्रव्यविषयम् । इति ब्रह्मवर्गे
विशेष्यनिघ्ने च अमरभरतौ ॥ शुद्ध्यम् ४ शुचि ५
पुण्यम् ६ पूतिवत् ७ । इति जटाधरः ॥
(यथा, --
“बल्यं पवित्रमायुष्यं सुमङ्गल्यं रसायनम् ।
एतत्तु गव्यघृतगुणपरम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

पवित्रः, पुं, (पुनातीति । पू + कर्त्तरि इत्रः ।)

तिलवृक्षः । पुत्त्रजीववृक्षः । इति राजनिर्घण्टः ॥
(तिलपुत्त्रजीवशब्दयोरस्य विर्वृतिर्ज्ञेया ॥)
कार्त्तिकेयस्य नामान्तरम् । यथा, महाभारते ।
३ । २३१ । ६ ।
“षष्ठीप्रियश्च धर्म्मात्मा पवित्रो मातृवत्सलः ॥”)

पवित्रकं, क्ली, (पवित्र + कन् । यद्बा, पवित्रे

पयसि कायतीति । कै + कः ।) जालम् । इति
शब्दरत्नावली ॥ शणसूत्रजालम् । इत्यमरः ।
१ । १० । १६ ॥ क्षत्त्रियस्य यज्ञोपवीतम् । यथा,
“कार्पासमुपवीतं स्याद्बिप्रस्योर्द्ध्वधृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥
इति मनुवचनात् पवित्रकमपि तदुच्यते । इत्य-
मरटीकायां भरतः ॥

पवित्रकः, पुं, (पवित्र + स्वार्थे कन् ।) कुशः ।

दमनकः । अश्वत्थः । उदुम्बरः । इति राज-
निर्घण्टः ॥

पवित्रधान्यं, क्ली, (पवित्रं धान्यम् । नित्यकर्म्म-

धारयः ।) यवः । इति राजनिर्घण्टः ॥ (यव-
शब्देऽस्य गुणादयो वक्तव्याः ॥)

पवित्रा, स्त्री, (पवित्र + टाप् ।) तुलसी । इति

शब्दमाला ॥ नदीभेदः । इति हेमचन्द्रः ॥
हरिद्रा । अश्वत्थीवृक्षः । इति राजनिर्घण्टः ॥

पवित्रारोपणं, क्ली, (पवित्रस्य यज्ञोपवीतस्य

आरोपणं प्रदानं यत्र ।) श्रीकृष्णसम्प्रदानकोप-
वीतदानरूपोत्सवविशेषः । यथा, --
“श्रावणस्य सिते पक्षे द्बादश्यां वैष्णवैर्मुदा ।
कर्त्तव्यः कृष्णदेवस्य पवित्रारोपणोत्सवः ॥”
अथ तन्नित्यता बह्वृचपरिशिष्टे ।
“स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञे षु दीक्षितः ।
हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् ॥
विधिना शास्त्रदृष्टेन यो न कुर्य्यात् पवित्रकम् ।
हरन्ति राक्षसास्तस्य वर्षपूजादिकं फलम् ॥”
योगसारे च पवित्रोत्पत्त्युपाख्यानेन नागराजं
पवित्रं प्रति श्रीरुद्रेण वरदानम् । यथा, --
“ये त्वां न बहुमन्यन्ते यथा सम्भावितो मया ।
जपहोमादिकं तेषां फलं त्वामेतु निश्चयात् ॥
विष्णुरहस्ये ।
न करोति विधानेन पवित्रारोपणन्तु यः ।
तस्य साम्बत्सरी पूजा निष्फला मुनिसत्तम् ! ॥
तस्माद्भक्तिसमायुक्तैर्नरैर्व्विष्णुपरायणैः ।
वर्षे वर्षे तु कर्त्तव्यं पवित्रारोपणं हरेः ॥”
अथ पवित्रारोपणमाहात्म्यम् ।
तत्र बौधायनः ।
“यावांस्तन्तुः पवित्रस्य तावत् स्वर्गे महीयते ।
आयुरारोग्यमैश्वर्य्यं विपुलं तस्य वर्द्धते ॥
महासंहितायाम् ।
सम्बत्सरेण या पूजा कृता वै मन्त्रिणा द्बिज ! ।
पवित्रदानात् पूर्णा स्यादित्याह भगवान् हरिः ॥
विष्णुरहस्ये ।
पवित्रारोपणं विष्णोर्भुवि मुक्तिप्रदायकम् ।
स्त्रीपुंकीर्त्तिप्रदं पुण्यं सुखसम्पद्धनावहम् ॥
पुण्यानान्तु तथा पुण्यं सर्व्वपापहरन्तु वै ।
पवित्रारोपणं तस्मात् पवित्रं परमं स्मृतम् ॥
सम्बत्सरे नरो भक्त्या समभ्यर्च्च्य जनार्द्दनम् ।
यत् फलं समवाप्नोति पवित्रारोपणेन तत् ॥
किञ्च ।
पावयत्येनसो नित्यं त्रायते भवबन्धनात् ।
पवित्रं तेन विख्यातं ब्राह्मं तेजोऽभिधीयते ॥
विष्ण्वाख्यया तु विख्यातं तदा लोके विधीयते ।
स एव सूत्ररूपेण यज्ञेशः कर्म्मणां प्रभुः ॥
तदेव त्रिगुणीसूत्रं ततं नारायणाख्यया ।
त्रिदेवात्मा त्रिवेदात्मा त्र्यक्षरः प्रणवः स्मृतः ॥
अथ पवित्रारोपणविधिः ।
“सौवर्णै राजतैस्ताम्रैः क्षौमैः सूत्रैस्तु पाद्मिकैः ।
कार्पासैर्वा पवित्राणीष्यते काशैः कुशैरपि ॥
पृष्ठ ३/०८४
तत्र कार्पासिकं सूत्रं ब्राह्मणीकर्त्तितं शुभम् ।
आनीय त्रिगुणीकृत्य पुनस्त्रिगुणयेच्छुचिः ॥
पञ्चगव्येन तत् प्रोक्ष्य प्रक्षाल्य शुचिनाम्बुना ।
मूलेनाष्टोत्तरशतं मन्त्रेणाथाभिमन्त्रयेत् ॥
त्रीणि सावृशतेनास्य तस्यार्द्धेनास्य चार्द्धतः ।
जानूरुनाभिदघ्नानि पवित्राण्याचरेत् प्रभोः ॥
षट्त्रिंशद्ग्रन्थयस्तेषामाद्ये कार्य्यास्तु मध्यमे ।
चतुर्विंशतिरन्ते च द्बादशग्रन्थयो बुधैः ॥
अङ्गुष्ठपर्व्वमात्रन्तु कुर्य्याद्ग्रन्थिमथोत्तमे ।
तदर्द्धं मध्यमे कुर्य्यात्तदर्द्बञ्च कनीयसि ॥
ग्रन्थीन् कुर्व्वीत सर्व्वत्र सुवृत्तान् सुमनोहरान् ।
न वै विषमसंख्याकान् ग्रन्थीन् कुर्व्वीत कुत्रचित् ॥
अष्टोत्तरसहस्रेण तत्सूत्रस्य पवित्रकम् ।
अष्टोत्तरशतं ग्रन्थिं वनमालाख्यमाचरेत् ॥
आरभ्य मुकुटं या तु सूत्रैर्विरचिता शुभा ।
आपादलम्बिनी माला वनमाला प्रकीर्त्तिता ॥
कुर्य्याद्गन्धपवित्रञ्च सूत्रैर्द्बादशभिः शुभैः ।
अरत्निप्रमितं तच्च द्वादशग्रन्थिकं कृती ॥
पवित्राणि परीवारदेवतानां समाचरेत् ।
सूत्रैस्तैरुडुसंख्याकैः कलासंख्यार्कसंख्यकैः ॥
तेषु ग्रन्थीन् यथाशोभं बद्ध्वा वह्नेर्गुरोरपि ।
सप्तविंशतिभिः सूत्रैः षड्विंशतिभिरात्मनः ॥
यथासम्भवमन्येषां पवित्राणि च कारयेत् ।
सम्पादयेच्च सर्व्वाणि शोभनान्येव यत्नतः ॥
तथा चोक्तम् ।
विशोभसूत्रदानेन कर्त्तुः स्यादशुभं फलम् ।
परित्रं परया भक्त्या तस्मात् कुर्व्वीत शोभनम् ॥
रञ्जयित्वाथ काश्मीरागुरुगोरोचनादिना ।
वस्त्रेणाच्छाद्य पटले स्थापयेत्तानि वैणये ॥”
इति पवित्रयिनिर्म्माणम् ॥ * ॥
“कृत्वा कृत्यं दशग्याञ्च पवित्रारोपणाय हि ।
कृष्णं विज्ञाप्य तत्राद्रिं यथा प्राग्लिखितं नयेत् ॥
एकादश्यां प्रभाते च नित्यकृत्यं समाप्य हि ।
देवालवमुपस्कृत्य मण्डलं रचयेत् शुभम् ॥
कृत्वा कृष्णस्य नित्यार्च्चां पवित्रारोपणाथकाम् ।
पूजां विशेषतः कृत्वा कृष्णं विज्ञापयेदिदम् ॥
क्रियालोपविघातार्थं यत्त्वया विहितं प्रभो ! ।
मयैतत् क्रियते देव ! भवत्तुष्ट्यै पवित्रकम् ॥
न मे विघ्नो भवत्वत्र कुरु नाथ ! दयां मयि ।
सर्व्वथा सर्व्वदा विष्णो ! मम त्वं परमा गतिः ॥
देवस्य सर्व्वतो न्यस्येद्दन्तकाष्ठं जलं कुशान् ।
मृत्तिकाञ्च हरिद्राञ्च कुङ्कुमं रोचनानि च ॥
उपानहौ सितं छत्त्रं चामरं व्यजनं तथा ।
यवा ब्रीह्यादिघान्यानि यथास्थानं पृथक् पृथक् ॥
कुम्भं शुद्धाम्बुनापूर्य्य सर्व्वतोभद्रमण्डले ।
देवाग्रतो निधायास्मिन् परित्राण्यधिवासयेत् ॥”
अथ पवित्राधिवासनम् ।
“भगवत्पुरतस्तानि पटलस्थानि पूजयन् ।
आदावावाहयेन्मूलयुजा तन्मनुना बुधः ॥
तन्मन्त्रश्चायम् ।
ॐ सांवत्सरस्य यागस्य परित्रीकरणाय भोः ।
विष्णुलोकात् परित्राद्य आगच्छेह नमोऽस्तु ते ॥
तेष्वावाह्य यथास्थानं ब्रह्माद्या देवतास्ततः ।
तत्तन्मन्त्रैः सन्निधाप्याक्षतगन्धादिनार्च्चयेत् ॥
तत्र तत्र ता देवताश्चोक्ताः ।
ब्रह्मविष्णुमहादेवास्त्रिसूत्रीदेवताः स्मृताः ।
प्रणवः सोमवह्नी च ब्रह्मा नागः शशी रविः ॥
शिवश्च विश्वदेवाश्च नवसूत्र्यधिदेवताः ।
क्रिया च पौरुषी वीरा चतुर्थी चापराजिता ॥
जया च विजया चैव मुक्तिदा च सदाशिवा ।
मनोमयी तु नवमी दशमी सर्व्वतोमुखी ।
ग्रन्थीनां देवतास्त्वेतास्तास्तत्र विनिवेशयेत् ॥
तन्मन्त्राश्चैते ।
ॐ सर्व्वाभरणचित्राङ्ग ! सर्व्वदेवनमस्कृत ! ।
लावण्यरूपविश्वात्मन् ! ज्येष्ठसूत्रं समाश्रय ॥
ॐ सर्व्वलक्ष्मीकर ! श्रीश ! सर्व्वज्ञानरसात्मक ! ।
निवृत्तरूपविश्वात्मन् ! मध्यसूत्रं समाश्रय ॥
ॐ अतिवेगमरुद्योने ! पुरुषात्मन् ! दिवस्पते ! ।
कनीयो हे प्रभो ! देव ! तेजसा सूत्रमाश्रय ॥
यत्र मन्त्रो न वर्त्तेत तत्तन्नामैव तत्र च ।
नमोऽन्तं सचतुर्थीकमूह्यः प्राग्लिखनान्मनुः ॥ * ॥
अथ कृष्णकराम्भोजे पट्टसूत्रेण निर्म्मितम् ।
वितस्तिमात्रं बध्नीयात् डोरकं मङ्गलात्मकम् ॥
तत्र मन्त्रः ।
ॐ संवत्सरकृतार्च्चायाः सम्पूर्णफलदायि यत् ।
पवित्रीकरणायैतत् कौतुकं धरते नमः ॥
ततो गन्धपवित्रञ्च गृहीत्वा धूपितं बुधः ।
भगवन्तं नमस्कृत्य भक्त्या संप्रार्थयेदिदम् ॥
आमन्त्रितोऽसि देवेश ! सार्द्धं देवगणेश्वरैः ।
मन्त्रेशैर्लोकपालैश्च सहितः परिवारकैः ॥
आगच्छ भगवन्नीश ! विधिसंपूर्त्तिकारक ! ।
प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ! ॥
ततश्च ।
विष्णुतेजोद्भवं रम्यं सर्व्वपातकनाशनम् ।
सर्व्वकामप्रदं देव तवाङ्के धारयम्यहम् ॥
अनेन मनुना विद्वान् मूलसंपुटितेन हि ।
दद्यात् गन्धपवित्रं तच्छ्रीकृष्णचरणाब्जयोः ॥
नीराज्य देवं स्तुत्वा च दत्त्वा पुष्पाञ्जलिं ततः ।
तत्पवित्राणि तत्कुम्भमप्यस्त्रमनुनाथवा ॥
नृसिंहमनुना रक्षेत् कवचेनावगुण्ठयेत् ।
गीतनृत्यादिना कुर्य्याद्बिधिवज्जागरं निशि ॥”
अथ पवित्रार्पणम् ।
“प्रातःकृत्यानि निर्व्वृत्य नित्यपूजां विधाय च ।
विशेषतोऽर्च्चयेद्देवं पवित्राणि च पूजयेत् ॥
महावादित्रघोषेण नामसंकीर्त्तनोत्सवैः ।
मूलसंपुटितेनैव पवित्राण्यर्पयेत् क्रमात् ॥
वक्ष्यमाणेन मन्त्रेण भक्त्या कृष्णाय वैष्णवः ।
पूजां कृत्वा परीवारदेवानां तान्यथार्पयेत् ॥
अर्पणमन्त्रः ।
कृष्ण ! कृष्ण ! नमस्तुभ्यं गृहाणेदं पवित्रकम् ।
पवित्रकरणार्थाय वर्षपूजाफलप्रदम् ॥
पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम् ।
शुद्धो भवाम्यहं देव ! त्वत्प्रसादाज्जनार्द्दन ! ॥
महापूजां ततः कृत्वा स्तुत्वा नत्वार्थयेत् प्रभुम् ।
वनमालां यथा देव ! कौस्तुभं सततं हृदि ॥
तद्वत् पवित्रतन्तूंश्च पूजाञ्च हृदये वह ।
जानताजानता वापि न कृतं यत्तवार्च्चनम् ॥
केनचिद्विघ्नदोषेण परिपूर्णन्तदस्तु मे ॥
अथाग्निं विधिनाभ्यर्च्च्य पवित्रं तस्य चार्पयेत् ।
कृष्णे निवेदयेन्मन्त्रहीन इत्यादिना कृतम् ॥
गुरुञ्च शक्त्या संपूज्य पवित्रं गुरवेऽर्पयेत् ।
वैष्णवेभ्यः पवित्राणि दत्त्वैकं धारयेत् स्वयम् ॥
संपूज्य वैष्णवान् विप्रान् शक्त्या सम्भोज्य बन्धुभिः ।
समं महाप्रसादान्नं सुखं भुञ्जीत वैष्णवः ॥”
अथ पवित्रविसर्ज्जनविधिः । तन्त्रे ।
“मासं पक्षमहोरात्रं त्रिरात्रं धारयेत्तथा ।
देवं तं सूत्रसन्दर्भं देशकालानुसारतः ॥
प्रत्यहं स्नानकर्म्मादि सूत्राण्युत्तार्य्य कारयेत् ।
अभिषिच्याथ तोयेन पुनर्देवे निवेदयेत् ॥
तथान्ते देवमभ्यर्च्च्य विशेषात् पुष्पचन्दनैः ।
नैवेद्यं विविधं दत्त्वा ततः सूत्रं विसर्ज्जयेत् ॥
ॐ सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम ।
व्रजेदानीं पवित्र ! त्वं विष्णुलोकं विसर्ज्जितम् ॥
यावद्देवे पवित्राणि तावत्तिष्ठेत् समाहितः ।
ब्रह्मचारी हविष्याशी देवपूजापरायणः ॥
तत्फलञ्चोक्तं बौधायनेन ।
एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः ।
स याति परमं स्थानं यत्र देवो नृकेशरी ॥”
अथ तत्र मुख्यगौणकालनिर्णयः ।
“मुख्यकालस्य चैवास्य विघ्नतोपगमे सति ।
भाद्रादावपि कर्त्तव्यं पवित्रारोपणं प्रभोः ॥
तथा च विष्णुरहस्ये ।
श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ।
द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥
सिंहस्थे वा रवौ कार्य्यं कन्यायाञ्च गतेऽथवा ।
तस्यामेव तिथौ सम्यक् तुलासंस्थे कथञ्चन ॥
मन्त्रतन्त्रप्रकाशे च ।
कर्क्कटञ्च गते सूर्य्ये तथा सिंहगतेऽपि वा ।
द्वादश्यां शुक्लपक्षस्य हरेर्द्दद्यात् पवित्रकम् ॥
अथ चेद्विघ्नपातेन मुख्यकालो न लभ्यते ।
कन्यागतेऽपि कुर्व्वीत यावन्नोत्तिष्ठते हरिः ॥”
इति हरिभक्तिविलासः ॥

पवित्रारोहणं, क्ली, (पवित्रस्य यज्ञोपवीतस्य

आरोहणं सम्प्रदानं यत्र ।) पवित्रारोपणम् ।
यथा, --
“आषाढशुक्लपक्षस्य याष्टमी श्रावणस्य च ।
पवित्रारोहणं कुर्य्याद्देव्याः प्रीतिकरं परम् ॥
दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव ! ।
वैष्णवीतन्त्रमन्त्रेण पवित्रारोहणञ्चरेत् ॥
विशेषात् श्रावणादेव देव्याः कुर्य्यात् पवित्रकम् ।
सर्व्वेषामपि देवानां पवित्रारोहणञ्चरेत् ॥
आषाढे श्रावणे वापि संवत्सरफलप्रदम् ।
प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः ॥
श्रिया देव्या द्वितीया तु तिथीनामुत्तमा तिथिः ॥
तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य च ॥
पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च ।
पृष्ठ ३/०८५
सप्तमी भास्करस्योक्ता दुर्गायाश्च तथाष्टमी ॥
मातणां नवमी प्रोक्ता वासुकेर्दशमी स्मृता ।
एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः ॥
त्रयोदशी त्वनङ्गस्य मम चैव चतुर्द्दशी ।
ब्रह्मणो दिक्पतीनाञ्च पौर्णमासी तिथिर्मता ॥
पवित्रारोहणं यो वै देवानां न समाचरेत् ।
तस्य सांवत्सरीपूजाफलं हरति केशवः ॥
तस्माद्यत्नेन कर्त्तव्यं पवित्रारोहणं परम् ।
कृते बहुफलप्राप्तिस्तत्पूजा सफला भवेत् ॥
पवित्रं येन सूत्रेण यथा कार्य्यं विजानता ।
तत् शृणुष्व प्रमाणञ्च रचनासु च भैरव ! ॥
प्रथमं दर्भसूत्रञ्च पद्मसूत्रं ततः परम् ।
ततः क्षौमं सुपुण्यं स्यात् कार्पासकमतः परम् ॥
पट्टसूत्रं तथान्येन पवित्राणि न कारयेत् ।
पवित्राणि विचित्राणि कर्त्तव्याणि प्रयत्नतः ॥
गन्धमाल्यैः सुरभिभिरर्च्चितानि यथोदितम् ॥
कन्या च कर्त्तयेत् सूत्रं प्रमदा वा पतिव्रता ॥
विधवा शाधुशीला च दुःशीला न हि कर्त्तयेत् ।
यत् सूचिभिन्नं दग्धञ्च भस्मधूमाभिगुण्ठितम् ॥
तद्वर्ज्जयेत यत्नेन सूत्रमस्मिन् पवित्रके ।
उपयुक्तञ्चाखुदष्टं मद्यरक्तादिदूषितम् ॥
मलिनं नीलरक्तञ्च यत्नेन परिवर्ज्जयेत् ।
सूत्रैः पवित्रं कुर्व्वीत कनिष्ठोत्तममध्यमम् ॥
कनिष्ठकं पवित्रन्तु सप्तविंशतितन्तुभिः ।
मर्त्यलोके यशःकीर्त्तिसुखसौभाग्यवर्द्धनम् ॥
चतुःपञ्चाशता प्रोक्तं तन्तूनां मध्यमं परम् ।
दिव्यभोगावहं पुण्यं स्वर्गसौख्यप्रदायकम् ॥
उत्तमञ्चैव तन्तूनामष्टोत्तरशतेन वै ।
तद्दत्त्वा तु महादेव्यै शिवसायुज्यमाप्नुयात् ॥
उत्तमं वासुदेवाय दद्याद्यदि पवित्रकम् ।
तदा याति हरेर्लोकं साधको नात्र संशयः ॥
अष्टोत्तरसहस्रन्तु रत्नमालेति गीयते ।
पवित्रन्तु महादेव्या भुक्तिमुक्तिप्रदायकम् ॥
रत्नमालान्तु यो दद्यान्महादेव्यै पवित्रकम् ।
कल्पकोटिसहस्राणि स्वर्गे स्थित्वा शिवो भवेत् ॥
एतत्तु नागहाराख्यं शङ्करस्य पवित्रकम् ।
अष्टोत्तरसहस्रेण तन्तूनां सुमनोहरम् ॥
यः प्रयच्छति मह्यन्तु स यावान् तन्तुसञ्चयः ।
तावत्कल्पसहस्राणि मम लोके प्रमोदते ॥
अष्टोत्तरसहस्रेण वनमाला हरेः स्मृता ।
तन्तूनां तस्य दानेन विष्णुसायुज्यमाप्नुयात् ॥
यत् कनिष्ठं पवित्रन्तु नाभिमात्रं भवेत्तु तत् ।
द्वादशग्रन्थिसंयुक्तमात्ममानेन योजयेत् ॥
ऊरुप्रमाणं मध्यं स्यात् ग्रन्थीनां तत्र योजयेत् ।
चतुर्विंशतिमप्यस्य मालामात्मन एव च ॥
पवित्रमुत्तमं प्रोक्तं जानुमात्रञ्च भैरव ! ।
षट्त्रिंशत्तन्तुग्रन्थीनां योजयेदात्ममानतः ॥
शतमष्टोत्तरं कार्य्यं ग्रन्थीनां स्वविधानतः ।
नागहाराह्वयं तद्वदर्थेषु च विधानतः ॥
पवित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः ।
तदन्यवर्णसूत्रेण कर्त्तव्या लक्षणान्विताः ॥
ग्रन्थिन्तु सप्तभिः कुर्य्याद्वेष्टनैस्तु कनिष्ठके ।
द्विगुणैर्मध्यमे कुर्य्यात्त्रिगुणैरुत्तमे तथा ॥
अधिवास्य पवित्राणि पूर्ब्बस्मिन्दिवसे पुनः ।
मन्त्रन्यासं पवित्रेषु कुर्य्यात्तत्र परेऽहनि ॥
दुर्गाबीजेन मन्त्रेण मन्त्रन्यासं द्बिजश्चरेत् ।
वैष्णवीतन्त्रमन्त्रेण कुर्य्युरन्ये च भैरव ! ॥
प्रतिग्रन्थि स्वयं कुर्य्यान्मन्त्रन्यासं विचक्षणः ॥
अङ्गुष्ठाग्रेण जप्यन्तु मालायामिह भैरव ! ।
यावन्ता ग्रन्थयश्चात्र तावन्त्येव च संन्यसेत् ।
मन्त्राणि तस्य तेन स्यात् देवाङ्गोपनियाजनम् ॥
दुर्गातन्त्रेण मन्त्रेण तत्त्वन्यासन्तु कारयेत् ।
एकत्र न्यस्य सकलं यज्ञपात्रे पवित्रकम् ॥
तस्मिन्निधाय पुष्पाणि गन्धादि च सुशोभनम् ॥
तत्त्वन्यासं ततः कुर्य्यादङ्गुल्यग्रेण भैरव ! ॥
विष्णोस्तु मूलमन्त्रेण तत्त्वन्यासन्तु कारयेत् ।
इदं विष्णुरिति प्रोक्तं मन्त्रन्यासे द्विजस्य हि ॥
शूद्राणां मन्त्रविन्यासे मन्त्रो वै द्बादशाक्षरः ।
प्रासादेन तु मन्त्रेण मन्त्रन्यासो मम स्मृतः ॥
अनेन मन्त्रम्यासन्तु दानञ्चानेन कारयेत् ।
कुङ्कुमोशीरखर्ज्जूरैश्चन्दनादिविलेपनैः ॥
पवित्राणि विलिप्याथ तत्त्वन्यासन्तु योजयेत् ।
सम्पूज्य विधिवद्देवीं मण्डले प्रयतो नरः ॥
वैष्णवीतन्त्रमन्त्रेण दुर्गामन्त्रेण भैरव ! ।
दुर्गाबीजेन दद्यात्तु देव्या मूर्द्ध्नि पवित्रकम् ॥
यस्य देवस्य या पूजा तस्य तस्यैव मण्डलम् ।
यस्य यस्य तु यो मन्त्रो यथाध्यानादिपूजनम् ॥
तं देवं तेन भावेन पूजयित्वा प्रयत्नतः ।
तस्यैव बीजमन्त्राभ्यां मूर्द्ध्नि दद्यात् पवित्रकम् ॥
पवित्रं समये दद्याद्देवेभ्यश्च पवित्रकम् ।
सर्व्वेषामेव वेदानां सम्पूर्णार्थञ्च भैरव ! ॥
अग्निर्ब्रह्मा भवानी च गजवक्त्रो महोरगः ।
स्कन्दो भानुर्मातृगणो दिक्पालाश्च नव ग्रहाः ॥
एषां घटेषु प्रत्येकं पूजयित्वा यथाविधि ।
मूर्द्ध्नि पवित्रमेकैकं दद्यादेभ्यः समाहितः ॥
पञ्चगव्यचरुं कृत्वा देव्यै दत्त्वाहुतित्रयम् ।
तेनैव वह्नये दत्त्वा शम्भवे च यथाविधि ॥
आज्यैरष्टोत्तरशतं तिलैराज्यैस्तथैव च ।
अष्टोत्तरशतं दद्यान्महादेव्यै च साधकः ॥
एवमेवं विधानेन विष्ण्वादीनाञ्च वैष्णवः ।
पवित्रारोपणं कुर्य्याद्धर्म्मकामार्थसिद्धये ॥
नैवेद्यैर्विविधैः पेयैर्वटपिष्टकमोदकैः ।
कुष्माण्डैर्नारिकेलैश्च खज्जूरैः पनसैस्तथा ॥
आम्रदाडिमकर्कारुद्राक्षादिविविधैः फलैः ।
भक्ष्यभोज्यादिभिः सर्व्वैर्मद्यैर्मांसैस्तथोदनैः ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैश्च सुमनोहरैः ।
वासोभिर्भूषणैश्चैव भवानीं साधको यजेत् ॥
नटनर्त्तकसंघैश्च वेश्याभिरपि भैरव ! ।
नृत्यगीतैः समुदितो जागरं कारयेन्निशि ॥
भोजयेद्ब्राह्मणांश्चापि ज्ञातीनपि द्विजोत्तमैः ।
पवित्रारोहणे वृत्ते दक्षिणामुपदापयेत् ॥
हिरण्यं गां तिलं वासो घृतं वा शाकमेव वा ।
इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत् ॥
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ।
इयं सांवत्सरी पूजा तवास्तु परमेश्वरि ! ॥
ततो विसर्ज्जयेद्देवीं पूर्ब्बभिः प्रतिपत्तिभिः ।
एवं कृते पवित्राणां दाने देव्या यथाविधि ॥
संवत्सरस्य या पूजा सम्पूर्णा वत्स ! जायते ।
कल्पकोटिशतं यावद्देवीगेहे वसेन्नरः ।
अत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत् ॥”
इति कालिकापुराणे ५८ अध्यायः ॥
गरुडपुराणे ४२ । ४३ अध्याययोरप्येतद्द्रष्ट-
व्यम् ॥

पवित्रितः, त्रि, पवित्रमस्य जात इत्यर्थे तार-

कादित्वात् इतच्प्रत्ययनिष्पन्नः । तत्पर्य्यायः ।
पवित्रः २ प्रयतः ३ पूतः ४ शुचिः ५ शुद्धः ६ ।
इति शब्दरत्नावली ॥

पश, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, पाशयति । इति दुर्गादासः ॥

पश, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-सकं-सेट् ।) ञ, पशति, पशते । बाधो
विहतिः । ग्रन्थो ग्रन्थनम् । ग्रन्थस्थाने स्पर्शनं
पठन्ति केचित् । इति दुर्गादासः ॥

पश, त् क अनुपसर्गाद्बन्धबाधयोः । स्पर्शगत्योः ।

इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-
सेट् ।) तालव्योपधः । पशयति । अनुपसर्गा-
दिति सोपसर्गस्य प्रयोगो निषिध्यते । बाधो-
विहतिः । इति दुर्गादासः ॥

पशव्यं, त्रि, (पशोरिदं पशवे हितं वा । पशु +

यत् ।) पशुसम्बन्धि । इति संक्षिप्तसारव्याकर-
णम् ॥ (पशुहितकरम् । यथा, याज्ञवल्क्ये ।
१ । ३२१ ।
“रम्यं पशव्यमाजीवं जाङ्गलं देशमावसेत् ॥”)

पशुः, पुं, (अविशेषेण सर्व्वं पश्यतीति । दृशिरौ

प्रेक्षणे + “अर्ज्जिदृशिकम्यमिपंसीति ।” उणां ।
१ । २८ । इति कुः पश्यादेशश्च ।) अन्या
व्युत्पत्तिर्यथा, “पशयन्ति पश्यन्ति पार्श्व-
हस्ताभ्यां हिताहितम् ।” इति भरतः ॥ जन्तु-
विशेषः । तस्य लक्षणम् । लोमवल्लाङ्गूल-
वत्त्वम् । इति भाषारत्ने कणादः ॥ तद्भेदा
यथा । सिंहः १ व्याघ्रः २ तरक्षुः ३ वराहः ४
कपिः ५ भल्लूकः ६ खड्गी ७ महिषः ८
शृगालः ९ विडालः १० गोधा ११ श्वावित् १२
हरिणः १३ कृष्णसारः १४ रुरुः १५ न्यङ्कुः १६
रङ्कुः १७ शम्बरः १८ रौहिषः १९ गोकर्णः २०
पृषतः २१ एणः २२ ऋष्यः २३ रोहितः २४
चमरः २५ गन्धर्व्वः २६ शरभः २७ रामः २८
सृमरः २९ गवयः ३० शशः ३१ खट्टाशः ३२
गौः ३३ उष्ट्रः ३४ छागः ३५ मेषः ३६ खरः ३७
हृस्ती ३८ अश्वः ३९ । इत्यमरः ॥ * ॥ (यथा,
(“पशुः पशूनां दौर्ब्बल्यात् कश्चिन्मध्ये वृकायते ।
ससत्त्वं वृकमासाद्य प्रकृतिं भजते पशुः ॥
तद्वदज्ञो ज्ञमध्यस्थः कश्चिन्मौखर्य्यसाधनः ।
स्थापयत्याप्तमात्मानमाप्तन्त्वासाद्य भिद्यते ॥”
इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥)
तत्र ग्राम्यारण्यभेदेन चतुर्द्दशविधाः पशवो यथा,
पृष्ठ ३/०८६
“गौरविरजोऽश्वोऽश्वतरो गर्द्दभो मनुष्यश्चेति
सप्त ग्राम्याः पशवः । महिषवानरऋक्षसरी-
सृपरुरुपृषतमृगाश्चेति सप्तारण्याः पशवः ॥”
इति दुर्गोत्सवतत्त्वे पैठीनसिः ॥ * ॥ वैद्यके
भूशयजाङ्गलमेदेन स द्विविधः । तत्र विलशायि-
त्वात् भूशया नकुलगोधादयः । तेषां मांसगुणाः ।
“प्रहसा भूशयानूपवारिजा वारिचारिणः ।
गुरूष्णमधुराः स्निग्धा वातघ्नाः शुक्रवर्द्धनाः ॥
स्थलजा जाङ्गलाः प्रोक्ता मृगा जङ्गलचारिणः ।
जाङ्गला हरिणच्छागादयः । तेषां मांसगुणाः ।
लघवः शीतमधुराः सकषाया हिता नृणाम् ॥
तेषामवयवादीनां गुणः ।
गुरुभक्षा बहुभुजो ये चोपचितमेदसः ।
एकदेहेऽपि पूर्ब्बार्द्धं मृगाणां पक्षिणां परम् ॥
सर्व्वेषाञ्च शिरःस्कन्धप्लीहचर्म्मयकृद्गुदम् ।
पादपुच्छान्त्रमस्तिष्कमुष्कक्रोडाः समेहनाः ।
धातवः शोणिताद्याश्च गुरवः स्युः परस्परम् ॥”
इति राजवल्लभः ॥ * ॥
(“तत्र गजगवयमहिषरुरुचमरसृमररोहित-
वराहखड्गिगोकर्णकालपुच्छ-कोन्द्रन्यङ्कुरण्य-
गवयप्रभृतयः कूलचराः पशवः ।” एषां गुणा
यथा, --
“वातपित्तहरा वृष्या मधुरा रसपाकयोः ।
शीतला बलिनः स्निग्धा मूत्रलाः कफवर्द्धनाः ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥
“उष्ट्रा गजा वाजिनश्च महिषाः सौरभाजकाः ।
खरशूकरमेषाश्च श्वा च मार्ज्जारमूषकाः ।
इत्यते पशवो ज्ञेया ग्रामवासनिवासिनः ॥”
इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥)
छागादौ पशुपदप्रयोगमाह यज्ञपार्श्वः ।
“उष्ट्रो वा यदि वा मेषश्छागो वा यदि वा हयः ।
पशुस्थाने नियुक्तानां पशुशब्दोऽभिधीयते ॥”
इति वलिदानप्रकरणे तिथितत्त्वम् ॥ * ॥
अवैधपशुहनने दोषो यथा, --
“वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥”
इति गारुडे ९५ अध्यायः ॥ * ॥
पश्वधिष्ठात्री देवता यथा, --
“सिंहे वसति दुर्गा च शरभे च प्रजापतिः ।
एणे च वसते वायुर्मेषे चैव च चन्द्रमाः ॥
नक्षत्राणि च शशके कृष्णसारे हरिः स्वयम् ।
शतक्रतुर्गवां पृष्ठे गवये भुवनानि च ॥
शल्लके मङ्गलान्यष्टौ गजे विष्णुर्गणेश्वरः ।
अश्वे तु द्वादशादित्या ब्राह्मणे सर्व्वदेवताः ॥
ब्रह्मा तु चामरे चैव छागले तु तथानलः ।
एतस्मान् कारणादेते पूज्या वन्द्याः प्रयत्नतः ॥”
इति मत्स्यमूक्ततन्त्रे ३९ पटलः ॥ * ॥
प्रमयः । देवः । प्राणिमात्रम् । इति शब्द-
रन्नावली ॥ छगलः । यज्ञः । संसारिणामात्मा ।
इति धरणिः ॥ यज्ञोडुम्बरः । इति शब्द-
चन्द्रिका ॥ * ॥ * ॥ साधकानां भावत्रयाणां
प्रथमो भावः । तस्य निर्णयो यथा, षष्ठपटले ।
“पशुभावस्थितां नाथ ! देवतां शृणु विस्तरात् ।
दुर्गापूजां विष्णुपूजां शिवपूजाञ्च नित्यशः ॥
अवश्यं हि यः करोति स पशुरुत्तमः स्मृतः ।
केवलं शिवपूजाञ्च यः करोति च साधकः ॥
पशूनां मध्यतः श्रीमान् शिवया सह चोत्तमः ।
केवलं वैष्णवो धीरः पशू नां मध्यमः स्मृतः ॥
भूतानां देवतानाञ्च सेवां कुर्व्वन्ति सर्व्वदा ।
पशूनामधमाः प्रोक्ता नरकस्था न संशयः ॥
त्वत्सेवां मम सेवाञ्च ब्रह्मविष्णादिसेवनम् ।
कृत्वान्यसर्व्वभूतानां नायिकानां महाप्रभो ! ॥
यक्षिणीनां भूतिनीनां ततः सेवां शुभप्रदाम् ।
यः पशुर्ब्रह्मकृष्णादिसेवाञ्च कुरुते सदा ॥
तथा श्रीतारकब्रह्मसेवां ये वा नरोत्तमाः ।
तेषामसाध्या भूतादिदेवता सर्व्वकामहा ॥
वर्ज्जयेत् पशुमार्गेण विष्णुसेवापरो जनः ॥”
द्वितीयपटले ।
“नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् ।
देवतादर्शनं पीठदर्शनं तीर्थदर्शनम् ॥
गुरोराज्ञापालनञ्च देवतानित्यपूजनम् ।
पशुभावस्थितो मर्त्त्यो महासिद्धिं लभेद्ध्रुवम् ॥”
षष्ठपटले ।
“पुनर्भावं पशोरेव शृणुष्वादरपूर्ब्बकम् ।
अकस्मात् सिद्धिमाप्नोति पशुर्नारायणोपमः ॥
वैकुण्ठनगरे याति चतुर्भुजकलेवरः ।
शङ्खचक्रगदापद्महस्तो गरुडवाहनः ॥
महाधर्म्मस्वरूपोऽसौ महाविद्याप्रसादतः ।
पशुभावं महाभावं भावानां सिद्धिदं परम् ॥
आदौ भावं पशोः कृत्वा पश्चात् कुर्य्यादवश्यकम् ।
वीरभावं महाभावं सर्व्वभावोत्तमोत्तमम् ।
तत्पश्चादतिसौन्दर्य्यं दिव्यभावं महाफलम् ॥
इति रुद्रयामले उत्तरखण्डम् ॥ * ॥
तस्य कालो यथा, --
“आदौ दशमदण्डेन पशुभावमथापि वा ॥”
इति तत्रैव ।
“जन्ममात्रं पशुभावं वर्षषोडशकावधि ॥”
इति वामकेश्वरे ५१ पटलः ॥ * ॥
पशुभावकर्त्तव्याकर्त्तव्यगर्भतद्भावनिन्दामाह ।
“पशुभावरता ये च केवलं पशुरूपिणः ।
रात्रौ यन्त्रञ्च मन्त्रञ्च न स्पृशेत् न जपेत् क्वचित् ॥
संशयो बलिदाने च तन्त्रे च संशयः सदा ।
मन्त्रे चाक्षरबुद्धिश्च अविश्वासो गुरौ सदा ॥
प्रतिमासु शिलाबुद्धिर्भेदको दैवते पुनः ।
निरामिषेण देवेशि ! देवतायाः प्रपूजनम् ॥
अज्ञानेन सदा स्नानं प्रत्यहं देहताडनम् ।
सर्व्वेषाञ्चैव निन्दास्तु यः कुर्य्याच्च महेश्वरि ! ।
स एव पशुभावेन अधमः परिकीर्त्तितः ॥”
इति रुद्रयामले उत्तरखण्डे ६ पटलः ॥ * ॥
“रात्रौ नैव यजेद्देवीं सन्ध्यायां वा पराह्णके ।
ऋतुकालं विना देवि ! रमणं परिवर्ज्जयेत् ॥
मांसादिकं महेशानि ! त्यजेत् पञ्चसु पर्व्वसु ।
यदन्यद्वेदविहितं कुर्य्यान्नियमतत्परः ॥”
इति नित्यातन्त्रे १ पटलः ॥ * ॥
पशूनां व्रतभङ्गप्रायश्चित्तं यथा, --
“पशूनां व्रतभङ्गादौ विधिं प्रथमतः शृणु ।
व्रतभङ्गे नित्यभङ्गे नित्यपूजादिकर्म्मणि ।
सहस्रं प्रजपेन्मन्त्री व्रतदोषोपशान्तये ॥”
इति रुद्रयामले उत्तरखण्डे २ पटलः ॥

पशु, व्य, (दृश्यते इति । दृश + “अर्ज्जिदृशीति ।”

उणां । १ । २८ । इति भावे कुः पशि-आदेशश्च ।)
दर्शनम् । इति मेदिनी । शे, १० ॥

पशुक्रिया, स्त्री, (पशोरिव क्रिया कार्य्यम् ।)

मैथुनम् । इति हेमचन्द्रः । ३ । २०१ ॥ (पशुना
छागादिजन्तुना क्रिया इति विग्रहे छागादि
पशुबलिदानकार्य्यम् । यथा, हरिवंशे । ५७ । ५२ ।
“कृतानुयात्रा भूतैस्त्वं नित्यं मांसबलिप्रिया ।
तिथौ नवम्यां पूजाञ्च प्राप्स्यसे सपशुक्रियाम् ॥”)

पशुगायत्त्री, स्त्री, (पशुकर्णजप्या गायत्त्री ।)

बलिदानीयपशुकर्णजप्यमन्त्रविशेषः । यथा, --
पशुकर्णे पशुगायत्त्रीं जपेत् । सा यथा । “पशु-
पाशाय विद्महे शिरश्छेदाय धीमहि तन्नः पशुः
प्रचोदयात् ।” इति दुर्गोत्सवप्रयोगः ॥

पशुपतिः, पुं, (पशूनां स्थावरजङ्गमानां पतिः ।)

शिवः । इत्यमरः । १ । १ । २२ ॥ (यथा,
महाभारते । १३ । १७ । १३४ ।
“ऊर्द्ध्वगात्मा पशुपतिर्व्वातरंहा मनोजवः ॥”
तस्य निरुक्तिर्यथा चिन्तामणिधृतवचने, --
“ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्त्तिताः ।
तेषां पतिर्महादेवः स्मृतः पशुपतिः श्रुतौ ॥”)
अपरा निरुक्तिर्यथा, वराहपुराणे ।
“अहञ्च सर्व्वविद्यानां पतिराद्यः सनातनः ।
अहं वै पतिभावेन पशुमध्ये व्यवस्थितः ।
अतः पशुपतिर्नाम त्वं लोके ख्यातिमेष्यसि ॥”
अयं यजमानमूर्त्तिः । यथा । पशुपतये यज-
मानमूर्त्तये नमः । इत्यष्टमूर्त्तिपूजायां भविष्य-
पुराणम् ॥ (महादेवो हि नेपाले पीठस्थाने पशु-
पतिरित्याख्यया विराजते । यदुक्तं महालिङ्गे-
श्वरतन्त्रे शिवस्य शतनामस्तोत्रे, --
“नेपाले च पशुपतिः केदारे परमेश्वरः ॥”)

पशुपल्वलं, क्ली, (पशुप्रियं पल्वलं क्षुद्रजलाशय

उत्पत्तिस्थानत्वेनास्त्यस्य । अच् । पशुप्रियं
पल्वलमिवेति केचित् ।) कैवर्त्तीमुस्तकम् । इति
शब्दचन्द्रिका ॥

पशुपाशकः, पुं, (पशूनामिव पाशो बन्धनं यत्र ।

ततः कप् ।) रतिबन्धविशेषः । यथा, --
“स्त्रियमानतपूर्ब्बाङ्गीं स्वपादान्तःपदद्बयम् ।
ऊर्द्ध्वांशेन रमेत् कामी बन्धोऽयं पशुपाशकः ॥”
इति रतिमञ्जरी ॥

पशुप्रेरणं, क्ली, (पशूनां प्रेरणम् ।) गवादीनां

चालनम् । तत्पर्य्यायः । उदजः २ । इत्य-
मरः । ३ । २ । ३९ ॥

पशुमोहनिका, स्त्री, (मुह्यतेऽनया । मुह +

ल्युट् । स्वार्थे कन् टापि अत इत्वम् । ततः
पशूनां मोहनिका ।) कट्वीलता । इति राज-
निर्घण्टः ॥ (कट्वीशब्देऽस्या विशेषो ज्ञेयः ॥)
पृष्ठ ३/०८७

पशुरज्जुः, स्त्री, पशूनामश्वादीनां बन्धनाय रज्जुः ।

तत्पर्य्यायः । दामनी २ । इत्यमरः । २ । ९ । ७३ ॥
बन्धनी ३ । इति शब्दरत्नावली ॥

पशुराजः, पुं, (पशूनां राजा । “राजाहःसखि-

भ्यष्टच् ।” ५ । ४ । ९१ । इति समासान्तटच् ।)
सिंहः । इति शब्दचन्द्रिका ॥

पशुहरीतकी, स्त्री, (पशूनां हरीतकीव हित-

कारित्वात् ।) आम्रातकफलम् । इति त्रिकाण्ड-
शेषः ॥

पश्चात्, व्य, (अपरस्मिन् अपरस्मात् अपरो वा

वसति आगतो रमणीयं वा । “पश्चात् ।” ५ ।
३ । ३२ । इति अपरस्य पश्चभाव आतिश्च
प्रत्ययोऽस्तातेर्विषये ।) प्रतीची । चरमम् ।
इत्यमरः । ३ । ३ । २४२ ॥ (यथा, रघुः । ४ । ३० ।
“प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुस्कन्धेव चा चमूः ॥”)
अधिकारः । इति मेदिनी । ते, ३१ ॥

पश्चात्तापः, पुं, (पश्चात् अग्रतोऽकार्य्ये कृते चरमे

तापः ।) अनुशोचनम् । चरमे शोकः । पस्तान
इति भाषा । तत्पर्य्यायः । अनुतापः २ विप्रती-
सारः ३ । इत्यमरः । १ । ७ । २५ ॥ (यथा,
रामायणे । ३ । ५१ । ३६ ।
“उक्त्रेति परुषं वाक्यं पश्चात्तापसमन्वितः ॥”
केचित्तु पश्चात् ताप इति पदद्वयमिच्छन्ति ॥)

पश्चार्द्धः, त्रि, (अपरश्चासावर्द्धश्च इति । “अपर-

स्यार्द्धे पश्चभावो वक्तव्यः ।” २ । १ । ५८ ।
इत्यस्य वार्त्तिं इति पश्चभावः ।) शेषार्द्धः ।
अपरार्द्धः । यथा, शकुन्तलायाम् । १ अङ्के ।
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्ध-
दृष्टिः
पश्चार्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्ब्ब-
कायम् ॥”

पश्चिमं, त्रि, (पश्चाद्भवम् । “अग्रादिपश्चात्

डिमच् ।” ४ । ३ । २३ । इत्यस्य वार्त्तिं इति
डिमच् ।) पश्चाद्भवम् । इत्यमरः । ३ । १ । ८१ ॥
(यथा, रघुः । १७ । ८ ।
“तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः ।
स्मरन्तः पश्चिमामाज्ञां भर्त्तुः संग्रामयायिनः ॥”)

पश्चिमा, स्त्री, (पश्चिम + टाप् ।) अस्ताचला-

वच्छिन्नदिक् । तत्पर्य्यायः । प्रतीची २ वारुणी ३
प्रत्यक् ४ । तद्दिग्भववायुगुणाः ।
“पश्चिमो मारुतस्तीक्ष्णः कफमेहविशोषणः ।
सद्यः प्राणहरो दुष्टः शोषकारी शरीरिणाम् ॥”
इति राजनिर्घण्टः ॥
अपिच । राजवल्लभः ।
“पश्चिमोऽग्निवपुर्वर्णबलारोग्यविवर्द्धनः ।
कषायः शोषणः स्वर्य्यो रोचनो विशदो लघुः ॥
अपां लघुत्ववैशद्यशैत्यवैमल्यकारकः ।
सर्व्वद्रव्यष्वभिव्यक्तप्रभावरसवीर्य्यकृत् ॥
व्रणसंरोपणस्त्वच्यो दाहशोथतृषापहः ॥”
तद्दिगधिपतिर्वरुणः । यथा, अमरे । १ । ३ । १ ।
“इन्द्रो वह्निः पितृपतिर्नैरृतो वरुणो मरुत् ।
कुवेर ईशः पतयः पूर्ब्बादीनां दिशां क्रमात् ॥”
तद्दिक्पतयो मिथुनतुलाकुम्भराशयश्च । यथा,
“प्रागादिककुभान्नाथा यथासंख्यं प्रदक्षिणम् ।
मेषाद्या राशयो ज्ञेयास्त्रिरावृत्ति परिभ्रमात् ॥”
इति ज्योतिस्तत्त्वम् ॥

पश्य, व्य, प्रशंसा । विस्मयः । इति शब्दरत्ना-

वली ॥ (पश्यतीति व्युत्पत्त्या “पाघ्राध्माधेट्-
दृशः शः ।” ३ । १ । १३७ । इति शप्रत्ययेन
पश्यो वाच्यलिङ्गः । दर्शकः । यथा, मुण्डकोप-
निषदि । ३ । १ । ३ ।
“यदा पश्यः पश्यते रुक्यवण
कर्त्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय
निरञ्जनः परमं साम्यमुपेति ॥”)

पश्यतिकर्म्मा, [न्] पुं, (पश्यतिर्दर्शनमेव कर्म्म

यस्य ।) दर्शनकर्म्मा । तद्वैदिकपर्य्यायाः ।
चिक्यात् १ चाकनत् २ आचक्ष्म ३ चष्टे ४
विचष्टे ५ विचर्षणिः ६ विश्वचर्षणिः ७ अव-
चाकशत् ८ । इत्यष्टौ पश्यतिकर्म्माणः । इति
वेदनिघण्टौ ३ अध्यायः ॥

पश्यतोहरः, त्रि, (पश्यन्तं जनमनादृत्य हर-

तीति । हृञ् हरणे + अच् । “षष्ठी चाना-
दरे ।” २ । ३ । ३८ । इति अनादरे षष्ठी ।
“वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु ।” ६ ।
३ । २१ । इत्यस्य वार्त्तिं इति षष्ठ्या अलुक् ।)
चौरः । यथा, हेमचन्द्रे । ३ । ४६ ।
“यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ॥”

पश्यन् [त्], त्रि, (पश्यतीति । दृशिरौ प्रेक्षणे

+ “लटः शतृशानचाविति ।” २ । २ । १२४ ।
इति शतृ ।) ईक्षणकर्त्ता । इति व्याक-
रणम् ॥ (यथा, मार्कण्डेये । ९२ । २९ ।
“इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा ।
पश्यतामेव देवानां तत्रैवान्तरधीयत ॥”)

पश्यन्ती, स्त्री, (पश्यति या दृश् + शतृ + ङीप् ।

ततः “श्यप्श्यनोर्नित्यम् ।” ७ । १ । ८१ । इति नुम् ।)
मूलाधारोत्थितहृदयगतनादरूपवर्णः । यथा, --
“मूलाधारात् प्रथममुदितो यस्तु तारः पराख्यः
पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ॥”
इत्यलङ्कारकौस्तुभः ॥
(यथाच, --
“वैखरीशक्तिनिष्पत्तिर्मध्यमा शुतिगोचरा ।
द्योतितार्था तु पश्यन्ती सूक्ष्मा वागनपायिनी ॥”
इति मल्लिनाथधृतवाक्यम् ॥
ईक्षणकर्त्त्री । इति व्याकरणम् ॥)

पश्वाचारः, पुं, (पशूनां तन्त्रोक्ताधिकारिविशेषाणा-

माचारः ।) आचारविशेषः । यथा, --
“वेदोक्तेन यजेद्देवीं कामसङ्कल्पपूर्ब्बकम् ।
स एव वैदिकाचारः पश्वाचारः स उच्यते ॥”
इत्याचारभेदतन्त्रम् ॥

पष, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, पाषयति । तालव्यान्त एवाय-
मिति बहवः । दन्त्यान्त इति केत्रित् । मूर्द्ध-
न्यान्तपाठस्तु कस्यचिदनुरोधात् । इति दुर्गा-
दासः ॥

पष, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः ॥

(भ्वां-उभं-सकं-सेट् ।) ञ, पषति पषते । बाधो
विहतिः । ग्रन्थो ग्रन्थनम् । ग्रन्थनस्थाने
स्पर्शनं केचित् पठन्ति । इति दुर्गादासः ॥

पष, त् क अनुपसर्गाद्बन्धबाधयोः । स्पर्शगत्योः ।

इति कविकल्पद्रुमः ॥ (अदन्तचुरां-परं-सकं-
सेट् ।) मूर्द्धन्योपधः । क, पषयति । अनुप-
सर्गादिति सोपसर्गस्य प्रयोगो निषिध्यते । बाधो
विहतिः । इति दुर्गादासः ॥

पस, इ क नाशे । इति कविकल्पद्रुमः । (चुरां-

परं-सकं-सेट् ।) नाश इह नष्टीकरणम् ।
इ क, पंसयति पापं गङ्गा । इति दुर्गादासः ॥

पस, क बन्धे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, पासयति । पृथक्पाठा-
दयं न ञित् । अन्यथा पस कि ञ इत्यनेनैवेष्ट-
सिद्धे पृथक्पाठोऽनर्थकः स्यात् । इति दुर्गा-
दासः ॥

पस, ञ बाधे । ग्रन्थे । इति कविकल्पद्रुमः । (भ्वां-

उभं-सकं-सेट् ।) ञ, पसति पसते । इति दुर्गा-
दासः ॥

पस्त्यं, क्ली, (अपस्त्यायन्ति सङ्घीभूय तिष्ठन्ति

जीवा यत्र । अप + स्त्यै सङ्घातशब्दयोः +
“आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।
उपसर्गस्याकारलोपो निपातनात् ।) गृहम् ।
इति हेमचन्द्रः । ४ । ५६ ॥ (यथा, ऋग्वेदे ।
१० । ९६ । ११ ।
प्र पस्त्यमसुर हर्य्यतं गोराविष्कृधि हरयेसूर्य्याय ॥”)

पह्नवः, पुं, श्मश्रुधारिम्लेच्छजातिविशेषः । तस्य

विवरणं यथा, हरिवंशे । १४ । १५ -- १९ ।
“सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च ।
धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥
अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत् ।
यवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥
पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥
शका यवनकाम्बोजाः पारदाः पह्नवास्तथा ।
कोलाः सर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः ॥
सर्व्वे ते क्षत्त्रियास्तात ! धर्म्मस्तेषां निराकृतः ।
वशिष्ठवचनाद्राजन् ! सगरेण महात्मना ॥”
(क्वचित् पह्लवः पाठोऽपि दृश्यते । यथा,
गोः रामायणे । १ । ५५ । १८ ।
“तस्या हम्भारवोत्सृष्टाः पह्लवाः शतशो नृप ! ।
अनाशयन् बलं सर्व्वं विश्वामित्रस्य पश्यतः ॥”)

पह्लिका, स्त्री, वारिप्रश्नी । इति शब्दमाला ॥

पा, पाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

अनिट् ।) अस्यैव पिबादेशः । पिबति पयः
पान्थः । इति दुर्गादासः ॥

पा, ल रक्षणे । इति कविकल्पद्रुमः ॥ (अदां-

परं-सकं-अनिट् ।) ल, पाति । इति दुर्गा-
दासः ॥
पृष्ठ ३/०८८

पाः, त्रि, (पिबतीति । पा पाने + क्विप् ।) पान-

कर्त्ता ॥ (पाति रक्षतीति । पा रक्षणे + क्विप् ।)
रक्षणकर्त्ता । (“विश्वं पातीति विश्वपाः ।”
इति मुग्धबोधव्याकरणम् ॥)

पांशवः, पुं, (पांशोर्लवणविशेषस्य विकारः । पांशु

+ अण् ।) लवणविशेषः । पाङ्गा लोन इति भाषा ॥
तत्पर्य्यायः । रोमकम् २ औद्भिज्जम् ३ वसुकम् ४
वसुपांशुः ५ ऊषरजम् ६ औषरम् ७ ऐरिणम् ८
और्व्वम् ९ सहम् १० । अस्य गुणाः । तीक्ष्ण-
त्वम् । अत्युष्णत्वम् । कटुत्वम् । तिक्तत्वम् ।
दीपनत्वम् । दाहशोषकरत्वम् । ग्राहित्वम् ।
पित्तकोपकरत्वञ्च । इति राजनिर्घण्टः ॥
“औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयम् ।
क्षारं गुरु कटु स्निग्धं श्लेष्मलं वातनाशनम् ॥”
इति भावप्रकाशः ॥

पांशुः, पुं, (पंशयति नाशयति आत्मानमिति ।

पशि नाशने + “अर्ज्जिदृशिकमीति ।” उणां ।
१ । २८ । इति कुः दीर्घश्च ।) धूलिः । इत्य-
मरः । २ । ८ । ९८ ॥ (यथा, मनुः । ४ । १०२ ।
“कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने ।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥”)
शस्यार्थचिरसञ्चितगोमयः । सार इति भाषा ॥
इति मेदिनी । शे, ११ ॥ पर्पटः । कर्पूरविशेषः ।
इति राजनिर्घण्टः ॥ (दन्त्यसकारान्तोऽपि
दृश्यते ॥)

पांशुकासीसं, क्ली, (पांशुरिव कासीसम् ।) कासी-

सम् । इति राजनिर्घण्टः ॥

पांशुकुली, स्त्री, (पांशुना कोलति आकुलीभव-

तीति । कुल + कः । ततः स्त्रियां ङीष् ।) राज-
मार्गः । यथा, । “रथ्या पांशुकुली भवेत् ।” इति
हारावली । ११२ ॥

पांशुकूलं, क्ली, (पांशोः कूलमिव ।) अनामपट्टो-

लिका । यथा, त्रिकाण्डशेषे ।
“शासनं धर्म्मकीलः स्यान्मुकुतिः शूद्रशासनम् ।
पट्टोलिका कॢप्तकीला पांशुकूलं न कस्यचित् ॥”

पांशुचत्वरः, पुं, (पांशुभिश्चत्वर इव ।) घनोपलः ।

इति शब्दमाला ॥

पांशुचन्दनः, पुं, (पांशुश्चिताभस्मरजश्चन्दनमिव

यस्य ।) शिवः । इति त्रिकाण्डशेषः ॥

पांशुचामरः, पुं, (पांशुर्धूलिश्चामर इव यस्य ।)

पटवासः । इति जटाधरः ॥ ताँवु इति भाषा ॥
(पांशौ दूर्व्वा चामर इव यस्य ।) दूर्व्वाञ्चिततटी
भूमिः । वर्द्धापकः । प्रशंसा । पुरोटिः । धूलि-
गुच्छकः । इति मेदिनी । रे, ३०५ ॥

पांशुजं, क्ली, (पांशोर्जायते इति । पांशु + जन्

+ डः ।) पांशुलवणम् । पाङ्गा लोन इति
भाषा ॥ ततपर्य्यायः । ऊपम् २ औद्भिदम् ३ ।
पाक्यम् ४ लवणम् ५ पटु ६ । इति रत्नमाला ॥
अस्य गुणाः । भेदकत्वम् । पाचनत्वम् । पित्त-
कारित्वम् । इति राजवल्लभः ॥

पांशुपत्रं, क्ली, (पांशुः कर्पूर इव सुगन्धि पत्र-

मस्य ।) वास्तकम् । इति शब्दमाला ॥

पांशुमर्द्दनः, पुं, (मृद्यतेऽसाविति । मृद् + ल्युट् ।

मर्द्दनः । ततः पाशुः मर्द्दनो यत्र । यद्बा पांशो-
र्मर्द्दनं यत्र ।) केदारः । इति त्रिकाण्डशेषः ॥

पांशुरः, पुं, (पांशुं चिरसञ्चितगोमयादिकमुत्-

पत्तित्वेन रातीति । पांशु + रा + कः ।)
दंशकः । डाँश इति भाषा ॥ पीठसर्पी ।
स्वञ्जः । इति हारावली । १२३ ॥ (पांशुरस्या-
स्तीति । “नगपांशुपाण्डुभ्यश्च ।” ५ । २ ।
१०७ । इत्यस्य वार्त्तिं इति रः । पांशुविशिष्टे,
त्रि ॥ यथा, ऋग्वेदे । १ । २२ । १७ ।
“इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूहमस्य पांशु(सु)रे ॥”)

पांशुरागिणी, स्त्री, (पांशुरागो विद्यतेऽस्याः ।

इनिः स्त्रियां ङीप् च ।) महामेदा । इति राज-
निर्घण्टः ॥

पांशुलः, पुं, (पांशुर्विद्यतेऽस्य । पांशु + “सिध्मा-

दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) हरः ।
पापी । इति शब्दरत्नावली ॥ पुंश्चलः । शम्भोः
खट्वाङ्गम् । इति मेदिनी । ले, १०८ ॥ पूतिकः ।
काँटाकरञ्ज इति भाषा ॥ इति शब्दचन्द्रिका ॥
पांशुयुक्ते त्रि । इति धरणिः ॥ (पांशुर्दोषः पापञ्च
तद्युक्ते च त्रि । यथा, रघुः । २२ ।
“तस्याः खुरन्यासपवित्रपांशु
मपांशुलानां धुरि कीर्त्तनीया ।
मार्गं मनुष्येश्वरधर्म्मपत्नी
श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥”)

पांशुला, स्त्री, (पांशुल + टाप् ।) कुलटा । भूमिः ।

इति शब्दरत्नावली ॥ केतकी । रजस्वला ।
इति राजनिर्घण्टः ॥

पांसनः, त्रि, (पंसयति गुणादिकं नाशयतीति ।

पसि + ल्युः । बाहुलकात् दीर्घः ।) दूषकः । इति
त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ ।
१५४ । ३३ ॥
“निराबाधास्त्वयि हते मया राक्षसपांसन ! ।
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ॥”)

पांसुः, पुं, (पंसयतीति । पसि नाशने + “अर्ज्जि-

दृशिकमीति ।” उणां । १ । २८ । इति
कुर्दीर्घश्च ।) घूलिः । (यथा, हेः रामायणे ।
२ । ८० । ९ ।
“अपरे पूरयन् कूपान् पांसुभिः श्वभ्रमायतम् ।
निम्नभागांस्तथैवाशु समांश्चक्रुः समन्ततः ॥”)
चिरसञ्चितगोमयम् । इत्युणादिकोषः भरतश्च ॥
सार इति माषा ॥

पाकः, पुं, (पच् + भावे घञ् ।) पचनम् । क्लेदनम् ।

तत्पर्य्यायः । पचा २ । इत्यमरः । ३ । २ । ८ ॥
रन्धनम् । स तु सप्तप्रकारो यथा, --
“भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा ।
तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥”
भर्ज्जनं केवलपात्रे । तलनं स्नेहद्रव्ये । स्वेदनं
अग्न्युत्तापे । पचनं जले । क्वथनं सिद्धद्रव्यरस-
ग्रहणे । तान्दूरं द्बारवद्धतप्तयन्त्रे । पुटपाकः
अधोर्द्ध्वाग्नितापे ज्ञेयः । इति पाकराजेश्वरः ॥
स्थालीमार्ज्जनाद्योदनपरीक्षान्तो व्यापारनिचयः
पाकः । इति स्मृतिः ॥ * ॥ पाकभाण्डस्य
त्याज्यत्वं यथा, --
“नित्यं नूतनभाण्डेन कर्त्तव्यः पाक एव च ।
अथवा पक्षपर्य्यन्तं ततस्त्याज्यं मनीषिभिः ॥”
इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥
पाककाले शूद्रायाग्निदाननिषेधो यथा, --
“शूद्रायाग्निञ्च यो दद्यात् पाककाले विशेषतः ।
शूद्रापक्वं भवेदन्नं ब्राह्मणः शूद्रतामियात् ॥”
इति कर्म्मलोचनम् ॥ * ॥
एकोद्दिष्टश्राद्धे तस्य नित्यत्वं यथा, --
“एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।
अभावे पाकपात्राणां तदहःसमुपोषणम् ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
तस्य विधिर्यथा, --
“पूर्ब्बाशाभिमुखो भूत्वा उत्तराशामुखेन वा ।
पचेदन्नञ्च मध्याह्ने सायाह्ने च विवर्ज्जयेत् ॥
अग्न्याशाभिमुखे पक्वममृतान्नं विजानता ।
पूर्ब्बामुखो धर्म्मकामः शोकहानिश्च दक्षिणे ॥
श्रीकामश्चोत्तरमुखे पतिकामश्च पश्चिमे ।
ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः ॥
यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः ।
स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते ॥
ताम्रे पक्त्रा चक्षुर्हानिर्मणौ भवति वै क्षयम् ॥
पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! ।
पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम् ॥
वातुलेन तु यत् पक्वं भगिन्या च कनिष्ठया ।
असगोत्रेण यत् पक्वं शोणितं तदपि स्मृतम् ॥
अभक्तेन च यत् पक्वं स्त्रिया पक्वन्तथैव च ।
पक्वपात्रे च यत् पक्वं तत् सर्व्वं निष्फलं भवेत् ॥
उडुम्बरेण काष्ठेन कदम्बस्य दलेन च ।
शालेन करमर्द्देन उदरावर्त्तकेन च ॥
पक्वान्नं नैव भुञ्जीत भुक्त्वा रात्रिमुपावसेत् ।
गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत् ।
अप्रजा या तु वनिता नाश्नीयादेव तद्गृहे ॥
शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि ।
कलिचण्डातकस्यैव वज्रावारुणकस्य च ।
भेरण्डशाल्मलेर्वापि पक्वान्नं गर्हितं स्मृतस् ॥
यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् ।
मासे पक्षे तथाष्टौ च तत्पाकं विसृजेत् गृही ॥
धनुः पाके तथा सिंहे मिथुने वा वरानने ! ।
यः कुर्य्याद्भोजनं देवि ! क्वच्छ्रेणैव विशुध्यति ॥
एकदा तु जलं दद्याद् द्बिवारं न प्रदापयेत् ।
त्रिभागं पूरयेत् पात्रं पश्चात्तोयं न दापयेत् ॥”
इति मत्स्यसूक्ते ४२ पटलः ॥ * ॥
परिणतिः । (यथा, मार्कण्डेये । ७० । ३४ ।
“स्वकर्म्मफलपाकेन भर्त्तुस्तस्य महात्मनः ।
वियोजिताहं तद्धेतुरयमासीन् निशाचरः ॥”
पिबति स्तन्यादिकं इति । पा पाने + “इण्-
भीकापाशल्यतिमर्च्चिभ्यः कन् ।” उणां । ३ ।
४३ । इति कन् ।) शिशुः । जरसा केशस्य
शौक्ल्यम् । स्थाल्यादि । इति मेदिनी । के, २९ ॥
पृष्ठ ३/०८९
पेचकः । राष्ट्रादि । भङ्गः । भीतिः । इति शब्द-
रत्नावली ॥ दैत्यः । इति हेमचन्द्रः । २ । ८८ ॥
(यथा, भागवते । ७ । २ । ४ ।
“भो भो दानवदैतेया ! द्विमूर्द्धन् ! त्र्यक्ष ! शम्बर ! ।
शतबाहो ! हयग्रीव ! नमुचे ! पाक ! इल्वल ! ॥”
पिबतीति । पा + “इण्भीकापेति ।” उणां
३ । ४३ । इति कन् ।) पानकर्त्तरि त्रि ॥

पाककृष्णः, पुं, (पाके कृष्णं फले यस्य ।) कृष्ण-

फलपाकः । पानी आमला । इति शब्द-
चन्द्रिका ॥

पाककृष्णफलः, पुं, (पाके कृष्णं फलं यस्य ।)

पाककृष्णः । इति शब्दमाला ॥

पाकजं, क्ली, (पाकात् जायते इति । पाक +

जन् + ड ।) काचलवणम् । परिणामशूलम् ।
इति राजनिर्घण्टः ॥ (पाकजाते त्रि । यथा,
भाषापरिच्छेदे । ३६ ।
“स्पर्शस्तस्यास्तु विज्ञेयो ह्यनुष्णाशीतपाकजः ॥”)

पाकपुटी, स्त्री, (पाकाय पुटी ।) कुम्भशाला ।

इति हेमचन्द्रः । ४ । ९९९ ॥ पोयान् इति भाषा ॥

पाकफलः, पुं, (पाककृष्णं फलमस्य ।) फलपाकः ।

इति शब्दचन्द्रिका ॥ पानी आमला इति
भाषा ॥

पाकभाण्डं, क्ली, (पाकाय पाकस्य वा भाण्डम् ।)

पाकपात्रम् । यथा, --
“यस्य यस्य तु वर्णस्य यद्यत् स्यात्
पश्चिमन्त्वहः ।
स तत्र गृहशुद्धिञ्च वस्त्रशुद्धिं करोत्यपि ॥
पश्चिमन्त्वहः अशौचान्तदिम् । गृहशुद्ध्विं प्रा-
क्तनपाकभाण्डत्यागोल्लेपनादिना ।” इति शुद्धि-
तत्त्वम् ॥

पाकमत्स्यः, पुं, (पाकः पाकयुक्तो मत्स्यो यत्र ।)

मत्स्यव्यञ्जनम् । तत्पर्य्यायः । मत्स्यलम् २ ।
इति शब्दचन्द्रिका ॥ (समुद्रजातमत्स्य-
विशेषः । यथा, सुश्रुते सूत्रस्थाने । ४६
अध्याये । “तिमितिमिङ्गिलकुलिशपाकमत्स्य-
निरालकनन्दिवारलकमकरगर्गरकचन्द्रकमहा-
मीनराजीवप्रभृतयः सामुद्राः ॥” कीटविशेषः ।
यथा, सुश्रुते कल्पस्थाने ८ अध्याये ।
“पद्मकीटो दुन्दुभिको मकरः शतपादकः ।
पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी ॥”)

पाकयज्ञः, पुं, (पाकसाध्यो यज्ञः । शाकपार्थिव-

वत् समासः ।) वृषोत्सर्गगृहप्रतिष्ठादीनां
होमः । चरुहोमाङ्गककर्म्म । यथा, --
“प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः ॥”
इति तिथितत्त्वम् ॥
(ब्रह्मयज्ञादन्ये पञ्चमहायज्ञान्तर्गता वैश्वदेव-
होमबलिकर्म्मनित्यश्राद्धातिथिभोजनात्मका-
श्चत्वारः पाकयज्ञाः । यथा, मनुः । २ । ८६ ।
“ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥”
अष्टकादयोऽपि पाकयज्ञाः । यथा, तत्रैव ।
२ । १४३ ।
“अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् ।
यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥”
“अष्टकादीन् पाकयज्ञान् ।” इति तट्टीकायां
कुल्लुकभट्टः ॥)

पाकयज्ञिकः, पुं, (पाकयज्ञं करोतीति । पाकयज्ञ

+ ठञ् ।) पाकयज्ञकर्त्ता । (पाकयज्ञस्य व्याख्यान-
स्तत्र भवो वा । “क्रतुयज्ञेभ्यश्च ।” ४ । ३ ।
६८ । इति ठञ् । पाकयज्ञव्याख्यानग्रन्थः ।
पाकयज्ञभवश्च । इति व्याकरणम् ॥)

पाकरञ्जनं, क्ली, (पाकं पच्यमानं रञ्जयतीति ।

रञ्ज + णिच् + ल्युः ।) तेजपत्रम् । इति शब्द-
चन्द्रिका ॥

पाकलं, क्ली, (पाकं लातीति । ला + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) कुष्ठौ-
षधिः । इत्यमरः । २ । ४ । १२६ ॥

पाकलः, पुं, (पाक + ला + कः ।) कुञ्जरज्वरः ।

इति मेदिनी । ले, १०८ ॥ बोधनद्रव्यम् ।
अनिलः । अनलः । इति विश्वः ॥ व्रणादि-
कारिणि, त्रि ॥

पाकलिः, स्त्री, (पाक + ला + इन् ।) वृक्ष-

विशेषः । इति रत्नमाला । रोहिणीति केचित् ॥

पाकली, स्त्री, (पाकलि + ङीष् ।) कर्कटी । इति

शब्दमाला ॥

पाकशाला, स्त्री, (पाकस्य शाला गृहम् ।)

रन्धनगृहम् । तत्पर्य्यायः । रसवती २ । इति
जटाधरः ॥ पाकस्थानम् ३ महानसम् ४ । इत्य-
मरः । २ । ९ । २७ ॥ अग्निकोणे तस्याः
कर्त्तव्यता । यथा, --
“प्राच्यां दिशि स्नानगृहमाग्नेय्यां पचनालयम् ।
शयनं याम्यदिग्भागे नैरृत्यां शस्त्रमन्दिरम् ॥
प्रतीच्यां भोजनगृहं वायुभागे सभागृहम् ।
भाण्डारसदनं सौम्ये त्वैशान्यां देवतालयम् ॥”
इति मुहूर्त्तचिन्तामणिटीकायां
पीयूषधारायां कश्यपवचनम् ॥

पाकशासनः, पुं, (शास्तीति । शास + ल्युः । ततः

पाकस्य तदाख्यया प्रसिद्धस्य असुरस्य शासनः
शास्ता ।) इन्द्रः । इत्यमरः । १ । १ । ४४ ॥ तन्नाम-
कारणं यथा, वामनपुराणे ।
“पाकं जघान तीक्ष्णाग्रैर्म्मार्गणैः कङ्कवाससैः ।
तत्र नाम विभुर्लेभे शासनत्वाच्छरैर्दृढैः ।
पाकशासनतां शक्रः सर्व्वामरपतिर्व्विभुः ॥”

पाकशासनिः, पुं, (पाकशासनस्यापत्यम् । “अत

इञ् ।” ४ । १ । ९५ । इति इञ् ।) इन्द्रपुत्त्रः ।
जयन्तः । इत्यमरः । १ । १ । ४९ ॥ (अर्ज्जुनः ।
यथा, महाभारते । १ । १३७ । ८ ।
“सोऽब्रवीन्मेघगम्भीरस्वरेण वदताम्बरः ।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥”)

पाकशुक्ला, स्त्री, (पाके परिणामे शुक्ला ।) खडी ।

यथा, शब्दचन्द्रिकायाम् ।
“पाकशुक्ला शिलाधातुः कठिनी कक्खटीखडी ॥”

पाकस्थानं, क्ली, (पाकस्य स्थानम् ।) महानसम् ।

इत्यमरः । २ । ९ । २७ ॥

पाका, स्त्री, (पाक + अजादित्वात् टाप् ।)

बालिका । इति जटाधरः ॥

पाकारिः, पुं, (पाकं ऋच्छतीति । ऋ गतौ +

इन् ।) श्वेतकाञ्चनम् । इति रत्नमाला ॥

पाकिमं, त्रि, (पाकेन निर्वृत्तम् । पाक + भाव-

प्रत्ययन्तादिमप् ।) पक्त्रिमम् । पाकेन निष्प-
न्नम् । इति त्रिकाण्डशेषः ॥ (यथा, सुश्रुते ।
सूत्रस्थाने । ४६ अध्याये ।
“मेदोघ्नः पाकिमः क्षारो मूत्रवस्तिविशोधनः ॥”)

पाकुकः, पुं, (पचतीति । पच पाके + “पचि-

नश्योर्णुकन्कनुमौ च ।” उणां । २ । ३० ।
इति णुकन् कादेशश्च ।) सूपकारः । इत्यु-
णादिकोषः ॥

पाक्यं, क्ली, (पच्यतेऽनेन । पच् + “ऋहलोर्ण्यत् ।”

३ । १ । १२४ । इति ण्यत् । “चजोः कुघिण्यतोः ।”
७ । ३ । ५२ । इति कुत्वम् ।) विड्लवणम् ।
इत्यमरः । २ । ९ । ४२ ॥ पांशुलवणम् । इति
रत्नमाला ॥ (यथा, सुश्रुते । १ । ४२ ।
“सैन्धवसौवर्च्चलविडपाक्यरोमकसामुद्रकपक्त्रिम-
यवक्षारोषप्रसूतसुवर्च्चिकाप्रभृतीनि समासेन
लवणो वर्गः ॥” पचनीये, त्रि । यथा, चक्रपाणि-
संग्रहे ज्वराधिकारे पित्तज्वरचिकित्साथाम् ।
“अवश्यायस्थितं पाक्यमेतत् पित्तज्वरापहम् ॥”)

पाक्यः, पुं, (पच् + ण्यत् कुत्वञ्च ।) यवक्षारः ।

इत्यमरः । २ । ९ । १०९ ॥

पाक्षायणः, त्रि, (पक्षस्यायं पक्षे भवः पक्षेण

निर्वृत्त इति वा । पक्ष + “युञ्छण्कठजिति ।”
४ । २ । ८० । इति फक् ।) पक्षसम्बन्धी । पक्षे
भवः । इति सिद्धान्तकौमुदी ॥

पाक्षिकः, त्रि, (पक्षे तिष्ठतीति । पक्ष + ठक् ।)

पक्षपाती । यथा, --
“स को राजा न शास्ता यः प्रजावध्यश्च पाक्षिकः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे १४ अध्यायः ॥
(पक्षिणो हन्तीति । “पक्षिमत्स्यमृगान् हन्ति ।”
४ । ४ । ३५ । इति ठक् ।) पक्षिघातकः ॥
(पक्षे पक्षान्तरे भवतीति । पक्षकालभवः ॥
पक्षेण निर्वृत्त इति । पक्ष + ठञ् । पक्षसाध्यः ।
इति व्युत्पत्तिलब्धोऽर्थः ॥)

पाखण्डः, पुं, (पातीति । पा + क्विप् । पास्त्रयी-

धर्म्मस्तं खण्डयतीति । खडि भेदने + पचा-
द्यच् । यदुक्तम् ।
“पालनाच्च त्रयीधर्म्मः पाशब्देन निगद्यते ।
तं खण्डयन्ति ते यस्मात् पाखण्डास्तेन हेत्ना ।
नानाव्रतधरा नानावेशाः पाखण्डिनो मताः ॥”)
पाषण्डः । इत्यमरटीकायां भानुदीक्षितः ॥

पागलः, पुं, (पा रक्षणं तस्मात् गलति आत्म-

रक्षणात् विच्युतो भवतीति । गल् + अच् ।)
उन्मत्तः । वातुलः । यथा, --
“पागलायाङ्गहीनाय चान्धाय वधिराय च ।
जडाय चैव मूर्खाय क्लीवतुल्याय पापिने ।
ब्रह्महत्यां लभेत् सोऽपियः स्वकन्यां ददाति च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १४ अध्याथः ॥
पृष्ठ ३/०९०

पाचकं, क्ली, (पचतीति । पच् + ण्वुल् । पित्त-

रसेन भुक्तद्रव्यपचनादस्य तथात्वम् ।) पित्त-
विशेषः । यथा, --
“पाचकं भ्राजकञ्चैव रञ्जकालोचके तथा ।
साधकञ्चैव पञ्चेति पित्तनामान्यनुक्रमात् ॥”
इति शब्दचन्द्रिका ॥
षाचकादीनां स्थानान्याह ।
“अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्बये ।
त्यचि सर्व्वशरीरेषु पित्तं निवसति क्रमात् ॥”
अथ तेषां कर्म्माण्याह ।
“पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् ।
रसमूत्रपुरीषाणि विरेचयति नित्यशः ॥”
इति भावप्रकाशः ॥
(“पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् ।
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात् ॥
त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् ।
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा ॥
तत्रस्थमेव पित्तानां शेषानामप्यनुग्रहम् ।
करोति बलदानेन पाचकं नाम तत् स्मृतम् ॥”
इति वाभटे सूत्रस्थाने द्वादशाध्याये ॥)

पाचकः, पुं, (पचतीति । पच् + ण्वुल्ं ।) अग्निः ।

इति हलायुधः ॥ (“तच्चादृष्टहेतुकेन विशेषेण
पक्वामाशयमध्यस्थं पित्तं चतुर्व्विधमन्नपानं
पचति विरेचयति च रसदोषमूत्रपुरीषाणि
तत्रस्थमेव चात्मशक्त्या शेषाणां पित्तस्थानानां
शरीरस्य चाग्निकर्म्मणानुग्रहं करोति तस्मिन्
पित्ते पाचकोऽग्निरिति संज्ञा ।” इति सुश्रुते
सूत्रस्थाने एकविंशेऽध्याये ॥) त्रि, सूपकारः ।
पाककर्त्ता । यथा, --
“पुत्त्रपौत्त्रगुणोपेतः शास्त्रज्ञो मिष्टपाचकः ।
शूरश्च कठिनश्चैव सूपकारः स उच्यते ॥”
इति चाणक्यम् ॥
अन्नादिपाककारकौषधादिश्च ॥

पाचनं, क्ली, (पाच्यतेऽनेनेति । पच् + णिच् +

करणे ल्युट् ।) प्रायश्चित्तम् । इति मेदिनी ।
ने, ९० ॥ दोषपाचकक्वाथौषधम् । तस्य दान-
कालः । यथा, सारकौमुद्याम् ।
“ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम् ।
सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं ज्वरे ॥”
सर्व्वेषां पाचनद्रव्यानां परिमाणं यथा, --
“दशरक्तिकमाषेण गृहीत्वा तोलकद्वयम् ।
दत्त्वाम्भः षोडशगुणं ग्राह्यं पादावशेषितम् ॥”
इति परिभाषा ॥
अथ सर्व्वज्वरे पाचनम् ।
“नागरं देवकाष्ठञ्च धन्याकं बृहतीद्बयम् ।
दद्यात् पाचनकं पूर्ब्बं ज्वरिताय ज्वरापहम् ॥”
इति नागरादि ॥ १ ॥
अथ वातिकज्वरे ।
“विल्वादिपञ्चमूलस्य क्वाथः स्याद्बातिकज्वरे ॥”
इति विल्वादिपञ्चमूली ॥ २ ॥
“पाचनं पिप्पलीमूलगुडूची विश्वजोऽथवा ॥”
इति पिप्पलीमूलादि ॥ ३ ॥
“किराताब्दामृतोदीच्यबृहतीद्बयगोक्षुरैः ।
सस्थिराकलसीविल्वैः क्वाथो वातज्वरापहः ॥”
इति किरातादि ॥ ४ ॥
“रास्ना वृक्षादनी दारु सरलं सैलबालुकम् ।
कषायः शर्कराक्षौद्रयुक्तो वातज्वरापहः ॥”
इति रास्नादि ॥ ५ ॥
“विल्वादिपञ्चमूली च गुडूच्यामलके तथा ।
कुस्तुम्बुरुसमो ह्येष कषायो वातिके ज्वरे ॥”
इति विल्वादिपञ्चमूल्यादि ॥ ६ ॥
“पिप्पलीशारिवाद्राक्षाशतपुष्पाहरेणुभिः ।
कृतः कषायः सगुडो हन्याच्छसनजं ज्वरम् ॥”
इति पिप्पल्यादि ॥ ७ ॥
“गुडूची शारिवा द्राक्षा शतपुष्पा पुनर्नवा ।
सगुडोऽयं कषायः स्याट्वातज्वरविनाशनः ॥”
इति गुडूच्यादि ॥ ८ ॥
“द्राक्षागुडूचीकाश्मर्य्यत्रायमाणाः सशारिवाः ।
निःक्वाथ्य सगुडं क्वाथं पिबेद्बातज्वरापहम् ॥”
इति द्राक्षादि ॥ ९ ॥ * ॥
अथ पैत्तिकज्वरे ।
“कलिङ्गं कट्फलं मुस्तं पाठातिक्तकरोहिणी ।
पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ॥”
इति कलिङ्गादि ॥ १० ॥
“सक्षौद्रं पाचनं पैत्ते तिक्ताब्देन्द्रयवैः शृतम् ॥”
इति तिक्तादि ॥ ११ ॥
“लोध्रोत्पलामृतापद्मशारिवाणां सशर्करः ।
क्वाथः पित्तज्वरं हन्यादथवा पर्पटोद्भवः ॥”
इति लोध्रादि ॥ १२ ॥ १३ ॥
“पटोलयवनिःक्वाथो मधुना मधुरीकृतः ।
तीव्रपित्तज्वरामर्द्दी पानात्तृड्दाहनाशनः ॥”
इति यवपटोलम् ॥ १४ ॥
“दुरालभापर्पटकप्रियङ्गु-
भूनिम्बवासाकटुरोहिणीनाम् ।
जलं पिबेच्छर्करयावगाढं
तृष्णास्रपित्तज्वरदाहयुक्तः ॥”
इति दुरालभादि ॥ १५ ॥
“त्रायमाणा च मधुकं पिप्पलीमूलमेव च ।
किराततिक्तकं मुस्तं मधुकं सविभीतकम् ॥
सशर्करं पीतमेतत् पित्तज्वरनिवर्हणम् ॥”
इति त्रायमाणादि ॥ १६ ॥
“मृद्वीका मघुकं निम्बं कटुकारोहिणीसमाः ।
अवश्यायस्थितं पाक्यमेतत् पित्तज्वरापहम् ॥”
इति मृद्वीकादि ॥ १७ ॥
“एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।
किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ॥”
इति पर्पटकादि ॥ १८ ॥
“विश्वाम्बुपर्पटोशीरघनचन्दनसाधितम् ।
दद्यात् सुशीतलं वारि तृट्छर्द्दिज्वरदाहनुत् ॥”
इति विश्वादि ॥ १९ ॥
“पर्पटामृतघात्रीणां क्वाथः पित्तज्वरं जयेत् ॥”
इति पर्पटादि ॥ २० ॥
“द्राक्षारग्वघयोश्चापि ॥ २१ ॥ काश्मर्य्यस्याथवा
पुनः ॥ २२ ॥
द्राक्षाभयापर्पटकाब्दतिक्ता-
क्वाथं ससंपाकफलं विदध्यात् ।
प्रलापमूर्च्छाभ्रमदाहशोष-
तृष्णान्विते पित्तभवे ज्वरे तु ॥”
इति द्राक्षादि ॥ २३ ॥
“व्युषितं धन्याकजलं प्रातः पीतं सशर्करंपुंसाम् ।
अन्तर्द्दाहं शमयत्यचिराद्दूरप्ररूढमपि ॥” २४ ॥
अथ कफज्वरे ।
“मातुलुङ्गशिफाविश्वब्रह्मीग्रन्थिकसंयुतम् ।
कफज्वरेऽम्बु सक्षारं पाचनं वा कणादिकम् ॥”
इति मातुलुङ्गादि ॥ २५ ॥
“कटुकं चित्रकं निम्बं हरिद्रेऽतिविषे वचाम् ।
कुष्ठमिन्द्रयवं मुर्व्वां पटोलञ्चापि साधितम् ॥
पिबेन्मरिचसंयुक्तं सक्षौद्रं श्लैष्मिके ज्वरे ॥”
इति कटुकादि ॥ २६ ॥
“निम्बविश्बामृतादारुशटीभूनिम्बपौष्करम् ।
पिप्पल्यौ बृहती चेति क्वाथो हन्ति कफज्वरम् ॥”
इति निम्बादि ॥ २७ ॥
“सिन्धुवारदलक्वाथं शोषणं कफजे ज्वरे ।
जङ्घयोश्च बले क्षीणे कर्णे वा पिहिते पिबेत् ॥”
इति सिन्धुवारादि ॥ २८ ॥
“आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः ।
सर्व्वज्वरकफातङ्कभेदी दीपनपाचनः ॥”
इति आमलक्यादि ॥ २९ ॥
“त्रिफलापटोलवासाच्छिन्नरुहातिक्तरोहिणी-
षड्ग्रन्थाः ॥”
इति त्रिफलादि ॥ ३० ॥
“मधुनाश्लेष्मसमुत्थे दशमूली वासकस्य वा
क्वाथः ॥” ३१ ॥
“मुस्तं वत्सकबीजानि त्रिफला कटुरोहिणी ।
परूषकाणि च क्वाथः कफज्वरविनाशनः ॥”
इति मुस्तादि ॥ ३२ ॥ * ॥
अथ वातपैत्तिकज्वरे ।
“संसृष्टदोषेषु हितं संसृष्टमथ पाचनम् ॥
विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः ।
कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम् ॥”
इति नवाङ्गम् ॥ ३३ ॥
“त्रिफलाशाल्मलीरास्नाराजवृक्षाट-रूषकैः ।
शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम् ॥”
इति त्रिफलादि ॥ ३४ ॥
“किराततिक्तकं मुस्तं द्राक्षामामलकीं शटीम् ।
निष्काथ्य पित्तानिलजे क्वथितं सगुडं पिबेत् ॥”
इति किराततिक्तकादि ॥ ३५ ॥
“निदिग्धिकाबलारास्नात्रायमाणामृतायुतैः ।
मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत् ॥”
इति निदिग्धिकादि ॥ ३६ ॥
“गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम् ।
वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम् ॥”
इति पञ्चभद्रम् ॥ ३७ ॥
“मधुकं शारिवे द्राक्षा मधूकं चन्दनोत्पलम् ।
काश्मरी पद्मकं लोध्रं त्रिफलां पद्मकेशरम् ॥
परूषकं मृणालञ्च न्यसेदुत्तमवारिणि ।
पृष्ठ ३/०९१
मधुलाजसितायुक्तं तत् पीतं व्युषितं निशि ॥
वातपित्तज्वरदाहं तृष्णामूर्च्छावमिभ्रमान् ।
शमयेद्रक्तपित्तञ्च जीमूतानिव मारुतः ॥”
इति मधुकादि ॥ ३८ ॥ * ॥
अथ पित्तश्लैष्मिकज्वरे ।
“पटोलं चन्दनं मुर्व्वातिक्तापाठामृतागणः ।
पित्तश्लेष्मानिलच्छर्द्दिज्वरकण्डूविषापहः ॥”
इति पटोलादि ॥ ३९ ॥
“गुडूचीनिम्बधन्याकं पद्मकं रक्तचन्दनम् ।
एष सर्व्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः ॥
हृल्लासारोचकच्छर्द्दिपिपासादाहनाशनः ॥”
इति गुडूच्यादि ॥ ४० ॥
“किरातं नागरं मुस्तं गुडूचीञ्च कफाधिके ।
पाठोदीच्यमृणालैस्तु सह पित्ताधिके पिबेत् ॥”
इति चातुर्भद्रकपाठासप्तकौ ॥ ४१ ॥ ४२ ॥
“गुडूची चन्दनं पद्मं नागरेन्द्रयवासकम् ।
अभयारग्वधोशीरं पाठा धान्याब्दरोहिणी ॥
कषायं पाययेदेतत् पिप्पलीचूर्णसंयुतम् ।
पित्तश्लेष्महरं तन्द्रापिपासादाहनाशनम् ॥
विण्मूत्रानिलविष्टम्भत्रिदोषप्रभवस्य च ।
गुडूच्यादिगणो ह्येष पाचनो दीपनः परः ॥”
इति गुडूच्यादिगणः ॥ ४३ ॥
“कण्टकार्य्यमृताभार्गी नागरेन्द्रयवासकम् ।
भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी ॥
कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम् ।
दाहतृष्णारुचिच्छर्द्दिकासहृत्पार्श्वशूलनुत् ॥”
इति कण्टकार्य्यादि ॥ ४४ ॥
“सपत्रपुष्पवासाया रसः क्षौद्रसितायुतः ।
कफपित्तज्वरं हन्ति सास्रपित्तं सकामलम् ॥”
इति वासादि ॥ ४५ ॥
“पटोलं पिचुमर्द्दश्च त्रिफला मधुकं बला ।
साधितोऽयं कषायः स्यात् पित्तश्लेष्मभवे ज्वरे ॥”
इति पटोलादि ॥ ४६ ॥
“गुडूचीन्द्रयवारिष्टं पटोलं कटुरोहिणी ।
नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम् ॥
अमृताष्टक इत्येष पित्तश्लेष्मज्व रापहः ।
हृल्लासारोचकच्छर्द्दितृष्णादाहनिवारणः ॥”
इति अमृताष्टकम् ॥ ४७ ॥
“पटोलयवधान्याकमुद्गामलकचन्दनम् ।”
पैत्तिके श्लेष्मपित्तोत्थे ज्वरतृट्छर्द्दिदाहनुत् ॥”
इति पटोलादि ॥ ४८ ॥
क्षुद्रामृताभ्यां सह नागरेण
सपुष्करञ्चेति किराततिक्तम् ।
पिबेत् कषायं त्विह पञ्चतिक्तं
ज्वरं निहन्त्यष्टविधं समग्रम् ॥”
इति क्षुद्रादि ॥ ४९ ॥
इति पित्तश्लैष्मिकज्वराधिकारः ॥ * ॥
अथ वातश्लैष्मिकज्वरे ।
“दीपनं कफविच्छेदि वातपित्तानुलोमनम् ।
ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः ॥”
इति धान्यपटोलम् ॥ ५० ॥
“मुस्तनागरभूनिम्बं त्रयमेतत्त्रिकार्षिकम् ।
कफवातप्रशमनं पाचनं ज्वरनाशनम् ॥” ५१ ॥
पिप्पली पिप्पलीमूलं चव्यं चित्रकनागरम् ।
दीपनीयः शृतो वर्गः कफानिलगदापहः ॥”
इति पञ्चकोलम् ॥ ५२ ॥
“पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम् ।
वातश्लेष्मविकारघ्नं प्लीहज्वरविनाशनम् ॥”
इति पिप्पलीक्वाथः ॥ ५३ ॥
“आरम्बधग्रन्थिकमुस्ततिक्ता-
हरीतकीभिः क्वथितः कषायः ।
सामे सशूले कफवातयुक्ते
ज्वरे हितो दीपनपाचनश्च ॥”
इति आरग्वधादि ॥ ५४ ॥
“क्षुद्रामृतानागरपुष्कराह्वयैः
कृतः कषायः कफमारुतोत्तरे ।
सश्वासकासारुचिपार्श्वरुक्करे
ज्वरे त्रिदोषप्रभवे च शस्यते ॥”
इति क्षुद्रादि ॥ ५५ ॥
“दशमूलीरसः पेयः कणायुक्तः कफानिले ।
अविपाकेऽतितन्द्रायां पार्श्वरुक्श्वासकासके ॥”
इति दशमूलम् ॥ ५६ ॥
“मुस्तं पर्पटकं शुण्ठी गुडूची सदुरालभा ।
कफवातारुचिच्छर्द्दिदाहश्वासज्वरापहा ॥”
इति मुस्तादि ॥ ५७ ॥
“दारुपर्पटभार्ग्यब्दवचाधन्याककट्फलैः ।
साभयाविश्वपूतीकैः क्वाथो हिङ्गुमधूत्कटः ॥
कफवातज्वरे पीतो हिक्काश्वासगलग्रहान् ।
कासशोषप्रसेकांश्च हन्यात् तरुमिवाशनिः ॥”
इति दार्व्वादि ॥ ५८ ॥ * ॥
अथ त्रिदोषजज्वरे ।
“पञ्चमूलीकिरातादिर्गणो योज्यस्त्रिदोषजे ।
पित्तोत्कटे च मधुना कणया च कफोत्कटे ॥”
इति चतुर्भद्रपञ्चमूलम् ॥ ५९ ॥
“विल्वश्योणाकगाम्भारीपाटलागणिकारिकाः ।
दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥”
इति बृहत्पञ्चमूली ॥ ६० ॥
“शालपर्णी पृश्निपर्णी बृहतीद्बयगोक्षुरम् ।
वातपित्तज्वरहरं कनीयः पञ्चमूलकम् ॥”
इति स्वल्पपञ्चमूली ॥ ६१ ॥
“उभयं दशमूलञ्च सन्निपातज्वरापहम् ।
कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ।
पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम् ॥”
इति दशमूलम् ॥ ६२ ॥
“चिरज्वरे वातकफोल्वणे वा
त्रिदोषजे वा दशमूलमिश्रः ।
किराततिक्तादिगणः प्रयोज्यः
शुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥”
इति चतुर्द्दशाङ्गम् ॥ ६३ ॥
“दशमूलं शटी शृङ्गी पौष्करं सदुरालभम् ।
भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी ॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।
कासहृल्लासपार्श्वार्त्तिश्वासहिक्कावमीहरः ॥”
इति वातश्लेष्महरोऽष्टादशाङ्गः ॥ ६४ ॥
“भूनिम्बदारुदशमूलमहौषधाब्द-
तिक्तेन्द्रबीजधनिकेभकणाकषायः ।
तन्द्रीप्रलापकसनारुचिदाहमोह-
श्वासादियुक्तमखिलं ज्वरमाशु हन्ति ॥”
इति अष्टादशाङ्गम् ॥ ६५ ॥
“मुस्तपर्पटकोशीरदेवदारुमहौषधम् ।
त्रिफला धन्वयासश्च नीली कम्पिल्वकं त्रिवृत् ॥
किराततिक्तकं पाठा बला कटुकरोहिणी ।
मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ॥
अष्टादशाङ्गमुदितमेतद्बा सन्निपातनुत् ।
पित्तोत्तरे सन्निपाते हितञ्चोक्तं मनीषिभिः ॥
मन्यास्तम्भ उरोघात उरःपार्श्वशिरोग्रहे ॥
६६ ॥
द्राक्षामृता शटी शृङ्गी मुस्तकं रक्तचन्दनम् ।
नागरं कटुकं पाठा भूनिम्बं सदुरालभम् ॥
उशीरं पद्मकं धान्यं बालकं कण्टकारिका ।
पुष्करं पिचुमर्द्दश्च दशाष्टाङ्गमिदं शुभम् ॥
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम् ॥”
इति अपराष्टादशाङ्गम् ॥ ६७ ॥
“शटी पुष्करमूलञ्च व्याघ्री शृङ्गी दुरालभा ।
गुडूची नागरं पाठा किरातं कटुरोहिणी ॥
एष शट्यादिको वर्गः सन्निपातज्वरापहः ।
कासहृद्ग्रहपार्श्वार्त्तिश्वासे तन्द्र्याञ्च शस्यते ॥”
इति शट्यादि ॥ ६८ ॥
“बृहत्यौ पुष्करं भार्गी शटी शृङ्गी दुरालभा ।
वत्सकस्य च बीजानि पटोलं कटुरोहिणी ॥
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः ।
कासादिषु च सर्व्वेषु हितः सोषद्रवेषु च ॥”
इति बृहत्यादिगणः ॥ ६९ ॥
“भार्गी पुष्करमूलञ्च रास्नाविल्वयमानिकाः ।
नागरं दशमूलञ्च पिप्पलीञ्चाप्सु साधयेत् ॥
सन्निपातज्वरे देयं हृत्पार्श्वानाहशूलिनाम् ।
कासश्वासाग्निमान्द्यञ्च तन्द्राञ्च विनिवर्त्तयेत् ॥”
इति भार्ग्यादि ॥ ७० ॥
“द्विपञ्चमूली षड्ग्रन्था विश्वगृध्रनखीद्बयम् ।
कफवातहरः क्वाथः सन्निपातहरः परः ॥”
इति द्विपञ्चमूल्यादि ॥ ७१ ॥
“कारवीपुष्करैरण्डत्रायन्तीनागरामृताः ।
दशमूलीशटीशृङ्गीयासभार्गीपुनर्नवाः ॥
तुल्या मूत्रेण निष्क्वाथ्य पीतश्चेतोविशोधनः ।
अभिन्यासं ज्वरं घोरमाशु घ्नन्ति समुद्धतम् ॥”
इति दशमूल्यादि ॥ ७२ ॥
“मातुलुङ्गाश्मभिद्बिल्वव्याघ्रीपाठोरुवूकजः ।
क्वाथो लवणमूत्राढ्योऽभिन्यासानाहशूलनुत् ॥”
इति मातुलुङ्गादि ॥ ७३ ॥
“कण्टरोधकफश्वासहिक्कासंन्यासपीडितः ।
मातुलुङ्गार्द्रकरसं दशमूलाम्भसा पिबेत् ॥”
इति मातुलुङ्गार्द्रकरसयुक्तदशमूलम् ॥ ७४ ॥
“व्योषाब्दत्रिफलातिक्तापटोलारिष्टवासकैः ।
भूनिम्बामृतयासैश्च त्रिदोषज्वरनुत् जलम् ॥”
इति व्योषादि ॥ ७५ ॥
“त्रिवृद्बि शालात्रिफलाकटुकारग्वधैः कृतः ।
पृष्ठ ३/०९२
सक्षारो भेदनः क्वाथः पेयः सर्व्वज्वरापहः ॥”
इति त्रिवृतादि ॥ ७६ ॥
अथ जीर्णज्वरे ।
“निदिग्धिकानागरकामृतानां
क्वाथं पिबेन्मिश्रितपिप्पलीकम् ।
जीर्णज्वरारोचककासशूल-
श्वासाग्निमान्द्यार्द्दितपीनसेषु ॥
हन्त्यूर्ड्घगामयं प्रायः सायं तेनायमिष्यते ॥”
इति निदिग्धादि ॥ ७७ ॥
“पिप्पलीचूर्णसंयुक्तः क्वाथश्छिन्नरुहोद्भवः ।
जीर्णज्वरकफर्ध्वसी पञ्चमूलीकृतोऽथवा ॥
कासाजीर्णारुचिश्वासहृत् पाण्डुक्रिमिरोगनुत्
॥ ७८ ॥
इति जीर्णज्वराधिकारः ॥ * ॥
अथ सन्ततादिज्वरे ।
“मधुकं चन्दनं मुस्तं धात्री धात्यमुशीरकम् ।
छिन्नोद्भवा पटोलञ्च क्वाथं समधुशर्करम् ॥
ज्वरं पञ्चविधं हन्यात् सन्तताद्यं सुदारुणम् ।
वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् ॥
आमं विपाचयत्याशु निरामं शमयत्यपि ॥”
इति मधुकाद्यम् ॥ ७९ ॥
“कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी ॥ ८० ॥
पटोलं शारिवामुस्तं पाठा कटुकरोहिणी ॥ ८१ ॥
निम्बं पटोलं त्रिफलां मृद्वीकां मुस्तवत्सकौ ॥
॥ ८२ ॥
किराततिक्तममृतां चन्दनं विश्वभेषजम् ॥ ८३ ॥
गुडूच्यामलकं मुस्तम् ८४ अर्द्धश्लोकसमापनाः ।
कषायाः शमयन्त्याशु पञ्च पञ्चविधान् ज्वरान् ॥
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान् ।
गुडूचीमुस्तधात्रीणां कषायंवा समाक्षिकम् ॥
मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वाथः ।
पीतः सकणाचूर्णः समधुर्व्विषमज्वरं हन्ति ॥”
इति मुस्तादि ॥ ८५ ॥ * ॥
अथ तृतीयकज्वरे ।
“महौषधामृतामुस्तचन्दनोशीरधान्यकैः ।
क्वाथस्तृतीयकं हन्ति शर्कराभधुयोजितः ॥”
इति महौषधादि ॥ ८६ ॥
अथ चातुर्थकज्वरे ।
“वासाधात्रीस्थिरादारुपथ्यानागरसाधितः ।
सितामधुयुतः क्वाथश्चातुर्थकनिवारणः ॥” ८७ ॥
इति ज्वराधिकारः ॥ * ॥
अथ ज्वरातीसारे ।
“पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः ।
जयन्त्याममतीसारं सज्वरं समहौषधाः ॥”
इति पाठादि ॥ ८८ ॥
“नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ।
सर्व्वज्वरहरः क्वाथः सर्व्वातीसारनाशनः ॥”
इति नागरादि ॥ ८९ ॥
“ह्नीवेरातिविषामुस्तविल्वधान्यकनागरैः ।
पिबेत् पिच्छाविबन्धघ्नं शूलदोषामपाचनम् ॥
सरक्तं हन्त्यतीसारं सज्वरं वाथ विज्वरम् ॥”
इति ह्नीवेरादि ॥ ९० ॥
“गुडूच्यतिविषाधान्यशुण्ठीविल्वाब्दबालकैः ।
पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः ॥
कषायः शीतलः पेयो ज्वरातीसारशान्तये ।
हृल्लासारोचकच्छर्द्दिपिपासादाहनाशनः ॥”
इति बृहद्गुडूच्यादि ॥ ९१ ॥
“उशीरं बालकं मुस्तं धन्याकं विश्वभेषजम् ।
समङ्गा धातकी लोध्रं विल्वं दीपनपाचनम् ॥
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम् ।
सशोणितमतासारं सज्वरं वाथ विज्वरम् ॥”
इति उशीरादि ॥ ९२ ॥
“पञ्चमूलीबलाविल्वगुडूचीमुस्तनागरैः ।
पाठाभूनिम्बह्रीवेरकुटजत्वक्फलैः शृतम् ॥
हन्ति सर्व्वानतीसारान् ज्वरदोषं वमिं तथा ।
सशूलोपद्रवं श्वासं कासं हन्यात् सुदारुणम् ॥”
इति पञ्चमूल्यादि ॥ ९३ ॥
“कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम् ।
ज्वरातिसारसन्तापं नाशयेदविकल्पतः ॥”
इति कलिङ्गादि ॥ ९४ ॥
“वत्सकस्य फलं दारु रोहिणी गजपिप्पली ॥”
इति वत्सकादि ॥ ९५ ॥
“श्वदंष्ट्रा पिप्पलीधान्यं विल्वं पाठायमानिका ॥”
इति श्वदंष्ट्रादि ॥ ९६ ॥
“द्वावपेतौ सिद्धियोगौ श्लोकार्द्धेनाभिभाषितौ ।
ज्वरातीसारशमनौ विशेषाद्दाहनाशनौ ॥
नागरामृतभूनिम्बविल्वबालकवत्सकैः ।
समुस्तातिविषोशीरैर्ज्वरातीसारनुज्जलम् ॥”
इति नागरादि ॥ ९७ ॥
“मुस्तकविल्वातिविषापाठाभूनिम्ब-
वत्सकैः क्वाथः ।
मकरन्दगर्भयुतो ज्वरातिसारौ जयेद्घोरौ ॥”
इति मुस्तकादि ॥ ९८ ॥
“घनजलपाठातिविषापथ्योत्पलधान्य-
रोहिणीविश्वैः ।
सेन्द्रयवैः शृतमम्भः सातीसारं ज्वरं जयति ॥”
इति घनादि ॥ ९९ ॥
“दशमूलीकषायेण विश्वमक्षसमं पिबेत् ।
ज्वरे चैवातिसारे च सशोथे ग्रहणीगदे ॥”
इति दशमूलशुण्ठी ॥ १०० ॥
“किराताब्दामृताविश्वचन्दनोदीच्यवत्सकैः ।
शोथातीसारशमनं विशेषात् ज्वरनाशनम् ॥”
इति किरातादि ॥ १०१ ॥
इति ज्वरातीसाराधिकारः ॥ * ॥
अथातीसारे ।
“धान्यकं नागरं मुस्तं बालकं विल्वमेव च ।
आमशूलविबन्धघ्नं पाचनं वह्निदीपनम् ॥”
इति धान्यपञ्चकम् ॥ १०२ ॥
“इदं धान्यचतुष्कं स्यात् पैत्ते शुण्ठीं विना पुनः ॥”
इति धान्यचतुष्कम् ॥ १०३ ॥
“कञ्चटदाडिमजम्बुशृङ्गाटकपत्रविल्वह्रीवेरम् ।
जलधरनागरसहितं गङ्गामपि वेगिनीं रुन्ध्यात् ॥
इति कञ्चटादि ॥ १०४ ॥
“किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम् ।
पिबेत् पित्तातिसारघ्नं सक्षौद्रं वेदनापहम् ॥”
इति किराततिक्तकादि ॥ १०५ ॥
“कुटजत्वक्फलं मुस्तं क्वाथयित्वा जलं पिबेत् ।
अतीसारं जयेदाशु शर्करामधुयोजितम् ॥”
इति कुटजादि ॥ १०६ ॥
“विल्वचूतास्थिनिर्यूहः पीतः सक्षौद्रशर्करः ।
निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥”
इति विल्वादिकाथः ॥ १०७ ॥
“पटोलयवधन्याकक्वाथः पेयः सुशीतलः ।
शर्करामधुसंमिश्रश्छर्द्द्यतीसारनाशनः ॥”
इति पटोलादिक्वाथः ॥ १०८ ॥
“कुटजं दाडिमं मुस्तं धातकी विल्वबालकम् ।
लोध्रचन्दनपाठाश्च कषायं मधुना पिबेत् ॥
सामे सशूले रक्ते च पिच्छास्रावे च शस्यते ।
कुटजादिरिति ख्यातः सर्व्वातीसारनाशनः ॥”
इति कुटजादि ॥ १०९ ॥
“समङ्गातिविषा मुस्तं विल्वं ह्रीवेरधातकी ।
कुटजत्वक् फलं विश्वं क्वाथः सर्व्वातिसारनुत् ॥”
इति समङ्गादि ॥ ११० ॥
“कुटजत्वक्कृतक्वाथो घनीभूतः सुशोभनः ।
लोहितोऽतिविषायुक्तः सर्व्वातीसारनाशनः ॥”
इति कुटजक्वाथः ॥ १११ ॥
“सवत्सकः सातिविषः सविल्वः
सोदीच्यमुस्तैश्च कृतः कषायः ।
सामे सशूले सह शोणिते च
चिरप्रवृत्तेऽपि हितोऽतिसारे ॥”
इति वत्सकादि ॥ ११२ ॥
“कषायो मधुना पीतस्त्वचो दाडिमवत्सकात् ।
सद्यो जयेदतीसारं सरक्तं दुर्निवारणम् ॥”
इति कुटजदाडिमम् ॥ ११३ ॥ * ॥
अथ ग्रहण्याम् ।
“ग्रहणीमाश्रितं दोषमतीसारवदाचरेत् ।
अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
नागरातिविषामुस्तक्वाथः स्यादामपाचनः ॥”
इति नागरादि ॥ ११४ ॥ * ॥
अथाग्निमान्द्ये ।
“विश्वाभयागुडूचीनां कषायेण षडूषणम् ।
पिबेत् श्लेष्मणि मन्देऽग्नौ त्वक्पत्रसुरभीकृतम् ॥
पञ्चकोलं समरिचं षडूषणमुदाहृतम् ॥”
इति सडूषणविश्वादि ॥ ११५ ॥ * ॥
अथामाजीर्णे ।
“धान्यनागरसंसिद्धं तोयं दद्याद्बिचक्षणः ।
आमाजीर्णप्रशमनं दीपनं वस्तिशोधनम् ॥”
इति धान्यशुण्ठी ॥ ११६ ॥ * ॥
अथ पाण्डुरोगे ।
“फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्यात् पाण्डुरोगं सकामलम् ॥”
इति फलत्रिकादि ॥ ११७ ॥ * ॥
अथ रक्तपित्ते ।
“जलं खर्ज्जूरमृद्वीकामधुकैः सपरूषकैः ।
शृतशीतं प्रयोक्तव्यं तर्पणार्थं सशर्करम् ॥”
इति खर्ज्जरादिजलम् ॥ ११८ ॥ * ॥
पृष्ठ ३/०९३
अथ राजयक्ष्मणि ।
“धन्याकपिप्पलीविश्वदशमूलीजलं पिबेत् ।
पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये ॥”
इति धन्याकादि ॥ ११९ ॥
“अश्वगन्धामृताभीरुदशमूलीबलावृषाः ।
पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः ॥”
इति अश्वगन्धादि ॥ १२० ॥
“दशमूलबलारास्नापुष्करसुरदारुनागरैःक्वथितम् ।
पेयं पार्श्वांसशिरोरुक्क्षतकासादिशान्तये
सलिलम् ॥”
इति दशमूलादि ॥ १२१ ॥
इति राजयक्ष्माधिकारः ॥ * ॥
अथ कासे ।
“पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः ।
रसान्नमश्नतो नित्यं वातकासमुदस्यति ॥”
इति पिप्पलीचूर्णयुक्तपञ्चमूली ॥ १२२ ॥
“पौष्करं कट्फलं भार्गी पिप्पलीविश्वसाधितम् ।
पिबेत् क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे ॥”
इति पौष्करादि ॥ १२३ ॥
“पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत् ॥”
इति पिप्पलीचूर्णयुक्तदशमूली ॥ १२४ ॥
“कट्फलं कत्तृणं भार्गी मुस्तं धान्यं वचाभया ।
शृङ्गी पर्पटकं शुण्ठी सुराह्वञ्च जले शृतम् ॥
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके ।
कण्ठरोगे मुखे शूले श्वासहिक्काज्वरेषु च ॥”
इति कट्फलादि ॥ १२५ ॥
“कण्टकारीकृतः क्वाथः सकृष्णः सर्व्वकासहा ॥”
इति कण्टकारीक्वाथः ॥ १२६ ॥
इति कासाधिकारः ॥ * ॥
अथ हिक्कायाम् ।
“अमृतानागरफञ्जीव्याघ्रीपर्णाशसाधितक्वाथः ।
पीतः सकणाचूर्णः कासश्वासौ जयत्याशु ॥”
इति अमृतादि ॥ १२७ ॥
“दशमूलीकषायस्तु पुष्करेणावचूर्णितः ।
कासश्वासप्रशमनः पार्श्वहृच्छूलनाशनः ॥”
इति कुष्ठचूर्णयुक्तदशमूली ॥ १२८ ॥
“कुलत्थनागरव्याघ्रीवासाभिः क्वथितं जलम् ।
पीतं पुष्करसंयुक्तं हिक्काश्वासनिवारणम् ॥”
इति कुलत्थादि ॥ १२९ ॥
“शृङ्गीमहौषधकणाघनपौष्कराणां
चूर्णं शटीमरिचशर्करया विमिश्रम् ।
क्वाथेन पीतममृतावृषपञ्चमूल्याः
श्वासं त्र्यहेण विनिहन्त्यतिदोषमुग्रम् ॥”
इति शृङ्ग्यादि ॥ १३० ॥
इति हिक्काश्वासाधिकारः ॥ * ॥
अथ छर्द्द्याम् ।
“कषायो भृष्टमुद्गस्य सलाजमधुशर्करः ।
निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥”
इति भृष्टमुद्गकषायः ॥ १३१ ॥
“गुडूचीत्रिफलारिष्टपटोलैः क्वथितं पिबेत् ।
क्षौद्रयुक्तं निहन्त्याशु छर्द्दिं पित्ताम्लसम्भवाम् ॥”
इति गुडूच्यादि ॥ १३२ ॥
“क्वाथः पर्पटजः पीतः सक्षौद्रश्छर्द्दिनाशनः ॥”
इति पर्पटक्वाथः ॥ १३३ ॥
“कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम् ।
तिसृष्वपि भवेत् पथ्यं माक्षिकेण समायुतम् ॥
द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात् ।
कषायो योऽभिनिर्याति स शीतः समुदाहृतः ॥”
इति गुडू चीशीतकषायः ॥ १३४ ॥
“श्रीफलस्य गुडूच्या वा कषायो मधुसंयुतः ।
पेयश्छर्द्दित्रये शीतो दूर्व्वा वा तण्डुलाम्बुना ॥”
इति विल्वमूलगुडू चीकषायौ ॥ १३५ ॥
“जम्ब्वाम्रपल्लवगवेधुकघान्यसेव्य-
ह्रीवेरवारि पिबतो मधुनाल्पमल्पम् ।
छर्द्दिः प्रयाति शमनं त्रिसुगन्धियुक्ता
लीढा निहन्ति मधुनाथ दुरालभा वा ॥”
इति जम्ब्वादिवारि ॥ १३६ ॥
इति छर्द्द्यधिकारः ॥ * ॥
अथ मूर्च्छायाम् ।
“महौषधामृताक्षौद्रं पौष्करं ग्रन्थिकोद्भवम् ।
पिबेत् कणायुतं क्वाथं मूर्च्छा येषु गदेषु च ॥”
इति महौषधादि ॥ १३७ ॥
“पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये ॥”
इति दुरालभाक्वाथः ॥ १३८ ॥
इति मूर्च्छाधिकारः ॥ * ॥
अथोन्मादे ।
“दशमूलाम्बु सघृतं युक्तं मांसरसेन वा ।
ससिद्धार्थकचूर्णं वा पुराणं वैककं घृतम् ॥”
इति घृतादियुक्तदशमूलम् ॥ १३९ ॥ * ॥
अथापस्मारे ।
“हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादि-
शीतता ।
दशमूलीजलं तस्य कल्याणाज्यञ्च योजयेत् ॥”
इति दशमूलीकल्याणघृतौ ॥ १४० ॥ * ॥
अथ वातरोगे ।
“पञ्चमूलीकृतः क्वाथो दशमूलीकृतोऽथवा ।
रूक्षः स्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते ॥”
इति पञ्चमूली-दशमूलीक्वाथौ ॥ १४१ ॥
“अर्द्दिते नवनीतेन खादेन्माषेण्डवीं नरः ।
क्षीरमांसरसैर्भुक्त्वा दशमूली जलं पिबेत् ॥”
इति दशमूली ॥ १४२ ॥
“माषबलाशुकशिम्बाकत्तृणरास्नाश्वगन्धो-
रुवूकाणाम् ।
क्वाथो नस्यनिपीतो रामठलवणान्वितः कोष्णः ॥
अपहरति पक्षवातं मन्यास्तम्भं सकर्ण-
नादरुजम् ।
दुर्ज्जयमर्द्दितवातं सप्ताहाज्जयति चावश्यम् ॥”
इति माषबलादि ॥ १४३ ॥
“दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम् ।
सायं भुक्त्वा पिबेन्नस्यं विश्वच्यामववाहुके ॥”
इति दशमूल्यादि ॥ १४४ ॥
“माषात्मगुप्तकैरण्डवाट्यालकशृतं षिबेत् ।
हिङ्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम् ॥”
इति माषादि ॥ १४५ ॥
“वातघ्नैर्दशमूल्या च नरं कुब्जमुपाचरेत् ॥”
इति वातघ्नगणदशमूलीकषायौ ॥ १४६ ॥
“दशमूली बला रास्ना गुडू ची विश्वभेषजम् ।
पिबेदेरण्डतैलेन गृध्रसीखञ्जपङ्गुषु ॥”
इति एरण्डतैलयुक्तदशमूल्यादि ॥ १४७ ॥
“शेफालिकादलक्वाथो मृद्बग्निपरिसाधितः ।
दुर्व्वारं गृध्रसीरोगं पीतमात्रं समुद्धरेत् ॥”
इति शेफालीक्वाथः ॥ १४८ ॥
“पञ्चमूलीकषायन्तु रुवुतैलविमिश्रितम् ।
त्रिवृतैर्व्वाथवा युक्तं गृध्रसीगुल्मशूलनुत् ॥”
इति एरण्डतैलयुक्तपञ्चमूली ॥ १४९ ॥
“दशमूलीकषायेण पिबेद्वा नागराम्भसा ।
कटीशूलेषु सर्व्वेषु तैलमेरण्डसम्भवम् ॥”
इति एरण्डतैंलयक्तदशमूलीशुण्ठीक्वाथौ ॥ १५० ॥
“गुग्गुलुं क्रोष्टुशीर्षे तु गुडू ची त्रिफलाम्भसा ।
क्षीरेणैरण्डतैलं वा पिबेद्वा वृद्धदारकम् ॥”
इति गुग्गुलुयुक्तगुडू चीत्रिफलाक्वाथः ॥ १५१ ॥
इति वातव्याध्यधिकारः ॥ * ॥
अथ वातरक्ते ।
“अमृतानागरधन्याककर्षत्रयेण पाचनकं सिद्धम् ।
जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ॥”
इति अमृतादि ॥ १५२ ॥
“वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः ।
समीरणसमायुक्तं शोणितं संप्रधावयेत् ॥”
इति वत्सादनीक्वाथः ॥ १५३ ॥
“वासागुडूची चतुरङ्गुलाना-
मेरण्डतैलेन पिबेत् कषायम् ।
क्रमेण सर्व्वाङ्गजमप्यशेषं
जयेदसृग्वातभवं विकारम् ॥”
इति वासादि ॥ १५४ ॥
“लीढ्वा मुण्डितिकाचूर्णं मधुसर्पिःसमन्वितम् ।
छिन्नाक्वाथं पिबन् हन्ति वातरक्तं सुदुस्तरम् ॥”
इति गुडूचीक्वाथः ॥ १५५ ॥
“तिस्रोऽथवा पञ्चगुडेन पथ्या
जग्ध्वा पिबेच्छिन्नरुहाकषायम् ।
सवातरक्तं शमयत्युदीर्ण-
माजानुसंस्थञ्च निहन्त्यवश्यम् ॥”
इति गुडू चीकषायः ॥ १५६ ॥
इति वातरक्ताधिकारः ॥ * ॥
अथोरुस्तम्भे ।
“शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम् ।
ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ॥”
इति शिलाजत्वादियुक्तदशमूली ॥ १५७ ॥
“भल्लातकामृताशुण्ठीदारुपथ्यापुनर्नवाः ।
पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिवारणाः ॥”
इति भल्लातकादि ॥ १५८ ॥
“पिप्पली पीप्पलीमूलं भल्लातक्वाथ एव वा ।
कल्को वा समधुर्देय ऊरुस्तम्भविनाशनः ॥”
इति पिप्पल्यादि ॥ १५९ ॥
इत्यूरुस्तम्भाधिकारः ॥ * ॥
अथामवाते ।
“शटीशुण्ठ्यभया चोग्रा देवाह्वातिविषामृता ।
पृष्ठ ३/०९४
कषायमामवातस्य पाचनं रूक्षभोजनम् ॥”
इति शट्यादि ॥ १६० ॥
“शटी विषौषधं कल्कं वर्षाभूक्वाथसंयुतम् ।
सप्तरात्रं पिबेज्जन्तुरामवातविपाचनम् ॥”
इति पुनर्नवाक्वाथः ॥ १६१ ॥
“दशमूलामृतैरण्डरास्नानागरदारुभिः ।
क्वाथोरुवुकतैलेन सामं हन्त्यनिलं गुरुम् ॥”
इति रास्नादशमूलम् ॥ १६२ ॥
“दशमूलीकषायेण पिबेद्वा नागराम्भसा ।
कुक्षिवस्तिकटीशूले तैलमेरण्डसम्भवम् ॥”
इति एरण्डतैलयुक्तदशमूलशुण्ठीक्वाथौ ॥ १६३ ॥
“रास्नां गुडूचीमेरण्डं देवदारु महौषधम् ।
पिबेत् सर्व्वाङ्गवाते च सामे सन्ध्यस्थिमज्जगे ॥”
इति रास्नापञ्चकम् ॥ १६४ ॥
“रास्नामृतारग्वधदेवदारु-
त्रिकण्टकैरण्डपुनर्नवानाम् ।
क्वाथं पिबेन्नागरचूर्णमिश्रं
जङ्घोरुपृष्ठत्रिकपार्श्वशूली ॥”
इति रास्नासप्तकम् ॥ १६५ ॥
“शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ।
सामे वाते कटीशूले पाचनो रुक्प्रणाशनः ॥”
इति गोक्षुरशुण्ठी ॥ १६६ ॥
“आमवाते कणायुक्तं दशमूलीजलं पिबेत् ॥”
इति कणायुक्तदशमूली ॥ १६७ ॥
इत्यामवाताधिकारः ॥ * ॥
अथ शूले ।
“बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ।
सहिङ्गु लवणं पीतं सद्यो वातरुजापहम् ॥”
इति बलादि ॥ १६८ ॥
“विश्वमेरण्डजं मूलं क्वाथं पीत्वा जलं पिबेत् ।
हिङ्गुसौवर्च्चलोपेतं सद्यः शूलनिवारणम् ॥”
इति विश्वादि ॥ १६९ ॥
“हिङ्गुपुष्करमूलाभ्यां हिङ्गुसौवर्च्चलेन वा ।
विश्वैरण्डयवक्वाथः सद्यः शूलनिवारणः ॥”
इति हिङ्गुपुष्करमूलयुक्तविश्वैरण्डयवक्वाथः ॥
१७० ॥
“तद्वद्रुवुयवक्वाथो हिङ्गुसौवर्च्चलान्वितः ॥”
इति रुव्वादि ॥ १७१ ॥
“बृहत्यौ गौक्षुरैरण्डकुशकासेक्षुरालिकाः ।
पीताः पित्तभवं शूलं सद्यो हन्ति सुदारुणम् ॥”
इति बृहत्यादि ॥ १७२ ॥
“शतावरीसयष्ट्याह्ववाट्यालकुशगोक्षुरैः ।
शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम् ॥
पित्तासृग्दाहशूलघ्नं सद्यो दाहज्वरापहम् ॥”
इति शतावर्य्यादि ॥ १७३ ॥
“त्रिफलानिम्बयष्ट्याह्वकटुकारग्वधैः शृतम् ।
पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये ॥”
इति त्रिफलादि ॥ १७४ ॥
“तैलमेरण्डजं वापि मधुकक्वाथसंयुतम् ।
शूलं पित्तोद्भवं हन्याद्गुल्मं पैत्तिकमेव च ॥”
इति मधुकक्वाथः ॥ १७५ ॥
“त्रिफलारग्वधक्वाथं सक्षौद्रं शर्करान्वितम् ।
पाययेद्रक्तपित्तघ्नं दाहशूलनिवारणम् ॥”
इति त्रिफलारग्वधक्वाथः ॥ १७६ ॥
“विल्वमूलमथैरण्डं चित्रकं विश्वभेषजम् ।
हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम् ॥”
इति विल्वमूलादि ॥ १७७ ॥
“सक्षारं वा पिबेत् क्वाथं विल्वादेः कफशूलवान् ॥”
इति विल्वादिक्वाथः ॥ १७८ ॥
“मातुलुङ्गरसो वापि शिग्रुक्वाथस्तथापरः ।
सक्षारो मधुना पीतः पार्श्वहृद्वस्तिशूलनुत् ॥”
इति शिग्रुक्वाथः ॥ १७९ ॥
“आमशूले क्रिया कार्य्या कफशूल-
विनाशिनी ।
सेव्यमामहरं सर्व्वं यदन्यदग्निवर्द्धनम् ॥
पटोलत्रिफलारिष्टक्वाथं समधुकं पिबेत् ।
पित्तश्लेष्मज्वरच्छर्द्दिदाहशूलोपशान्तये ॥”
इति पटोलादि ॥ १८० ॥
“विश्वोरुवूकदशमूलयवाम्भसा तु
द्विक्षारहिङ्गुलवणत्रयपुष्कराणाम् ।
चूर्णं पिबेद्धदयपार्श्वकटीग्रहाम-
पक्वाशयांशभृशरुग्ज्वरगुल्मशूली ॥”
इति विश्वादि ॥ १८१ ॥
“क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता ।
प्रवर्त्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः ॥
चूर्णं समं रुचकहिङ्गुमहौषधानां
शुण्ठ्यम्बुना कफसमीरणपित्तजेषु ।
हृत्पार्श्वपृष्ठजठरार्त्तिविसूचिकासु
पेयं तथा यवरसेन तु विड्विबन्धे ॥” १८२ ॥
“समं शुण्ठ्यम्बुनेत्येवं योजनां क्रियते बुधैः ।
तेनाल्पमानमेवात्र हिङ्गु संपरिदीयते ॥”
इति रुचकादि ॥ १८३ ॥
“हिङ्गु सौवर्च्चलं पथ्या विडसैन्धवतुम्बरु ।
पौष्करञ्च पिबेच्चूर्णं दशमूलयवाम्भसा ॥
पार्श्वहृत्कटिपृष्ठांशशूले तन्त्रापतानके ।
शोथश्लेष्मश्वासके च कर्णरोगे च शस्यते ॥”
इति हिङ्ग्वादिचूर्णयुक्तदशमूलीयक्वाथः ॥ १८४ ॥
“एरण्डविश्वबृहतीद्बयमातुलुङ्ग-
पाषाणभिद्विकटमूलकृतः कषायः ।
सक्षारहिङ्गुलवणो रुवुतैलमिश्रः
श्रोण्यंशमेढ्रहृदयस्तनवक्षसि यः ॥”
इति एरण्डसप्तकः ॥ १८५ ॥
“एरण्डफलमूलानि बृहतीद्वयगोक्षुरम् ।
पर्णिन्यः सहदेवा च सिंहपुच्छीक्षुरालिका ॥
तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत् ।
पृथग्दोषभवं शूलं हन्यात् सर्व्वभवन्तथा ॥”
इति एरण्डद्वादशकः ॥ १८६ ॥
इति शूलाधिकारः ॥ * ॥
अथोदावर्त्ते ।
“श्यामा दन्ती द्रवन्ती त्वक् महाश्यामा स्नुही
त्रिवृत् ।
सप्तला शङ्खिनी श्वेता राजवृक्षः सतिन्दुकः ॥
कम्पिल्लकः करञ्जश्च हेमक्षीरीत्ययं गणः ।
सपिस्तैलरजःक्वाथकल्केष्वन्यतमेन च ॥
उदावर्त्तोदरानाहविषगुल्मादिनाशनः ॥”
इति प्रत्येकं श्यामादिगणक्वाथः ॥ १८७ ॥
इत्युदावर्त्ताधिकारः । आनाहोऽपि ॥ * ॥
अथ हृद्रोगे ।
“वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् ।
द्बिपञ्चमूलीक्वाथेन सस्नेहलवणेन च ॥”
इति स्नेहलवणयुक्तदशमूली ॥ १८८ ॥
“नागरं वा पिबेदुष्णं कषायञ्चाग्निवर्द्धनम् ।
कासश्वासानिलहरं शूलहृद्रोगनाशनम् ॥”
इति नागरक्वाथः ॥ १८९ ॥
“वचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थिते ।
वातहृद्रोगहृच्चूर्णं पिप्पल्यादिञ्च पाचयेत् ॥”
इति वचानिम्बकषायौ ॥ १९० ॥
“हिङ्गूग्रगन्धाविडविश्वकृष्णा-
कुष्ठाभयाचित्रकयावशूकम् ।
पिबेत् ससौवर्च्चलपुष्कराढ्यं
यवाम्भसा शूलहृदामयघ्नम् ॥”
इति हिङ्ग्वादिचूर्णयुक्तयवक्वाथः ॥ १९१ ॥
“दशमूलकषायन्तु लवणक्षारसंयुतम् ।
कासं श्वासञ्च हृद्रोगं गुल्मशूलञ्च नाशयेत् ॥”
इति लवणक्षारयुक्तदशमूली ॥ १९२ ॥
इति हृद्रोगाधिकारः ॥ * ॥
अथ मूत्रकृच्छ्रे ।
“अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकम् ।
प्रपिबेद्वातरोगार्त्तः सशूलो मूत्रकृच्छ्रवान् ॥”
इति अमृतादि ॥ १९३ ॥
“कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम् ।
पित्तकृच्छ्रहरं पञ्चमूलं वस्तिविशोधनम् ॥”
इति तृणपञ्चमूलम् ॥ १९४ ॥
“एतत् सिद्धं पयः पीत्वा मेढ्रगं हन्ति शोणितम् ॥
शतावरीकाशकुशश्वदंष्ट्रा-
विदारिशालीक्षुकशेरुकाणाम् ।
क्वाथं सुशीतं मधुशर्कराक्तं
पिबन् जयेत् पैत्तिकमूत्रकृच्छ्रम् ॥”
इति शतावर्य्यादि ॥ १९५ ॥
“हरीतकीगोक्षुरराजवृक्ष-
पाषाणभिद्धन्वषवासकानाम् ।
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं
कृच्छ्रे सदाहे सरुजे विबन्धे ॥”
इति हरीतक्यादि ॥ १९६ ॥
“श्वदंष्ट्रा विश्वतोयं वा कफकृच्छ्रविनाशनम् ॥”
इति श्वदंष्टाविश्वकषायौ ॥ १९७ ॥
“बृहतीधावनीपाठायष्टीमधुकपिङ्गलाः ।
पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः ॥”
१९८ ॥
“क्वाथं गोक्षुरबीजस्य यवक्षारयुतं पिबेत् ।
मूत्रकृच्छ्रं शकृज्जञ्च पीतः शीघ्रं निवारयेत् ॥”
इति यवक्षारयुक्तगोक्षुरबीजक्वाथः ॥ १९९ ॥
“क्रिया हिता त्वश्मरिशर्करायां
या मूत्रकृच्छ्रे कफमारुतोत्थे ।
यन्मूत्रकृच्छ्रे विहितन्तु पैत्ते
तत् कारयेच्छोणितमूत्रकृच्छ्रे ॥
पृष्ठ ३/०९५
त्रिकण्टकारग्वधदर्भकाश-
दुरालभापर्व्वतभेदपथ्याः ।
निघ्नन्ति पीता मधुनाश्मरीञ्च
संप्राप्तमृत्योरपि मूत्रकृच्छ्रम् ॥”
इति त्रिकण्टकादि ॥ २०० ॥
“कषायोऽतिबलामूलसाधितोऽशेषकृच्छ्रजित् ॥”
इति अतिबलाकषायः ॥ २०१ ॥
इति मूत्रकृच्छ्राधिकारः ॥ * ॥
अथ मूत्राघाते ।
“मूत्राघातान् यथादोषं मूत्रकृच्छ्रहरैर्ज्जयेत् ।
पिबेच्छिलाजतुक्वाथे गणे वीरतरादिके ॥”
इति शिलाजतुयुक्तवीरतरादिक्वाथः ॥ २०२ ॥
“रसं दुरालभाया वा कषायं वासकस्य वा ॥”
इति दुरालभारसवासाकषायौ ॥ २०३ ॥
इति मूत्राघाताधिकारः ॥ * ॥
अथाश्मर्य्याम् ।
“वरुणस्य त्वचं श्रेष्ठां शुण्टीगोक्षुरसंयुताम् ।
यवक्षारगुडं दत्त्वा क्वाथयित्वा पिबेद्धिताम् ॥
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् ॥”
इति वरुणत्वगादि ॥ २०४ ॥
“वीरतरः सहचरौ दर्भो वृक्षादनी नलः ।
गुन्द्रा काशकुशावश्मभेदमोरटटुण्टुकाः ॥
कुरुण्टकोऽथ वशिरो वसुकः साग्निमन्थकः ।
इन्दीवरी श्वदंष्ट्रा च तथा कापोतवक्त्रकः ॥
वीरतरादिरित्येष गणो वातविकारनुत् ।
अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥”
इति वीरतरादिगणक्वाथः ॥ २०५ ॥
“शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः ।
अभयारग्वधफलैः क्वाथं कुर्य्याद्बिचक्षणः ॥
रामठक्षारलवणचूर्णं दत्त्वा पिबेन्नरः ।
अश्मरीमूत्रकृच्छ्रघ्नं पाचनं दीपनं परम् ॥
हन्यात् कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रगम् ॥”
इति शुण्ठ्यादि ॥ २०६ ॥
“वरुणत्वक्कषायन्तु पीतन्तु गुडसंयुतम् ।
अश्मरीं पातयत्याशु वस्तिशूलविनाशनम् ॥”
इति वरुणक्वाथः ॥ २०७ ॥
“पिबेद्वरुणमूलत्वक्वाथं तत्कल्कसंयुतम् ॥”
इति वरुणकल्कयुक्तवरुणत्वक्कषायः ॥ २०८ ॥
“क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिघातनः ॥”
इति शिग्रुक्वाथः ॥ २०९ ॥
“नागरवरुणकगोक्षुरपाषाणभित्कपोतवक्त्रजः
क्वाथः ।
गुडयावशूकमिश्रः पीतो हन्त्यश्मरीमुग्राम् ॥”
इति नागरादि ॥ २१० ॥
“वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः ।
कषायः क्षारसंयुक्तः शर्कराञ्च भिनत्त्यपि ॥”
इति वरुणत्वगादि ॥ २११ ॥
“श्वदंष्ट्रैरण्डपत्राणि नागरं वरुणत्वचम् ।
एतत्क्वाथवरं प्रातः पिबेदश्मरिभेदनम् ॥”
इति श्वदंष्ट्रादि ॥ २१२ ॥
“एलोपकुल्यामधुकाश्मभेद-
कौन्तीश्वदंष्ट्रावृषकोरुवूकैः ।
क्वाथं पिबेदश्मजतुप्रगाढं
सशर्करे साश्मरिमूत्रकृच्छ्रे ॥”
इति एलादि ॥ २१३ ॥
“शुक्राश्मर्य्यान्तु सामान्यो विधिरश्मरिनाशनः ॥”
इत्यश्मरीशर्कराधिकारः ॥ * ॥
अथ मेहे ।
“दूर्व्वाकशेरुपूतीककुम्भीकप्लवशैवलम् ।
जले निःक्वथितं पीतं शुक्रमेहहरं परम् ॥”
इति दूर्व्वादि ॥ २१४ ॥
“त्रिफलारग्वधद्राक्षाकषायो मधुना युतः ।
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम् ॥”
इति त्रिफलादि ॥ २१५ ॥
“लोध्राभयाकटफलमुस्तकानां
विडङ्गपाठार्ज्जनधन्वनानाम् ।
कदम्बशालार्ज्जुनदीप्यकानां
विडङ्गदार्व्वीधवशल्यकानाम् ॥
चत्वार एते मधुना कषायाः
कफप्रमेहेषु निषेवणीयाः ॥
अश्वत्थाच्चतुरङ्गुल्या न्यग्रोधादेः फलत्रयात् ।
सजिङ्गिरक्तसाराच्च क्वाथाः पञ्च समाक्षिकाः ॥
नीलहारिद्रशुक्लाख्यान् क्षारमाञ्जिष्ठसाह्वयान् ।
मेहान् हन्युः क्रमादेते सक्षौद्रो रक्तमेह-
जित् ॥
क्वाथः खर्ज्जूरकाश्मर्य्यतिन्दुकास्थ्यमृताकृतः ॥”
इति खर्ज्जूरादि ॥ २१६ ॥
“लोध्रार्ज्जुनोशीरकुचन्दनानाम् २१७
अरिष्टसेव्यामलकाभयानाम् । २१८ ।
धात्र्यर्ज्जुनारिष्टकवत्सकानां २१९
नीलोत्पलैलातिनिशार्ज्जुनानाम् ॥ २२० ॥
चत्वार एते विहिताः कषायाः
पित्तप्रमेहे मधुसंप्रयुक्ताः ॥”
इति कषायचतुष्टयम् ॥ २२१ ॥
“छिन्नावह्निकषायेण पाठाकुटजरामठम् ।
तिक्तां कुष्ठश्च सञ्चूर्ण्य सर्पिर्मेहे पिबेन्नरः ॥”
इति छिन्नावह्निकषायः ॥ २२२ ॥
“कदरखदिरपूगक्वाथं क्षौद्राह्वये पिबेत् ॥”
इति कदरादि ॥ २२३ ॥
“अग्निमन्थकषायन्तु वसामेहे प्रयोजयेत् ॥”
इति अग्निमन्दकषायः ॥ २२४ ॥
“पाठाशिरीषदुस्पर्शमुर्व्वाः किंशुकतिन्दुकौ ।
कपित्थानां भिषक् क्वाथं हस्तिमेहे प्रयोजयेत् ॥”
इति पाठादि ॥ २२५ ॥
“कषायस्त्रिफलादारुमुस्तकैरथवा कृतः ॥”
इति त्रिफलादि ॥ २२६ ॥
“फलत्रिकं दारु निशां विशालां
मुस्तञ्च निष्क्वाथ्य निशांशकल्कम् ।
पिबेत् कषायं मधुसंप्रयुक्तं
सर्व्वप्रमेहेषु समुत्थितेषु ॥”
इति फलत्रिकादि ॥ २२७ ॥
“कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः ।
सिद्धः कषायः पातव्यः प्रमेहाणां विनोत्थितः ॥”
इति कटङ्कटेर्य्यादि ॥ २२८ ॥
“त्रिफलादारुदार्व्व्यब्दक्वाथः क्षौद्रेण मेहहा ॥
इति त्रिफलादि ॥ २२९ ॥
“कुटजासनदार्व्व्यब्दफलत्रयभवोऽथवा ॥”
इति कुटजादि ॥ २३० ॥
इति प्रमेहाधिकारः ॥ * ॥
अथोदरे ।
“पयसा सत्रिवृत्कल्केनोरुवूकशृतेन वा ।
सप्तलात्रायमाणाभ्यां शृतेनारग्वधेन वा ॥”
इति त्रिवृत्कल्कयुक्तारग्वधक्वाथैरण्डक्वाथौ ॥
२३१ ॥
“सन्निपातोदरे सर्व्वां यथोक्तां कारयेत् क्रियाम् ।
पीतः प्लीहोदरं हन्यात् पिप्पलीमरिचान्वितः ॥
अम्लवेतससंयुक्तः शिग्रुक्वाथः ससैन्धवः ॥”
इति शिग्रुक्वाथः ॥ २३२ ॥
“दशमूलदारुनागरच्छिन्नरुहापुनर्नवाक्वाथः ।
जयति जलोदरशोथश्लीपदगलगण्डवात-
रोगांश्च ॥”
इति दशमूलादि ॥ २३३ ॥
“हरीतकीनागरदेवदारु
पुनर्नवाच्छिन्नरुहाकषायः ।
सगुग्लुर्मूत्रयुतश्च पेयः
शोथोदराणां प्रवरः प्रयोगः ॥”
इति हरीतक्यादि ॥ २३४ ॥
“एरण्डतैलं दशमूलमिश्रं
गोमूत्रयुक्तस्त्रिफलारसो वा ।
निहन्ति वातोदरशोथशूलं
क्वाथः समूत्रो दशमूलजश्च ॥”
इति एरण्डतैलेन गोमूत्रेण वा युक्ता दशमूली ॥
२३५ ॥
“पुनर्नवानिम्बपटोलशुण्ठी-
तिक्तामृतादार्व्वभयाकषायः ।
सर्व्वाङ्गशोथोदरकाशशूल-
श्वासान्वितं पाण्डुगदं निहन्ति ॥”
इति पुनर्नवाष्टकम् ॥ २३६ ॥
“पुनर्नवादार्व्वभयागुडूचीं
पिबेत् समूत्रां महिषाक्षयुक्ताम् ।
त्वग्दोषशोथोदरपाण्डुरोग-
स्थौल्यप्रसेकोर्द्धकफामयेषु ॥”
इति पुनर्नवाचतुष्कम् ॥ २३७ ॥
इति उदराधिकारः ॥ * ॥
अथ शोथे ।
“शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम् ।
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ॥”
इति शुण्ठ्यादि ॥ २३८ ॥
“दशमूलं सर्व्वथा च शस्तं वाते विशेषतः ॥”
इति दशमूलम् ॥ २३९ ॥
“क्षीराशनः पित्तकृतेऽथ शोथे
त्रिवृद्गुडूचीत्रिफलाकषायम् ।
पिबेद्गवां मूत्रविमिश्रितं वा
फलत्रिकाचूर्णमथाक्षमात्रम् ॥”
इति त्रिवृतादि ॥ २४० ॥
“अभया दारु मधुकं तिक्ता दन्ती सपिप्पली ।
पृष्ठ ३/०९६
पटोलं चन्दनं दार्व्वी त्रायमाणेन्द्रवारुणी ॥
एषां क्वाथः ससर्पिष्कः श्वयथुज्वरदाहहा ।
वीसर्पतृष्णासन्तापसन्निपातविषापहः ॥”
इति अभयादि ॥ २४१ ॥
“पुनर्नवाविश्वत्रिवृद्गुडूची-
सम्पाकपथ्यामरदारुकल्कम् ।
शोथे कफोत्थे महिषाक्षमूत्र-
युक्तं पिबेद्वा सलिलं तथैषाम् ॥”
इति पुनर्नवासप्तकम् ॥ २४२ ॥
“पुनर्नवादारुशुण्ठीक्वाथे मूत्रेऽथ केवले ।
दशमूलजले वापि गुग्गुलुः शोथनाशनः ॥”
इति गुग्गुलुयुक्तपुनर्नवादिदशमूलक्वाथौ ॥ २४३ ॥
“सिंहास्यामृतभण्टाकीक्वाथं कृत्वा समाक्षिकम् ।
पीत्वा शोथं जयेज्जन्तुः कासं श्वासं ज्वरं
वमिम् ॥”
इति सिंहास्यादि ॥ २४४ ॥
“भूनिम्बविश्वकल्कं जग्धा पेयः पुनर्नवाक्वाथः ।
अपहरति नियतमाशु शोथं सर्व्वाङ्गगं नणाम् ॥”
इति पुनर्नवाक्वाथः ॥ २४५ ॥
इति शोथाधिकारः ॥ * ॥
अथान्त्रवृद्धौ ।
“पुनर्नवायास्तैलं वा तैलं नारायणन्तथा ।
पाने वस्तौ रुवोस्तैलं पेयं वा दशकाम्भसा ॥”
इति रुवुतैलयुक्तदशमूलम् ॥ २४६ ॥
“रास्नायष्ट्यमृतैरण्डवलागोक्षुरसाधितः ।
क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुवुतैलेन मिश्रितः ॥”
इति रास्नादि ॥ २४७ ॥
इति ब्रध्नवृद्ध्यधिकारः ॥ * ॥
अथ विद्रधौ ।
“पुनर्नवादारुविश्वदशमूलाभयाम्भसा ।
गुग्गुलुं रुवुतैलं वा पिबेन्मारुतविद्रधौ ॥”
इति पुनर्नवादि ॥ २४८ ॥
“पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥”
इति त्रिवृत्कल्कयुक्तत्रिफलाक्वाथः ॥ २४९ ॥
“दशमूलीकषायेण सन्दोहनरसेन वा ।
शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥”
इति दशमूलीकषायः ॥ २५० ॥
“क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ।
सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्रावयेदसृक् ॥”
इति वंशत्वगादिक्वाथः ॥ २५१ ॥ * ॥
अथोपदंशे ।
“पटोलनिम्बत्रिफलागुडूची-
क्वाथं पिबेद्वा खदिराशनाभ्याम् ।
सगुग्गुलुं वा त्रिफलायुतं वा
सर्व्वोपदंशापहरः प्रयोगः ॥”
इति पटोलादि ॥ २५२ ॥
“त्रिफलायाः कषायेण भृङ्गराजरसेन वा ।
वणप्रक्षालनं कुर्य्यादुपदंशप्रशान्तये ॥”
इति त्रिफलाक्वाथः ॥ २५३ ॥
“जयाजात्यश्वमारार्कसम्पाकानां दलैः पृथक् ।
कतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत् ॥”
इति जयादिक्वाथः ॥ २५४ ॥ * ॥
अथ भग्ने ।
“न्यग्रोधादिकषायन्तु सुशीतं परिषेचने ॥”
इति न्यग्रोधादि ॥ २५५ ॥ * ॥
अथ कुष्ठे ।
“त्रिफलापटोलरजनीमञ्जिष्ठारोहिणीवचा-
निम्बैः ।
एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं
कुष्ठम् ॥”
इति नवकषायः ॥ २५६ ॥
“पटोलखदिरारिष्टत्रिफलाकृष्णवेत्रजम् ।
तिक्ताशनः पिबेत् क्वाथं कुष्ठी कुष्ठं व्यपोहति ॥”
इति पटोलादि ॥ २५७ ॥
“धात्रीखदिरयोः क्वाथं पीत्वा वल्गुजसंयुतम् ।
शङ्खेन्दुधवलं श्वित्रं तूर्णं हन्ति न संशयः ॥”
इति धात्रीखदिरक्वाथः ॥ २५८ ॥ * ॥
अथ शीतपित्ते ।
“उदर्द्दे वमनं कार्य्यं पटोलारिष्टवारिणा ॥”
इति पटोलारिष्टजलम् ॥ २५९ ॥ * ॥
अथाम्लपित्ते ।
“निस्तुषयववृषधात्रीक्वाथस्त्रिसुगन्धियुतः पीतः ।
अपनयति चाम्लपित्तं यदि भुङ्क्ते मुद्गयूषेण ॥”
इति निस्तुषयवादि ॥ २६० ॥
“कफपित्तवमीकण्डूज्वरविस्फोटदाहहा ।
पाचनो दीपनः क्वाथः शृङ्गवेरपटोलयोः ॥”
इति शृङ्गवेरपटोलक्वाथः ॥ २६१ ॥
“पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत् ।
कण्डूपामार्त्तिशूलघ्नं कफपित्ताग्निमान्द्यजित् ॥”
इति पटोलादि ॥ २६२ ॥
“पटोलविश्वामृतरोहिणीकृतं
जलं पिबेत् पित्तकफोच्छ्रये च ।
शूलभ्रमारोचकवह्निमान्द्य-
कासज्वरच्छर्द्दिनिवारणन्तत् ॥”
इति पटोलादि ॥ २६३ ॥
“यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत् ।
नाशयेदम्लपित्तञ्च अरुचिञ्च वमिन्तथा ॥”
इति यवादि ॥ २६४ ॥
“वास्रामृतापर्पटकभूनिम्बनिम्बमार्कवैः ।
त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥”
इति दशाङ्गम् ॥ २६५ ॥
“फलत्रिकं पटोलञ्च तिक्ताक्वाथः सितायुतः ।
पीतः क्लीतकमध्वक्तो ज्वरच्छर्द्द्यम्लपित्तजित् ॥”
इति फलत्रिकादि ॥ २६६ ॥
“पटोलधन्याकमहौषधाब्दैः
कृतः कषायो विनिहन्ति शीघ्रम् ।
मन्दानलं पित्तवलासदाह-
च्छर्द्दिज्वरामानिलशूलरोगान् ॥”
इति पटोलादि ॥ २६७ ॥
“छिन्नोद्भवानिम्बपटोलपत्रं
फलत्रयं सुक्वथितं सुशीतम् ।
क्षौद्रान्वितं पीतमनेकरूपं
सुदारुणं हन्ति तदम्लपित्तम् ॥”
इति छिन्नोद्भवादि ॥ २६८ ॥
“पटोलत्रिफलानिम्बशृतं मधुयुतं पिबेत् ।
पित्तश्लेष्मज्वरच्छर्द्दिदाहशूलोपशान्तये ॥”
इति पटोलादि ॥ २६९ ॥
“सिंहस्यामृतभण्टाकीक्वाथं कृत्वा समाक्षिकम् ।
अम्लपित्तं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम् ॥”
इति सिंहास्यादि ॥ २७० ॥
इति अम्लपित्ताधिकारः ॥ * ॥
अथ विसर्पे ।
“तृणवर्ज्जं प्रयोक्तव्यं पञ्चमूलचतुष्टयम् ॥”
इति पञ्चमूलत्रयम् ॥ २७१ ॥
“मुस्तारिष्टपटोलानां क्वाथः सर्व्वविसर्पनुत् ॥”
इति मुस्तादि ॥ २७२ ॥
“धात्रीपटोलमुद्गानामथवा घृतसंप्लुतः ॥”
इति धात्र्यादि ॥ २७३ ॥
“अमृतवृषपटोलं निम्बपत्रैरुपेतं
त्रिफलखदिरसारं व्याधिघातञ्च तुल्यम् ।
क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तं
जयति विषविसर्पान् कुष्ठमष्टादशाख्यम् ॥”
इति नवकषायः ॥ २७४ ॥
“अमृतवृषपटोलं मुस्तकं सप्तपर्णं
खदिरमसितवेत्रं निम्बपत्रं हरिद्रे ।
विविधविषविसर्पान् कुष्ठविस्फोटकण्डू-
रपनयति मसूरीं शीतपित्तं ज्वरञ्च ॥”
इति अमृतादि ॥ २७५ ॥
“पटोलामृतभूनिम्बवासकारिष्टपर्पटैः ।
खदिराब्दयुतैः क्वाथो विस्फोटार्त्तिज्वरापहः ॥”
इति पटोलादि ॥ २७६ ॥
“पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः ।
समुर्व्वा रोहिणी पाठा रजनी सदुरालभा ॥
कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम् ।
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम् ॥”
इति पटोलादि ॥ २७७ ॥
“भूनिम्बवासाकटुकापटोल-
फलत्रिकाचन्दननिम्बसिद्धः ।
विसर्पदाहज्वरवक्त्रशोष-
विस्फोटतृष्णावमिनुत् कषायः ॥”
इति भूनिम्बादि ॥ २७८ ॥
“सकफे पित्तयुक्ते तु त्रिफलां योजयेन्नरः ।
दुरालभां पर्पटकं पटोलं कटुकान्तथा ।
कोष्णं गुग्गुलुसंयुक्तं पिबेद्बा खदिराष्टकम् ॥”
इति दुरालभादि ॥ २७९ ॥
“कुण्डली पिचुमर्द्दाम्बु खदिरेन्द्रयवाम्बु वा ।
विस्फोटान्नाशयत्याशु वायुर्जलधरानिव ॥”
इति कुण्डल्यादि ॥ २८० ॥ * ॥
अथ मसूर्य्याम् ।
“दुरालभां पर्पटकं भूनिम्बं कटुरोहिणीम् ।
श्लैष्मिक्यां पित्तजायां वा पाने निःक्वाथ्य दापयेत् ॥”
इति दुरालभादि ॥ २८१ ॥
“निम्बं पर्पटकं पाटां पटोलं कटुरोहिणीम् ।
वासां दुरालभां धात्रीमुशीरं चन्दनद्बयम् ॥
एष निम्बादिकः क्वाथः पीतः शर्करया युतः ।
हन्ति त्रिदोवमसूरीं क्षयवीसर्पसम्भवाम् ॥
पृष्ठ ३/०९७
उत्थिता प्रविशेद्या तु पुनस्तां वाह्यतो नयेत् ॥”
इति निम्बादि ॥ २८२ ॥
“पटोलकुण्डलीमुस्तवृषधन्वयवासकैः ।
भूनिम्बनिम्बकटुकापर्पटैश्च शृतं जलम् ॥
मसूरीं शमयेदामां पक्वाञ्चैव विशोषयेत् ।
नातः परतरं किञ्चिद्विस्फोटज्वरशान्तये ॥”
इति पठोलादि ॥ २८३ ॥
“पटोलमूलारुणतण्डूलीयकं
पिबेद्धरिद्रामलकल्कसंयुतम् ।
मसूरिविस्फोटविदाहशान्तये
तदेव पित्तास्रवमिज्वरापहम् ॥”
इति पटोलादि ॥ २८४ ॥
“पटोलमूलारुणतण्डूलीयकं
तथैव धात्रीखदिरेण संयुतम् ।
पिबेज्जलं सुक्वथितं सुशीतं
मसूरिकारोगविनाशनं परम् ॥”
इति पटोलमूलादि ॥ २८५ ॥
“खदिरत्रिफलारिष्टपटोलामृतवासकैः ।
क्वाथोऽष्टकाङ्गो जयति रोमान्तीञ्च मसूरिकाम् ॥
वीसर्पकुष्ठविस्फोटकण्ड्वादीनपि पानतः ॥”
इति खदिराष्टकम् ॥ २८६ ॥
“अमृतादिकषायस्तु जयेत् पित्तकफात्मिकाः ॥”
इति अमृतादि ॥ २८७ ॥
“जातीपत्रं समञ्जिष्ठं दार्व्वीं पूगफलं शमीम् ।
धात्रीफलं समधुकं क्वथितं मधुसयुतम् ॥
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशश्यते ॥”
इति जातीपत्रादि ॥ २८८ ॥
“अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ॥”
इति गवेधुमधुकक्वाथः ॥ २८९ ॥
“वेदनादाहशान्त्यर्थं स्वराणाञ्च विशुद्धये ।
सगुग्गुलं वराक्वाथं युञ्ज्याद्वा खदिराष्टकम् ॥”
इति वराक्वाथखदिराष्टकौ ॥ २९० ॥
“निम्बातिमुक्तकाशोकप्लक्षवेतसपल्लवैः ।
निशापर्य्युषितः क्वाथो मसूरीभयनाशनः ॥”
इति निम्बादि ॥ २९१ ॥ इति मसूर्य्यधिकारः ॥ * ॥
अथ मुखरोगे ।
“बृहतीभूमिकदम्बककण्टकार्य्याः क्वाथः ।
गण्डूषतैलयुक्तः क्रिमिदस्तस्य वेदनाशमनः ॥”
इति बृहत्यादि ॥ २९२ ॥
“क्वाथपानन्तु दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् ।
हरीतकीकषायो वा पेयो माक्षिकसंयुतः ॥”
इति दार्व्व्यादिहरीतकीकषायौ ॥ २९३ ॥
“कटुकातिविषादारुपाठामुस्तकलिङ्गकाः ।
गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः ॥”
इति कटकादि ॥ २९४ ॥ * ॥
मुखपाके ।
“जातीपत्रामृताद्राक्षायासदार्व्वीफलत्रिकैः ।
क्राथः क्षौद्रयुतः शीतो गण्डूषो मुखपाकनुत् ॥”
इति जातीपत्रादि ॥ २९५ ॥
“पटोलनिम्बजम्ब्वाम्रमालतीनवपल्लवाः ।
पञ्चपल्लवकः श्रेष्ठः कषायो मुखधावने ॥”
इति पटोलादि ॥ २९६ ॥
“पञ्चवल्ककषायो वा त्रिफलाक्वाथ एव वा ।
मुखपाकेषु सक्षौद्रः प्रयोज्यो मुखधावने ॥”
इति पञ्चवल्कत्रिफलाकषायौ ॥ २९७ ॥
“स्वरसः क्वथितो दार्व्व्या घनीभूतो रसक्रिया ।
सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा ॥”
इति दार्व्वीक्वाथः ॥ २९८ ॥
“सप्तच्छदोशीरपटोलमुस्त-
हरीतकीतिक्तकरोहिणीभिः ।
यष्ट्याह्वराजद्रुमचन्दनैश्च
क्वाथं पिबेत् पाकहरं मुखस्य ॥”
इति सप्तच्छदयष्ट्याह्वादिकषायौ ॥ २९९ ॥
“पटोलशुण्ठीत्रिफलाविशाला-
त्रायन्तितिक्तात्रिवृतामृतानाम् ।
पीतः कषायो मधुना निहन्ति
मुखे स्थितस्तस्य गदानशेषान् ॥”
इति पटोलादि ॥ ३०० ॥
“क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः ।
निषेव्या भक्षणीया वा त्रिफला मुखपाकहा ॥”
इति त्रिफलादि ॥ ३०१ ॥
इति मुखरोगाधिकारः ॥ * ॥
अथ प्रदरे ।
“दार्व्वीरसाञ्जनवृषाब्दकिरातविल्व-
भल्लातकैरवकृतो मधुना कषायः ।
पीतो जयत्यतिबलं प्रदरं सशूलं
पीतासितारुणविलोहितनीलकृष्णम् ॥”
इति दार्व्व्यादि ॥ ३०२ ॥ * ॥
अथ योनिव्यापदि ।
“गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥”
इति गुडूचीत्रिफलादन्तीक्वाथाः ॥ ३०३ ॥
अथ गर्भिण्याम् ।
“चन्दनं शारिवालोध्रमृद्वीकाशर्करान्वितम् ।
एष क्वाथः प्रदातव्यो गर्भिण्या ज्वरशान्तये ॥”
इति चन्दनादि ॥ ३०४ ॥
“ह्रीवेरारलुरक्तचन्दनबलाधन्याकवत्सादनी-
मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद्गर्भिणी ।
नानावर्णरुजातिसारकगदे गर्भाश्रिते वा ज्वरे
योगोऽयं मुनिभिः पुरा निगदितः सूत्यामये-
षूत्तमः ॥”
इति बृहथ्रीवेरादि ॥ ३०५ ॥ * ॥
अथ स्तनरोगे ।
“हरिद्रादिं वचादिं वा प्रपिबेत् स्तन्यवृद्धये ॥”
इति हरिद्रादिवचादिक्काथौ ॥ ३०६ ॥
“तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत् ॥”
इति दशमूलक्वाथः ॥ ३०७ ॥
“पित्तदुष्टेऽमृताभीरुपटोलं निम्बचन्दनम् ।
धात्री कुमारश्च पिबेत् क्वाथयित्वा सशारिवम् ॥”
इति अमृतादि ॥ ३०८ ॥
“कफे वा त्रिफलाचव्यभूनिम्बकटुरोहिणी ॥”
इति त्रिफलादि ॥ ३०९ ॥
“धात्री स्तन्यविशुद्ध्यर्थं मुद्गाष्टकरसाशना ।
भार्गीदारुवचापाठाः पिबेत् सातिविषाःशृताः ॥”
इति भार्ग्यादि ॥ ३१० ॥
“सघृतं त्रिफलाक्वाथं स्तनरोगहरं पिवेत् ॥”
इति सघृतत्रिफलाक्वाथः ॥ ३११ ॥ * ॥
अथ सूतिकारोगे ।
“अमृतानागरसहचरभद्रोत्कटपञ्च-मूलजलद-
जलम् ॥
शृतशीतं मधुयुतं निवारयति सूतिकातङ्कम् ॥”
इति सूतिकादशमूलम् ॥ ३१२ ॥
“सहचरपुष्करवेतसमूलं वैकङ्कतदारुकुलत्थ-
समम् ।
जलमत्र ससैन्धवहिङ्गुयुतं सद्यो ज्वरसूतिक-
शूलहरम् ॥”
इति सहचरादि ॥ ३१३ ॥
“दशमूलीकृतः क्वाथः सद्यः सूतीरुजापहः ॥”
इति दशमूली ॥ ३१४ ॥ * ॥
अथ मक्कल्लशूले ।
“सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् ।
यवक्षारं पिवेत्तत्र मस्तुनोष्णोदकेन वा ॥
पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम् ॥”
इति पिप्पल्यादिगणक्वाथः ॥ ३१५ ॥
इति स्त्रीरोगाधिकारः ॥ * ॥
अथ बालरोगे ।
“भैषज्यं पूर्ब्बमुद्दिष्टं नराणां यज्ज्वरादिषु ।
कार्य्यन्तदेव बालानां मात्रा त्वस्य कनीयसी ॥
हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः ।
शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित् ॥”
इति हरिद्रादि ॥ ३१६ ॥
“विल्वञ्च पुष्पाणि च धातकीनां
जलं सलोध्रं गजपिप्पली च ।
क्वाथावलेहौ मधुना विमिश्रौ
बालेषु योज्यावतिसारितेषु ॥”
इति विल्वादिक्वाथः ॥ ३१७ ॥
“समङ्गाधातकीलोध्रशारिवाभिः शृतं जलम् ।
दुर्व्वारेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥”
इति समङ्गादि ॥ ३१८ ॥
“नागरातिविषामुस्तबालकेन्द्रयवैः शृतम् ।
कुमारं पाययेत् प्रातः सर्व्वातीसारनाशनम् ॥”
इति नागरादि ॥ ३१९ ॥
“विल्वमूलकषायेण लाजाश्चैव सशर्कराः ।
आलोड्य पाययेद्बालं छर्द्द्यतीसारनाशिनीः ॥”
इति सशर्करलाजयुक्तविल्वमूलकषावः ॥ ३२० ॥
“पटोलत्रिफलारिष्टहरिद्राक्वथितं पिबेत्
क्षतविस्फोटवीसर्पज्वराणां शान्तये शिशुः ॥”
इति पटोलादि ॥ ३२१ ॥ * ॥
अथ विषे ।
“कटभ्यर्ज्जुनशौरीयशेलुक्षीरिद्रुमत्वचः ।
कषायकल्कचूर्णाः स्युः कीटलूतावणापहाः ॥”
इति कटभ्यादि ॥ ३२२ ॥ इति चक्रपाणिदत्तः ॥

पाचनं, त्रि, पाचयिता । इति मेदिनी । ने, ९१

अथ किशिष्टद्रव्याजीर्णे विशिष्टं पाचनद्रव्यमाहा ।
“अलं पनसपाकाय फलं कदलसम्भवम् ।
कदलस्य तु पाकाय बुधैरभिहितं घृतम् ॥
घृतस्य परिपाकाय जम्बीरस्य रसो हितः ॥
पृष्ठ ३/०९८
नारिकेलफलतालबीजयोः
पाचकं सपदि तण्डुलं विदुः ।
क्षीरमाशु सहकारपाचनं
चारमज्जनि हरीतकी हिता ॥
मधूकमालूरनृपादनानां
परूषखर्ज्जूरकपित्थकानाम् ।
पाकाय पेयं पिचुमर्द्दबीजं
घृतेऽपि तक्रेऽपि तदेव देयम् ॥
खर्ज्जूरशृङ्गाटकयोः प्रशस्तं
विश्वौषधं कुत्र च भद्रमुस्तम् ।
यज्ञाङ्गबोधिद्रुफलेषु शीतं
प्लक्षे तथा वार्य्युषितं प्रणीतम् ॥
तण्डुलेषु पयसः पयो हितं
दीप्यकन्तु चिपिटे कणायुतम् ।
यष्टिका दधिजलेन जीर्य्यते
कर्कटी च सुमनेषु गीर्य्यते ॥”
मुमनेषु गोधूमेषु । गीर्य्यते कथ्यते ।
गोधूममाषहरिमन्थसतीलमुद्ग-
पाको भवेज्झटिति मातुलपुत्त्रकेण ।
खण्डञ्च खण्डयति माषभवन्त्वजीर्णं
तैलं कुलत्थमथवा विद्धाति जीर्णम् ॥
मातुलपुत्त्रकः धुत्तूरफलम् ॥
कङ्गूश्यामाकनीवाराः कुलत्थञ्चाविलम्बितम् ।
दध्नो जलेन जीर्य्यन्ति तैदलाः काञ्जिकेन तु ॥
पिष्टान्नं शीतलं वारि कृशरां सैन्धवं पचेत् ।
माषेण्डरीनिम्बमूलं पायसं मुद्गयूषकैः ॥
वटो वेशवाराम्लवङ्गेन फेनी-
शमं पर्पटः शिग्रुवीजेन याति ।
कणामूलतो लड्डुकापूपशट्टा-
विपाको भवेच्छष्कुलीमण्डयोश्च ॥
वेसवारः वेसर इति लोके । तद्यथा, --
स्नेहो निशाहिङ्गुलवङ्गकैला-
धन्याकजीरार्द्रकनागराणि ।
अम्लोषणं सैन्धवपर्णमन्ने
यथोचितं संस्कृतये प्रणीतमिति ॥
शट्टा शट्टकः पानकविशेषः । मण्डः माण्डे इति
लोके ।
किमत्र चित्रं बहुमत्स्यमांस-
भोजी सुखी काञ्जिकपानतः स्यात् ।
इत्यद्मुतं केवलवह्निपक्व-
मांसेन मत्स्यः परिपाकमेति ॥
आममाम्रफलं मीने तद्वीजं पिशिते हितम् ।
कूर्म्ममांसं यवक्षाराच्छीघ्रं पाकमुपैति हि ॥
कपोतपारावतनीलकण्ठ-
कपिञ्चलानां पिशितानि भुक्त्रा ।
कासस्य मूलं परिपीय पिष्टं
सुखी भवेन्ना वहुशो हि दृष्टम् ॥
कपोतो धवलपाण्डुः ।
शाकानि सर्व्वाण्यपि यान्ति पाकं
क्षारेण सद्यस्तिलनालजेन ।
चञ्चूकसिद्धार्थकवास्तुकानां
गायत्त्रिसारक्वथितेन पाकः ॥
चञ्चूक चेचु इति लोके । गायत्त्री खदिरः ॥
पलङ्किकाकेमुककारवेल्ली-
वार्त्ताकुवंशाङ्कुरमूलकानाम् ।
उपोदिकालावुपटोलकानां
सिद्धार्थको मेघरवस्य पक्ता ॥
मेघरवः चवराई इति लोके ।
विपच्यते शूरणकं गुडेन
तथालुकं तण्डुलजोदकेन ।
पिण्डालुकं जीर्य्यति कोरदूषात्
कशेरुपाकः किल नागरेण ॥
लवणस्तण्डुलतोयात् सर्पिर्जम्बीरकाद्यम्लात् ।
मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिका-
त्तैलम् ॥
क्षीरं जीर्य्यति तक्रेण तद्गव्यं कोष्णमण्डकात् ।
माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि ॥
मण्डकः माण्डे इति लोके ।
रसाला जीर्य्यति व्योषात् खण्डं नागरभक्षणात् ।
सिता नागरमुस्तेन तथेक्षुश्चाद्रिकारसात् ॥
जरामिरा गैरिकचन्दनाभ्या-
मभ्येति शीघ्रं मुनिभिः प्रणीतम् ।
उष्णेन शीतं शिशिरेण चोष्णं
जीर्णो भवेत् क्षारगणस्तथाम्लैः ॥
इरा मदिरा ।
तप्तं तप्तं हेम वा तारमग्नौ
तोये क्षिप्तं सप्तकृत्वस्तदम्भः ।
पीत्वाजीर्णं तोयजातं निहन्या-
त्तत्र क्षौद्रं भद्रमुस्तं विशेषात् ॥
तत्र तोयाजीर्णे । इति भावप्रकाशे जठ-
राग्निविकाराजीर्णविसूचिकालसकविलम्बिका-
चिकित्सा ॥

पाचनः, पुं, (पाचयतीति । पच् + णिच् + “नन्दि-

ग्रहीति ।” ३ । १ । १३४ । इति ल्युः ।) अग्निः ।
इति मेदिनी । ने, ९० ॥ अम्लरसः । इति हेम-
चन्द्रः । ६ । २४ ॥ रक्तैरण्डः । इति राज-
निर्घण्टः ॥

पाचनकः, पुं, (पाच्यतेऽनेनेति । पच + णिच् +

करणे ल्युट् । ततः संज्ञायां कन् ।) टङ्कणः ।
इति हेमचन्द्रः । ४ । १० ॥

पाचनी, स्त्री, (पाच्यते भुक्तद्रव्यादिकं यथा । पच +

णिच् + ल्युट् । स्त्रियां ङीप् ।) हरीतकी ।
इति मेदिनी । ने, ९१ ॥ (पाचयतीति व्युत्पत्या
परिपाचके वाच्यलिङ्गः । यथा, भावप्रकाशे
पूर्ब्बखण्डे १ भागे ।
“कण्टकारी सरा तिक्ता कटुका दीपनी लधुः ।
रूक्षोष्णा पाचनी कासश्वासजरकफानिलान् ॥”)

पाचलं, क्ली, (पाचयतीति । पच् + णिच् +

बाहुलकात् कलन् । यद्बा, पाचं पाचनं
लातीति । ला + कः ।) पाचनम् । इति
मेदिनी । ले, १०९ ॥

पाचलः, पुं, (पाचयतीति । पच् + णिच् + बाहुल-

कात् कलन् ।) पाचकः । अग्निः । राधन-
द्रव्यम् । वायुः । इति शब्दरत्नावली ॥

पाची, स्त्री, (पाचयति स्वपत्ररसादिप्रलेपादिना

परिपक्वयति व्रणानिति । पच + णिच् + “सर्व्व-
धातुभ्य इन् ।” उणां ४ । ११७ । इति इन् ।
“कृदिकारादक्तिनः ।” ४ । १ । ४५ । इत्यस्य
वार्त्तिकोक्त्या ङीष् ।) लताविशेषः । पाचि इति
पच्चे इति च हिन्दी भाषा । तत्पर्य्यायः । मर-
कतपत्री २ हरितलता ३ हरितपत्रिका ४
पत्री ५ सुरभिः ६ मालारिष्टा ७ गारुत्मत-
पत्रिका ८ । अस्या गुणाः । कटुत्वम् । तिक्त-
त्वम् । उष्णत्वम् । कषायत्वम् । वातदोषग्रह-
भूतविकारनाशित्वम् । त्वग्दोषप्रशमनत्वम् ।
व्रणेषु हितत्वञ्च । इति राजनिर्घण्टः ॥

पाजः, [स्] क्ली, (पाति रक्षतीति पात्यनेनेति

वा । पा रक्षणे + “पातेर्बले जुट् च ।” उणां
४ । २०२ । इति असुन् जुडागमश्च ।) बलम् ।
इत्युणादिकोषः ॥ (यथा, ऋग्वेदे । ८ । ४६ । २५ ।
“आ नो वायो महेतने याहि मखाय पाजसे ॥”)

पाञ्चकपालः, त्रि, (पञ्चकपालस्यायमिति । “तस्ये-

दम् ।” ४ । ३ । १२० । इत्यण् ।) पञ्चकपाल-
यागसम्बन्धी ॥ इति व्याकरणम् ॥

पाञ्चजन्यः, पुं, (पञ्चजने दैत्यविशेषे भवः । “पञ्च-

जनादुपसंख्यानम् ।” ४ । ३ । ५८ । इत्यस्य
वार्त्तिकोक्त्या ञ्यः ।) विष्णुशङ्खः । इत्यमरः ।
१ । १ । २९ ॥ “पञ्चजनो नाम दैत्यः समुद्रे तिमि-
रूप आसीत् तदस्थिजत्वात् ।” इति भरतः ॥
(यथा, गीतायाम् । १ । १५ ।
“पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥”
अस्य विवरणम् यथा, हरिवंशे । ८९ । १५ -- १७ ।
“समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।
तिमिरूपेण तं बालं ग्रस्तवानिति माधव ! ॥
स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।
न चाससाद तं बालं गुरुपुत्त्रं तदाच्युतः ॥
स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्द्दनः ।
यः स देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥”
पञ्चभिः काश्यपवशिष्टप्राणाङ्गिरसच्यवनैर्जनै-
र्निर्वृत्तः । इति ष्यञ् ।) अग्निः । इति मेदिनी ।
ये, १२२ ॥ (यथा, महाभारते । ३ । २१९ । १-५ ।
“काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्त्रकः ।
अग्निराङ्गिरसश्चैव च्यवनस्त्रिसुवर्च्चकः ॥
अचरत् स तपस्तीव्रं पुत्त्रार्थे बहुवार्षिकम् ।
पुत्त्रं लभेयं धर्म्मिष्ठं यशसा ब्रह्मणा समम् ॥
महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ ।
जज्ञे तेजो महार्च्चिष्मान् पञ्चवर्णः प्रभावनः ॥
समिद्धोऽग्निः शिरस्तस्य बाहू सूर्य्यनिभौ तथा ।
त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ! ॥
पञ्चवर्णः सुतपसा कृतस्तैः पञ्चभिर्जनैः ।
पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः ॥”
हारीतमुनिवंशीयस्य दीर्घबुद्धेः पुत्त्रः । इति
स्कन्धपुराणे सह्याद्रिखण्डम् । १ । २७ । ४२ ॥)

पाञ्चजन्यधरः, पुं, (पाञ्चजन्यं तदाख्यया प्रसिद्धंशङ्खं

धरतीति । धृ + अच् ।) विष्णुः । इति हारावली ॥
पृष्ठ ३/०९९

पाञ्चलिका, स्त्री, (पञ्चाली + स्वार्थे अण् । ततः

कन् ततष्टापि अत इत्वञ्च ।) पञ्चालिका ।
इति भरतद्विरूपकोषः ॥

पाञ्चशब्दिकं, क्ली, (पञ्चभिः शब्दैर्निर्वृत्तम् ।

“तेन निर्वृत्तम् ।” ५ । १ । ७९ । इति ठक् ।)
पञ्चप्रकारवाद्यम् । यथा, स्कान्दे रेवाखण्डे ।
“अङ्गजं चर्म्मजञ्चैव तन्त्रजं कांस्यजं तथा ।
फुत्कृतञ्चेति मुनिभिः कथितं पाञ्चशब्दिकम् ॥”

पाञ्चार्थिकः, पुं, (पञ्चार्थाः सन्त्यत्र । “अत इनि-

ठनौ ।” ५ । २ । ११५ । इति ठन् ।) पाशु-
पतः । यथा, --
“पाञ्चार्थिकः पाशुपतश्चिद्रूपः स्फूर्त्तिमान्मतः ॥”
इति त्रिकाण्डशेषः ॥

पाञ्चालं, क्ली, (पञ्चाल एव । पञ्चाल + स्वार्थे

अण् ।) शास्त्रम् । यथा, --
“पितृहूर्नृपपुर्य्या द्बार्द्दक्षिणेन पुरञ्जनः ।
राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥
इति श्रीभागवते । ४ । पुरञ्जनोपाख्याने । २५ । ५० ॥
“पञ्चानां विषयाणामन्यतोऽनवगतानां प्रकाश-
नायालमिति पञ्चालं शास्त्रम् ।” इति ।
“प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञकम् ।”
इति च तट्टीकायां श्रीधरस्वामी ॥
अत्र पञ्चालमिति पाठः किन्तु स्वार्थे ष्णप्रत्यये
पाञ्चालमपि भवति ॥

पाञ्चालः, त्रि, (पञ्चाले तदाख्यया प्रसिद्धे प्रदेशे

भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।)
पञ्चालदेशोद्भवः ॥

पाञ्चालः, पुं, (पञ्चभिः प्रधानाभिर्नदीभिरलति

पर्य्याप्नोतीति पञ्चालः । ततः स्वार्थे अण् ।)
देशविशेषः । स तु द्रुपदराजनगरम् । अधुना
फरक्कावाद इति ख्यातः ॥ (यथा, महाभारते ।
१ । १३८ । ३ ।
“पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्द्धनि ।
पर्य्यानयत भद्रं वः सा स्यात् परमदक्षिणा ॥”
तद्देशवासिषु पुं भूम्नि ।) यथा, --
“पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ।”
इत्यादि विराटपर्व्व ॥
(ब्रह्मदत्तस्य सहचरविशेषः । यथा, हरिवंशे ।
२३ । २२ ।
“पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा ॥”)

पाञ्चालिका, स्त्री, (पाञ्चाली + स्वार्थे कन् ! ततो

ह्रस्वष्टाप् च ।) वस्त्रदन्तादिकृतपुत्तलिका ।
तत्पर्य्यायः । पुत्त्रिका २ । इत्यमरः ॥ पञ्चा-
लिका ३ । इति भरतः ॥ शालभञ्जी ४ । इति
हेमचन्द्रः ॥ पाञ्चाली ५ शालभञ्जिका ६ । इति
जटाधरः ॥ (रीतिविशेषः । तल्लक्षणं यथा,
साहित्यदर्पणे । ९ । ५ ।
“--वर्णैः शेषैः पुनर्द्वयोः ।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥”)

पाञ्चाली, स्त्री, (पञ्चभिर्वर्णैरलतीति । अल +

अच् । गौरादित्वात् ङीष् ।) पाञ्चालिका ।
(यथा, देवीभागवते । ४ । १९ । ४ ।
“यन्माया मोहितश्चाहं सदावर्त्ते परात्मनः ।
परवान् दारुपाञ्चाली मायिकस्य यथा वशे ॥”)
(पाञ्चाले भवा । पाञ्चाल + अण् । स्त्रियां ङीप् ।)
पाण्डवपत्नी । तत्पर्य्यायः । कृष्णा २ पाण्डु-
शर्म्मिला ३ पार्व्वती ४ द्रौपदी ५ याज्ञसेनी ६
वेदिजा ७ । इति जटाधरः ॥ सैरन्ध्री ८ नित्य-
यौवना ९ । इति हेमचन्द्रः ॥ (यथा, महा-
भारते । १ । १६८ । ४१ ।
“कुमारी चापि पाञ्चाली वेदीमध्यात् समु-
त्थिता ॥”
अस्य जन्मादिविवरणं द्रौपदीशब्दे द्रष्टव्यम् ॥
रीतिविशेषः । पाञ्चालानां प्रियत्वादेवास्या-
स्तथात्वम् । यथा, साहित्यदर्पणे । ९ । २ ।
“वैदर्भी चाथ गौडी च पाञ्चाली लाटिका
तथा ॥”
एतल्लक्षणं यदाह भोजः ।
“समस्तपञ्चषपदामोजःकान्तिसमन्विताम् ।
मधुरां सुकुमाराञ्च पाञ्चालीं कवयो विदुः ॥”)

पाट्, व्य, (पाटयति कार्यान्तरप्रेरणात् पूर्ब्ब-

कार्य्यं छेदयतीति । पट + णिच् + क्विप् ।) सम्बो-
धनम् । इत्यमरः । ३ । ४ । ७ ॥

पाटकः, पुं, (पाटयति दीप्यतीति । पाटि +

ण्वुल् ।) महाकिस्कुः । कटकान्तरम् । वाद्यम् ।
अक्षादिचालनम् । मूलद्रव्यापचयः । रोधः ।
इति मेदिनी ॥ ग्रामैकदेशः । इति हेमचन्द्रः ॥
(पाटयति छिनत्तीति । छेदके । भेदके, त्रि ।
यथा, हरिवंशे । १७१ । १४ ।
“अहं तमो घनीभूतमहमेब च पाटकः ॥”)

पाटच्चरः, पुं, (पाटयन् छिन्दन् चरतीति । चर +

पचाद्यच् । पृषोदरादित्वात् साधुः ।) चौरः ।
इत्यमरः ॥ (यथा, प्रद्युम्नविजये । ७ अङ्के ।
“मन्त्रिन् ! कुलिङ्गसाहसिकत्वं किलैतस्य पाप-
पाटच्चरस्य ॥”)

पाटनं, क्ली, (पट + णिच् + भावे ल्युट् ।) छेद

नम् । यथा, --
“अस्थिभङ्गं गवां कृत्वा लाङ्गूलच्छेदनं तथा ।
पाटने कर्णशृङ्गाणां मासार्द्धन्तु यवान् पिबेत् ॥”
इति प्रायश्चित्ततत्त्वे यमः ॥

पाटलं, क्ली, (पाटलो वर्णोऽस्यास्तीति । पाटल +

अर्श आदित्वादच् ।) पाटलीपुष्पम् । इत्य-
मरः ॥ गोलावाख्यपुष्पमिति केचित् ॥ (यथा,
भागवते । ४ । ६ । १४ ।
“पाटलाशोकवकुलैः कुन्दैः कुरुवकैरपि ॥”
पाटलेति केचित् ॥)

पाटलः, पुं, (पाटयतीति । पट + णिच् + वृषादि-

त्वात् कलच् ।) श्वेतरक्तवर्णः । गोलाविरङ्ग
इति भाषा । आशुधान्यम् । इत्यमरः ॥ अस्य
गुणाः । अत्युष्णत्वम् । बद्धनिष्यन्दित्वम् । त्रिदोष-
कारित्वञ्च । इति राजवल्लभः ॥ तद्बर्णयुक्ते, त्रि ॥
(यथा, रघौ । २ । २९ ।
“स पाटलायां गवि तस्थिवांसं
धनुर्द्धरः केशरिणं ददर्श ।
अधित्यकायामिव धातुमत्यां
लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥”)

पाटलद्रुमः, पुं, (पाटलस्य पाटलपुष्पस्य दुमो

वृक्षः । यद्वा, पाटलो द्रुमः इति नित्यकर्म्म
धारयः ।) पुन्नागवृक्षः । इति राजनिर्घण्टः ॥

पाटला, स्त्री, (पाटलो वर्णोऽस्त्यस्याः । पाटल-

वर्णत्वादेवास्यास्तथात्वम् ।) दुर्गा । यथा, --
“अपर्णानेकपर्णा च पाटला पाटलावती ॥”
इति तन्त्रसारे तस्याः शतनामस्तोत्रम् ॥
पुष्पवृक्षविशेषः । पारुल इति भाषा ॥ तत्-
पर्य्यायः । पाटलिः २ अमोघा ३ काचस्थाली ४
फलेरुहा ५ कृष्णवृन्ता ६ कुवेराक्षी ७ । इत्य-
मरः ॥ ताम्रपुष्पी ८ कुम्भिका ९ सुपुष्पिका १०
वसन्तदूती ११ स्थाली १२ स्थिरगन्धा १३
अम्बवासी १४ कालवृन्ती १५ । इति राज-
निर्घण्टः ॥ मधुदूती १६ कालास्थली १७ अलि-
वल्लभा १८ । इति भावप्रकाशः ॥ कामदूती १९
कुम्भी २० तोयाधिवासिनी २१ । इति रत्न-
माला ॥ अस्या गुणाः । तिक्तत्वम् । कटुत्वम् ।
उष्णत्वम् । कफवातशोफाध्मानवमिश्वाससन्नि-
पातनाशित्वञ्च । इति राजनिर्घण्टः ॥ तुव-
रत्वम् । अनुष्णत्वम् । दोषत्रयारुचिहिक्का-
तृष्णानाशित्वञ्च ॥ तत्पुष्पगुणाः । कषायत्वम् ।
मधुरत्वम् । हिमत्वम् । क्लेद्यत्वम् । कफाम्र-
नाशित्वञ्च । तत्फलगुणाः । पित्तातिसारदाह-
नाशित्वम् । हिक्कास्रपित्तकारित्वञ्च । इति
भावप्रकाशः ॥ * ॥ तदुत्पत्तिर्यथा, --
“गते ब्रह्मणि सर्वोऽपि तपः संहृत्य तं तदा ।
लिङ्गं चित्रबने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥
विचरन्तं तदा भूयो महेशं कुसुमायुधः ।
आरात् स्थित्वाग्रतो धन्वी सन्तापयितुमुद्यतः ॥
ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः ।
स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥
आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि ।
प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत् ॥
प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः ।
उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥
यदासीन्मुष्टिबन्धस्तु रुक्मपृष्ठो महाप्रभः ।
स चम्पकतरुर्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥
नाहस्थानं शुभाकारं यदासीद्बज्रभूषितम् ।
तज्जातं केशरारण्यं वकुलं नामतो नगैः ॥
या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता ।
जाता सा पाटला रम्या भृङ्गराजिविभूषिता ॥”
इति वामने ६ अध्यायः ॥
रक्तलोध्रः । इति शब्दचन्द्रिका ॥

पाटलापुष्पसन्निभं, क्ली, (पाटलापुष्पस्य सन्निभा

सादृश्यं यत्र ।) पद्मकाष्ठम् । इति राज-
निर्घण्टः ॥

पाटलिः, स्त्री, (पाटि + भावे घञ् । पाटो दीप्तिसं

लातीति । ला + “अच इः ।” उणां ४ । १३८ ।
इति इः । पाटलिपुष्पाणां अतिभुश्रीकतापे
वास्यातथात्वम् ।) पाटलापुष्पवृक्षः । इत्यमरः ॥
पृष्ठ ३/१००
(यथा, महाभारते । ७ । २२ । १५ ।
“तन्तु पाटलिपुष्पाणां समवर्णा हयोत्तमाः ।
वहमाना व्यराजन्त मत्सस्यामित्रघातिनः ॥”)

पाटलिपुत्त्रं, क्ली, (पाटलिः पुत्त्र इव यस्य । बहु-

पाटलिवृक्षोत्पत्तिस्थानत्वेनास्य तथात्वम् ।)
नगरविशेषः । पाटना इति ख्यातः । तत्पर्य्यायः ।
कुसुमपुरम् २ । इति हेमचन्द्रः । ४ । ४२ ॥
पुष्पपुरम् ३ पाटलिपुत्त्रकम् ४ । इति त्रिकाण्ड-
शेषः ॥ (इदन्तु गङ्गातीरस्थम् । यथा हितोप-
देशे । “अस्ति भागीरथीतीरे पाटलीपुत्त्रनाम-
धेयं नगरम् ॥”
इदमेव पुरा मगधानां राजधानी आसीत् ।
अत्रत्यसुदर्शननाम्नो भूपतेः पुत्त्राणां नीति-
विद्याधिगमाय विद्वत्कुलचूडामणिना विष्णु-
शर्म्मणा पञ्चतन्त्रहितोपदेशादयो ग्रन्था विर-
चिताः ॥)

पाटली, स्त्री, (पाटं दीप्तिं लातीति । ला + कः ।

स्तियां ङीप् ।) कटभीवृक्षः । मुष्ककवृक्षः ।
इति राजनिर्घण्टः ॥ (यथा, इन्द्रजाले १
अध्याये ।
“पुष्ये रुद्रजटामूलं मुखस्थं कारयेद्बुधः ।
ताम्बुलादौ प्रदातव्यं वश्या भवति निश्चितम् ।
तथैव पाटलीमूलं ताम्बुलेन तु वश्यकृत् ॥”)

पाटवं, क्ली, (पटोर्भावः कर्म्म वा । पटु + “इग-

न्ताञ्च लघुपूर्ब्बात् ।” ५ । १ । १३१ । इत्यण् ।)
षटुता । यथा । “पाटवं संस्कृतोक्तिषु ।” इति
हितोपदेशः ॥ (दार्ढ्यम् । यथा, पञ्चतन्त्रे । ४ । ६४ ।
“विक्षिप्यते कदाचित् धीः कर्म्मणा भोग-
दायिना ।
पुनः समाहिता सा स्यात् तदैवाभ्यासपाट-
वात् ॥”)
आरोग्यम् । इति राजनिर्घण्टः ॥ (पटो-
श्छात्राः पाटवाः । इति सिद्धान्तकौमुदी ॥)

पाटविकः, त्रि, (पाटवं पटुत्वमस्त्यस्य । पाटव +

ठन् ।) पटुः । धूर्त्तः । इति त्रिकाण्डशेषः ॥

पाटहिका, स्त्री, (पाटहं पटहावयवः तद्वदा-

कृतिरस्त्यस्याः । पाटह + ठन् । ढक्कावाद्या-
कृतिसदृशत्यादेवास्यास्तथात्वम् ।) गुञ्जा ।
इति हारावली । १४५ ॥

पाटितं, त्रि, (पाश्वते स्म इति । पट + णिच् +

क्तः ।) कृतपाटनम् । तत्पर्य्यायः । दारितम् २
भिन्नम् ३ । इति हेमचन्द्रः ॥ (यथा, सुश्रुते ।
२ । १६ ।
“पाटितमनु बहुविदारितं वेदनावच्च ॥”)

पाटी, स्त्री, (पाटयतीति । पाटि + “सर्व्वधातुभ्य

इन् ।” उणां ४ । ११७ । इति इन् । स्त्रियां वा
ङीष् ।) वृलाक्षुपः । इति राजनिर्घण्टः ॥ परि-
पाटी । अनुक्रमः । यथा, “पाटीं सद्गणितस्य
वच्मि चतुरप्रीतिप्रदां प्रस्फुटाम् ।” इत्यादि
लीलावती ॥

पाटीरः, पुं, पटीरः । इति विश्वः । (यथा,

मुकन्दमालायाम् । ३२ ।
“लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटी
पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते ।
गोविन्देति जनार्द्दनेति जगतां नाथेति कृष्णेति च
व्याहारैः समयस्तदेकमनसांपुंसामतिक्रामति ॥”)

पाट्यं, क्ली, (पट्टस्य इदम् । “तस्येदम् ।” ४ । ३ ।

१२० । इत्यण् ।) पट्टशाकम् । यथा, --
“पाट्यशाकन्तु मधुरं दुर्जरं गुरुपाकि च ॥”
इति राजवल्लभः ॥
(पाटि + यत् । पाटनीये । छेद्ये, त्रि ॥)

पाठः, पुं, (पठनमिति । पठ + भावे घञ् ।)

विधिना वेदस्याभ्यसनम् । (पठ + णिच् + भावे
घञ् ।) शिष्याणामध्यापनम् । तत्पर्य्यायः ।
महायज्ञः २ ब्रह्मयज्ञः ३ पठनम् ४ पाठना ५
पाठनम् ६ अध्ययनम् ७ अध्यापनम् ८ अध्या-
पना ९ अभ्यसनम् १० । इत्यमरभरतौ ॥
निपाठः ११ निपठः १२ । इति सङ्कीर्णवर्गे
अमरः ॥ * ॥ माहात्म्यादिपाठे तु ॐ नारा-
यणाय नमः ॐ नराय नमः ॐ नरोत्तमाय
नमः ॐ देव्यै नमः ॐ सरस्वत्यै नमः ॐ
व्यासाय नमः । इति नत्वा पाठ्यम् ।
“नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥”
इति विधेः ॥
एवञ्च भागवतीयसूतोक्तौ उदीरयेत् इत्यस्य
स्वयन्तथा उदीरयन्नन्यान् पौराणिकानुपशिक्ष-
यतीति श्रीधरस्वामिव्याख्यानमनुशासनविरुद्धम् ।
चैवेति भारतपाठाच्चकारेण व्यासो लब्धः ।
भागवते चैवेत्यत्र व्यास इति साक्षाल्लिखितम् ।
जयपदार्थमाह ब्रह्मचारिकाण्डे भविष्यपुराणम् ॥
“अष्टादशपुराणानि रामस्य चरितन्तथा ।
विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ! ॥
कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् ॥”
कार्ष्ण्य कृष्णद्वैपायनप्रणीतम् ।
“सौराश्च धर्म्मा राजेन्द्र मानवोक्ता महीपते ।
जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥”
जयव्यनेन संसारमिति जयस्तत्तद्ग्रन्थः । एव-
ञ्चार्थानवलोकनात् आचाराद्बा स्तोत्रादावेष
श्लोकः पठ्यते । मत्स्यसूक्ते वाराहीतन्त्रे च ।
“प्रणवञ्चादौ जप्त्वा च स्तोत्रं वा संहितां पठेत् ।
अन्ते च प्रणवं दद्यादित्युवाचादिपूरुषः ॥
सर्व्वत्र पाठे विज्ञेयो ह्यन्यथा विफलं भवेत् ।
शुद्धेनानन्यचित्तेन पठितव्यं प्रयत्नतः ॥
न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ।
आधारे स्थापयित्वा तु पुस्तकं वाचयेत् सुधीः ॥
हस्तसंस्थापनादेव यस्मादल्पफलं भवेत् ।
स्वयञ्च लिखितं यत्तु कृतिना लिखितन्न यत् ॥
अब्राह्मणेन लिखितं तच्चापि विफलं भवेत् ।
ऋषिच्छन्दादिकं न्यस्य पठेत् स्तोत्रं विचक्षणः ॥
स्तोत्रे न दृश्यते यत्र प्रणवन्यासमाचरेत् ।
सङ्कल्पिते स्तोत्रपाठे संख्यां कृत्वा पठेत् सुधीः ॥
अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन ।
कृते विरामे मध्ये तु अध्यायादिं पठेन्नरः ॥”
ततश्च मार्कण्डेयपुराणीयदेवीमाहात्म्यस्यादौ
ऋषिच्छन्दादिकं पठेत् । तद्यथा । प्रथम-
चरितस्य ब्रह्म ऋषिर्महाकाली देवता गायत्त्री
छन्दो नन्दा शक्ती रक्तदन्तिकाबीजमग्निस्तत्त्वं
महाकालीप्रीत्यर्थं जपे विनियोगः । मध्यम-
चरितस्य विष्णुरृषिर्म्महालक्ष्मीर्द्देवतानुष्टुप्
छन्दः शाकम्भरी शक्तिर्दुगा बीजं सूर्य्यस्तत्त्वं
महालक्ष्मीप्रीत्यर्थं जपे विनियोगः । उत्तरचरि-
तस्य रुद्र ऋषिः सरस्वती देवता उष्णिक् छन्दो
भीमा शक्तिर्भ्रामरीबीजं वायुस्तत्त्वं सरस्वती-
प्रीत्यर्थं जपे विनियोगः ॥ नैयतकालिककल्प-
तरौ भविष्यपुराणम् ॥
“इतिहासपुराणानि श्रुत्वा भक्त्या महीपते ।
मुच्यते सर्व्वपापेभ्यो ब्रह्महत्यादिमिर्विभो ॥
ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् ।
श्रुत्वान्यवर्णजाद्राजन् ! वाचकान्नरकं व्रजेत् ॥”
तथा ।
“देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः ।
ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ॥
पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ।
हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः ॥
दत्त्वा तु वाचकायेह श्रुतस्याप्नोतियत् फलम् ।”
कांस्योपदोहनाः कांस्यक्रोडाः ।
“वाचकः पूजितो येन प्रसन्नस्तस्य देवताः ॥”
तथा ।
“ज्ञात्वा सर्व्वसमाप्तिञ्च पूजयेद्वाचकं बुधः ।
आत्मानमपि विक्रीय य इच्छेत् सफलं क्रतुम् ॥”
तथा ।
“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदन्तथा ।
कलस्वरसमायुक्तं रसभावसमन्वितम् ॥
बुध्यमानः सदर्थं वै ग्रन्थार्थं कृत्स्नशो नृप ।
ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थञ्चार्पयेन्नृप ॥
य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥”
तथा ।
“सप्तस्वरसमायुक्तं काले काले विशाम्पते ।
प्रदर्शयन्रसान् सर्व्वान् वाचयेद्वाचको नृप ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
पाठस्याष्टादशदाषा यथा, --
“शङ्कितं भीतमुद्घुष्टमव्यक्तमनुनासिकम् ।
विस्वरं विरसञ्चैव विश्लिष्टं विषमाहतम् ॥
काकस्वरं शिरसितं तथा स्थानविवर्ज्जितम् ।
व्याकुलं तालहीनञ्च पाठदोषाश्चतुर्द्दश ॥
संगीतं शिरसः कम्पमल्पकण्ठमनर्थकम् ॥”
इति मार्कण्डेयपुराणम् ॥ * ॥
अध्ययनक्रमो यथा, --
“आचम्य प्रयतो नित्यमधीयीत उदङ्मुखः ।
उपसंगृह्य तत्पादौ वीक्ष्यमाणो गुरोर्मुखम् ॥”
अध्यापनक्रमो यथा, --
“अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चाचमेत् ।
प्राक् कूलान् पर्य्युपासीनः पवित्रैश्चैव पावितः ॥
प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ।
ब्राह्मणः प्रणवं कुर्य्यादन्ते च विधिवद्द्विजाः ॥
पृष्ठ ३/१०१
कुर्य्यादध्यापनं नित्यं स ब्रह्मादीनि पूर्ब्बतः ।
सर्व्वेषामेव भूतानां वेदश्चक्षुः सनातनः ॥
अधीयीताध्ययन्नित्यं ब्राह्मण्याद्धीयतेऽन्यथा ॥”
इति कौर्म्मे उपविभागे १३ अध्यायः ॥ * ॥
पाठनिषेधकालो यथा । ग्रहणेऽनध्यायो न
दृष्टोपरागमात्रविषयः ।
“त्र्यहं नकीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ।”
इति मनुवचनेन सामान्यतो निषेधात् ॥
एष त्र्यहानध्यायो ग्रस्तास्तविषय इति मिता-
क्षरा अन्यत्र त्वहोरात्रमनध्यायो याज्ञ-
वल्क्यात् । यथा, --
“सन्ध्यागर्ज्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥
पञ्चदश्यां चतुर्द्दश्यामष्टम्यां राहुसूतके ।
ऋतुसन्धिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥”
द्युनिशमहोरात्रम् । चैत्रश्रावणमार्गशीर्षाणा-
मादिप्रतिपदो नित्याः इति ब्रह्मचारिकाण्डधृत-
हारीतवचने एतासामनध्याये नित्यत्वाभिधाना-
दब्यासां काम्यत्वम् । आदिप्रतिपदः शुक्ल-
प्रतिपदः ॥
“सा च यौधिष्ठिरी सेना गाङ्गेयशरताडिता ।
प्रतिपत्पाठशीलानां विद्येव तनुतां गता ॥”
इति व्यासवचनमपि तावन्मात्रपरम् ॥ * ॥
गोतमोक्ताकालिकानध्याया यथा, --
आकालिकनिर्घातभूकम्पराहुदर्शनोल्का इति
आकालिका इति । निमित्तकालमारभ्य परेद्यु-
र्यावत् स एव कालस्तावदकालस्तत्र भवाः ॥
तथा, --
“विद्युत्स्तनितवज्रेषु महोल्कानाञ्च संप्लवे ।
आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥” * ॥
उल्कादिषु प्रतिप्रसवमाह मनुः ।
“वेदोपकरणे चैव स्वाध्याये चैव नित्यके ।
नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥”
पराशरभाष्ये कूर्म्मपुराणम् ।
“अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः ।
न धर्म्मशास्त्रेष्वन्येषु पर्व्वस्वेतानि वर्ज्जयेत् ॥”
नारदः ।
“अयने विषुवे चैव शयने बोधने हरेः ।
अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिषु ॥” * ॥
सन्ध्यागर्जने शास्त्रचिन्तानिन्दामाह कृत्य-
चिन्तामणौ दुर्व्वासाः ।
“सन्ध्यायां गर्जिते मेघे शास्त्रचिन्तां करोति यः ।
चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् ॥
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने ।
सज्योतिः स्यादनध्याय इत्याह भगवान् मनुः ॥”
इति मनुवचनं वर्षाविषयम् ॥ * ॥
अष्टम्यादिषु विशेषमाह हेमाद्रिधृतापस्तम्बः ।
“उदयास्तमिते वापि मुहूर्त्तत्रयगामि यत् ।
तद्दिनं तदहोरात्रमनध्यायविदो विदुः ॥
केचिदाहुः क्वचिद्देशे यावत्तु दिननाडिकाः ।
तावदेव त्वनध्यायो न तन्मिश्रे दिनान्तरे ॥”
तद्दिनं तां तिथिं प्राप्येत्यर्थः । दिनान्तरे तिथ्य-
न्तरे । अत्र पूर्ब्बवचनमुत्तरमीमांसाध्यायिभिः
परिगृहीतम् । परवचनन्तु अन्यग्रन्थपरम् ।
यत्तु निर्णयामृतधृतम् ।
“प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी ।
दिनं दूषयते सर्व्वं सुरा गव्यघटं यथा ॥”
तद्दूषयत इत्यभिधानात् पूर्ब्बवर्त्तितामात्रेण
सर्व्वदिनदूषणाय । राजमार्त्तण्डे ।
“प्रे को चै चा द्वितीयास्ताः प्रेतपक्षे गते तु या ।
या तु कोजागरे जाते चैत्रावल्याः परेऽपि या ॥
चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः ।
सर्व्वास्वेतास्वनध्यायः पुराणैः परिकीर्त्तितः ॥”
इति तिप्यादितत्त्वम् ॥

पाठकः, त्रि, (पाठयति अध्यापयतीति । पठ +

णिच् + ण्वुल् ।) उपाध्यायः । इति हेमचन्द्रः ।
१ । ७८ ॥ (यथा, महाभारते । ३ । ३१२ । १०५ ।
“पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः ।
सर्व्वे व्यसनिनो मूर्खा यः क्रियावान् स
पण्डितः ॥”)
धर्म्मभाणकः । इति त्रिकाण्डशेषः ॥ (पठ-
तीति । पठ + ण्वुल् । वाचकः । अध्येता ।
“चर्व्वणं गिलनञ्चापि कासितं श्वासितन्तथा ।
नीचोच्चञ्चैव गम्भीरं वर्ज्जयेत् पाठकः सुधीः ॥”
इति हारीते प्रथमस्थाने प्रथमेऽध्याये ॥)

पाठभूः, स्त्री, (पाठस्य भूर्भुमिः स्थानमित्यथः ।)

ब्रह्मारण्यम् । वेदादिपाठस्थानम् । इति
त्रिकाण्डशेषः ॥

पाठमञ्जरी, स्त्री, (मञ्जु सुन्दरं यथा तथा रायति

शब्दायते इति । मञ्जु + रै + कः । स्त्रियां
ङीप् । पृषोदरादुलोपः । ततः पाठस्य मञ्जरी
वाचिकेव ।) शारी पक्षिणी । इति शब्द-
माला ॥

पाठशाला, स्त्री, अध्यनगृहम् । पाठस्य अध्य-

यनस्य शाला गृहम् । इति षष्ठीतत्पुरुष-
समासनिष्पन्ना ॥

पाठशालिनी, स्त्री, (पाठेन शालते श्लाघते इति ।

शाल + णिनिः + ङीप् ।) शारी पक्षिणी ।
इति शब्दमाला ॥

पाठा, स्त्री, (पठ्यते बहुगुणवत्तया कथ्यते इति ।

पठ + कर्म्मणि घञ् । अजादित्वात् टाप् ।)
लताविशेषः । आकनादि इति भाषा । तत्-
पर्य्यायः । अम्बष्ठा २ अम्बष्ठिका ३ प्राचीना ४
पापचेलिका ५ यूथिका ६ स्थापनी ७ श्रेयसी ८
विद्धकर्णिका ९ एकाष्ठीला १० कुचेली ११
दीपनी १२ वनतिक्तिका १३ तिक्तपुष्पा १४
बृहत्तिक्ता १५ शिशिरा १६ वृकी १७ मालती
१८ वरा १९ देवी २० वृत्तपर्णी २१ । अस्या
गुणाः । तिक्तत्वम् । गुरुत्वम् । उष्णत्वम् ।
वातपित्तज्वरपित्तदाहातीसारशूलनाशित्वम् ।
भग्नसन्धानकारित्वञ्च । इति वैद्यकम् ॥ * ॥
“अम्बष्ठा बालिका बाला शठाम्बा बालिका-
म्बिका ।
अम्बा च माचिका चैव दृढवल्का मयूरिका ॥
गन्धपर्णी चित्रपुष्पी श्रेयसी सुखवाचिका ।
छिन्नपत्री भूरिमल्लिर्विज्ञेया षोडशाह्वया ॥
अम्बष्ठा सकषायाम्ला कफकण्ठरुजापहा ।
वातामयवलासघ्नी रुचिकृद्दीपनी परा ॥”
इति राजनिर्घण्टः ॥
“पाठाम्बष्ठाम्बष्ठकी च प्राचीना पापचेलिका ।
एकाष्ठीला रसा प्रोक्ता पाठिका वरतिक्तिका ॥
पाठोष्णा कटुका तीक्ष्णा वातश्लेष्महरी लघुः ।
हन्ति शूलज्वरच्छर्द्दिकुष्ठातीसारहृद्रुजः ॥
दाहकण्डूविषश्वासकृमिगुल्मगलव्रणान् ॥”
इति भावप्रकाशः ॥

पाठिका, स्त्री, (पाठा + स्वार्थे कन् । टापि अत

इत्वञ्च ।) पाठा । इति भावप्रकाशः ॥

पाठी, [न्] पुं, (पाठेव आकृतिर्विद्यते यस्य ।

पाठा + इनिः ।) चित्रकवृक्षः । इत्यमरः ॥
(पाठोऽस्त्यस्येति । “अत इनिठनौ ।” ५ । २ । ११५ ।
इति इनिः ।) पाठविशिष्टः ॥ (कर्म्मोपपदेनास्य
प्रमाणं यथा, मार्कण्डेये । ६८ । २६ ।
“बन्दिनामथ सूतानां विटानां लास्यपाठि-
नाम् ॥”)

पाठीकुटः, पुं, (पाठीं कुटतीति । कुट + “इगु-

पधज्ञेति ।” ३ । १ । १३५ । इति कः ।) चित्रक-
वृक्षः । इति राजनिर्घण्टः ॥

पाठीनः, पुं, (पाठिं पृष्टं नमयतीति । पाठि +

नम + णिच् + “अन्येभ्योऽपीति ।” डः । “अन्येषा
मपि दृश्यते ।” ६ । ३ । १३७ । इति दीर्घः ।)
मत्स्यविशेषः । वोयालि इति भाषा । तत्-
पर्य्यायः । सहस्रदंष्ट्रः २ । इत्यमरः ॥ सहस्र-
दंष्ट्री ३ वोदालः ४ वदालकः ५ । इति शब्द-
रत्नावली ॥ (यथा, मनुः । ५ । १६ ।
“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ॥”)
अस्य गुणाः । श्लेष्मलत्वम् । स्निग्धत्वम् । मधुर-
त्वम् । कषायत्वम् । बल्यत्वम् । वृष्यत्वम् । पाके
कटुत्वम् । रोचनत्वम् । वातपित्तजित्त्वञ्च । इति
राजवल्लभः ॥ (यथा च ।
“पाठीनः श्लेष्मलो वृष्यो निद्रालुः पिशिता-
शनः ।
दूषयेदम्लपित्तन्तु कुष्ठरोगं करोत्यसौ ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)
पाठकः । गुग्गुलुद्रुमः । इति मेदिनी । ने, ८९ ॥

पाठ्यं, त्रि, (पठ्यते इति । पठ + “ऋहलोर्ण्यत् ।”

३ । १ । १२४ । इति ण्यत् ।) पठनीयम् ।
पठितव्यम् । यथा, --
“तिष्ठ रे तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादहम् ।
अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते ॥”
इति नैषधे १७ सर्गः ॥

पाणः, पुं, (पण्यते व्यवह्नियतेऽनेनेति । पण +

करणे घञ् ।) पाणिः । इति शब्दचन्द्रिका ॥
(पण + भावे घञ् । पणनम् । समयः । यथा,
महाभारते । २ । ५७ । ८ ।
“दीव्यामहे पार्थिव ! मा विशङ्कां
कुरुष्व पाणञ्च चिरञ्च मा कृथाः ॥”)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पवं&oldid=44001" इत्यस्माद् पुनः प्राप्तिः